शाण्डिल्य भक्ति सूत्रम्
प्रथमोऽध्यायः
प्रथममाह्निकम्
०१ ०१ ००१ अथातो भक्तिजिज्ञासा ॥ १॥
०१ ०१ ००२ सा पराऽनुरक्तिरीश्वरे ॥ २॥
०१ ०१ ००३ तत्संस्थस्यामृतत्वोपदेशात् ॥ ३॥
०१ ०१ ००४ ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः ॥ ४॥
०१ ०१ ००५ तयोपक्षयाच्च ॥ ५॥
०१ ०१ ००६ द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः ॥ ६॥
०१ ०१ ००७ न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् ॥ ७॥
०१ ०१ ००८ अत एव फलानन्त्यम् ॥ ८॥
०१ ०१ ००९ तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् ॥ ९॥
द्वितीयमाह्निकम्
०१ ०२ ००१ सा सुख्येतरापेक्षितत्वात् ॥ १०॥
०१ ०२ ००२ प्रकरणाच्च ॥ ११॥
०१ ०२ ००३ दर्शनफलमिति चेन्न तेन व्यवधानात् ॥ १२॥
०१ ०२ ००३ दृष्टत्वाच्च ॥ १३॥
०१ ०२ ००४ अत एव तदभावाद्वल्लवीनाम् ॥ १४॥
०१ ०२ ००५ भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् ॥ १५॥
०१ ०२ ००६ प्रागुक्तं च ॥ १६॥
०१ ०२ ००७ एतेन विकल्पोऽपि प्रत्युक्तः ॥ १७॥
०१ ०२ ००८ देवभक्तिरितरस्मिन् साहचर्यात् ॥ १८॥
०१ ०२ ००९ योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥ १९॥
०१ ०२ ०१० गौण्या तु समाधिसिद्धिः ॥ २०॥
०१ ०२ ०११ हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् ॥ २१॥
०१ ०२ ०१२ तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात् ॥ २२॥
०१ ०२ ०१३ प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः ॥ २३॥
०१ ०२ ०१४ नैव श्रद्धा तु साधारण्यात् ॥ २४॥
०१ ०२ ०१५ तस्यां तत्त्वे चानवस्थानात् ॥ २५॥
०१ ०२ ०१६ ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात् ॥ २६॥
समाप्तश्च प्रथमोऽध्यायः ॥ १॥
द्वितीयोऽध्यायः
प्रथममाह्निकम्
०२ ०१ ००१ बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् ॥ २७॥
०२ ०१ ००२ तदङ्गानां च ॥ २८॥
०२ ०१ ००३ तामैश्वर्यपरां काश्यपः परत्वात् ॥ २९॥
०२ ०१ ००४ आत्मैकपरां बादरायणः ॥ ३०॥
०२ ०१ ००५ उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम् ॥ ३१॥
०२ ०१ ००६ वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात् ॥ ३२॥
०२ ०१ ००७ न च क्लिष्टः परः स्यादनन्तरं विशेषात् ॥ ३३॥
०२ ०१ ००८ ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् ॥ ३४॥
०२ ०१ ००९ अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् ॥ ३५॥
०२ ०१ ०१० सर्वानृते किमिति चेन्नैवम्बुद्ध्यानन्त्यात् ॥ ३६॥
०२ ०१ ०११ प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् ॥ ३७॥
०२ ०१ ०१२ तत्प्रतिष्ठा गृहपीठवत् ॥ ३८॥
०२ ०१ ०१३ मिथोऽपेक्षणादुभयम् ॥ ३९॥
०२ ०१ ०१४ चेत्याचितोर्न तृतीयम् ॥ ४०॥
०२ ०१ ०१५ युक्तौ च सम्परायात् ॥ ४१॥
०२ ०१ ०१६ शक्तित्वान्नानृतं वेद्यम् ॥ ४२॥
०२ ०१ ०१७ तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः ॥ ४३॥
०२ ०१ ०१८ सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थ-
प्राणस्थानतदीयतासर्वतद्भा-
वाप्रातिकूल्यादीनि च स्मरणेभ्यो वाहुल्यात् ॥ ४४॥
०२ ०१ ०१९ द्वेषादयस्तु नैवम् ॥ ४५॥
०२ ०१ ०२० तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा ॥ ४६॥
०२ ०१ ०२१ जन्मकर्मविदश्चाजन्मशब्दात् ॥ ४७॥
०२ ०१ ०२२ तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ॥ ४८॥
०२ ०१ ०२३ मुख्यं तस्य हि कारुण्यम् ॥ ४९॥
०२ ०१ ०२४ प्राणित्वान्न विभूतिषु ॥ ५०॥
०२ ०१ ०२५ द्यूतराजसेवयोः प्रतिषेधाच्च ॥ ५१॥
०२ ०१ ०२६ वासुदेवेऽपीति चेन्नाकारमात्रत्वात् ॥ ५२॥
०२ ०१ ०२७ प्रत्यभिज्ञानाच्च ॥ ५३॥
०२ ०१ ०२८ वृष्णिषु श्रैष्ठ्येन तत् ॥ ५४॥
०२ ०१ ०२९ एवं प्रसिद्धेषु च ॥ ५५॥
द्वितीयमाह्निकम्
०२ ०२ ००१ भक्त्या भजनोपसंहाराद्गौण्या परायै तद्धेतुत्वात् ॥ ५६॥
०२ ०२ ००२ रागार्थप्रकीर्तिसाहचर्याच्चेतरेषाम् ॥ ५७॥
०२ ०२ ००३ अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात् ॥ ५८॥
०२ ०२ ००४ ताभ्यः पावित्र्यमुपक्रमात् ॥ ५९॥
०२ ०२ ००५ तासु प्रधानयोगात् फलाधिक्यमेके ॥ ६०॥
०२ ०२ ००६ नाम्नेति जैमिनिः सम्भवात् ॥ ६१॥
०२ ०२ ००७ अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत् ॥ ६२॥
०२ ०२ ००८ ईश्वरतुष्टेरेकोऽपि बली ॥ ६३॥
०२ ०२ ००९ अबन्धोऽर्पणस्य मुखम् ॥ ६४॥
०२ ०२ ०१० ध्याननियमस्तु दृष्टसौकर्यात् ॥ ६५॥
०२ ०२ ०११ तद्यजिः पूजायामितरेषां नैवम् ॥ ६६॥
०२ ०२ ०१२ पादोदकं तु पाद्यमव्याप्तेः ॥ ६७॥
०२ ०२ ०१३ स्वयमर्पितं ग्राह्यमविशेषात् ॥ ६८॥
०२ ०२ ०१४ निमित्तगुणाव्यपेक्षणादपराधेषु व्यवस्था ॥ ६९॥
०२ ०२ ०१५ पत्रादेर्दानमन्यथा हि वैशिष्टयम् ॥ ७०॥
०२ ०२ ०१६ सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्यः ॥ ७१॥
०२ ०२ ०१७ गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥ ७२॥
०२ ०२ ०१८ बहिरन्तस्थमुभयमवेष्टिसववत् ॥ ७३॥
०२ ०२ ०१९ स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात् ॥ ७४॥
०२ ०२ ०२० भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि ॥ ७५॥
०२ ०२ ०२१ लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् ॥ ७६॥
०२ ०२ ०२२ तत्स्थानत्वादनन्यधर्मः खलेवालीवत् ॥ ७७॥
०२ ०२ ०२३ आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् ॥ ७८॥
०२ ०२ ०२४ अतो ह्यविपक्वभावानामपि तल्लोके ॥ ७९॥
०२ ०२ ०२५ क्रमैकगत्युपपत्तेस्तु ॥ ८०॥
०२ ०२ ०२६ अत्क्रान्तिस्मृतिवाक्यशेषाच्च ॥ ८१॥
०२ ०२ ०२७ महापातकिनां त्वार्तौ ॥ ८२॥
०२ ०२ ०२८ सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् ॥ ८३॥
०२ ०२ ०२९ परां कृत्वैव सर्वेषां तथा ह्याह ॥ ८४॥
समाप्तश्च द्वितीयोऽध्यायः ॥ २॥
तृतीयोऽध्यायः
प्रथममाह्निकम्
०३ ०१ ००१ भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् ॥ ८५॥
०३ ०१ ००२ तच्छक्तिर्माया जडसामान्यात् ॥ ८६॥
०३ ०१ ००३ व्यापकत्वाद्वयाप्यानाम् ॥ ८७॥
०३ ०१ ००४ न प्राणिबुद्धिभ्योऽसम्भवात् ॥ ८८॥
०३ ०१ ००५ निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् ॥ ८९॥
०३ ०१ ००६ मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् ॥ ९०॥
०३ ०१ ००७ फलमस्माद्बादरायणो दृष्टत्वात् ॥ ९१॥
०३ ०१ ००८ व्युत्क्रमादप्ययस्तथा दृष्टम् ॥ ९२॥
द्वितीयमाह्निकम्
०३ ०२ ००१ तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् ॥ ९३॥
०३ ०२ ००२ पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् ॥ ९४॥
०३ ०२ ००३ न विकारिणस्तु करणविकारात् ॥ ९५॥
०३ ०२ ००४ अनन्यभक्त्या तदूबुद्धिर्बुद्धिलयादत्यन्तम् ॥ ९६॥
०३ ०२ ००५ आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ॥ ९७॥
०३ ०२ ००६ संसृतिरेषामभक्तिः स्यान्नाज्ञानात् कारणासिद्धेः ॥ ९८॥
०३ ०२ ००७ त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् ॥ ९९॥
०३ ०२ ००८ आविस्तिरोभावा विकाराः स्युः क्रियाफलसंयोगात् ॥ १००॥
समाप्तश्च तृतीयोऽध्यायः ॥ ३॥
इति श्रीशाण्डिल्यमहर्षिप्रणीतभक्तिसूत्रम्
ENcoded and proofread by Anshuman Pandey pandey at umich.edu