स्वयम्भूस्तोत्रम्

स्वयम्भूस्तोत्रम्

स्वयम्भुवे नमस्तुभ्यम् । अनुक्रमणिका १. श्री ऋषभनाथ अथवा आदिनाथ जिन-स्तुतिः २. श्री अजितनाथ जिन-स्तुतिः ३. श्री शम्भवनाथ जिन-स्तुतिः ४. श्री अभिनन्दननाथ जिन-स्तुतिः ५. श्री सुमतिनाथ जिन-स्तुतिः ६. श्री पद्मप्रभ जिन-स्तुतिः ७. श्री सुपार्श्वनाथ जिन-स्तुतिः ८. श्री चन्दप्रभ जिन-स्तुतिः ९. श्री सुविधिनाथ जिन-स्तुतिः १०. श्री शीतलनाथ जिन-स्तुतिः ११. श्री श्रेयांसनाथ जिन-स्तुतिः १२. श्री वासुपूज्य जिन-स्तुतिः १३. श्री विमलनाथ जिन-स्तुतिः १४. श्री अनन्तनाथ जिन-स्तुतिः १५. श्री धर्मनाथ जिन-स्तुतिः १६. श्री शान्तिनाथ जिन-स्तुतिः १७. श्री कुन्थुनाथ जिन-स्तुतिः १८. श्री अरनाथ जिन-स्तुतिः १९. श्री मल्लिनाथ जिन-स्तुतिः २०. श्री मुनिसुव्रत जिन-स्तुतिः २१. श्री नमिनाथ जिन-स्तुतिः २२. श्री नेमिनाथ जिन-स्तुतिः २३. श्री पार्श्वनाथ जिन-स्तुतिः २४. श्री महावीर जिन-स्तुतिः

अथ स्तोत्रम्

१. श्री ऋषभनाथ अथवा आदिनाथ जिन-स्तुतिः

स्वयम्भुवां भूत-हितेन भूतले समञ्जस-ज्ञान-विभूति-चक्षुषा । विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणौत्करैः करैः ॥ १॥ प्रजापतिर्यः प्रथमं जिजीविषूः शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥ २॥ विहाय यः सागर-वारि-वाससं वधूमिवेमां वसुधा-वधूं सतीम् । मुमुक्षुरिक्ष्वाकु कुलादिरात्मवान् प्रभुः प्रवव्राज सहिष्णुरच्युतः ॥ ३॥ स्व-दोष-मूलं स्व-समाधि-तेजसा निनाय यो निर्दय-भस्मसात्क्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा बभूव च ब्रह्म-पदामृतेश्वरः ॥ ४॥ स विश्व-चक्षुर्वष भोऽर्चितः सतां समग्र-विद्याऽऽत्म-वपुर्निरञ्जनः । पुनातु चेतो मम नाभि-नन्दनो जिनोऽजित-दुल्लक-वादि-शासनः ॥ ५॥

२. श्री अजितनाथ जिन-स्तुतिः

यस्य प्रभावात् त्रिदिव-च्युतस्य क्रीडास्वपि क्षीबमुखाऽरविन्दः अजेय-शक्तिर्भुवि बन्धु-वर्ग- श्चकार नामाऽजित इत्यबन्ध्यम् ॥ ६॥ अद्याऽपि यस्याऽजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् । प्रगृह्यते नाम परम-पवित्रं स्वसिद्धि-कामेन जनेन लोके ॥ ७॥ यः प्रादुरासीत्प्रभु-शक्ति-भूम्ना भव्याऽऽशयालीन-कलङ्क-शान्त्यै । महामुनिर्मुक्त-घनोपदेहो यथाऽरविन्दाऽभ्युदयाय भास्वान् ॥ ८॥ येन प्रणीतं पृथु धर्म-तीर्थं ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाङ्गं हृदं चन्दन-पङ्क-शीतं गज-प्रवेका इव धर्म-तप्ताः ॥ ९॥ स ब्रह्मनिष्ठः सम-मित्र-शत्रु- विद्या-विनिर्वान्त-कषाय-दोषः । लब्धात्मलक्ष्मीरजितोऽजितात्मा जिन श्रियं मे भगवान् विधत्ताम् ॥ १०॥

३. श्री शम्भवनाथ जिन-स्तुतिः

त्वं शम्भवः सम्भव-तर्ष-रोगैः सन्तप्यमानस्य जनस्य लोके । आसीरिहाऽऽकस्मिक एव वैद्यो वैद्यो यथाऽनाथरुजां प्रशान्त्यै ॥ ११॥ अनित्यमत्राणमहङ्क्रियाभिः प्रसक्त-मिथ्याऽध्यवसाय-दोषम् । इदं जगज्जन्म-जराऽन्तकार्तं निरञ्जनां शान्तिमजीगमस्त्वम् ॥ १२॥ शतहृदोन्मेष-चलं हि सौख्यं तृष्णामयाऽप्यायन-मात्र-हेतुः । तृष्णाभिवृद्धिश्च तपत्यजस्त्रं तापस्तदायासयतीत्यवादीः ॥ १३॥ बन्धश्च मोक्षश्च तयोश्च हेतू बद्धश्च मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ! तवैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ १४॥ शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः । तथाऽपि भक्त्या स्तुत-पाद-पद्मो ममार्य ! देयाः शिवतातिमुच्चैः ॥ १५॥

४. श्री अभिनन्दननाथ जिन-स्तुतिः

गुणाऽभिनन्दादभिनन्दनो भवान् दया-वधूं क्षान्ति-सखीमशिश्रियत् । समाधि-तन्त्रस्तदुपोपपत्तये द्वयेन नैर्ग्रन्थ्य-गुणेन चाऽयुजत् ॥ १६॥ अचेतने तत्कृत-बन्धजेऽपि च ममेदमित्याभिनिवेशिक ग्रहात् । प्रभङ्गुरे स्थावर-निश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७॥ क्षुदादि-दुःख-प्रतिकारतः स्थिति- र्न चेन्द्रियार्थ-प्रभवाऽल्प-सौख्यतः । ततो गुणो नास्ति च देह देहिनो- रितीदमित्थं भगवान् व्यजिज्ञपत् ॥ १८॥ जनोऽतिलोप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाऽप्यमुत्राऽप्यनुबन्धदोषवित् कथं सुखे संसजतीति चाऽब्रवीत् ॥ १९॥ स चानुबन्धोऽस्य जनस्य तापकृत् तृषोऽभिवृद्धिः सुखतो न च स्थितिः । इति प्रभो ! लोक-हितं यतो मतं ततो भवानेव गतिः सतां मतः ॥ २०॥

५. श्री सुमतिनाथ जिन-स्तुतिः

अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं स्वयं मतं येन सुयुक्ति-नीतम् । यतश्च शेषेषु मतेषु नास्ति सर्व-क्रिया-कारक-तत्त्व-सिद्धिः ॥ २१॥ अनेकमेकं च तदेव तत्त्वं भेदाऽन्वयज्ञानमिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥ २२॥ सतः कथञ्चित्तदसत्त्व-शक्तिः खे नास्ति पुष्पं तरुषु प्रसिद्धम् । सर्व-स्वभाव-च्युतमप्रमाणं स्व-वाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ २३॥ न सर्वथा नित्यमुदेत्यपैति न च क्रिया-कारकमन्त्र युक्तम् । नैवाऽसतो जन्म सतो न नाशो दीपस्तमः पुद्गलभावतोऽस्ति ॥ २४॥ विधिर्निषेधश्च कथञ्चिदिष्टौ विवक्षया मुख्य-गुण-व्यवस्था । इति प्रणीतिः सुमतेस्तवेयं मति-प्रवेकः स्तुवतोऽस्ति नाथ ! ॥ २५॥

६. श्री पद्मप्रभ जिन-स्तुतिः

पद्मप्रभः पद्म-पलाश-लेश्यः पद्मालयाऽऽ लिङ्गितचारुमूर्तिः । बभौ भवान् भव्य-पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ २६॥ बभार पद्मां च सरस्वतीं च भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समग्र-शोभां सर्वज्ञ-लक्ष्मीज्वलितां विमुक्तः ॥ २७॥ शरीर-रश्मि-प्रसरः प्रभोस्ते बालार्क-रश्मिच्छविराऽऽलिलेप । नराऽमराऽऽकीर्ण-सभां प्रभा वां शैलस्य पद्माभमणेः स्वसानुम् ॥ २८॥ नभस्तलं पल्लवयन्निव त्वं सहस्रपत्राऽम्बुज-गर्भचारैः । पदाऽम्बुजैः पातित-मार-दर्पो भूमौ प्रजानां विजहर्थ भूत्यै ॥ २९॥ गुणाम्बुधेर्विप्रुषमप्यजस्य नाऽऽखण्डलः स्तोतुमलं तवर्षेः । प्रागेव मादृक्किमुताऽतिभक्ति- म बालमालापयतीदमित्थम् ॥ ३०॥

७. श्री सुपार्श्वनाथ जिन-स्तुतिः

स्वाथ्यं यदात्यन्तिकमेष पुंसां स्वार्थो न भोगः परिभङ्गुरात्मा । तृषोऽनुषङ्गान्न च तापशान्ति- रितीदमाख्यद्भगवान् सुपार्श्वः ॥ ३१॥ अजङ्गगमं जङ्गम-नेय-यन्त्रं यथा तथा जीव-धृतं शरीरम् । बीभत्सु पूति क्षयि तापकं च स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ॥ ३२॥ अलङ्घ्यशक्तिर्भवितव्यतेयं हेतु-द्वयाऽऽविष्कृत-कार्य-लिङ्गा । अनीश्वरो जन्तुरहङ्क्रियार्त्तः संहत्य कार्येष्विति साध्ववादीः ॥ ३३॥ बिभेति मृत्योर्न ततोऽस्ति मोक्षो नित्य शिवं वाञ्छति नाऽस्य लाभः । तथाऽपि बालो भय-काम-वश्यो वृथा स्वयं तप्यत इत्यवादीः ॥ ३४॥ सर्वस्य तत्त्वस्य भवान् प्रमाता मातेव बालस्य हितानुशास्ता । गुणाऽवलोकस्य जनस्य नेता मयाऽपि भक्त्या परिणयतेऽद्य ॥ ३५॥

८. श्री चन्दप्रभ जिन-स्तुतिः

चन्द्रप्रभं चन्द्र-मरीचि-गौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं जिनं जित-स्वान्त-कषाय-बन्धम् ॥ ३६॥ यस्याङ्ग-लक्ष्मी-परिवेश-भिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहु मानसं च ध्यान-प्रदीपाऽतिशयेन भिन्नम ॥ ३७॥ स्व-पक्ष-सौस्थित्य-मदाऽवलिप्ता वाक्सिंह-नादैर्विमदा बभूवुः । प्रवादिनो यस्य मदार्द्रगण्डा गजा यथा केसरिणो निनादैः ॥ ३८॥ यः सर्व-लोके परमेष्ठितायाः पदं बभूवाऽद्भुत-कर्मतेजाः । अनन्त-धामाऽक्षर-विश्वचक्षुः समन्तदुःख-क्षय-शासनश्च ॥ ३९॥ स चन्द्रमा भव्य-कुमुद्वतीनां विपन्न-दोषाऽभ्र-कलङ्क-लेपः । व्याकोश-वाङ्-न्याय-मयूख-मालः पूयात्पवित्रो भगवान्मनो मे ॥ ४०॥

९. श्री सुविधिनाथ जिन-स्तुतिः

एकान्तदृष्टि-प्रतिषेधि तत्त्वं प्रमाण-सिद्धं तदतत्स्वभावम् । त्वया प्रणीतं सुविधे ! स्वधाम्ना नैतत्समालीढ-पदं त्वदन्यैः ॥ ४१॥ तदेव च स्यान्न तदेव च स्यात् तथाप्रतीतेस्तव तत्कथञ्चित् । नाऽत्यन्तमन्यत्वमनन्यता च विधेर्निषेधस्य च शून्य-दोषात् ॥ ४२॥ नित्यं तदेवेदमिति प्रतीते- र्न नित्यमन्यत् प्रतिपत्ति-सिद्धेः । न तद्विरुद्धं बहिरन्तरङ्ग- निमित्त-नैमित्तिक-योगतस्ते ॥ ४३॥ अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या । आकाङ्क्षिणः स्यादिति वै निपातो गुणाऽनपेक्षं नियमेऽपवादः ॥ ४४॥ गुण-प्रधानार्थमिदं हि वाक्यं जिनस्य ते तद् द्विषतामपथ्यम् । ततोऽभिवन्द्यं जगदीश्वराणां ममाऽपि साधोस्तव पादपद्मम् ॥ ४५॥

१०. श्री शीतलनाथ जिन-स्तुतिः

न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः । यथा मुनेस्तेऽनघवाक्य-रश्मयः शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥ ४६॥ सुखाऽभिलाषाऽनल-दाह-मूर्च्छितं मनो निजं ज्ञानमयाऽमृताम्बुभिः । व्यदिध्यपस्त्वं विष-दाह-मोहितं यथा भिषग्मन्त्र-गुणैः स्व-विग्रहम् ॥ ४७॥ स्व-जीविते काम-सुखे च तृष्णया दिवा श्रमार्त्ता निशि शेरते प्रजाः । त्वमार्य ! नक्तं-दिवमप्रमत्तवा- नजागरेवाऽऽत्म-विशुद्ध-वर्त्मनि ॥ ४८॥ अपत्य-वित्तोत्तर-लोक-तृष्णया तपस्विनः केचन कर्म कुर्वते । भवन्पुनर्जन्म-जरा-जिहासया त्रयीं प्रवृत्तिं समधीरवारुणत् ॥ ४९॥ त्वमुत्तम-ज्यातिरजः क्व निर्वृतः क्व ते परे बुद्धि-लवोद्धव-क्षताः । ततः स्वनिः श्रेयस-भावनापरै- बुध-प्रवेकैर्जिन ! शीतलेड्यसे ॥ ५०॥

११. श्री श्रेयांसनाथ जिन-स्तुतिः

श्रेयान् जिनः श्रेयसि वर्त्मनीमाः श्रेयः प्रजाः शासदजेयवाक्यः । भवांश्चकाशे भुवनत्रयेऽस्मि- नेको यथा वीत-घनो विवस्वान् ॥ ५१॥ विधिर्विषक्त-प्रतिषेधरूपः प्रमाणमत्राऽन्यतरत्प्रधानम् । गुणो परो मुख्य नियामहेतु- र्नयः दृष्टान्तसमर्थनस्ते ॥ ५२॥ विवक्षितो मुख्य इतीष्यतेऽन्यो गुणोऽविवक्षो न निरात्मकस्ते । तथाऽरिमित्राऽनुभयादिशक्ति द्वयाऽवधेः कार्यकरं हि वस्तु ॥ ५३॥ दृष्टान्त-सिद्धावुभयोर्विवादे साध्यं प्रसिद्ध्येन्न तु तादृगस्ति । यत्सर्वथैकान्त-नियामि दृष्टं त्वदीय-दृष्टिर्विभवत्यशेषे ॥ ५४॥ एकान्त-दृष्टि-प्रतिषेध-सिद्धि- न्यायेषुभिर्मोहरिपुं निरस्य । असि स्म कैवल्य-विभूति-संराट् ततस्त्वमर्हन्नसि मे स्तवाऽर्हः ॥ ५५॥

१२. श्री वासुपूज्य जिन-स्तुतिः

शिवासुपूज्योऽभ्युदय-क्रियासु त्वं वासुपूज्यस्त्रिदशेन्द्र-पूज्यः । मयाऽपि पूज्योऽल्प-धिया मुनीन्द्र ! दीपार्चिषा किं तपनो न पूज्यः ॥ ५६॥ न पूजयाऽर्थस्त्वयि वीतरागे न निन्दया नाथ ! विवान्त-वैरे । तथाऽपि ते पुण्य-गुण-स्मृतिर्नः पुनाति चित्तं दुरिताञ्जनेभ्यः ॥ ५७॥ पूज्यं जिनं त्वाऽर्चयतो जनस्य सावद्य-लेशो बहु-पुण्य-राशौ । दोषाय नाऽलं कणिका विषस्य न दूषिका शीत-शिवाऽम्बुराशौ ॥ ५८॥ यद्वस्तु बाह्यं गुण-दोष-सूते- निमित्तमभ्यन्तर-मूलहेतोः । अध्यात्म-वृत्तस्य तदङ्गभूत- मभ्यन्तरं केवलमप्यलं ते ॥ ५९॥ बाह्येतरोपाधि-समग्रतेयं कार्येषु ते द्रव्यगतः स्वभावः । नैवाऽन्यथा मोक्ष-विधिश्च पुंसां तेनाभिवन्द्यस्त्वमृषिर्बुधानाम् ॥ ६०॥

१३. श्री विमलनाथ जिन-स्तुतिः

य एव नित्य-क्षणिकादयो नया मिथोऽनपेक्षाः स्व-पर-प्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षा स्व-परोपकारिणः ॥ ६१॥ यथैकशः कारकमर्थ-सिद्धये समीक्ष्य शेषं स्व-सहाय-कारकम् । तथैव सामान्य-विशेष-मातृका नयास्तवेष्टा गुण-मुख्य-कल्पतः ॥ ६२॥ परस्परेक्षाऽन्वय-भेद-लिङ्गतः प्रसिद्ध-सामान्य-विशेषयोस्तव । समग्रताऽस्ति स्व-पराऽवभासकं यथा प्रमाणं भुवि बुद्धि-लक्षणम् ॥ ६३॥ विशेष्य-वाच्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च यत् । तयोश्च सामान्यमतिप्रसज्यते विवक्षितात्स्यादितितेऽन्यवर्जनम् ॥ ६४॥ नयास्तव स्यात्पद-सत्य-लाञ्छिता रसोपविद्धा इव लोह-धातवः । भवन्त्यभिप्रेत-गुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ ६५॥

१४. श्री अनन्तनाथ जिन-स्तुतिः

अनन्त-दोषाऽऽशय-विग्रहो ग्रहो विषङ्गवान्मोह-मयश्चिरं हृदि । यतो जितस्तत्त्वरुचौ प्रसीदता त्वया ततोऽभूर्भगवाननन्तजित् ॥ ६६॥ कषाय-नाम्नां द्विषतां प्रमाथिना- मशेषयन्नाम भवानशेषवित् । विशोषणं मन्मथ-दुर्मदाऽऽमयं समाधि-भैषज्य-गुणैर्व्यलीनयत ॥ ६७॥ परिश्रमाऽम्बुर्भय-वीचि-मालिनी त्वया स्वतृष्णा-सरिदाऽऽर्य ! शोषिता । असङ्ग-धर्मार्क-गभस्ति-तेजसा परं ततो निर्वृति-धाम तावकम् ॥ ६८॥ सुहृत्त्वयि श्री-सुभगत्वमश्नुते द्विषंस्त्वयि प्रत्ययवत् प्रलीयते । भवानुदासीनतमस्तयोरपि प्रभो ! परं चित्रमिदं तवेहितम् ॥ ६९॥ त्वमीदृशस्तादृश इत्ययं मम प्रलाप-लेशोऽल्प-मतेर्महामुने! अशेष-माहात्म्यमनीरयन्नपि शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥ ७०॥

१५. श्री धर्मनाथ जिन-स्तुतिः

धर्म-तीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । कर्म-कक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥ ७१॥ देव-मानव-निकाय-सत्तमै- रेजिषे परिवृतो वृतो बुधैः । तारका-परिवृतोऽतिपुष्कलो व्यमनीव शश-लाञ्छनोऽमलः ॥ ७२॥ प्रातिहार्य-विभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् । मोक्षमार्गमशिषन्नरामरान् नाऽपि शासन-फलैषणाऽऽतुरः ॥ ७३॥ काय-वाक्य-मनसां प्रवृत्तयो नाऽभवस्तव मुनेश्चिकीर्षया । नाऽसमीक्ष्य भवतः प्रवृत्तयो धीर! तावकमचिन्त्यमीहितम् ॥ ७४॥ मानुषीं प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ ! परमाऽसि देवता श्रेयसे जिनवृष! प्रसीद नः ॥ ७५॥

१६. श्री शान्तिनाथ जिन-स्तुतिः

विधाय रक्षां परतः प्रजानां राजां चिरं योऽप्रतिम-प्रतापः । व्यधात्पुरस्तात्स्वत एव शान्ति- मुनिर्दया-मूर्तिरिवाऽघशान्तिम् ॥ ७६॥ चक्रेण यः शत्रु-भयङ्करेण जित्वा नृपः सर्व-नरेन्द्र-चक्रम् । समाधि-चक्रेण पुनर्जिगाय महोदयो दुर्जय-मोह-चक्रम् ॥ ७७॥ राज-श्रिया राजसु राज-सिंहो रराज यो राज-सुभोग-तन्त्रः । आर्हन्त्य-लक्ष्म्या पुनरात्म-तन्त्रो देवा सुरोदार-सभे रराज ॥ ७८॥ यस्मिन्नभूद्राजनि राज-चक्रं मुनौ दया-दीधिति-धर्म-चक्रम् । पूज्ये मुहुः प्राञ्जलि देव-चक्रं ध्यानोन्मुखे ध्वंसि कृतान्त-चक्रम् ॥ ७९॥ स्वदोष-शान्त्या विहिताऽऽत्मशान्तिः शान्तेर्विधाता शरणं गतानाम् । भूयाद्भव-क्लेश-भयोपशान्त्यै शान्तिर्जिनो मे भगवान् शरण्यः ॥ ८०॥

१७. श्री कुन्थुनाथ जिन-स्तुतिः

कुन्थु-प्रभृत्यखिल-सत्त्व-दयैकतानः कुन्थुर्जिनो ज्वर-जरा-मरणोपशान्त्यै । त्वं धर्म-चक्रमिह वर्तयसि स्म भूत्यै भूत्वा पुरा क्षितिपतीश्वर-चक्रपाणिः ॥ ८१॥ तृष्णाऽर्चिषः परिदहन्ति न शान्तिरासा- मिष्टेन्द्रियार्थ-विभवैः परिवृद्धिरेव । स्थित्यैव काय-परिताप-हरं निमित्त- मित्यात्मवान् विषय-सौख्य-पराङ्मुखोऽभूत् ॥ ८२॥ बाह्यं तपः परम-दुश्चरमाचरस्त्व- माध्यात्मिकस्य तपसःपरिबृंहणार्थम् । ध्यानं निरस्य कलुष-द्वयमुत्तरस्मिन् ध्यान-द्वये ववृतिषेऽतिशयोपपन्ने ॥ ८३॥ हुत्वा स्व-कर्म-कटुक-प्रकृतीश्चतस्रो रत्नत्रयाऽतिशय-तेजसि जात-वीर्यः । बभ्राजिषे सकल-वेद-विधेर्विनेता व्यभ्रे यथा वियति दीप्त-रुचिर्विवस्वान् ॥ ८४॥ यस्मान्मुनीन्द्र ! तव लोक-पितामहाद्या विद्या विभूति कणिकामपि नाप्नुवन्ति । तस्माद्भवन्तमजमप्रतिमेयमार्याः स्तुत्यं स्तुवन्ति सुधियः स्व-हितैकतानाः ॥ ८५॥

१८. श्री अरनाथ जिन-स्तुतिः

गुण-स्तोकं सदुल्लङ्घ्य तद्बहुत्व-कथा स्तुतिः । आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥ ८६॥ तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम् । पुनाति पुण्य-कीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥ ८७॥ लक्ष्मी-विभव-सर्वस्वं मुमुक्षोश्चक्र-लाञ्छनम् । साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥ ८८॥ तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् । द्वयक्षः शक्रः सहस्राक्षो बभूव बहु-विस्मयः ॥ ८९॥ मोहरूपो रिपुः पापः कषाय-भट-साधनः । दृष्टि-संविदुपेक्षाऽस्त्रैस्त्वया धीर ! पराजितः ॥ ९०॥ कन्दर्पस्योद्धर दर्प स्त्रैलोक्य-विजयार्जितः । हे पयामास तं धीरे त्वयि प्रतिहतोदयः ॥ ९१॥ आयत्यां च तदात्वे च दुःख-योनिर्दुरुत्तरा । तृष्णा नदी त्वयोत्तीर्णा विद्या-नावा विविक्तया ॥ ९२॥ अन्तकः क्रन्दको नृणां जन्म-ज्वर-सखः सदा । त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः काम-कारतः ॥ ९३॥ भूषा-वेषाऽऽयुध-त्यागि विद्या-दम-दया-परम् । रूपमेव तवाऽऽचष्टे धीर ! दोष-विनिग्रहम् ॥ ९४॥ समन्ततोऽङ्ग भासां ते परिवेषेण भूयसा । तमो बाह्यमपाकीर्णमध्यात्मं ध्यान तेजसा ॥ ९५॥ सर्वज्ञ-ज्योतिषोद्भूतस्तावको महिमोदयः । कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ! सचेतनम् ॥ ९६॥ तव वागमृतं श्रीमत्सर्व-भाषा-स्वभावकम् । प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ ९७॥ अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥ ९८॥ ये पर-स्खलितोन्निद्राः स्व-दोषेभ-निमीलनाः । तपस्विनस्ते किं कुर्युरपात्रं त्वन्मत-श्रियः ॥ ९९॥ ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः । त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥ १००॥ सदेक-नित्य-वक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ १०१॥ सर्वथा नियम-त्यागी यथादृष्ट मपेक्षकः । स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ १०२॥ अनेकान्तोप्यनेकान्तः प्रमाण-नय-साधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥ १०३॥ इति निरुपम-युक्त-शासनः प्रिय-हित-योग-गुणाऽनुशासनः । अर-जिन ! दम-तीर्थ-नायक- स्त्वमिव सतां प्रतिबोधनाय कः ? ॥ १०४॥ मति-गुण-विभवानुरूपत- स्त्वयि-वरदाऽऽगम-दृष्टिरूपतः । गुण-कृषमपि किञ्चनोदितं मम भवताद् दुरितासनोदितम् ॥ १०५॥

१९. श्री मल्लिनाथ जिन-स्तुतिः

यस्य महर्षेः सकल-पदार्थ- प्रत्यवबोधः समजनि साक्षात् । साऽमर-मर्त्यं जगदपि सर्वं प्राञ्जलि भूत्वा प्रणिपतति स्म ॥ १०६॥ यस्य च मूर्तिः कनकमयीव स्व-स्फुरदाभा-कृत-परिवेषा । वागपि तत्त्वं कथयितुकामा स्यात्पद-पूर्वा रमयति साधून् ॥ १०७॥ यस्य पुरस्ताद्विगलित-माना न प्रतितीर्थ्या भुवि विवदन्ते । भूरपि रम्या प्रतिपदमासी- ञ्जात-विकोशाम्बुज-मृदु-हासा ॥ १०८॥ यस्य समन्ताज्जिन-शिशिरांशोः शिष्यक-साधु-ग्रह-विभवोऽभूत् । तीर्थमपि स्वं जनन-समुद्र- त्रासित-सत्त्वोत्तरण-पथोऽग्रम् ॥ १०९॥ यस्य च शुक्लं परमतपोऽग्नि- र्ध्यानमनन्तं दुरितमधाक्षीत् । तं जिन-सिंहं कृतकरणीय मल्लिमशल्यं शरणमितोऽस्मि ॥ ११०॥

२०. श्री मुनिसुव्रत जिन-स्तुतिः

अधिगत-मुनि-सुव्रत-स्थिति- मुनि-वृषभो मुनिसुव्रतोऽनघः । मुनि-परिषदि निर्बभौ भवा- नुडु-परिषत्परिवीत-सोमवत् ॥ १११॥ परिणत-शिखि-कण्ठ-रागया कृत-मद-निग्रह-विग्रहाभया । तव जिन ! तपसः प्रसूतया ग्रह परिवेष-रुचेव शोभितम् ॥ ११२॥ शशि-रुचि-शुचि-शुक्ल-लोहितं सुरभितरं विरजो निजं वपुः । तव शिवमतिविस्मयं यते ! यदपि च वाङ्मनसीयमीहितम् ॥ ११३॥ स्थिति-जनन-निरोध-लक्षणं चरमचरं च जगत् प्रतिक्षणम् । इति जिन ! सकलज्ञ-लाञ्छनं वचनमिदं वदतांवरस्य ते ॥ ११४॥ दुरित-मल-कलङ्कमष्टकं निरुपम-योग-बलेन निर्दहन् । अभवदभव-सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥ ११५॥

२१. श्री नमिनाथ जिन-स्तुतिः

स्तुतिः स्तोतुः साधोः कुशल-परिणामाय स तदा भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च । किमेवं स्वाधीन्याज्जगति सुलभे श्रायस-पथे स्तुयान्न त्वां विद्वान्सततमभिपूज्यं नाम्मि-जिनम् ॥ ११६॥ त्वया धीमन् ! ब्रह्म-प्रणिधि-मनसा जन्म-निगलं समूलं निर्भिन्नं त्वमसि विदुषां मोक्ष-पदवी । त्वयि ज्ञान-ज्योतिर्विभव-किरणैर्भाति भगव- न्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७॥ विधेयं वार्य चाऽनुभयमुभयं मिश्रमपि तद्- विशेषैः प्रत्येकं नियम-विषयैश्चापरिमितैः । सदाऽन्योन्यापेक्षैः सकल-भुवन-ज्येष्ठ-गुरुणा त्वया गीत तत्त्वं बहु-नय-विवक्षेतर-वशात् ॥ ११८॥ अहिंसा भूतानां जगति विदितं ब्रह्म परमं न सा तत्राऽऽरम्भोऽस्त्यणुरपि च यत्राऽऽ श्रमविधौ । ततस्तत्सिद्ध्यर्थं परम-करुणो ग्रन्थमुभयं भवानेवाऽत्याक्षीन्न च विकृत-वेषोपधि-रतः ॥ ११९॥ वपुर्भूषा-वेष-व्यवधि-रहितं शान्त-करणं यतस्ते सञ्चष्टे स्मर-शर-विषाऽऽतङ्क-विजयम् । विना भीमैः शस्त्रैरदय-हृदयाऽमर्ष-विलयं ततस्त्वं निर्मोहः शरणमसि नः शान्ति-निलयः ॥ १२०॥

२२. श्री नेमिनाथ जिन-स्तुतिः

भगवानृषिः परम-योग- दहन-हुत-कल्मषेन्धनः । ज्ञान-विपुल-किरणैः सकलं प्रतिबुद्ध-कमलायतेक्षणाः ॥ १२१॥ हरिवंश-केतुरनवद्य- विनय-दम-तीर्थ-नायकः । शील-जलधिरभवो विभव- स्त्वमरिष्टनेमि-जिनकुञ्जरोऽजरः ॥ १२२॥ त्रिदशेन्द्र--मौलि-मणि-रत्न- किरण-विसरोपचुम्बितम् । पाद-युगलममलं भवतो विकसत्कुशेशय-दलाऽरुणोदरम् ॥ १२३॥ नख-चन्द्र-रश्मि-कवचाऽति- रुचिर-शिखराऽङ्गुलि-स्थलम् । स्वार्थ-नियत-मनसः सुधियः प्रणमन्ति मन्त्र-मुखरा महर्षयः ॥ १२४॥ द्युतिमद्रथाङ्ग-रवि-बिम्ब- किरण-जटिलांशुमण्डलः । नील-जलद-जल-राशि-वपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ १२५॥ हलभृच्च ते स्वजनभक्ति- मुदित-हृदयौ जनेश्वरौ । धर्म-विनय-रसिकौ सुतरां चरणाऽरविन्द-युगलं प्रणेमतुः ॥ १२६॥ ककुदं भुवः खचरयोषि- दुषित-शिखरैरलङ्कृतः । मेघ-पटल-परिवीत-तट- स्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेऽद्य च । प्रीति-वितत-हृदयैः परितो भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८॥ बहिरन्तरप्युभयथा च करणमविघाति नाऽर्थकृत् । नाथ ! युगपदखिलं च सदा त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥ १२९॥ अत एव ते बुध-नुतस्य चरित-गुणमद्भुतोदयम् । न्याय-विहितमवधार्य जिने त्वयि सुप्रसन्न-मनसः स्थिता वयम् ॥ १३०॥

२३. श्री पार्श्वनाथ जिन-स्तुतिः

तमाल-नीलैः सधनुस्तडिद्गुणैः । प्रकीर्ण-भीमाऽशनि-वायु-वृष्टिभिः । बलाहकैर्वैरि-वशैरुपतो महामना यो न चचाल योगतः ॥ १३१॥ बृहत्फणा-मण्डल-मण्डपेन यं स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम् । जुगूह नागो धरणो धराधरं विराग-सन्ध्या-तडिदम्बुदो यथा ॥ १३२॥ स्व-योग-निस्त्रिंश-निशात-धारया निशात्य यो दुर्जय-मोह-विद्विषम् । अवापदाऽऽर्हन्त्यमचित्यमद्भुतं त्रिलोकपूजातिशयाऽऽस्पदं पदम् ॥ १३३॥ यमीश्वरं वीक्ष्य विधूत-कल्मषं तपोधनास्तेऽपि तथा बुभूषवः । वनौकसः स्व-श्रम-बन्ध्य-बुद्धयः शमोपदेशं शरणं प्रपेदिरे ॥ १३४॥ स सत्य-विद्या-तपसां प्रणायकः समग्रधीरुग्रकुलाऽम्बरांशुमान् । मया सदा पार्श्वजिनः प्रणम्यते विलीन-मिथ्यापथ-दृष्टि-विभ्रमः ॥ १३५॥

२४. श्री महावीर जिन-स्तुतिः

कीर्त्या भुवि भासि तया वीर! त्वं गुण-समुत्थया भासितया । भासोडुस भाऽसितया सोम इव व्योम्नि कुन्द-शोभासितया ॥ १३६॥ तव जिन ! शासन-विभवो जयति कलावपि गुणानुशासन-विभवः । दोषकशासनविभवः स्तुवन्ति प्रभा-कृशासनविभवः ॥ १३७॥ अनवद्यः स्याद्वादस्तव दृष्टेष्टाविरोधतः स्याद्वादः । इतरो न स्याद्वादो सद्वितय- विरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८॥ त्वमसि सुरासुर-महितो ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः । लोक-त्रय-परमहितो- ऽनावरणज्योतिरुज्ज्वलद्धाम-हितः ॥ १३९॥ सभ्यानामभिरुचितं दधासि गुण-भूषणं श्रिया चारु-चितम् । मग्नं स्वस्यां रुचितं जयसि च मृग-लाञ्छनं स्व-कान्त्या रुचितम् ॥ १४०॥ त्वं जिन ! गत-मद-माय- स्तव भावानां मुमुक्षु कामद! मायः । श्रेयान् श्रीमदमाय- स्त्वया समादेशि सप्रयामदमायः ॥ १४१॥ गिरिभित्त्यवदानवतः श्रीमत इव दन्तिनः स्त्रवद्दानवतः । तव शम-वादानवतो गतमूर्जितमपगत-प्रमादानवतः ॥ १४२॥ बहुगुण-सम्पदसकलं परमतपि मधुर वचन-विन्यास-कलम् । नय-भक्तयवतंस-कलं तव देव ! मतं समन्तभद्रं सकलम् ॥ १४३॥ इति श्रीआचार्य समन्तभद्र स्वामी विरचितं स्वयम्भूस्तोत्रं सम्पूर्णम् ।
% Text title            : Svayambhu Stotram by Acharya Samantabhadra
% File name             : svayambhUstotram.itx
% itxtitle              : svayambhUstotram (achArya samantabhadravirachitam)
% engtitle              : svayambhUstotram by Acharya Samantabhadra Adoration of Twenty-four Tirthankaras
% Category              : major_works, jaina
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Hindi padyAnuvAda, English and Hindi, Books, Life Story)
% Latest update         : April 22, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org