॥ सनत्सुजातीयम् ॥

महाभारते उद्योग्पर्वान्तर्गतम् अध्याय ४१-४५
४१ धृतराष्ट्र उवाच । अनुक्तं यदि ते किं चिद्वाचा विदुर विद्यते । तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे ॥ १॥ धृतराष्ट्र कुमारो वै यः पुराणः सनातनः । सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ २॥ स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् । प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ ३॥ किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः । त्वमेव विदुर ब्रूहि प्रज्ञा शेषोऽस्ति चेत्तव ॥ ४॥ शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे । कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीम् अहम् ॥ ५॥ ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत् । न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ ६॥ ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । कथमेतेन देहेन स्यादिहैव समागमः ॥ ७॥ चिन्तयामास विदुरस्तमृषिं संशितव्रतम् । स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ ८॥ स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ ९॥ भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे । यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि । यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् ॥ १०॥ लाभालाभौ प्रिय द्वेष्यौ यथैनं न जरान्तकौ । विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ । अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ११॥
४२ वैशम्पायन उवाच । ततो राजा धृतराष्ट्रो मनीषी सम्पूज्य वाक्यं विदुरेरितं तत् । सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ १॥ सनत्सुजात यदीदं शृणोमि मृत्युर्हि नासीह तवोपदेशम् । देवासुरा ह्याचरन्ब्रह्मचर्यम् अमृत्यवे तत्कतरन्न सत्यम् ॥ २॥ सनत्सुजात उवाच । अमृत्युः कर्मणा के चिन्मृत्युर्नास्तीति चापरे । शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ ३॥ उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतो यः कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ॥ ४॥ प्रमादाद्वै असुराः पराभवन्न् अप्रमादाद्ब्रह्मभूता भवन्ति । न वै मृत्युर्व्याघ्र इवात्ति जन्तून् न ह्यस्य रूपमुपलभ्यते ह ॥ ५॥ यमं त्वेके मृत्युमतोऽन्यमाहुर् आत्मावसन्नममृतं ब्रह्मचर्यम् । पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ ६॥ आस्यादेष निःसरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः । ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति ॥ ७॥ ततस्तं देवा अनु विप्लवन्ते अतो मृत्युर्मरणाख्याम् उपैति । कर्मोदये कर्मफलानुरागास् तत्रानु यान्ति न तरन्ति मृत्युम् ॥ ८॥ योऽभिध्यायन्नुत्पतिष्णून्निहन्याद् अनादरेणाप्रतिबुध्यमानः । स वै मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ ९॥ कामानुसारी पुरुषः कामाननु विनश्यति । कामान्व्युदस्य धुनुते यत्किं चित्पुरुषो रजः ॥ १०॥ तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते । गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ ११॥ अभिध्या वै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात् । एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ १२॥ अमन्यमानः क्षत्रिय किं चिदन्यन् नाधीयते तार्ण इवास्य व्याघ्रः । क्रोधाल्लोभान्मोहमयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः ॥ १३॥ एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः । विनश्यते विषये तस्य मृत्युर् मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ १४॥ येऽस्मिन्धर्मान्नाचरन्तीह के चित् तथा धर्मान्के चिदिहाचरन्ति । धर्मः पापेन प्रतिहन्यते स्म उताहो धर्मः प्रतिहन्ति पापम् ॥ १५॥ सनत्सुजात उवाच । उभयमेव तत्रोपभुज्यते फलं धर्मस्यैवेतरस्य च । धर्मेणाधर्मं प्रणुदतीह विद्वान् धर्मो बलीयानिति तस्य विद्धि ॥ १६॥ यानिमानाहुः स्वस्य धर्मस्य लोकान् द्विजातीनां पुण्यकृतां सनातनान् । तेषां परिक्रमान्कथयन्तस्ततोऽन्यान् नैतद्विद्वन्नैव कृतं च कर्म ॥ १७॥ सनत्सुजात उवाच । येषां बले न विस्पर्धा बले बलवताम् इव । ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥ १८॥ यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् । अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसञ्ज्वरेत् ॥ १९॥ यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् । अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ २०॥ यो वाकथयमानस्य आत्मानं नानुसञ्ज्वरेत् । ब्रह्म स्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥ २१॥ यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये । एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥ २२॥ नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः । ज्ञातीनां तु वसन्मध्ये नैव विद्येत किं चन ॥ २३॥ को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति । तस्माद्धि किं चित्क्षत्रिय ब्रह्मावसति पश्यति ॥ २४॥ अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः । शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ २५॥ अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः । ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥ २६॥ सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश् चन । न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥ २७॥ यम प्रयतमानं तु मानयन्ति स मानितः । न मान्यमानो मन्येत नामानादभिसञ्ज्वरेत् ॥ २८॥ विद्वांसो मानयन्तीह इति मन्येत मानितः । अधर्मविदुषो मूढा लोकशास्त्रविशारदाः । न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥ २९॥ न वै मानं च मौनं च सहितौ चरतः सदा । अयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥ ३०॥ श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी । ब्रह्मी सुदुर्लभा श्रीर्हि प्रज्ञा हीनेन क्षत्रिय ॥ ३१॥ द्वाराणि तस्या हिवदन्ति सन्तो बहुप्रकाराणि दुरावराणि । सत्यार्जवे ह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबाधनानि ॥ ३२॥
४३ धृतराष्ट्र उवाच । ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः । पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ॥ १॥ सनत्सुजात उवाच । नैनं सामान्यृचो वापि न यजूंषि विचक्षण । त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ २॥ न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । नीडं शकुन्ता इव जातपक्षाश् छन्दांस्येनं प्रजहत्यन्तकाले ॥ ३॥ न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण । अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ ४॥ सनत्सुजात उवाच । अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते । ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः ॥ ५॥ कथं समृद्धमप्यृद्धं तपो भवति केवलम् । सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ ६॥ सनत्सुजात उवाच । क्रोधादयो द्वादश यस्य दोषास् तथा नृशंसादि षडत्र राजन् । धर्मादयो द्वादश चाततानाः शास्त्रे गुणा ये विदिता द्विजानाम् ॥ ७॥ क्रोधः कामो लोभमोहौ विवित्सा कृपासूया मानशोकौ स्पृहा च । ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नरेण ॥ ८॥ एकैकमेत राजेन्द्र मनुष्यान्पर्युपासते । लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ॥ ९॥ विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोपं चपलोऽरक्षणश् च । एते प्राप्ताः षण्नरान्पापधर्मान् प्रकुर्वते नोत सन्तः सुदुर्गे ॥ १०॥ सम्भोगसंविद्द्विषमेधमानो दत्तानुतापी कृपणोऽबलीयान् । वर्ग प्रशंसी वनितासु द्वेष्टा एतेऽपरे सप्त नृशंसधर्माः ॥ ११॥ धर्मश्च सत्यं च दमस्तपश् च अमात्सर्यं ह्रीस्तितिक्षानसूया । यज्ञश्च दानं च धृतिः श्रुतं च महाव्रता द्वादश ब्राह्मणस्य ॥ १२॥ यस्त्वेतभ्यः प्रवसेद्द्वादशेभ्यः सर्वामपीमां पृथिवीं प्रशिष्यात् । त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो नास्य स्वमस्तीति स वेदितव्यः ॥ १३॥ दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् । तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ १४॥ दमोऽष्टादश दोषः स्यात्प्रतिकूलं कृताकृते । अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ १५॥ क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च । मत्सरश्च विवित्सा च परितापस्तथा रतिः ॥ १६॥ अपस्मारः सातिवादस्तथा सम्भावनात्मनि । एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते ॥ १७॥ श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति । अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति ॥ १८॥ इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् । अर्हते याचमानाय प्रदेयं तद्वचो भवेत् । अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः ॥ १९॥ त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः । न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा । सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ २०॥ अप्रमादोऽष्ट दोषः स्यात्तान्दोषान्परिवर्जयेत् । इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत । अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् ॥ २१॥ दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् । एतत्समृद्धमप्यृद्धं तपो भवति केवलम् । यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि ॥ २२॥ आख्यान पञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः । तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ॥ २३॥ द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे । तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् ॥ २४॥ सनत्सुजात उवाच । एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् । सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः । एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ॥ २५॥ दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते । सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ॥ २६॥ ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् । मनसान्यस्य भवति वाचान्यस्योत कर्मणा । सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ २७॥ अनैभृत्येन वै तस्य दीक्षित व्रतमाचरेत् । नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् । ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ॥ २८॥ विद्याद्बहु पठन्तं तु बहु पाठीति ब्राह्मणम् । तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् । य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ २९॥ छन्दांसि नाम क्षत्रिय तान्यथर्वा जगौ पुरस्तादृषिसर्ग एषः । छन्दोविदस्ते य उ तानधीत्य न वेद्य वेदस्य विदुर्न वेद्यम् ॥ ३०॥ न वेदानां वेदिता कश् चिदस्ति कश्चिद्वेदान्बुध्यते वापि राजन् । यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ ३१॥ अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् । यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् ॥ ३२॥ तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् । नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथं चन ॥ ३३॥ तूष्णीम्भूत उपासीत न चेष्टेन्मनसा अपि । अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् ॥ ३४॥ मौनाद्धि स मुनिर्भवति नारण्य वसनान्मुनिः । अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ ३५॥ सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते । प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ॥ ३६॥ सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय । वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ३७॥
४४ धृतराष्ट्र उवाच । सनत्सुजात यदिमां परार्थां ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् । परां हि कामेषु सुदुर्लभां कथां तद्ब्रूहि मे वाक्यमेतत्कुमार ॥ १॥ सनत्सुजात उवाच । नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छस्यभिहृष्यस्यतीव । अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ॥ २॥ अव्यक्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् । अनारभ्या वसतीहार्य काले कथं ब्राह्मण्यममृतत्वं लभेत ॥ ३॥ सनत्सुजात उवाच । येऽस्मिँल्लोके विजयन्तीह कामान् ब्राह्मीं स्थितिमनुतितिक्षमाणाः । त आत्मानं निर्हरन्तीह देहान् मुञ्जादिषीकामिव सत्त्वसंस्थाः ॥ ४॥ शरीरमेतौ कुरुतः पिता माता च भारत । आचार्य शास्ता या जातिः सा सत्या साजरामरा ॥ ५॥ आचार्य योनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति । इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ ६॥ य आवृणोत्यवितथेन कर्णा वृतं कुर्वन्नमृतं सम्प्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ७॥ गुरुं शिष्यो नित्यमभिमन्यमानः स्वाध्यायमिच्छेच्छुचिरप्रमत्तः । मानं न कुर्यान्न दधीत रोषम् एष प्रथमो ब्रह्मचर्यस्य पादः ॥ ८॥ आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि । कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ ९॥ समा गुरौ यथावृत्तिर्गुरु पत्न्यां तथा भवेत् । यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते ॥ १०॥ नाचार्यायेहोपकृत्वा प्रवादं प्राज्ञः कुर्वीत नैतदहं करोमि । इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ ११॥ एवं वसन्तं यदुपप्लवेद्धनम् आचार्याय तदनुप्रयच्छेत् । सतां वृद्धिं बहुगुणाम् एवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ १२॥ एवं वसन्सर्वतो वर्धतीह बहून्पुत्राँल्लभते च प्रतिष्ठाम् । वर्षन्ति चास्मै प्रदिशो दिशश् च वसन्त्यस्मिन्ब्रह्मचर्ये जनाश् च ॥ १३॥ एतन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् । ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ १४॥ गन्धर्वाणामनेनैव रूपमप्सरसामभूत् । एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते ॥ १५॥ य आशयेत्पाटयेच्चापि राजन् सर्वं शरीरं तपसा तप्यमानः । एतेनासौ बाल्यमत्येति विद्वान् मृत्युं तथा रोधयत्यन्तकाले ॥ १६॥ अन्तवन्तः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मितेन । ब्रह्मैव विद्वांस्तेनाभ्येति सर्वं नान्यः पन्था अयनाय विद्यते ॥ १७॥ आभाति शुक्लमिव लोहितमिव अथो कृष्णमथाञ्जनं काद्रवं वा । तद्ब्राह्मणः पश्यति योऽत्र विद्वान् कथंरूपं तदमृतमक्षरं पदम् ॥ १८॥ नाभाति शुक्लमिव लोहितमिव अथो कृष्णमायसमर्कवर्णम् । न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ १९॥ न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य । न चापि वायौ न च देवतासु न तच्चन्द्रे दृश्यते नोत सूर्ये ॥ २०॥ नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु न चैव दृश्यत्यमलेषु सामसु । रथन्तरे बार्हते चापि राजन् महाव्रते नैव दृश्येद्ध्रुवं तत् ॥ २१॥ अपारणीयं तमसः परस्तात् तदन्तकोऽप्येति विनाशकाले । अणीय रूपं क्षुर धारया तन् महच्च रूपं त्वपि पर्वतेभ्यः ॥ २२॥ सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ॥ २३॥ अनामयं तन्महदुद्यतं यशो वाचो विकारान्कवयो वदन्ति । तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ २४॥
४५ सनत्सुजात उवाच । यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः । तद्वै देवा उपासन्ते यस्मादर्को विराजते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १॥ शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते । तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २॥ आपोऽथ अद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे । स सध्रीचीः स विषूचीर्वसाना उभे बिभर्ति पृथिवीं दिवं च । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ३॥ उभौ च देवौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं बिभर्ति । तस्माद्दिशः सरितश् च स्रवन्ति तस्मात्समुद्रा विहिता महान्तः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४॥ चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्यय कर्मणः । केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५॥ न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश् चिदेनम् । मनीषयाथो मनसा हृदा च यैवं विदुरमृतास्ते भवन्ति । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ६॥ द्वादश पूगां सरितं देव रक्षितम् । मधु ईशन्तस्तदा सञ्चरन्ति घोरम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ७॥ तदर्धमासं पिबति सञ्चित्य भ्रमरो मधु । ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ८॥ हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ९॥ पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे । हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १०॥ तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा । तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ ११॥ सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १२॥ अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः । आदित्यो गिरते चन्द्रमादित्यं गिरते परः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १३॥ एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् । तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १४॥ एवं देवो महात्मा स पावकं पुरुषो गिरन् । यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १५॥ यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत् । मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १६॥ न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्त्वाः । हितो मनीषी मनसाभिपश्येद् ये तं श्रयेयुरमृतास्ते भवन्ति । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १७॥ गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः । तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १८॥ सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः । सत्यानृते सत्यसमान बन्धने सतश्च योनिरसतश् चैक एव । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १९॥ न साधुना नोत असाधुना वा समानमेतद्दृश्यते मानुषेषु । समानमेतदमृतस्य विद्याद् एवं युक्तो मधु तद्वै परीप्सेत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २०॥ नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् । मनो ब्राह्मीं लघुतामादधीत प्रज्ञानमस्य नाम धीरा लभन्ते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २१॥ एवं यः सर्वभूतेषु आत्मानमनुपश्यति । अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ॥ २२॥ यथोद पाने महति सर्वतः सम्प्लुतोदके । एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २३॥ अङ्गुष्ठ मात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदये निविष्टः । अजश्चरो दिवारात्रमतन्द्रितश् च स तं मत्वा कविरास्ते प्रसन्नः ॥ २४॥ अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः । आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ २५॥ पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत । ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ॥ २६॥ आत्मैव स्थानं मम जन्म चात्मा वेदप्रोक्तोऽहमजर प्रतिष्ठः ॥ २७॥ अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि । पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥ २८॥ ॥ इति सनत्सुजातीय ॥

% Text title            : sanatsujAtIya
% File name             : sanatsujAtIya.itx
% itxtitle              : sanatsujAtIyam
% engtitle              : sanatsujAtIya
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Veda Vyasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Originally by Tokunaga, converted to Itrans
% Description-comments  : From Mahabharat Udyogaparva (5) adhyAya 41-45
% Indexextra            : meaning
% Latest update         : August 13, 2007
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP