॥ रघुवंशं सर्ग ८ कालिदासकृतम् ॥

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ ८-१॥ दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥ ८-२॥ अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् । विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ८-३॥ स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥ ८-४॥ रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥ ८-५॥ अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् । पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ८-६॥ सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ ८-७॥ अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८-८॥ न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ ८-९॥ अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ ८-१०॥ गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ ८-११॥ तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ ८-१२॥ रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ ८-१३॥ स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ ८-१४॥ प्रशमस्थितपूर्वपार्थिवं कुलमभ्यद्यतनूतनेश्वरम् । नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥ ८-१५॥ यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ ८-१६॥ अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः । अनुपायिपदोपप्राप्तये रघुराप्तैः समियाय योगिभिः ॥ ८-१७॥ नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा । परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ ८-१८॥ अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ ८-१९॥ अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ ८-२०॥ पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् । रघुरप्यजयत्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ ८-२१॥ न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः । न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ॥ ८-२२॥ इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥ ८-२३॥ अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥ ८-२४॥ श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः । विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निरग्निचित् ॥ ८-२५॥ अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥ ८-२६॥ स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ ८-२७॥ क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्र्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥ ८-२८॥ दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ ८-२९॥ ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ ८-३०॥ बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥ ८-३१॥ स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ८-३२॥ अथ रोधसि दक्षिणादधेः श्रितगोकर्णनिकेतमीश्वरम् । उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥ ८-३३॥ कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् । अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥ ८-३४॥ भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनापलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥ ८-३५॥ अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितीम् ॥ ८-३६॥ क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ ८-३७॥ वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ८-३८॥ उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ ८-३९॥ नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ८-४०॥ प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् । स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ८-४१॥ पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया । समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ८-४२॥ विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ८-४३॥ कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि । न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ ८-४४॥ अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ८-४५॥ स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ ८-४६॥ अथवा मम भाग्यविप्लवादशनिः कल्पित एव वेधसा । यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ ८-४७॥ कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि । कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ८-४८॥ ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव । परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥ ८-४९॥ दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना । सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥ ८-५०॥ सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते । अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ८-५१॥ मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ८-५२॥ कुसुमोत्खचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् । करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ८-५३॥ तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे । ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥ ८-५४॥ इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् । निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ८-५५॥ शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् । इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ८-५६॥ नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् । तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ८-५७॥ इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी । गतिविभ्रमसादनीरवा न शुचा नानु मृतेव लक्ष्यते ॥ ८-५८॥ कलमन्यभृतासु भासितं कलहंसीषु मदालसं गतम् । पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥ ८-५९॥ त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया । विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥ ८-६०॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ८-६१॥ कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ८-६२॥ स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥ ८-६३॥ तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥ ८-६४॥ समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ८-६५॥ धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ८-६६॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ ८-६७॥ मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ८-६८॥ विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ८-६९॥ विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥ ८-७०॥ अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् । विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥ ८-७१॥ प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ८-७२॥ अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ८-७३॥ स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥ ८-७४॥ अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ ८-७५॥ असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् । न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥ ८-७६॥ मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती । श्रुणु विश्रुतसत्त्वसार तां हृदि चैनामपधातुमर्हसि ॥ ८-७७॥ पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च । स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ ८-७८॥ चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥ ८-७९॥ स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥ ८-८०॥ भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥ ८-८१॥ क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा । उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥ ८-८२॥ तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता । वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ ८-८३॥ उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया । मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८-८४॥ रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८-८५॥ अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८-८६॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८-८७॥ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८-८८॥ स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा । विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८-८९॥ न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि । द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ८-९०॥ स तथेति विनेतुरुदारमतेः प्रतिगॄह्य वचो विससर्ज मुनिम् । तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥ ८-९१॥ तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः । सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥ ८-९२॥ तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने ॥ ८-९३॥ सम्यग्विनीतमथ वर्महरं कुमार- मादिश्य रक्षणविधौ विधिवत्प्रजानाम् । रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ८-९४॥ तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो- र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ८-९५॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावजविलापो नामाष्टमः सर्गः ॥
Encoded and Proofread by Arvind Kolhatkar akolhatkar at rogers.com

% Text title            : raghuvansha8
% File name             : raghuvansha8.itx
% itxtitle              : raghuva.nsham sargaH 08 (kAlidAsakRitam)
% engtitle              : Raghuvansha by Kalidas Chapter 8
% Category              : kalidasa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : April 28, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP