॥ तर्कसंग्रह अध्याय १ - ८ ॥

अथ प्रथमोऽध्याय । निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसंग्रह ॥ १ ॥ दीपिका विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् । टीकां शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ॥ चिकीर्षितस्य ग्रनथस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक्-इष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नंश्चिकीर्षितं प्रतिजानीते । निधायेति । ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेऽपि किरणवल्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि कादम्बर्मादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न । किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । कादम्बर्यादौ ग्रन्थाद्वहिरेव मङ्गलं कृत्मतो न व्यभिचारः । ननु मङ्गलस्य (ग्रन्थादौ) कर्तव्यत्वे किं प्रमाणमिति चेत् न । शिष्टाचारानुमितश्रुतेरेव् प्रमाणत्वात् । तथा हि मङ्गलं वेद-बोधित्कर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचार वारणाय अलौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति । शिष्टपदं स्पष्टार्थम् । न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात् । तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः द्रव्यादिपदार्थास्तेषां संग्रहः संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः । कस्मै प्रयोजनायेत्यत आह । सुखबोधायेति । सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः । ननु बहुषु तर्कग्रथेषु सत्सु किमर्थम्पूर्वोऽयं ग्रन्थः क्रियत इत्यत आह । बालानामिति । तेषामतिविस्तृतत्वाद्वालानां बोधो न जायत इत्यर्थः । ग्रहणधारणपुटुर्बालः न तु स्तनन्धयः । किं कृत्वा क्रियत इत्यत आह । निधायेति । विश्वेशं जगन्नियन्तारम् । हृदि निधाय नितरां स्थापयित्वा सदा तद्धयानपरो भूत्वेत्यर्थः । गुरूणां विद्यागुरूणां,वन्दनं नम्स्कारं, विधाय कृत्वेत्यर्थः ॥ द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ॥ २ ॥ दीपिका पदार्थान् विभ्जते । द्रव्येति । पदस्यार्थः पदार्थः इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते) । ननु विभागादेव सप्तत्वे सिद्धे सप्त (पद) ग्रहणं व्यर्थमिति चेत्, न अधिकसंख्याव्यवच्छेदार्थकत्वात् । नन्वतिरिक्तः पदार्थः प्रमितो वा न वा । नाऽद्यः प्रमितस्य निषेधायोगात् । न द्वितीयः प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न । पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात् (सप्तग्रहणम्) । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् । सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत्, न । द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्त्वम् । अतो दोषविरहात् । एवमग्रेऽपि द्रष्टव्यम् ॥ तत्र द्रव्याणी पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ ३ ॥ दीपिका दव्यं (द्रव्याणि) विभजते । तत्रेति । तत्र द्रव्यादिमध्ये । द्रव्याणि नवैवेत्यन्वयः । कानि तानि इत्यत आह । पृथिवीति । ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति । तथा हि । नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं ताव्त् सिद्धम् । तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः रूपवत्त्वात् । अत एव न वायौ, स्पर्शाभावात् सदागतिमत्त्वाभावाच्च । नापि तेजसि, भास्वरूपाभावात् उष्णस्पर्शाभावाच्च । नापि जले, शीतस्पर्शाभावात् नीलरूपवत्त्वाच्च । नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेत्, न । तमसस्तेजोऽभावरूपत्वात् । तथा हि । तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत् । रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् । तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः । अतो नव द्रव्याणीति सिद्धम् । द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । यथा गोः कपिलत्वम् । अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः । यथा गोः श्रृङ्गित्वम् । लक्ष्यमात्रावृत्तित्वमसंभवः । यथा गोरेकशफवत्त्वम् । एतद्दूषणत्रयरहितधर्मो लक्षणम् । स एवासाधारणधर्म इत्युच्यते । लक्षयतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिदेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्त्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनिष्टघटे चाव्याप्तेरिति चेत्, न । गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् । नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न । एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् । रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्‍त्व-संयोग-विभाग-पर् अत्वा-ऽपरत्व-गुरूत्व-द्रवत्व-स्‍नेह-शब्द-बुद्धि-सुख-दुःखेच्छा द्वेष-प्रयत्‍न-धर्माधर्म-संस्काराः चतुर्विंशतिर्गुणाः ॥ ४ ॥ दीपिका गुणान्विभजते । रूपेति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । गुणत्वजातिमान्वा । ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिर्गुणा इति चेत्, न । लघुत्वस्य गुरूत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात् । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ५ ॥ दीपिका कर्म विभजते । उत्क्षेपणेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा । भ्रमणादीनामपि गमने अन्तर्भावान्न पञ्चत्वविरोधः ॥ परमपरं चेति द्विविधं सामान्यम् ॥ ६ ॥ दीपिका सामान्यं विभजते । परमिति । परमधिकदेशवृत्ति । अपरं न्यूनदेशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ॥ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ७ ॥ दीपिका विशेषं विभजते । नित्येति । पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि । समवायस्त्वेक एव ॥ ८ ॥ दीपिका समवायस्य भेदो नास्तीत्याह । समवायस्त्विति । अभावश्चतुर्विधः - प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति ॥ ९ ॥ दीपिका अभावं विभजते । प्रागभावेति ।
अथ द्वितीयोऽध्याय । तत्र गन्धवती पृथिवी । सा द्विविधा-नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रिय विषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् । तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥ १॥ दीपिका तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह । तत्रेति । नाना पदार्थसंकीर्तनमुद्देशः । उद्देशक्रमे च सरवत्रेच्छैवं नियामिका । ननु सुरभ्यसुरभ्यवयवाख्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः । न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् । अवयवगन्धस्यैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न । गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् । ननु जलादावपि गन्धप्रतीतिरिति चेत् न । अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न । सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणत्वस्य विवक्षितत्वात् । पृथिवीं विभजते । सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियोगित्वम् । अनित्यत्वं ध्वंसप्रतियोगित्वम् । प्रकारान्तरेण विभजते । पुनरिति । आत्मनो भोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । सुखदुःखसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय इति तत्तल्लक्षणं बोध्यम् । पार्थिवशरीरं दर्शयति । शरीरमिति । इन्द्रियं दर्शयति । इन्द्रियमिति । गन्धग्राहकमिति प्रयोजनम् । घ्राणमिति संज्ञा । नासाग्रेत्याश्रयोक्तिः । एवमुत्तरत्र ज्ञेयम् । पार्थिवविषयं दर्शयति । मृतपाषाणादीति । शीतस्पर्शवत्यः आपः । ता द्विविधाः नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनः त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरूणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित् समुद्रादिः ॥ २॥ दीपिका अपां लक्षणमाह । शीतेति । उतपन्नविनिष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् । ``शीतं शिलातलम्᳚ इत्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः । अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ॥ उष्णस्पर्शवत् तेजः । तच्च द्विविधं, नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरं आदित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयः चतुर्विधः, भौम-दिव्य-औदर्य-आकरज भेदात् । भौमं वह्नयादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ॥ ३॥ दीपिका तेजसो लक्षणमाह । उष्णस्पर्शवदिति । `उष्णं जलम्' इति प्रतीतेस्तेजः संयोगानुविधायित्वान्नातिव्याप्तिः । विषयं विभजते । भौमेति । ननु `सुवणं पार्थिवं' पीतत्वाद्गुरूत्वात् हरिद्रावत् इति चेत् न । अत्यन्तानलसंयोगे सति घृतादौ द्रव्त्वनाशदर्शनेन, जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वाऽनुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरूपष्टम्भक पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्णं तैजसमिति सिद्धम् । रूपरहितः स्पर्शवान् वायुः । स द्विविधः नित्यः अनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनः त्रिविधः शरीरेन्द्रियविषय भेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तःसंचारी वायुः प्राणः । स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते ॥ ४ ॥ दीपिका वायुं लक्षयति । रूपरहितेति । आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति । पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति । प्राणस्य कुत्रान्तर्भाव इत्यत आह । शरीरेति । स चेति । एक एवः प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः । स्पर्शानुमेयो वायुः । तथा हि - योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्कचिदाश्रितः गुणत्वाद्रूपवत् । न चास्य आश्रयः पृथिवी उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपत्त्वनियमात् । न जल तेजसि अनुष्णाशीतस्पर्शवत्त्वात् । न विभुचतुष्टयम् सर्वत्रोपलब्धिप्रसङ्गात् । न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् । तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव) । ननु वायुः प्रत्यक्षः प्रत्यक्षाश्रयत्वात् घटवत् इति चेत् न । उद्भूतरूपस्योपाधित्वात् । ` यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वम् ' इति साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्वम् । न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात् । तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः । इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते । ततः परमाणुद्वयसंयोगे द्वयणुकमुत्पद्यते । त्रिभिरेव द्वयणुकैस्त्रयणुकमुत्पद्यते । एवं चतुरणुकादिक्रमेण महती पृथिवीः, महत्य आपः, महत्तेजः, महान्वायुरूत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्वयणुकनाशः । इत्येवं पृथिव्यादिनाशः । असमवायिकारणाशात् द्वयणुकनाशः । समवायिकारणाशात् त्र्यणुकनाश इति संप्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः । किं पुनः परमाणुसद्भावे प्रमाणम् । उच्यते -- जालसूर्यमरीचिस्थं सर्वतः सूक्षमतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुषद्रव्यत्वाद्धटवत् । त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत् । यो द्वयणुकावयवः स परमाणुः । स च नित्यं, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात् । सृष्टिप्रलयसद्भावे ` धाता यथापूर्वमकल्पयत् । ' इति श्रुतिरेव प्रमाणम् । `सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः । सर्वभावकार्यध्वंसो महाप्रलयः' इति विवेकः । शब्दगुणकमाकाशम् । तच्चैकं नित्यञ्च ॥ ५॥ दीपिका आकाशं लक्षयति । शब्दगुणकमिति । नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह । तच्चैकमिति । भेदे प्रमाणाभावादित्यर्थः । एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति । सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा।विभुत्वादेव आत्मवन्नित्यमित्याह । नित्यं चेति । अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ॥ ६॥ दीपिका कालं लक्षयति । अतीतेति । सर्वाधारः कालः सर्वकार्यनिमित्तकारणम् । प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥ ७॥ दीपिका दिशो लक्षणमाह । प्राचीति । दिगपि कार्यमात्रनिमित्तकारणम् । ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ ८॥ दीपिका आत्मनो लक्षणमाह । ज्ञानेति । आत्मानं विभजते । स द्विविध इति । परमात्मनो लक्षणमाह । तत्रेति । नित्यज्ञानाधिकरणत्वमीश्वरत्वम् । नन्वीश्वरसद्भावे किं प्रमाणम् । न तावत्प्रत्यक्षम् । तद्धि बाह्यामान्तरं वा । नाद्यः अरूपिद्रव्यत्वात् । न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात् । नाप्यनुमानं लिङ्गाभावादिति चेत् न । अङ्कुरादिकं सकर्तृकं कार्यत्वाद्धटवत् इत्यनुमानस्यैव प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् । उपादानं समवायिकारणम् । सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् । यः सर्वज्ञः स सर्ववित् इत्यागमोऽपि तत्र प्रमाणम् । जीवस्य लक्षणमाह । जीव इति । सुखाद्याश्रयत्वं जीवलक्षणम् । ननु मनुष्योऽहं ब्राह्मणोऽहम् इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत् न । शरीरस्यात्मवे करपादिनाशे शरीरनाशादात्मनोऽपि नाशप्रसंगात् । नापीन्द्रियाणामात्मत्वम् , `योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि' इत्यनुसन्धानाभावप्रसङ्गात् । अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात् । तस्माद्देहेइन्द्रियव्यतिरिक्तो जीवः सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः । स च न परमाणुः । सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मध्यमपरिमाणवान् तथा सति अनित्यत्वप्रसङ्गेन कृथानाकृताभ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥ ९॥ दीपिका मनसो लक्षणमाह । सुखेति । स्पर्शरहित्वे सति क्रियावत्वं मनसो लक्षणम् । तद्विभजते । तच्चेति । एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वान् मसोऽप्यनेकत्वमित्यर्थः । परमाणुरूपमिति । मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः । ननु मनो विभु स्पर्शरहित्वे सति द्रव्यत्वादाकाशादिवदिति चेत् न । मनसो विभुत्वे आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः । न च विभुद्वयसंयोगोऽस्त्विति वाच्यम् । तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात, पुरीतद्रव्यतिरिक्तस्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मनः पुरीतत् प्रविंशति तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ।
अथ तृतीयोऽध्याय । चक्षुर्मात्रग्राह्यो गुणो रूपम्।तच्च शुक्लनीलपीतरक्तहरितकपिशचित्र भेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभावस्वरशुक्लं जले । भावस्वरशुक्लं तेजसि ॥ १॥ दीपिका रूपं लक्षयति । चक्षुरिति । संख्यादावतिव्याप्तिवारणाय मात्रपदम् । रूपत्वेऽतिव्याप्तिवारणाय गुणपदम् । नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् न । रूपस्य व्याप्यवृत्तित्वनियमात् । ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न । रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसंगात् । न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात् । तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः । रूपस्याश्रयमाह । पृथिवीति । आश्रयं विभज्य दर्शयति । तत्रेति । रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकतुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ॥ २॥ दीपिका रसं लक्षयति । रसनेति । रसत्वेऽतिव्याप्तिवारणाय गुणपदम् । रसस्याश्रयमाह । पृथिवीति । आश्रयं विभज्य दर्शयति । तत्रेति । घ्राणाग्राह्यो गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रव्रित्तिः ॥ ३॥ दीपिका गन्धं लक्षयति । घ्राणेति । गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् । त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवायव्योः ॥ ४॥ दीपिका स्पर्शं लक्षयति । त्वगिति । स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् । रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्र अपाकजं नित्यमनित्यम् च । नित्यगतं नित्यम् अनित्यगतमनित्यम् ॥ ५॥ दीपिका पाकजमिति । पाकस्तेजः संयोगः । तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत इत्यर्थः । तत्र परमाणुष्वेव पाको न द्वयणुकादौ । आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनद्वर्यणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायिकारणम् । तेजः संयोगोऽसमवायिकारणम् । अदृष्टादिकं निमित्तकारणम् । द्वयणुकादिरूपे कारणरूपसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः । पूर्वघटस्य नाशं विनैव् अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः । अत एव पार्थिवपरमाणुरूपादिकमनित्यमनित्यर्थः । अन्यत्र जलादावित्यर्थः । नित्यगतमिति । परमाणुगतमित्यर्थः । अनित्यगतमिति । द्वयणुकादिगतभित्यर्थः । रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् । अनुद्भूतमप्रत्यक्षम् । उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः । तदभावोऽनुद्भूतत्वम् । एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्राऽनित्यमेव ॥ ६॥ दीपिका संख्या लक्षयति । एकेति । मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्तिः । तच्चुर्विधम् । अणु महत् दीर्घं हृअस्वं चेति ॥ ७॥ दीपिका परिमाणं लक्षयति । मानेति । परिमाणं विभजते । तच्चेति । भावप्रधानो निर्देशः । अणुत्वं,महत्त्वं,दीर्घत्वं,ह्रस्वत्वं चेत्यर्थः । पृथग्व्यवहारासाधारणकारणं पृथक्वत्वम् । सर्वद्रव्यवृत्तिः ॥८॥ दीपिका संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ ९॥ दीपिका संयोगं लक्षयति । संयुक्तेति । इमौ संयुक्तौ इति व्यवहारहेतुरित्यर्थः । संख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्यप्तिवारणाय असाधाराणेति विशेषणीयम् । संयोगो द्विविधः कर्मजः संयोगजश्चेति । आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः । द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः । अव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम् । संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ १०॥ दीपिका विभागं लक्षयति । संयोगेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय संयोगनाशक इति । विभागोऽपि द्विविधः कर्मजो विभागजश्चेति । आद्यो हस्तपुस्तकविभागः । द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः । परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टय मनोवृत्तिनी । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥ ११॥ दीपिका परत्वापरत्वयोर्लक्षणमाह । परापरेति । परव्यवहारासाधारणकारणं परत्वम् । अपरव्यवहारासाधारणकारणमपरत्वम् इत्यर्थः । ते विभजते । ते द्विविधे इति । दिक्कृतयोरूदाहरणमाह । दूरस्थ इति । कालकृते उदाहरति । ज्येष्ठ इति । आद्यपतनासमवायिकारणं गुरूत्वम् । पृथिवीजलवृत्ति ॥ १२॥ दीपिका गुरूत्वं लक्षयति । आद्येति । द्वितीयादिपतनस्य वेगासमवायिकारणत्वद्वेगेऽतिव्याप्तिवारणाय आद्येति । आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च।सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥ १३ ॥ दीपिका द्रवत्वं लक्षयति । आद्येति । स्यन्दनं प्रस्रवणम् । तेजःसंयोगजं नैमित्तिकम् । तद्भिन्नं सांसिद्धिकम् । पृथिव्यां नैमित्तिकमुदाहरति । घृतादाविति । तेजसि तदाह । सुवर्णादाविति । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥ १४॥ दीपिका स्नेहं लक्षयति । चूर्णेति । कालादावतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति । श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः । स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च । तत्र ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ १५॥ शब्दं लक्षयति । श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय श्रोत्रेति । शब्दास्त्रिविधः संयोगजः, विभागजः, शब्दजश्चेति । तत्र आद्यो भेरीदण्डसंयोगजन्यः । द्वितीयो वंशे पाटयमाने दळद्वयविभागजन्यश्चटाशब्दः । भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः । सर्वेव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च ॥ १६॥ दीपिका बुद्धेर्लक्षणमाह । सर्वव्यवहारेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति । जानामीत्यनुव्यवसायगम्यं ज्ञानमेव लक्षणमिति भावः । बुद्धिं विभजते । सेति । संस्कारमात्रजन्यं ज्ञानं स्मृतिः ॥ १७॥ दीपिका स्मृतेर्लक्षणमाः । संस्कारेति । भावनाख्यः संस्कारः । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रपदम् । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः, यथार्थोऽयथार्थश्च ॥ १८॥ दीपिका अनुभवं लक्षयति । तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः । अनुभवं विभजते । स द्विविध इति । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते ॥ १९॥ दीपिका यथार्थानुभवस्य लक्षणमाह । तद्वतीति । ननु घटे घटत्वम् इति प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभवः इत्यर्थाद्धटत्वे घटसंबन्धोऽस्तीति नाव्याप्तिः । सैवेति । यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदंरजतमिति ज्ञानम् । सैव अप्रमा इत्युच्यते ॥ २०॥ दीपिका अयथार्थानुभवं लक्षयति । तदभाववतीति । नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न । यदवच्छेदेन यत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विविक्षितत्वात् । संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः । यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ॥ २१॥ दीपिका यथार्थानुभवं विभजते । यथार्थेति । तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपशब्द भेदात् ॥ २२॥ दीपिका प्रसङ्गात्प्रमाकरणं विभजते । तत्करणमपीति । प्रमाकरणमित्यर्थः । प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम् । असाधरणं कारणं करणम् ॥ २३॥ दीपिका करणलक्षणमाह । असाधारणेति । दिक्कालादावतिव्याप्तिवारणाय असाधारणेति । कार्यनियतपूर्ववृत्ति कारणम् ॥ २४॥ दीपिका कारणलक्षणमाह । कार्येति । पूर्ववृत्ति कारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति । तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति । ननु तन्तुरूपमपि पटं प्रति कारणं स्यादति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणात् । अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम् । अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम् । यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति । तं प्रति तदन्यथासिद्धम् । यथा शब्दं प्रति पूर्ववृतित्त्वे ज्ञात एव पटं प्रत्याकाशस्य । अन्यत्र कॢप्तनियतपूर्ववतिर्न एव कार्यसंभवे तत्सहभूतमन्यथासिद्धम् । यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य । एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् । कार्यं प्रागभावप्रतियोगि ॥ २५॥ दीपिका कार्यलक्षणमाह । कार्यमिति । कारणं त्रिविधम् - समवाय्यसमवायिनिमित्तभेदात् ॥ २६॥ यत् समवेतं कार्यं उत्पद्यते तत् समवायिकारणम् । यथा तंतवः पटस्य, पटश्च स्वगतरूपादेः ॥ २७॥ दीपिका कारणं विभजते । कारणमिति । समवायिकारणस्य लक्षणमाह ------ यत्समवेतमिति । यस्मिन् समवेतमित्यर्थः । असमवायिकारणं लक्षयति ---- कार्यणेति । कार्येणेत्येतदुदाहरति ----- तन्तुसंयोग इति । कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् । यथा तंतुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ॥ २८॥ दीपिका कार्येण पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमियर्थः । कारणेनेत्येतदुदाहरति ---- तन्तुरूपमिति । कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात् । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ॥ २९॥ दीपिका तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः । निमित्तकारणं लक्षयति --- तदुभयेति । समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः । तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥ ३०॥ दीपिका करणलक्षणमुपसंहरति ---- तदेतदिति ।
अथ चतुर्थोऽध्याय । तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥ ३१॥ दीपिका प्रत्यक्षलक्षणमाह ------ तत्रेति । प्रमाणचतुष्टयमध्ये इत्यर्थः । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ॥ ३२॥ दीपिका प्रत्यक्षज्ञानस्य लक्षणमाह -------- इन्द्रियेति । इन्द्र्यियं चक्षुरादिकम्, अर्थो घटादिः, तयोः संनिकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः । तद्विभजते तद्द्विविधमिति । निर्विकल्पस्य लक्षणमाह ------- निष्प्रकारकमिति । विशेषणविशेष्यसंबन्धानवगाहि ज्ञानमित्यर्थः । ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात् । विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः । सविकल्पकं लक्षयति । सप्रकारकमिति । नामजात्यादिविशेष्यविशेषणसंबन्धावगाहि ज्ञानमित्यर्थः । सविकल्पकमुदाहरति । यथेति । प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः । सन्योगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति ॥ ३३॥ दीपिका इन्द्रियार्थसंनिकर्षं विभजते । प्रत्यक्षेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ॥ ३४॥ दीपिका संयोगसंनिकर्षमुदाहरति । चक्षुषेति । द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः । घटरूपप्रत्यक्षजनने संयुक्त समवायः संनिकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् ॥ ३५॥ दीपिका संयुक्तसमवायमुदाहरति । घटरूपेति । तत्र युक्तिमाह । चक्षुःसंयुक्त इति । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ॥ ३६॥ दीपिका संयुक्तसमवेतसमवायमुदाहरति । रूपत्वेति । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् ॥ ३७॥ दीपिका समवायमुदाहरति । श्रोत्रेणेति । तदुपपादयति । कर्णेति । ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न, वीचीतरङ्गन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य श्रोत्रेण संबन्धात्प्रत्यक्षसंभवः । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शबत्वस्य समवायात् ॥ ३८॥ दीपिका समवेतसमवायमुदाहरति । शब्दत्वेति । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ॥ ३९॥ दीपिका विशेषणविशेष्याभावमुदाहरति । अभावेति । तदुपपादयति । घटाभाववदिति । भूतले घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम् । एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् । यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव अभावज्ञानोत्पत्तौ अनुपलब्धेः प्रमाणान्तरत्वासंभवात् । अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः करणत्वयोगात् । विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः संबन्धः । प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह । एवमिति । एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ४०॥ दीपिका असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः । प्रत्यक्षप्रमाणमुपसंहरति ।
अथ पंचमोऽध्याय । अनुमितिकरणमनुमानम् ॥ १॥ दीपिका अनुमानं लक्षयति ------ अनुमितिकरणमिति । परामर्शजन्यं ज्ञानमनुमितिः ॥ २॥ दीपिका अनुमितिं लक्षयति --- परामर्शेति । ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः स्थाणुपुरूषसंशयानन्तरं पुरूषत्वव्याप्यकरादिमानयम् इति परामर्शे सति पुरूष एव इति प्रत्यक्षजननात् । न च तत्रानुमितिरेवेति वाच्यम् । पुरूषं साक्षात्करोमि इत्यनुव्यवसायविरोधादिति चेत् न, पक्षतासहकृतपरामर्शजन्यत्वस्य विविक्षित्वात् । सिषाधयिषाविरहविशिष्टसिद्धयभावः पक्षता । साध्यसिद्धिरनुमितिप्रतिबन्धिका । सिद्धिसत्त्वेऽपि अनुमियुयाम् इतीच्छायामनुमितिदर्शनात् । सिषाधयिषोत्तेजिका । तत्श्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत्सिषाधयिषाविरहविशिष्टसिद्धयभावस्याप्यनुमितिकारणत्वम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ॥ ३॥ दीपिका परामर्शं लक्षयति ----- व्याप्तीति । व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः । परामर्शमभिनीय दर्शयति ------ यथेति । अनुमितिमभिनीय दर्शयति ------- तज्जन्यमिति । परामर्शजन्यमित्यर्थः । व्याप्तिलक्षणमाह ---- यत्रेति । यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ॥ ४॥ दीपिका यत्र धूमस्तत्राग्निः इति व्याप्तेरभिनयः । साहचर्यनियमः इति लक्षणम् । साहचर्यं सामानाधिकरण्यं, तस्य नियमः । हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्यापाप्तिरित्यर्थः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ५॥ दीपिका पक्षधर्मतारूपमाह -------- व्याप्यस्येति । अनुमानं द्विविधं -- स्वार्थं परार्थं च ॥ ६॥ तत्र स्वार्थं स्वानुमितिहेतुः, तथाहि, स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निः इति । तदन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते । तदेतत् स्वार्थानुमानम् ॥ ७॥ दीपिका अनुमानं विभजते -------- अनुमानमिति । स्वार्थानुमानं दर्शयति स्वयमेवेति । ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं व्याप्तिग्रह इति चेत् न । व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात् । व्यभिचारज्ञानं निश्चयः शङ्का च । तद्विरहः क्वचित्तर्कात्, क्वचित्स्वतः सिद्ध एव । धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः । ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न । वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसंभवात् । तस्मादिति । लिङ्गपरामर्शादित्यर्थः । यत्तु स्वयं धूमादग्निमनुमाय परंप्रतिबोधयितुं पञ्चावयव वाक्यं प्रयुज्यते तत् परार्थानुमानम् । यथा पर्वतो वह्निमान्, धूमत्वात् , यो यो धूमवान् स वह्निमान् यथा महानसः, तथा चायं, तस्मात्तथेति । अनेन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं प्रतिपद्यते । दीपिका परार्थानुमानमाह ---------- यत्त्विति । यच्छब्दस्य ` तत्परार्थानुमानम् ' इति तच्छब्देनान्वयः । पञ्चावयववाक्यमुदाहरति ----- यथेति । प्रतिज्ञा - हेतु - उदाहरण - उपनय - निगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वात् इति हेतुः । यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् । तथा च अयमिति उपनयः । तस्मात्तथेति निगमनम् ॥ ९॥ दीपिका अवयवस्वरूपमाह --------- प्रतिज्ञेति ॥ उदाहृत्वाक्ये प्रतिज्ञादिविभागमाह ------- पर्वतो वह्निमानिति ॥ साध्यवत्तया पक्षवचनं प्रतिज्ञा । पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः । व्याप्तिप्रतिपादकं उदाहरणम् । व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनमुपनयः । हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् । अबाधितत्वादिकं निगमनप्रयोजनम् । स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्मात् लिङ्गपरामर्शोऽनुमानम् ॥ १०॥ दीपिका अनुमितिकरणमाह --- स्वार्थेति । ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसंभवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत् न, ` वह्निव्याप्यवानयम् ' इति शाब्दपरामर्शस्थले परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् । लिङ्गं न करणम्, अतीतादौ व्यभिचारात् । ` व्यापारवत्वकारणं करणम् ' इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम् । तज्जन्यत्वे सति तज्जन्यजनको व्यापारः । अनुमानमुपसंहरति - तस्मादिति । लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्नियर्था महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्याप्तिरेकव्याप्तिः ॥ ११॥ दीपिका लिङ्गं विभजते --- लिङ्गमिति ॥ अन्वयव्यतिरेकिणं लक्षयति --- अन्वयेनेति ॥ हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः, तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटः अभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च ॥ १२॥ दीपिका केवलान्वयिनो लक्षणमाह -------- अन्वयेति ॥ केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि । (वृत्तिमत्) अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि, यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् ॥ १३॥ दीपिका केवलव्यतिरेकिणो लक्षणमाह --- व्यतिरेकेति । तदुदाहरति-यथेति । नन्वितरभेदः प्रसिद्धो वा न वा । आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम् । द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः । विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्वयतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत् न । जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । तत्र त्रयोधत्वावच्छिन्नभेदात्मक - साध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिद्धया साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति । सन्दिग्धसाध्यवान् पक्षः । यता धूमवत्त्वे हेतौ पर्वतः ॥ १४॥ दीपिका पक्षलक्षणमाह ------- सन्दिग्धेति ॥ ननु श्रवणान्तरभाविमननस्थले अव्याप्तिः । तत्र वेदवाक्यैरात्मनो निश्चित्वेन सन्देहाभावात् । किञ्च प्रत्यक्षेऽपि वह्नौ यत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् । निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम् ॥ १५॥ दीपिका सपक्षलक्षणमाह -------- निश्चितेति ॥ निश्चितसाध्याऽभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥ १६॥ दीपिका विपक्षलक्षणमाह ----- निश्चितेति ॥ सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥ १७॥ दीपिका एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते ------ सव्यभिचारेति ॥ अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् । सव्यभिचारः अनैकान्तिकः । स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ॥ १८॥ दीपिका सव्यभिचारं विभजते ---- स त्रिविध इति ॥ तत्र साध्याभाववद्वृत्तिः साधारणः अनैकान्तिकः, यथा पर्वतो वह्निमान् प्रमेयत्वात् इति । प्रमेयत्वस्य वह्नयभाववति ह्रदे विद्यमानत्वात् ॥ १९॥ दीपिका साधारणं लक्षयति ----- तत्रेति ॥ उदाहरति ---- यथेति ॥ सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः । यथा शब्दो नित्यः शब्दत्वात् इति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ॥ २०॥ दीपिका असाधारणं लक्षयति ----- सर्वेति ॥ अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति ॥ २१॥ दीपिका अनुपसंहारिणो लक्षणमाह -------- अन्वयेति ॥ साध्याभावव्याप्तो हेतुर्विरूद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ॥ २२॥ दीपिका विरूद्धं लक्षयति ----- साध्येति ॥ यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् । शब्दोऽनित्यः कार्यत्वात् घटवत् ॥ २३॥ दीपिका सत्प्रतिपक्षं लक्षयति ---- यस्येति ॥ असिद्धस्त्रिविधः ---- आश्रयासिद्धः, स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ॥ २४॥ दीपिका असिद्धं विभजते --- असिद्ध इति ॥ आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ॥ २५॥ दीपिका आश्रयासिद्धमुदाहरति --- गगनेति ॥ स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात् ॥ २६॥ दीपिका स्वरूपासिद्धमुदाहरति --- यथेति ॥ सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वं उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान्वह्निमत्वादित्यत्र आर्द्रेन्धनसंयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥ २७॥ दीपिका व्याप्यत्वासिद्धस्य लक्षणमाह --- सोपाधिक इति ॥ उपाधेर्लक्षणमाह --- साध्येति ॥ उपादिश्चतुर्विधः केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्यः आर्द्रेन्धनसंयोगः । द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम् । तृतीयो यथा --- प्रागभावो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । चतुर्थो यथा --- प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वात् जलवत् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यात इति बाधितत्वम् ॥ २८॥ दीपिका बाधितस्य लक्षणमाह ---- यस्येति ॥ अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम् । इतरेषां तु परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरूद्धस्य समानाधिकरण्याभावतया व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया, असाधारणनुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम् । उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः । निग्रहस्थानान्तरमिति नवीनाः ॥
अथ षष्ठोऽध्याय । उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतिश्चित् आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्दं पश्यति । तदन्तरमसौ गवयशब्दवाच्य इत्युपमितिरूत्पद्यते ॥ १॥ दीपिका उपमानं लक्षयति ---- उपमितिकरणमिति ॥
अथ सप्तमोऽध्याय । आप्तवाक्यं शब्दः । आप्तस्तु, यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदात् अयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ १॥ दीपिका शब्दं लक्षयति --- आप्तेति ॥ आप्तं लक्षयति --- आप्तस्त्विति ॥ वाक्यलक्षणमाह ---- वाक्यमिति ॥ पदलक्षणमाह --- शक्तमिति ॥ अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः । सा च पदार्थान्तरमिति मीमांसकाः । तन्निरासार्थमाह --- अस्मादिति ॥ डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः । ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थित्वात् । व्यक्तिलाभास्तु आक्षेपादिति केचित् । तत् न, गामान्येत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव संभवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् । शक्तिग्रहश्च वृद्धव्यवहारेण । व्युत्पित्सुर्बालो `गामानय' इत्युत्तमवृद्धवाक्यश्रवणान्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्तजन्यत्वं निश्चित्य `अश्वमानय गां बधान' इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते । ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य कार्यपरवाक्य एव व्युत्पर्त्तिन सिद्धपर इति चेत् न । ` काश्यां त्रिभुवन्तिलको भूपतिरास्ते ' इत्यादौ सिद्धेऽपि व्यवहारात्, ` विकसितपद्मे मधुकरस्तिष्ठति ' इत्यादौ प्रसिद्धपदसमभिव्यवहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च । लक्षणापि शब्दवृत्तिः । शक्यसंबन्दो लक्षणा । गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते । सैधवादौ लवणाश्वयोः परस्परसंबन्धाभावान्नानाशक्तिकल्पनम् । लक्षणा त्रिविधा ---- जहल्लक्षणा, अजहल्लक्षणा, जहदजल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा । यथा मञ्चाः क्रोशन्तीति । यत्र वाच्यार्थस्याप्यन्वयः, तत्र अजहदिति । यथा छत्रिणो गच्चन्तीति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र जहदजहदिति । यथा तत्त्वमसीति । गौण्यपि लक्षणैव लक्ष्यमाणगुणसंबन्धस्वरूपा यथा अग्निर्माणवक इति । व्यञ्चनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च । अनुमानादिना अन्यथासिद्धा । तात्पर्यानुपपत्तिर्लक्षणाबीजम् । तत्प्रीतीतीच्छयोच्चरितत्वं तात्पर्यम् । तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् । प्रकरणादिकं तात्पर्यग्राहकम् । द्वारमित्यादौ पिधेहीति शब्दाध्याहारः । ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेत् न । पदविशेषजन्यपदार्थोपस्तिथेः शाब्दज्ञाने हेतुत्वात् । अन्यथा ` घटः कर्मत्वमानयं कृतिः ' इत्यत्रापि शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेषु योगरूढिः । अवयवशक्तिर्योगः । समुदायशक्ती रूढिः । नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः । अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात् । ` इतरान्विते शक्तिः ' इति प्राभाकराः । अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः । आकांक्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकांक्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं संनिधिः ॥ २॥ दीपिका आकांक्षेति ॥ आकाङ्क्षादिज्ञानमित्यर्थः । अन्यथा आकांक्षादिभ्रमाच्छाब्दभ्रमो न स्यात् । आकाङ्क्षां लक्षयति --- पदस्येति ॥ योग्यतालक्षणमाह ---- अर्थेति ॥ संनिधिलक्षणमाह ---- पदानामिति । अविलम्बेन पदार्थोपस्थितिः संनिधिः । उच्चारणं तु तदुपयोगितयोक्तम् । आकांक्षादिरहितं वाक्यप्रमाणम् । यथा गौरश्वः पुरूषो हस्तीति न प्रमाणमाकांक्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सांनिध्याभावात् ॥ ३॥ दीपिका गौरश्व इति ॥ घटकर्मत्वमित्यप्यनाकांक्षोदाहरणं द्रष्टव्यम् । वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ ४॥ दीपिका वाक्यं विभजते --- वाक्यमिति ॥ वैदिकस्य विशेषमाह --- वैदिकमीश्वरोक्तत्वादिति ॥ ननु वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत् न । ` वेदः पौरूषेयः वाक्यसमूहत्वात् भारतादिवत् ' इत्यनुमानेन पौरूषेयत्वसिद्धेः । न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात् । ` तस्मात्तेपानात्त्रयो वेदा अजायन्त ' इति श्रुतेश्च । ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत् न, ` उत्पन्नो गकारो विनिष्टो गकार ' इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, ` सोऽयं गकार ' इति प्रत्यभिज्ञायाः ` सीयं दीपज्वाला ' इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वाविशिष्टवाक्यस्यानित्यत्वाच्च । तस्मादीश्वरोक्ता वेदाः । मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रमाण्यम् । स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छारवोत्सन्नेति कल्प्यते । ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति कदापि वर्णानामानुपूर्वीज्ञानासंभवेन बोधकत्वास/न्भवात् । वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ ५॥ दीपिका ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञासंभवाच्छब्दो न प्रमाणान्तरमिति चेन्न । अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य ` शाब्दात्प्रत्येमि ' इत्वनुव्यवसायंसाक्षिकस्य सर्वसंमतत्वात् । नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ` पीनो देवदत्तो दिवा न भुङ्क्ते ' इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न । ` देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् ' इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात् । शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव । ` इह वटे यक्षस्तिष्ठति ' इत्यैतिह्यमपि अज्ञातम्लवक्तृकशब्द एव । चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ॥
अथ अष्टमोऽध्याय । NaiyAyikA theory on epistemology ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते । तत्र विप्रतिपत्तिः ------ ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति । अत्र विधिकोटिः स्वतस्त्वम् । निषेधकोटिः परतस्त्वम् । अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति । ' इदं ज्ञानमप्रमा ` इति ज्ञानेन प्रामाण्याग्रहाद्वाधवारणाय ----- अप्रामाण्याग्राहकेति॥ इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि अप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं न स्यादतस्तदिति । तस्मिन्ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः । उदाहृतस्थले व्यवसायाप्रामाण्यग्राहकस्याप्यनुव्यवसाये तद्ग्राहकत्वात्स्वतस्त्वसिद्धिः । ननु स्वत एव प्रामाण्यं गृह्यते, ` घटमहं जानामि ' इत्यनुव्यवसायेन घटघटत्वयोरिव तत्संबन्धस्यापि विषयीकरणात् व्यवसायरूप प्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रकारसंबन्धस्यैव प्रमात्वपदार्थत्वादिति चेत् न । स्वतःप्रामाण्यग्रहे ` जलज्ञानं प्रमा न वा ' इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् । अनुव्यवसायेन प्रामाणस्य निश्चितत्वात् । तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वमेव । तथाहि । प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते । द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेनान्वयव्यतिरेकिणापि गृह्यते । प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वम् । प्रमासाधारणकारणं गुणः, अप्रमासाधारणकारणं दोषः । तत्र प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षो गुणः । अनुमितौ व्यापकवति व्याप्यज्ञानम् । उपमितौ यथार्थसादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्यताज्ञानम् । इत्याद्यूहनीयम् । पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते । पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम् । ननु सर्वेषां ज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्तीति । न च ` शुक्ताविदं रजतम् ' इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम् । रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसंभवात् । स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन ` नेदं रजतम् ' इत्यादौ अतिप्रसङ्गाभावादिति चेत् न । सत्यरजस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थि प्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात् ।
{ Encoded by Ashish Chandra ashish\_{}chandr70@hotmail.com
The author of Tarka Sangraha, along with its Dipika is Annambhatta . This is a very well known work and most Vedantins today consider it as the stepping stone to understand the Nyaya-Vaisheshika, systems of logic.}
% File name             : tarkasangraha.itx
% Text title            : tarkasangraha
% Texttype              : pramukha
% Author                : Annambhatta
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ashish Chandra ashish\_chandr70@hotmail.com
% Proofread by          : Ashish Chandra ashish\_chandr70@hotmail.com  
% Description/comments  : Stepping stone for understanding the  Nyaya-Vaisheshika systems of logic.
% Latest update         : May 20, 2001
% Send corrections to   : sanskrit@cheerful.com
          
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Collection

BACK TO TOP