तिरुक्कुरळ् - संस्कृतानुवादः

तिरुक्कुरळ् - संस्कृतानुवादः

१. धर्मकाण्डः । उपोद्घातः

अधिकार १. ईश्वरवन्दनम्

अकारादेव निर्यान्ति समस्तान्यक्षराणि च । चराचरप्रपञ्चोऽयमीश्वरादेव जायते ॥ १॥ ईशस्य ज्ञानरूपस्य विना पादनिषेवणम् । सन्त्वधीतानि शास्त्रणि न तैरस्ति प्रयोजनम ॥ २॥ भक्तानां मानसाम्भोजवासिने जगदीशितुः । भजतां पादयुगलं जायन्ते नित्यसम्पद ॥ ३॥ दयालोः सर्वमित्रस्य शरणागत् सक्षिणः । नमतां पादयुगलं न स्याद् दुःखं कदाचन ॥ ४॥ माहात्म्यमप्रमेयस्य ज्ञात्वा तं भजतां नृणाम् । अज्ञानमूलकं कर्म द्विविधं चापि नश्यति ॥ ५॥ पञ्चेन्द्रियाणि सम्मृश्य तान्यथोम्भ्यो निवर्तयन् । ईश्वरोक्तेन मागेण्ण गच्छन् नित्यसुखी भवेत् ॥ ६॥ ईशं निरुपमं नित्यं यो वै शरणमाश्रितः । स एवदुःखरहितो नित्यं सुखमिहाश्नुते ॥ ७॥ धर्मसिन्धोः दयामृतेंः नावं चरणरूपिणीम् । अलब्ध्वा दुःखजलधेः पारं गन्तुं न शक्यते ॥ ८॥ गुणाष्टकयुतेशस्य पदे येन न वन्दिते । दृष्टया विरहितं चक्षुरिव तस्य शिरो वृथा ॥ ९॥ नावं भगवतः पादरूपिणीं प्राप्नुवन्ति ये । ते तरन्ति भवाम्भोधिमितरैस्तर्तुमक्षमम् ॥ १०॥

अधिकार २. वृष्टिमहिमा

लोकोऽयं जीवति सदा यतो वर्षेण् हेतुना । लोकस्थितिकरं वर्षे ततोऽमृतमिदं विदुः ॥ ११॥ आहारापेक्षलोकस्य भोज्यं धान्यादिकं बहु । उत्पाथ पेयतामेति स्वयं वर्षे जलात्मना ॥ १२॥ चतुर्भिः सागरैः देशे व्याप्तेपि क्षुदियं स्थिता । प्राणिनो बाधते मेघे यथाकालमवर्षति ॥ १३॥ नष्टायां वर्षसम्पत्तौ धान्योत्पादनतत्पराः । लाङ्गलेन भुवं नैव कर्षयेयुः कृषीवलाः ॥ १४॥ वर्षे त्ववर्षत् जगतीं नाशयित्वा कदाचन् । अथ स्वयमनावृष्टि बाधितामपि रक्षति ॥ १५॥ जलानां बिन्दवो मेघात् न पतेयुर्यदि क्षितौ । लोके द्रष्टुं न शक्यन्ते हरितास्तृणसम्पदः ॥ १६॥ पीत्वा जलनिधिं लोके यदि मेघो न वर्षति । अगाघोऽप्युदधिस्तेन समृद्धिरहितो भवेत् ॥ १७॥ देवताराधनं नित्यं विशेषादुत्सवादिकम् । लोके नैव प्रवर्तेत मेघो यदि न वर्षति ॥ १८॥ परार्थमिह यद्दानमात्मार्थञ्चेह यत् तपः । अभयं न भवेल्लोके यदि देवो न वर्षति ॥ १९॥ जलाभावे लोकयात्रा सर्वेषामेव देहिनाम् । न स्यात्; वर्ष विना नैतत्; सदाचारादिकं तथा ॥ २०॥

अधिकार ३. यतिवैभवम्

संन्यासैनां सदाचारशीलानां विदितात्मनाम् । आमनन्ति समे ग्रन्थाः मान्या माहात्म्यमुत्तमम् ॥ २१॥ निराशस्य मुनेः श्रैष्ठयगणनं ``जीवयकोटयः । कति जाता मृताश्चे''ति गणनेन समं भवेत् ॥ २२॥ विज्ञाय मोक्षभवयोः सम्भवं सुखदुःखयोः । संन्यासं भजतां मुक्त्यै प्रभावो बहुमन्यते ॥ २३॥ धैर्याङ्कुशेन् संयम्य गजान् पञ्चेन्द्रियात्मकान् । यः पालयत्ययं मोक्षफलकृद्वीजवद्भवेत् ॥ २४॥ आशापञ्चकमुक्तस्य गीयते शक्तिरुत्तमा । गौतमादात्तशापोऽत्र देवराजो निदर्शनम् ॥ २५॥ सर्वेन्द्रियजयाख्यानं कर्मान्यैर्दुष्करं जनैः । ये कुर्वन्त्युत्तमास्ते स्युः अन्येत्वधम मध्यमाः ॥ २६॥ रूपगान्धरसादीनां तन्मात्राणां विधां भुवि । जानाति यः प्रपञ्चोऽयं वशे तस्य भविष्यति ॥ २७॥ यतोक्तधर्मनिष्ठानां यतीनां महिमादिकम् । मन्त्रादि सहितैर्वेदवाक्यैरेव निरूप्यते ॥ २८॥ गुणपर्वतमारूढाः मुनयः कुपिता यदि । क्षणिकोऽपि स दुर्वारफलःशान्तिप्रसादने ॥ २९॥ सर्वभूतदयासान्द्राः ये तु धर्मपरायणाः । त एव ब्राह्मणाः प्रोक्ताः यतयः संशितव्रता ॥ ३०॥

अधिकार ४. धर्मवैशिष्टयम्

धर्मात् सञ्जायते कीर्तिः धर्मादुत्पघते धनम् । धर्मादप्यधिकं वस्तु प्राणिनां किं नु घर्तते ॥ ३१॥ धर्मानुष्ठानविभवात् देहिनां आयते सुखम् । धर्माणामननुष्ठानादनिष्ठं सम्भवेदिह ॥ ३२॥ मनोवाक्कायकरणैः धर्मकार्ये यथाविधि । कर्तव्यं ख्यात् यथाशक्ति समयस्यानुरोधतः ॥ ३३॥ यत् कृतं शुद्धमनसा स धर्म इति कथ्यते । हच्छुद्धिरहितं कर्म केवलाडम्बरार्थकम् ॥ ३४॥ क्रोधो लोभः कठोरोक्तिरसूयेति चतुर्विधान् । दोषान् विना कृतं कार्ये धर्म इत्युच्यते बुधैः ॥ ३५॥ पश्चादिति भतिं त्यक्त्वा बाल्ये धर्मे वितन्वतः । स धर्मो मृत्युकालेऽपि स्थितः साह्यकरो भवेत् ॥ ३६॥ शिबिकावाहकं हष्टवा तत्रत्यञ्च समक्षतः । धर्मप्रभावे सुज्ञेये कुतः शास्त्रं कुतः श्रुतिः ॥ ३७॥ अनुस्यूततया धर्मकार्ये जन्मनि यत् कृतम् । तत् पुनर्जन्ममार्गस्य निरोधकशिलायते ॥ ३८॥ यल्लब्धं धर्ममार्गेण तदेव सुखमिष्यते । अधर्माद्वस्तु यत् प्राप्तं न सा कीर्ति र्न तत् सुखम् ॥ ३९॥ सत्कर्मैंव सदा कार्यं सर्वयत्नेन मानवैः । अपवादकरं चान्यत् वर्जनीयतयोच्यते ॥ ४०॥

अधिकार ५. गार्हस्थ्यम्

त्रयाणामपि वर्णानां स्वधर्ममनुतिष्ठताम् । गृहस्थो धर्मनिरतो नित्यं साह्यकरो मत्ः ॥ ४१॥ यतीन् मृतान् दरिद्रांश्च निर्गतीन् अतिथीनपि । गृहस्थोऽन्नादिदानेन स्वाश्रितानपि रक्षति ॥ ४२॥ पितृदेवातिथीनां च बन्धूनामात्मनस्तथा । सत्कृतिर्धर्ममागेण्ण गृहस्थस्य वरा मता ॥ ४३॥ अपवादभयाद्वित्तं सम्पाद्य सकलैः सह । भुञ्जानस्य गृहस्थास्य निर्दुष्टं जीवनं भवेत् ॥ ४४॥ गार्हस्थ्यजीवनं यत् स्यात् स्नेहधर्मसमन्वितम् । तदेव सार्थकं लोके तद्धि गार्हस्थ्यमुच्यते ॥ ४५॥ गार्हस्थ्यजीवनं येन धम्यें मागें प्रवर्त्येते । किं वा प्रयोजनं तस्य वानप्रस्थादिना पथा ॥ ४६॥ धर्मेण वर्त्मना यस्तु गार्हस्थ्यमुपसेवते । मार्गन्तरोपजीविभ्यः स प्रशस्तो निगद्यते ॥ ४७॥ कारयित्वा परैर्धर्मे धर्ममार्गाबलम्बिनः । जीवनं च गृगस्थस्य श्लाघ्यते यतिजीवनात् ॥ ४८॥ स एव धर्मशब्दार्थो यद्धि गार्हस्थ्यजीवनम् । गृहस्थधर्म एवात्र धर्मशब्देन कथ्यते ॥ ४९॥ धर्ममार्गमनुल्लङ्घय गृहस्थो यदि जीवति । देववत्पूजितः सोऽत्र देवलोकं ततो व्रजेत् ॥ ५०॥

अधिकार ६. पत्नी

दयादिगुणसम्पन्ना भर्तुरायानुसारत्ः । करोति जीवनं याऽत्र सैव भार्येति कथ्यते ॥ ५१॥ गृहिणी यस्य गार्हस्थ्यगुणादिरहिता भवेत् । निष्फलं जीवनं तस्य सत्स्वेव विभवादिषु ॥ ५२॥ पत्नी चेद् गुणसम्पन्ना समृद्धं तस्य जीवनम् । वैपरीत्ये समायाते शून्यमेव हि जीवनम् ॥ ५३॥ पातिव्रत्येन सम्पन्ना गृहिणी यदि सङ्गता । तस्मादज्युत्तं भाग्यं गृहस्थास्य न लभ्यते ॥ ५४॥ पतिमेव हरिं मत्वा प्रातर्या भजतेऽन्वहम् । त्वं वर्षेन्ति तंयाऽऽशप्तो देवोऽपि किल वर्षति ॥ ५५॥ पातिव्रत्येन् भर्तारमात्मानं कीर्तिमेव च । या पालयति धर्मेण सैव नारीति कथ्यते ॥ ५६॥ दण्डनाघैस्तु नारीणां रक्षणे किं प्रयोजनम् । पातिव्रत्यात् स्वतः स्त्रीणामात्मरक्षणमुत्तमम् ॥ ५७॥ पातिव्रत्येनसहितां पतिशुश्रूषणे रताम् । गृहस्था गृहिणीं प्राप्य स्वर्गलोकं भजन्ति हे ॥ ५८॥ पातिव्रत्ययशोहीनां भार्यां यो लभते नरः । सगार्वे सिंहवत् सोऽयं शत्रुमध्ये न गच्छति ॥ ५९॥ सञ्चरित्रवती भार्या माङ्गल्यं जीवितस्य सा । सत्पुत्राणामवाप्तितस्तु ततो भूषणवद्भवेत् ॥ ६०॥

अधिकार ७. पुत्रभाग्यम्

शास्त्रानुगतबुद्धीनां पुत्राणां लाभ एव तु । लव्धव्येषु महद्भाग्यं अन्यन्नेह प्रशस्यते ॥ ६१॥ निर्दुष्टगुणसम्पन्नं पुत्रं प्राप्नोति यो नरः । दुःखानि तं न बाधन्ते भाविजन्मसु सप्तसु ॥ ६२॥ तनयेन पितुः स्वर्गलोकार्थे दानकारणात् । पुत्रं स्वार्जितवित्तेन समं वै मन्यते पिता ॥ ६३॥ दत्तं यत् पुत्र हस्तेन सामान्यमपि भोजनम् । अमृतादधिकं तत्तु वर्तते मधुरं पितुः ॥ ६४॥ पुत्रदेहपरिष्वङ्गो देहानन्दं विवर्धयेत् । जनयेच्छ्रवणानन्दं तेषां स्खलितभाषितम् ॥ ६५॥ अस्पष्टमधुरं पुत्रभाषितं श‍ृणोति यः । स एव कथयेत् रम्यं वीणावेण्वादि वादितम् ॥ ६६॥ पिता विद्याप्रदानेन पण्डिताग्रेसरं सुतम् । यदि कुर्यात्सुतस्यैतत् महत् साह्यमुदीर्यते ॥ ६७॥ विद्यावन्तं सुतं दृष्टवा मोदते न पिता परम् । अधिकं तेन तुष्यन्ति सर्वे भूतलवासिनः ॥ ६८॥ ``पुत्रस्ते गुणवान् विद्वान्'' इति वाक्यं महात्मनाम् । श्रुत्वैव जननी तस्य जननादपि तुष्यति ॥ ६९॥ किंवा तपः कृतं पित्रा प्राप्तुमेतादृरां सुतम् । इति लोकैः स्तुत्ः पुत्रः पितुः स्यादुपकारकः ॥ ७०॥

अधिकार ८. प्रीतिः

अर्गलं नास्ति हि प्रीतेः प्रीतानामश्रुबिन्दवः । प्रकाशयन्ति सर्वेषां प्रीतिमन्तःस्थितामपि ॥ ७१॥ नरः प्रेम्णा विरहित्ः सर्वमात्मार्थमिच्छति । प्रेमवान् स्वशरीरं च परार्थमिति मन्यते ॥ ७२॥ सर्वत्र प्रियभावेन कुर्वन् जीवनमात्मनः । जीवस्य देहसम्बन्धफलं पूर्णमिहाश्नुते ॥ ७३॥ करुते स्वजनप्रेम सव सौहार्दजीवनम् । तदेव वर्धयेत् स्नेहमधिकं सर्वजन्तुषु ॥ ७४॥ प्रेमार्द्रहृदयो यस्तु वर्तसे स्वीयबन्धुषु । सोऽत्र कीर्ति सुखं चैत्य स्वर्गलोके सुखं वसेत् ॥ ७५॥ साधनं धर्ममात्रस्य प्रेमेति कथनं वृथा । अधर्मवर्जनेऽप्येतत् साधनं वस्तुतत्त्वतः ॥ ७६॥ निरस्थिकान् कीटगणान् आतपो बाघते यथा । जीवं प्रेम्णा विरहितं तथा धर्मोऽपि बाघते ॥ ७७॥ महीरुहस्य शुष्कस्यमरौ पल्लवजन्मवत् । गृहेषु हृदये प्रें विना जीवन् मुच्यते ॥ ७८॥ देहान्तरङ्गभूतेन प्रेम्णा र्हितदेहिनाम् । बाहयाङ्गसामवायेन फलं नैव भवेद् ध्रुवम् ॥ ७९॥ स देहो जीवसहित्ः यः प्रेमवशमागतः । चर्मावृतास्थिकृटःस्यात् प्रेम्णा विरहितस्तु यः ॥ ८०॥

अधिकार ९. अतिथिसत्कारः

सम्भाराः सम्भ्रियन्ते ये गृहस्थाश्रमवासिना । सर्वे ते विनियोक्तव्याः सदैवातिथिपूजने ॥ ८१॥ प्रियातिथिमसम्मान्य गृहे यद्वस्तु भुज्यते । साक्षादमृतमेवास्तु न तच्छ्लाघ्यं कदाचन ॥ ८२॥ स्वगृहप्राप्तमतिथिं भक्त्या सत्कुर्वतः सदा । दारिद्र्यं न भवेत् किन्तु धनं चाप्यभिवर्धते ॥ ८३॥ शुद्धातिथिं वेश्म गतं सेवमानस्य सादरम् । नरस्य गेहे वसति प्रसन्ना पद्मसम्भवा ॥ ८४॥ भोजयित्वाऽतिथिं पूर्वे शिष्टं स्वीकृत्य जीवत्ः । बीजावापं विना क्षेत्रे जातन्ते सस्यसम्पदः ॥ ८५॥ तोषयित्वाऽतिथिं प्राप्तमन्यान् अतिथिसत्तमान् । यो हि प्रतीक्षते सोऽयं देवानामतिथिर्भवेत् ॥ ८६॥ सदाराधनयज्ञस्य फलं वाचामगोचरम् । अतिथेर्योग्यता भेदात् फलमेदोऽपि सम्मत्ः ॥ ८७॥ यस्यातिथीनां सत्कारयज्ञे बुद्धिर्न जायते । लब्धं वस्तु परिभ्रष्टं भवेदिति स चिन्तयेत् ॥ ८८॥ दरिद्र एव मन्तव्यो वित्ते सत्यपि पुष्कले । भातिथ्यदानविमुखो यो भवेद् भुवने जडः ॥ ८९॥ शिरीषपुष्पमाघ्राणात् म्लानं सञ्जायते यथा । तथाऽतिथीनां वदनं स्याद् गृहस्थे पराङ्मुखे ॥ ९०॥

अधिकार १०. मधुरालापः

यत् कथ्यते धर्मविद्भिः सदयं प्रेमपूर्वकम् । वञ्चनारहितं तत्तु भवेन्मधुरभाषणम् ॥ ९१॥ सहर्षे च दरिद्रेभ्यः कृतात् दानादनिन्दितात् । प्रसन्नवदनस्यैतत् श्रेष्ठं मधुरभाषणम् ॥ ९२॥ दृष्ट्वा प्रसन्नमधुरं यद्वै हृदयपूर्वकम् । उच्यते सुहितं सत्यं स धर्मः परमो मतः ॥ ९३॥ सर्वत्र मधुरं वाक्यं प्रयुक्तं सुखवर्धकम् । सर्वदा दुःखजनकं दारिद्य्रमपि नाशयेत् ॥ ९४॥ विनयो मधुरालापः द्वयमाभरणं नृणाम् । ताभ्यां द्वाभ्यां विहीनस्य किमन्यैर्भूषणैः फलम् ॥ ९५॥ अन्येषामुपकारार्थे यो व्रूते मधुरं वचः । तस्य पपानि नश्यन्ति धर्म एवाभिवर्धते ॥ ९६॥ परोपकारजनकं माधुर्यसाहितं वचः । वक्तारं सुखिनं कृत्वा पुण्यं चापि प्रयच्छति ॥ ९७॥ परदुःखाय या न स्युः प्रयुक्ता मधुरोक्तयः । ऐहिकामुष्मिकं सौख्यं प्रयोक्तुर्वितरन्ति ताः ॥ ९८॥ मधुरोक्त्या महत् सौख्यं भवेदिति विदन्नपि । दुःखदं कठिनं वाक्यं कुतो वा वक्ति मानवः ॥ ९९॥ कथनं कठिनोक्तीनां मधुरे वचसि स्थिते । मधुरं फलमुत्सृज्य कषायस्याशनं भवेत् ॥ १००॥

अधिकार ११. कृतज्ञता

अस्माभिरकृते साह्ये यस्तु साह्यं करोति नः । लोकद्वयप्रदानेऽपि तस्य नास्ति प्रतिक्रिया ॥ १०१॥ समये रचितं साह्यं स्वल्पं स्यात् परिमाणत्ः । तदेव कालमेदेन् महत् स्याद् भुवनादपि ॥ १०२॥ अनालोच्य प्रतिफलं साह्यं प्रेम्णा विनिर्मितम् । विमृष्ट सत् समुद्रादप्यधिकं स्यान्न संशयः ॥ १०३॥ स्वल्पं यवसं साह्यं विमृश्य बहु लाभदम् । तालवृक्षादपि महत् तन्मन्यन्ते नरोत्तमाः ॥ १०४॥ कृते च प्रतिकर्तव्यं स्वीयशक्तयनुसारतः । प्राप्तलाभानुसारेण प्रतिकारो विगह्र्यते ॥ १०५॥ ज्ञानाचारसमेयानां सम्बन्धं नैव विस्मरेत् । आपत्सहायभूतनां मैत्रीं नैव परित्यजेत् ॥ १०६॥ कष्टकाले समायाते उपकुर्वन्ति ये नराः । सन्तः स्मरन्ति तन्मैत्रीं सप्तसप्तसु जन्मसु ॥ १०७॥ कृतानामुपकाराणामधर्मे विस्मृतिर्भवेत् । विस्मृतिस्त्वपकाराणां सद्यो धर्मः स कथ्यते ॥ १०८॥ उपकृत्य प्रथमतः मरणान्तकरा यदि । उपकारा अपि कृताः लीयन्ते तत्र चैव ते ॥ १०९॥ धर्मान्तरविहीनानां विद्यते पापमोचनम् । कृतज्ञताधर्महीने नास्ति वै पापमोक्षणम् ॥ ११०॥

अधिकार १२. ताटस्थ्यम्

शत्रुमित्रतृतीयेषु न्यायमार्गानुसारिणः । निष्पक्षपाततारूपो धर्मे योऽस्य फलं भवेत् ॥ १११॥ निष्पक्षपातिनो वित्तं न तु केवलमात्मनः । स्थिरं सत्पुत्रपौत्रादि सन्ततेः स्यात् सुखावहम् ॥ ११२॥ पक्षपातार्जितं वित्तं सुखं नैव प्रयच्छति । कदाचित् सुखदं भायादथापि परिवर्जयेत् ॥ ११३॥ अयं माध्यस्थ्यवर्तीति विपरीतोऽयमित्यपि । सदसत्पुत्रजन्मभ्यां ज्ञातुं शक्यं विशेषतः ॥ ११४॥ सुखदुःखे हि संसारे कर्माधीने भविष्यतः । अतो मध्यस्थवृत्तिः स्यात् श्रेष्ठमाभरणं सताम् ॥ ११५॥ हृदयं पक्षपातेन यदि पापं विचिन्तयेत् । तदुत्पात इति ज्ञेयं भाविनाशस्य मूचकम् ॥ ११६॥ निष्पक्षपातिनो धर्मशीलस्य समुपागतम् । दारिद्र्यमपि मन्यन्ते भाग्यमेव मनीषिणः ॥ ११७॥ मध्ये स्थिता तुला द्रव्यं न्यायतस्तुलयेद्यथा । तथा निष्पक्षपातित्वं माध्यस्थं लक्षणं सताम् ॥ ११८॥ पक्षपातं विना चित्तं मध्यस्थं च भवेद्यति । वाचि मध्यस्थभावोऽपि तदा नूनं भविष्यति ॥ ११९॥ अन्येषामपि वस्तूनि स्वकीयानीव पश्यता । क्रियते यत्तु वाणिज्यं तद्वाणिज्यमितीर्यते ॥ १२०॥

अधिकार १३. निग्रहशीलता

तनोति निग्रहो मर्त्यमुत्तं देवपूजितम् । अनिग्रहो नरं घोरे नरके पतयत्यपि ॥ १२१॥ निग्रहः शाश्वतं वित्तमिति तत् पालयेत् सदा । निग्रहादधिकं श्रेयो मानवानं न विद्यते ॥ १२२॥ ज्ञातव्यं तत्त्वतो ज्ञात्वा संयमी यो भवेन्नरः । महात्मनां गुणाज्ञानां कृपया स सुखी वसेत् ॥ १२३॥ सदा निग्रहशीलो यः स्वीयमार्गावलम्बिनः । महोन्नता स्थिति स्तस्य शैलादप्यधिका भवेत् ॥ १२४॥ सदा निग्रहशीलत्वं सर्वेषामुत्तं मतम् । तेषु चाप्यग्रगण्यस्य तद्भवेदधिकं धनम् ॥ १२५॥ पञ्चेन्द्रियाणि सम्यम्य विद्यमानस्य कर्मवत् । आत्मरक्षणशक्तिः स्यात् सप्तस्वपि च जन्मसु ॥ १२६॥ निरोद्धव्येषु बहुषु जिह्वां वा रोध्दुमर्हति । अन्यथा शब्ददोषेण जायते दुःखभाजनम् ॥ १२७॥ शक्तवा कुशब्दं योऽन्यस्य कुरुते मनसो व्यथाम् । तात्कृताश्चान्यधर्माः स्युरनिष्टफलदायकाः ॥ १२८॥ वह्निजः स्यात् व्रणाः शान्तः चिह्नमात्रं न शाम्यति । वागग्निजव्रणस्येह नैवोपशमनं भवेत् ॥ १२९॥ अक्रोधः संयमी यस्तु विद्यया च निषेवितः । स्वत् एव समागम्य तं रक्षेद्धर्मदेवता ॥ १३०॥

अधिकार १४. सदाचारसम्पत्तिः

सदाचारो मनुष्याणां सर्वश्रेयांसि यच्छति । प्राणेभ्योऽपि सदाचारः श्रेष्ठ इत्येव पालयेत् ॥ १३१॥ प्रेम्णा परिश्रमेणापि सदाचारं तु पालयेत् । सर्वधर्मे सदाचारः श्रेष्ठो जीवितसाह्यादः ॥ १३२॥ यः सदाचारसम्पन्नः स कुलीन इतीर्यते । यः सदाचाररहितस्त्वकुलीनः स गण्यते ॥ १३३॥ अधीतविस्मृतं वेदं प्राप्नोति पठनात् पुनः । विप्रो नषकुलाचारः पुनर्नाप्नोति विप्रताम् ॥ १३४॥ असूयाविष्टमनुजो यथा वित्तं न विन्दति । तथा कुलाचारहीनो लभते न समुन्नतिम् ॥ १३५॥ धीराः सदाचारहानात् दृष्ट्वा नीचकुलोद्भवम् । न मुञ्चन्ति सदाचारं दुस्साधमपि सर्वदा ॥ १३६॥ सदाचारेण सर्वेऽपि लभन्ते परमं यशः । सदाचारपरित्यागादपवादो मुधा भवेत् ॥ १३७॥ उपयोर्लौकयोः सौख्यं सदाचारेण जायते । तथा दुःख दुराचारात् प्राप्यते लोकयोर्द्वयोः ॥ १३८॥ दोषयुक्तानि वाक्यानि विस्मृत्यापि प्रमादतः । तेषां मुखान्न निर्यान्ति ये सदाचारशालिनः ॥ १३९॥ ये तु नैव प्रवर्तन्ते कालदेशानुसारत्ः । अधीतेष्वपि शास्त्रेषु ज्ञानिनो न भवन्ति ते ॥ १४०॥

अधिकार १५. परदारपराङ्मुखता

परपत्नीसङ्गमेच्छादोषस्तेषु न विद्यते । धर्मार्थशास्त्र तत्त्वज्ञा ये भवन्ति महीतले ॥ १४१॥ परपत्नीलम्पटनां मध्ये मृढतमो हि सः । परदार गृहद्वारे कामार्तो यः प्रतीक्षते ॥ १४२॥ जीवन्नपि मृतप्रायः स तु संशय मन्तरा । विश्वस्तसुहृदः पत्नीं यो भोक्तुमभिवाञ्छति ॥ १४३॥ पापं किञ्चिदनालोच्य परनारीरतात्मनः । किमन्यै र्विभवैः पूणैंः स दुःखान्न विमुच्यते ॥ १४४॥ सर्वसाधारणं मत्वा सङ्गतः परवल्लभाम् । अपवादं स्थिरं धत्ते गर्हितं तत्कुलं भवेत् ॥ १४५॥ अपवादो भयं पापं द्वेषश्चेति चतुर्विधाः । दोषा नैनं विमुञ्चन्ति योऽन्यभार्यां निषेवते ॥ १४६॥ धर्म मार्गेण गार्हस्थ्यसेवनेनेह जीवतः । अन्यदीयेषु दारेषु मतिरेव न जायते ॥ १४७॥ परस्त्रीदर्शने चित्तदाढर्थे यद्रू विद्यते सताम् । नेदं तेषां धर्ममात्रं पूर्णाचारोऽपि स स्मृतः ॥ १४८॥ घोराम्मोधि वृतेऽप्यस्मिन् लोके ते श्नुवते सुखम् । पराङ्गनापरिष्वङ्गं कामार्ता ये न कुर्वते ॥ १४९॥ त्यक्त्वा धर्म मधर्मणां कर्ता चापि विशेषतः । श्लाघ्य एव भवेदत्र परस्त्रीविमुखो यदि ॥ १५०॥

अधिकार १६. क्षमा

धारणात् खनकस्यापि धरण्या इव निःसमा । स्वापराधिषु या क्षान्तिः स धर्मः परमो नृणाम् ॥ १५१॥ अपकारः परकृतः सोढव्यः सर्वदा नरैः । विस्मर्ता त्वपकारणां ततो भुवि महीयते ॥ १५२॥ दरिद्रेषु दरिद्रः स्यात् भ्रष्टस्त्वतिथिपूजनात् । मूढनिन्दा सहिष्णुस्तु समर्थेषूत्तमो भवेत् ॥ १५३॥ आत्मनो गुणसम्पत्त्या विख्यातिं यश्चिकीर्षति । तेन क्षमावता भाव्यमपराधिजनेष्वपि ॥ १५४॥ शत्रूणामपकर्तारं सन्तो न बहुकुर्वते । अरिष्वपि क्षमावन्तं स्वर्णवत् हृदि कुर्वते ॥ १५५॥ विरोधिष्वपकर्तृणां तिष्ठेदेकदिनं सुखम् । परद्रोहसहिष्णूनं यावज्जीवं भवद्यशः ॥ १५६॥ परैरनर्थात् विहितात् लब्ध्वापि मनसो व्यथाम् । अधर्माचरणाञ्चित्त निरोधो हि प्रशस्यते ॥ १५७॥ कुर्वतामात्मनो द्रोहं मनोऽहङ्कार करणात् । अकृत्वैव प्रतीकारं जेतव्याः क्षमयैव ते ॥ १५८॥ मर्यादां समतिक्रम्य निन्दकान् कठिनोक्तिभिः । क्षमया ये सहन्तेऽत्र शुद्धास्ते मुनिभिः समाः ॥ १५९॥ महानेव स मन्तव्यः विनाऽन्नं यस्तपस्यति । परनिन्दासहिष्णुस्तु ततोऽपि स्यान्महत्तरः ॥ १६०॥

अधिकार १७. अनसूयता

असूयाहीनचित्तेन सन्मागैङ्क प्रवर्तिना । अनसूया रक्षणीया सदाचारसमा सदा ॥ १६१॥ असूया यस्य न भवेत् सर्वदा सर्वजन्तुषु । स एव भग्यवान् लोके सर्वभाग्येषु तद्वरम् ॥ १६२॥ परोत्कर्षमसोद्वैव यस्त्वसूयापरो भवेत् । इह वित्तं परे पुण्यमुभयं तस्य हीयते ॥ १६३॥ असूयया भवेद्दुःखमिति मत्वा मनीषिणः । अधर्मे नैव कुर्वन्ति ह्यसूयावशमागताः ॥ १६४॥ असूयया समः शत्रुर्वर्तते न महीतले । रिपौ कदाचिच्छान्तेऽपि नूनं सा कुरुते व्यथाम् ॥ १६५॥ यो वै न सहतेऽन्यस्य विभवं समुपागतम् । बन्धवास्तस्य नश्यन्ति वस्त्राहारविवर्जिताः ॥ १६६॥ दृष्ट्वा नरमसूयाढ्यं मन्युना सहिता रमा । ददाति तस्य दारिद्र्यं स्वयं चापि विमुञ्चति ॥ १६७॥ असूयया समः पापी विद्यते नैव भूतले । भाग्यं सर्वे नाशयित्वा कुपथे च नयेन्नरम् ॥ १६८॥ असूयासहिते भाग्यं दारिद्र्यं सज्जनेष्वपि । यदि स्यात् कारणं तत्र कि स्यादिति विचार्यताम् ॥ १६९॥ असूयावान्नरो लोके न प्राप्नोति समुन्नतिम् । असूयया विरहितं न जहात्युन्नतिर्नरम् ॥ १७०॥

अधिकार १८. अलोभः

अधर्मादन्यावस्तूनि योऽपहर्तुमभीच्छति । कुलनाशं स भजते दोषा अपि भजन्ति तम् ॥ १७१॥ अन्यायाल्लज्जिता मर्त्या लोभेन परवस्तुषु । स्वल्पलाभमभीप्सन्तः निषिद्धं नैव कुर्वते ॥ १७२॥ न्यायमार्गागतं नित्यसुखं यैः प्रार्थते नरः । अल्पसौख्यात् न ते कुर्युः लोभमन्येष्वधार्मिकम् ॥ १७३॥ जित्वा पञ्चेन्द्रियग्रामं तत्त्वज्ञानसमन्विताः । ज्ञात्वापि स्वक दारिद्र्यमलुब्धाः परवस्तुषु ॥ १७४॥ परद्रव्यापहारार्थे निन्दितं कर्म कुर्वतः । सूक्ष्मेण शास्त्रज्ञानेन विद्यते किं प्रयोजनम् ॥ १७५॥ सर्वभूतदयापूर्वे गार्हस्थ्यमनुतिष्ठतः । परवस्तुप्रलोभेन गार्हस्थ्यमपि निष्फलम् ॥ १७६॥ परद्रव्यापहारेण लब्धं वस्तु परित्यजेत् । फलप्रदानवेलायां न तच्छ्रेयः प्रदास्यति ॥ १७७॥ योऽन्यदीयं वस्तुजातमपहर्तु न काङ्क्षति । न क्षीयते तस्य भाग्यं भूय एवाभिवर्धते ॥ १७८॥ परद्रव्येष्वलुब्धा ये ज्ञानिनो धर्मवित्तमाः । तानू वासयोग्यान् विज्ञाय तेष्वेव रमते रमा ॥ १७९॥ परिणाममनालोच्य परलुब्धो विनश्यति । अलुब्धो यस्तु वर्तेत राजते स जयी भुवि ॥ १८०॥

अधिकार १९. परोक्षनिन्दावर्जनम्

अप्यनुक्त्वा धर्मशब्दमधर्माचार तत्परः । परोक्षनिन्दादोषेण रहितश्चेत् प्रशस्यते ॥ १८१॥ परोक्षे दूषयित्वा या प्रत्यक्षे कपटस्तुतिः । धर्महानेरधर्मस्य करणात् पापदैव सा ॥ १८२॥ परोक्षे दूषणादग्रे स्तुत्या यज्जीव्यते मुघा । ततोऽपि धर्मन्नष्टस्य शास्त्रोक्ता सद्नतिर्भवेत् ॥ १८३॥ प्रत्यक्षे दूष्यतां सम्यक् विना दाक्षिण्यमेव वा । परिणाममनालोच्य परोक्षे न तु दूषयेत् ॥ १८४॥ वाचा धर्मे वदेन्नाम मनस्तत्र न विद्यते । इत्येव स हि मन्तव्यः परोक्षे यस्तु निन्दति ॥ १८५॥ यो निन्दति परोक्षेऽन्यं तत्कृतेषु बहुष्वपि । दोषेषु सारमन्विष्य तमन्यो दूषयेतुरः ॥ १८६॥ यो वा मधुरवाक्येन स्नेहमन्यैर्न वर्घयेत् । परोक्षनिन्दकस्यास्य भजेन्मित्रममित्रताम् ॥ १८७॥ विश्वस्तमित्रदोषणां परोक्षे संप्रकाशकाः । उदासीन मनुष्येषु न कुर्युः किमिवाप्रियम् ॥ १८८॥ ``ममास्य भरणं धर्म'' इति मत्वा वसुन्धरा । परोक्षनिन्दासक्तस्य देहभारं विभर्ति किम्? ॥ १८९॥ परोक्षनिन्दकः स्वीयदोषान् अन्यकृतानिव । यदि जानाति तं नैव बाधन्ते दुःखराशयः ॥ १९०॥

अधिकार २०. वृथालापनिषेधः

जुगुप्साजनकं व्यर्थभाषणं जनसंसदि । प्रयुङ्क्ते यः स सर्वेषां परीहास पदं भवेत् ॥ १९१॥ मित्रेष्वनिष्टकरणादपि पण्डित मण्डले । वृथाप्रलापो विज्ञेयो महानिष्टफलप्रदः ॥ १९२॥ अविनीतिपरः सोऽयमिति स्पष्टं प्रतीयते । निरर्थकानि वाक्यानि ब्रूते यस्तु विशेषतः ॥ १९३॥ हीनमर्थगुणाभ्यां यत् वाक्यं सर्वत्र कथ्यते । नीत्या विरहितं तत्तु नाशयेत् सद्गुणानपि ॥ १९४॥ ब्रूयुर्निरर्थकं वाक्यं महास्थानगता यदि । तदा कीर्तिप्रतिष्ठाभ्याम्भवन्ति रहिता अमी ॥ १९५॥ निरर्थकानां वाक्यानां प्रयोक्ता यः पुनः पुनः । न नरः स हि मन्तव्यो ऋजीषं स्यान्नरेष्वयम् ॥ १९६॥ अधर्मसहितं वाक्यं महान्तः कथयन्त्वपि । अप्रयोजकवाक्यानि वर्जनीयानि तैरपि ॥ १९७॥ मोक्षाद्युत्तमलाभार्थे मीमांसन्ते मिथस्तु ये । अल्पलाभकरं वाक्यं न ते ब्रूयुर्मनीषिणः ॥ १९८॥ अविद्यारहिताः सन्तः तत्त्वज्ञानसमन्विताः । विस्मृत्याप्यर्थविधुरं वाक्यं नैव प्रयुञ्जते ॥ १९९॥ वाच्यं तदेव वाक्येषु यल्लाभजनकं वचः । त्याज्यं तदेव वाक्येषु यल्लाभरहितं वचः ॥ २००॥

अधिकार २१. दुष्कर्मभीतिः

दुष्कर्मनिरता लोकाः पापेभ्यो न हि बिम्यति । सत्कर्मनिरता सन्त पापाद्विभ्यति सर्वदा ॥ २०१॥ दुष्कर्मणा दुःखमेव यस्मादुत्पद्यते ततः । वह्नेरप्यधिक मत्वा मेतव्यं दुष्टकर्मणः ॥ २०२॥ तदात्मक्षेमजनकमुत्तमं ज्ञानमुच्यते । दुःखानुत्पादबुद्धिर्या स्वापराधिजनेष्वपि ॥ २०३॥ परदुःखप्रदं कर्म प्रमादेनापि न स्मरेत् । अन्यथा स्मरतोऽस्यैव धर्मो नाशं विचिन्तयेत् ॥ २०४॥ ``अहं दरिद्र'' इत्युक्त्वा न कुर्यात्कर्म निन्दितम् । न चेत् दरिद्र एव स्यात् भाविजन्मसु सप्तसु ॥ २०५॥ ``स्वकृतं दुष्कृतं स्वस्य भाविदुःखप्रदायकम्'' । इति चिन्तयताऽन्येषां न कार्या दुष्कृतिः सदा ॥ २०६॥ इतरैः शत्रुभिर्जातु मुच्येतेहापि जन्मनि । दुष्कर्मनामा शत्रुस्तु बाधते भाविजन्मसु ॥ २०७॥ नरच्छाया यथा तस्य पादाभ्यां सह गच्छति । प्रतिजन्म तथा यान्ती दुष्कृतिर्बाधते नरम् ॥ २०८॥ विना दुःखं सदा यो वै सुखी भवितुमिच्छति । ईषदप्यत्र दुष्कर्म न कुर्यात् स परस्य तु ॥ २०९॥ अधर्मेण पथा गच्छन् अन्येभ्यो दुष्कृति नरः । यदि कश्चिन्न कुरुते तं दुःखं दूरतस्त्यजेत् ॥ २१०॥

अधिकार २२. लोकोपकारिता

मेघानं वर्षतां नित्यं कि साह्यं कुर्वते जनाः । मेघतुल्या महान्तोऽपि निष्काममुपकुर्वते ॥ २११॥ लोकोपकर्तृभिर्वित्तं प्रयत्नात् समुपार्जितम् । सत्पात्रे दीयमानं सत् प्रयोजनकरं भवेत् ॥ २१२॥ लोकोपकारिताख्येन धर्मेण भुवि जीवनात् । सत्कार्यमुत्तमं नास्ति स्वर्गे वा भूतलेऽपि वा ॥ २१३॥ लोकनामुपकर्ता यः शिष्टाचारपरायणः । स जीवति शरीरेण मृतप्रायो नरोऽपरः ॥ २१४॥ जलपूर्णतटाकेन भवन्ति सुखिनो जनाः । लोकोपकारिणो भाग्यं लोकसौख्यं प्रयच्छति ॥ २१५॥ फलभारनतो वृक्षः प्राममध्यं गतो यथा । लोकोपकारी वित्ताढयस्तथा स्यादुपकारकः ॥ २१६॥ सर्वभागैर्यथा वृक्षः रुग्णानामौषधायते । लोकोपकारिणो वित्तं तथा सर्वोपकारकम् ॥ २१७॥ लोकोपकारमाहात्म्यं जानन्तो ज्ञानिसत्तमाः । स्वस्य दारिद्र्यकालेऽपि परेषामुपकर्वते ॥ २१८॥ लोकोपकारिचित्तस्य दारिद्र्यमिदमुच्यते । न शक्नोम्यधिकं दान्तु दारुद्र्ययेति यन्मतम् ॥ २१९॥ लोकोपकारात् दारिद्र्यं जायेतेति वदेत् यदि । भप्यात्मविक्रयेणैतत् दारिद्र्यक्रयणं वरम् ॥ २२०॥

अधिकार २३. दानम्

अर्थिभ्योऽपेक्षितं यत्तु दीयते दानमुच्यते । इतराणि तु दानानि स्वार्थमूलानि केवलम् ॥ २२१॥ मोक्षलाभी भवेत् कामं याचनं न हि सम्मतम् । नरकेऽपि समायाते दानं सर्वात्मना वरम् ॥ २२२॥ ``अहं दरिद्रो देही'' ति वाक्यश्रवणमन्तरा । महकुलप्रसूतेषु दृश्यते दानशीलता ॥ २२३॥ याचकस्य मुखं दानात् प्रसन्नं न भवेत् यदि । दातृत्वमपि याञ्चेव जायते दुःखदं सदा ॥ २२४॥ अवारयन् क्षुघं भोज्यैयेङ्गी तत्सहनक्षमः । तामापाकुर्वतोऽन्नाद्यै गृहस्थानाधिको मतः ॥ २२५॥ धनी क्षुघं यदार्तस्य वारयेत्, भाविजन्मसु । तदात्मफल लाभाय स्थिरं मुलधनं भवेत् ॥ २२६॥ भुक्तवन्तं सहान्येन् लब्धं वस्तु विभज्य तु । क्षुण्णामाऽयं महारोगो दूरन्नित्यं विमुञ्चित ॥ २२७॥ अभुक्तं स्वेन चान्येभ्योऽप्यदत्तं यस्य वै धनम् । क्षीयते कि न जानाति स सौख्यं दानमूलकम्? ॥ २२८॥ अदत्वैव परेभ्यो यद्भुज्यते स्वार्जितं धनम् । दरिद्र्यान्मरणाञ्च स्या दहो कष्टतरं ततः ॥ २२९॥ नास्ति मृत्युसमं दुःखमथाप्यर्थिभिरीप्सितम् । तेभ्यो दातुमशक्तस्य मृत्युरेव वरो मतः ॥ २३०॥

अधिकार २४. कीर्तिः

अर्थिभ्यो वाञ्छितं दत्त्वा कीर्त्या सह वसेन्नरः । नरस्य जन्मसाफल्यं नास्ति कीर्ति विना भुवि ॥ २३१॥ याचकेभ्यो दारिद्र्येभ्यः स्वल्पं वापि प्रयच्छतः । कीर्तिरेव सदा सद्भिर्गीता भवति शाश्वती ॥ २३२॥ बहुकालमभिव्याप्य तिष्ठन्तीं कीर्तिमन्तरा । लोके निरुपमं नित्यमेकं वस्तु न विद्यते ॥ २३३॥ पृथिव्याः स्थितिपर्यन्तां कीर्ति यो लभते नरः । स्वर्गलोकोऽपि तं स्तौति न तु ज्ञानसमन्वितान् ॥ २३४॥ स्थिरकीर्त्या च मरणं यश्ःकायेन जीवनम् । महतां ज्ञानिनामेव लभ्यं स्यात् नापरस्य तु ॥ २३५॥ यदीष्टं मानुषं जन्म कीर्त्या जननमुत्तमम् । अन्यथा मृगजन्मैव श्लाघ्यते मर्त्यजन्मनः ॥ २३६॥ अशक्तो जीवितुं कीर्त्या न द्वेष्ट्यात्मानमात्मना । किन्त्वात्मनिन्दकं द्वेष्टि किं भवेदत्र कारणम् ॥ २३७॥ अनवाप्य यशो लोके ये हि जीवन्ति मानवाः । निन्दितं जीवनं तेषामिति सद्भिः प्रकीर्त्यते ॥ २३८॥ यशसा तु विहीनस्य कायं या बिभृयान्मही । निर्दुष्ट सस्यसम्पत्तिविहीना सा भवेद् धुवम् ॥ २३९॥ अपवादेन रहितो यो जीवति स जीवति । जीवन्नप्यपवादेन मृतप्रायो हि गण्यते ॥ २४०॥

अधिकार २५. दया

दयारूपं धनं सर्वधनादुत्तम मुच्यते । इतराणि धनानीह सन्ति नीचजनेष्वपि ॥ २४१॥ सन्मार्गेण परामृश्य भवितव्यं दयावता । सर्वशास्त्र परामर्शेदयैका साह्याकारिणी ॥ २४२॥ अन्धकारमयं धोरं नरकं न भजन्ति ते । ये वै दयाद्रहृदया वर्तन्ते सर्वजन्तुषु ॥ २४३॥ रक्षणात् सर्वजन्तूनां दयायाश्च प्रदर्शनात् । नरो न लभते नूनं दुष्कर्म नरकप्रदम् ॥ २४४॥ दयार्द्रहृदयो भूत्वा दुःखं नाप्नोति भूतले । निदर्शनं भवेदत्र लोकोऽयं प्राणिसङ्कुलः ॥ २४५॥ जनाः प्राणिदयाहीनाः प्राणिनो हिंसयन्ति ये । धर्मत्यागागतं जन्मदुःखं नाद्यापि तैः स्मृतम् ॥ २४६॥ वित्तहीनो न लभते इहलोके यथा सुखम् । परलोके न लभते दयाशून्यः सुखं तथा ॥ २४७॥ सत्कर्मणा दरिद्रोऽपि कदाचिद्धनिकः सुखी । निर्दयस्य कुतः सौख्यं न कदापि स वर्धते ॥ २४८॥ ज्ञानशून्यो यथा शास्त्रात्तत्त्वार्थे नैव विन्दति । निर्दयः स्वकृताद्धर्मात्तथा न लभते फलम् ॥ २४९॥ यदा करुणया हीनो हिंसयेद्दुर्बलं तदा । स्वस्माद्वलीयसामग्रे चिन्तयेत् स्वभयस्थितिम् ॥ २५०॥

अधिकार २६. मांसवर्जनम्

पोषणार्थे स्वदेहस्य कृत्वा यः प्राणिहिंसनम् । तन्मांसभक्षणपरः स दयावान् कथं भवेत् ॥ २५१॥ धनस्यारक्षणान्मार्त्यो निर्धनो जायते यथा । तथा मांसशनपरो दयाहीनः प्रकीर्त्यते ॥ २५२॥ प्राणिमांसरसास्वाद निमग्नस्य हि मानसम् । घातकस्यात्तश्स्त्रस्य चित्तवन्निर्दयं भवेत् ॥ २५३॥ अहिंसैव दया प्रोक्ता हिंसेयमदया मता । प्राणिभांसाशनं लोके पापमाख्यायते ॥ २५४॥ मांसहारोभिवृद्धश्चेत् सदेहं प्राणिनामिह । दुर्लभा स्थितिरेव स्यात् नरकश्चापि जायते ॥ २५५॥ मांसार्थे न भवेत् प्राणि हिंसा चेदिह भूरिशः । धनार्थे नैव वर्तेरन् मांसविक्रयिणो नराः ॥ २५६॥ मांसां न भक्षयेत् प्राज्ञः, क्रियमाणे विमर्शने । व्रणो हि प्राणिनां मांसमिति ज्ञानं भवेत् यतः ॥ २५७॥ निर्दुष्टज्ञान सम्पन्नास्त्रिदोषण विवर्जिताः । शरीरं प्राणरहितं शवं मत्वा न भुञ्जते ॥ २५८॥ नानायागविधानेन जायमानात् फलादपि । मांसाहारपरित्यागाच्छ्रेपः फलमवाप्यते ॥ २५९॥ प्राणिहिंसा विरहितं विमुखं मांसभक्षणे । सर्वे देवा नराश्चैव विनमन्ति नरोत्तमम् ॥ २६०॥

अधिकार २७. तपः

उपवासादिदुःखानां सहनं जीवसन्त्तेः । दुःखानुत्पादनं चेति तपोलक्षणमुच्यते ॥ २६१॥ जन्मान्तरतपोभ्यास शालिनो मनुजस्य तु । तपः स्यादत्र निर्विघ्नं विपरीते वृथाश्रमः ॥ २६२॥ आहारादिप्रदानेन प्रशस्तानां तपस्विनाम् । गृहस्थाः साह्यमिच्छन्तो निवृत्तास्तपसः किमु ॥ २६३॥ साधूनां सङ्ग्रहे दुष्टजनानां निग्रहेपि च । शक्तिःस्मरणमात्रेण महतां स्यात्तपोबलात् ॥ २६४॥ तथैवाभीप्सितं सर्वे प्रयत्नाद्भाजन्मसु । लभ्यते हि गृहस्थेन तपः कर्तुमिह क्षणम् ॥ २६५॥ क्रियते यैस्तपः कर्म कृतकृत्यास्त एव हि । आशापाशवशा हन्त क्लिश्यन्त इतरे जनाः ॥ २६६॥ असकृद्वह्निसन्तप्तं सुवर्णे सुष्ठु राजते । तपः क्लेशितकायस्य ज्ञानं सम्यक् प्रकाशते ॥ २६७॥ पश्यन्तमात्मनाऽऽत्मानं तपस्यन्तं जितेन्द्रियम् । सर्वे नरा नमस्यन्ति बहुमानपुरस्सरम् ॥ २६८॥ शापेऽप्यनुग्रहे चैव शक्तिमन्तस्तपस्विनः । कालपाशविनिर्मुक्ताः प्राप्नुवन्ति परां गतिम् ॥ २६९॥ बहवस्तपसा हीनाः, विरलास्तु तपस्विनः । धनिकास्तेन विरला इतरे बहवोऽभवन् ॥ २७०॥

अधिकार २८. दुराचारः

वञ्चकस्य दुराचारं तच्छरीरगतान्यपि । पञ्च भूतानि दृष्टवैव मन्दमन्तर्हसन्ति हि ॥ २७१॥ अकार्यमिति मत्वापि कुर्वतः पुनरेव तत् । आकाशेनेव महता तपोवेषेण किं फलम्? ॥ २७२॥ मनसो निग्रहं हित्वा मुनिवेषस्य वर्तनम् । वुआघ्रचर्मवृत्तो घेनुः सस्यं चरति चेत्, तथा ॥ २७३॥ तपोवेषनिलीनेन परदारपरिग्रहः । गुल्मलीननिषादेन पक्षिग्रहणवद्भवेत् ॥ २७४॥ ``अहं वितक्त'' इत्युत्क्वा दुश्चर्यां यो निषेवते । ``किं कृतं किं कृतं हे'' ति फलकाले स खिद्यते ॥ २७५॥ मनोवैराग्यमप्राप्य विरक्त इव यो नरः । वर्तते कपटाचारः कठिनो नास्ति तत्समः ॥ २७६॥ बहिर्गुञ्जासमाकाराः बहवो रक्तवाससः । अज्ञान मन्तरेतेर्षां गुञाग्रे श्यामता यथा ॥ २७७॥ दुष्टचित्तास्तपस्सिद्धा इव स्नानेन केवलम् । कपटाचारसञ्छन्ना वञ्चकाः सन्ति भूरिशः ॥ २७८॥ काठिन्यमार्दवे बाणवीणरोः कर्मणा ग्रथा । मुनावपि तथा ज्ञेयं न वेषस्तत्र कारणम् ॥ २७९॥ लोकदूष्ये दुराचारस्त्यज्यतेचेत् तपस्विभिः । कुतो वा मुण्डनं तेषां जटाभारेण वा किमु ॥ २८०॥

अधिकार २९. चौर्यनिषेधः

परैरनिन्दितो लोके यो वै जीवितुमिच्छति । विना वस्त्वपहारेच्छां तेन रक्ष्यं सदा मनः ॥ २८१॥ निषिद्धस्मरणेनापि दोषः स्यादिति कथ्यते । अज्ञात्वैवापहर्तव्यमिति त्याज्या मतिस्ततः ॥ २८२॥ चौर्यदुपार्जितं वित्तं प्रवृद्धमिव पश्यताम् । भूत्वा न्यायार्जितैर्वित्तैस्सह पश्चाद्विनश्यति ॥ २८३॥ चौर्येण परवस्तूनां प्रात्या जातो मनोरथः । पश्चात्कर्मेपरीपाके दद्यात् दुःखं हि शाश्वतम् ॥ २८४॥ चौर्यमाचरितुं युक्तकालं यस्तु प्रतीक्षते । सर्व भूतदयायां स स्नेहयुक्तो न जायते ॥ २८५॥ ग्रे परद्रव्यचौर्येषु लम्पटाः सन्ति मानवाः । व्ययीकृत्य मितं वित्तं जीवन्ति न हि ते सुखम् ॥ २८६॥ आत्मानात्म विवेकादौ समर्थानां मनीषिणाम् । चौर्य कारणमज्ञानं जायते न कदाचन ॥ २८७॥ कृततत्वविचारणां हृदये यतिधर्मवत् । अभ्यस्त चौर्य विद्यानां चित्ते स्याद्वञ्चना स्थिरा ॥ २८८॥ ये चौर्यमात्रं जानन्ति धर्मान्नापि विदन्ति ये । अकृत्यमधिकं कृत्वा सद्यो नश्यन्ति ते ध्रुवम् ॥ २८९॥ जीवनं स्पष्टमाकृत्या चोराणामिह दुर्लभम् । चौर्यकर्मविहीनानां स्वर्गेऽपि सुलभायते ॥ २९०॥

अधिकार ३०. सत्यवचनम्

वचनेन प्रयुक्तेन कस्यचित् मात्रयाऽपि चेत् । दुःखानुत्पादनं लोके सत्यलक्षणमुच्यते ॥ २९१॥ असत्य वचनं चापि यदि स्यात् प्राणिनामिह । अनिन्दितोपकाराय तत् सत्यवचनं मतम् ॥ २९२॥ असत्यमिति मत्वापि कथयन्ननृतं वचः । पश्चात्तप्तमना भूत्वा ततो दुःखं स विन्दति ॥ २९३॥ सत्यमार्गेण गच्छन्तं तथा हृदयपूर्वकम् । कृत्वा मनसि सर्वेऽपि प्रशंसन्ति नरोत्तमाः ॥ २९४॥ मनोवाक्समभावेन सत्यवादी नरो भुवि । तपोदानगुणाढ्येभ्यो नरेभ्योप्युत्तमः स्मृतः ॥ २९५॥ न सत्यवचनादन्यद्विद्यते कीर्तिवर्धकम् । कायक्लेशं विना वक्तुस्तत् स्वर्गमपि यच्छति ॥ २९६॥ अनृतं वाक्य मुत्सृज्य जीवद्भर्भुवि मानवैः । समेषामन्यधर्मणां त्यागोऽपि किल सम्मतः ॥ २९७॥ बाह्यदेहस्य संशुद्धिः सलिले स्नानतो यथा । अन्तर्हृदयसंशुद्धिस्तथा स्यात् सत्यभाषणात् ॥ २९८॥ लोकान्धकारं नुदतां दीपानां न हि दीपता । हृत्तमोनाशकं सत्यवचनं दीप उच्यते ॥ २९९॥ सर्व शास्त्रपरामर्शादिदमेकं सुनिश्चितम् । यत् सत्यवचनादन्यो धर्मो नास्ति महीतले ॥ ३००॥

अधिकार ३१. क्रोधविजयः

अशक्ते कोपरहितः जितक्रोध इतीर्यते । शक्ते क्रोधं जयतु वा मा वा स विषयः परः ॥ ३०१॥ शक्तेषु कोपकरणात् दण्डदुःखमिहाश्नुते । अशक्ते कुपितो निन्दां पापं च लभते द्वयम् ॥ ३०२॥ विस्मृत्य वर्तितव्यं तु सर्वत्र क्रोधमन्तरा । क्रोधाद्भवन्ति दुःखानां परिणामास्त्वनेकधा ॥ ३०३॥ मुखे विकसं मनसि तुष्टिं क्रोधो विनाशयेत् । तस्मात् क्रोधसमः शत्रुः को न्वस्ति भुवि देहिनाम्? ॥ ३०४॥ य आत्मरक्षणे व्यग्रः स कोपं परिवर्जयेत् । अन्यथा शत्रु भूतोऽसौ नाशयेत् कोपशालिनम् ॥ ३०५॥ आश्रयं नाशयेद्वह्निः कोपाग्नि स्वाश्रितैः सह । ज्ञानोपदेष्टन् दूरस्थान दहेन्नौकासमान् गुरून् ॥ ३०६॥ वस्तुना कोपरूपेण स्वप्रभाव प्रकाशकः । महीं ताडयते हस्त इव नृनं प्रबाध्यते ॥ ३०७॥ चण्डज्वालासमेताग्निदाहेन सदृशीं व्यथाम् । कुर्वत्यपि नरे क्रोधो न कार्यो यदि शक्यते ॥ ३०८॥ क्रोधं यस्तु महाप्राज्ञो मनसः सन्निधापयेत् । वाञ्छिताः सम्पदः सर्वाः सद्य एवाप्नुवन्ति तम् ॥ ३०९॥ नराः क्रोधवशं प्राप्ता मृतप्राया भवन्ति हि । जितक्रोधा नराः सर्वे मन्यन्ते योगिभिः समाः ॥ ३१०॥

अधिकार ३२. अपकारत्यागः

यशः पदे महाभाग्ये प्राप्तेऽपि परहिंसया । अपकारमतिं त्यक्त्वा लक्ष्ये जीवन्ति साधवः ॥ ३११॥ विरोधादपकर्तुश्च प्राप्तेऽपि समयान्तरे । अपकारमकृत्वैव लक्ष्ये तिष्ठन्ति साधवः ॥ ३१२॥ कारणेन विना द्रोहं कुर्वतामपि देहिनाम् । अपकारो न कर्तव्योनो चेत् दुःखं स विन्दति ॥ ३१३॥ उपकृत्यापि श्त्रूणा मुपकारापकारयोः । विस्मृतिः साधुभिर्दत्तं दण्डनं स्याद्विरोधिषु ॥ ३१४॥ परदुःखं स्वदुःखेन समं मत्वापि तो जनः । परान्न त्रायते तस्य तत्त्वज्ञानेन किं फलम्? ॥ ३१५॥ ``अनेन कर्मणा दुःखं प्राणिनां भविता ध्रुवम्'' । इति निर्धारितात् कार्यात् सर्वदा विरतो भवेत् ॥ ३१६॥ सर्वत्र सर्वदा किञ्चिदपि दुःखप्रदायकम् । बुद्धिपूर्वे न कर्तव्यं स धर्मः परमो मतः ॥ ३१७॥ ``ममेदं दुःखजनकम्''इति ज्ञात्वापि तादृशम् । प्राणिनामितरेषां च कुतो वा कुर्वते जनाः? ॥ ३१८॥ अपकारान् यः करोति पूर्वाह्णे परदेहिनाम् । अपराह्णे तु दुःखानि स्वत एव भजन्ति तम् ॥ ३१९॥ परापकारो नो कार्यः निर्दुःखं वस्तुमिच्छता । परदुःखकरा एव दुःखवन्तो भवन्ति हि ॥ ३२०॥

अधिकार ३३. अवधः

प्राणिनामवधेनैव सर्वपुण्यफलं भवेत् । हननात्प्राणिवर्गाणां सर्व पापफलं भवेत् ॥ ३२१॥ लब्धं विभज्य भुक्त्वा तु यत्प्राणिपरिरक्षणम् । शास्त्रकारोक्त धर्मेषु प्रशस्तमिदमीर्यते ॥ ३२२॥ आद्यो निरुपमो धर्मः प्राणिनामवधो मतः । विमृष्टे सत्यकथनं द्वितीयं स्थानमर्हति ॥ ३२३॥ अकृत्वा प्राणिनां हत्यां लक्ष्यमार्गे प्रवर्तनम् । मोक्षादिलोकजनकः सन्मार्ग इति मन्यते ॥ ३२४॥ अवधाख्यं वरं धर्मे यः सदा परिरक्षति । संसारभीत्या संन्यास भाजिनोऽप्युत्तमो हि सः ॥ ३२५॥ अवधाख्ये वरे धर्मे विद्यमानस्य शाश्वतम् । जीवितेऽग्रये कृतान्तोऽपि न विशेत् प्राणभक्षकः ॥ ३२६॥ आत्मानो मरणं वापि जायतां प्राणिमूलकम् । न कार्या प्राणिनां हत्या स्वात्मरक्षणमिच्छता ॥ ३२७॥ जीवनां हत्यया श्रेष्ठं भाग्यं कामं भवेद् भॄशम् । वधमूलगातं भाग्यं सन्तः पश्यन्ति गार्हितम् ॥ ३२८॥ वधदोषं विजानन्तः सन्तो हत्याकारन् जनान् । कुलीनानपि चण्डालसमान् पश्यन्ति कर्मणा ॥ ३२९॥ रुग्णान् दरिद्रान् शास्त्रज्ञाः पश्यन्तो नीवजीवनान् । ᳚इमे जन्मान्तरे जघ्नुः प्राणा'' नित्येव जानते ॥ ३३०॥

अधिकार ३४. अनित्यता

अनित्येषु पदार्थेषु नित्यताया निरूपणात् । मन्दबुद्धिर्यदि भवेत् निन्दितं तस्य जीवितम् ॥ ३३१॥ आयान्ति सम्पदो लोका इव नाटकमन्दिरम् । निर्यान्ति सम्पदो लोका इवान्ते नाटकालयात् ॥ ३३२॥ अस्थिरं सर्वदा भाग्यं तद्भाग्यं यदि लभ्यते । सद्यस्तेन स्थिरा धर्माः कर्तव्या मोक्षमिच्छता ॥ ३३३॥ कृपाणसदृशो भूत्वा दिवसः तत्त्ववित्तमान् । विशस्य क्रमशः काले क्षीणप्रणाण् करोत्यहो ॥ ३३४॥ ऊर्ध्वश्वासः स्वलज्जिह्नः मृत्युबाधायुतो यदा । न भवेत्त्वरया पूर्वे मोक्षार्थे धर्ममाचरेत् ॥ ३३५॥ आसीत्पूर्वदिने कश्विदद्य सोऽयं मृतोऽभवत् । इत्यस्थिरत्वमाहात्म्य परीतं लोकजीवितम् ॥ ३३६॥ क्षणिकं जीवनं मूढा न स्मरन्ति कदाचन । चिन्तयन्ति परं नाना कोटिशो विषयान् वृथा ॥ ३३७॥ द्विजे चाण्डं परित्यज्य व्योममार्गे गते सति । द्विजस्याण्डेन सम्बन्धो यः स स्याज्जीवदेहयोः ॥ ३३८॥ जीवस्य मरणं लोके निद्रया सदृशं भवेत् । पश्चात् प्रबोध तुल्यं स्यात् जीवस्य, जननं पुनः ॥ ३३९॥ रोगाधीनशरीरस्य कोणे जीवः स्थितोऽधिपैः । व्याधिभिर्हिसितोऽद्यापि किं न लेभे स्थिरं गृहम्? ॥ ३४०॥

अधिकार ३५. संन्यासः

आसक्तिं कुरुते नैव यस्मिन् यस्मिश्व वस्तुनि । तस्मात्तस्माद्वस्तुनः स न दुःखं लभते नरः ॥ ३४१॥ यदीच्छसि सुखं वस्तुं सत्स्वेव वहुवस्तुषु । जहि तानि महत्सौख्यं तव तेन भवेदपि ॥ ३४२॥ आदौ पञ्चेन्द्रियग्राह्याद्विषयाद्विरतो भवेत् । पश्चात्सर्वपदार्थेषु त्यागबुद्धिर्वरा मता ॥ ३४३॥ सर्वसङ्गपरित्यागात् सुलभं वर्धते तपः । बन्धनाद्योग विभ्रष्टस्त्वज्ञानवशगो भवेत् ॥ ३४४॥ संसारान्मुक्तिकामस्य देहो भवति भारदः । तथा सत्यन्यदेहेन कुतः सम्बन्धकल्पनम् ॥ ३४५॥ मेमेदमहमेवेति नानाज्ञान विवर्जिताः । प्राप्नुवन्ति मह्त्स्थानं देवनमपि दुर्लभम् ॥ ३४६॥ ममकारहङ्कृतिभ्यां विमुक्तो यो न जायते । दुःखान्यपि न मुञ्चन्ति सर्वदा तं नराधमम् ॥ ३४७॥ उत्तमः स हि म्न्तव्यः सर्वे त्याजति यः क्षणे । अज्ञानवशमापन्ना भवन्ति मनुजाः परे ॥ ३४८॥ द्विविधे बन्धने याते जन्मदुःखं विमुच्यते । अन्यथा जन्ममरण प्रवाहस्त्वनवस्थित्ः ॥ ३४९॥ सर्वबन्धविनिर्मुक्ते हरौ बध्नाति यो मनः । सर्वस्माद् बन्धनामुक्तिः स्वतस्तस्य भविष्यति ॥ ३५०॥

अधिकार ३६. तत्त्वज्ञानम्

असत्यं सत्यमित्येव पश्यद्भिर्भ्रममूलतः । प्राप्यते जन्म चाज्ञानात् गर्हितं दुःखदायकम् ॥ ३५१॥ अविद्यां समतिक्रम्य तत्त्वज्ञान निषेवणात् । जन्मदुःखमलब्ध्वैव प्राप्यते ब्रह्मणः पदम् ॥ ३५२॥ असंशयमधीत्यात स्तत्त्वज्ञान मुपेयुषाम् । भूलोकादपि दूरस्थमत्के स्याह्ब्रह्मणः पदम् ॥ ३५३॥ इन्द्रियाणीन्द्रियार्थेभ्यः नियम्य मनसो वशे । स्थापनेनापि किं कार्ये तत्त्वज्ञानं न चेद्भवेत् ॥ ३५४॥ तेषु तेषु पदार्थेषु पदार्थान्तर विभ्रमम् । विहाय तत्त्वतो ज्ञानं तत्त्वज्ञानमितीर्यते ॥ ३५५॥ अध्येतव्यं गुरुमुखादधीत्य बहुधा बहु । तत्त्वार्थज्ञान सम्पन्ना यान्ति मोक्षपथं स्थिरम् ॥ ३५६॥ श्रुतार्थस्य परामर्शात् तत्त्वमाघं विजानतः । जन्मास्य पुनरस्तीति न मन्तव्यं कदाचन ॥ ३५७॥ जन्मबाधाकराज्ञान मुक्तये मुक्तिदस्य तु । ब्रह्मणो दर्शनं यत्तु तत्त्वज्ञानं तदुच्यते ॥ ३५८॥ ज्ञात्वा ब्रह्म जगद्धेतुं यतमानस्य मुक्तये । जन्ममृत्युमयं दुःखं न जायेत कदाचन ॥ ३५९॥ कामः क्रोधस्तथाऽज्ञानमिति दोषास्त्रयो हृदि । नाम्नापि न भवेयुश्वेद्भवदुःखं विनश्यति ॥ ३६०॥

अधिकार ३७. निराशा

अनुस्यूतं प्रवृत्तस्य सर्वदा सर्वजन्तुषु । संसारमय दुःखस्य बीजमाशेत्युदीर्यते ॥ ३६१॥ लभ्यतां जन्मराहित्यं लब्धव्यं किञ्चिदस्ति चेत् । तदपि प्राप्यते सर्व वस्तुनैराश्य बुद्धितः ॥ ३६२॥ निराशासदृशं श्रेष्ठं वित्तं नास्रि जगत्तले । लोकान्तरेऽपि तत्तुल्यं वस्तु लब्धुं न शक्र्यते ॥ ३६३॥ आशाविरहितावस्था मोक्ष इत्युच्यते बुधैः । अवस्था सापि तत्त्वस्य ब्रह्मणो भजनाद्भवेत् ॥ ३६४॥ ते जन्मरहिता ज्ञेया ये निराशास्तु सर्वतः । आशायुतानां निःशेषं बन्धमुक्तिर्न जायते ॥ ३६५॥ आशा समयमालक्ष्य पातयेत् जन्मबन्धने । निराशारक्षणं तस्माच्छ्रेष्ठो धर्मः प्रगीयते ॥ ३६६॥ सर्वशाविजये प्राप्ते कायशोषण मन्तरा । लभ्यते जन्मराहित्यं सर्वो धर्मः कृतो भवेत् ॥ ३६७॥ निराशानां कुतो दुःखम्, आशापाशवशात्मनाम् । उपर्युपरि दुःखानि समयान्ति निरर्गेलम् ॥ ३६८॥ दुःखेषु परमं दुःखमाशादुःखं विमुञ्चतः । न परं ब्रह्मणो लोके, सुखमत्रापि शाश्वतम् ॥ ३६९॥ सदा दवीयसीमाशां यो वै जयति सर्वदा । निर्विकारां तथा नित्यं मुक्तिं सद्यः स विन्दति ॥ ३७०॥

अधिकार ३८. विधिः

अर्थार्जने प्रयत्नः स्यादर्थप्रापककर्मणा । आलस्यं जायते तस्मिन्नर्थ नाशककर्मणा ॥ ३७१॥ विदुषोऽपि भवेन्मौढ्यं अर्थनाशककर्मणा । मूढस्यापि भवेज्ज्ञान मर्थप्रापककर्मणा ॥ ३७२॥ अधीत सर्व शास्त्रैरप्यशुभं कर्म यत् कृतम् । तदेव समयं प्राप्य तत्त्वज्ञानं विनाशयेत् ॥ ३७३॥ एको भवति वित्ताढ्यो विद्यया सहितोऽपरः । कारणं विधिरेवात्र स्वभावो लोकसम्मतः ॥ ३७४॥ अकालेऽप्याप्नुयाद्वित्त मनुकृले विधौ सति । कालेऽपि तन्न लभ्येत विपरीते विधौ सति ॥ ३७५॥ सुरक्षितमपि भ्रश्येत् विधिमूलमनागतम् । अरक्षितं च तित्तिष्ठे द्विधिमूलं यदागतम् ॥ ३७६॥ कोटिसङ्ख्यायुतं वित्तं सम्पादयतु वोपरि । विधिना यावदाप्नोति भोक्तुं नालं ततोऽधिकम् ॥ ३७७॥ दुष्कर्मवशमापन्ना महाभाग्यात् स्थितादपि । नराः सुखं न विन्दन्ति संन्यासं प्राप्नुवन्ति च ॥ ३७८॥ लब्ध्वा शुभतरं कर्म हृष्टो भवसि सर्वदा । अशुभे तु समायाते वृथा शोचसि तत् कुतः? ॥ ३७९॥ विधिना तु समं वस्तु बलवन्नेह विद्यते । विनाश्य मानुषं यत्नं विधिरेव जयेत् सदा ॥ ३८०॥ इति उपोद्घातः सम्पूर्णः ।

२. अर्थकाण्डः । राजधर्माध्यायः ।

अधिकार ३९. राजमहिमा

राज्यमन्त्रिसुहृत्सैन्यदुर्गकोशैश्च षड्विधैः । अङ्गः समन्वितो राजा राजसिंह इतीर्यते ॥ ३८१॥ दातृत्वं ज्ञानसम्पत्तिः उत्साहो धीरता तथा । गुणैरेतैश्चतुर्भिर्यो नित्ययुक्तः स पार्थिवः ॥ ३८२॥ पौरुषं जागरूकत्वं विद्या चेति त्रयो गुणाः । राज्यभारनियुक्तानां राज्ञां स्वाभाविका मताः ॥ ३८३॥ अधर्मेन्मूलनं स्वीयधर्माचरणशीलता । दुरहङ्कारराहित्यं त्रितयं नृपलक्षणम् ॥ ३८४॥ कुर्याद्धनार्जनोपायमार्जयेत् पालयेद्धनम् । रक्षितं च यथाशास्त्रं दद्यात् पात्रेषु भूमिप ॥ ३८५॥ विमुखः क्रूरवाक्यानां राजा सुलभदर्शनः । यो भवेत् तस्य साम्राज्यं सर्वश्लाघ्यं भविष्यति ॥ ३८६॥ यो ददाति जनान् पाति प्रियभाषणपूर्वकम् । तस्य राज्ञः स्थिरं कीर्तिमर्थाश्च वितरेन्मही ॥ ३८७॥ धर्मनीत्यनुसारेण पालयन् सकलाः प्रजाः । पार्थिवः श्लेघ्यते सर्वैः जगतां पतिरित्यसौ ॥ ३८८॥ कठिनं चापि महतां वाक्यं पश्चाद्धितप्रदम् । श्रुत्वा यः सहते राजा तिष्ठेत्तस्य वशे मही ॥ ३८९॥ दानं दया दण्डनीतिः दीनरक्षेति सद्गुणैः । चतुर्भिः सङ्गतो भूपो दीपवत् स्यान्महीक्षिताम् ॥ ३९०॥

अधिकार ४०. विद्या

अध्येतव्याः समे ग्रन्थाः निस्सन्देहं यथार्थतः । अधीतग्रन्थदृष्टेन्न पथा युक्तं प्रवर्तनम् ॥ ३९१॥ न्यायव्याकरणाख्ये द्वे शास्त्रे मुख्ये नृणामिह । उभे हि चक्षुषी स्यातामिति सद्भिरुदीर्यते ॥ ३९२॥ चक्षुष्मन्तस्त एव स्युः ज्ञानचक्षुर्युतास्तु ये । इतरेषामुभे नेत्रे व्रणे स्यातां मुखोत्थिते ॥ ३९३॥ यत्सङ्गन जनास्तुष्टाः भवेयुः, सङ्गमं पुनः । वियोगकाले वाञ्छेयुः स भवेत्पण्डितोत्तमः ॥ ३९४॥ रिक्तवद्धनिकस्याग्रे विनीता गुरुसन्निधौ । भूत्वा पठन्ति ये नित्यं शिष्टास्ते निन्दिताः परे ॥ ३९५॥ विद्यभ्यासानुसारेण नृणां ज्ञानां प्रवर्धते । खननानुगुणं तोयं वर्धते सैकते यथा ॥ ३९६॥ सर्वे देशाः समे ग्रामाः स्वीयाः स्युर्विदुषां भुवि । तथा सति कुतः कैश्चित् विद्या नाधीयते सदा ॥ ३९७॥ एकजन्मन्यधिगता विद्या नृनं हि केनचित् । सप्तजन्मस्वनुगता तस्य साह्यकरी भवेत् ॥ ३९८॥ निजानन्दकरीं विद्यां परेषां निजमूलतः । आनन्ददात्रीं विज्ञाय तां प्राज्ञा बहुकुर्वते ॥ ३९९॥ विद्याधनं स्थिरं श्रेष्ठमेकमेव धनं भवेत् । धनान्यन्यान्यस्थिराणि वस्तुतो न धनानि हि ॥ ४००॥

अधिकार ४१. विद्याविहीनः

अनधीत्यैव सद्ग्रन्थान् सद्गोष्ठयां यः प्रभाषते । विना रङ्गस्थलीमक्षप्रयोक्त्रा स भवेत् समः ॥ ४०१॥ अपण्डितस्य विदुषां पुरतो भाषणे मतिः । नार्यः कुचाभ्यां हीनायाः स्त्रीत्वकाङ्क्षेव निष्फला ॥ ४०२॥ विद्याविहीनमनुजाः समक्षं ज्ञानशालिनाम् । मौनमालम्ब्य तिष्ठन्तः भजन्ते नोपहास्याताम् ॥ ४०३॥ विद्याभ्यासं विना ज्ञानं विन्दते स्वयमेव यः । निर्दुष्टमपि तद् ज्ञानं न श्र्लाघन्ते बुधोत्तमाः ॥ ४०४॥ मिथ्याभिमानो मूढस्य विद्याहीनस्य कस्यचित् । बुधैर्भाषणवेळायां स्वयं विलयमेष्यति ॥ ४०५॥ ऊषरक्षेत्रसदृशा विद्याहीना नरा भुवि । केवलं जनिमन्तस्ते न तेषां सत्तया फलम् ॥ ४०६॥ सूक्ष्मशास्त्रार्थविज्ञानमन्तरा देहपुष्टितः । किं वा प्रयोजनं नृणां मृण्मयी प्रतिमैव ते ॥ ४०७॥ पण्डिताश्रितदारिद्र्यात् नितरां खेददायिनी । भवेन्मूढाश्रिता सम्पत् नात्र कार्या विचारणा ॥ ४०८॥ अस्तु विद्याविहीनानां कुलं श्रेष्ठमुताधमम् । महिम्ना नाधिरोहन्ति ते तुलां बुधसत्तमैः ॥ ४०९॥ मृगाणां मानवानां च यथास्ति महदन्तरम् । तथा विद्याविहीनानां सतां च ग्रन्थसेविनाम् ॥ ४१०॥

अधिकार ४२. श्रवणम्

श्रुत्वा यद् ज्ञायते तत्त्वं तदप्योकं भवेत् । सत्सु वित्तेषु बहुषु मुख्यमेतद्विभाव्यते ॥ ४११॥ श्रोत्रं श्रवणरूपान्नविहीनं स्याद्यदा तदा । देयं देहस्य चाप्यन्नं श्रोत्राभावे कयं श्रुति ॥ ४१२॥ श्रोत्रैः श्रवणरूपान्नसेविनो भूगता अपि । हविर्भुग्भिरमर्त्यैस्तु भवेयुः सदृशा नराः ॥ ४१३॥ यदि नाध्ययनं साध्यं श्रुत्वा वा ज्ञानमाप्नुहि । तद् ज्ञानं साह्यदं खेदे करयष्टिसमं तव ॥ ४१४॥ वचांस्याचारशीलानां साह्यदानि सदा नृणाम् । पङ्कदेशे विचरतो हस्तालम्बनदण्डवत् ॥ ४१५॥ कणशो वापि तत्त्वार्थः श्रेतव्याः समये सति । असकृत् श्रवणात् तत्त्वं ज्ञातं सत् पूर्णतां व्रजेत् ॥ ४१६॥ बहुश्रुता बहुज्ञाश्च सन्तो मोहवशात् कचित् । अजानन्तोऽपि याथार्थ्ये न ब्रूयुर्मोहदं वचः ॥ ४१७॥ शास्त्रश्रवणमात्रेण श्रोत्रं भवति सार्थकम् । ग्राहकं त्वन्यशब्दानां श्रोत्रं बाधिर्यवन्मतम् ॥ ४१८॥ अपूर्वसूक्ष्मशास्त्रार्थश्रवणं यैः सदा कृतम् । ते विनीतवचोयुक्ता भवेयु र्न तथा परे ॥ ४१९॥ श्रोत्रैर्नवरसास्वादमकृत्वा जिह्वया परम् । षड्सास्वादचतुरा जीवन्तोऽपि मृतैः समाः ॥ ४२०॥

अधिकार ४३. ज्ञानसम्पत्तिः

अनर्थोन्मूलने मूलसाधनं ज्ञानमिष्यते । रिपूणां दुष्प्रवेशं तदन्तःप्राकारवद्भवेत् ॥ ४२१॥ निगृह्य चञ्चलं चित्तं दुष्कृत्याद्विनिवर्त्य तत् । नियोजनं च सत्कार्ये ज्ञानप्राप्तेः फलं भवेत् ॥ ४२२॥ बहुभ्यो विषयान् श्रुत्वा तेषु यः क्षेमदायकः । विमृश्य तस्य निश्कर्षे साधनं ज्ञानमुच्यते ॥ ४२३॥ स्पष्टार्थकं सुविज्ञेयं ज्ञानी वाक्यमुदीरयेत् । श्रुत्वाऽन्यवचनं क्लिष्टमपि विद्याद्विमृश्य च ॥ ४२४॥ व्यस्ने च सुखे स्निग्धान् समभावेन पश्यति । महद्भिः स्नेहमाप्नोति ज्ञानवान् ज्ञानसाधनात् ॥ ४२५॥ सदाचारपरा लोकाः येन यान्ति पथाऽनिशम् । प्रवर्तनं तमालम्ब्य ज्ञानशीलस्य लक्षणम् ॥ ४२६॥ पूर्वं भाविफलं ज्ञातुं समर्था ज्ञानिनो मताः । तद् ज्ञातुमसमर्थास्तु मन्तव्या ज्ञानवर्जिताः ॥ ४२७॥ ये न बिभ्यति ते मूढा दुष्कृत्यात् पापभीतिदात् । भीरुता पापकृत्येषु धीमतां प्रकृतिर्भवेत् ॥ ४२८॥ भाविशोकोन्मूलनैकदक्षाणां धीमतां पुरा । चित्तक्षोभकरं दुःखं न कदाचिद्भविष्यति ॥ ४२९॥ विनान्यैः सकलैर्ज्ञानमात्रात् सर्वार्थवान्नरः । ज्ञानाभावे सर्वहीनो भवेत् सर्वार्थवानपि ॥ ४३०॥

अधिकार ४४. दोषषट्कनिराकरणम्

काममोहक्रोधलोभमदमात्सर्यसंज्ञकैः । दोषैः षड्भ्ः विहीनस्य सम्पत् श्लाघ्या स्थिरा भवेत् ॥ ४३१॥ दातव्येष्वप्रदानं च पूजनीयेष्वपूजनम् । अस्थने हर्ष इत्येते राज्ञो दोषाः प्रकीर्तिताः ॥ ४३२॥ स्वल्पे दोषोऽपि संप्राप्ते तं मत्वा सुमहत्तरम् । महान्तो जागरूकाः स्युः जननिन्दाभयाकुला ॥ ४३३॥ दोषो एव जननां स्युः शत्रवो नाशकारकाः । दोषातीतैर्जनैर्भाव्यं दोषाभावो गुणाः खलु ॥ ४३४॥ आदावेव नरो दोषान् यः प्राप्तान् न निवारयेत् । विनश्येत् जीवितं तस्य तृणं वह्निगतं यथा ॥ ४३५॥ ज्ञात्वा स्वदोषान् तान् हित्वा परदोषनिवारणे । यतमानो महीपालः कथं स्याद् दोषभाजनम् ॥ ४३६॥ अदत्वा धर्मकार्यार्थमभुत्तवा च स्वयं धनम् । रक्षतो लोभिनो नश्येत् पुरुषार्थत्रयं वृथा ॥ ४३७॥ दातव्येष्वप्रदानाख्यो यो दोषो लोभनामकः । नायं साधारणे दोषः षड्दोषेष्वग्रणीः किल ॥ ४३८॥ आत्मश्लाघापरो न स्यात् कारणे सत्यपि स्वयम् । निष्फलानि च कार्याणि मनसाऽपि न संस्मरेत् ॥ ४३९॥ यदवाप्तुं वृणीषे त्वं एकान्ते भज भुङ्क्ष्व तत् । नो चेत् त्वदीयलक्ष्यस्य विघ्नं कुर्युर्विरोधिनः ॥ ४४०॥

अधिकार ४५. महत्साह्यम्

वयोवृद्धैर्धर्मविद्भिः बुद्धिमद्भिर्महात्माभिः । कुर्यान्मैत्रीं महीपालो विमृश्य बहुधा बहु ॥ ४४१॥ प्राप्तं दुःखं निराकृत्य भाविदुःखनिवारणे । जगरूकेण विदुषा स्नेहं कुर्याच्च सेवया ॥ ४४२॥ महात्मनः समाश्रित्य स्ववशे तान् करोति यः । महच्भाग्यं तदेवास्य किमन्यैर्भाग्यकोटिभिः ॥ ४४३॥ आत्मनोऽपि वरिष्ठानां महतां पथि वर्तनम् । महद् बलं भवेद् राज्ञां चतुरङ्गबलैः किमु ॥ ४४४॥ विमृश्य सचिवो ग्राह्यो नेत्रतुल्यो नृपेण तु । यतोऽमात्यो राज्यभारं वहन् राज्ञः सहायकृत् ॥ ४४५॥ ज्ञानिनां वचनं श्रुत्वा स्वबुद्धया तदिमृश्य च । पालयन् पृथिवीपालः शत्रुभिर्नैव बाध्यते ॥ ४४६॥ स्खालित्ये कठिनैर्वाक्यैः दण्डयन्तं सुमन्त्रिणम् । यो राजा लभते तस्मिन् निर्वीर्याः किल शत्रवः ॥ ४४७॥ समये शिक्षकैः सद्भिः साङ्गत्यरहितो नृपः । शत्रुबाधाविहीनोऽपि स्वयमेव विनश्यति ॥ ४४८॥ विना मूलधनं लाभो व्यापारे नैव लभ्यते । मह्त्साह्यं विना राज्ञां तथा स्थैर्य सुदुर्लभम् ॥ ४४९॥ अनेकशत्रुबाधातो दुःखं दशगुणान्वितम् । भुपो विन्देत सत्सङ्गं प्राप्तं यः सन्त्यजेन्नृपः ॥ ४५०॥

अधिकार ४६. दुःसाङ्गत्यवर्जनम्

महान्तो दुष्टसाङ्गत्यात् भीतास्तिष्ठन्ति दूरतः । दुष्टान् बन्धुसमान् कृत्वा नीचास्तुष्यन्ति तैः सह ॥ ४५१॥ भूगतं सलिलं भूमिभेदाद् भिन्नरसं यथा । तथा नरः सङ्गभेदाद् भिन्नभिन्नमतिर्भवेत् ॥ ४५२॥ सामान्यज्ञानजनने मनः कारणमिष्यते । अयं योग्यो न वेत्येतद् ज्ञानं साङ्गत्यहेतुकम् ॥ ४५३॥ विशेषशेमुषी भायादादौ चित्तनिबन्धना । विमर्शे सापि साङ्गत्यमूलैवेति स्थितिर्धुवा ॥ ४५४॥ चित्तशुद्धिः कार्यशुद्धिरित्येतदुभयं नृणाम् । सत्साङ्गत्यवशादेव भवेदिति विभाव्यताम् ॥ ४५५॥ लोके शुद्धमनस्कानां शुद्धा स्याद् भाविसन्ततिः । सत्साङ्गत्यसमेतानां जायते सकलं शुभम् ॥ ४५६॥ प्रणिनां चित्तसंशुद्धया सम्पत् सञ्जायते ध्रुवम् । सत्साङ्गत्यान्मनःशुद्धया सह कीर्तिरपि ध्रुवा ॥ ४५७॥ मनःशुद्धिः पुण्यकृत्यात् स्वयं जायेत केषुचित् । सत्साङ्गत्यं चित्तशुद्धिं वर्धयेत् तादृशेष्वपि ॥ ४५८॥ आमुष्मिकं सुखं चित्तशुद्धया मन्प्राप्यते नरैः । सत्सङ्गतिः सुखस्यास्य प्राप्तौ विघ्नं निवारयेत् ॥ ४५९॥ सत्सङ्गतिसमं मित्रं न भवेत् सुखसाधनम् । दुसङ्गतिसमः शत्रुरपकर्ता न विद्यते ॥ ४६०॥

अधिकार ४७. विमृश्यकारिता

व्ययमादौ ततश्चायं ततो लाभं च शाश्वतम् । कार्यरम्भे विमृश्याथ कार्यमारभ्यतां बुधैः ॥ ४६१॥ परीक्ष्य सुगृहीतेन सन्मित्रेण विमृश्य च । स्वयं चालोच्य यः कुर्यादसाध्यं तस्य किं भवेत् ॥ ४६२॥ भाविलाभेच्छया हस्ते स्थितं मूलधनं बहु । बुद्धिमान्तो नरा नैव व्ययीकुर्वन्ति सर्वदा ॥ ४६३॥ ``इयाँलाभ'' इति स्पष्टमज्ञात्वा कर्मणि प्रजाः । सहसा न प्रवर्तन्ते मानहानिभयार्दिताः ॥ ४६४॥ कालं देशं बलं शत्रोरज्ञात्वा समराङ्गणम् । प्रविशन् पार्थिवः शत्रुवर्धकः स्यान्न घातकः ॥ ४६५॥ अकर्तव्यस्य करणं कर्तव्यस्य विसर्जनम् । इत्येतदुभयं नृणां विनाशास्पदमिष्यते ॥ ४६६॥ कार्यनिर्वहणोपायमादौ ज्ञात्वा क्रियां कुरु । प्रविश्य कार्ये नोपायचिन्तनं कार्यसाधकम् ॥ ४६७॥ बहूनां साह्यमाप्यापि स कार्यं न हि साधयेत् । उपायांश्चतुरो यस्तु न प्रयुङ्क्ते यथायथम् ॥ ४६८॥ परेषां च गुणान् सम्यक् ज्ञात्वा तेषु यथागतान् । नाचरेद्यस्तु तस्यस्युर्यत्ना दोषसमन्विताः ॥ ४६९॥ निजस्थित्यनुरोधेन कुरु सर्वं विमृश्य च । न चेन्निन्देत् त्वां हि लोकः क्रियतां लोकसङ्ग्रहः ॥ ४७०॥

अधिकार ४८. बलपरिज्ञानम्

बलं स्वीकृतकार्यस्य बलं स्वस्य रिपोर्बलम् । बलं द्वयोः पक्षयोश्च परामृश्य प्रवर्तय ॥ ४७१॥ कार्यस्य साध्यतां तद्वदुपायानां बलिष्ठताम् । जानन् दत्तावधानो यः तेन सर्वमवाप्यते ॥ ४७२॥ ``स्वबलं स्वल्पमि᳚त्येतद् विस्मृत्योत्साहचोदिताः । कार्यमारभ्य मध्ये तु विघ्निता बहवो भुवि ॥ ४७३॥ अकृत्वा च परैः स्नेहमज्ञात्वा बलमात्मनः । आत्मश्लाघापरा लोके नाशं शीघ्रमवाप्नुयुः ॥ ४७४॥ लघुपिञ्छं भारवस्तु भवेन्नात्र विचारणा । भारपूर्णे तु शकटे भवेदक्षस्य भञ्जनम् ॥ ४७५॥ वृक्षशाखाग्रमास्थाय ततोऽप्यारोढुमूर्ध्वतः । उद्यतः शाखया साकं भग्नप्राणोप्यधः पतेत् ॥ ४७६॥ स्वशक्तिमनतिक्रम्य धर्ममार्गानुसारतः । दानशीलस्य विन्त्त तु न कदापि विनश्यति ॥ ४७७॥ आयः स्वल्पो यदि भवेत् न दोषस्तत्र विद्यते । आयाद् व्ययस्य चाधिक्ये महान् दोषः प्रसज्यते ॥ ४७८॥ व्ययीकरोति विन्त्त यः स्वार्जितादधिकांशतः । जीविते तस्य सम्पत्तिराभासा न तु शाश्वती ॥ ४७९॥ आयमार्गमनालोच्य परेषामुपकुर्वतः । जीविते तस्य सम्पत्तिः क्षीयते झटिति स्वयम् ॥ ४८०॥

अधिकार ४९. कालपरिज्ञानम्

उलूको बलवानह्नि काकेनाल्पेन जीयते । जयैषिणस्तथा राज्ञः कालः ख्रलु निरीक्ष्यते ॥ ४८१॥ काले कर्म समारब्धं विचार्य च कृतं पुनः । अस्थिरामपि सम्पत्तिं बघ्नात्येकत्र सुस्थिराम् ॥ ४८२॥ क्रियोपयुक्तकरणैः कार्यं काले करोति यः । साध्यते सुलभं तेन नासाध्यं भुवि किञ्चन ॥ ४८३॥ कृत्स्नामपि महीं भोक्तुं स शक्नोति महीतले । काले देशे च कर्माणि यः करोति समाहितः ॥ ४८४॥ कृत्स्नस्य जगतो वाञ्छा यदि स्यात् किन्नु चिन्तया । युक्तकालं प्रतीक्षस्व निष्क्रियस्त्वं भज क्षमाम् ॥ ४८५॥ राज्ञः कालार्थिनो मौनाद् वर्तनं युद्धमन्तरा । मेषस्य युद्धतः पृष्ठगमनेन समं भवेत् ॥ ४८६॥ शत्रोरग्रे बुधाः क्रोधं विसृजेर्युन वै वहिः । अन्तर्निगूह्य ते कोपं काले स्युः कार्यसाधकाः ॥ ४८७॥ नाशकाले समायाते रिपोः शीर्षमघः पतेत् । तावता मौनमास्थेयं क्षमया जयकाङ्क्षिणा ॥ ४८८॥ कालेऽनुकूले संप्राप्ते तमलभ्यं विभाव्य च । तदैव कुरु कर्तव्यं तं कालं न हि द्रक्ष्यसि ॥ ४८९॥ कार्यसाधनपर्यन्तं बकवत्तिष्ठ निष्क्रियः । कुरु कार्यं क्षणात् काले चञ्च्वा मीनं बको यथा ॥ ४९०॥

अधिकार ५०. स्थलपरिज्ञानम्

समरे निजसैन्यानां स्थपनार्हस्थलीं स्थिराम् । अनिश्चित्य न कुर्वीत युद्ध शत्रुं न द्वषयेत् ॥ ४९१॥ सुरक्षितस्थलस्थेन विशिष्टबलशालिना । यो जयः प्राप्यते राज्ञा स तु सर्वार्थसाधकः ॥ ४९२॥ लब्ध्वा सुरक्षितं देशमात्मानं चापि पालयन् । रणभूमिं विशन् राजा दुर्बलोऽपि बली भवेत् ॥ ४९३॥ ज्ञात्वा युक्तस्थलीं तत्न स्थित्वा समरकर्मणि । यो विशेद् भूपतिस्तस्य नष्टाशाः स्युर्विरोधिनः ॥ ४९४॥ अगाधसलिलावासो नक्नः सर्वान् जयेद् ध्रुवम् । स एव तीरमापन्नो हन्यते दुर्बलैरपि ॥ ४९५॥ महान्तो दृढचक्राश्च न यान्त्यम्बुनिधौ रथाः । महीतले न प्रयान्ति नौका जलधिगामिनः ॥ ४९६॥ विमृश्य विविधोपायान् स्थले युक्ततमे वरे । कार्यमाचरतो राज्ञः चित्तधैर्यमलं जये ॥ ४९७॥ अल्पसैन्यवतो राज्ञो गुप्तस्थलमुपेयुषः । समक्षं बहुसैन्यानामीशोऽपि लयमाप्नुयात् ॥ ४९८॥ दुर्गस्थलविहीनोऽपि प्रभावरहितोऽपि च । जेतुं न शक्यो भूपालः स्वस्थले निवसेद्यदि ॥ ४९९॥ शूलहस्तमहावीरहन्तृदन्तयुतोऽपि सन् । पङ्कं विशन् मदगजः सृगालेनापि हन्यते ॥ ५००॥

अधिकार ५१. विमृश्यविश्वसनम्

धर्मकामार्थभीत्याद्यैः उपायैः सुपरीक्ष्य तान् । लब्धप्रत्ययवान् भूपः कार्ये भ्रुत्यान् नियोजयेत् ॥ ५०१॥ निर्दोषित्वं कुलीनत्वं लज्जा पापेषु भीरुता । एतैर्गुणैतान् राजा विश्वसेन्निजसेवकान् ॥ ५०२॥ पूर्वोक्तदोषशून्येषु पण्डिताग्रेसरेष्वपि । विचार्यमाणेत्वज्ञानं नूनं द्रष्टुं हि शक्यते ॥ ५०३॥ दोषं गुणं वा कस्मिश्चित् स्थितं विज्ञाय तत्त्वतः । ग्राह्यः स्याद् गुणभूयिष्ठः त्याज्यो विविधदोषभाक् ॥ ५०४॥ महत्वं कस्यचित् पुंसो नीचत्वमपरस्य च । ज्ञातुं तयोर्वृत्तिरेव निकषोपलतां व्रजेत् ॥ ५०५॥ न कुर्यात्प्रत्ययं बन्धुविंहीनेषु जनेष्विह । बन्धुबन्धविहीनत्वात् न निन्दां गणयन्ति ते ॥ ५०६॥ कृत्वा प्रत्ययमज्ञेषु तेषां कार्ये नियोजनात् । न केवलं कार्यहानिरज्ञतां विन्दते नृपः ॥ ५०७॥ उदासीनान् प्रत्ययेन यः कार्येषु नियोजयेत् । न केवलमयं नश्येत् किन्तु भाविपरम्परा ॥ ५०८॥ विमृश्य विश्वसेत् सर्वान् विचारानन्तरं पुनः । अविश्वासं विना तेषां युक्तं कार्येषु योजनम् ॥ ५०९॥ अविमृश्यैव विश्वासः विमृष्टस्य परिग्रहे । अविश्वासः इतीत्येतदुभयं खेददायकम् ॥ ५१०॥

अधिकार ५२. विमृश्य कार्यकरणम्

शुभाशुभे परामृश्य शुभकार्यैककारिणम् । पुरुषं योजयेत् कार्ये निर्भयं पृथिवीपतिः ॥ ५११॥ आयमार्ग परामृश्य धनं सम्पाद्य भूरिशः । तद्रक्षको विना विघ्नं राजकार्ये नियुज्यताम् ॥ ५१२॥ ज्ञानं प्रीतिरकालुष्यं निराशा धनसञ्चये । गुणैरेतैः समायुक्तो राजकार्ये नियोज्यताम् ॥ ५१३॥ जिता गुणपरीक्षायां ततः स्थाने नियन्त्रिताः । अन्ते केचित् स्थानदोषात् जायन्ते दुष्टबुद्धयः ॥ ५१४॥ बुध्वोपायं विघ्नराशिमपोह्य कृतिसाधने । समर्थमन्तरा नान्यं राजकार्ये निवेशयेत् ॥ ५१५॥ कर्तुर्गुणं क्रियातत्त्वं कालस्याप्यनुकूलताम् । सम्यग्विज्ञाय कार्येषु नरो योज्यो नराधिपैः ॥ ५१६॥ अनेन हेतुना कार्यमेतत् कर्तुमयं क्षमः । इत्थमालोच्य तत्कार्ये स एव प्रेर्यतां नृपैः ॥ ५१७॥ स्वकार्यसाधनार्हश्चेत् काश्चित्तस्मिन् क्रियाभरम् । निक्षिप्य राज्ञा दातव्यं स्वातन्त्र्यं कार्यसाधने ॥ ५१८॥ बन्धुवत् स्वीकृतं कार्यं कुर्वन्तं प्रेमपूर्वकम् । दूरीकरोति दुर्वाधात् यस्तु तं विसृजेद्रमा ॥ ५१९॥ तृप्तेषु कर्मकारेषु लोकः स्यात् क्लेशवर्जितः । तत्तर्पणविधौ राज्ञा यत्नः स्वीक्रियतां सदा ॥ ५२०॥

अधिकार ५३. बन्धुप्रीति

नष्टायामपि सम्पत्तौ सम्बन्धं पूर्वकालिकम् । स्मृत्वैव श्लाघनं लोके बन्धुलक्षणमुच्यते ॥ ५२१॥ प्रेमपूर्वकबान्धव्यं कस्यचिल्लभ्यते यदि । तदेव सम्पदः सर्वाः तस्मै यच्छेत् सदातना ॥ ५२२॥ प्रेमपूर्वकबान्धव्यरहितस्य हि जीवनम् । जलपूर्णतटाकस्य तीराभावसं भवेत् ॥ ५२३॥ बन्धुसाह्यकरो यस्तु सदा बन्धुभिरावृतः । तेन सम्पादितं वित्तं प्रयोजनकरं भवेत् ॥ ५२४॥ बन्धुनां धनदातारं प्रियभाषणतत्परम् । तं सर्वदा बन्धुवर्गास्तिष्ठन्ति परिवेष्टिताः ॥ ५२५॥ पृथिव्यां दानशौण्डस्य जितक्रोधस्य भूपतेः । वशंवदा सदा तिष्ठेत् सकला बन्धुसन्ततिः ॥ ५२६॥ काकः स्वीयान् समाहूय भक्षयेदार्जितं च तैः । स्वार्जितं बन्धुभिः साकं भुंङ्क्ष्व सम्पत्स्थिरा भवेत् ॥ ५२७॥ साम्यबुद्धिं विना राजा योग्यताभेदमूलकम् । विभज्य सर्वान् यः पश्येत् तस्य स्युर्बान्धवाः समे ॥ ५२८॥ स्थितं बान्धव्यमादौ यद् हेतुना केनचित् स्वत्ः । छिन्नं तद् हेतुनान्येन् पूर्ववत् पुनरेधते ॥ ५२९॥ स्नेहं छित्वा गतं पश्चादागतं स्वार्यकरणात् । अलोच्य तं तु गृह्णीयादुपकृत्य महीपतिः ॥ ५३०॥

अधिकार ५४. अविस्मरणम्

सुखभोगासक्ततया कर्तव्यार्थस्य विस्मृतिः । चण्डकोपोद्भवानर्थात्, अधिकानिष्टदा भवेत् ॥ ५३१॥ नरस्य नित्यदारिद्र्यं यथा बुद्धिं विनाशयेत् । विस्मृतिः समये तद्वनाशयेत् प्रथितं यशाः ॥ ५३२॥ पुरुषार्थचतुष्काप्त्यै यत्नमाचरतामपि । न ते सिध्यन्ति विस्मृत्या नेदं पार्थिवमात्रकम् ॥ ५३३॥ बाह्यदुर्गैर्नास्ति लाभो भये तु हृदये स्थिते । स्थितोऽपि विभवो व्यर्थो यदि स्याद्विस्मृतिर्नरे ॥ ५३४॥ प्रथमं विपदं प्राप्तां विस्मृत्या त्वनिवारयन् । खेदे समीपमायाते पश्चादुद्विजते नरः ॥ ५३५॥ अविस्मृतिसमारव्येन् गुणेन सदृशं वरम् । सर्वत्र सर्वकालेषु न तिष्ठेत् क्षेमदायकम् ॥ ५३६॥ असाध्यमिदमित्येतत् तस्य नास्ति कदाचन । अविस्मृत्या साधनीयं कर्म कर्तुं यतेत् यः ॥ ५३७॥ श्लाघितं नीतिशास्त्रज्ञैः क्रियतां कर्म सादरम् । अकुर्वाणस्य विस्मृत्या सप्त जन्म वृथा भवेत् ॥ ५३८॥ सन्तोषकाले गर्वेण कर्तव्यं यस्तु विस्मरेत् । स्मर्तव्यास्तेन विस्मृत्या पुरा नाशवशङ्गताः ॥ ५३९॥ चिकीर्षितमविस्मृत्य जागरूकतयाऽनिशम् । तत्प्राप्त्यै यतमानेन वाञ्छितं साध्यते ध्रुवम् ॥ ५४०॥

अधिकार ५५. नीतिपरिपालनम्

पक्षपातं विना राज्ञा माध्यस्थ्यमवलम्बता । यथाशास्त्रं दण्डदानं नीतिपालनमुच्यते ॥ ५४१॥ लोके जीवगणाः सर्वे वर्तन्ते वृष्टिकाङ्क्षुणः । देशे जनास्तथा राज्ञः काङ्क्षन्ते नीतिपालनम् ॥ ५४२॥ विप्रप्रवर्तितं वेदं धर्मं वेदेषु बोधितम् । लक्ष्यीकृत्य न्याय्यमार्गे रक्षणं राजलक्षणम् ॥ ५४३॥ स्ववशे मानवान् कृत्वा रक्षन्तं न्याय्यवर्त्मनि । महीपतिं प्रजाः सर्वाः प्रेक्षन्ते प्रीतिपूर्वकम् ॥ ५४४॥ नीतिशास्त्रानुरोधेन रक्षतो धर्मवर्त्मना । राज्ञो देशे कालवृष्टिः सस्यावृद्धिश्च जायते ॥ ५४५॥ शूलमात्रेण भूपालो जयं युद्धे न विन्दते । लभते नीतिदण्डेन जयं, दण्डो ऋजुर्यदि ॥ ५४६॥ नीतिदण्डेन सकलं जगद्यः पाति पार्थिवः । स एव नीतिदण्डस्तं पालयेन्नात्र संशयः ॥ ५४७॥ जनानां सुलभो भूत्वा तेषां श्रुत्वा च वाञ्छितम् । अयच्छन् पार्थिवो नीतिं सापवादो विनश्यति ॥ ५४८॥ शत्रुभ्यो रक्षणं नृणां, दण्डनादपराधिनाम् । पापापनोदनं, राज्ञां धर्म एव न पापदम् ॥ ५४९॥ मृतिदण्डप्रदानं तु पापिनामाततायिनाम् । तृणानिर्मूलनसमं रूढसस्याभिवृद्धये ॥ ५५०॥

अधिकार ५६. अनीत्यापालनम्

जनहिंसापरो राजा न्यायातीतपदानुगाः । निर्घुणाद् घातकाच्चापि भुवि क्रूरतमो मतः ॥ ५५१॥ नीत्या पालयता राज्ञा प्रजाभ्यो वित्तयाचनम् । चोरेण शूलिना पान्थात् वित्तचौर्यसमं मतम् ॥ ५५२॥ देशे दिने दिने जाताननर्थान् विमृशन् नृपः । परिहारमकुर्वाणः क्षीणराज्यः क्रमाद्भवेत् ॥ ५५३॥ भाव्यनर्थमनालोच्य न्याय्यमार्गविरोधतः । भूपस्य रक्षतो वित्तं नश्येत् तेन प्रजा अपि ॥ ५५४॥ अधर्मपालनोद्भूतक्लेशभाजां नुणां भुवि । अश्रुपातः श्रियं राज्ञो नाशयेदायुधात्मना ॥ ५५५॥ विन्दते सुस्थिरां कीर्ति भूपो धर्मेण पालयन् । अनीत्या पालयन् राजा नष्टकीर्तिर्भविष्यति ॥ ५५६॥ दयाधून्यमहीपालपाल्यमाननृणां स्थितम् । वृष्टिहीनप्रदेशस्थजनास्थितिसमां विदुः ॥ ५५७॥ धर्ममार्गं समुल्लङ्घ्य रक्षतः पृथिवीपतेः । देशे सतां तु दारिद्र्यात् सम्पत्क्लेशाय कल्पते ॥ ५५८॥ पयोधरा न वर्षन्ति काले वृष्टिश्च निष्फला । धर्म्य पन्थानमुल्लङ्घ्य नृपे शासति मेदिनीम् ॥ ५५९॥ अरक्षति भुवं भूपे पथा न्यायानुरोधिना । विप्राः क्षुतिं विस्मरेयुः न दद्युः पशवः पयः ॥ ५६०॥

अधिकार ५७. निर्भयत्वम्

दुष्ट विचार्य ताटस्थ्यात् पुनस्तं दोषकर्मणः । निवारयन् पालयेद् यः स भूपाल इतीर्यते ॥ ५६१॥ दण्डयेषु कठिनो भूत्वा दण्डनावसरे सति । लघु दण्डयतो राज्ञः सम्पत्तिष्ठेदचञ्चला ॥ ५६२॥ अधर्मपालनाद्यस्य प्रजाः स्युर्भयाविह्वलाः । अचिरादेव भूपालः स लयं यास्यति ध्रुवम् ॥ ५६३॥ ``अस्माकं पार्थिवः क्रूर'' इति देशजनेरितम् । य एतच्छुणुयाद्वाक्य> क्षीणायुः स विनश्यति ॥ ५६४॥ अप्रसन्नमुखो नृणामगम्यः सुलभेन यः । महीपालस्तस्य वित्तं भूताविष्टमिव वृथा ॥ ५६५॥ दाक्षिण्यगुणहीनस्य कटुवाक्यप्रयोगिणः । भूपस्य निखिलं वित्तमस्थिरं क्षीयते क्षणात् ॥ ५६६॥ कटुवाक्यमधर्मेण पालनं च महीभुजाम् । अरिविध्वंसनापेक्षिसत्त्वनिर्मूलहेतुकम् ॥ ५६७॥ अनालोच्यैव सचिवैः कृते कार्ये च विघ्निते । यः कुप्येत् सचिवान् राजा क्षीयन्ते तस्य सम्पदः ॥ ५६८॥ पूर्वं दुर्गमनिर्माय राजा युद्धभुवं गतः । विमेक्तोऽनुचरैः सर्वैर्भीतः सन् क्षयमाप्नुयात् ॥ ५६९॥ नियुज्य विद्यारहितान् मुख्यस्थानेषु भूपति । पालयेद्यादि तर्ह्येतैः भूमेर्भारो निरर्थकः ॥ ५७०॥

अधिकार ५८. दाक्षिण्यम्

तदैव भविता लोके प्रजानां सुखजीवनम् । दाक्षिण्यगुणसम्पूर्तिः यदा स्यात् पृथ्वीपतौ ॥ ५७१॥ लोको जीवति दाक्षिण्यात् तद्विहीननरा भुवि । यदि जीवन्ति तैर्भूमेः भार एव न संशयः ॥ ५७२॥ साहित्येन विना गानं यथा स्यान्न मनोहरम् । दाक्षिण्यवर्जितं कुत्स्नं जगत्तद्वन्निरर्थकम् ॥ ५७३॥ दाक्षिण्यगुणहीनस्य किं नेत्राभ्यां प्रयोजनम् । ते ह्यलङ्काररूपेण लसतः केवलं मुखे ॥ ५७४॥ नेत्रस्यालङ्करणं पुंसां दाक्षिण्यगुण इष्यते । तद्विहीनं तु नयनं धत्ते व्रणसमानताम् ॥ ५७५॥ स्थितेऽपि नेत्रे दाक्षिण्यगुणहीनो भवेद्यदि । अचञ्चलमहीरूढतरुरेव स मानवः ॥ ५७६॥ दाक्षिण्यवर्जिता मर्त्या नेत्रहीना मता भुवि । केचिन्नयनवन्तोऽपि सन्ति दाक्षिण्यसंयुताः ॥ ५७७॥ दाक्षिण्यगुणशीलस्य गच्छतो न्याय्यवर्त्मनि । पार्थिवस्य वशे कृत्स्नं जगद्वर्तेत सुस्थिरम् ॥ ५७८॥ कृतापराधिनि जने दाक्षिण्यं संप्रदर्श्य च । तद्देषसहनं राज्ञां भवेत् स्वाभाविको गुणः ॥ ५७९॥ सुहृद्दत्तं विषं चापि पीत्वा प्रत्ययकारणात् । मैत्रीं च तेन कुर्वन्ति दाक्षिण्यगुणकाङ्क्षिणः ॥ ५८०॥

अधिकारः ५९. चारप्रेषणम्

पार्थिवश्चारपुरुषं नीतिशास्त्रं तथोत्तमम् । इमे नेत्रसमे कृत्वा पालयेदनिशं भुवि ॥ ५८१॥ सर्वकाले सर्वदेशे प्रवृत्तान् विषयान् समान् । बुध्वा शीघ्रं चारमूलाद्रक्षणं राजलक्षणम् ॥ ५८२॥ स शत्रुवशमापन्नः पार्थिवः क्षयमाप्नुयात् । बुध्वापि विषयान् चारौः यः पूर्वं न विचारयेत् ॥ ५८३॥ सेवकान् बान्धवान् शत्रून् सर्वान् वाचा च कर्मणा । विमृश्य राज्ञे विषयदाता चार इति श्रुतः ॥ ५८४॥ परदुर्ज्ञेयविषयान् निर्भीतः शत्रुसन्निधौ । गूढार्थगोपनपटुः चार इत्यभिधीयते ॥ ५८५॥ शास्त्रागारादिकं क्षिक्षुवेषो गत्वा विचार्य च । ज्ञातोऽपि शत्रुभिर्धीरो यः स्याच्चारः स गण्यते ॥ ५८६॥ अनेकगुप्तविषयान् बहिरानाय्य मेधया । ज्ञात्वा यथावद् भूपाय कथनं चारलक्षणम् ॥ ५८७॥ चारणैकेन कथितमन्यचारेण चेरितम् । एकार्थकं यदि भवेत् गृह्यतां तत् त्यजेतरम् ॥ ५८८॥ परस्परमसंवेद्यान् त्रयश्चारान् नियोज्य तु । त्रिभिरुक्तोऽपि विषयः समश्चेद् गृह्यतामयम् ॥ ५८९॥ चाराय देयं सन्मानं राज्ञा गुप्तं न तद् बहिः । नो चेद् गुप्तार्थविषयः सर्वैश्च विदितो भवेत् ॥ ५९०॥

अधिकारः ६०. उत्साहसम्पत्तिः

उत्साहहितो लोके सम्पन्न इति कथ्यते । तदभावे भवेद्रिक्त इतरैः सहितोऽपि सः ॥ ५९१॥ उत्साहसदृशं वित्तं स्थिरं लोके न वर्तते । धनमन्यत्क्रमाच्छीघ्रं ध्रुवं विलयमेष्यति ॥ ५९२॥ नष्तायामपि सम्पत्तौ स तु खेदं न विन्दते । उत्साहरूपसम्पत्त्या सदा यः सहितो भुवि ॥ ५९३॥ अनाहूतापि लक्श्मीस्तं स्वयमन्विषय विन्दते । यस्मिन्नकुण्ठितोत्साहो विद्यते सर्वदा नरे ॥ ५९४॥ दैर्घ्यं प्रसूननालस्य नीरागाधनिबन्धनम् । तथा जीवितवृद्धिश्र स्यादुत्साहनिबन्धना ॥ ५९५॥ भूपेन चिन्त्यतां स्वीयमौन्नत्यं प्रति सर्वदा । कार्यं भवतु वा मा वा श्लाघ्यते यत्नवान्नरै ॥ ५९६॥ औन्नत्यं न विमुञ्चन्ति बाणविद्धा अपि द्विपाः । तद्वदुत्साहवन्तोऽपि न विघ्नाद्विरमन्ति हि ॥ ५९७॥ उत्साहवर्जितनृपा ᳚वयं दानागुणान्विताः'' । इति मत्वा न वै दोषमाप्नुवन्ति कदापि ते ॥ ५९८॥ महाकायसमायुक्तः क्रूरदन्तसमन्वितः । गजेऽपि व्याघ्रमालोक्य भीतः सद्यः पलायते ॥ ५९९॥ नराणां बलमुत्साहः तद्विहीननरा द्रुमाः । आकारेणैव ते वृक्षाः निष्फलाश्च निरर्थकाः ॥ ६००॥

अधिकारः ६१. आलस्याभावः

कुलदीपं प्रभायुक्तमालस्याभिहिन्त तमः । क्रमेण समभिव्याप्य शमयेत् प्रभया विना ॥ ६०१॥ आलस्यवशमापन्नो यः प्रयत्नविवर्जितः । कुलगौरवहानिः स्याद् दोषाः स्युस्तस्य जीविते ॥ ६०२॥ अनर्थकरमालस्यं जडो यः कुरुते वशे । तन्नाशात्पूर्वमेवास्य कुलं विलयमाप्नुयात् ॥ ६०३॥ यो वाऽऽलस्यगुणाविष्टः शुद्धयत्नविवर्जितः । तस्य दोषाः सम्भवन्ति लीयते च कुलोन्नतिः ॥ ६०४॥ दीर्घनिद्रादीर्घसूत्रविस्मृत्यालस्यसंयुताः । नौकां मग्नोन्मुखां प्राप्ता इव नश्यन्ति ते ध्रुवम् ॥ ६०५॥ स्वयं मैत्री भवतु वा महद्भिः चक्रवर्तिभिः । न कोऽपि लाभस्तेन स्यात् आलस्यगुणवान् यदि ॥ ६०६॥ विशेषयत्नरहिताः कार्येष्वालस्यभाग्जनाः । क्रूरवाक्यैर्विनिन्द्यास्ते भवन्ति सुहृदां पुरः ॥ ६०७॥ आलस्याभिहितो दोषः सत्कुले जनुषं नरम् । यद्याप्नोति झाडित्येषः शत्रूणां वशमानयेत् ॥ ६०८॥ कुलीनत्वं पौरुषं च तस्य स्याद्दोषवर्जितम् । आलस्यरूपदोषेण यो भवेन्न वशीकृतः ॥ ६०९॥ विष्णुस्त्रिविक्रमो भूत्वा मितवान् यज्जगत्त्रयम् । विन्देत् तज्जगत्सर्वमालस्यरहितो नृपः ॥ ६१०॥

अधिकारः ६२. प्रयत्नशीलत्वम्

साध्यमिदमित्येतां मतिं त्यक्त्वा प्रयत्यताम् । स एव यत्नस्ते दद्यात् बलं कार्यसमापने ॥ ६११॥ जहाति तं नरं लोको यः कर्तव्यं परित्यजेत् । तस्मात् प्रयत्नशून्यत्वं मुञ्च कर्तव्यकर्मसु ॥ ६१२॥ परोपकरणे बुद्धिस्तेषामेव प्रवर्तते । अकुण्ठितप्रयत्नारव्यगुणेन सहितास्तु ये ॥ ६१३॥ परोपकारं कर्तुं न शक्नुयाद्यत्नवर्जितः । करवर्तिकृपाणोऽपि भीरुः किं कर्तुमर्हति ॥ ६१४॥ यः सुखेच्छां परित्यज्य कर्मण्येव कृतादर्ः । स तु स्वीयजनक्लेशं वारयेत् स्तम्भतां गतः ॥ ६१५॥ सम्पदं सर्वदा दद्यात् व्यवसायो महीभुजाम् । दारिद्र्यं तस्य जनयेत् व्यवसायविहीनता ॥ ६१६॥ अलक्ष्मीः स्ग्यामला ज्येष्ठा निवसेदलसाश्रिता । आलस्यवर्जिते पुंसि वर्तते पद्मसम्भवा ॥ ६१७॥ ज्ञात्वा यथावक्तार्येषु यत्नः स्वीक्रियतां त्वया । विधिना निष्फले यत्ने न निन्द्यस्त्वं भविष्यसि ॥ ६१८॥ विधौ ते प्रतिकूलेऽपि मा यत्नं त्यज सर्वदा । अलब्धेऽपि फले कायक्लेशो नैव वृथा भवेत् ॥ ६१९॥ विनालस्यं कर्मलोपमन्तरा यत्नवान् नरः । प्रतिकूलं विघिं चापि स कदाचिद्विजेष्यति ॥ ६२०॥

अधिकारः ६३. औत्सुक्यम्

प्राप्तेऽपि व्यसने खेदं त्यक्तवोत्साहपरो भव । खापनोदनपटुरुत्साहानास्ति कश्चन ॥ ६२१॥ निरर्गलागतं दुःकप्रावाहं बुद्धिमान्नरः । हृदये सुखरूपेण जानन् दुःखाद्विमुच्यते ॥ ६२२॥ दुःखेष्वचञ्चलो भूत्वा नरो धैर्यगुणान्वितः । दुःखस्य दुःखं जनयन्नारब्धं कर्म साधयेत् ॥ ६२३॥ वृषभः शकटे बद्धो यत्नाल्लक्ष्य> यथा व्रजेत् । व्यवसायपरस्तद्वद् दुःखं दूरीकरोत्यहो ॥ ६२४॥ उपर्युपरि दुःखेषु प्राप्तेष्वपि मनोधृतिम् । यो विन्दते स वै मर्त्यो दुःखं दुःखस्य यच्छति ॥ ६२५॥ धने लब्धेऽपि तल्लब्धमिति यस्तु न तुष्यति । दारिद्र्ये नष्टमित्युक्त्वा व्यसनं न स विन्दते ॥ ६२६॥ दुःखाश्रयो देह'' इति ज्ञात्वा तत्त्वविदां वराः । दुःखकाले समायते न मुञ्चन्ति मनोधृतिम् ॥ ६२७॥ अनादृत्य सुखं प्राप्तं ``दुःखं स्वाभाविकं नृणाम्'' । इति भावयतो दुःखं स्वप्रयत्नान्न जायते ॥ ६२८॥ सुखानुभववेलायां मनसा यो न तत्स्पृशेत् । दुःखानुभववेलायां दुःखं तं नैव बाधते ॥ ६२९॥ शत्रुणापि श्लघनीयमौन्नत्यं प्राप्नुयादयम् । दुःखमापतितं यस्तु सुखरूपेण भावयेत् ॥ ६३०॥

अधिकारः ६४. अमात्यः

उचितः समयः, कार्यसाधिके सैन्यसम्पदौ । क्रियाप्रकारस्तच्छ्रैष्ठ्यमिमे मन्त्रिगुणाः स्मृताः ॥ ६३१॥ सामर्थ्यं यत्नशीलत्वं कुलीनत्वं मनोधृतिः । विद्येति पञ्चभिश्चैतैः सहितः सचिवो मतः ॥ ६३२॥ रिपुपक्षजनत्यक्ता स्वपक्षजनरक्षकः । गातानां पुनरानेता भवेत् सचिवसत्तमः ॥ ६३३॥ सहेतुकं क्रियाकर्ता कर्तव्यार्थविमर्शकः । भावाविष्करणे धीरः सचिचश्रेष्ठ उच्यते ॥ ६३४॥ राजधर्मे च निपुणः स्वशास्त्रार्थविशारदः । कालोचितमतिः कार्ये भवेत् सचिवसत्तमः ॥ ६३५॥ यस्य स्वाभाविकं ज्ञानं शास्त्र्ज्ञानेन सङ्गतम् । मन्त्रिणस्तस्य पुरतः किं कुर्युः शत्रुवञ्चनाः ॥ ६३६॥ नीतिशास्त्रप्रकारेण न युक्तं कार्यसाधनम् । देशकालानुरोधेन कार्यसाधनमुत्तमम् ॥ ६३७॥ अश‍ृण्वतः सतां वाक्यं स्वयं तत्त्वमजानतः । नृपस्य समये तत्त्वकथनं मन्त्रिलक्षणम् ॥ ६३८॥ कुमार्गबोधकामात्यनिकटे वर्तनादपि । कोटिसप्ततिशत्रूणां मध्ये वासोऽपि साम्प्रतम् ॥ ६३९॥ स्मृत्वा यथावत्कार्याणि सम्यकू तत्कर्तुमुद्यतः । नैतानि पूर्णतां यान्ति सामर्थ्य न भवेद्यदि ॥ ६४०॥

अधिकारः ६५. वाग्मित्वम्

वाग्मित्वगुणसम्पूर्त्या सचिवः श्रेष्ठ्यमाप्नुयात् । गुणमध्ये विशेषेण वाग्मिता राजते यतः ॥ ६४१॥ वक्तुर्वचनभङ्गयैव यतः स्यातां शुभाशुभे । आलोच्य सावधानेन तस्माद्वाक्यं प्रजुज्यताम् ॥ ६४२॥ यद्वचः श्रुतमात्रेण जनानावर्जयेद् गुणैः । अश्रुतानां च शुश्रूषा भवेत् तत्तात्त्विकं वच ॥ ६४३॥ वक्तृश्रोत्रोर्मनस्तत्त्वं ज्ञात्वा वचनमुच्यताम् । तादृग्वचःप्रयोगेण धर्मार्थौ भुवि सिद्धयतः ॥ ६४४॥ विवक्षा ते यदि भवेदुच्यतां तादृशं वच । इतरेषां वचोभिश्च यज्जेतुं नैव शक्यते ॥ ६४५॥ मनोऽनुकूलमन्येषामुक्तवा तेषां वचस्यपि । त्यक्तवा दोषान् भावमात्रग्रहणं मन्त्रिणां गुणः ॥ ६४६॥ वादे कस्तं जेतुमिशः परमानसरञ्जकम् । विस्मृत्या रहितं धीरं वाक्यं यः समुदीरयेत् ॥ ६४७॥ नानार्थानानुपूर्व्येण सग्रथ्य मधुरं वचः । प्रयुञ्जानस्य वचनं लोको गृह्णाति सादरम् ॥ ६४८॥ निर्दुष्टं सार्थकं वाक्यं ये न जानन्ति भाषितुम् । वाक्यजालमनुस्यूतं वक्तुमेव हि ते क्षमाः ॥ ६४९॥ अधीतग्रन्थमन्येषां ये बोधयितुमक्षमाः । निर्गन्धफुल्लकुसुमैः ते भजन्ते समानताम् ॥ ६५०॥

अधिकारः ६६. क्रियाशुद्धि

समीचीनेन साह्येन सम्पत् केवलमाप्यते । यदि कर्म भवेत् सुष्ठु सर्वं तेन हि सिद्ध्यति ॥ ६५१॥ इह कीर्तिः परे पुण्यं न सिद्धयेद्येन कर्मणा । सर्वदा तन्न कर्तव्यं मन्त्रिणा भूतिमिच्छता ॥ ६५२॥ उपर्युपर्यात्मवृद्धिकाङ्क्षायां यत्नमास्थितैः । त्यज्यतां तादृशं कार्यं यद्गौखविधातकम् ॥ ६५३॥ प्राप्तोऽपि व्यसने तस्य निर्मूलनकृतेऽपि वा । निन्द्यं कार्यं न कुर्वन्ति विशुद्धमतयो जनाः ॥ ६५४॥ पश्चात्तापकरं कार्यं न कुर्वीत कदाचन । प्रमादेन कृते चापि पश्चातापमतिं त्यज ॥ ६५५॥ मातुर्बुभुक्षाशमनसङ्कटेऽपि समागते । सद्भिर्विगर्हितं वर्ज्यं कार्यं न हि समाचरेत् ॥ ६५६॥ विधाय निन्दितं कार्यं सापवादं धनार्जनात् । विर्दुष्टकर्मजनितदारिद्र्यं हि सतां वरम् ॥ ६५७॥ न कुर्यान्निन्दितं कर्म तत् प्रमादात् क्रियेत् चेत् । कार्यवसानवेलायां दुःखमेव भवेत् ततः ॥ ६५८॥ परहिंसाबलाल्लब्धं वित्तं मुञ्चेत् तमाश्रितम् । क्रमप्राप्तधनं नष्टमप्यन्ते मुदमर्पयेत् ॥ ६५९॥ वञ्चनामार्गसंप्राप्तवित्तरक्षणकर्म तु । अपक्कामघटक्षिप्तजलरक्षणवद्भवेत् ॥ ६६०॥

अधिकारः ६७. क्रियादार्ढ्यम्

कर्तुर्मनसि यद्दार्ढ्यं तत्क्रियादार्ढ्यमीर्यते । सैन्यदुर्गादिदार्ढ्य तु नात्र दार्ढ्यपदेरितम् ॥ ६६१॥ निषिद्धकर्मणस्त्यागो दैवात्तस्मिन् कृतेऽपि च । चित्तदार्ढ्यापरित्याग इतीमौ प्रकृते मतौ ॥ ६६२॥ कर्मारब्धमितीत्येतदन्ते चेज्ज्ञायते परैः । दृढं भवति तत्, मध्ये ज्ञातं चेद् दुःखमापतेत् ॥ ६६३॥ एवं कर्तव्यमित्येतद्वक्तुं शक्ताः समे भुवि । यथोक्तं कार्यकरणे समर्थो नास्ति कश्चन ॥ ६६४॥ कार्यसाधनशीलस्य क्रियादार्ढ्यं तु मन्त्रिणः । महत्वजननाद्राज्ञः सर्वैरपि महीयते ॥ ६६५॥ चिकीर्षितप्रकारेण ये धीराः कार्यसाधने । चिकीर्षितं फलं चापि प्राप्नुवन्ति तथैव ते ॥ ६६६॥ महारथाक्षक्षुद्राऽऽणिसमाः सन्तो दृढक्रियाः । महत्वे नाकृतिर्हेतुः दार्ढ्यं स्यात्तत्र कारणम् ॥ ६६७॥ प्रसन्नमनसा कार्ये प्रवृत्तेन फलेच्छया । आलस्यदीर्घसूत्रत्वमन्तरा तद्विधीयताम् ॥ ६६८॥ अन्ते सुखप्रदं कार्यं कायक्लेशेषु सत्स्वपि । अवश्यमेव कर्तव्यं दृढचित्तसमन्वितैः ॥ ६६९॥ दार्ढ्ये स्थितेऽप्यन्यकार्ये स्वीकृते पूतकर्मणि । मनोदार्ढ्यविहीनांस्तु मानयन्ति न मानवाः ॥ ६७०॥

अधिकारः ६८. कार्याचरणप्रकारः

अनिवार्यमिदं चेति विमर्शन्निर्णये सति । आलस्यं नैव कर्तव्यमन्यथा व्यसनं भवेत् ॥ ६७१॥ यदालस्येन कर्तव्यं तत्रालस्य प्रदर्श्यताम् । त्वरया करणीयं यत् तत्रालस्यं न शोभनाम् ॥ ६७२॥ लब्धेऽवकाशो सर्वत्र कृत्वा कार्यं समाप्यताम् । तदभावे यदा यत्तु साध्यं तत् तत्र साध्यताम् ॥ ६७३॥ आरब्धकार्ये यच्छिष्टं शिष्टं यद्धतशत्रुषु । द्वयं गूढं सदन्ते तु दहेच्छिष्टस्फुलिङ्गवत् ॥ ६७४॥ द्रव्यकालक्रियाहेतुस्थलानामनुकूलताम् । पञ्चानामपि विस्पष्ठं बुध्वा कार्यं विधीयताम् ॥ ६७५॥ क्रियासम्बन्धिनो यत्नान् विघ्नान् सम्भावितान् तथा । अन्ते महाफलप्राप्तिं त्रयं बुध्वा क्रियां कुरु ॥ ६७६॥ कार्ये प्राप्ते क्रियातत्त्वं बुध्वा पूर्वं तु सा क्रिया । यैः कृता भावमेषां च ज्ञात्वा कार्ये मतिं कुरु ॥ ६७७॥ मत्तेभमेकं संप्रेप्य यथन्यो गृह्यते गजः । कृतेनैकेन कार्येण तथान्यदपि साध्यताम् ॥ ६७८॥ सुहृदां साह्यकरणं न मुख्यं कुरु तच्छनैः । अप्रिया ये स्वशत्रोस्तैः सख्यं प्रथमतः कुरु ॥ ६७९॥ दुर्बलाः स्वाश्रितजनत्रासनिर्मूलनेच्छया । बलिष्ठैः सह सम्बन्धं कुर्युरर्थं प्रदाय वा ॥ ६८०॥

अधिकारः ६९. दौत्यम्

बन्धुप्रीतिः कुलीनत्वं राजवाञ्छितसद्गुणाः । अतैर्विशेषणैर्युक्तो दूतो भवितुमर्हति ॥ ६८१॥ विमृश्य वाक्यकथनपाटवं ज्ञानमार्जवम् । राजप्रीतिरिमे दूतो त्रयः स्वाभाविका गुणाः ॥ ६८२॥ निजराजजयोपायकथनं परभूपतौ । दूतस्य लक्षणं नीतिशास्त्रज्ञत्वं निगद्यते ॥ ६८३॥ विमर्शसहिता विद्या रूपं स्वाभाविकी मतिः । एतत्त्रितयसम्पन्नो दौत्यकर्म समाचरेत् ॥ ६८४॥ ग्रथयित्वा बहून् शब्दानपशब्दानपोह्य च । पत्युएमनोऽनुकूलं यो वक्ति दूतः स कथ्यते ॥ ६८५॥ नितीज्ञाः स्फुटवक्ता च धैर्यवान् रिपुसन्निधौ । कालानुकूलप्रज्ञावन् दूतः स्यात् शास्त्रसम्मतः ॥ ६८६॥ कर्तव्यार्थपरिज्ञाता तत्कृतौ देशकालवित् । विमृश्य कथनीयार्थवक्ता स्याद् दूतसत्तमः ॥ ६८७॥ अर्थकामोष्वनासक्तिः सर्वदा साह्यकारिता । मनोदार्ढ्य च दूतानां लक्षणं प्रोच्यते बुधैः ॥ ६८८॥ देहवाक्यं प्रमाद्यापि न बूयोद्योऽरिसन्निधौ । राजवार्तामन्यराज्ञि वक्तुं युक्तः स एव हि ॥ ६८९॥ शत्रुबाधामवाप्तोऽपि निर्भयः शत्रुमन्निधौ । प्रतिप्रभाववक्ता यः तं दूतं ब्रुवते बुधाः ॥ ६९०॥

अधिकारः ७०. राजसेवा

सचिवो नातिदूरे स्यात् राज्ञो नात्यन्तसन्निधौ । शैत्यबाधानिवृत्त्यर्थं यथाग्निकटं गतः ॥ ६९१॥ राजवाञ्छितवस्तूनि स्वयं लब्धुमानिच्छते । मान्त्रिणे पार्थिवो दद्यादखिलं तेन वाञ्छितम् ॥ ६९२॥ आत्मरक्षणवाञ्छा चेत् राजाप्रीतिं तु मा भज । अप्रसन्ने महिपाले न शक्यं तस्य सान्त्वनम् ॥ ६९३॥ राज्ञि पश्यति चान्येषां श्रोत्रयोर्गुप्तभाषणम् । सहान्यैर्हास्यवचनं प्रयोक्तव्यं न मन्त्रिणा ॥ ६९४॥ रहस्यं भाषते राजा यद्यन्येर्नैव तच्छुणु । प्रश्नं न कुर्यात् किं वेति तेनोक्तं चेत् तदा श‍ृणु ॥ ६९५॥ ज्ञात्वेङ्गितं च कालं च भूपतेर्यत्तु वाञ्छितम् । अनिराकरणीयं तत् मन्त्री बूयान्मनोहरम् ॥ ६९६॥ पृष्टोऽप्यर्थसम्युक्तं वाक्यं बूयान्महीपतौ । पृष्टोऽपि व्यर्थवचनं न वदेत् सचिव ः स्वयम् ॥ ६९७॥ ``कनिष्ठो वयसा बन्धुभूतोऽय'' मिति भूपतौ । निर्लक्ष्यभावमुत्सृज्य दीयतां स्थानगौरवम् ॥ ६९८॥ राजविश्वासपात्रोऽहमित्यनेनैव हेतुना । अनिष्टं भूपतेर्नैव कुर्यान्मन्त्री विशुद्धधीः ॥ ६९९॥ ``चिरात् परिचितो राजा ममे''ति ममतापरः । मन्त्री स्वातन्त्र्यमालम्ब्य नानिष्टं कार्यमाचरेत् ॥ ७००॥

अधिकारः ७१. इङ्गितपरिज्ञानम्

मुखनेत्रगतैर्भवैः अनुक्तं चान्तराश्यम् । यो वेत्ति सचिवो लोकभूषणं स भवेद् ध्रुवम् ॥ ७०१॥ परिचगतं भावमिङ्गितैः संशयं विना । ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम् ॥ ७०२॥ मुखनेत्रस्पन्दनादिबाह्यचिह्नेः पराशयम् । यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु ॥ ७०३॥ परभावपरिज्ञाता चेङ्गितैर्भाषणादृते । आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते ॥ ७०४॥ मुखनेत्रगतं चिह्नं दृष्ट्वान्यस्य मनोगतिम् । अजानतां वृथा नेत्रे दर्शनैकप्रजोजने ॥ ७०५॥ वर्णभेदं वस्तिनिष्ठं स्फटिको दर्शयेद्यथा । मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत् ॥ ७०६॥ ``जडं मुखं ज्ञानशून्यम्''इति वादो न युज्यते । पुरुषस्य सुखं दुःखं ज्ञात्वा स्वेन प्रकाशनात् ॥ ७०७॥ इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठतः । यो वेत्ति हृदयं तस्मिन् दुःखस्य कथनं वृथा ॥ ७०८॥ नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे भवेत् । सदसद्भावमन्यस्य तेन जानाति भूपतिः ॥ ७०९॥ ``परभावपरिज्ञाने वयं निशितबुद्धयः'' । इति वक्तुं स शक्तः स्यात् दृष्ट्या यो वेद् चाशयम् ॥ ७१०॥

अधिकारः ७२. सभास्वरूपम्

समास्वरूपं विज्ञाय वक्तव्यार्थं विचार्य च । सभायां शब्दजालज्ञैः वक्तव्यं सद्गुणान्वितैः ॥ ७११॥ साभिकानां रुचिं बुद्ध्वा दोषः शब्दथियोर्यथा । न ज्ञायेत तथा स्पष्टं सभायामुच्यतां वचः ॥ ७१२॥ सभिकानां तु रासिक्यमज्ञात्वा भाषणोद्यताः । असमर्थाश्च कथने निर्विद्याश्च मताः समैः ॥ ७१३॥ पण्डितानां सभामध्ये स्वपाण्डित्यं प्रदर्श्यताम् । मूढानां पुरतो युक्तं न पाण्डित्यप्रदर्शनम् ॥ ७१४॥ ज्ञानिनां भाषणात्पूर्वं सभायां स्वीतभाषणम् । अनारभ्य विनीतेन स्थितिः स्यादुत्तमो गुणः ॥ ७१५॥ शास्त्रज्ञानां सभायां यो दुष्टशब्दानुदीरयेत् । मुक्तिमार्गच्युतेनासौ तुल्यो दुष्यत्वमाप्नुयात् ॥ ७१६॥ शब्दतत्त्वपरिष्कारधुरीणानां सभाग्रतः । अधीतशास्त्रग्रन्थानां विद्या विभ्राजते भृशम् ॥ ७१७॥ स्वतोऽर्थग्राहिणामग्रे पण्डितोत्तमभाषणम् । रूढसस्ये त्वालवाले जलसेचनवद्भवेत् ॥ ७१८॥ विद्वत्सभायां सुश्पष्टं तत्त्वार्थकथने पटुः । प्रमाद्यापि न भाषेत कुपण्डितसभाङ्गणे ॥ ७१९॥ स्वतुल्यज्ञानिशून्यायां सभायां ज्ञानिभाषणम् । अशुद्धजलधाराग्रशीर्णामृतसमं भवेत् ॥ ७२०॥

अधिकारः ७३. सभाकम्पविहीनता

सभास्वभावविदुषां भयनापि सभाङ्गणे । न स्यात् स्खालित्यमेतेषां शब्दतत्त्वविदां नृणाम् ॥ ७२१॥ पण्डितेष्वग्रगण्यास्ते श्लाघ्यन्ते सकलैरपि । अधीतं विदुषामग्रे विस्पष्टं यैर्निरूप्यते ॥ ७२२॥ प्राणान् त्यक्तुं सन्ति सज्जा धैर्येण बहवो युधि । विद्वत्सदसि धैर्येण वक्तारो विरलाः किल ॥ ७२३॥ यदधीतं त्वया शास्त्रं स्पष्टं सदसि तद्वद । अज्ञातं शास्त्रमन्येभ्यो ज्ञानिभ्यस्त्वं भज स्वयम् ॥ ७२४॥ शब्दशास्त्रं पठित्वादौ, अर्थशास्त्रं ततः पठ । सभायामुत्तरं वक्तुं तद्धैर्यं जनयेत् तव ॥ ७२५॥ मनोधैर्यविहीनस्य कृपाणो युधि निष्फलः । भीतस्य निष्फलं शास्त्रं सूक्ष्मज्ञानिसभाङ्गणे ॥ ७२६॥ सभाभीरुजनाधीतशास्त्रं सदसि निष्फलम् । कृपाणो युद्धभूमिस्थनपुंसककरे यथा ॥ ७२७॥ सत्सभायामनेकार्थकथने भीरुणा स्फुटम् । अधीतास्वपि विद्यासु सकलासु वृथैव ताः ॥ ७२८॥ अधीतज्ञातविद्यांस्तान् विद्वद्गोष्ठयां च भाषितुम् । भीतानज्ञातविद्योभ्योऽप्यधमान् मन्यते जनः ॥ ७२९॥ अधीतविद्यान् सद्गोष्ठयां स्फुटं वक्तुं चकातरान् । जीवतोऽपि मृतप्रायान् लोको जानाति केवलम् ॥ ७३०॥

अधिकारः ७४. देशः

कृषिकर्मविदां श्रेष्ठैः स्वधर्मनिरतैः सदा । धनार्जनपरैर्वैश्यैः युक्तो देश इतीर्यते ॥ ७३१॥ ईतिबाधाविरहितं नानावस्तुसमन्वितम् । देशान्तरजनश्लाघ्यं देशमाहुर्मनीषिणः ॥ ७३२॥ देशान्तरादागतानां जनानां वहनात् स्वयम् । वस्तून्युत्पाध राज्ञे च दानाद् देश इति स्मृतः ॥ ७३३॥ घोरव्याधिबुभुक्षादिरहितं रिपुबाधया । विमुक्तमेधमानं च ब्रुवते देशसंज्ञया ॥ ७३४॥ भिन्नलक्ष्यवतां सङ्घरन्तश्छिद्रैरनर्थदैः । घातकैः क्षुद्रभूपैश्च मुक्तो देशः स कथ्यते ॥ ७३५॥ परैरनाश्यः सततं क्कचित् प्राप्तोऽपि नाश्यताम् । समृद्धिसहितो देशो देशेषूत्तमतां व्रजेत् ॥ ७३६॥ तटाकैर्दृढदुर्गैश्च पर्वतैर्निझरैस्ततः । नदीमिः पञ्चभिश्चाङ्गः युक्तं देशं प्रचक्षते ॥ ७३७॥ सम्पन्नीरोगताधान्यसमृद्धिः सुखजीवनम् । दुर्गश्च पञ्च देशस्य मण्डनानि भवन्ति हि ॥ ७३८॥ यत्नं विना स्वतो वस्तुदाता स्याद् देशसत्तमः । अन्विष्य यतमानोभ्यो दाता देशो न चोत्तमः ॥ ७३९॥ उक्तसर्वगुणाढयेऽपि देशे नास्ति प्रयोजनम् । यदि राज्ञः प्रजानां च मिथः प्रीतिर्न वर्तते ॥ ७४०॥

अधिकारः ७५. दुर्गः

समर्थानां युयुत्सूनां राज्ञां दुर्गः सहायदः । त्रस्तान्तःस्थितराज्ञां च दुर्गो भवति पालकः ॥ ७४१॥ सलिलेन विशुद्धेन मरुभूम्या नगेन च । सुच्छायाढयनेनापि वृतो दुर्गः समीर्यते ॥ ७४२॥ औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधैः । प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिनः ॥ ७४३॥ विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा युतः । प्राप्तारिधैर्यहन्ता च दुर्गशब्देन कथ्यते ॥ ७४४॥ अप्राप्यः शत्रुवृन्दानां नानाहारसमन्वितः । म्वगतानां सुखवासप्रदोदुर्गः प्रकीर्त्यते ॥ ७४५॥ समये साह्यदा युद्धवीराः स्युर्यत्र सर्वदा । सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञकः ॥ ७४६॥ साक्षात्सैन्यप्रवेशन परितः ऐन्यवेष्टनात् । कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते ॥ ७४७॥ परैरावेष्टिते दुर्गे स्वस्थानैकपरायणैः । रिपुवारणकृद्वीरैः वृतो दुर्गः स कथ्यते ॥ ७४८॥ स्थित्वैवान्तः परान् युद्धे जेतुं शक्तैभटोत्तमैः । प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थकः ॥ ७४९॥ पर्वोक्तगुणयुक्तोऽपिदुर्गः किं वा करिष्यति । युद्दोपायसमर्थानां सान्निध्यं न भवेद्यदि ॥ ७५०॥

अधिकारः ७६. अर्थर्जनोपायः

अनर्हानप्यर्हतमान् कर्तुं येन धनेने तु । शक्यते तादृहाद्चित्तात्, अन्यत् किं सार्थकं भवेत् ॥ ७५१॥ गुणिनं चाप्यर्थहीनं दूषयन्ति नरा भुवि । निर्गुणं चाप्यर्थवन्तं मानयन्ति जनाः सदा ॥ ७५२॥ अशाम्यो धनदीपोऽयं गत्वा सर्वत्र सर्वदा । स्वाश्रितानां विरोधाख्यमन्धकारं विनाशयेत् ॥ ७५३॥ युक्तमार्गेण नीत्या च यद्धनं समुपार्जितम् । तत्तस्य धर्मं कामं च प्रददाति न संशयः ॥ ७५४॥ दयाप्रीती परित्यज्य क्रियमाणं धनार्जनम् । नैवानन्दकरं भूयादिति मत्वा परित्यजेत् ॥ ७५५॥ नाथहीनं धनं घट्टशुल्कमूलागतं धनम् । जितारिसविधावाप्तकरो राज्ञां धनं भवेत् ॥ ७५६॥ आकिश्चने जायमानं दयारूपं शिशुं स्वयम् । धनरूपोपमाता तु वर्घयेत् पोषयेदपि ॥ ७५७॥ प्रविशेत् स्वीकृते कार्ये निर्भीतो धनहस्तवान् । गजयुद्धं नगारूढो यथा निर्मयमीक्षते ॥ ७५८॥ क्रूरायुधो वित्तसमः शत्रुगर्वविनाशकः । द्र्ष्टुं न शक्यते लोके तस्माद्धनमुपार्जय ॥ ७५९॥ सम्पाद्य पुष्कलं वित्तं धर्ममार्गेण तिष्ठतः । अर्थकामौ स्वतस्तस्य सिद्धयतः पृथिवीतले ॥ ७६०॥

अधिकारः ७७. सैन्यप्रयोजनम्

चतुरङ्गसमायुक्तं मृतिभीतिविवर्जितम् । सैन्यं जयप्रदं राज्ञामुत्तं भाग्यमुच्यते ॥ ७६१॥ विपत्काले स्वयं शीर्णं भृत्वापि धृतिमत्तया । स्थातुं शक्नोति तत् सैन्यं यन्मूलबलसंज्ञितम् ॥ ७६२॥ मृषका मिलिताः शब्दं कुर्वन्तु भुजगान्तिके । वृथा तद् भुजगोच्छवासस्पर्शान्नश्यन्ति ते क्षणात् ॥ ७६३॥ अप्रधर्ष्या परैर्नैव शक्या वञ्चयितुं परैः । परम्परागता धैर्ययुता सेनेति कथ्यते ॥ ७६४॥ युद्धं करोतु कुपितः स्वयमागत्य चान्तकः । स्थातुं धैर्येण तस्याग्रे या शक्ता सैव वाहिनी ॥ ७६५॥ वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता । राजविश्वसपात्रत्वं चत्वारः सैन्यगा गुणाः ॥ ७६६॥ प्राप्तारिवारणोपायं बुद्ध्वा व्युहं विद्याय च । रिपुसैन्यविनाशाय प्रस्थानं सैन्यलक्षणम् ॥ ७६७॥ पराभिघातसहनं युद्धकर्मप्रवीणता । अभयं मास्तु वा व्यूहमात्रात् सेना वरा भवेत् ॥ ७६८॥ यजमानेष्वविश्वासो दारिद्र्यमधिकं तथा । द्वयं न स्याद्यादि तदा स्वल्पा सेनापि जेष्यति ॥ ७६९॥ चिरानुभवशीलैश्च वीरैर्युक्तापि वाहिनी । सेनापतिविहीना सा महिमानं न विन्दते ॥ ७७०॥

अधिकारः ७८. सेनादार्ढ्यम्

बहवोऽस्मत्पतेरग्रे हताः पाषाणतां गताः । अस्मद्भूपपुरो नैव स्थातव्यं भोश्च शात्रवाः ॥ ७७१॥ अमोघं बाणमुत्सृज्य शशे प्राप्तो जयो वृथा । गजे प्रयुक्तबाणस्तु मोघोऽपि स्याज्जयावहः ॥ ७७२॥ अरिभिस्सह निर्भीत्या योधनं वीरलक्षणम् । प्राप्ते खेदे रिपोः साह्यकर्ता वीर्यवतां वरः ॥ ७७३॥ स्थितं शूलं गजे मुक्त्वा समीपस्थे गजान्तरे । अन्वेष्टाऽन्यस्य शूलस्य वक्षःस्थं प्राप्य तुष्यति ॥ ७७४॥ रिपुशूलागमं रोषात् पश्यतो नयानद्वयम् । सनिमेषं यदि भवेत् तत् पराजयलक्षणम् ॥ ७७५॥ निजोरसि मुखे बाणताडनं त्वनवाप्य तु । अतीतान् दिवसान् युद्धे वीरो व्यर्थान् हि मन्यते ॥ ७७६॥ स्थिरकीर्तिकृते युद्धे प्राणानपि विमुञ्चताम् । पादबद्धा श‍ृङ्खला स्यात् अलङ्कारप्रयोजना ॥ ७७७॥ प्राणान् तृणसमान् मत्वा प्रविशन्तो रणाङ्गणम् । वीरा भूपैर्वारिताश्च विरमन्ति न ते ततः ॥ ७७८॥ स्वप्रतिज्ञाभङ्गभिया समरे मर्तुमिच्छतः । वीरस्य दण्डनं दातुं को वा शक्तो भवेद् भुवि ॥ ७७९॥ स्वीयं भूपं चाश्रुपातपर्वकं शेदयन् भटः । मृतश्चत् प्रार्थनापूर्वं मृतिनूनमवाप्यताम् ॥ ७८०॥

अधिकारः ७९. स्नेहः

आर्जनीयं स्नेहसमं श्रेष्ठं वस्तु न विद्यते । शत्रुभ्यो रक्षकं वस्तु स्नेहादन्यद् भवेत् किमु ॥ ७८१॥ स्नेहो बुद्धिमता साकं वर्घते पूर्णचन्द्रवत् । बुद्धिहीनैः कृतः स्नेहः क्षीयते क्षीणचन्द्रवत् ॥ ७८२॥ गुणिभिस्तु कृतः स्नेहः क्रमेणानन्ददायकः । सदर्थः पथनाद्यद्वत् क्रमशो मोददायकः ॥ ७८३॥ परस्परकृता मैत्री न हि तोषाय केवलम् । स्खालित्ये सुहृदस्तस्माद् वारणं सख्यमुच्यते ॥ ७८४॥ मैत्र्याः परिचयो हेतुः नापि सेशैकवर्तिता । उभयोर्भावसाम्यं तु मैत्रीमुत्पादयेत् तयोः ॥ ७८५॥ मैत्री मुखविकासेन केवलं न हि जायते । हृदयस्य विकासोऽपि मैत्र्यां मुख्यमपेक्ष्यते ॥ ७८६॥ निवर्त्य निन्दितात् मार्गात् सन्मार्गे तं प्रवेश्य च । दुःखे प्राप्ते तुल्यभागभागिता स्नेहलक्षणम् ॥ ७८७॥ स्त्रस्तं वस्त्रं स्वतो गत्वा यथा गृःणाति वै करः । तथा दुःखे स्वयं साह्यकरणं सख्यमुच्यते ॥ ७८८॥ सर्वदा सर्वमार्गेण चैकरूपतया मुदा । साह्यं कृत्वा रक्षणं तु मैत्र्याः कोष्ठति कथ्यते ॥ ७८९॥ ``इयान् स्नेहस्तस्य मयि, तथा तस्मिन ममापि च'' । एवं विशिष्य कथनात् स्नेहे नास्ति विशिष्टता ॥ ७९०॥

अधिकारः ८०. स्नेहपरीक्षा

स्नेहे कृते पुनस्तस्य परित्यागो न युज्यते । तस्मादनालोच्य मैत्रीकरणं जनयेत् व्यथाम् ॥ ७९१॥ असकृह्बहुधा चर्चामकृत्वा कृतमित्रता । मरणान्तकरं दुःखमान्तं तस्मै प्रयच्छति ॥ ७९२॥ कुलीनत्वं गुणं दोषं बन्धुपालनशीलताम् । विमृश्य सम्यक् ज्ञात्वाऽथ मैत्रीं केनचिदाचर ॥ ७९३॥ कुले महति सम्भृतमपवादभयान्वितम् । कुरु मित्रं वाञ्छितार्थप्रदानेनापि सर्वदा ॥ ७९४॥ कटुवाक्यं प्रयुज्यापि दुर्मार्गाद् यो निवारयेत् । लोकज्ञानवता तेन विमृश्य स्नेहमाचर ॥ ७९५॥ स्नेहतत्त्वं परिज्ञातुं खेदः स्यान्मानदण्डवत् । तस्मात् दुःखस्य संप्राप्तिरपि क्षेमाय कल्पते ॥ ७९६॥ प्रमादाद् बुद्धिहीनेन साकं स्नेहस्य सम्भवे । ज्ञात्वा तस्य परित्यागात अन्यो लाभो न वर्तते ॥ ७९७॥ उत्साहजनकात् कायोदन्यकार्ये विमुच्यताम् । तथा मैत्री न कर्तव्या खेदे साह्यमकुर्वता ॥ ७९८॥ उपकारं विपत्कालेऽप्यकुर्वाणस्य मित्रता । स्मृता मरणकालेऽपि निर्दहेच्चित्तमुग्रतः ॥ ७९९॥ निर्दुष्टपुरुषैः साकं नूनं मैत्री विधीयताम् । गुणहीननरस्नेहं दत्वाऽर्थं वा परित्यज ॥ ८००॥

अधिकारः ८१. प्राक्तनस्नेहः

चिरस्निग्धेन सौहार्दत् कृतं दोषं गुणं तथा । सोढ्वा तथैव स्वीकारः चिरस्नेहस्य लक्षणम् ॥ ८०१॥ यथेच्छं मित्ररचितं स्नेहस्याङ्गं तदिष्यते । तस्मात् तत्कृतकार्यस्य स्वीकृतिर्महतां गुणः ॥ ८०२॥ स्वन्त्र्यात् मित्ररचितं कार्यं नाङ्गीक्रियेत् चेत् । तेन साकं कृता मैत्री तदा व्यर्था भविष्यति ॥ ८०३॥ स्ववाञ्छितं च स्वातन्त्र्यात् सुहृत् कुर्याद्यदि स्वयम् । अङ्गीकृत्य च तत्कार्यश्लाघनं महतां गुणः ॥ ८०४॥ स्वातन्त्र्यमथवाऽज्ञत्वं वक्तव्यं तत्र कारणम् । स्ववाञ्छितविरोधेन सुहृत् कार्यं करोति चेत् ॥ ८०५॥ पुरा परिचितं मित्रं खेदे प्राप्तेऽपि तत्कृते । न कदाचिद्विमुञ्चन्ति स्नेहधर्मवशङ्गताः ॥ ८०६॥ प्रेम्णा चिरात् स्नेहवद्भिः कदाचित् खेददायके । कार्ये कृतेऽपि सुहृदां तेषु प्रीर्तिन हीयते ॥ ८०७॥ पूर्वमित्रकृतं दोषमुच्यमानं परैरपि । अश्रुण्वतो मित्रकृतो दोषः सुदिनतां व्रजेत् ॥ ८०८॥ स्वातन्त्र्येण चिरान्मत्रीं कुर्वता केनचित् सह । सौहार्दं न त्यजेद्यस्तु लोकस्तं बहु मानयेत् ॥ ८०९॥ कृतेऽपि दोषे सौहार्दत् सोढ्वा तं सुहृदः स्वयम् । यः स्याच्छ्रेष्ठगुणोपेतः श्लाघ्यते रिपुणापि सः ॥ ८१०॥

अधिकारः ८२. निर्गुणजनमैत्री

दुर्गुणाः प्रीतिसम्पन्ना इव कुर्युश्च मित्रताम् । त्यागो दुर्गुणमैत्र्यास्तु वरः स्यात् तस्य वर्धनात् ॥ ८११॥ स्वार्थाय कुर्वतः स्नेहं कार्यन्ते तद्विमुञ्चतः । असमथस्य सौहार्दं सर्वदा निष्प्रयोजनम् ॥ ८१२॥ धनैकलक्ष्या गणिकाः तस्कराः परवञ्चकाः । लाभौकलक्ष्याः स्निग्धाश्च त्रयस्तुल्यगुणान्विताः ॥ ८१३॥ पतिं भूमौ पातयित्वा धावता वाजिना समम् । सुहृत् साहयं न कुर्याच्चेत् ऐकान्त्यं वरमिष्यते ॥ ८१४॥ अप्रयोजकरा नीचजनमैत्री विगर्हिता । तादृशस्नेहकरणात् स्नेहभावो वरः किल ॥ ८१५॥ मूढैः साकं दृढस्नेहकरणात्, ज्ञानिभिः सह । विरोधः कोटिसङ्ख्याकलाभं नूनं प्रयच्छति ॥ ८१६॥ वहिर्हास्यपरैः साकं मैत्र्यां यज्जायते सुखम् । रिपुमूलसुखं तस्मात् दशकोटिगुणाधिकम् ॥ ८१७॥ सुसाध्यकार्ये दुस्साध्यमिव यः सुहृदाचरेत् । तेन साकं स्थितां मैत्रीमनुत्तवैव परित्यज ॥ ८१८॥ उक्त्वैकं वचसा कार्यमन्यत् कोयेन कुर्वता । मैत्री कृता तु स्वप्नेऽपि व्यसनं जनयिष्यति ॥ ८१९॥ गेहे रहसि संस्तुत्य सभायां जनमण्डले । मैत्री निन्दयता साकं सर्वथा न विधीयताम् ॥ ८२०॥

अधिकारः ८३. आन्तरस्नेहशून्यता

हार्दस्नेहविहीनस्य बाह्यस्नेहं वितन्वतः । मैत्री भग्ना भवेत् स्वर्णमयःखण्डगतं यथा ॥ ८२१॥ चित्ते सौहार्दहीनस्य मित्रवन्नटतो बहिः । सौहार्दमङ्गनाचित्तसमं परिणतं भवेत् ॥ ८२२॥ अधीतेष्वपि शास्त्रेषु हार्दमैत्र्या प्रवर्तनम् । नैव साध्यं भवेत्तेषां ये भवन्ति विरोधिनः ॥ ८२३॥ बहिर्हास्यमुखो भूत्वा चित्ते द्रोहं चिकीर्षतः । वञ्चकस्य तु सौहर्दं दूरे कुरु भयान्वितः ॥ ८२४॥ कृत्वान्यभावं मनसि स्नेहमाचरतो बहिः । श्रुत्वा वार्तां च कार्येषु प्रवृत्तिर्न वरा मता ॥ ८२५॥ विरोधिनो मित्रसमं हितं वाक्यं ब्रुवन्तु वा । अथापि तद्वचोभङ्ग्या तत्त्वं ज्ञायेत शीघ्रतः ॥ ८२६॥ प्राप्यापि नम्रतां चापः स्वभावाद् दुःखदो यथा । विनयाढ्यं शत्रुवाक्यं तथानर्थकरं भवेत् ॥ ८२७॥ शत्रोरञ्जलिमश्येऽपि छन्नः स्यात् कठिनायुधः । तथा शत्रोरश्रुपातः क्रूरायुधसमो भवेत् ॥ ८२८॥ भूत्वा बहिः स्निग्धसमो दूषयेद् हृदयेन् यः । तमेव मार्गमाश्रित्य तस्य मैत्रीं विनाशय ॥ ८२९॥ शत्रुभिः सह मैत्र्यां च प्रसक्तायां मुखे परम् । प्रसर्श्य मैत्रीं हार्दां तां मैत्रीं छिन्धि निरन्तरम् ॥ ८३०॥

अधिकारः ८४. मौढ्यम्

क्षेमदायककार्यस्यपरित्यागस्तथैव च । अनर्थप्रदकार्यस्य स्वीकारो मौढ्यलक्षणम् ॥ ८३१॥ नानाविधेषु मौढ्येषु मौढ्यं तच्छिखरायते । यच्छास्त्रनिन्दिते हेये दुराचारे तु भोग्यधीः ॥ ८३२॥ लज्जाविहीनता प्रेमशून्यता श्रेष्ठवस्तुनि । नैराश्यं निर्विवेकत्वमिमे मौढ्यगुणा मताः ॥ ८३३॥ शास्त्रण्यधीत्य तत्त्वार्थान् बुध्वा चोक्त्वा परान् प्रति । यस्तु नाचरते तेन समो मूढो न विद्यते ॥ ८३४॥ यत्यापं नरकं दद्यात् भावि सप्तसु जन्मसु । तत्पापमखिलं म्ढः करोत्यत्रैव जन्मनि ॥ ८३५॥ अजानता क्रियातत्त्वं मूढेनारब्धकर्म तु । विघ्नितं नैति पूर्णत्वं कर्तारमपि नाशयेत् ॥ ८३६॥ मूढस्य यदि लभ्येत् धनं तेन परे जनाः । प्राप्नुयुः सकलं सौख्यं न लाभो बन्धुमित्रयोः ॥ ८३७॥ मूढो धनं प्राप्नुयाच्चेत् पित्तस्य पिबतः सुराम् । या तून्मादकरावस्था मूढः प्राप्नोति तां दशाम् ॥ ८३८॥ मूढैः साकं वियोगेन दुःखं कस्यापि नोद्भवेत् । तस्मान्मूढेन मैत्री तु भवेदानन्दायिनी ॥ ८३९॥ अमेध्यस्पृष्टपादस्य पर्यङ्के क्षालनं विना । निक्षेपतुल्यं, मूढस्य विद्वद्गोष्ठीप्रवेशनम् ॥ ८४०॥

अधिकारः ८५. अल्पज्ञत्वम्

विद्यमानेष्वभावेषु ज्ञानाभावो व्यथाकरः । अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥ ८४१॥ अल्पज्ञ्ः प्रीतिसंयुक्तो धनमर्पयनीति यत् । न तत्रान्यत् कारणं स्याद् गृहीतुः पुण्यमन्तरा ॥ ८४२॥ यावान् खेदः शत्रुवर्गैरुत्पद्येत ततोऽधिकम् । प्राप्नुयुः खेदमल्पज्ञाः स्वीयाज्ञानबलात् स्वयम् ॥ ८४३॥ ``ज्ञानवानहमस्मि''इति यो वाज्ञानकृतो मदः । स एवाल्पज्ञशब्देन प्रकृते संप्रकीर्त्यते ॥ ८४४॥ अल्पज्ञो यदि तु ब्रूयादनधीतमधीतवत् । तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥ ८४५॥ स्वदोषवरणे यत्नहीनः स्वल्पमतिर्नरः । मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥ ८४६॥ परोक्तगोपनीयार्थान् प्रमादादीरयन् बहिः । अल्पज्ञः स्वस्य नानर्थान् स्वयमेव समानयेत् ॥ ८४७॥ सत्कार्यं यः परैरुक्तं न कुर्याद्वेत्ति न स्वयम् । तस्याल्पबुद्धेः प्राणाः स्युः आन्तमामयरूपिणः ॥ ८४८॥ अल्पज्ञस्योपदेष्टा तु स्वयमल्पो भवेन्नरः । अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥ ८४९॥ अस्तीति सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च यः । मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥ ८५०॥

अधिकारः ८६. भेदबुद्धिः

समेषां प्राणिवर्गाणामितरैः प्राणिभिः सह । दुर्गुणं मेलनाभावरूपं मेदो विवर्घयेत् ॥ ८५१॥ अनिच्छन् सङ्गमं कश्चित् करोत्वन्यस्य चाप्रियम् । तस्याप्यनिष्टकरणान्निवृत्तिः श्लाघ्यते नृणाम् ॥ ८५२॥ हृदयाद्भेदभावाख्यरोगं दुःखप्रदायकम् । बहिर्निष्कासयन् कश्चित् शाश्वतीं कीर्तिमश्नुते ॥ ८५३॥ दुःखानामादिमं दुःखं भेदज्ञानाभिधं नरः । नाशयन् स्वयमाप्नोति सुखानामुत्तमं सुखम् ॥ ८५४॥ मेदज्ञानाख्यदोषेण ये भवेयुर्न दूषिताः । तान् जेतुं भुवि शक्ताः स्युः केवाऽस्मिन धरणीतले ॥ ८५५॥ भेदबुद्धिं समालम्ब्य वर्तनं वरमित्यपि । तिष्ठतो जीविते सम्पत् क्षीयते नश्यति स्वयम् ॥ ८५६॥ भेदज्ञानाख्यदुर्बुद्धिसमेता जयदायकान् । नीतिशास्त्रोक्ततत्त्वार्थान् ज्ञातुं न प्रभवन्ति ते ॥ ८५७॥ भेदबुद्धिं ये त्यजन्ति तेषां भाग्यं विवर्घते । वशा ये भेदभावस्य ते त्वनर्थानवाप्नुयुः ॥ ८५८॥ श्रेयःसंप्राप्तिवेलायां न स्मेरेद्भेदभावनाम् । अश्रेयःप्राप्तिवेलायां भेदबुद्धिं ध्रुवं त्यजेत् ॥ ८५९॥ भेदज्ञानेन चैकस्य बह्वनर्था भवन्ति हि । सौहार्दान्नितिरूपाख्यभाग्यं जायेत कस्यचित् ॥ ८६०॥

अधिकारः ८७. शत्रुनिर्णयः

आत्मनोऽपि बलाढ्यैस्तु वैरभावो विमुच्यताम् । न त्याज्यं सर्वदा वैरं स्वस्मादल्पबलान्वितैः ॥ ८६१॥ स्वाश्रितेषु प्रीतिहीनो सैन्यादिबलवर्जितः । स्वयं च बलहीनश्चेत् कथं शत्रून् विजेष्यति ॥ ८६२॥ भेतव्ये भयहीनस्य ज्ञातव्यं चाप्यजानतः । अदातुर्मित्रहीनस्य सुलभा शत्रुवश्यता ॥ ८६३॥ सर्वत्र सर्वदा सर्वैः स जेतुं सुलभो भवेत् । यः क्रोधवशमापन्नस्त्वशक्तश्चित्तनिग्रहे ॥ ८६४॥ अज्ञात नीतिशास्त्राणामकर्ता शास्त्रकर्मणाम् । अभीरुरपवादानां निर्गुणः स्याद्रिपोर्वशे ॥ ८६५॥ स्वपरज्ञानविध्वंसकारणक्रोधसंयुतः । विजृम्भत्कामनिचयुक्तः क्षीयेत् सत्वरम् ॥ ८६६॥ स्वारब्धस्यैव कार्यस्य विरुद्धं कुरुते च यः । वैरं सम्पाद्यतां तेन साकमर्थं प्रदाय वा ॥ ८६७॥ अगुणी दोषभाङ् मैत्रीं न केनापि स विन्दते । तदेव मैत्रीराहित्यं रिपणां जयदं भवेत् ॥ ८६८॥ अज्ञातनीतिशास्त्रार्थैः कार्यसाधनभीरुभिः । रिपुर्भियुद्धकर्ता तु जित्वा श्रेष्ठसुखं व्रजेत् ॥ ८६९॥ अज्ञातनीतिशास्त्रैस्तु साकं वैरं फलप्रदम् । तथा कर्तुमशक्तो यस्तस्य कीर्तिर्न सिध्यति ॥ ८७०॥

अधिकारः ८८. विरोधतत्त्वपरिज्ञानम्

वस्तुतः परिहासार्थमप्यनर्थप्रदायकः । विरोधस्तु न केनापि न कदाचिच्चिकीर्ष्यताम् ॥ ८७१॥ चापाख्यलाङ्गलकरैः वीरैर्वैरं न दुःखदम् । वागाख्यलाङ्गलकरैर्बुधैर्वैरं न साम्प्रतम् ॥ ८७२॥ नानाजनविरोधी यो बन्धुमित्रविवर्जितः । उन्मत्तपुरुषाच्चापि ज्ञानहीनः स गण्यते ॥ ८७३॥ वैरिणोऽपि सुहृद्भूतान् कुर्वन् श्लाघ्यगुणान्वितः । यो भवेत् तत्प्रभावस्य वश्यं स्यात् सकलं जगत् ॥ ८७४॥ एकस्य निस्सहायस्य यद्युभौ तु विरोधिनौ । सन्भवेतां तयोरेकं मित्रं कुर्वीत् तत्क्षणात् ॥ ८७५॥ त्वया रिपुर्भवेद् ज्ञातस्त्वज्ञातो वा पुरा भृशम् । क्लेशे प्राप्ते तु माध्यस्थ्यभावमालम्ब्य पश्य तम् ॥ ८७६॥ नूत्नमित्रस्य सविधे स्वदुःखं न निवेदयेत् । शत्रूणां सन्निधौ स्वीयदौर्बल्यं न प्रकाशयेत् ॥ ८७७॥ स्वसत्त्ववर्धकः कार्यतत्त्वज्ञो निजरक्षकः । यदि कश्चिद्भवेत्तस्य शत्रवो लयमाप्नुयुः ॥ ८७८॥ बालकण्टकवृक्षस्य छेदनं सुलभं भवेत् । स एव वृद्धश्छिन्नश्चेत् छेत्तुश्छिन्नो भवेत्करः ॥ ८७९॥ गर्वो रिपुणामादौ न हन्यते केनचिद्यदि । श्वासग्रहणकालं च न शक्यं तेन जीवितुम् ॥ ८८०॥

अधिकारः ८९. आन्तरवैरम्

रोगप्रदे यदि जलच्छाये त्याज्ये यथा जनैः । ज्ञातयो दुःखदास्तद्वत् त्यज्या ह्यान्तरवैरिणः ॥ ८८१॥ असितुल्यान् व्यक्तशत्रून् दृष्ट्वा भीतिः कुतो वृथा । बन्धुवेषान् गूढशत्रून् दृष्ट्वा मेतव्य मेव हि ॥ ८८२॥ गूढशत्रुभयादात्मरक्षणं युज्यते सदा । अन्यथा नाशमाप्नोति सूचीच्छिन्नघटो यथा ॥ ८८३॥ असंस्कृतमनस्केन गूढवैरं भवेद्यदि । बन्धुनाशकरान् दोषान् तदा प्राप्नोत्ययं जनः ॥ ८८४॥ बान्धव्यमूलकं गूढवैरं भवेद्यदिः । मरणान्तानि दुःखानि लभते तत एव सः ॥ ८८५॥ स्वाश्रितेष्वान्तरं वैरं यः कश्चित्कुरुते यदि । न तस्य मरणाभावो भविष्यति कदाचन ॥ ८८६॥ बहिर्यथा ताम्रखण्डौ युक्तौ स्यातां न चान्तरा । तथाऽन्तःशत्रवोऽन्योन्यं बहिर्युक्तौ न वै हृदा ॥ ८८७॥ अन्तर्विरोधिनां वंशो बलहीनः क्रमाद् भवेत् । अयःपिण्डः कृपाणेन घृष्टो नाशं व्रजेद्यथा ॥ ८८८॥ स्वल्पमप्यान्तरं वैरं लोके भग्नतिलोपमम् । कुलनाशकरानिष्टं महान्तं जनयेत् किल ॥ ८८९॥ लोके भिन्नमनस्तत्त्वैर्मानवैस्सह जीवनम् । एकत्रैव गृहे सर्पैः सहवाससमं भवेत् ॥ ८९०॥

अधिकारः ९०. महात्मनिन्दानिराकरणम्

आत्मरक्षासाधनेषु श्रेष्ठं तत् तु प्रकीर्त्यते । यत्कार्यसाधनपटोः सामर्थ्यस्य परिग्रहः ॥ ८९१॥ महात्मनां तु विषये क्रियमाणा तिरस्कृतिः । कस्यचित्सकलं दुःखं प्रददाति न संशयः ॥ ८९२॥ शत्रुनिर्मूलनकृतिमिच्छामात्रेण कुर्वता । राज्ञा सह कुरु द्वेषं यदि त्वं नाशमिच्छसि ॥ ८९३॥ समं बलवता वैरं क्रियते यद्धि दुर्बलैः । हन्तुर्यमस्य हस्ताभ्यामाह्वानसदृशं हि तत् ॥ ८९४॥ क्रूरसत्त्वसमायुक्तभृपक्रोधवशं गतः । आत्मनो रक्षणं तस्मात् कुत्र गत्वा करिष्यति ॥ ८९५॥ दग्धोऽपि वह्निना कश्चित् कदाचिज्जीवितुं क्षमः । महातामपकारी तु जीवितुं न भवेत् क्षमः ॥ ८९६॥ महात्मा सुतपःशीलः कुप्वेद्यदि महीपतिम् । तस्य भॄपस्य वित्तेन साम्राज्येनापि किं फलम् ॥ ८९७॥ महद्भिः शैलसदृशैः शप्ता ये भुवि पार्थिवाः । स्थिरप्रतिष्ठाः सन्तोऽपि क्षीयन्ते ते सबान्धवाः ॥ ८९८॥ नानाव्रतपराः सन्तः कुप्यन्ति किल यं प्रति । देवेन्द्रो वा भवत्वेषः स्थानाद्भ्रष्टः पतत्यधः ॥ ८९९॥ नानातपोबलवतां प्राप्ता ये कोपपात्रताम् । भूपास्ते बलवन्तोऽपि लभेरन् विलयं क्षणात् ॥ ९००॥

अधिकारः ९१. भार्यानुवर्तनम्

भार्यावचनकारी न लभते फलमुत्तमम् । भार्यानुसरणं लक्ष्यसाधने बाधकं भवेत् ॥ ९०१॥ लक्ष्यमुत्सृज्य कामार्थं भार्यावचनकारिभिः । लब्धं वित्तं भवेत्तेषां नूनं लज्जाप्रदायकम् ॥ ९०२॥ आत्मगौरवमुत्सृज्य यः पत्न्यां भीतिमान् भवेत् । अतथाभूतमहतामग्रे लज्जां स विन्दते ॥ ९०३॥ भार्याभीरुर्न लभते लोकान्तरसुखं स्थिरम् । कार्यनिर्वाहसामर्थ्यं न तस्य श्लाघ्यते बुधैः ॥ ९०४॥ भार्याभीरुर्महात्मभ्यो बहुभ्यश्च निजेच्छया । स तु स्वीयधनं चापि दातुं भीतिमवाप्नुयात् ॥ ९०५॥ देवभोगमवाप्यापि नायं प्राप्नोति गौरवम् । रम्यहस्तयुतां भार्यां दृष्ट्वा यः कातरो भवेत् ॥ ९०६॥ भार्यायां दास्यकृत्येन जीवतां पौरुषादपि । स्त्रीणां लज्जासमेतानां स्त्रीत्वमेव विशिष्यते ॥ ९०७॥ भार्यावचनकर्ता तु स्वमित्रेभ्योऽपि काङ्क्षितम् । न स्यात्पूरयिन्तु शक्तः कुर्याद्धर्मान् न शाश्वतान् ॥ ९०८॥ धर्मकार्यं तन्निधानवित्तार्जनविधिं तथा । काम्यकर्माणि कर्तुं च पत्नीदासो न शक्नुयात् ॥ ९०९॥ ऋजुपूतमनस्कानां श्रेष्ठस्थानमुपेयुषाम् । पत्नीदास्यकराज्ञानां सर्वथा न भविष्यति ॥ ९१०॥

अधिकारः ९२. पण्याङ्गना

हार्दप्रेम विना वित्तहेतोः प्रीतिं करोति या । दास्यास्तस्या रम्यवाक्यं दद्याद् व्यसनमन्ततः ॥ ९११॥ धनलाभानुसरेण ब्रूवतीनां प्रियं वचः । स्नेहं निर्गुणदसीनां विमृश्य विसृजेन्नरः ॥ ९१२॥ पण्यस्त्रीणामर्थहेतोः कृत्रिमालिङ्गनं तु यत् । तमोवृतस्थले नूत्नप्रेतालिङ्गनवद्भवेत् ॥ ९१३॥ अर्थमात्रैकलक्ष्यणां दासीनां कपटं सुखम् । नाद्रियन्ते धर्ममार्गविमर्शनपरा बुधाः ॥ ९१४॥ स्वभावज्ञानसहिताः शास्त्रज्ञानेन चान्विताः । सर्वस्वाम्याङ्गनाभोगं कृत्रिमं न हि वृण्वते ॥ ९१५॥ पण्यस्त्रीणां छलं प्रेम यच्छन्तीनां जनान् प्रति । भुजौ रूपमदान्धानां न स्पृशेयुर्गुणैषिणः ॥ ९१६॥ कृत्वाऽन्यं हृदि कायेन यच्छन्तीनां स्वसङ्गमम् । वारस्त्रीणां भुजौ चित्तदार्ढ्यहीनाः स्पृशन्त्यहो ॥ ९१७॥ कुलटाभिर्वञ्चिकाभिः सहालिङ्गनकर्म तु । नृणा विवेकशून्यानां भूतं प्राणहरं भवेत् ॥ ९१८॥ चारित्र्यमात्रशून्यानां दासीनां मधुरो भुजः । मूढाधमजनप्राप्यनिरयेन समो भवेत् ॥ ९१९॥ द्विमनस्का वारनारी द्यूतो मद्यं मदप्रदम् । त्रिभिरेतैर्युतं मर्त्य विमुञ्चेत् पद्मसम्भवा ॥ ९२०॥

अधिकारः ९३. मद्यपाननिषेधः

मद्यपानप्रियान् दृष्टा न बिभ्यति विरोधिनः । तथा तैरार्जिता कीर्तीः अचिरात् क्षीयते भुवि ॥ ९२१॥ मद्यं न पेयं विदुषा कश्चित् पातुं वृणोति चेत् । महाद्भिर्माननीयोऽसौ न कदाचिद्भविष्यति ॥ ९२२॥ जनन्याः पुरतो मद्यपानं क्लेशप्रदं यदि । पानं महात्मनामग्रे कियदुःखकरं भवेत् ॥ ९२३॥ अतिहेयसुरपानरूपदोषजुषां पुरः । लज्जाख्यरमणी स्थातुमशक्ता दूरतो व्रजेत् ॥ ९२४॥ धनं दत्वा सुरां पीत्वा चोन्मादावस्थया स्थितिः । इतिकर्तव्यतामूढरूपाज्ञाननिरूपिका ॥ ९२५॥ ज्ञानाभावान्न भेदोऽस्ति निद्राणस्य मृतस्य च । विषपायी सुरापायी द्वामिवौ च तथा समौ ॥ ९२६॥ सुरां रहसि संसेव्य नष्टप्रज्ञान् मदान्वितान् । ग्रामीणा हेतुभिस्तत्त्वमूह्य नूनं हसन्ति हि ॥ ९२७॥ सुरां पीत्वापि ``नो पीतं मये ति कथनं त्यज । पानमात्रेण चित्तस्थसत्यं किल विनिस्सरेत् ॥ ९२८॥ सुरया स्मृतिहीनस्य ज्ञानदानं सहेतुकम् । दीपसाह्यान्नीरमग्रवस्त्वन्वेषणवाद् वृथा ॥ ९२९॥ अपीतमदिरः कश्चिद् दृष्ट्वा पानमदान्वितम् । ``इयं दशा ममापि स्यात् पानेन'' ति किं स्मरेत् ॥ ९३०॥

अधिकारः ९४. द्यूतः

न कुर्याज्जयशीलोऽपि द्यूतं, नश्येज्जितं धनम् । मक्ष्याशया मीनभुक्तजलोद्गारसमं भवेत् ॥ ९३१॥ प्राप्यौकांशं शतांशानां त्यक्ता द्यूतोपसेवकः । धर्मकामप्राप्तिमार्गं न लभेत कदाचन ॥ ९३२॥ अक्षेण भ्रमणार्हेण लाभार्थं द्यूतकारिभिः । सञ्चितार्थस्तथा लाभो रिपूणां सविधं व्रजेत् ॥ ९३३॥ स्वाश्रितानां बहुक्लेशप्रदानात् कीर्तिनाशनात् । दारिद्र्यदायकं द्यूतसदृशं नास्ति किञ्चन ॥ ९३४॥ स तु सर्वसमर्थोऽपि भवेन्नूनमकिञ्चनः । अक्षं द्यूतस्थलं द्यूतकृत्यं यः सेवते सदा ॥ ९३५॥ दारिद्र्यदेवता द्यूतनाम्नी यं तु समाश्रयेत् । इह सर्वसुखैर्मुक्तः स परे नरकं व्रजेत् ॥ ९३६॥ पित्रार्जितधनं तस्य सद्गुणोऽपि विनश्यति । द्यूतक्रीडाङ्गणे येन सर्वः कालोऽपि याप्यते ॥ ९३७॥ असत्यभाषणं वित्तनाशः कारुण्यवर्जनम् । सर्वनिमाननर्थांश्च द्यूतकर्म प्रयच्छति ॥ ९३८॥ धनविद्यायशोवस्त्रभोजनानां च पञ्चकम् । तं विहाय विनिर्याति सेवते द्यूतकर्म यः ॥ ९३९॥ असकृन्नष्टत्तोऽपि द्यूतं कुर्याद्यथेपस्या । रोगार्तोऽप्यसकृत्तद्वन्मर्त्यो वाञ्छति जीवितुम् ॥ ९४०॥

अधिकारः ९५. औषधम्

वातपित्तश्लेष्मरूपत्रयाणां विषमां स्थितिम् । आयुर्वेददविदो व्याधिशब्देन ब्रुवते बुधाः ॥ ९४१॥ भुक्तं जीर्णमभूद्वेति विमर्शनन्तरं पुनः । भुञ्जानस्य शरीरस्य वृथा भवति भेषजम् ॥ ९४२॥ भुक्तेऽन्ने जीर्णतां प्राप्ते भुञ्जानः परिमाणतः । चिरं चानेन देहेन कालं नयति मानवः ॥ ९४३॥ भुक्तस्य जीर्णतां बुध्वा बुभुक्षानन्तरं नरः । आहारनियमोपेतो भुञ्जियाच्छास्त्रवर्त्मना ॥ ९४४॥ यथाशास्त्रं यथामानं स्वल्पान्नस्य निषेवणात् । मर्त्यं प्राणहरो व्याधिः यावज्जीवं न बाधते ॥ ९४५॥ मिताहारपरे सौख्यं शाश्वतं विद्यते यथा । नित्यरोगो भवेत्तस्मिन्नमिताहारसेवके ॥ ९४६॥ जीर्णशक्तिमतिक्रम्य यथावदविमृश्य च । भूरि भुक्तवतो नानारोगाः प्रदुर्भवन्त्यहो ॥ ९४७॥ रोगतत्वं परामृश्य ज्ञात्वा रोगस्य कारणम् । शमनोपायमालोच्य वैद्यः कुर्यान्निवारणम् ॥ ९४८॥ रोगार्तानां वयोमानां कालं रोगप्रमाणताम् । आलोच्य वैद्यशास्त्रज्ञः चिकित्सां सम्यगाचरेत् ॥ ९४९॥ रुग्णो भिषग्भेषजं च समये भेषजप्रदः । एतच्चतुष्कसंयोगश्चिकित्सोति प्रकीर्त्यते ॥ ९५०॥

अधिकारः ९६. कुलीनत्वम्

असत्कुलप्रसूतेषु मनुष्येषु स्वभावतः । लज्जामाध्यस्थ्यनामानौ स्यातां न सङ्गतौ ॥ ९५१॥ लज्जाचारित्र्यसत्याख्यगुणानां त्रितयं भुवि । तिष्ठेत् सत्कुलजातेषु विद्याविरहितेष्वपि ॥ ९५२॥ प्रसन्नवदनं दानमनिन्दा रम्यभाषणम् । इतीमे सुगुणाः शुद्धकुलीने सहजा मताः ॥ ९५३॥ अनेककोटिसङ्ख्याकधनलाभकृतेऽपि ते । न कुर्युः सत्कुलोत्पन्ना दोषं कुलविद्यातकम् ॥ ९५४॥ प्रसिद्धसत्कुलोत्पन्नो दारिद्र्येण युतोऽप्ययम् । परोपकारकरणान्न कदाचिन्निवर्तते ॥ ९५५॥ ``निर्दुष्टकुलचारित्र्यसहिताः स्याम सर्वदा'' । इत्यं दृढप्रतिज्ञास्तु निन्दितं न वितन्वते ॥ ९५६॥ महाकुलप्रसूतेषु स्थितः स्वल्पोऽपि दुर्गुणाः । व्योमचन्द्रकलङ्केन समं दृश्येत् सुस्फुटम् ॥ ९५७॥ कुलोचितगुणाढ्योऽपि यो वा प्रीतिविवर्जितः । तथाविधे कुलीनत्वसन्देहो जायते नृणाम् ॥ ९५८॥ पूरढाङ्कुरमूलाद्धि भूतत्वं ज्ञायते यथा । तथा वाक्यप्रयोगेण कुलं ज्ञायेत कस्यचित् ॥ ९५९॥ श्रेयोऽभिलाषिणां लज्जावत्वं नूनमपेक्ष्यते । विनीतेन सदा भाव्यं कुलगौरवकाङ्क्षिणा ॥ ९६०॥

अधिकारः ९७. मानम्

केनचिद्रचितं कार्यं भवेदपि महत्तरम् । कुलगौरवनाशाय यदि तत् स्याद्विसृज्यताम् ॥ ९६१॥ पौरुषं यशसा साकं लब्धुमाशासमन्वितः । यशःकृते कुलश्रैष्ठ्यघातकं कर्म नाचरेत् ॥ ९६२॥ सम्पत्समृद्धिवेलायां विनयः सर्वदा वरः । सम्पनाशे पौरुषं तु वरं स्याद्विनयादपि ॥ ९६३॥ सम्भूता अपि सद्वेशं लोके श्रेष्ठपदच्युताः । उत्तमाङ्गपरिभ्रष्टकेशतुल्या भवन्ति ते ॥ ९६४॥ महीधरसमाः सन्तः स्वल्पं गुञ्जाफलोपमम् । पतनोन्मुखकार्यं च कुर्वन्तस्ते पतन्त्य्धः ॥ ९६५॥ तिरस्कर्तुः पुरोभागे स्थितिः पौरुषमन्तरा । नेह कीर्तिं परे स्वर्गं न यच्छेत् किं प्रयोजनम् ॥ ९६६॥ तिरस्कर्तारमाश्रित्य सलाभं जीवनादपि । ``तदकृत्वा मृतिं प्रापद्''इति कीर्तिर्विशिष्यते ॥ ९६७॥ कुलीनत्वं पौरुषं च यदा नाशोन्मुखं भवेत् । जीवनं देहरक्षार्थं तदा किं स्वर्गदायकम् ॥ ९६८॥ रोमौकमात्रपतनात् चमरो मरणं व्रजेत् । माननाशो प्रसक्ते तु न जीवन्ति कुलोद्भवाः ॥ ९६९॥ मानहान्या विनष्टानां मानिनां महितं यशः । यशस्य बहुधा लोको मानयेत् पृथिवीतले ॥ ९७०॥

अधिकारः ९८. महत्त्वम्

लोके कस्यचिदुत्साहो महत्त्वमिति कथ्यते । विनोत्साहं जीवनेच्छा महत्वाभाव उच्यते ॥ ९७१॥ तुल्याः स्युर्जन्मना सर्वे किन्तु कर्मविभेदतः । महत्त्वतदाभावौ तु भिन्नौ जीवेषु तिष्ठतः ॥ ९७२॥ श्रेष्ठकर्म विन श्रेष्ठकृत्यात् सामान्योऽपि महान् भवेत् । विना स्थानां श्रेष्ठकृत्यात् सामान्योऽपि महान् भवेत् ॥ ९७३॥ यस्त्वात्मानं सद्गुणाद्यैः रक्षन् जीवति मानवः । महिमानं स विन्देत दृढचित्ता सती यथा ॥ ८७४॥ महत्त्वगुणसम्पन्नाः कर्तव्यं कार्यमुत्तमम् । विहितेन पथा कर्तुं भवेयुः शक्तिशालिनः ॥ ९७५॥ ``महात्मनः पुरस्कृत्य यामस्तद्गतवर्त्मना'' । इति न स्यान्मतिर्नीचेष्वात्मश्लाघापरेषु च ॥ ९७६॥ सज्जनार्हमहत्वाख्यगुणो विद्यादिवर्जितम् । अस्थानपुरुषं प्राप्य तं कुर्याद् गर्वपूरितम् ॥ ९७७॥ महत्वगुणशीलास्तु भवन्ति विनयान्विताः । तद्विहीना निजस्तोत्रकरणैकपरायणाः ॥ ९७८॥ गार्वभावो महत्त्वस्य लक्षणं सति कारणे । निष्कारणमहङ्कारवत्ता नीचत्वलक्षणम् ॥ ९७९॥ महान्तः परदोषाणां दर्शने विमुखाः किल । अधमाः परदोषैकदर्शने नितरां प्रियाः ॥ ९८०॥

अधिकारः ९९. विशिष्टगुणसम्पत्तिः

युक्तमेतदिति ज्ञात्वा विशिष्टगुणशालिनाम् । सहजास्तद्गुणास्तेषां भवेयुरिति शास्त्रिणः ॥ ९८१॥ आन्तरं गुणसौन्दर्यं स्यात्सौन्दर्यं महात्मनाम् । बाह्यं शरीरसौन्दर्यं न सौन्दर्यपदेरितम् ॥ ९८२॥ उपकारप्रीतिलज्जासत्यदाक्षिण्यमित्यपि । गुणाः पञ्च स्तम्भरूपाः श्रेष्ठ्यभारसमावहाः ॥ ९८३॥ अहिंसाधर्ममाश्रित्य तपस्तिष्ठति मुख्यतः । परापकारवैमुख्यगुणः श्रेष्ठ्यमुपाश्रयेत् ॥ ९८४॥ कार्यसिद्धिसमर्थानां सामर्थ्यं विनयो मतः । शत्रून् स्ववशमानेतुं विनयः कारणं भवेत् ॥ ९८५॥ असामानेषु नीचेषु वर्तनं विनयेन यत् । तन्महत्त्वं परिज्ञातुं निकषोपालतां व्रजेत् ॥ ९८६॥ अपकर्तुर्नरस्यापि साह्यं न क्रियते यदि । महत्वगुणवत्तपि तदा व्यर्था भवेत् सताम् ॥ ९८७॥ मगत्वरूपसत्त्वेन सहितानां महात्मनाम् । लब्धं दारिद्र्यमप्येषां नापकर्षाय जायते ॥ ९८८॥ महत्वगुणरूपाब्धितीरतुल्यो महान् भुवि । प्राप्ते प्रलयकालेऽपि शौथिल्यं न हि विन्दते ॥ ९८९॥ महात्मनां महत्वाख्यगुणो यदि लयं व्रजेत् । सुविशाला मेदिनीयं भारं बोढं न शक्नुयात् ॥ ९९०॥

अधिकारः १००. अनुसृत्य प्रवर्तनम्

सौलभ्येन समैः साकमनुसृत्य प्रवर्तनात् । विशिष्टगुणसंप्राप्तिः सुलभेति सतां मतम् ॥ ९९१॥ प्रेम्णा प्रवर्तनं शुद्धविख्यातकुलजन्म च । द्वयमेतन्महत्वाख्यगुणं यच्छति कस्यचित् ॥ ९९२॥ जनैः साकं देशसाम्यान्न भेदनुवर्तनम् । गुणेन साम्यमेभिस्तु भवेच्छन्दानुवर्तनम् ॥ ९९३॥ नीतिधर्मसमेतानां परोपकृतिशालिनाम् । महात्मनां गुणं लोकाः प्रशंसन्ति मदान्विताः ॥ ९९४॥ परिहासेऽप्यन्यनिन्दाकरणं दुःखमावहेत् । परानुसरणादज्ञा भवन्ति सुगुणान्विताः ॥ ९९५॥ विशिष्टगुणिनां सत्त्वाल्लोकोद्यापि प्रवर्तते । तदभावे प्रपञ्चोऽयं भुवि मग्नो भवेत् किल ॥ ९९६॥ सज्जनार्हगुणैर्हीनाः तीक्ष्णासिसमशेमुषीम् । लब्ध्वापि पादपसमा मन्यन्ते मानवैः समैः ॥ ९९७॥ विना मैत्रीं विरोधं च कुर्वतां विषयेऽपि यः । गुणवान्न प्रवर्तेत् दोषयुक्तः स गण्यते ॥ ९९८॥ स्नेहतत्त्वं समालम्ब्य प्रवर्तनमजानताम् । दिवसोऽपि प्रभायुक्तो दृश्येत् तमसावृतः ॥ ९९९॥ निर्गुणेनार्जितं वित्तं नोपयोगकरं भवेत् । यथा स्यात् पात्रदोषेण पयो माधुर्यवर्जितः ॥ १०००॥

अधिकारः १०१. निरर्थकं वित्तम्

अभुक्त्वा स्वार्जितं वित्तं गृहपूर्णं सुपुष्कलम् । मृतिं प्राप्तवतस्तस्य किं वित्तेन प्रयोजनम् ॥ १००१॥ ``वित्तेन साध्यते सर्वम्''इति बुद्धया ह्युपार्जितम् । यो न दद्याद् ज्ञानशून्यः स नीचं जन्म विन्दते ॥ १००२॥ धनार्जनैकलक्ष्या ये कृत्वा दानादिसत्क्रियाम् । नार्जयन्ति परां कीर्तिं भारायन्ते भुवस्तु ते ॥ १००३॥ सर्वैरस्पृहणीयस्य दानकृत्यमजानतः । किं वावशिष्यते तस्य मरणानन्तरं भुवि ॥ १००४॥ दानं परेभ्यः स्वेनापि भोगश्चेत्युभयं नृणाम् । यदि न स्यात् कोटिसङ्ख्यधनपुञ्जेन किं फलम् ॥ १००५॥ सत्पात्रदानरूपेण गुणेन रहितो नरः । स्वयं भोक्तुमनिच्छंश्च रोगः स्यात् स्वीयसम्पदाम् ॥ १००६॥ अदत्वैव दरिद्रेभ्यो रक्षितं केनचिद्धनम् । अनूढसुन्दरीप्राप्तवार्धकेन समं भवेत् ॥ १००७॥ (Text missing) । ग्राममध्ये फलैः पूर्णो यथैव विषपादपः ॥ १००८॥ अभुक्त्वैव स्वयं धर्मकृत्वा प्रीतिमन्तरा । रक्षितं केनचिद्वित्तं लब्ध्वान्यः सुखमाप्नुयात् ॥ १००९॥ वृष्टमेघः पुनर्नीरलाभाद् वृद्धिं यथाश्नुते । समृद्धनां च दारिद्र्य तथा तात्कालिकं भवेत् ॥ १०१०॥

अधिकारः १०२. लज्जशीलता

अकृत्यकरणोत्पन्नलज्जा लज्जेति कथ्यते । नारीणां सहजा लज्जा ततो भिन्नैव दृश्यते ॥ १०११॥ अन्नं वस्त्रं तथान्यानि समानि स्युर्नृणां भुवि । सतां लज्जाविशिष्टत्वं विशेषगुण उच्यते ॥ १०१२॥ यथा शरीरमालम्ब्य वर्तन्ते जीवराशयः । लज्जामाश्रित्य वर्तेत् महत्वाख्यगुणस्तथा ॥ १०१३॥ लज्जैवाभरणं लोके गुणज्ञानां महात्मनाम् । गभीरगमनं तेषां लज्जाभावे न शोभते ॥ १०१४॥ अन्यैः प्राप्तापवादं च स्वेन प्राप्तमभूदिति । मत्वा यो लज्जते लज्जास्थानं तं मन्यते जनः ॥ १०१५॥ निजात्मरक्षणोपायलज्जामप्राप्य सज्जनाः । विपुलां पृथिवीं चापि लब्धुं नेच्छन्ति सर्वदा ॥ १०१६॥ लज्जायुता नराः प्राणान् लज्जार्थं विसृजन्त्यपि । प्राणरक्षाकृते लज्जां न मुञ्चन्ति कदापि ते ॥ १०१७॥ यदीयकृत्यं दृष्टान्ये भवेयुर्व्रीडयान्विताः । स्वयं न लज्जितो भूयात् तं धर्मो व्रीडया त्यजेत् ॥ १०१८॥ चारित्रहानिः कस्यापि नाशयेत् कुलगौरवम् । कस्यचित् सकलं श्रेयो लज्जाभावो व्यपोहति ॥ १०१९॥ लज्जाहीनमनस्कानां प्राणेन सह जीवनम् । सूत्रबद्धचलद्दारुप्रतिमातौल्यमावहेत् ॥ १०२०॥

अधिकारः १०३. कुलगौरवक्षणम्

``कुलगौरवनिर्माणकृत्याद्भ्रष्टो न चास्म्यहम्'' । इत्येवं कथनादन्यन्महत्त्वं नास्ति कस्यचित् ॥ १०२१॥ पूर्णज्ञानप्रयत्नाभ्यां युक्तेनाकुण्ठितेन च । कर्मणा कस्यचिद्वंशगौरवं बहु वर्धते ॥ १०२२॥ वंशौन्नत्यकरे कार्ये सदा प्रयततां नृणाम् । बद्ध्वा वस्त्रं दृढं कटतां साह्यं कुर्याद्विधिः स्वयम् ॥ १०२३॥ स्वकुलौन्नत्यसिद्धयर्थं त्वरया यततां नृणाम् । विमर्शमन्तरा कार्यं निर्विघ्नं सेत्स्यति क्षणे ॥ १०२४॥ वंशप्रभावं संरक्ष्य जीवता शास्त्रवर्त्मनि । तेन बान्धव्यमिच्छंस्तु लोकस्तमनुवर्तते ॥ १०२५॥ स्वोत्पन्नकुलनिर्वाहशक्तिं सम्पाद्य जीवनम् । तात्त्विकं पौरुषं ताद्धि पुरुषाणां प्रशस्यते ॥ १०२६॥ धीरो वहेद्युद्धभारं यथा बहुषु सत्स्वापि । शक्तस्तथा वहेद्वंशभारमन्येषु सत्स्वापि ॥ १०२७॥ कुलगौरवरक्षार्थं कालो नात्र प्रतीक्ष्यताम् । आलस्यात् कालकाङ्क्षायां हीयते कुलगौरवम् ॥ १०२८॥ कुलसम्भावितानार्थवारणे यत्नशालिनः । शरीरं कस्यचित्किन्नु दुःखमात्रैकभाजनम् ॥ १०२९॥ (Text missing) । यस्मिन कुले भाविदुःखकुठाराभिहतः पतेत् ॥ १०३०॥

अधिकारः १०४. कृषिकर्म

नानाकर्मकरो लोकः कृषिमात्रेण जीवति । अतः क्लेशकरं चापि कृषिकर्म प्रशस्यते ॥ १०३१॥ अन्यकर्मकराणं च समेषां जीवधारणात् । जनानां कर्षकाः सर्वे तिष्ठन्त्यक्षाणिवद् भुवि ॥ १०३२॥ जीवतां कृषिकार्येण भवेदुत्तमजीवनम् । परान् संस्तुत्य जीवन्तः परे सर्वे पराश्रयाः ॥ १०३३॥ धान्यसम्पत्समृद्धाश्च दयावन्तः कृषीवलाः । अन्यराज्ञां भुवं स्वीयराजाधीनं वितन्वते ॥ १०३४॥ कृषिं करेण संवर्ध्य भुञ्जानास्ते कृषिवलाः । न याचन्ते परान्, किन्तु यच्छन्त्यल्पमथार्थिनाम् ॥ १०३५॥ कृषिवालानां हस्तास्तु कृषिहीनो भवेद्यदि । विरक्तानां यतीनां च जीवनं दुर्लभं तदा ॥ १०३६॥ कृष्टं पादांशतः शुष्कं कृत्वा बीजस्य पातनात् । दोहदं मुष्टिमात्रं च विना भूः स्यात् फलप्रदा ॥ १०३७॥ कर्षणाद् दोहदं श्रेष्ठं द्वयं कृत्वा ततस्तृणम् । निष्कास्य रक्षणाद्भूमेः न मुख्यं जलसेचनम् ॥ १०३८॥ केदारमनिशं गत्वा स्वामी यदि न पश्यति । भूमिरप्रीतिपत्नीव विरक्ता तं परित्यजेत् ॥ १०३९॥ ``दरिद्रा वयम्''इत्युक्त्वा कृषिकर्मपराङ्मुखान् । तान् समीक्ष्याथ भूदेवो हसेदज्ञानसंयुतान् ॥ १०४०॥

अधिकारः १०५. दारिद्र्यम्

दारिद्र्येण समं लोके किं भवेद् दुःखदायकम् । इति प्रश्नस्य दारिद्र्येमेवेत्युत्तरमुच्यताम् ॥ १०४१॥ लभेत् सहवासं यो दारिद्र्याभिधपापिना । ऐहिकामुष्मिकसुखं न विन्देत् स मानवः ॥ १०४२॥ दादिद्र्यसंज्ञिकी त्वाशा यमाश्रित्य वसेन्नरम् । कुलश्रैष्ठ्यं च कीर्तिश्च तं विहाय विनिःसरेत् ॥ १०४३॥ महाकुलप्रसूतानामुत्तमानां वचस्यापि । नीचवाक्यप्रयोगाख्यदोषो दारिद्र्यतो भवेत् ॥ १०४४॥ दारिद्र्यदुःखतप्तानां नृणां तेनैव हेतुना । भिन्नभिन्नान्यनेकानि दुःखानि प्रविशन्ति तान् ॥ १०४५॥ दारिद्राः शास्त्रतत्त्वर्थज्ञानवन्तोऽपि तद्वचः । न कोऽपि श्रुणुयाल्लोके व्यर्थमेव भवेद्वचः ॥ १०४६॥ अधर्महेतुदारिद्र्यसमाविष्टं नरं भुवि । जननी तमुदासीनं मत्वा दूरीकरोत्यहो ॥ १०४७॥ मरणान्तकरक्रूरदारिद्र्यानुभवव्यथा । श्चः पुनः किं भवेद्वेति दरिद्रः चिन्तयेत् सदा ॥ १०४८॥ कश्चिन्मन्त्रबलादग्नौ सुखं स्वप्तुमपि क्षमः । परं दरिद्रावस्थायां स्वप्तुं को वा भवेत् क्षमः ॥ १०४९॥ भोग्यार्थवस्तुरहितदरिद्रा रागवर्जिताः । यवागूलवणार्थं तैर्भिक्षुत्वं नाप्यगृह्यत ॥ १०५०॥

अधिकारः १०६. याचना

दातुर्दर्शनवेलायां तस्मिन युक्तं हि याचनम् । दातुर्नेति वचस्तस्य दोषाय स्यान्न चार्थिनाम् ॥ १०५१॥ याचको वाञ्छितं वस्तु लभेत् दातरि । याचनापि तदा तस्य मोददा न तु दुःखदा ॥ १०५२॥ वञ्चनातीतचित्तानां धर्मज्ञानां समक्षतः । अर्थिनां याचनं चापि नूनं श्रेष्ठ्याय भूयते ॥ १०५३॥ स्वप्नेऽपि कपटं वाक्यं प्रयोक्तुमविजानतः । दातुरग्रे याचनापि दानेन सादृशं भवेत् ॥ १०५४॥ नेत्यनुक्त्वा स्थितं वस्तु दातुमिष्टस्य कस्यचित् । अद्यापि सत्वाद्दातृणामग्रे तिष्ठन्ति याचकाः ॥ १०५५॥ विहाय कपटं तत्त्ववक्तुर्दातुर्हि दर्शनात् । याचकानां सुदारिद्र्यदुःखं नश्येत्स्वतोऽखिलम् ॥ १०५६॥ प्रीतिपूर्वं गौरवेण याचकेभ्यः प्रयच्छतः । दातृन् दृष्ट्वा याचकस्तु मनस्यन्तः प्रमोदते ॥ १०५७॥ याचकानामभावे तु नराणां भुवि जीवनम् । सूत्राकृष्टचलद्दारुबिम्बवत् कृत्रिमं भवेत् ॥ १०५८॥ दातृणामन्तिकं गत्वा दारिद्रा याचका भुवि । न याचन्ते यदि तदा महिमा स्यात् कथं प्रभोः ॥ १०५९॥ अर्थिभिर्विजितक्रोधैर्भाव्यं क्षेमार्थिभिः सदा । दारिद्र्यं स्वगतं स्वस्य भवेद् ज्ञानप्रदायकम् ॥ १०६०॥

अधिकारः १०७. याचनाभीतिः

कापट्यमन्तरा हर्षपूर्वकं दामकिरणम् । अग्रेऽपि याचनाभावः श्रेष्ठः कोटिगुणो मतः ॥ १०६१॥ केषाञ्चिद्याचनावृत्तिमीशः शिरसि चेल्लिखेत् । लोककर्ता निर्दयोऽसौ स्वयं भवतु याचकः ॥ १०६२॥ दारिद्र्यं याचनान्नश्येदिति निर्णयकारिणा । यत्नशून्येन सदृशो मूर्खो नास्ति व्यथाकरः ॥ १०६३॥ दारिद्र्यप्राप्तिकालेऽपि याच्ञाकार्यमकुर्वताम् । महत्वं सकलां पृथ्वीं समभिव्याप्य राजते ॥ १०६४॥ स्वप्रयत्नबलावाप्तयवागूजलवस्तुनः । पानादप्यधिको मोददायको नास्ति कश्चन ॥ १०६५॥ पशुरक्षणधार्मार्थं जलयाचनरूपकम् । कर्मापि याचनाकर्तुः जिह्वाया दोषदं भवेत् ॥ १०६६॥ याचनीयं यदि भवेद्दातुः कपटिनः पुरः । न कार्या याचनेत्युक्त्वा याचेऽहं याचकान् प्रति ॥ १०६७॥ दारिद्र्याम्बुधिसन्तारहेतुयाचननाविका । कापट्याख्यशिलाभूम्या घर्षिता शिथिला भवेत् ॥ १०६८॥ याच्ञाव्यसनसंस्मृत्या चित्तं नूनं द्रवीभवेत् । कापट्यदोषस्मरणे न द्रवेत्, किन्तु नश्यति ॥ १०६९॥ नेति श्रवणमात्रेण प्राणो गच्छति चार्थिनाम् । स्थितेऽपि नेति ब्रुवतां प्राणश्छन्नो वसेत् किमु ॥ १०७०॥

अधिकारः १०८. नीचत्वम्

आकारेण समैः साकं नीचानामस्ति तुल्यता । इदं साम्यन्त्वन्यवस्तुद्विके द्रष्टुं न शक्यते ॥ १०७१॥ विवेकज्ञानवद्भयोऽपि नीचाः स्युर्भाग्यशालिनः । यतस्तैः सदसच्चिन्ता कापि न क्रियते किल ॥ १०७२॥ लोके नीचस्तथा श्रीश इतीमै भवतः समौ । स्वेच्छया वाञ्छितं कार्यमुभाभ्यां क्रियते यतः ॥ १०७३॥ भुवि नीचजनाः स्वस्मादपि नीचान् समीक्श्य तु । ``तस्मादपि वयं श्रेष्ठं'' इति स्युर्ममतापराः ॥ १०७४॥ राजदण्डभयान्नीचा भवन्ति गुणशालिनः । सच्चारित्रसमेताः स्युस्ते लब्धुं वाञ्छितं क्कचित् ॥ १०७५॥ श्रुतानेकरहस्यानां स्वयं गत्वा बहुस्थालीम् । प्रसारणात् प्रचारार्थपटहाः सन्ति दुर्जनाः ॥ १०७६॥ बद्ध्वा कण्ठे करं बाधाकारकान् घातकान् विना । परेषामधमो भुक्तसिक्तहस्तं न दर्शयेत् ॥ १०७७॥ दुःखश्रवणमात्रेण सन्तः स्युरुपकारिणः । नीचाः स्युरिक्षुवत्पिष्टा भवन्ति सहकारिणः ॥ १०७८॥ अन्नवस्त्रादिसम्पन्नान् जनानुद्वीक्ष्य याचकाः । असूयया मृषादोषान् सदा शंसन्ति तेष्वपि ॥ १०७९॥ आत्मानमपि नीचास्तु विक्रेतुं व्यसनागमे । सज्जा भवेयुः, सत्कर्म नान्यत् तैः कर्तुमिष्यते ॥ १०८०॥ इति राजधर्माध्यायः सम्पूर्णः ।

३. कामकाण्डः । गान्धर्वविवाहाध्यायः ।

अधिकार १०९. दर्शनंवितर्कश्च तिरुक्कुरळ्

रम्यकेशवती चेयं मयूरी किमु देवता । अथवा मानुषीत्येवं प्राप्नोति मे मनः ॥ १०८१॥ मया दृष्टा रमणी यत्पुनर्मां च पश्यति । सैन्येन सह मां योद्धुं कि प्रापदिति तद्वभौ ॥ १०८२॥ अन्तको न मया पूर्व दृष्टः, पश्यामि संप्रति । क्रूराक्षश्चाङ्गनारूपो जीवत्येष न संशयः ॥ १०८३॥ नारीगुणसमेतायास्तस्यास्ते क्रूरचक्षुषी । द्रष्टणां प्राणनाशार्थमुद्युक्ते तिष्ठतः सदा ॥ १०८४॥ किं वान्तकः किमु मृगी किन्तु स्यान्नेत्रमेव वा । त्रयाणामपि सदृश्यं दृष्टयामस्यास्तु दृश्यते ॥ १०८५॥ भ्ररस्यास्त्वार्जवं प्राप्य वक्रतां यदि मुञ्चति । तस्यास्तदा दृष्टिपातं सा नूनं मयि वारयेत् ॥ १०८६॥ प्रङ्गनाधनवक्षाजच्छादक पट्टवस्त्रकम् । प्रत्तेभकायसञ्च्छन्नमुखवस्त्रसमं भवेत् ॥ १०८७॥ समरे शत्रुवित्रासहेतुभृतं बलं मम । रमणीरम्यफालेन नृनमासीत् पराजितम् ॥ १०८८॥ हरिणीदृष्टिसदृशदृष्टया प्रकृतिलज्जया । सहिताया रमण्यास्तु मण्डनैर्मण्डनं वृथा ॥ १०८९॥ कामो यथा स्वद्रष्टणां विषयोऽपि मुदावहः । न तथा मदिरा, किन्तु मोदयेत् प्रायिनं परम् ॥ १०९०॥

अधिकार ११०. भावपरिज्ञानम्

अयास्तु स्वञ्जने नेत्रे दृष्टिद्व्यसमन्विते । मह्यं रोगं ददात्येका श्मयत्यपरा तु तम् ॥ १०९१॥ तस्याः क्षणिकदृष्टिर्या सकूतं प्रेरिता मयि । न सा कामार्घभागा स्यात् ततोऽपि महती किल ॥ १०९२॥ सा मां ददर्श, दृष्टा सा मया मन्राननाऽभवत् । तदेत् प्रेमवृद्धयर्थ रचितं जलसेचनम् ॥ १०९३॥ मयि पश्यति सा भूमिं पश्येन्नम्रमुखी स्थिता । मय्यपश्यति मां दृष्ट्वा कुर्यान्मन्दस्मितं तु सा ॥ १०९४॥ यद्यप्योषा न मां साक्षात् पश्यत्यत्र न संशयः । अथापि मीलिताक्षीव भृत्वा मन्दं हसेदियम् ॥ १०९५॥ अप्रीतवाक्यसदृशं ब्रूयात्सा कठिनं बहिः । परन्तु हृदये क्रोधो नास्तीति ज्ञायते क्षणात् ॥ १०९६॥ वचः क्रूरं निष्कपटमरिवद्दर्शनं च यत् । तदन्तःप्रीतियुक्तानां लक्षणं प्रोच्यते बुधैः ॥ १०९७॥ मयि पश्यति तद् दृष्ट्वा प्रीता मन्दं हसेदियम् । तस्याश्चलन्त्यास्तत्कृत्य रमणीयं प्राकाशते ॥ १०९८॥ उदासीनैः समं बाह्ये यदन्योन्यनिरीक्षणम् । अन्तः स्थितां प्रीतिमेव तद् व्यनक्ति तयोस्तदा ॥ १०९९॥ लोके कामुकयोनेन्त्रे यदि प्रेम्णा परस्परम् । पश्येतां, तहिं वचसा भाषणे किं प्रयोजनम् ॥ ११००॥

अधिकार १११. सम्मोगसुखम्

नासानेत्रश्रोत्रजिह्वाघ्राणत्वक्पञ्चकेन्द्रियैः । जायमानं भोगमेका ददाति वलयाज्ज्वला ॥ ११०१॥ स्वरोगशामकं वस्तु स्वेतरं दृश्यते भुवि । स्वेनोत्पादितरोगस्य किन्त्वयं भेषजं स्वयम् ॥ ११०२॥ प्रियारम्यस्कन्धलभ्यनिद्रासुखसमं सुखम् । पङ्कजाक्षमहाविष्णोवैङ्कुण्ठेऽपि न लभ्यते ॥ ११०३॥ कामाग्नि नूतनमिममेषा प्राप्तवती कुतः ? । योऽग्निः सन्निहितः शीतो दूरस्थः प्रदहत्ययम् ॥ ११०४॥ वाञ्छितानेकवम्तूनामवाप्त्या यत्सुखं भवेत् । प्रसूनकुन्तलभरनारीस्कन्धो ददाति तत् ॥ ११०५॥ नष्टः प्राणः पुनर्यस्य स्पर्शमात्रेण जीवति । तेनामृतेन रचितौ तस्याः स्कन्धाविति ध्रुवम् ॥ ११०६॥ स्वगेहे स्वार्जितं चान्यैः विभज्याशनकर्मवत् । रम्यवर्णाङ्गनाकायपरिष्वङ्गः सुखावहः ॥ ११०७॥ वायुगम्यस्थलेनापि मध्ये व्यवधिमन्तरा । प्रीतिकामुकतोरङ्गपरिष्वङ्गः सुखं वहेत् ॥ ११०८॥ विप्रयोगः समाधानं सम्मोग इति तत् त्रयम् । प्रोच्यते परमं भाग्यं प्रेमलक्ष्यैकजीविनाम् ॥ ११०९॥ असकृद् ग्रन्थपठनादज्ञानं शिष्यते पथा । अनुस्यूताङ्गनाभोमादमोगः शिष्यते ततः ॥ १११०॥

अधिकार ११२. लावण्यमहिमा

सुमेषु मृदु त्व हि शिराष! विजया मव । वत्तोऽपि मार्दवयुता मत्प्रिया, गर्वमुत्सृज ॥ ११११॥ निकदृश्ग्टकुसुमसाम्यमस्यास्तु नेत्रयोः । वस्तीति किं धिया चित्त! दृष्ट्वा पुष्पाणि मुह्यसि ॥ १११२॥ देहस्तु चिकुरस्तस्याः चक्षुषी शूलरूपिणी । मुक्ता दन्ताश्चारुगन्धः करौ वंशानुकारिणौ ॥ १११३॥ अस्यास्तु चक्षुषा साम्यं न लब्धमिति लज्ज या । नतं कुवलयं भूमिं दश्येद्, दृष्टिं लभेत चेत् ॥ १११४॥ मृदुकाये नालयुक्तं सा शिरीपमधारयत् । नालाभाराद्भग्नमध्यमभूदशुभनादनम् ॥ १११५॥ नारीमुखनिशानाथमेदज्ञानविवर्जिताः । दिवि ताराः स्वप्रदेशाद् भ्रान्ताः किन्तु भ्रमन्त्यहो ॥ १११६॥ आदौ नष्टकलश्चन्द्रः पुनः प्राप्नोति यः कलाः । कलङ्कस्तद्गतो नारीवदने किन्तु वर्तते ॥ १११७॥ यदि त्वं मुखवत्त्वस्याः शोभां चन्द्र! वहेस्तदा । मत्प्रीतिपात्रं त्वं मूयाः सर्वदा विजयी भव ॥ १११८॥ अस्याः कुसुमनेत्राया मुखसाम्यं यदीच्छसि । हे चन्द्र! सर्वदृश्यस्त्वं तदा मा तिष्ठ सर्वदा ॥ १११९॥ शिरीषकुसमं हंसपक्षौ चेत्युभयं भुवि । स्त्रीपादमार्दवे दृष्टे नूनं स्यात्यण्टकोपमम् ॥ ११२०॥

अधिकार ११३. प्रेमप्रभावकथनम्

अस्यास्तु मृदुभाषिण्याः श्वेतदन्तोद्भवं जलम् । मधुसम्मिश्रितं क्षीरमिवातिमधुरं भवेत् ॥ ११२१॥ जीवस्य देहसम्बन्धो यादृशो दृश्यते भुवि । स्नेहबन्धो ममाप्यस्यां वर्तते तादृशो दृढः ॥ ११२२॥ मन्नेत्रकृष्णतारे! त्वं त्यक्त्वा स्थानमितो व्रज । नो चेन्मत्प्रियया तस्तुमत्र नैव हि शक्यते ॥ ११२३॥ संयोगे भूषणाङ्गीयं मम जीवनदायिनी । वियोगे सैव मे नूनं भवेन्मरणदायिनी ॥ ११२४॥ यदि स्युर्विस्मृता लोके क्रूराक्ष्यास्ते च सद्गुणाः । तदैव स्मरणं युक्तं, न मया विस्मृता गुणाः ॥ ११२५॥ नापयाति प्रियो नेत्रान्निमेषसमयोऽपि सः । नैति खेदं, यतोऽन्येषामदृश्यः सूक्ष्मरूपधृत् ॥ ११२६॥ मन्नेत्रस्थो मात्प्रियोऽसौ छन्नः स्यादिति शङ्कया । अञ्जनाद्यैरलङ्कारो नेत्रयोर्न विधीयते ॥ ११२७॥ य्ष्णवस्त्वशनेनासौ हृदयस्थो मम प्रिय ः । दग्धः स्यादिति भीत्या, तदुष्णं वस्तु न भुज्यते ॥ ११२८॥ नेत्रस्पन्दे कृते नेत्रात् प्रियोऽन्तर्धानमेष्यति । ज्ञात्वदं निर्निमेषं तं कठिन ब्रुवते जनाः ॥ ११२९॥ हृदयेऽस्ति प्रियो नित्यं तदज्ञात्वा जना भुवि । निन्दन्ति ᳚प्रीतिहीनोऽयं वियोगं बहती'' ति च ॥ ११३०॥

अधिकार ११४. निर्लज्जात्वकथनम्

अनुभूय प्रियं पश्चात् वियुज्य बहुखिद्यत्ः । प्रियस्य तालतुरगारोहणान्नास्ति रक्षकम् ॥ ११३१॥ वियोगदुःखं सोढुं यौ प्राणदेहौ न शक्नुतः । तौ लज्जां च परित्यज्य तुरगारे हणोद्यतौ ॥ ११३२॥ पुस्त्वलज्जे पुरा पूर्णे मस्यास्तां अद्य ते विना । करोमि तालतुरगारोहणं कामुको यथा ॥ ११३३॥ कामनामातिवेगोऽयं प्रवाहो मयि संस्थितौ । लज्जापुस्त्वाभिधौ पोतौ वेगेन नयति क्षणात् ॥ ११३४॥ सायङ्कालोद्भवं दुःखं कृत्रिमाश्चाधिरोहणम् । द्वयमेतददान्मह्यं मालाकुलकरा प्रिया ॥ ११३५॥ प्रियावियोगान्नो निद्रां लभेते मम चक्षुवी । तेनार्घरात्रिकालेऽपि कृत्रिमाश्चं स्मराम्यहम् ॥ ११३६॥ पयोधिसमकामाधिमनुभूयापि चाङ्गनाः । तालाश्चान्नाधिरोहन्ति स्त्रीजन्मातो विशिष्यते ॥ ११३७॥ ``शोच्येयं, धैर्यहीनेय'' मित्येतदविचार्य च । स्त्रीणं कामो विनिष्क्रम्य'' विथीपर्गन्तमाययौ ॥ ११३८॥ ``एतावता जनाः सर्वे जानन्त्मन्तर्हितं न माम्'' । इतीव मम कामोऽयं वीथ्यां भ्रमति मोहितः ॥ ११३९॥ ``अस्मस्समसखीभिस्तु न प्राप्तं व्यसनं पुरा'' । ``अस्मस्समसखीभिस्तु'' (Text missing) ॥ ११४०॥

अधिकार ११५. अपवादकथनम्

कामसम्बन्धिवार्तायाः प्रसाराज्जीव्यते मया । स्थितिमेनां न जानन्ति जनाः पुष्यवशादहो ॥ ११४१॥ दुस्साध्या कुसुमाक्षीयमित्येन्नगरे जनाः । अज्ञात्वा दुष्प्रचारेण मम साह्यं वितन्वते ॥ ११४२॥ दुष्प्रचारो लोककृतो मम साह्यप्रदोऽभवत् । दुस्साधञ्च सुसाधं मे भविता दुष्प्रचारतः ॥ ११४३॥ मम कामः प्रजानां तु प्रचारेण प्रवर्धितः । कामः प्रचाररहित्ये नूनं सङ्कुचितो भवेत् ॥ ११४४॥ प्रचाराद् बहुभिर्ज्ञातः कामः स्यान्मोददायकः । मोदं मोदं मद्यपायी सेवते तद्यथा पुनः ॥ ११४५॥ प्रियो दृष्टस्त्वेकवोरं, अपवादस्तदोत्थितः । सर्पेण चन्द्रग्रहणवार्तेव प्रसृतोऽभवत् ॥ ११४६॥ ववृधे कामरोगोऽयमपवादाख्यदोहदात् । मातृक्रोधवचोरूपसलिलेनापि पोषितः ॥ ११४७॥ दुष्प्रचारेण कामस्य निरोधो न हि शक्यते । यथा घृतेन वह्नेस्तु शमनं दुष्करं भुवि ॥ ११४८॥ दत्वाऽमयवचो मां तु निर्लज्जं त्यक्तवान् प्रियः । तथा सत्यपवादार्थ न विभेमि कदाचन ॥ ११४९॥ अपवादं ममाभीष्टं ग्रामीणा ब्रुवरे यतः । कामुकैर्वाञ्छितं सर्व साध्यते तत्तु तैस्ततः ॥ ११५०॥

अधिकार ११६. वियोगसहनम्

वितोगाभावविषयो यदि स्याद् ब्रुहि तन्मम । वियुज्यागमनं चेत्तु वद तत् सहतां नृणाम् ॥ ११५१॥ तदीयदृष्टिः पूर्व मे वभृवानन्ददायिनी । वियोगभीतिं जनयेत् अद्य, जातोऽपि सङ्गमः ॥ ११५२॥ स्याद्वियोगः क्कचित साकं विश्वस्तेन प्रियेण च । तस्मात् प्रियेण रचितां प्रतिज्ञां नैव विश्वसेत् ॥ ११५३॥ प्रेमपूर्वं न मेतव्य मित्युक्तवापि वियुज्यतः । प्रियस्य वचनं वक्तुर्दोषाय स्यात्, न श‍ृण्वतः ॥ ११५४॥ यथा प्रियेण विरहो न स्यात्कार्य तथा त्वया । वियोगे प्रथमं प्राप्ते सङ्गमो दुर्लभस्ततः ॥ ११५५॥ वियोगविषयं वक्तुं यो भवेन्निर्दयः प्रियः । प्रत्यागत्य पुनः प्रीतिं स कथं दर्शयेत् त्वयि ॥ ११५६॥ कृशहस्तप्रकोष्ठाभ्यां निस्सृता वलयालयः । किं नायकवियोगं न कथयेयुर्जनान् प्रति ॥ ११५७॥ स्निग्धचेटीविरहतग्रामवासो व्यथाकरः । प्रियनायकविश्लेषस्ततोऽपि व्यसनप्रदः ॥ ११५८॥ अन्तिकस्थितिमात्रेण दहेत् साधारणोऽनलः । कामरोगसमानोऽयं न दहेद् दूरवत्यपि ॥ ११५९॥ अङ्गीकृत च विश्लेषमनवाप्य ततो व्यथाम् । सोढ्वा वियोगं जीवन्त्यः सन्त्यनेकाः स्त्रियो भुवि ॥ ११६०॥

अधिकार ११७. वियोगदुःखानुभवः

लज्जया कामरोगं तु छादयामि, न शाम्यति । निर्गते निर्गते वारि वर्धते स्त्रोतसो यथा ॥ ११६१॥ नैव च्छादयितुं शक्ता कामरोगमहं बलात् । रोगदात्रे नायकाय वक्तुं लज्जा तु जायते ॥ ११६२॥ खेदं सोदुमशक्तऽस्मिन शरीरे प्राणनामकम् । यष्टिमालम्व्य लम्बेते लज्जाकामौ तु पार्श्वयोः ॥ ११६३॥ कामरोगममाख्यऽयं महानस्ति पयोधरः । तत्तीर्त्वा गन्तुमुचितो दृढः पोतो न विद्यते ॥ ११६४॥ सुखप्रदायां मैत्र्यां ये दुःखोत्पादनतत्पराः । खेदप्रदविरोधस्य निरासे ते कथं क्षमाः ॥ ११६५॥ कामो यदा सुखं दद्यात् तत्सुखं सिन्धुवन्महत् । वियोगाद् दुःखदे कामे तद् दुःखं जलधेर्महत् ॥ ११६६॥ कामप्रवाहे तीर्णेऽपि पारं मे नैव दृश्यते । गाढान्धकाररात्र्यां तु वसाम्येकाकिनी ह्महम् ॥ ११६७॥ सर्वलोक्जनान् निद्रावशान् कृत्वा तु मां परम् । सहायं प्राप्य तिष्ठन्ती यामिनी शोच्यतां गता ॥ ११६८॥ वियोगकाले यामिन्यो वर्धन्ते याः सुदीर्घतः । वियुक्तनायकाच्चापि ताः क्रराः किल भान्ति मे ॥ ११६९॥ प्रियसामीप्यगमनशक्तिर्नेत्रस्य चित्तवत् । यदि स्यात् तर्हि मन्नेत्रे न स्यातां सलिलाकुले ॥ ११७०॥

अधिकार ११८. नायकदिदृक्षामृलकखेदः

त्वमेव प्रथमं नेत्र! मह्मं प्रियमदशेयः । कामाधिर्ववृधे तेन कम्मात् त्वं रुदसि वृथा ॥ ११७१॥ अविचार्य पुरा दृष्ट्वा प्रियं प्रीतिपुरस्सरम् । अद्याज्ञानात् कुतो नेत्रे खिद्येते प्रीतिसंयुते ॥ ११७२॥ नेत्रे पूर्व स्वयं गत्वा तं नायकमपश्यताम् । रुदतः स्वयमद्यात्र, परीहासपदं हि तत् ॥ ११७३॥ अनिवार्य कामरोगं शाश्वतं मम चक्षुषी । मह्मं दत्त्वा क्रन्दितुं ते ह्यशक्ते नीरवर्जिते ॥ ११७४॥ मन्नेत्रे ये पुरा कामरोगं सागरसन्निभम् । अयच्छतामिदानीं ते खिद्येते निद्रया विना ॥ ११७५॥ कामरोगप्रदाभ्यां मे नयनाभ्यां यदद्य तु । तुल्पोऽनुभूयते खेदः तत्तस्य खलु युज्यते ॥ ११७६॥ प्रेम्णा सहर्ष ये नेत्रे प्रियं पूर्वमपश्यताम् । निर्निद्रे तेऽद्य खेदेन स्यातामश्रुविवर्जिते ॥ ११७७॥ हार्द प्रेम विना वाक्यमात्रात् प्रेमदर्शकः । अस्ति कश्रिददृष्ट्वा तं न नेत्रे शान्तिमापतुः ॥ ११७८॥ आगते नायके तद्वत्, अप्राप्तेऽपि च नायके । नायाति निद्रा तस्मान्मे विषण्णे नयने भृशम् ॥ ११७९॥ गुह्यप्रकाशपटहतुल्यनेत्रयुता वयम् । अतोऽस्मन्नयने दृष्ट्वा रहस्यं जनाः ॥ ११८०॥

अधिकार ११९. वैवर्ण्यमूलकव्यसनम्

(Text missing) ङ्गयकारि (Text missing) । ततोऽभून्मयि वैवर्ण्य कस्मै तत्कथयाम्यहम् ॥ ११८१॥ ``नायकेनार्पितं चेदमि'' ति सन्तोषहेतुना । वैवर्ण्य मम देहेऽस्मिन् व्याप्य सर्वत्र वर्तते ॥ ११८२॥ वैवर्ण्य कामरोगं च दत्वा मह्यं स नायकः । मत्तः सौन्दर्यलज्जे तु प्रत्यगृह्णान्मुदान्वितः ॥ ११८३॥ स्मरामि नायकेनोक्तं तद्वीर्य च वदाम्यहम् । अथापि जातं वैवर्ण्य, न जाने वञ्चनामिमाम् ॥ ११८४॥ मम प्रियो मां वियुज्य याति त्वं पश्य तत्र तु । पश्यात्र सद्यो वैवर्ण्य मम देहमुपागमत् ॥ ११८५॥ यथा दीपतिरोधानं प्रतीक्षद्वर्तते तमः । तथाऽऽलिङ्गनविच्छेदं वैवर्ण्य संप्रतीक्षते ॥ ११८६॥ परिष्वज्य प्रियं पार्श्चे यदाऽहं परिवर्तिता । अत्रान्तरे तु वैवर्ण्य मद्देहे व्यापृतं वभौ ॥ ११८७॥ ``वैवर्ण्य प्रापदेषे'' ति वक्तारः मन्ति भृरिशः । ``प्रियो ययौ वियुज्यैनामि'' ति वक्ता न विद्यते ॥ ११८८॥ वियोगे सम्मतां मां च योऽकरोत् सोऽपि सत्तमः । यदि स्यात्तर्हि मद्देहवैवर्ण्यान्नास्ति मे व्यथा ॥ ११८९॥ वियुक्त मम सम्मत्या प्रियं खिन्न जना यदि । न निन्देयुस्तदा श्लाघ्या विवर्णेयमिति प्रथा ॥ ११९०॥

अधिकार १२०. वियोगव्यसनाधिक्यम्

वृतः स्वेन प्रियः स्वां च कामयेद्याद् प्रिया । बीजावापं विना लब्धफला स्याल्लक्ष्यजीविते ॥ ११९१॥ स्वानुरक्तासु नारीषु नायकैः प्रेमदर्शनम् । जन्तूनां विषये मेघकृतवृष्टिसमं भवेत् ॥ ११९२॥ नायकासक्तनारीणां खेदे विश्लेषमूलके । जातेऽपि सङ्गमो भूयादिति गर्वयुतास्तु ताः ॥ ११९३॥ स्ववाञ्छितप्रियतमो यस्यां प्रीतिं न दर्शयेत् । अन्येषां स्पृहणीयां च भाग्यहीनां हि तां विदुः ॥ ११९४॥ अङ्गनाप्रीतिपात्रं यः कामुकः प्रेम तासु च । न कुर्यच्चेत् तदा स्त्रीणां किं तैरस्ति प्रयोजनम् ॥ ११९५॥ एकपक्षानुरागास्तु जनयेद्यसनं महत् । कामस्तुलाभारसमो द्विपक्षस्थः सुखप्रदः ॥ ११९६॥ रक्तकामुकयोर्मध्ये वसन्नेकत्र केवलम् । मदीयदुःखवैवर्ण्ये जानीयान्मदनः कथम् ॥ ११९७॥ स्वानुरक्तप्रियेणोक्तमश्रुत्वा मधुरं वचः । वियुज्य भुवि जीवन्त्यो भवन्ति क्लेशभाजनम् ॥ ११९८॥ वाञ्छितः कामुकः प्रीतिं मयि नैव करोतु वा । तत्कीर्तिश्रवणं नूनं श्रवणानन्दं मम ॥ ११९९॥ प्रेमहीने तु पुरुषे हे चित्त! वदसि व्यथाम् । न तेन तव लाभोऽस्ति जलघेर्गोपनं यथा ॥ १२००॥

अधिकार १२१. अनुभृतसुखं स्मृत्वा रोदनम्

पानकाले परं नृणां मद्यान्मोदप्रदायकात् । स्मृतमात्रेण चानन्ददाता कामो विशिष्यते ॥ १२०१॥ विश्लेपेऽपि प्रियः स्वीयप्रियां चित्तं यदि स्मरेत् । तदेव वारयेत् खेदं, सर्वदा मोददः स्मरः ॥ १२०२॥ क्षुतं प्राङ्निस्सेरदास्यात् स्थगितं तद्भवेत्ततः । ज्ञायते तेन मां स्मृत्वा प्रियो व्यस्मरदिप्यपि ॥ १२०३॥ वासं करोति मच्चिते सर्वदा प्रियकामुकः । तथा तदीयचित्तेऽपि वसामि किमहं न वा? ॥ १२०४॥ मम वस्तुं स्वचित्ते न स्थानं यच्छति यः प्रियः । हृदये मम निर्लजं कथं नित्यं वसेदसौ ॥ १२०५॥ प्रियेण भुक्तदिवसान् स्मृत्वा जीवामि संप्रति । तदभावे जीवनं मे सर्वदा दुर्लभं भवेत् ॥ १२०६॥ प्रिये स्मृतेऽपि मच्चित्तं दग्धं विश्लेषदुःखतः । यद्यहं तं विस्मरेयं न जाने किं भवेदिति ॥ १२०७॥ प्रियं स्मराम्यहोरात्रं तदर्थ न स कुप्यानि । महोपकारं मन्येऽहमिदं तेन कृतं मम ॥ १२०८॥ ``आवामभिन्नावि'' त्यक्तवा विना प्रेम प्रवर्तते । (Text missing) तत्कृत्यं (Text missing) ॥ १२०९॥ प्रियो मया सह स्थित्वा वियुज्याद्य जगाम । (Text missing) चन्द्रमाः ! ॥ १२१०॥

अधिकार १२२. दृष्टस्वप्नकथनम्

प्रियान्देशसहितः स्वप्नो यः समुपागतः । निद्रायां तस्य चातिथ्यं कीदृशं करवाण्यहम् ॥ १२११॥ नेत्रे निद्रावशं प्राप्ते स्वप्ने प्राप्तं प्रियं प्रति । कथं ``कृच्छेण जीवामी'' त्येतद् ब्रूयां विहेषतः ॥ १२१२॥ जाग्रद्दशायां यो नैव मयि प्रीतिं व्यधात् प्रियः । स्वप्ने वा दर्शनात्तस्य जीवाम्यत्र कथञ्चन ॥ १२१३॥ मयि जाग्रति यः प्रीतिं कामुको नाकरोन्मयि । स्वप्नेन स समानीतस्तत्न प्रीतिं करोम्यहम् ॥ १२१४॥ जाग्रद्दशायां यद् दृष्टं तदासीत् क्षणिकं सुखम् । अद्य स्वप्नगतानन्दो यः सोऽपि क्षणिकोऽभवत् ॥ १२१५॥ भुवि जाग्रदवस्थेयं सर्वदा न भवेद्यदि । तदा प्रियः स्वप्नदृष्टो मां वियुज्य न यास्पति ॥ १२१६॥ मयि जाग्रति संयुज्य यः क्रूरो नाकरोत् प्रियम् । स्वप्नो परं समागत्य मां कुतो व्यथयत्यसौ ॥ १२१७॥ मत्स्वप्ने कामुकः प्राप्य स्कन्धमारुह्य वर्तते । निद्रान्ते पूर्ववत्सोऽयं मम मानसमाविशेत् ॥ १२१८॥ अदृश्यं स्वप्नवेलायां तथा जाग्रद्दशास्वपि । प्रियं प्रीतिमकुर्वन्तं स्मृत्वा खेदयुताः स्त्रियः ॥ १२१९॥ ``त्याक्तवाऽस्मान् नायकः प्रायादि'' ति निन्दन्ति याः स्त्रियः । अविर्भवन्तं स्वप्ने तं न निन्दन्ति हि ताः किमु ॥ १२२०॥

अधिकार १२३. सायङ्कालदर्शनेन खेदः

संयुज्याथ वियुक्तानां नारोणां कामुकैः सह । प्राणभुग्यमरूपस्त्वं सायङ्काल ! विभासि मे ॥ १२२१॥ सायंसन्ध्ये ! अयि भ्रान्ते ! खिन्ना त्वं दृश्यसेऽधुना । तव प्रियो मत्प्रियवद् दयाशून्योऽभवत् किमु? ॥ १२२२॥ सुशीतला प्रसन्ना या सायं सन्ध्या पुरा बभै । सैवाद्य मम नैराश्यमृलकं खेदमातनोत् ॥ १२२३॥ प्रिये दूरं गते वध्यस्थलं घातकवत् स्वयम् । सायङ्कालः समागत्य मम प्राणान् हरत्ययम् ॥ १२२४॥ प्रातःकालेकृते कोऽयमुपकारो मया कृतः । सायङ्कालकृते कोऽयमपकारो मया कृतः ॥ १२२५॥ कामुकेन यदाऽहं तु न्यवसं प्रेमपूर्वकम् । सायङ्कालो व्यथां कुर्योदित्येतन्नाविदं पुरा ॥ १२२६॥ कामरोगाख्यकुसुमं प्रातः कोरकतां गतम् । मध्याह्ने पक्कतां प्राप्य सायं विकसति स्वयम् ॥ १२२७॥ सायङ्कालस्य तीक्ष्णस्य दूतो भूत्वा स्वयं किल । गोपहस्तगतो वेणुरायुधात्मा हिनस्ति माम् ॥ १२२८॥ चित्तक्षोभकरे तस्मिन् सायङ्काले समागते । यथाऽहं तद्वदन्येऽपि ग्रामीणाः खेदमाप्नुयुः ॥ १२२९॥ पत्युर्वियोगकालेऽपि स्थिताः प्राणाः, धनात्यये । गतं प्रियं विचिन्त्याद्य सायं निर्यान्ति देहतः ॥ १२३०॥

अधिकार १२४. अवयवसौन्दर्यहानिः

वियोगखेदं दत्वा मे दूरदेशं ययौ प्रियः । तं स्मृत्वा रोदनान्नेत्रे पुष्पैः स्यातां जितेऽधुना ॥ १२३१॥ (Text missing) करोदिति । वार्तामश्रुनिभान्नेत्रे विवर्णे वदतः किमु ॥ १२३२॥ पतिसंयोगसमये स्मन्धौ मोदेन वर्धितौ । कृशौ भूत्वाद्य विश्लेषं बोधयन्ताविव स्थितौ ॥ १२३३॥ स्कन्धौ नायकविश्लेषात् क्षीणौ शोभाविवर्जितौ । तदर्थ क्षीणहस्तभ्यां बभूवुर्वलयाश्च्युताः ॥ १२३४॥ स्कन्धौ विभ्रष्टवलयौ हीनशोभौ तथाविमौ । निर्दयस्य प्रियस्यास्य काठिन्यगुणमूचतुः ॥ १२३५॥ स्कन्धक्षयं ततो भ्रशं वलयानां निरोक्ष्य च । प्रियं निन्दन्ति कठिनं जनाः, खिन्नस्ततोऽस्म्यहम् ॥ १२३६॥ हे चित्त ! भुजयोः कार्श्यं निर्दयाय प्रियाय मे । विनिवेद्य ततो जातं महत्त्वं प्राप्यतां त्वया ॥ १२३७॥ परिष्यवज्य प्रियं हस्तो यदा तु शिथिलीकृतः । तदा वलयहस्तायाः भालमासित्तु निष्प्रभम् ॥ १२३८॥ आलिङ्गितायां कामिन्यां मध्ये वायुर्विशेद्यदि । तस्यास्तदा शीतनेत्रे स्यातां वैवर्ण्यसंयुते ॥ १२३९॥ प्रियायाः भालदेशस्थवैवर्ण्यं समुदीक्ष्य तु । तदीयनयनाक्रान्तवैवर्ण्यं प्राप खिन्नताम् ॥ १२४०॥

अधिकार १२५. मनस्येव कथनम्

दुःखरूपामयं हन्तुमेकं भेषजमस्ति चेत् । हे चित्त ! सम्यगालेच्य न ब्रूयाः किन्तु तत्तु मे ॥ १२४१॥ कामुके मयि चाप्रीते हे चित्त ! त्वं परं कुतः ? । स्मृत्वा तं दुःखमाप्नोषि भ्रान्तस्त्वं विजयी भवा ॥ १२४२॥ हे चित्त ! मय्युषित्वा त्वं स्मृत्वा तं खिद्यसे कुतः । खेदप्रदः प्रियो मां तु स्मृत्वा नायाति चान्तिकम् ॥ १२४३॥ हे मानस ! प्रियं (Text missing) ष्टुं मन्नेत्रे । इमे नेत्रे त्वया साकं नीत्वा गच्छ तदन्तिकम् ॥ १२४४॥ कामुको वाञ्छितोऽस्माभिः, अस्मान्नासौ वृणेतु वा । हे चित्त ! कथमस्माभिरयं त्यक्तुं हि शक्यते ॥ १२४५॥ त्वत्प्रियस्त्वां वियुज्याथ मिलेद्यदि तदा पुनः । रतिं न कुरुषे धैर्यात् पश्चात्कुप्यसि हे मनः ! ॥ १२४६॥ सच्चित्त ! त्यज कामं वा लज्जां वा त्वं परित्यज । तदेतदुभयं सोढुमेकदा नैव शक्नुयाम् ॥ १२४७॥ वियोगसमये नाथो नाकरोत् प्रीतिमित्यत्ः । खिन्नस्तमनुसृत्य त्वं चित्त ! यासि कुतो भ्रमात् ॥ १२४८॥ मन्मानस ! त्वयि सदा प्रिये तिष्ठति मामके । तमन्विष्य बहिः कस्मात् वृथा गच्छसि कुत्र वा ॥ १२४९॥ त्यक्त्वाऽस्मान् गतवन्तं तं प्रियं चित्ते निवेश्य । स्मृत्वा देहः कृशे भूत्वा शोभाविरहितोऽभवत् ॥ १२५०॥

अधिकार १२६. धैर्यहानिः

लज्जारूपार्गलोपेतं कवाटं धैर्यनामकम् । कामनामकुठारोऽय भिनत्ति शतधा किल ॥ १२५१॥ कामनात्मकवस्त्वेतत्, नूनं दाक्षिण्यवर्जितम् । यतो मदीयं चित्तं तद्रात्रावपि नियोजयेत् ॥ १२५२॥ काममन्तश्छादयित्तुं मदीयं प्रयते बहु । मामतीत्य तु तद्वेगात् निर्याति क्षुतवद्बहिः ॥ १२५३॥ धैर्यवानहमित्यासीदद्यावधि मतिर्मम् । किन्त्वद्यान्तः स्थितः कामो निष्क्रम्य प्राविशत् सभाम् ॥ १२५४॥ प्रियस्य विप्रयुक्तस्य पदानुगमनं विना । स्थातुं धैर्येण कामिन्यो न जानन्ति कदापि ताः ॥ १२५५॥ मद्गतः कामरोगोऽयमवाच्यमहिमान्वितः । विरक्तस्य प्रियस्यानुगमनं मे यतो मतम् ॥ १२५६॥ प्रियः प्रेम्णा समागत्य कुर्यान्नः प्रार्थिनं यदि । तर्हि लज्जाभिधं वस्तु नैव ज्ञानं भवेन्मम ॥ १२५७॥ स्त्र्वर्तिधैर्यसंज्ञाकप्राकारस्य विभेदनम् । वञ्चकप्रियनम्रोक्तिरूपसैन्येन शक्यते ॥ १२५८॥ प्रिये समागते त्यक्त्वा तमन्यत्नागमं क्रुधा । मच्चित्ते तेन संयुक्ते त्वलभे तेन सङ्गमम् ॥ १२५९॥ अग्निलग्रवसातुल्यं प्रियलग्नं द्रवेन्मनः । तादृक्चित्तयुता नार्यो वियुक्ताः स्युः कथं प्रियम् ॥ १२६०॥

अधिकार १२७. कामुकयोरन्योन्यव्यसनम्

प्रियगमपथं प्रेक्ष्य नेत्रे स्यातं च निष्प्रभे । गाताह्नां गणनात् स्त्रीणामङ्गुल्यः क्षीणतां गताः ॥ १२६१॥ त्यक्त्वा गतं प्रियं चाहं विस्मरेय यदि प्रिये ! । स्कन्धाभ्यां हीनशोभाभ्यां स्त्रस्ताः स्युर्वलयास्तदा ॥ १२६२॥ जयैषी धैर्यसाह्येन प्रियो देशान्तरं ययौ । अहमद्यापि जीवामि तदागमनकाङ्क्ष्या ॥ १२६३॥ ``अस्मान् विहाय गतवान् प्रत्येगच्छेत् प्रियोऽद्य सः । इति मत्वा मनो वृक्षशाखामास्थाय पश्यति ॥ १२६४॥ पश्येयं तु यथेच्छं तं प्रिये प्रत्यागते सति । तदा क्षीणभुजाभ्यां तु वैवर्ण्यमपयास्यति ॥ १२६५॥ एकदा मां समागच्छेत् मत्प्रियः, तदनन्तरम् । दुःखव्याधिर्यथा नश्येत् पिबेयं तत्प्रभां तथा ॥ १२६६॥ नेत्रतुल्यः कामुको मे यद्यागच्छेन्मदन्तिकम् । आलिङ्गनमुत त्यागो सम्भोगो वा तदा भवेत् ॥ १२६७॥ समाप्तसङ्गरो राजा जयतात् शत्रुमण्डलम् । सपत्नीका वयं कुर्मः सायं सन्ध्यामलङ्कृताम् ॥ १२६८॥ प्रत्यागन्तुं यद्दिनं तु निर्दिशेत् प्रोषितः प्रियः । वियुक्तायास्तदेकं तु दिनं सप्तदिनं भवेत् ॥ १२६९॥ भग्रचित्ता कामुकी सा जीवितान्तं व्रजेद्यदि । प्रियागमेन नो लाभः संश्लेषो वा भवेत् कथम्? ॥ १२७०॥

अधिकार १२८. अभिज्ञाननिवेदनम्

गुप्तेऽपि विषयेऽतीत्य निर्याते तव चक्षुषी । अन्तर्गतं रहस्यार्थमचिरान्मम वक्ष्यतः ॥ १२७१॥ वंशुतुल्यकरा या तु पूर्णसौन्दर्यशालिनी । तस्या प्रियायां लज्जाख्यस्त्रीधर्मः पूर्णतां गतः ॥ १२७२॥ आबद्धमणिरन्ध्रान्तःप्रसरत्सूत्रवद् ध्रुवम् । प्रियालावण्यमध्येऽपि स्यादभिज्ञानमुत्तमम् ॥ १२७३॥ प्रसूनकुट्मलान्तःस्थसौरभेण समं भुवि । कामिनीहास्यमध्येऽपि सूचना भाति काचन ॥ १२७४॥ मामुद्दिश्य तु कामिन्या सङ्केतो यः पुरा कृतः । स तु मद्यसनाधिक्यवारकौषधगार्भितः ॥ १२७५॥ प्रेमाधिक्येन चादौ यन्मेलनं, तदितः परम् । वियोगमूलकप्रेमत्यागचिह्ननिदर्शनम् ॥ १२७६॥ प्रियः कायेन बद्धोऽपि विश्लेषं मनसा ययौ । ज्ञात्वेदं वलयाः पूर्व मम हस्ताद्विनिस्सृताः ॥ १२७७॥ मां वियुज्य प्रियः पूर्वदिन एव जगाम सः । मत्काये किन्तु वैवर्ण्यमभूत् सप्तदिनात्पुरा ॥ १२७८॥ स्वीयस्कन्धौ स्ववलयान् स्वपादौ यद्ददर्श सा । तदेतद् भाविविश्लेषनिरूप कनिदर्शनम् ॥ १२७९॥ कामरोगं स्वनेत्राभ्यामुक्तवा स्त्रीभिश्च याचनम् । भवेत् स्त्रीत्वगुणस्यापि स्त्रीत्वधर्मप्रकल्पनम् ॥ १२८०॥

अधिकार १२९. सम्भोगत्वरा

तुष्टिं दर्शनमात्रेण मोदं च स्मरणात् ततः । कामार्तो लभते लोके न सुरासेवकस्तथा ॥ १२८१॥ तालपादपवत् कामो वृद्धे सति विशेषतः । वियिगो यववत्स्वल्पोऽप्यकार्यः कामुकैः सह ॥ १२८२॥ वक्कृत्य (Text missing) । अथापि तमदृष्ट्वा मे नेत्रे नावापतुर्मुदम् ॥ १२८३॥ वियुज्य तं प्रिय गन्तुमैच्छमादौ सखि प्रिये ! । मन्मनस्तत्त विस्मृत्य रन्तुं तेन सहागमत् ॥ १२८४॥ प्रिये दृष्टिं गते दोषान् तदीयान् विस्मराम्यहम् । अञ्जनालङ्कृतं नेत्रं शलाकां विस्मरेद्यथा ॥ १२८५॥ प्रिये दृष्टिपथं याते दोषस्तस्मिन्न दृश्यते । प्रियाऽदर्शनवेलायां गुणस्तस्मिन्न दृश्यते ॥ १२८६॥ बुध्वापि यत्नवैफल्यं विप्रलम्भं करोति सा । प्रवाहाकर्षणगुणं ज्ञात्वाऽप्येनं विशेद्यता ॥ १२८७॥ सुरापानाद् भवेद्धानिरिति ज्ञात्वापि मानवः । हर्षात् पिबेद्यथा तद्वत् तव वक्षः पुनर्वृणे ॥ १२८८॥ लोके कामसुखं पुष्पादपि मादवसम्युतम् । बुध्वा तत्त्वमिदं केचित्, लभन्ते फलमुत्तमम् ॥ १२८९॥ स्वयं पूर्व समागत्य परिष्वङ्ग च काङ्क्षती । यत्मया सङ्गता तच्च विस्मृत्य कलुषीकृता ॥ १२९०॥

अधिकार १३०. मनसि निर्वेदः

विस्मृत नः प्रियाधीनं वर्तते तस्य मानसम् । स्थित्वा त्वं मद्धशे चित्त ! न साह्यं कुरुषे मम ॥ १२९१॥ कामुको न वृणोत्यस्मानिति ज्ञात्वापि हे मनः । न स कुप्येदिति धिया त्वं प्रयासि तदन्तिकम् ॥ १२९२॥ मां विहाय यथेच्छं हि प्रयासि त्वं प्रियं प्रति । न सन्ति मित्राण्यार्तानामिति किं मन्यसे मनः ! ॥ १२९३॥ विप्रलम्भमकृत्वैव तेन भोगं तु वाञ्छसि । चित्त ! को वा त्वया सार्ध विचारं कर्तुमीहते ॥ १२९४॥ अप्राप्ते नायके तस्य प्राप्त्यर्थ, प्राप्त्यनन्तरम् । वियोगभीत्या चेत्येवं सर्वदा खिद्यते मनः ॥ १२९५॥ वियुक्तप्रियदोषाणां स्मरणावसरे सति । मां भक्षयति किं चित्तमितीव व्यसनं मम ॥ १२९६॥ विस्मर्तु कामुको येन मनसा नैव शक्यते । तादृङ्मूढमनोयोगात् लज्जां विस्मृतवत्यहम् ॥ १२९७॥ अप्रीतनायकोपेक्षा न युक्तेति विचिन्त्य तु । जीवनाशायुतं चित्तं सदा ध्यायति तद्गुणान् ॥ १२९८॥ स्वस्य दुःखे समायाते स्वाधीनं स्वीयमानसम् । स्वस्मै साह्यं न कुर्याच्चेत् के वान्ये साह्यकारिणः ॥ १२९९॥ स्वशस्थं स्वीयचित्तं बन्धुतां चेन्न पालयेत् । बन्धत्वपालनाभावो ह्यन्येषां युज्यते किल ॥ १३००॥

अधिकार १३१. विप्रलम्भः

वियुक्तकामुकप्राप्तदुःखं द्रष्टुमहं वृणम् । तस्मात् तमपरिष्वज्य वियुक्ता भव मत्प्रिये ! ॥ १३०१॥ व्यर्थोऽमितवियोगः स्यात् लवणामितभोज्यवत् । मितो वियोगः स्वाद्यः स्यात् मितं च लवणं यथा ॥ १३०२॥ वियोगदुःखादुन्मोच्य यः स्त्रियं न परिष्वजेत् । दुःखितस्य पुनर्दुःखदात्रा तुल्पो भवेदयम् ॥ १३०३॥ गातां स्त्रियं समाश्वास्य मेलनं न क्रियेत् चेत् । स्वतो म्लानलतायास्तन्मूलविच्छेदवद्भवेत् ॥ १३०४॥ गुणशीलनराणां तु तद्धि लावण्यमुच्यते । कुसुमाक्ष्यङ्गनाचित्ते या विश्लेषविशेषता ॥ १३०५॥ विना संश्लेषविश्लेषौ कामः स्याद्रसवर्जितः । अतिपक्कापक्वफले दृश्येते विरसे यथा ॥ १३०६॥ किं सङ्गमसुख पश्चात् स्यान्न वेति विचिन्तनात् । सुखमूलवियोगेऽपि दुःखमेकं प्रदृश्यते ॥ १३०७॥ अस्मत्कृते प्रियः खिद्येदिति मत्वापि या प्रिया । न खिद्येत्तादृशस्त्रीणां निन्दया किं प्रयोजनम् ॥ १३०८॥ छायामाश्रित्य यत् तिष्ठेत् तज्जलं रससंयुतम् । प्रेमपूर्णनरैः साकं विप्रलम्भो रसप्रदः ॥ १३०९॥ वियोगेन कृशां नारीं यो निराकुरुते प्रियः । तेनापि सङ्गं चित्तमाशया वाञ्छति ध्रुवम् ॥ १३१०॥

अधिकार १३२. विप्रलम्भरहस्यम्

त्वद्वक्षः सकलस्त्रीभिः स्वनेत्राभ्यां यथेच्छया । यतो दृष्ट्वाऽनुभूतं तत्, नाहं भोक्तुं वृणे प्रिये ! ॥ १३११॥ दीर्घायुष्मानिति वचः क्षुतादौ कथ्यते जनैः । श्रोतुमाशीर्वचो मत्तः प्रियः क्षुतमथाऽकरोत् ॥ १३१२॥ ``प्रदर्शनार्थमन्यासां त्वयैतन्मण्डनं कृतम्'' । इति मालाभूषिताङ्ग प्रियं दृष्ट्वा चुकोप सा ॥ १३१३॥ ``सर्वस्मादप्यहं प्रीतिविशेषं त्वयि च न्यधाम्'' । इति प्रियवचः श्रुत्वा का वाऽन्येति चुकोप सा ॥ १३१४॥ ``इह जन्मनि विश्लेषो न स्यादि'' त्यवदं प्रियाम् । ``भाविजन्मनि विश्लेषो भवेद्वे''त्यरुदत् प्रिया ॥ १३१५॥ ``त्वं मया तु स्मृते'' त्युक्त, ``विस्मृतस्य हि संस्मृतिः । तेन मां विस्मृतोऽसि त्वम्''इति तत्याज मां प्रिया ॥ १३१६॥ क्षुतं कृतं मया, सद्य आशिषं प्राह मां प्रिया । ``कां स्मृत्वा क्षुतमायात'' मिति क्रुद्धा रुरोद सा ॥ १३१७॥ ``कां त्वां स्मृतवतीत्यंशो न ज्ञातः स्याद्यथा मया । तथा कर्तु क्षुतं रुद्रं र्वय''त्युक्त्वा रुरोद सा ॥ १३१८॥ वियोगेऽपि समाश्वास्य कृता प्रीता मया प्रिया । ``स्त्र्यन्तरेऽपि त्वया चेत्थं कृतमि''त्यरुदत् प्रिया ॥ १३१९॥ प्रियाङ्गशोभावैशिष्टयं सम्यक्पश्याम्यहं यदा । ``मय्यीक्षसे कया साम्यम्''इति क्रुद्धयेत् तदा प्रिया ॥ १३२०॥

अधिकार १३३. विप्रलम्भसुखम्

निर्दुष्टेन प्रियेणापि विप्रलम्भो भवेद्यति । तदस्मासु विशेषण प्रेमाधिक्यप्रदायकम् ॥ १३२१॥ विप्रलम्भेन सञ्जातमत्यल्पं व्ससनं भुवि । नायकप्रेमविच्छेदकारकं चापि सम्मतम् ॥ १३२२॥ जलं भुम्यं यथा शोलष्टं तथा स्निग्धप्रियैः सह । जाताद्वियोगादन्यः किं देवलोको भवेदिह ॥ १३२३॥ दृढभाविपरिष्वङ्गहेतुविश्लेषकर्मणि । मन्मनोभञ्जिका काचित् सेना सञ्जायते किल ॥ १३२४॥ अकारणं वियुक्तस्य कामिनीमृदुहस्तयोः । स्पर्शभाग्यविहीनस्य हर्षः काश्चिद् भवेद् ध्रुवम् ॥ १३२५॥ कामुकस्य तु विश्लेषः संश्लेषादपि मोददः । भुक्तं जीर्ण सुखं दद्यात् यथा वै भाविभोजनात् ॥ १३२६॥ पराजितो विप्रलम्भे यः स्यान म विजयी मतः । भाविसंश्लेषवेलायां तत्त्वमेतत् स्फुटं भवेत् ॥ १३२७॥ भालस्वेदकरं भोग कृत्वा या सुखमन्वभूत् । वियुज्यानया सुख तद्वत् किमह प्राप्नुयां पुनः ॥ १३२८॥ विप्रलम्भं पुनः शोभायुतेयं कुरुतात् प्रिया । संप्रार्थ्य ?त् कोपशान्त्यै मम रात्रिर्विवर्धताम् ॥ १३२९॥ विप्रलम्भात् कामभोगः सुख प्राप्नोति भूतले । ततो जाताच्च संश्लेषात् विप्रलम्भः सुखं व्रजेत् ॥ १३३०॥ इति गान्धर्वविवाहाध्यायः सम्पूर्णः । इति तिरुक्कुरळ् समाप्ता । अनुक्रमणिका १. ईश्वरवन्दनम् २. वृष्टिमहिमा ३. यतिवैभवम् ४. धर्मवैशिष्टयम् ५. गार्हस्थ्यम् ६. पत्नी ७. पुत्रभाग्यम् ८. प्रीतिः ९. अतिथिसत्कारः १०. मधुरालापः ११. कृतज्ञता १२. ताटस्थ्यम् १३. निग्रहशीलता १४. सदाचारसम्पत्तिः १५. परदारपराङ्मुखता १६. क्षमा १७. अनसूयता १८. अलोभः १९. परोक्षनिन्दावर्जनम् २०. वृथालापनिषेधः २१. दुष्कर्मभीतिः २२. लोकोपकारिता २३. दानम् २४. कीर्तिः २५. दया २६. मांसवर्जनम् २७. तपः २८. दुराचारः २९. चौर्यनिषेधः ३०. सत्यवचनम् ३१. क्रोधविजयः ३२. अपकारत्यागः ३३. अवधः ३४. अनित्यता ३५. संन्यासः ३६. तत्त्वज्ञानम् ३७. निराशा ३८. विधिः ३९. राजमहिमा ४०. विद्या ४१. विद्याविहीनः ४२. श्रवणम् ४३. ज्ञानसम्पत्तिः ४४. दोषषट्कनिराकरणम् ४५. महत्साह्यम् ४६. दुःसाङ्गत्यवर्जनम् ४७. विमृश्यकारिता ४८. बलपरिज्ञानम् ४९. कालपरिज्ञानम् ५०. स्थलपरिज्ञानम् ५१. विमृश्यविश्वसनम् ५२. विमृश्य कार्यकरणम् ५३. बन्धुप्रीति ५४. अविस्मरणम् ५५. नीतिपरिपालनम् ५६. अनीत्यापालनम् ५७. निर्भयत्वम् ५८. दाक्षिण्यम्

अधिकारः ५९. चारप्रेषणम्

अधिकारः ६०. उत्साहसम्पत्तिः

अधिकारः ६१. आलस्याभावः

अधिकारः ६२. प्रयत्नशीलत्वम्

अधिकारः ६३. औत्सुक्यम्

अधिकारः ६४. अमात्यः

अधिकारः ६५. वाग्मित्वम्

अधिकारः ६६. क्रियाशुद्धि

अधिकारः ६७. क्रियादार्ढ्यम्

अधिकारः ६८. कार्याचरणप्रकारः

अधिकारः ६९. दौत्यम्

अधिकारः ७०. राजसेवा

अधिकारः ७१. इङ्गितपरिज्ञानम्

अधिकारः ७२. सभास्वरूपम्

अधिकारः ७३. सभाकम्पविहीनता

अधिकारः ७४. देशः

अधिकारः ७५. दुर्गः

अधिकारः ७६. अर्थर्जनोपायः

अधिकारः ७७. सैन्यप्रयोजनम्

अधिकारः ७८. सेनादार्ढ्यम्

अधिकारः ७९. स्नेहः

अधिकारः ८०. स्नेहपरीक्षा

अधिकारः ८१. प्राक्तनस्नेहः

अधिकारः ८२. निर्गुणजनमैत्री

अधिकारः ८३. आन्तरस्नेहशून्यता

अधिकारः ८४. मौढ्यम्

अधिकारः ८५. अल्पज्ञत्वम्

अधिकारः ८६. भेदबुद्धिः

अधिकारः ८७. शत्रुनिर्णयः

अधिकारः ८८. विरोधतत्त्वपरिज्ञानम्

अधिकारः ८९. आन्तरवैरम्

अधिकारः ९०. महात्मनिन्दानिराकरणम्

अधिकारः ९१. भार्यानुवर्तनम्

अधिकारः ९२. पण्याङ्गना

अधिकारः ९३. मद्यपाननिषेधः

अधिकारः ९४. द्यूतः

अधिकारः ९५. औषधम्

अधिकारः ९६. कुलीनत्वम्

अधिकारः ९७. मानम्

अधिकारः ९८. महत्त्वम्

अधिकारः ९९. विशिष्टगुणसम्पत्तिः

अधिकारः १००. अनुसृत्य प्रवर्तनम्

अधिकारः १०१. निरर्थकं वित्तम्

अधिकारः १०२. लज्जशीलता

अधिकारः १०३. कुलगौरवक्षणम्

अधिकारः १०४. कृषिकर्म

अधिकारः १०५. दारिद्र्यम्

अधिकारः १०६. याचना

अधिकारः १०७. याचनाभीतिः

अधिकारः १०८. नीचत्वम् १०९. दर्शनंवितर्कश्च तिरुक्कुरळ् ११०. भावपरिज्ञानम् १११. सम्मोगसुखम् ११२. लावण्यमहिमा ११३. प्रेमप्रभावकथनम् ११४. निर्लज्जात्वकथनम् ११५. अपवादकथनम् ११६. वियोगसहनम् ११७. वियोगदुःखानुभवः ११८. नायकदिदृक्षामृलकखेदः ११९. वैवर्ण्यमूलकव्यसनम् १२०. वियोगव्यसनाधिक्यम् १२१. अनुभृतसुखं स्मृत्वा रोदनम् १२२. दृष्टस्वप्नकथनम् १२३. सायङ्कालदर्शनेन खेदः १२४. अवयवसौन्दर्यहानिः १२५. मनस्येव कथनम् १२६. धैर्यहानिः १२७. कामुकयोरन्योन्यव्यसनम् १२८. अभिज्ञाननिवेदनम् १२९. सम्भोगत्वरा १३०. मनसि निर्वेदः १३१. विप्रलम्भः १३२. विप्रलम्भरहस्यम् १३३. विप्रलम्भसुखम् Source: Thiruvalluvar's Thirukkural in Sanskrit Slokas By S. N. Srirama Desikan, Siromani With an Introduction by Dr. C.P. Ramaswamy Aiyar

% Text title            : ThirukkuraL by Thiruvalluvar Nayanar
% File name             : tirukkuraL.itx
% itxtitle              : tirukkuraL sa.nskRitAnuvAdaH 1 (tiruvalluva nayanAr, shrIrama deshikan)
% engtitle              : tirukkuraL
% Category              : major_works, upadesha
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Thiruvalluvar nayanAr, Sanskrit translation S.N. Srirama Desikan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : K.T. Shahnaz, NVK Ashraf
% Proofread by          : K.T. Shahnaz, NVK Ashraf
% Indexextra            : (All Translations, Scans English 1, 2, 3, 4, Sanskrit-Doha-Hindi, Articles, info))
% Latest update         : August 28, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org