॥ श्रुतिसारसमुद्धरणम् ॥

त्रैलोक्यनाथहरिमीड्यमुदारसत्त्वं शक्तेस्तनूजतनयं परमेष्ठिकल्पम् । जीमूतमुक्तविमलाम्बरचारुवर्णं वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ १॥ सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् । निरविद्यत कश्चिदतो निखिला- दविनाशि कृतेन न लभ्यमिति ॥ २॥ प्रतिपित्सुरसावविनाशि पदं यतिधर्मरतो यतिमेव गुरुम् । विदितात्मसतत्त्वमुपेत्य कविं प्रणिपत्य निवेदितवान्स्वमतम् ॥ ३॥ भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् । कृपया शरणागतमुद्धर मा- मनुशाध्युपसन्नमनन्यगतिम् ॥ ४॥ विनिवर्त्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् । परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममतेः ॥ ५॥ विसृजान्नमयादिषु पञ्चसु ता- महमस्मि ममेति मतिं सततम् । दृशिरूपमनन्तमृतं विगुणं हृदयस्थमवेहि सदाहमिति ॥ ६॥ जलभेदकृता बहुतेव रवे - र्घटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तु तथा बहुता तव बुद्धिदृशोऽविकृतस्य सदा ॥ ७॥ दिनकृत्प्रभया सदृशेन तदा जनधीचरितं सकले स्वचिता । विदितं भवताऽविकृतेन सदा यत एवमतोऽसित एव सदा ॥ ८॥ उपरागमपेक्ष्य मतिर्विषयै- र्विषयावधृतिं कुरुते तु यतः । तत एव मतेर्विदिताविदिता विषयास्तु ततः परिणामवती ॥ ९॥ मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतस्तु ततः । यदि चात्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ॥ १०॥ चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धचिता । मतिभेदगुणो न हि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥ ११॥ विदितत्वमविप्रतिपन्नतया मतिषु प्रगतं विषयेषु यथा । यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ १२॥ परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः । मतयोऽपि तथा परसंविदिता न विदुः स्वममूर्विषयास्तु यथा ॥ १३॥ विषयाकृतिसंस्थितिरेकविधा मनसस्तु सदा व्यवहारविधौ । अहमित्यपि तद्विषया त्वपरा मतिवृत्तिरवज्वलितात्मचिता ॥ १४॥ पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वगुणोऽपि यतः । अत आत्मगुणं प्रतियन्ति जना मतिवृत्तिमिमामहमित्यबुधाः ॥ १५॥ यदि सा न भवेज्जनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् । विफलश्च तदा विषयानुभवो ज्ञगुणो न हि सेति यदा विदिता ॥ १६॥ उपलभ्यघटादिनिभैव भवे- न्मनसो यदि संस्थितिरेकविधा । पुरुषस्य चितिश्च न विक्रियते मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ १७॥ अवगन्त्रवगम्यचिदात्मधियो- रहमित्यभिमानविहीनतया । स्थितयोरभिमानपुरःसरकं व्यवहारपथं न जनोऽवतरेत् ॥ १८॥ अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् । नयनं प्रहिणोति तथान्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥ १९॥ अपहाय न कश्चिदहङ्करणं व्यवहारमुपैति कदाचिदपि । उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ २०॥ चितिशक्तिगुणः किमहङ्करणं किमु बुद्धिगुणोऽथ भवेदुभयोः । इति चिन्त्यमिदं मनसानलसै- रुपपत्तिभिरात्महितं यतिभिः ॥ २१॥ उपलभ्यमहङ्करणं न भवे- त्पुरुषस्य गुणो यदि तर्हि भवेत् । गुणिरूपमथावयवं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ २२॥ न गुणो गुणिनि स्थितवान्गुणिना विषयीक्रियते न च तस्य गुणैः । न हि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ २३॥ न परस्परमग्निगुणोऽग्निगतो विषयत्वमुपैति कदाचिदपि । न हि वह्निरपि स्वगुणं स्वगतं विषयीकुरुते स्वगुणेन भुवि ॥ २४॥ कणभुग्यमचीक्लृपदात्मगुणं गुणपूगमनित्यमनात्मगुणम् । अनयैव दिशा स निराक्रियतां न हि नित्यमनित्यगुणेन गुणि ॥ २५॥ वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः । उपमानमनित्यगुणं वियतो न हि नित्यमिहास्ति कणादमते ॥ २६॥ मनसा पुरुषः पुरुषेण मनो नभसा मुसलं मुसलेन नभः । न हि योगवियोगमुपैति कुतो- ऽवयवित्वनिराकरणादमुतः ॥ २७॥ इह रज्जुघटादि हि सावयवं समुपैति युजामितरेतरतः । इति दृष्टमतोऽन्यददृष्टमपि स्वयमूह्यमिदं न परित्यजता ॥ २८॥ न हि सावयवं विगतावयवै- र्विगतावयवं च न सावयवैः । उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ २९॥ न हि कल्पितभागसमागमनं विगतावयवस्य घटेत कुतः । वितथत्वमतिः सुदृढा तु यतः परिकल्पितवस्तुषु नित्यमतः ॥ ३०॥ इह वेदशिरःसु तदर्थविदः प्रवदन्ति समस्तजगत्प्रकृतिम् । परमात्मपदं दृशिमात्रवपु- र्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ ३१॥ अत एव न किञ्चिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् । यत एवमतः स्थितमुक्तमदो न हि नित्यमनित्यगुणेन गुणि ॥ ३२॥ उपलभ्यमहङ्करणं भवितुं क्षमते दृशिरूपगुणो न यतः । विषयाकृतिरञ्जितधीगुणव- द्विषयत्वमहङ्करणस्य ततः ॥ ३३॥ विषयप्रकृतिं प्रतिपन्नवतीं मतिवृत्तिमहङ्करणं च मतेः । उभयं परिपश्यति योऽविकृतः परमात्मसदुक्तिरसौ पुरुषः ॥ ३४॥ ननु देहभृदेष कथं भवता- भिहितः परमात्मसदुक्तिरिति । न विरुद्धमवादिषमेतमहं श्रुतिरप्यमुमर्थमुवाच यतः ॥ ३५॥ अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति । श्रुतिषु प्रतिपादितमस्य दृशेः परमात्मपदत्वममूषु भृशम् ॥ ३६॥ यदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा । श्रवणेन च यन्न शृणोति सदा मनसापि च यन्मनुते न सदा ॥ ३७॥ वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् । अवगच्छ तदेव पदं परमं त्वमिति श्रुतिरीक्षितुरुक्तवती ॥ ३८॥ परमात्मपदत्व इयं च मया श्रुतिरल्पकणोक्तिरिहाभिहिता । अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरभ्यवदत् ॥ ३९॥ नभसोऽवयवो विकृतिश्च यथा घटिकादिनभो न भवेत्तु तथा । परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ ४०॥ करकादिनिमित्तकमेव यथा करकाम्बरनाम भवेद्वियतः । परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ ४१॥ जनितं वियदग्रणि येन जग- त्परमात्मसदक्षरनामभृता । प्रविवेश स एव जगत्स्वकृतं खमिवेह घटं घटसृष्टिमनु ॥ ४२॥ उदपद्यत खप्रमुखं हि जग- त्परमात्मन इत्यपि याः श्रुतयः । अवधार्यत आभिरभेदमतिः परमात्मसतत्त्वसमर्पणतः ॥ ४३॥ यदि सृष्टिविधानपरं वचनं फलशून्यमनर्थकमेव भवेत् । जगदित्थमजायत धातुरिति श्रवणं पुरुषस्य फलाय न हि ॥ ४४॥ अनृतत्वमवाद्यसकृद्विकृते- र्निरधारि सदेव तु सत्यमिति । श्रुतिभिर्बहुधैतदतोऽवगतं जगतो न हि जन्म विधेयमिति ॥ ४५॥ न च तत्त्वमसीत्यसकृद्वचनं जगतो जनिमात्रविधौ घटते । परमात्मपदानुमतिं तु यदा जनयेत्पुरुषस्य तदा घटते ॥ ४६॥ स्थिरजङ्गमदेहधियां चरितं परिपश्यति योऽविकृतः पुरुषः । परमात्मसदुक्तिरसाविति य- द्भणितं तदतिष्ठिपमित्थमहम् ॥ ४७॥ पृथगेव यदाक्षरतो मतिवि- न्मकरोदकवन्न घटाम्बरवत् । न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष त इत्यपि च ॥ ४८॥ न तु वस्तुसतत्त्वविबोधनकृ- द्विनिवर्तयदप्रतिबोधमिदम् । सदुपासनकर्मविधानपरं यत एवमतो न विरोत्स्यति मे ॥ ४९॥ मनआदिषु कारणदृष्टिविधिः प्रतिमासु च देवधियां करणम् । स्वमतिं ह्यनपोह्य यथा तु तथा त्वमसीह सदात्ममतिर्वचनात् ॥ ५०॥ अथ वा त्वमिति ध्वनिवाच्यमिदं सदसीति वदेद्वचनं गुणतः । विभयं पुरुषं प्रवदन्ति यथा मृगराडयमीश्वरगुप्त इति ॥ ५१॥ यदि वा स्तुतये सदसीति वदे- न्मघवानसि विष्णुरसीति यथा । त्वमिति श्रुतिवाच्यसतत्त्वकता- मथ वा सत एव वदेद्वचनम् ॥ ५२॥ यदि तत्त्वमिति ध्वनिनाभिहितः परमात्मसतत्त्वक एव सदा । किमिति स्वकमेष न रूपमवे- त्प्रतिबोध्यत एव यतो वचनैः ॥ ५३॥ अत एव हि जीवसदात्मकतां न हि तत्त्वमसीति वदेद्वचनम् । यदपीदृशमन्यदतो वचनं तदपि प्रथयेदनयैव दिशा ॥ ५४॥ त्वदुदाहृतवाक्यविलक्षणता वचनस्य हि तत्त्वमसीति यतः । अत एव न दृष्टिविधानपरं सत एव सदात्मकतागमकम् ॥ ५५॥ इतिशब्दशिरस्कपदोक्तमति- र्विहिता मनआदिषु तैर्वचनैः । न विधानमिहास्ति तथा वचने सुविलक्षणमेतदतो वचनात् ॥ ५६॥ मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् । मनआदि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ ५७॥ करको न मृदः पृथगस्ति यथा मनआदि सतोऽस्ति तथा न पृथक् । इति वस्तुसतत्त्वकता तु यदा विधिशब्द इतिश्च तदा तु वृथा ॥ ५८॥ मनआदि समानविभक्तितया विधिशब्दमितिं च विहाय यदि । जनकेन सता सह योगमिया- दनृतं तदिति स्फुटमुक्तमभूत् ॥ ५९॥ ननु जीवसतोरपि तत्त्वमिति स्फुटमेकविभक्त्यभिधानमिदम् । कथमस्य शरीरभृतोऽनृतता न भवेदविभक्तविभक्तियुजः ॥ ६०॥ प्रकृतेरभिधानपदेन यदा विकृतेरभिधानमुपैति युजाम् । अनृतत्वमतिस्तु तदा विकृतौ मृदयं घट इत्यभिधासु यथा ॥ ६१॥ विकृतित्वमवादि मनःप्रभृते- र्बहुशः श्रुतिषु प्रकृतेस्तु सतः । अत एव समानविभक्तितया मनआदि सुवेद्यमसत्यमिति ॥ ६२॥ जनितत्वमवादि न हि श्रुतिभि- र्जनकेन सतास्य शरीरभृतः । मनआदिविकारविलक्षणतां प्रतियन्ति शरीरभृतस्तु ततः ॥ ६३॥ यदजीजनदम्बरपूर्वमिदं जगदक्षरमीक्षणविग्रहकम् । प्रविवेश तदेव जगत्स्वकृतं स च जीवसमाख्य इति श्रुतयः ॥ ६४॥ परमात्मविकारविभक्तमति- र्न भवत्यत एव शरीरभृतः । यत एव विकारविभिन्नमति- र्न भवत्यत एव मृषात्वमतिः ॥ ६५॥ अविभक्तविभक्त्यभिधानकृता परमात्मपदेन शरीरभृतः । न भवेदिह तत्त्वमसिप्रभृतौ लवणं जलमित्यभिधासु यथा ॥ ६६॥ परमात्मविकारनिराकरणं कृतमस्य शरीरभृतस्तु यतः । परमेश्वररूपविलक्षणता न मनागपि देहभृतोऽस्ति ततः ॥ ६७॥ ननु जीवसतोरणुमात्रमपि स्वगतं न विशेषणमस्ति यदा । वद तत्त्वमसीति तदा वचनं किमु वक्ति तथैष त इत्यपि च ॥ ६८॥ स्वगतं यदि भेदकमिष्टमभू- दणुमात्रमपीश्वरदेहभृतोः । अपनेतुमशक्यमदो वचनै- रमुनास्य पृथक्त्वनिषेधपरैः ॥ ६९॥ इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः । वचनेन न तस्य निराकरणं क्रियते स गुणः सहजस्तु यतः ॥ ७०॥ वचनं त्ववबोधकमेव यत- स्तत एव न वस्तुविपर्ययकृत् । न हि वस्त्वपि शब्दवशात्प्रकृतिं प्रजहात्यनवस्थितिदोषभयात् ॥ ७१॥ यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया । अधिरोपितमप्स्विव भूमिगुणं प्रतिषेधति तत्त्वमसीति वचः ॥ ७२॥ अत एव न दृष्टिविधानपरं गुणवादपरं च न तद्वचनम् । स्तुतिवाद्यपि नैतदुपास्यतया विधिरत्र न देहभृतोऽस्ति यतः ॥ ७३॥ सत एव हि नाम जगत्प्रकृते- रुपधानवशादिह जीव इति । अत एव न जीवसतत्त्वकतां प्रकृतस्य सतः प्रतिपादयति ॥ ७४॥ यदि जीवसतत्त्वकतां गमये- दणिमादिगुणस्य जगत्प्रकृतेः । अणिमादिगुणोक्तिरतोऽस्य मृषा यदि वास्य शरीरभृदात्मकता ॥ ७५॥ न च संसृतिहेतुनिराकरणं कृतमस्य शरीरभृतोऽभिमतम् । परमेश्वरमात्मतया ब्रुवता वचनेन च तत्त्वमसीत्यमुना ॥ ७६॥ त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्त्वमिति । क्रियया सह नामपदं समिया- न्निरपेक्षमुपैत्यनया हि युजाम् ॥ ७७॥ न हि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति । प्रतिपादकमेषु लिङादि भवे- द्विहितादिमतेर्जनकं हि यतः ॥ ७८॥ भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः । प्रथमं त्वमसीति पदे समित- श्चरमं त्वसिना समियात्तदिति ॥ ७९॥ पुरुषोऽभिहितस्त्वमसीति यदा किमसानि वदेति तदाभिमुखः । श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥ ८०॥ त्वमिति ध्वनिनाभिहितस्य यत- स्तदिति श्रुतिवाच्यसदात्मकताम् । अवदद्वचनं तत एव सतो न हि जीवसतत्त्वकतां वदति ॥ ८१॥ विषयाभिमुखानि शरीरभृतः स्वरसेन सदा करणानि यतः । स्वकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥ ८२॥ वचनं च पराञ्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् । विषयेषु च नावमिवाम्भसि य- न्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ ८३॥ इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशेरिति वाच्यमिदम् । स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ ८४॥ द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् । उपदेशमपेक्ष्य सदात्ममतिः परमात्मसतत्त्वकता च सदा ॥ ८५॥ सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः । अत एव न जीवसदात्मकतां प्रतिबोधयतीत्यवदत्तदसत् ॥ ८६॥ सदुपास्स्व(?) इति श्रुतिरत्र न ते तदसि त्वमिति श्रुतिरेवमियम् । यत एवमतो न विधित्सतता सदुपासनकर्मण इत्यमृषा ॥ ८७॥ यदि तस्य कुतश्चिदिहानयनं क्रियते तदनर्थकमेव भवेत् । पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् ॥ ८८॥ किमरे पुरुषं प्रतिबोधयितुं स्वकमर्थमशक्तमिदं वचनम् । यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनापि विधेः ॥ ८९॥ श्रुतहानिरिहाश्रुतक्लृप्तिरपि श्रुतिवित्समयो न भवेत्तु यतः । श्रुतिभक्तिमता श्रुतिवक्त्रगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ ९०॥ पुरुषस्य शरीरगतात्ममतिं मृतिसम्भवहेतुमनर्थकरीम् । अपनीय सदात्ममतिं दधती महते पुरुषस्य हिताय भवेत् ॥ ९१॥ विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा । वचनेन तु तत्त्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥ ९२॥ यदि नापनयेच्छ्रुतिरात्ममतिं पुरुषस्य शरीरगतामनृताम् । तदहम्मतिहेतुककर्मगतिं सुखदुःखफलामवशोऽनुभवेत् ॥ ९३॥ यदि तत्त्वमसीति वदेद्वचनं सदुपासनकर्म न तत्त्वमिति । पुरुषस्य फलं सदुपासनतो विमृशामि भविष्यति कीदृगिति ॥ ९४॥ पुरुषस्य तु मर्त्यगुणस्य भवे- त्सदुपासनया न सदात्मकता । न कथञ्चिदपि प्रजहाति यतः प्रकृतिं सहजामिह कश्चिदपि ॥ ९५॥ यदि देहभृदेष सदात्मकतां प्रगमिष्यति वै सदुपासनया । न च हास्यति रूपमसौ हि निजं यत ऐक्यमतिर्न भरत्युभयोः ॥ ९६॥ रसविद्धमयः प्रकृतिं सहजां प्रविहाय यथा कनकत्वमियात् । पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् ॥ ९७॥ अयसोऽवयवानभिभूय रसः स्थितवाननलानुगृहीतिमनु । कनकत्वमतिं जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ ९८॥ उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् । विपरीतमतिं जनयत्युदके रजते च तथायसि हेममतिम् ॥ ९९॥ रसवीर्यविपाकविनाशमनु प्रविनश्यति काञ्चनताप्ययसः । कृतकं हि न नित्यमिति प्रगतं समवेतमवश्यमपैति यतः ॥ १००॥ अमृतत्वमसत्पुरुषस्य यदि क्रियते सदुपासनया यजिवत् । यजिकार्यवदन्तवदेव भवे- त्कृतकस्य यतो विदिताध्रुवता ॥ १०१॥ पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः । यदि सङ्गतिरिष्यत एव तयो- रवियुक्ततया न चिरं वसतः ॥ १०२॥ फलमीदृगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः । न च तन्निरवद्यतयाभिमतं विदुषां बहुदोषसमीक्षणतः ॥ १०३॥ सदुपासनकर्मविधानपरं न भवेदत एव हि तद्वचनम् । अहमस्मि शरीरमिदं च ममे- त्यविवेकमतिं विनिवर्तयति ॥ १०४॥ सकलोपनिषत्सु शरीरभृतः परमात्मपदैकविभक्तितया । उपदेशवचांस्यनयैव दिशा गमयेन्मतिमानभियुक्ततया ॥ १०५॥ द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् । शबरेण विवर्धितराजशिशो- र्निजजन्मविदुक्तिनिदर्शनतः ॥ १०६॥ यत एवमतः स्वशरीरगता- महमित्यविवेकमतिं सुदृढाम् । प्रविहाय यदक्षरमद्वयकं त्वमवेहि तदक्षरमात्मतया ॥ १०७॥ न मनो न मतिः करणानि च नो न रजो न तमो न च सत्त्वमपि । न मही न जलं न च वह्निरपि श्वसनो न नभश्च पदं परमम् ॥ १०८॥ अमनस्कमधीकमनिन्द्रियकं विरजस्कमसत्त्वतमस्कमपि ॥ अमहीजलवह्न्यनिलाम्बरकं परमक्षरमात्मतयाश्रय भोः ॥ १०९॥ करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् । तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ ११०॥ करणानि यदोपरतानि तदा विषयानुभवाहितवासनया । विषयेण विना विषयप्रतिमं स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ १११॥ करणस्य धियः स्फुरणेन विना विषयाकृतिकेन तु या स्थितता । प्रवदन्ति सुषुप्तिममुं हि बुधा विनिवृत्ततृषः श्रुतितत्त्वविदः ॥ ११२॥ इति जागरितं स्वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तिरपि । न कदाचिदपि त्रयमस्ति ममे- त्यवगच्छ सदास्मि तुरीयमिति ॥ ११३॥ यदु जागरितप्रभृति त्रितयं परिकल्पितमात्मनि मूढधिया । अभिधानमिदं तदपेक्ष्य भवे- त्परमात्मपदस्य तुरीयमिति ॥ ११४॥ यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणश्च ततः परिनिर्मितवारणचेष्टितवत् ॥ ११५॥ गगनप्रमुखं पृथिवीचरमं विषयेन्द्रियबुद्धिमनःसहितम् । जनिमज्जगदेतदभूतमिति श्रुतयः प्रवदन्त्युपमानशतैः ॥ ११६॥ कफपित्तसमीरणधातुधृतं कुशरीरमिदं सततं हि यथा । प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुधृतं हि तथा ॥ ११७॥ जगतः स्थितिकारणमित्थमिदं प्रथितं रविवह्निशशित्रितयम् । स्मृतिवेदजनेषु भृशं प्रथितं श्रुतिरीरितवत्यनृतं तदिति ॥ ११८॥ यदु रोहितशुक्लसुकृष्णमिदं ज्वलनादिषु रूपमवैति जनः । तदु तैजसमाप्यमथान्नमिति ब्रुवती त्रयमेव तु सत्यमिति ॥ ११९॥ रुचकप्रमुखं कनकादिमयं रुचकाद्यभिधाननिमित्तमपि । असदित्यवगम्यत एव यतो व्थभिचारवती रुचकादिमतिः ॥ १२०॥ न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः । तत एव हि सत्यतयाभिमतं कनकादिविपर्यय एषु न हि ॥ १२१॥ रुचकादिसमं ज्वलनादि भवे- दनृतत्वगुणेन तु सत्यतया । अरुणप्रमुखं ज्वलनप्रभृति- प्रकृतित्रितयं कनकादिसमम् ॥ १२२॥ अनयोपमयानृततामवद- च्छ्रुतिरग्निदिवाकरचन्द्रमसाम् । अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३॥ अनृतत्वमिदं ज्वलनप्रभृते- र्यदवादि भवेत्तदुदाहरणम् । वितथा विकृतिः सततं सकला न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ १२४॥ प्रदिदर्शयिषुर्वसनस्य यथा वितथत्वमपास्यति तन्तुगुणम् । अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती ॥ १२५॥ अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् । अनृतं त्वपरं विकृतिस्तु यतो- ऽवितथं तु परं प्रकृतिस्तु यतः ॥ १२६॥ अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति । इति सिद्धमतो यदवादि मया जनिमज्जगदेतदभूतमिति ॥ १२७॥ मनसोऽप्यनृतत्वमसेध्यमुतः प्रतिपादितहेतुत एव भवेत् । चरितं च तदीयमसत्यमतः परिनिर्मितवारणचेष्टितवत् ॥ १२८॥ ननु नाभ्यवदच्छ्रुतिरुद्भवनं मनसस्तु सतो न च खप्रमुखात् । कथमस्य भवेदनृतत्वगति- र्मनसो भगवन्वद निश्चयतः ॥ १२९॥ ननु सप्तम आत्मन उद्भवनं मनसोऽभिदधावसुनापि सह । कथमस्य भवेदमृषात्वगति- र्मनसो विकृतित्वगुणस्य वद ॥ १३०॥ असुना करणैर्गगनप्रमुखैः सह मुण्डक उद्भवनं मनसः । पुरुषात्परमात्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥ १३१॥ मनसोऽन्नमयत्वमवादि यत- स्तत एव हि भूतमयत्वगतिः । कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥ १३२॥ कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं न हि सत्यमिति । प्रथमं चरमं च न चास्ति यतो रुचकादिवदित्युपमां च वद ॥ १३३॥ कनके रुचकादि न पूर्वमभू- च्चरमं च न विद्यत इत्यनृतम् । अधुनापि तथैव समस्तमिदं जनिमाद्वियदादि भवेदनृतम् ॥ १३४॥ कनकादिषु यद्युषजातमभू- द्रुचकप्रमुखं पृथगेव ततः । अधिकं परिमाणममीषु कुतो न भवेदिति वाच्यमवश्यमिदम् ॥ १३५॥ कनकप्रभृतेर्व्यतिरिक्तमतो रुचकादि न विद्यत एव कुतः । पृथगग्रहणात्कनकप्रभृते- रिति कारणमेव सदन्यदसत् ॥ १३६॥ ननु नाम पृथग्विकृतेः प्रकृते- रथ रूपमथापि च कार्यमतः । कथमव्यतिरिक्ततयावगमः प्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ १३७॥ इह वीरणतन्तुसुवर्णमृदः कटशाटकहारघटाकृतयः । उपलब्धृजनैरुपलब्धिमिता न भिदास्ति ततः प्रकृतेर्विकृतेः ॥ १३८॥ विकृतिर्यदि नास्ति पृथक्प्रकृते- र्न घटेत भिदाप्यभिधाप्रभृतेः । इति धीर्विफला तव येन जनै- र्विविदे नयनेन मृदाद्यभिदा ॥ १३९॥ ननु रूपमथो अपि कार्यमथो अभिधापि नटस्य पृथग्विदिता । न पृथक्त्वमुपैति नटः किमिति प्रतिवाच्यमवश्यमिदं कुशलैः ॥ १४०॥ असतो न कथञ्चन जन्म भवे- त्तदसत्त्वत एव खपुष्पमिव । न सतोऽस्ति भवः पुरतोऽपि भवा- द्यत आत्मवदेव सदिष्टमिति ॥ १४१॥ कपिलासुरिपञ्चशिखादिमतं परिगृह्य वदेद्यदि कश्चिदिदम् । न कदाचन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्त्वमपि ॥ १४२॥ प्रकृतावविशिष्टतया यदभू- दधुना तु तदेव विशेषयुतम् । निरवद्यमिदं प्रतिभाति मम प्रवदात्र विरोधमवैषि यदि ॥ १४३॥ सदयुज्यत येन गुणेन पुरा प्रकृतौ स इहास्ति न चेति वद । यदि विद्यत एव पुरा प्रकृता- वधुनापि विशेषयुतत्वमसत् ॥ १४४॥ यदि नास्ति पुरा स गुणः प्रकृता- वसदुद्भवनं भवतोऽभिमतम् । जननेन च सत्त्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥ १४५॥ भवतोऽभिमतं परिहर्तुमिदं न कथञ्चन शक्यत इत्यमुतः । कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥ १४६॥ असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः । उपपत्तिविरुद्धतया सुभृशं तदभाणि मयापि विरुद्धतया ॥ १४७॥ प्रतिषिद्धमिदं कणभोजिमतं हरिणापि समस्तगुरोर्गुरुणा । वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ १४८॥ असतश्च सतश्च न जन्म भवे- दिति पूर्वमवाद्युपपत्तियुतम् । सदसच्च न जायत एव कुतो न हि वस्तु तथाविधमास्ति यतः ॥ १४९॥ सदसत्त्वमतीत्य मनःप्रभृते- र्न कथञ्चन वृत्तिरिहास्ति यतः । तत एव मनःप्रमुखस्य भवो न भवेदिति सर्वसुवेदमिति ॥ १५०॥ यदि नाम कथञ्चिदमुष्य भवः सदसत्त्वमपेक्ष्य भविष्यति वः । अमृषात्वममुष्य तथापि न तु श्रुतिरस्य मृषात्वमुवाच यतः ॥ १५१॥ मनसोऽनृततैवमवादि यत- स्तत एव हि तस्य मृषा चरितम् । यत एव मृषा मनसश्चरितं तत एव पुरोदितसिद्धिरभूत् ॥ १५२॥ यदपेक्ष्य तु नाम भवेत्त्रितयं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणस्तु यतः परिनिर्मितसर्पविसर्पणवत् ॥ १५३॥ निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया । श्रुतियुक्तिबलेन ततोऽद्वयकं परमक्षरमेव सदन्यदसत् ॥ १५४॥ यदपूर्वमबाह्यमनन्तरकं न च किञ्चन तस्य भवत्यपरम् । इति वेदवचोऽनुशशास यतो वितथं परतोऽन्यदतः प्रगतम् ॥ १५५॥ प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती । अवबोधघनत्वमतोऽन्यदस- ल्लवणैकरसत्वनिदर्शनतः ॥ १५६॥ लवणैकरसत्वसमं भणितं स्वविलक्षणवस्तुनिषेधनतः । अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाहमिति ॥ १५७॥ अणु नो न च तद्विपरीतगुणं न च ह्रस्वमतो न च दीर्घमपि । प्रतिषिद्धसमस्तविशेषणकं परमक्षरमात्मतयाश्रय भोः ॥ १५८॥ असुबुद्धिशरीरगुणान्षडिमा- नविवेकिजनैर्दृशिधर्मतया । प्रतिपन्नतमान्प्रविहाय शनै- र्दृशिमात्रमवेहि सदाहमिति ॥ १५९॥ अहिनिर्ल्वयनीमहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा । परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ १६०॥ अविवेकत आत्मतया विदितं कुशरीरमिदं भवताप्यहिवत् । अहिवत्त्यज देहमिमं त्वमपि प्रतिपद्य चिदात्मकमात्मतया ॥ १६१॥ रजनीदिवसौ न रवेर्भवतः प्रभया सततं युत एष यतः । अविवेकविवेकगुणावपि तौ भवतो न रवेरिव नित्यदृशेः ॥ १६२॥ परिशुद्धविबुद्धविमुक्तदृशे- रविवेकविवेकविवर्जनतः । मम बन्धविमोक्षगुणौ भवतो न कदाचिदपीत्यवगच्छ भृशम् ॥ १६३॥ न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः । न हि कस्यचिदात्मनि कर्म भवे- न्न च कश्चिदिहास्ति मदन्य इति ॥ १६४॥ अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति । न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम् ॥ १६५॥ गगने विमले जलदादिमले सति वासति वा न भिदास्ति यथा । त्वयि सर्वगते परिशुद्धदृशौ न भिदास्ति तथा द्वयभेदकृता ॥ १६६॥ अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् । अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥ १६७॥ बहुनाभिहितेन किमु क्रियते शृणु सङ्ग्रहमत्र वदामि ततः । त्वयि जागरितप्रभृति त्रितयं परिकल्पितमित्यसदेव सदा ॥ १६८॥ परिकल्पितमित्यसदित्युदितं मन इत्यभिशब्दितमागमतः । उपपत्तिभिरेव च सिद्धमतो भवतोऽन्यदशेषमभूतमिति ॥ १६९॥ यदबाह्यमनन्तरमेकरसं यदकार्यमकारणमद्वयकम् । यदशेषविशेषविहीनतरं दृशिरूपमनन्तमृतं तदसि ॥ १७०॥ इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् । इति पिप्पलभक्ष इवाभ्यवद- द्ध्यवशिष्टमतिं विनिवारयितुम् ॥ १७१॥ इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् । अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ १७२॥ अधुनास्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः । प्रहसान्विषयान्मृगतोयसमा- न्विचरामि महीं भवता सहितः ॥ १७३॥ तव दास्यमहं भृशमामरणा- त्प्रतिपद्य शरीरधृतिं भगवन् । करवाणि मया शकनीयमिदं तव कर्तुमतोऽन्यदशक्यमिति ॥ १७४॥ गुरुशिष्यकथाश्रवणेन मया श्रुतिवच्छ्रुतिसारसमुद्धरणम् । कृतमित्थमवैति य एतदसौ न पतत्युदधौ मृतिजन्मजले ॥ १७५॥ भगवद्भिरिदं गुरुभक्तियुतैः पठितव्यमपाठ्यमतोऽन्यजनैः । गुरुभक्तिमतः प्रतिभाति यतो गुरुणोक्तमतोऽन्यभजन्न पठेत् ॥ १७६॥ निगमोऽपि च यस्य इतिप्रभृति- र्गुरुभक्तिमतः कथितं गुरुणा । प्रतिभाति महात्मन इत्यवद- त्पठितव्यमतो गुरुभक्तियुतैः ॥ १७७॥ येषां धीसूर्यदीप्त्या प्रतिहतमगमन्नाशमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः सद्यो मुक्ताः स्थितास्तान्यतिवरमहितान्यावदायुर्नमामि ॥ १७८॥ भूः पादौ यस्य खं चोदरमसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यै- श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १७९॥ इति श्री तोटकाचार्यविरचितं श्रुतिसारसमुद्धरणं समाप्तम् ॥ The text is composed in a meter called toTaka. Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Shrutisarasamuddharanam
% File name             : shrutisAra.itx
% itxtitle              : shrutisArasamuddharaNam (toTakAchAryavirachitam)
% engtitle              : Shrutisarasamuddharanam
% Category              : vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Totakacharya (Adi Sankaracharya's Disciple)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail
% Proofread by          : Sunder Hattangadi sunderh at hotmail
% Description-comments  : Totakacharya's work on Advaita
% Latest update         : January 23, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP