ऋतुसंहार (कालिदास)
॥ १ । अथ ग्रीष्मः ॥
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतःनिदाघकालोऽयमुपागतः प्रिये ॥ १॥
निशाः शशाङ्कक्षतनीलराजयः
क्व चिद् विचित्रं जलयन्त्रमन्दिरम् ।
मणिप्रकाराः सरसं च चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥ २॥
सुवासितं हर्म्यतलं मनोरमं var मनोहरं
प्रियामुखोच्छ्वासविकम्पितं मधु ।
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३॥
नितम्बबिम्बैः सुदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४॥
नितान्तलाक्षारसरागलोहितैर्
नितम्बिनीनां चरणैः सुनूपुरैः ।
पदे पदे हंसरुतानुकारिभिर्
जनस्य चित्तं क्रियते समन्मथम् ॥ ५॥
पयोधराश्चन्दनपङ्कचर्चितास्
तुषारगौरार्पितहारशेखराः ।
नितम्बदेशाश्चलहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६॥
समुद्गतस्वेदचिताङ्गसंधयो
विमुच्य वासांसि गुरूणि सांप्रतम् ।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ति प्रमदाः सयौवनाः ॥ ७॥
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पितैः ।
सवल्लकीकाकलिगीतनिःस्वनैः
प्रबुध्यतेविबोध्यते सुप्त इवाद्य मन्मथः ॥ ८॥
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः
विलोक्य निर्यन्त्रणमुत्सुकश्चिरं
निशाक्षये याति ह्रियेव पाण्डुताम् ॥ ९॥
असह्यवातोद्धतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही ।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः ॥ १०॥
मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः ।
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥ ११॥
सविभ्रमैः सस्मितजिह्मवीक्षितैर्
विलासवत्यो मनसि प्रसङ्गिनाम्प्रवासिनां ।
अनंगसंदीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषणाः ॥ १२॥
रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभिः ।
अवाङ्मुखो जिह्मगतिः श्वसन् मुहुः
फणी मयूरस्य तले निषीदति ॥ १३॥
तृषा महत्या हतविक्रमोद्यमः
श्वसन् मुहुर्भूरिविदारिताननः ।
न हन्त्यदुरेऽपि गजान् मृगाधिपो
विलोलजिह्वश्चलिताग्रकेसरः ॥ १४॥
विशुष्ककण्ठाहतशीकराम्भसो
गभस्तिभिर्भानुमतोऽभितापिताः ।
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केसरिणोऽपि बिभ्यति ॥ १५॥
हुताग्निकल्पैः सवितुर्मरीचिभिः
कलापिनः क्लान्तशरीरचेतसः ।
न भोगिनं घ्नन्ति समीपवर्तिनं
कलापचक्रेषु निवेशिताननम् ॥ १६॥
सभद्रमुस्तं परिपाण्डुकर्दमं
सरः खनन्नायतपोत्रमण्डलैः
प्रदीप्तभासो रविणा वितापितोरवेर्मयूखैरभितापितो भृशं
वराहयूथो विशतीव भूतलम् ॥ १७॥
विवस्वता तीक्ष्णतरांशुमालिना
सपङ्कतोयात् सरसोऽभितापितः ।
उत्प्लुत्य भेकस्तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति ॥ १८॥
समुद्धृताशेषमृणालजालकं
विपन्नमीनं द्रुतभीतसारसं
परस्परोत्पीडनसंहतैर्गजैः
कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९॥
रविप्रभोद्भिन्नशिरोमणिप्रभो
विलोलजिह्वाद्वयलीढमारुतः ।
विषाग्निसूर्यातपतापितः फणीहुताग्निसूर्यातपतापितः
न हन्ति मण्डूककुलं तृषाकुलः ॥ २०॥
सफेनलालावृतवक्त्रसम्पुटं
विनिर्गतालोहितजिह्वमुन्मुखम्विनिःसृता ।
तृषाकुलं निःसृतमद्रिगह्वराद्
गवेषमाणं महिषीकुलं जलम् ॥ २१॥
पटुतरदवदाहोत्प्लुष्टशष्पप्ररोहाः
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।
दिनकरपरितापक्षीणतोयाः समन्ताद्
विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥ २२॥
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् ।
भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्
शरभकुलमजिह्मं प्रोद्धरत्यम्बुकूपात् ॥ २३॥
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
प्रबलपवनवेगोद्धूतवेगेन तूर्णम् ।
तरुविटपलताग्रालिंगनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥ २४॥
ध्वनति पवनविद्धः var पवनवृद्धः पर्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन
क्षपयतिग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥ २५॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।
परिणतदलशाखानुत्पतत्याशूत्पतन् प्रांशु वृक्षाद्
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥ २६॥
गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः
सुहृद इव समेता द्वन्द्वभावं विहाय ।
हुतवहपरिखेदादाशु निर्गत्य कक्षाद्
विपुलपुलिनदेशां निम्नगां संविशंति ॥ २७॥
कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुजालःसेव्यचन्द्रांशुहारः ।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीतैर्हर्म्यपृष्ठे सुखेन ॥ २८॥
॥ इति ग्रीष्मः ॥
॥ २ । अथ वर्षा ॥
सशीकराम्भोधरमत्तकुञ्जरस्
तडित्पताकोऽशनिशब्दमर्दलः ।
समागतो राजवदुद्धतद्युतिर्
घनागमः कामिजनप्रियः प्रिये ॥ १॥
नितान्तनीलोत्पलपत्रकान्तिभिः
क्वचित् प्रभिन्नाञ्जनरागसंनिभैःराशिसंनिभैः ।
क्वचित् सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः ॥ २॥
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुवारिवर्षिणोनववारिवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३॥
बलाहकाश्चाशनिशब्दभीषणाः var मर्दलाः
सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
सुतीक्ष्णधारापतनोग्रसायकैस्
तुदन्ति चेतो नितरांप्रसभं प्रवासिनाम् ॥ ४॥
प्रभिन्नवैदूर्यनिभैस्तृणान्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति कण्ठे वररत्नभूषिताशुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५॥
सदा मनोज्ञं सुरतोत्सवोत्सुकं var स्वनदुत्सवोत्सुकं
विकीर्णविस्तीर्णकलापशोभितम् ।
सविभ्रमालिङ्गनचुम्बनाकुलम्ससम्भ्रमालिङ्गनचुम्बनाकुलम्
प्रवृद्धनृत्यंप्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६॥
निपातयन्त्यः परितस्तटद्रुमान्
प्रवृद्धवेगैः सलिलैरनिर्मलैः ।
स्त्रियः प्रदुष्टा इव जातविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७॥
तृणोद्गमैरुद्धतकोमलाङ्कुरैश् var तृणोत्करैरुद्गतकोमलाङ्कुरैश्
चितानि नीलैर्हरिणीमुखक्षतैः ।
वनानि रम्याणिवैन्ध्यानि हरंति मानसं
विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥ ८॥
विलोलनेत्रोत्पलशोभिताननैर्
मृगैः समन्तादुपजातसाध्वसैः ।
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥ ९॥
सुतीक्ष्णमुच्चैरसतां var अभीक्ष्णमुच्चैर्ध्वनतां पयोमुचां
घनान्धकारीकृतशर्वरीष्वपि ।
तडित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १०॥
पयोधरैर्भीमगभीरनिःस्वनैर् var नैस्
ध्वनद्भिरुद्वेजितचेतसोतडिद्भिरुद्वेजितचेतसो भृशम् ।
कृतापराधानपि योषितः प्रियान्
परिष्वजन्ते शयने निरन्तरम् ॥ ११॥
विलोचनेन्दीवरवारिबिन्दुभिर्
निषिक्तबिम्बाधरचारुपल्लवाः ।
निरस्तमाल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ १२॥
विपाण्डवं var विपाण्डुरं कीटरजस्तृणान्वितं
भुजङ्गवद् वक्रगतिप्रसर्पितम् ।
ससाध्वसैर्भेककुलैर्विलोकितंनिरीक्षितं
प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३॥
प्रफुल्लपत्त्रां var विपन्नपुष्पां नलिनीं समुत्सुकां
विहाय भृङ्गाः श्रुतिहारिनिःस्वनाः ।
पतन्ति मूढाः शिखिनां प्रनृत्यतां
कलापचक्रेषु नवोत्पलाशया ॥ १४॥
वनद्विपानां नवतोयदस्वनैर्
मदान्वितानां ध्वनतां मुहुर्मुहुः ।
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिश्चितः ॥ १५॥
आतोयनम्राम्बुदचुम्बितोपलाः var सतोयनम्राम्बुदचुम्बितोपलाः
समाचिताः प्रस्रवणैः समन्ततः ।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ॥ १६॥
कदम्बसर्जार्जुनकेतकीवनम्
विकम्पयंस्तत्कुसुमाधिवासितः ।
सशीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ॥ १७॥
शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः ।
स्तनैः सहारैर्वदनैः ससीधुभिः
स्त्रियो रतिं संजनयन्ति कामिनाम् ॥ १८॥
वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्रयन्ति ।
नद्यो घना मत्तगजा वनान्ताः
प्रियाविहीनाः शिखिनः प्लवङ्गमाः ॥ १९॥प्रक्षिप्तः
तडिल्लताः शक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः ।
स्त्रियः स्वकाञ्चीमणिकुण्डलोज्ज्वलास्त्रियश्चकाञ्चीमणिकुण्डलोज्ज्वला
हरन्ति चेतो युगपत् प्रवासिनाम् ॥ २०॥
मालाः कदम्बनवकेसरकेतकीभिर्
आयोजितः शिरसि बिभ्रति योषितोऽद्य ।
कर्णान्तरेषु ककुभद्रुममञ्जरीभिः
श्रोत्रानुकूलरचितानवतंसकांश्चैच्छानुकूलरचितानवतंसकांश्च ॥ २१॥
कालागरुप्रचुरचन्दनचर्चिताङ्ग्यः
पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः ॥ २२॥
कुवलयदलनीलैरुन्नतैस्तोयनम्रैर्
मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः ।
अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
पथिकजनवधूनां तद्वियोगक्षतानाम्तद्वियोगाकुलानाम् ॥ २३॥
मुदित इव कदम्बैर्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकः शान्ततापोछिन्नतापो वनान्तः ॥ २४॥
शिरसि बकुलमालां मालतीभिः समेतां
कुसुमितनवपुष्पैर्यूथिकाकुङ्मलैश्च ।
विकचनवकदम्बैः कर्णपूरं वधूनां
रचयति जलदौघः कान्तवत् काल एषः ॥ २५॥
दधति कुचयुगाग्रैरुन्नतैर्हारयष्टिं var पृथुकुचाग्रैरुन्नतैर्हारयष्टिं
प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।
नवजलकणसेकादुन्नतांनवजलकणसेकादुद्गतां रोमराजिं
त्रिवलिवलितशोभांललितवलिविभङ्गैर् मध्यदेशैश्च नार्यः ॥ २६॥
नवजलकणसङ्गाच्छीततामादधानः
कुसुमभरनतानां लासकः पादपानाम् ।
जनितसुरभिगन्धःजनितरुचिरगन्धः केतकीनां रजोभिर्
अपहरति नभस्वान् प्रोषितानां मनांसि ॥ २७॥
जलभरनमितानामश्रयोऽस्माकमुच्चैर्
अयमिति जलसेकैस्तोयदास्तोयनम्राः ।
अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥ २८॥
बहुगुणरमणीयो योषितां चित्तहारी var बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ॥ २९॥
॥ इति वर्षा ॥
॥ ३ । अथ शरत् ॥
काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरुतनूपुरनादरम्यारवनूपुरनादरम्या ।
आपक्वशालिललितानतगात्रयष्टिःरुचिरानतगात्रयष्टिः
प्राप्ता शरन्नववधूरिव रम्यरूपा ॥ १॥
काशैर्मही शिशिरदीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृतान्युपवनानि च मालतीभिः ॥ २॥
चञ्चन्मनोज्ञशफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजपंक्तिहाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बाविशालपुलिनान्तनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥
व्योम क्वचिद् रजतशङ्खमृणालगौरैस्
त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यतेसंलक्ष्यते पवनवेगचलैः पयोदै
राजेव चामरशतैरभिवीज्यमानःचामरशतैरुपवीज्यमानः ॥ ४॥
भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
बन्धूकपुष्परजसाऽरुणिता च भूमिः ।
वप्राश्च पक्वकलमावृतभूमिभागाचारुकलमावृतभूमिभागाः
उत्कण्ठयन्तिप्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ॥ ५॥
मन्दानिलाकुलितचारुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
मत्तद्विरेफपरिपीतमधुप्रसेकश्
चित्तं विदारयति कस्य न कोविदारः ॥ ६॥
तारागणप्रचुरभूषणमुद्वहन्ती var तारागणप्रवरभूषणमुद्वहन्ती
मेघोपरोधपरिमुक्तशशाङ्कवक्त्रामेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७॥
कारण्डवाहनविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं सरोरुहरजोरुणितास्तटिन्यः ॥ ८॥
नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरशीकरवारिवर्षी ।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहत्यनुदिनंदहत्यतितरां तनुमङ्गनानाम् ॥ ९॥
आकम्पयन् फलभरानतशालिजालान्
यानर्तयंस्तरुवरान् कुसुमावनम्रान् ।
उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्
यूनां मनश्चलयति प्रसभं नभस्वान् ॥ १०॥
सोन्मादहंसमिथुनैरुपशोभितानि
स्वच्छप्रफुल्लकमलोत्पलभूषितानि ।
मन्दप्रभातपवनोद्गतवीचिमालान्
न्युत्कण्ठयन्ति हृदयं सहसा सरांसि ॥ ११॥
नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्पताका ।
धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥ १२॥
नृत्यप्रयोगरहिताञ्शिखिनो विहाय
हंसानुपैति मदनो मधुरप्रगीतान् ।
मुक्त्वा कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३॥
शेफालिकाकुसुमगन्धमनोहराणि
शाखास्थिताण्डजकुलप्रतिनादितानिस्वस्थस्थिताण्डजकुलप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम्यूनाम् ॥ १४॥
कह्लारपद्मकुमुदानि मुहुर्विधुन्वंस्
तत्सङ्गमादधिकशीतलतामुपेतः ।
सोत्कां करोति वनितांउत्कण्ठयत्यतितरां पवनः प्रभाते
पत्रान्तलग्नतुलिनाम्बु विधूयमानःपत्रान्तलग्नतुहिनानि हरंस्तरूणां ॥ १५॥
सम्पन्नशालिनिचयावृतभूतलानि
सुष्ठुस्थितप्रचुरगोकुलशोभितानिस्वस्थस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति जनप्रमोदम् ॥ १६॥
हंसैर्जिता सुललिता गतिरङ्गनानां
अम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
नीलोत्पलैर्मदचलानिनीलोत्पलैर्मदकलानि विलोचनानि
भ्रूविभ्रमश्च सरितां तनुभिस्तरङ्गैःरुचिरास्तनुभिस्तरङ्गैः ॥ १७॥
श्यामा लताः कुसुमभारनतप्रवालाः
स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् ।
दन्तावभासविशदस्मितचन्द्रकान्तिं
कङ्केलिपुष्परुचिरा नवमालती च ॥ १८॥
केशान्नितान्तघननीलविकुङ्चिताग्रान्
आपूरयन्ति वनिता नवमालतीभिः ।
कर्णेषु च प्रचलकांचनकुण्डलेषुप्रवरकांचनकुण्डलेषु
नीलोत्पलानि विविधानिविकचानि निवेशयन्ति ॥ १९॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रशनाकलापैः ।
पादाम्बुजानि कलनूपुरशेखरैश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥ २०॥
स्फुटकुमुदचितानां राजहंसास्थितानां var राजहंसाश्रितानां
मरकतमणिभासा वारिणा भूषितानामापूरितानाम् ।
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेघं चन्द्रतारावकीर्णम् ॥ २१॥
सरसि कुमुदसङ्गाद् var कुसुमसङ्गाद् वायवो वान्ति शीता
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः
विगतकलुषमम्भः श्यानपङ्का धरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ २२॥
करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिद् अन्यास्तरुण्यः ।
चितकुसुमसुगन्धि प्राविशन्तीव वेश्म
प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥ २३॥प्रक्षिप्तः
सुरतरसविलासात् सत्सखीभिः समेत्य
असमरसविनोदं सूचयन्ति प्रकामम् ।
अनुपममुखरागा रात्रिमध्ये विनोदान्
शरदि तरुणकान्ताः सूचयन्ति प्रमोदात् ॥ २४॥प्रक्षिप्तः
दिवसकरमयूखैर्बोध्यमानं प्रभाते
वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे
हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥ २५॥
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु
क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।
अधररुचिरशोभां बन्धुजीवे प्रियायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तःभ्रान्तचेताः ॥ २६॥
स्त्रीणां निधाय वदनेषु शशाङ्कलक्ष्मीं
हास्ये विशुद्धवदने कुमुदाकरश्रीम् ।काम्यं च हंसवचनं मणिनूपुरेषु
बन्धूककान्तिमधरेषु मनोहरेषु
क्वापि प्रयाति सुभगा शरदागमश्रीः ॥ २७॥
विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा श्वेतवासोविकसितनवकाशश्वेतवासो वसाना ।
कुमुदरुचिरहासाकुमुदरुचिरकांतिः कामिनीवोन्मदेयं
उपदिशतुप्रतिदिशतु शरद् वश्चेतसः प्रीतिमग्र्याम् ॥ २८॥
॥ इति शरत् ॥
॥ ४ । अथ हेमन्तः ॥
नवप्रवालोद्गमसस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम्समुपागतः प्रिये ॥ १॥
मनोहरैः कुङ्कुमरागपिङ्गैस् var चन्दनरागगौरैस्
तुषारकुन्देन्दुनिभैश्च हारैः ।
विलासिनीनां स्तनशालिनीनां
नालंक्रियन्ते स्तनमण्डलानि ॥ २॥
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि ।
नितम्बबिम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु ॥ ३॥
काञ्चीगुणैः काञ्चनरत्नचित्रैर्
नो भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥ ४॥
गात्राणि कालीयकचर्चितानि
सपत्रलेखानि मुखाम्बुजानि ।
शिरांसि कालागरुभूषितानिकालागरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५॥
रतिश्रमक्षामविपाण्डुवक्त्राः
प्राप्ताश्च हर्षाभ्युदयं तरुण्यःप्राप्तेऽपि हर्षाभ्युदये तरुण्यः ।
हसन्ति नोच्चैर्दशनाग्रभिन्नान्
प्रपीड्यमानानधरानवेक्ष्य ॥ ६॥
पीनस्तनोरुस्थलभागशोभां
आसाद्य तत्पीडनजातखेदः ।
तृणाग्रलग्नैस्तुहिनैः पतद्भिर्
आक्रन्दतीवोषसि शीतकालः ॥ ७॥
प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि ।
मनोहरक्रौञ्चनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः ॥ ८॥
प्रफुल्लनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानिसोन्मादकादम्बविभूषितानि ।
प्रसन्नतोयानि सशैवलानिसुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ॥ ९॥
पाकं व्रजन्ती हिमपातशीतैर्
आधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ १०॥
पुष्पासवामोदसुगन्धिवक्त्रो
निःश्वासवातैः सुरभीकृताङ्गः ।
परस्पराङ्गव्यतिषाङ्गशायी
शेते जनः कामशरानुविद्धः ॥ ११॥
दन्तच्छदैर्दन्तविघातचिह्नैः var दन्तच्छदैः सव्रणदन्तचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयौवनानाम् ॥ १२॥
काचिद् विभूषयति दर्पणयुक्तहस्ता var दर्पणसक्तहस्ता
बालातपेषु वनिता वदनारविन्दम् ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमपकृष्यदन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥ १३॥
अन्या प्रकामसुरतश्रमखिन्नदेहा
रात्रिप्रजागरविपाटलनेत्रयुग्मारात्रिप्रजागरविपाटलनेत्रपद्मा ।
शय्यान्तरेषुस्रस्तांसदेश लुलिताकुलकेशपाशा
निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ १४॥
निर्माल्यदाम परिभुक्तमनोज्ञगन्धम्
मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयष्ट्यः
कुर्वन्ति केशरचनामपरास्तरुण्यः ॥ १५॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रम्
हर्षान्विता विरचिताधररागशोभाविरचिताधरचारुशोभा ।
कुर्पासकं परिदधाति नवं नताङ्गीनखक्षताङ्गी
व्यालम्बिनीललुलितालककुञ्चिताक्षी ॥ १६॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
सम्पीड्यमानविपुलोरुपयोधरार्त्तासंहृष्यमाणपुलकोरुपयोधरान्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभम्सुशोभाः ॥ १७॥
बहुगुणरमणीयो योषितां चित्तहारी
परिणतबहुशालिव्याकुलग्रामसीमः ।
विनिपतिततुषारः क्रौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः काल एषः प्रियान् वःहिमयुक्तस्त्वेष कालः सुखं वः ॥ १८॥
॥ इति हेमन्तः ॥
॥ ५ । अथ शिशिरः ॥
प्ररूढशालिप्रचयावृतक्षितिं var प्ररूढशालीक्षुचयावृतक्षितिं
निद्रोत्थितक्रौञ्चनिनादशोभितम्क्वचित्स्थितक्रौञ्चनिनादशोभितम् ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराह्वयं शृणु ॥ १॥
निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यबलाः सयौवनाः।
प्रयान्ति कालेऽद्यकालेऽत्र जनस्य सेव्यताम् ॥ २॥
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३॥
तुषारसंघातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः ।
विपाण्डुतारागणचारुभूषणा
जनस्य सेव्या न भवन्ति रात्रयः ॥ ४॥
गृहीतताम्बूलविलेपनस्रजः
पुष्पासवामोदितवक्त्रपङ्कजाः ।
प्रकामकालागरुधूपवासितं
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥ ५॥
कृतापराधान् बहुशोऽभितर्जितान्
सवेपथून् साध्वसमन्दचेतसःसाध्वसलुप्तचेतसः ।
निरीक्ष्य भर्तृन् सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसस्मरुः ॥ ६॥
प्रकामकामैः सुरतैश्च निर्दयं var युवभिः सुनिर्दयं
निशासु दीर्घास्वतिपीडिताश्चिरम्दीर्घास्वभिरामिताश्चिरम् ।
भ्रमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः ॥ ७॥
मनोज्ञकूर्पासकपीडितस्तनाः
सरागकौशेयविभूषितोरवःसरागकौशेयकभूषितोरवः ।
निवेशितान्तःकुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ॥ ८॥
पयोधरैः कुङ्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोन्नतैःसुखोपसेव्यैर्नवयौवनोष्मभिः ।
विलासिनीनांविलासिनीभिः परिपीडितोरसः
क्षपन्तिस्वपन्ति शीतं परिभूय कामिनः ॥ ९॥
सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनम् ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १०॥
अपगतमदरागा योषिदेका प्रभाते
कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनगेहाद् वस्त्रमाकर्षयन्तीशयनवासाद्वासमन्यं हसन्ती ॥ ११॥
अगुरुसुरभिधूपामोदितं केशपाशं
गलितकुसुममालं धुन्वती कुञ्चिताग्रम्कुञ्चिताग्रम् वहन्ती ।
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या
ऽप्युषसि शयनवासः कामिनी कामशोभाहुषसि शयनमन्या कामिनी चारुशोभा ॥ १२॥
कनककमलकान्तैश्चारुताम्राधरोष्ठैः
श्रवणतटनियुक्तैःश्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।
उषसि वदनबिम्बैरंससंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥
पृथुजघनभरार्ताः किंचिदानम्रमध्याः
स्तनभरपरिखेदान् मन्दमन्दं व्रजन्त्यः ।
सुरतसमयवेषं नैशमन्त्यं विहायनैषमाशु प्रहाय
दधति दिवसयोग्यं वेषमेतास्तरुण्यःवेषमन्यास्तरुण्यः ॥ १४॥
नखपदरचिताग्रान् var नखपदचितभागान् वीक्ष्यमाणाः स्तनान्तान्
अधरकिसलयाग्रान् दन्तभिन्नानधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।
अभिमततरमोदं वर्णयन्त्यस्तरुण्यःअभिमतरतवेषं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि ॥ १५॥
प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
प्रबलसुरतकेलिर्जातकन्दर्पदर्पः ।
प्रियतमरहितानांप्रियजनरहितानां चित्तसंतापहेतुः
शिशिरसमय एषः श्रेयसे वोऽस्तु नित्यम् ॥ १६॥
॥ इति शिशिरः ॥
॥ ६ । अथ वसन्तः ॥
प्रफुल्लचूताङ्कुरतीक्ष्णसायको
द्विरेफमालां विदधद् धनुर्गुणम्द्विरेफमालाविलसद्धनुर्गुणः ।
मनांसि भेत्तुं सुरतप्रसङ्गिनां
वसन्तयोद्धा समुपागतः प्रिये ॥ १॥
द्रुमाः सपुष्पाः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाश्च रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥ २॥
वापीजलानां मणिमेखलानां
शशाङ्कभासां प्रमदाजनानाम् ।
चूतद्रुमाणां कुसुमानतानां
तनोतिददाति सौभाग्यमयं वसन्तः ॥ ३॥
स्तनेषु हाराः सितचन्दनार्द्राः
मुखेषु ताम्बूलसुगन्धिवाताःभुजेषु सङ्गं वलयाङ्गदानि ।
प्रयान्ति निःशङ्कमनङ्गसौख्यंप्रयान्त्यनङ्गातुरमानसानां
विलासिनीनां जघनेषु काञ्च्यः ॥ ४॥
कुसुम्भरागारुणितैर्दुकूलैर्
नितम्बबिम्बानि विलासिनीनाम् ।
तन्वंशुकैः कुङ्कुमरागगौरैर्
अलङ्क्रियन्ते स्तनमण्डलानि ॥ ५॥
कर्णेषु योग्यं नवकर्णिकारं
चलेषु नीलेष्वलकेष्वशोकम् ।
शिखासु फुल्ला नवमल्लिकाश्च
प्रयान्ति सङ्गं प्रमदाजनस्य ॥ ६॥
सपत्त्रलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु
रत्यन्तरे मौक्तिकतुल्यरूपःरत्नान्तरे मौक्तिकसङ्गरम्यः
स्वेदोद्गमो विस्तरतामुपैति ॥ ७॥
उल्लासयन्त्यः var उच्छ्वासयन्त्यः श्लथबन्धनानि
गात्राणि कन्दर्पसमाकुलानि ।
समीपवर्तिष्वपि कामुकेषुसमीपवर्तिष्वधुना प्रियेषु
समुत्सुका एव भवन्ति नार्यः ॥ ८॥
तनूनि पाण्डूनि सुकम्पितानि var मदालसानि
मुहुर्मुहुर्जृम्भणतत्पराणि ।
अङ्गान्यनङ्गः प्रमदाजनस्य
करोत्यसौ प्रोषितभर्तृकस्यकरोति लावण्यससंभ्रमाणि ॥ ९॥
नेत्रेषु लोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु ।
मध्येषु नम्रोनिम्नो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १०॥
अङ्गानि निद्रालसितानि नित्यं var निद्रालसविभ्रमाणि
वाक्यानि किंचिन्मदिरालसानि ।
भ्रूक्षेपजिह्मानि विलोचनानिच वीक्षितानि
करोति कामः प्रमदाजनानाम् ॥ ११॥
प्रियङ्गुकालीयककुङ्कुमानि var प्रियङ्गुकालीयककुङ्कुमाक्तं
स्तनेषु गौरेषु विचर्चितानिविलासिनीभिः ।
आरोप्यतेआलिप्यते चन्दनमङ्गनाभिर्
मदालसाभिर्मृगनाभियुक्तम् ॥ १२॥
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि ।
सुगन्धिकालागरुधूपितानि
धत्ते जनः कामशरानुविद्धःकाममदालसाङ्गः ॥ १३॥
पुंस्कोकिलश्चूतरसेन मत्तः var पुंस्कोकिलश्चुतरसासवेन
प्रियामुखं चुम्बति सादरोऽयम्मत्तः प्रियां चुम्बति रागहृष्टः ।
गुञ्जद्द्विरेफोऽप्ययमम्बुजस्थः
प्रियं प्रियायाः प्रकरोति चाटु ॥ १४॥
प्रवालताम्रास्तबकावनम्राश् var ताम्रप्रवालास्तबकावनम्राश्
चूतद्रुमाः पुष्पितचारुशाखाः ।
कुर्वन्ति कान्तंकामं पवनावधुताः
समुत्सुकत्वं मनसोऽङ्गनानाम्पर्युत्सुकं मानसमङ्गनानां ॥ १५॥
आ मुलतो विद्रुमरागताम्रं
सपल्लवं पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ॥ १६॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितचारुमृदुप्रवालाःमन्दानिलाकुलितनम्रमृदुप्रवालाः ।
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
बालातिमुक्तकलिकाःबालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥ १७॥
कान्तामुखद्युतिजुषामचिरोद्गतानां
शोभां परां कुरबकद्रुममञ्जरीणाम् ।
हृष्टा प्रिये प्रियतमारहितस्य पुंसःसहृदयस्य भवेन्न कस्य
कन्दर्पबाणनिकरैर्व्यथितं हि चेतःकन्दर्पबाणपतनव्यथितं हि चेतः ॥ १८॥
आदीप्तवह्निसदृशैरपि पारिजातैः var आदीप्तवह्निसदृशैरपयातपत्रैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
सद्यो वसन्तसमये समुपागते चवसन्तसमयेन समागतेयं
रक्तांशुका नववधूरिव भाति भूमिः ॥ १९॥
किं किंशुकैः शुकमुखच्छविभिर्न दग्धं var भिन्नं
किं कर्णिकारकुसुमैर्न कृतं मनोज्ञम्हृतं मनोज्ञैः ।
यत् कोकिलः पुनरमीपुनरयं मधुरैर्वचोभिर्
यूनो मनः सुवदने नियतं हरन्तिसुवदनानिहितं निहन्ति ॥ २०॥
पुंस्कोकिलैः कलवचोभिरुपात्थर्षैः
गुञ्जद्भिरुन्मदकलानि वचांसि पुंसाम्भृङ्गैः ।
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१॥
आकम्पयन् कुसुमितां सहकारशाखां var कुसुमिताः सहकारशाखाः
विस्तारयन् परभृतस्य वचांसि दिक्षु ।
वायुर्विवाति हृदयानि हरन् नराणां
नीहारपातविगमात् सुभगो वसन्ते ॥ २२॥
कुन्दैः सविभ्रमवधूहसितावदातैः
संशोभितान्युपवनानिउद्योतितान्युपवनानि मनोहराणि ।
चित्तं मुनेरपि हरन्ति निरस्तरागंनिवृत्तरागम्
प्रागेव रागमलिनानि मनांसि पुंसाम्यूनाम् ॥ २३॥
आलम्बिहेमरशनाः स्तनसक्तहाराः
कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
मासे मधौ मधुरकोकिलभृङ्गनादैर्
नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥ २४॥
नानामनोज्ञकुसुमद्रुमपुष्पिताग्रान् var नानामनोज्ञकुसुमद्रुमभूषितान्तान्
हृष्टान्यपुष्टकुलशोभितसानुदेशान्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।
शैलेयजालपरिणद्धशिलातलान्तान्
दृष्ट्वा जनः क्षितिभृतो मदमेति सर्वः ॥ २५॥
नेत्रे निमीलयति रोदिति याति मोहं var शोकं
घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।
कान्तावियोगपरिखेदितचित्तवृत्तिर्
दृष्ट्वा जनःदृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान् ॥ २६॥
समदमधुकराणां कोकिलानां च नादैः
कुसूमितसहकारैः कर्णिकारैश्च रम्यैः ।
इषुभिरिव सुतीक्ष्णैर्मानसं कामिनीनांमानिनीनां
तुदति कुसुमचापोकुसुममासो मन्मथोद्दीपनाय ॥ २७॥
रुचिरकनककान्तं मुञ्चतः पुष्पवृन्दं
मृदुपवनविधूतान् पुष्पितांश्चूतवृक्षान् ।
अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
मदनशरसुविद्धो मोहमेति प्रवासी ॥ २८॥प्रक्षिप्तः
परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
स्मितदशनमयूखं कुन्दपुष्पप्रभाभिः ।
सरकिसलयकान्तिं पल्लवैर्विद्रुमाभैर्
अभिभवति वसन्तः कामिनीनामिदानीम् ॥ २९॥प्रक्षिप्तः
कनककमलकान्तैर्चन्दनैः पाण्डुगण्डैर्
उपनिहितसुहारैश्चन्दनार्द्रैः स्तनाग्रैः ।
मदनजनितलासैः सालसैर्दृष्टिपातैर्
मुनिवरमपि नार्यः कामयन्ते वसन्ते ॥ ३०॥प्रक्षिप्तः
मधुसुरभिमुखाब्जं लोचने लोलतारे
नवकुरबकपूर्णः केशपाशो मनोज्ञः ।
अतिगुरुकुचयुग्मं श्रोणिबिम्बं तथैव
न भवति किमिदानीं योषितां ब्रूहि चारु ॥ ३१॥प्रक्षिप्तः
आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासैः ।
उत्कूजितैः परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतशब्दैः ॥ ३२॥प्रक्षिप्तः
रम्यप्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि सीधुपानं
सर्वं हि साधनमिदं कुसुमायुधस्य ॥ ३३॥प्रक्षिप्तः
आम्राशोकविकल्पिताधरमधुर्मत्तद्विरेफस्वनः
कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः ।
चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः
कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ॥ ३४॥प्रक्षिप्तः
आम्री मङ्गलमञ्जरी वरशरः सत्किंशुकं यद्धनुर्
ज्या यस्यालिकुलम् कलङ्करहितं छ्त्रं सितांशुः सितम् ।
मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्
सोऽयं वो वितरीतरीतु विनतुर्भद्रं वसन्तान्वितः ॥ ३५॥
॥ इति वसन्तः ॥
Encoded by Jost Gippert gippert at em.uni-frankfurt.de
Proofread by Avinash Sathaye sohum at ms.uky.edu