॥ उज्जयिनी काव्यम् ॥

प्रथमः सर्गः एकान्ततायाः कारागृहे सन्ध्या गता मुहुरथोज्जयिनीसकाशाद् विन्ध्याद्रिसानुगतकाननरम्यवीथ्या । कस्माद् भवानिह समागत एकतो मे जिज्ञासया सह मयाप्यनुगम्यमानः ॥ १॥ दृष्ट्वा सुतं विरहतः पुनरागतं सो- म्यागम्यतामिति समार्द्रवचो जनन्याः । श्रुत्वा भवानिह मयूरशतस्य कण्ठा- दुद्भिन्नकीचकमनःक्षततो विहङ्गाद् ॥ २॥ उद्गास्यतः कुटजशाखिगतादरण्य- गीतोपमं समवधाय विराजते किम् । यात्रा सुदीर्घविपुलेयमहो समाप्ये- त्यालोच्य किं झटिति तिष्ठसि कातरस्त्वम् ॥ ३॥ युग्मकम् आलोलमाकलितमारुतदोलनोत्क- शाखोज्ज्वलद्बकुलमूलशिलातलेऽस्मिन् । क्षीणो निषद्य च भवान् समपोहितुं दू- राध्वक्लमौग्र्यमलसं परितो ददर्श ॥ ४॥ तावत्समाप्य गगने दिनदीर्घयात्रां सोपानतः समवरोहति भानुमांश्च । दूरे तु माळवमथाहितमौनमाप्त- मेघस्वरूपमिव भात्यनुचक्रवाळम् ॥ ५॥ श्यामाग्रशिष्टकनकोज्ज्वलपीनभूमि- वक्षोजतुल्यमतितुङ्गगिरिर्विभाति । स्रस्तांशुकाभमिह तस्य तटे लसन्ति चूताः सपल्लवकरा निबिडा मनोज्ञाः ॥ ६॥ आरादहो जनकजाप्ळवपुण्यतीर्थ- स्नानार्द्रमारुतसुखोछ्वसितानि वान्ति । शान्तेऽपि रामगिरिपुण्यतमाश्रमेऽस्मिन् तान्तोऽस्त्यशान्तहृदयश्च भवान् निषण्णः ॥ ७॥ एकान्तविक्ळबमुहूर्तनिवारणार्थ- मन्यस्य सन्निहितताप्यलमित्यचिन्ति । छायां विहाय विवृते मयि तिष्ठतीह वेगाद् भवानपि ससम्भ्रममन्वपृच्छत् ॥ ८॥ कस्त्वं दिदृक्षति भवान् गहने कमस्मि- न्नेकान्तबन्धनगृहे विजने निगूढम् । अज्ञातमेव सविशङ्कमिमं निरीक्ष्य तिष्ठन्तमञ्जलियुतोऽस्मि भवन्तमारात् ॥ ९॥ उक्तं मयाथ - पथिकोऽहमनादिकाल- वीथ्यामिहात्मनि निधाय तु पूजये त्वाम् । भीतोऽस्म्यहं च सततं परिपूजकेभ्य- स्तत्रापि राजकृतपूजनमापदेव ॥ १०॥ विश्वास्यतां मयि न मेऽस्त्यधिकारपूजा निःस्वोऽस्मि ते सुकवितापरिपूजकोऽहम् । प्रस्थाय तत्र नगरान्महितोज्ज्वयिन्याः पद्भ्यां चरंस्त्वमिह रामगिरिं प्रविष्टः ॥ ११॥ युष्मत्प्रयाणमिदमेव किमर्थमेत- दस्वास्थ्यमन्तरिह मां नयतीति सत्यम् । अस्वास्थ्यमन्तरिति मां प्रति किन्नु तावान् बन्धो मिथः क इति वां वद मां यथार्थम् ॥ १२॥ वक्तुं यथावदहमप्रभुरप्यथैतद् भावस्थिरं च जननान्तरसौहृदं स्याद् । कालातिवर्तिकवितानिचयः स मादृक् - पान्थस्य कालपथसञ्चरतोऽस्ति पथ्यः ॥ १३॥ क्ळेशातितप्तमथनादुतिता सुधा नु नैजात्मशोणितभवा तव काव्यपात्रे । तत्पानजन्यलहरीधृतदेवभाव- मर्त्येषु कश्चिदहमप्यथ मां वदाशु ॥ १४॥ कस्मात्तवेह विजने भवति प्रवास श्चैकान्तसीमनि कुतो ह्यभयङ्गतस्त्वम् । एकान्तता मम हितेत्यहिता न सापि निर्बन्धिता यदि सुधापि भवेन्नु तिक्ता ॥ १५॥ यन्मर्त्यजन्मसहजा त्वसहायतैव सत्यं तदास्यपटविश्ळथिता मुहूर्ताः । निश्शब्दमेव गळितास्तदनु प्रशान्त मस्वस्थितोऽप्यधिकतः परिपृछसीत्थम् ॥ १६॥ कारागृहं च मयि केनचिदाज्ञयेय मारोपिता विजनतेति हि मन्यसे किम् । सत्यं क्षमस्व सदयं महितोज्जयिन्यां सार्वत्रिकं सुविदितं ननु चैवमेव ॥ १७॥ राजप्रकोपविषयः सुकविर्बहिष्कृ तोऽभूदिति श्रुतिरथात्थ च कोऽपराधः । जाने न किञ्चिदपि सूक्ष्मतया तथापि वार्ताः श्रुतास्त्विह भवान् निजसोदरी च ॥ १८॥ प्रेमाकुलाविति नृपः क्रुधयादिदेश चैकान्ततां किल कवे तव वर्षभोग्याम् । सर्पेण दष्ट इव हा सहसोत्थितोऽति क्षुब्धस्त्वमूचिथ गिरः स्वगतस्वरूपाः ॥ १९॥ युग्मकम् राजस्वसुः प्रणयिता मम कोऽपमानो जानन्ति किं कविमनोऽप्यधिकालिदासम् । को वापमान इति किं प्रणयोऽपमानः क्षोभोऽयमन्तरिह तत्स्मरणात् कुतो वा ॥ २०॥ स्वर्गप्रभावलयितामनुचक्रवाळ रेखं विलोकयति वोज्जयिनीं मनोज्ञाम् । अत्युत्कटव्यथमिह स्थितवानथ त्व मुन्मत्तवद्वदसि वाचिकमेवमुच्चैः ॥ २१॥ स्निग्धोऽहमुज्जयिनि हा त्वयि किन्तु नैव त्वत्प्रोज्ज्वलत्प्रमदपुष्पवनीषु नैव । कामाकुलालुळितनेत्रचयेषु नापि लज्जविहीनमदलोभनपुञ्जितेषु ॥ २२॥ सर्वं मया विगणितं तृणवत् परन्तु दुःखं व्यधा हृदि ममात्यपमानजन्यम् । कस्मात्त्वमुज्जयिनि रागवती जनेऽस्मि न्नासीः किमेतदिहजन्मनि वक्ष्यसि त्वम् ॥ २३॥ आत्मातपप्रमथितानि च तद्वचांसि सम्मूर्च्छितोत्किरणका भवति त्रिसन्ध्या । खद्योतराजिरिह पर्णततौ प्रदीपं प्राकाशयद्भुवि तते गगने च ताराः ॥ २४॥ क्षोणीधरस्थकटकावृतचूतवाटे श्यामाभवीचिनिकराः शिथिलीभवन्ति । गाधेतरोष्णपरिवाहगणोपरि प्र शान्ताब्धिवत् कविरिहात्मपदे विभाति ॥ २५॥ सान्त्वोक्तिभिर्न हि कथञ्चन शुष्कभूतो बाष्पाम्बुबिन्दुरथ सञ्ज्वलतीह जीवे । अन्ते परस्परमहो परिवर्धमानं मौनं विभञ्जयितुमेवमहं त्ववोचम् ॥ २६॥ साक्षीकुरुष्व सदयं भवदात्मताप सन्तप्तसत्यतपनस्य च मामपि त्वम् । शश्वद्भविष्यति पुरी न च विक्रमार्क भूपालकेन पुनरुज्जयिनी त्वयैव ॥ २७॥ त्यक्त्वा पुरं तदधिकोज्ज्वलमत्र कस्मा देको भवान् विजनरामगिरिं गतोऽभूः । गास्यामि तां तदनु भाविपरम्परार्थ- मुग्रापवाददळितामिह सत्यगाथाम् ॥ २८॥ एवं भवानवधिहीनसुदीर्घदीर्घ- कालाख्यदुर्गमविशालमहापथेन । गच्छन्तमध्वगमिमं कविपूजकं स- दाशीरनुग्रहगिरा मुदितं कुरुष्व ॥ २९॥ क्षोणीध्रसानुगतचूततरूत्करेषु गन्धं प्रसारयति पल्लवकुड्मळानि । पुष्पाणि पूरितकराञ्जलिकानि सन्ति पुष्पान्तरप्रसृतरेणुभिरात्तगन्धैः ॥ ३०॥ स्वप्नावलीमधुघटैरृतुराजयात्रा सत्कारभोजनमहोत्सव आविरस्ति । एतत्परं विपरिणाममनोहरास्ते ग्रीष्मर्तुवासरगणाः परिवर्धयन्ति ॥ ३१॥ ज्ञात्वा न किञ्चिदिह यत्परिवर्तते तत् सर्वं स्थितोऽस्मि निकटे तव जागरूकः । काव्यं तदालिखसि मे हृदयावबोध- भूर्जत्वचि प्रवितताखिलभावरम्यम् ॥ ३२॥ काव्यं च तद्विवृतमेव पठामि सम्यग् भूयोऽप्यहं हृदयशोणितचर्चितार्द्रम् । कालश्च तन्निशमनार्थमुपैति भावि- कालोऽपि दत्तहृदयः श्रवणेच्छुरास्ते ॥ ३३॥
द्वितीयः सर्गः प्रथमकुड्मळाः एकाकी स नदीतीरे मूले वटतरोरधः । भूर्जपत्रे कृशे किञ्चित् स्मारं स्मारं लिखन् स्थितः ॥ १॥ स्फुटति प्रथमं चूतकुसुमे ह्यृतुमङ्गळे । मणिभृङ्ग इवास्मिन् किं भ्रमत्यस्य विलोकितम् ॥ २॥ प्रचण्डसूर्यसन्तप्तश्चन्द्रिकाशाप्रवर्धकः । दिनान्तरमणीयः किं निदाघोष्णस्तपोज्ज्वलः ॥ ३॥ निजात्मनः किमूष्मा किं तरुणारुणकामितम् । लिलेख भूर्जपत्रेऽस्मिन्नर्धबोधोऽयमद्य किम् ॥ ४॥ युग्मकम् तस्मिन्नतिमृदुश्रुत्या मधुरं गायति क्षणम् । हृत्तोषमधुबिन्दूनामास्वादनमभूत् किमु ॥ ५॥ अन्यस्य कस्यचित् कर्णे तदालापाय मन्त्रवत् । अकामयत् किं पक्षी चेद् गायेद् वीक्ष्य विहायसम् ॥ ६॥ शृणोति गायेत् पक्षी चेन्नादलक्ष्यं नभः सदा । शृणोति को वा सदयं तदुक्तं हितसुन्दरम् ॥ ७॥ स्मृतौ स्वगुरुनाथस्य तेजोरूपं विभाति किम् । अस्तु ते शुभमित्युक्त्वा यो मे मूर्ध्नि स्पृशन् स्थितः ॥ ८॥ आश्रावयन् मां यः साममन्त्रं मन्द्रगभीरकम् । दर्शने गरुडोऽप्यन्तरत्यन्तार्द्रमनाश्च यः ॥ ९॥ युग्मकम् पठने नावधानेन कदाचित् गुरुसन्निधिम् । त्यक्त्वास्मिंस्तटिनीतीरे सायंकाले समागते ॥ १०॥ यदत्र माळवग्रामे धरासौन्दर्यधारया । ऋतुलास्यविलासैश्च हृतमानसमास्थितम् ॥ ११॥ यत्पुरा यत्र कुत्रापि चरन्तं शिष्यमञ्जसा । नेतुं गुरोर्नियोगेन मित्रेणैकेन चागतम् ॥ १२॥ महाप्रकृत्यात्मपाठशालां सन्त्यज्य सत्वरम् । आचार्यसन्निधानं समादरेण गतं च यत् ॥ १३॥ स्खलद्गतिकपादाभ्यां सन्तप्तमनसा सह । गुरुकोपानलज्वालादहनार्थं यदास्थितम् ॥ १४॥ कठोरदण्डदानार्थमाज्ञापयति यत्तथा । प्रशिक्षितेषु सूक्तेषु पाठमर्थं च कस्यचित् ॥ १५॥ वक्तुं क्रमाद्यदाचार्येणाज्ञापितमथादरात् । पाठश्चार्थश्च सुस्पष्टावुक्तावुच्चैश्च यद् द्रुतम् ॥ १६॥ प्रतप्तप्रस्तराद् गैरेयामोदप्रसरो यथा । आचार्येण तदा वात्सल्यामृतं वर्षितं च यत् ॥ १७॥ माळवस्याभिमानस्त्वं भवेति परितोषतः । उदितं यच्च कारुण्यान्मूर्ध्नि विन्यस्य पाणिना ॥ १८॥ तत्सर्वं स्मरणे भाति लिखितं यदिहाखिलम् । तद् द्रुतं गुरुवर्यस्य सन्निधौ वाचयामि किम् ॥ १९॥ कुळकम् समस्यापूरणं दृष्ट्वा तमाह गुरुरेकदा । विजेष्यते कदाचित्ते सूक्तिरुज्जयिनीमपि ॥ २०॥ आशीर्वादातिरिक्तोऽर्थस्तस्य दृष्टो न केनचित् । आचार्यस्य क्रान्तदृष्टेर्वाचमर्थोऽनुधावति ॥ २१॥ मनसः स्मृतिकोणेऽस्मिन् स्वर्णसिंहासनोपरि । मृत्यतीतयशोरूपो विभात्यद्याप्यसौ गुरुः ॥ २२॥ अथालिखत्यसौ नत्वा मनसा पादयोर्गुरोः । प्रकृत्याः परिणामिन्या वर्षारम्भं पदैः क्रमात् ॥ २३॥ मेघद्विपैश्च विद्युद्भिर्ध्वजैश्च ध्वनिमर्दळैः । वर्षाकालः कामिचित्तहर्षं वर्धयतीति यत् ॥ २४॥ वलाहकः श्रोत्रमनोहरारावस्तृषाजलम् । सन्तप्तेभ्यश्चातकेभ्यो वृष्ट्वा मन्दं प्रयाति यत् ॥ २५॥ सौदामन्या गुणं कृत्वा शक्रचापं दधद् द्रुतम् । प्रवासिजनहृद्भेदि धारापातं करोति यत् ॥ २६॥ प्रोत्थितैः कन्दलीजालैर्वैदूर्याभैस्तृणाङ्कुरैः । इन्द्रगोपैश्चोज्ज्वलिता भाति यच्च वसुन्धरा ॥ २७॥ यद् विकल्प्य द्रुमलताः सङ्घर्षेणावरोहणे । तत्सुगन्धसमास्वादे भागभाजौ घनानिलौ ॥ २८॥ बालार्जुनप्रसूनानि नवकेसरपल्लवाः । केतकीसूचयः श्यामश्वेतारुणसुमान्यपि ॥ २९॥ वाराङ्गनानामभवन् वर्णभूषायितानि यत् । तत्सर्वं चित्रितं तेन भूर्जपत्रेषु सांप्रतम् ॥ ३०॥ कुळकम् जाज्वल्यमानग्रीष्मायां वाचि किं कन्दळोदयः । उष्णतप्तप्रवाहायां वाचि शीतद्रवः किमु ॥ ३१॥ मृद्गन्धो वा वचसि किं नूतनासारशीकरे । वर्षर्त्वालिङ्गने मह्याः किमेष पुळकोद्गमः ॥ ३२॥ ऋतुस्नानार्द्रवसना प्रसिद्धारम्यकैशिका । लज्जावनम्रा काचित् किं माळवग्रामकन्यका ॥ ३३॥ कया वा प्रेरितश्चैवमस्मिन् पत्रे लिखत्यसौ । तस्मिन्नुच्चैः पठत्यारात् तिष्ठन्ती का सविस्मयम् ॥ ३४॥ न पश्यन्त्यपि पश्यन्ती किञ्चित्कौतुकमद्भुतम् । अभूच्च तूष्णीं तिष्ठन्ती सा किञ्चित् प्रष्टुमुत्सुका ॥ ३५॥ युग्मकम् ये सन्त्युदयनप्रेमकथाकथनकोविदाः । तेषां ग्रामीणवृद्धानां मुख्यस्येयं प्रियात्मजा ॥ ३६॥ त्रियामासत्रगोष्ठीषु यात्रिकानां निरन्तरम् । पुरावृत्तसमाख्यानरसिकस्य सुवाग्मिनः ॥ ३७॥ विधुरग्रामवृद्धस्य निधितुल्येयमाबभौ । मात्रभावमहादुःखमज्ञात्वा वर्धिता च या ॥ ३८॥ पश्यन्ती वल्लरीवृक्षान् निजैकोदरसोदरान् । कुशलोक्तीर्वदन्ती या डयतो नीडजानपि ॥ ३९॥ नानल्पं वक्ति या किन्तु स्वीयवाच्यातिरिक्ततः । यन्नेत्रहृदयस्योक्तिः स्पन्दते तटिदुज्ज्वला ॥ ४०॥ वातेरितदलच्चूतफले पतति या द्रुतम् । सुगन्धि तद् गृहीत्वा प्रदातुं निश्शब्दमुत्सुका ॥ ४१॥ किं ते नामेत्येकदा या परिपृष्टा निरुत्तरम् । लिखन्त्यासीद् भूतलेऽस्मिन् चरणाङ्गुलिभिर्मुहुः ॥ ४२॥ परुषैः पिङ्गलैश्चापि मृत्पिण्डैर्न्निर्मिताद् गृहात् । बहिरागत्य मन्दं या निकटे तस्य वर्तते ॥ ४३॥ पत्रे लिखितमावृत्य पठनेनोच्चकैः स्वयम् । रसमानं तं निरीक्ष्य सा तिष्ठति सकौतुकम् ॥ ४४॥ कुळकम् वर्षाकालो यथा कान्तो वधूचिकुरराजिषु । जातीसुमं च बकुळमालां धारयतीति यत् ॥ ४५॥ नीरमौक्तिकहारेण रोमराजिश्च राजिता । कदंबकुसुमैश्चारु कर्णभूषायितं च यत् ॥ ४६॥ तत्सर्वं वर्णयित्वोच्चैर्गायत्यस्मिन् तया स्थितम् । अर्थस्य वर्णरेणूनां सश्रद्धादानकृद् यथा ॥ ४७॥ निष्कलङ्कमुखात् प्रश्नः समुदेतीदृशो द्रुतम् । न केनापि श्रूयमाणमुच्यते भवता किमु ॥ ४८॥ मया यदुच्यते सर्वं त्वया तच्छ्राव्यमेव किम् । इत्येवमुक्त्वा शान्तोऽयं सुस्मितं कृतवान् मृदु ॥ ४९॥ असत्यमित्युचूषीवासत्यं तत्स्वदतीव सा । प्रसन्नगण्डवदना सलज्जस्मितमास्थिता ॥ ५०॥ नखक्षतानभिज्ञातनवपल्लवसन्निभा । अनाघ्रातप्रसूनाभा यदा सा निकटे स्थिता ॥ ५१॥ तदासौ स्मृतवान् सेयं माळवस्य प्रियात्मजा कस्यचिच्छैवलावीतलावण्यस्य सरोरुहम् ॥ ५२॥ युग्मकम् उद्यानवल्लिभिर्वन्दनीया किं वनवल्लिका । विभूषणविहीना किमुमा किं भूमिकन्यका ॥ ५३॥ मृगशाबैरेधिता किं मनोज्ञा मुनिकन्यका । मनस्यस्याश्चित्रमेवं बहुधा परिवर्तते ॥ ५४॥ न किञ्चित् पदमुक्त्वा सा मन्दं मन्दं पदान्यधात् । न किञ्चित् सक्तमप्यङ्घ्रौ किञ्चित् सक्तमिवाकुला ॥ ५५॥ निवृत्तगमना तिष्ठत्यन्वेषणपरायणा । नित्यदृश्यं किं तदक्षि किमद्येयमपूर्वता ॥ ५६॥ ताते कथाः कथयति परितो निहिता जनाः । सर्वं विस्मृत्य तास्वेव लीनचित्ता भवन्ति यत् ॥ ५७॥ तत्तया दृष्टमिष्टश्च पौराणिककथाश्रवः । तस्मादलब्धश्चानन्दः कथं लभ्यो भवेदितः ॥ ५८॥ युग्मकम् पल्लवाढ्यवटस्यार्द्रच्छायायामुपविश्य सः । पत्रेषु यल्लिखत्येददज्ञातं किल यद्यपि ॥ ५९॥ उच्चारितं तच्छ्रुत्वा किमपूर्वाह्ळाद ईदृशः । किन्नु चन्द्रोदयं दृष्ट्वा समुद्रोद्वृद्धिरीदृशी ॥ ६०॥ युग्मकम् निदाघतप्ते कस्मिंश्चिन्निष्कळङ्कमनस्यपि । आद्यमेघासारलेशेनार्द्रहर्षः किमीदृशः ॥ ६१॥ शरत्तथा च हेमन्तशिशिरौ च महीतले । सर्वान् चारुतरश्रीकान् कुर्वाणो मधुरेव च ॥ ६२॥ आविर्भावतिरोभावावेषां लिखति पत्रके । तस्मिन् वटद्रुशाखायां विद्रुमोऽभूद्धरिन्मणिः ॥ ६३॥ युग्मकम् प्रभातेऽद्यापि बालातपोत्तरङ्गापगारवे । माळवस्य वसन्तर्तुलावण्यं पश्यतो मम ॥ ६४॥ कार्यकारणसंबन्धं ज्ञातुं येषामसाध्यता । अस्वास्थ्यान्यात्मनोऽगाधतायां जाग्रन्ति तानि किम् ॥ ६५॥ युग्मकम् पश्चिमाभिमुखीभूतग्रामवीथ्यां निरन्तरम् । पार्श्ववृक्षवितानेषु सम्मिळन्त्यत्र यात्रिकाः ॥ ६६॥ उच्चैस्तैरुच्यमानासु भाषासु विविधास्वपि । लघुकौतुकवार्तानां विषयस्तूज्जयिन्यभूत् ॥ ६७॥ उत्तिष्ठन्ती महाकाळक्षेत्रघण्टारवैः पुरी । प्रत्यहं सा स्वर्गतुल्या यन्नृपः कल्पवृक्षवत् ॥ ६८॥ राजाङ्कणानि सङ्गीतकाव्यालापनवेदयः । नृत्तनृत्योत्सवानां च ध्वजारोहो दिने दिने ॥ ६९॥ तत्पुरीदर्शनं मे स्यादित्याशा समुदेति किम् । प्रांशुलभ्ये फले लोभादुद्बाहुर्वामनः किमु ॥ ७०॥ सुमनोमिळिते तस्मिन् सदस्यङ्गत्वसिद्धये । अर्हः किमु स भूयोऽपि स्मरत्याचार्यभाषितम् ॥ ७१॥ विजेष्यते कदाचित्ते सूक्तिरुज्जयिनीमपि । गुरुकारुण्यमेवास्मिन् वचस्यपि भविष्यति ॥ ७२॥ यावदात्मान्तरं स्पृष्ट्वा प्रबोधयति सांप्रतम् । तावत्तदीयसृष्टिश्च भवेत् किं वनसूनवत् ॥ ७३॥ चिन्ताप्रवाहपतितः प्रवहत्येव स स्वयम् । दूरात्तेन पथा वाहारूढावागच्छतां तदा ॥ ७४॥ अन्यस्य वटवृक्षस्य ततच्छायस्य मूलके । अश्वौ विश्राम्य तावास्तां दृश्यसौन्दर्यदर्शिनौ ॥ ७५॥ आगतावुज्जयिन्यास्तावेतौ किं राजसेवकौ । दौत्यं तयोः किमित्येतद् ज्ञातुमौपयिकं किमु ॥ ७६॥ स्वच्छांबुनीक्षुकाण्डांश्च मधुराणि फलानि च । उपदाः कुर्वते ताभ्यां सादरं ग्रामवासिनः ॥ ७७॥ सुप्रीतावलसं देशवीथ्या सञ्चरतो मुदा । मन्दं मन्दं ययोः पश्चाद् गच्छति ग्रामकौतुकम् ॥ ७८॥ उज्जयिन्यास्त्वधीशत्वमुद्रां यः कोऽपि सेवते । सर्वोऽसावादरार्हः स्यान्माळवग्रामवासिनाम् ॥ ७९॥ आस्तामेतत् किमिति सा नागतासीदितोऽवधिः । सलज्जा तिष्ठति स्वस्य पश्चाद् गुप्ततनुः किमु ॥ ८०॥ दयार्द्रा वाक् सानुकंपा दृष्टिश्चाभिमुखीकृता । ज्योत्स्नायां प्रसरन्त्यां किमसौ चन्द्रमणिर्द्रुता ॥ ८१॥ भावना सा कवेः कस्मात् कन्यकायाः करे मुदा । बिसतन्तूनर्पयति कर्णे चारु शिरीषकम् ॥ ८२॥ तस्या मृदुपदन्यासात् पुष्पं वहति वञ्चुलः । विजयं प्राप सा नृत्तमत्सरे कुत्रचित् सुखम् ॥ ८३॥ माळवस्यास्य सा भाति निष्कलङ्कप्रभाततिः । सैव भूमिं प्रति प्रेम चाप्सरःकन्यकागतम् ॥ ८४॥ जन्मान्तरागतं सानुबन्धि भावस्थिरं च सा । स्नेहातुरत्वमेवेति मुग्धासीत् तस्य भावना ॥ ८५॥ केवले कौतुकेऽस्मिन् किं सत्यमस्ति तथापि किम् । स्वगतानीदृशानीह वृथैवोदयमाप्नुयुः ॥ ८६॥ गतः कालो हि न ज्ञातस्तदा दृष्टा जनावली । ग्रामवृद्धगृहस्यास्य द्वारि सङ्गमतां गता ॥ ८७॥ कस्मादत्याह्ळादवन्तश्चापूर्वोत्साहिनो जनाः । एतन्महाभाग्यमिति प्राहुः किं ते परस्परम् ॥ ८८॥ गृहनाथो ग्रामवृद्धो नृपदूतौ विशेषतः । सभाजयामास किं तन्नेत्रे हर्षाश्रुसङ्कुले ॥ ८९॥ माळवस्य ग्रामहृद्यलावण्यप्रतिबिंबिकाम् । ददर्श किल तौ तस्य प्रियपुत्र्यां यथागुणम् ॥ ९०॥ उज्जयिन्याश्चक्रवर्ती निस्सारावकरेष्वपि । अतुल्यरत्नं दृष्ट्वा चेत् तत् स्वायत्तं करोत्यहो ॥ ९१॥ अङ्के निधाय स्वां बालां मातृहीनां पुपोष सः । पाणिर्वा वर्धते पादश्चेत्यतीव समुत्सुकः ॥ ९२॥ तां निजप्रेष्ठतनयां दत्तमादातुमेव तौ । राज्ञो नियोगं प्रत्यक्षं निवेदयितुमागतौ ॥ ९३॥ सा चोज्जयिन्यां श्वोभाविराज्ञीतुल्या विराजते । आयास्यन्तीह तां नेतुं जनाः शिबिकया सह ॥ ९४॥ निवेदयामासतुस्तौ यात्रातिथिमुहूर्तकौ । आह्ळादातिशयस्तत्र प्रतिवेशिमनस्स्वपि ॥ ९५॥ कथानिष्णा ग्रामवृद्धाश्चेक्षुकेदारपालकाः । नीवाराणां यवानां च फलेषु मदहर्षिताः ॥ ९६॥ तेषामयं चोज्जयिन्या ग्रामो बन्धुरितःपरम् । तदेतत् स्मृतिजो हर्षः सर्वत्र परिनृत्यति ॥ ९७॥ तेषां मध्येऽपि किंमूलमेतत्सर्वमिति स्थिता । ग्रीष्मानिलपरिम्ळानलतेव स्तम्भितेव सा ॥ ९८॥ क्षेत्रादस्माद् रूढमूलमुन्मूलयति सस्यकम् । अन्यत्र पालनार्थं को वेति किं वेत्ति कन्यका ॥ ९९॥ न वेत्येषा ब्रवीत्येवं जनकस्त्वन्तरान्तरा । अतिहासः सदाप्यश्रुप्रवाहे पर्यवस्यति ॥ १००॥ आगतेन पथा वाहारूढौ तौ राजसेवकौ । क्षमोरसि खुराघातनादमुच्छ्राव्य जग्मतुः ॥ १०१॥ जनबाहुल्यहर्षोन्मादावेशेषु न भागभाक् । एक एव स्थितः कैश्चिन्नावधेयः कथञ्चन ॥ १०२॥ दूरीभूतखुरध्वानदिशं प्रति झटित्यसौ । अस्वस्थ एवावलोक्य कविर्न्निश्शब्दमब्रवीत् ॥ १०३॥ आत्मनि त्वां प्रतिष्ठाप्य समाराधितवानहम् । प्रियोज्जयिनि किन्त्वद्य द्वेष्मि त्वां रत्नहारिणीम् ॥ १०४॥
तृतीयः सर्गः नीडो न जानाति खगस्य दुःखम् अज्ञातभावार्थकशब्दजातात् समावृतात् सा ह्यभयार्थिनीव । नद्यास्तटं प्राप्य निषीदति स्म यस्मादियं मातृसमा युवत्याः ॥ १॥ यस्यास्तरङ्गोदितकातरोक्तं निद्रोचितं गीतमिवानुभूतम् । ततस्तरङ्गास्तु त एव तस्याः कदाचिदासन्नुरुभर्त्सनानि ॥ २॥ प्रहस्य वीचीभिरिहाह्वयन्ती - माश्ळिष्य यां मन्त्रयति स्वदुःखम् । यामेव चाद्यापि विहासशोक - सन्दिग्धतायां शरणं गतेयम् ॥ ३॥ व्याप्येव शालीनसुमाळवीय - ग्रामीणकन्यात्मविषादजातम् । श्यामीकृतं व्योम घनेन यस्य छाया नदीमप्यकरोत् सिताभाम् ॥ ४॥ पेतुस्तरङ्गा नटनश्रमेण गायत्ययं दीनतया खगः कः । खगेन तेनाधिगतं स्वदुःखं कोऽन्यस्तथेत्यस्मरदेव कन्या ॥ ५॥ केऽर्थाः पितुर्मित्रकृताशिषां वा हर्षस्य तेषां प्रतिवेशिनां च । ते मामहो भाग्यवतीं वदन्ति भाग्यं किमित्याहितविस्मयाभूत् ॥ ६॥ यत्रात्मनः क्रीडनवर्धनानि नद्यास्तटेऽस्मिन् पुरुपल्लवाभाः । नृत्यन्ति चूताश्च पलाशकाश्च गायन्ति यत्रोन्मदनीडजाताः ॥ ७॥ दूरात् त्रिसन्ध्या वपतीह शालीः पङ्केषु मग्ना इव या न दृष्टाः । तीरागता रत्रितरीति गीतं तातस्य गानं च विलंबवाचि ॥ ८॥ पितुः कथावाचनमिङ्गुदीप्र - दीपप्रभायामपि सर्वमेतत् । इष्टं ममेष्टं हि सदा यदेषां नष्टं तु किं भाग्यमिति प्रवक्ति ॥ ९॥ विकीर्णनीवारकभक्षणार्थं गृहाङ्कणप्राप्तकपोतजाताः । स्नेहप्रबद्धैणगणस्तटिन्या - स्तीरे रुदच्चातकचक्रवाकौ ॥ १०॥ तमालशाखाप्रविलंबिनील - मालापताकाभमयूरकश्च । अरण्यजंबूविवरेण जाल - द्वारेव निर्वर्ण्य कदाचिदेव ॥ ११॥ आलोच्य किञ्चित् कुशलं वदन्ती शारी च मे केवलसोदरौघः । बन्धूनिमान् स्निग्धहृदो विहाय यात्रापरत्रैव किमु स्वभाग्यम् ॥ १२॥ विशेषकम् पिता रसादाह कथाः स्ववाटी - तरुव्रजाः सन्ति सुरावताराः । ग्रीष्मर्तुसंस्पर्शननिर्वृतोऽयं द्रुमोत्पलो भाति सुवर्णपुष्पैः ॥ १३॥ पुरा च यो मूलनिषण्णसीता - केशावमर्शप्रसृतस्वहस्तः । स शिंशपाद्रुः स्तबकाश्च लंब - प्रदीपतुल्या विलसन्ति यस्मात् ॥ १४॥ पिकाय दत्ते मधु चूतवृक्ष - श्चाविद्धमुक्ता बकुळाः क्षिपन्ति । प्रहासतः प्राप्तसुपर्वशापः पुनर्हसंस्तिष्ठति सप्तपर्णः ॥ १५॥ देवा अपीमे च भवन्ति सन्तो भूमिप्रियाश्चात्र विरूढमूलाः । अंसोपरीमांश्च समुह्य नेतुं सान्दोळकः प्राप्स्यति नेह कश्चित् ॥ १६॥ सकुड्मळा ये कुसुमैश्च युक्ताः क्षौमं वसाना नटने निमग्नाः । आगन्तुकान् बालसमीरणान - प्यव्यक्तगानोत्कविहङ्गमांश्च ॥ १७॥ वदन्ति मां चापि कदाचिदेते पत्रावलीबन्धुरमर्मरोक्तीः । कथं त्यजेयं सुदृढार्द्रबन्ध - मेतं कथं वा कथयामि यात्राम् ॥ १८॥ युग्मकम् गच्छामि यद्येष सखा रसालाः कस्मै प्रयच्छेत् प्रथमं फलं स्वम् । मयांबुसेकैः परिवर्धितेयं लता भवेत् कुड्मळिता कदा नु ॥ १९॥ अमातृकन्याहृदयातपोऽयं भाषान्तरालेखसमं स्वपित्रा । अज्ञात एवात्र तदीयरम्य - नेत्रान्त एवास्तमितः क्रमेण ॥ २०॥ उत्थाय तस्मात् तटिनीतटात् सा मार्गेण तेनैव च गच्छति स्म । क्षणादहो नातिविदूरदेशे वटद्रुमोऽभूद्विषयस्तदक्ष्णोः ॥ २१॥ ईषन्नतस्तस्य वटस्य मूले फालस्थलं पाणितलेऽथवा स्वाम् । मनोगतानां धुरमेव खिन्नो वहन्निषण्णोऽस्ति क एष वा स्यात् ॥ २२॥ स्तब्धा गतिस्तत्र सगद्गदाया - स्तस्याः किमज्ञातनिमित्तमेव । सोऽयं दिदृक्षाविषयस्तथापि सन्दिग्धपादा च तथैव तस्थौ ॥ २३॥ गच्छाथ तस्मिन् प्रियमानसे त्व - दस्वास्थ्यभारानवरोपय त्वम् । गच्छेति मन्त्रो ध्वनतीव तन्मा गच्छेति केन प्रतिषिद्ध्यते वा ॥ २४॥ ईषद्दयापूर्णपदप्रयोगात् परं न किञ्चिन्मम तस्य चास्ति । लिखत्यसौ पत्रततौ च किञ्चित् पठत्यथैतच्च सताळमुच्चैः ॥ २५॥ पाठोऽप्ययं मच्छ्रवणार्थमेवे - त्युक्तं च तेनैकदिने ततः किम् । न किञ्चिदेवेति न किञ्चिदेवे - त्युक्तिर्हृदः पञ्जरकीरतुल्या ॥ २६॥ परन्तु हा श्रूयत एव हृद्य - स्वरोऽपरस्तुल्यबलो यथैवम् । अन्यस्य दुःखानि सहानुभूत्या जानाति योऽन्यो न भवेत् तवासौ ॥ २७॥ तेजः किमाभाति च तस्य नेत्रे गानात्मकत्वं च वचस्यपूर्वम् । श्रुतं मयात्यल्पवचस्तदोष्ठात् सदा तथापि श्रवणोत्सुकास्मि ॥ २८॥ गच्छेह लज्जां त्यज शङ्कयित्वा मा तिष्ठ गत्वा तव रागसूनम् । तत्पादयोरर्पय किन्तु तस्याः पादौ कुतश्चित् स्थगितौ सशङ्कौ ॥ २९॥ सोऽयं त्वदप्राप्यविचारणीय - श्रौतोन्नतब्राह्मणगोत्रजातः । क्वासौ युवा च क्व पुराकथानां गातुश्च साधोस्तनया वराकी ॥ ३०॥ कस्मान्मयालोचितमेव चैतत् सर्वं निषिद्धं खलु धर्मशास्त्रैः । एवं पुनश्चिन्तनधर्मशङ्का - कुला च तस्थौ परिशुद्धचित्ता ॥ ३१॥ निवर्तितुं सा न शशाक चैका - न्निमन्त्रणात् क्षोभकरादतीव । इष्टानि सर्वाणि यदात्र यस्या नष्टीभवेयुश्च रहस्तदास्मिन् ॥ ३२॥ उदित्वरामान्तरचित्तकोणे स्नेहप्रभामात्मन एव मन्ये । सूर्यं निजं श्ळिष्यति गाढमेव यावन्मृति प्राघुणिकं हिमाणुः ॥ ३३॥ युग्मकम् यदेह कन्या न ययौ न तस्थौ तदा हयानां खुरनादराजिः । तद्राजरथ्यां प्रचकंप ताम - प्यान्दोळशब्दाः प्रसरन्ति वायौ ॥ ३४॥ उदेति धूळीपटलः सशब्दो म्ळायन्त्यनुष्णातपरश्मयश्च । जनाः समन्तादिह राजवीथ्यां सोत्कण्ठचित्ताः सह सम्मिळन्ति ॥ ३५॥ कश्चित् खगः सम्परिभीत एव नीडं विशत्यस्य च रोदनस्य । रवोऽपि निर्ल्लीयत एव चञ्चौ नीडो न जानाति खगस्य दुःखम् ॥ ३६॥ गन्धोळिसङ्घश्च यथा कुतोऽपि कोलाहलैरेति यथा रवौघः । आन्दोळिकानां समुपैति यस्य संवर्धने संवसथो निमग्नः ॥ ३७॥ रवः स मन्दायत एव भूमा - वान्दोळिका साप्यवतीर्यते च । दूरे तु कश्चिद् वटवृक्षपत्र - च्छायात्तिरोऽभूदपरत्र वेगात् ॥ ३८॥ तद्ग्रामवृद्धाङ्कणके निशायां गायन्ति तन्मित्रगणाश्च गीतम् । अस्त्युज्जयिन्यां सुमहाप्रताप - श्चण्डोग्रसेनाख्यमहीनरेन्द्रः ॥ ३९॥ तस्यैकदासीदभिलाष एकः प्रियात्मजां वासवदत्तकां च । श्रीवत्सराजोदयनेन साकं विवाहबद्धां च विधातुमेव ॥ ४०॥ प्रयुक्तमेवौपयिकं तदर्थं प्रीत्या महागीतकलाविदग्धः । निजात्मजाचार्यपदं लभेते - त्युक्तं मुदा दूतमुखेन राज्ञा ॥ ४१॥ परन्तु तन्नानुससार वत्स - राजोऽभिमानी दृढनिश्चयश्च । नेच्छा निरर्थाभवदुज्जयिन्या वत्सेश्वरोऽन्येद्युरिहैव बन्दी ॥ ४२॥ श्रुत्वैवमेषा स्वगृहे कुमारी कथां विनिद्रं समचिन्तयच्च । बद्धामिमामप्युपनेष्यति श्वः किमुज्जयिन्येवमहो विधत्से ॥ ४३॥ किमित्थमीर्ष्याकुलदृष्टयो मे वयस्यपुत्रीजनका भवन्ति । कस्मात् पितुर्मित्रवराश्च मां श्रा - वयन्ति चान्तःपुरदिव्यवार्ताः ॥ ४४॥ सुवर्णशून्यापि सुवर्णकुम्भी - त्येवं कुतो वा जनकोऽपि वक्ति । गीते विषण्णोऽस्ति स वत्सराजः स्मृत्वा प्रियां स्वां मुहुरेव वाद्यम् ॥ ४५॥ गतेऽर्धरात्रेऽङ्कणगायकास्ते सुप्ताश्च गानक्ळमतः पितापि । प्रभाततारेण सहोत्थितुं तत् क्षोणीतले स्वप्ननिमज्जितोऽभूत् ॥ ४६॥ निशासुमस्यार्द्रतरे गवाक्ष - द्वारा सुगन्धे स्पृशति स्वगात्रे । अदृश्यमातुः करशीतसान्त्व - स्पर्शेन रोमाञ्चमधात् किमेषा ॥ ४७॥ सुप्तोत्थिते चारुनिशाविहङ्गे कळस्वने चालपतीह गाने । स्वर्गस्थिताया निजमातुरार्द्र - स्वरं विजानाति किमेतदात्मा ॥ ४८॥ पुरा शकुन्ताः समवर्धयन् किं प्रसूपरित्यक्तशिशुं मधूळ्या । किमस्ति चैषा करुणा मनुष्ये त्यजत्यलं यः किमिहाप्तबन्धून् ॥ ४९॥ निद्रोत्थिता मत्स्यततिस्तटिन्यां शुक्रोऽप्युदेति प्रसृतेऽन्तरिक्षे । नीडाः प्रबुध्यन्ति च स्वस्तिवाचै - रायात्यहश्चात्र सुकुंकुमाभम् ॥ ५०॥ ग्रामोऽखिलो वर्षति वत्सलायां यात्रामुहूर्ते शुभकामनानि । सर्वत्र पत्रेषु तृणेषु नेत्रे - ष्वदृश्यतात्मप्रणयोदिताश्रु ॥ ५१॥ येनात्मजाभाग्यमितीदमुक्तं तेनापि पित्रा च मुहूर्तकेऽस्मिन् । पदं न किञ्चिद् वदितुं ह्यशक्ते - नानीयते हस्तधृता तनूजा ॥ ५२॥ यत्स्वर्णपात्रं तिलकानपेक्षि सैवेयमस्यै विदधाति भूयः । नीराजनं साश्रुविलोचनैः स ग्रामीणशालीनमहाजनौघः ॥ ५३॥ समागतास्ते नृपकिङ्करास्ता - मान्दोळिकामङ्गुलिभिर्दिशन्ति । तातं समाश्ळिष्य तु तिष्ठतीयं विनम्रमीदृग्विरहासहिष्णुः ॥ ५४॥ भ्रमत्यथास्या नयनं भयार्तं वाटीषु विन्यस्तपदासु बाल्ये । स्नेहातुरं चाङ्कणमल्लिकाया - मश्रूदितं किं कुरवोऽरुणाक्षः ॥ ५५॥ आरुह्य मन्दं नतशीर्षकेयं कर्णीरथे तत्र निषीदति स्म । कौशेयवस्त्रावृतपीठकेऽस्मिन् भूयोऽपि सर्वैरवलोक्यमाना ॥ ५६॥ आमन्त्रणार्थं मुहुरक्षिमात्रे - णासौ स्वतातं सकृदीक्षते च । अथापि चान्यं ... कमथान्यमारात् स आगतस्तिष्ठति साश्रु मार्ष्टि ॥ ५७॥ जन्मान्तरं प्रत्यथ गच्छतीव मन्दं चलद्दोळिकया प्रतस्थौ । शरीरमात्रं पुरतः प्रयाति चेतस्त्वनाथं द्रवतीह पश्चात् ॥ ५८॥ मेघैरथागत्य समावृतैः स्व - नेत्रोदितार्कः सहसा तिरोऽभूत् । तातः स गेहश्च जनावली सा ग्रामोऽखिलः स प्रणयैकपात्रम् ॥ ५९॥ तिरोहितं सर्वमभूत् तदन्तेऽ - व्यक्तं तु पारान्तरदृश्यभूतम् । आविर्बभूवाथ सुचक्रवाळ - प्राकारभित्तिर्दिवमन्तरेण ॥ ६०॥ ग्रामश्च पश्चात् परिदृश्यतेऽयं समाप्तनाट्याङ्कणवत् प्रशान्तः । ममैव रत्नं हृतमुज्जयिन्ये - त्यहो कविर्न्निष्क्रमते च रङ्गात् ॥ ६१॥
चतुर्थः सर्गः काव्यपथिकस्य दृश्यानि पद्भ्यां चरन्तमिह मां पथिकं विचित्र - नानापथाः करपुटेन निमन्त्रयन्ति । दूरे परं परिलसन्ति सुचक्रवाळा - दज्ञाततीरतटिनीगिरिसानवश्च ॥ १॥ छत्रैश्च चामरयुतैः परमाधिकार - मत्तानि तानि नगराणि महोज्ज्वलानि । मुन्याश्रमाश्च परितः परिपावनास्त एकाकिनः कतिपये जनसङ्घमध्ये ॥ २॥ द्वीपानि विक्षुभितसागरसंवृतानि भूमौ मनुष्यहृदयेषु च कालभेदाः । एवं नवानि विविधानि मनोहराणि दृश्यानि मां प्रतिपिपालयिषन्ति दूरे ॥ ३॥ विशेषकम् ज्ञाता मयेयमिह माळवभूश्च रम्य - नीलाब्जवद् विकसदंबरमण्डलं च । सम्मीलितेऽक्षियुगळेऽपि च भित्तिचित्र - पङ्क्तीव मन्मनसि सुस्फुटमेव भाति ॥ ४॥ शैलास्तदीयभृगवो रघुवीरपाद - मुद्राङ्कितावयवकाः सुमनोहराश्च । कोनाळकेरितरुता वनकुल्यकाश्च नीडोद्यमैर्बलिभुजां कलुषाम्रवाटाः ॥ ५॥ जम्बूलपक्वफलनिर्भरकाननान्ताः मार्गोपवाटवृतिशोभनकेतकाश्च । सीरैः सुकृष्टनवमृन्मदगन्धयुक्त - क्षेत्राणि बालकसमीरणसुन्दराणि ॥ ६॥ पर्णारुणार्द्ररसमज्जितचर्मपाळी - शोषप्रदर्शनकवोष्णगृहाङ्कणानि । अद्यापि यद्यपि मदिन्द्रियमादिकास्तद् - गन्धश्रुतीक्षणभिदा विविधास्तथापि ॥ ७॥ पूर्वापराब्धियुगळान्तरितं हिमाद्रि - सेत्वन्तदूरसुविशालपथं प्रगच्छेः । इत्थं हि मन्त्रयति माळवमार्द्ररागं सुस्वागतं कथयतीह महापथश्च ॥ ८॥ कलापकम् गङ्गा च धूर्जटिशिरस्थजटाविमुक्ता वारान्निधेरुरसि गायति किं पतित्वा । तत्रत्यतालवनमेचकतीरमेव गच्छत्यबोधत इवात्मपदाब्जयुग्मम् ॥ ९॥ सारावमत्र पतितोत्पतितां च गङ्गां वारान्निधिं च सुविवेचयितुं त्वशक्यम् । गाढात्मविस्मृतियुतं लयनं तयोस्त - दद्वैतरम्यमपि वाङ्मनसोरतीतम् ॥ १०॥ भूयः क्रमादचलतां गमिते तरङ्गे शान्तिर्विभाति महती स मिमील नेत्रे । पूर्णं हरेण हृदयं च तदा समाधि - निष्ठेन वीचिरहितांबुधिसन्निभेन ॥ ११॥ ज्योत्स्नोदिता चलति वीचिरिह क्रमेण जागर्ति वारिधिरथैष च काव्यपान्थः । अस्वस्थमानसतया किल पूर्वतारा दूरात् प्रकाशयति सा शुभदं प्रदीपम् ॥ १२॥ गच्छत्यसौ प्रवहति प्रकृतिप्रसन्न - गीतोपमा च कळमात्र तु दाक्षिणात्या । यत्रास्ति किञ्चिदनुरागजमामनस्य - मज्ञातवृत्तमपि चित्तलयं समानम् ॥ १३॥ भग्ने निमज्जति मनस्यदसीयभावः शुद्धो भवत्यथ स गच्छति भूय एव । संभाषयेय कमृते तु विहायसोऽन्या - दित्येव तिष्ठति महेन्द्रगिरिर्गरीयान् ॥ १४॥ तस्योपरि स्थितवतीह मुनित्वभावे - नोपत्यकोदित इवारव उग्र एकः । सम्राज एव पृतना च दिशां जिगीषोः कस्यापि दक्षिणदिशं त्वरितं जगाम ॥ १५॥ कोऽस्मिन् रथे रघुरिहोदितपूर्वबोधाद् वंशीयगीतिनिवहः प्रविजागरूकः । स्वप्नायितं सकलमेतदितीव किं वा सर्गव्यथाकिरणकैरभिव्यज्यते वा ॥ १६॥ आजन्मशुद्धिसहिताश्च महाफलान्त - कर्माण एव च समुद्रवृतक्षितीशाः । आनाकतो रथचराश्च सविक्रमाश्च भूमिं ह्यभुञ्जत तथा तदनन्तरं च ॥ १७॥ वार्धक्यमेत्य मुनिवृत्तिमिहापुरेते वैवस्वतान्वयगता वसुधाधिपालाः । जाज्ज्वल्यमानमहिताद्भुतनिर्भरैव येषां महामहिमपूरितवंशगथा ॥ १८॥ युग्मकम् भास्वानिवोदयमनूज्ज्वलविक्रमस्य पूर्वापराह्नसहितोऽस्तमितः स वंशः । यद्वर्णने समुचितं लयमाप हृद्य - शब्दाभिधेययुगळं गिरिजेश्वराभम् ॥ १९॥ कश्चिद् वनान्तभुवि हन्त महर्षिधेनुं सम्राट् स्म चारयति केसरिणं च हिंस्रम् । शान्तोऽयमात्मतनुमामिषपिण्डवत् स्वी - कृत्यर्षिधेन्वसुसुरक्षणमार्थयच्च ॥ २०॥ त्राणः क्षतादिति हि रूढिरियं पदस्य क्षत्रस्य चेति विवृणोति हरिं नृपालः । प्राणांस्त्यजामि नहि धर्ममिति प्रतिज्ञा - दार्ढ्यम् न कस्य च नमस्कृतियोग्यमस्य ॥ २१॥ उन्मीलतीव नयनं कुलसुप्रभातं भूपस्य तस्य शिशुराविरभून्मनोज्ञः । नामापि तस्य रघुरित्यकरोच्च येन भूमौ च नाकभुवि वंशयशश्चकास्ति ॥ २२॥ आत्मप्रियानिधनतः सुतविप्रयोगात् साध्वीमणिप्रियतमात्यजनाच्च तीव्रात् । दुःखाग्निशुद्धहृदयेषु नृपेषु तेषु भूमिं यथाविधि परं परिपालयत्सु ॥ २३॥ तद्वंशकीर्तिरपि भूरितरप्रताप - पूर्वाह्नसूर्यवदहो परिभासते स्म । अन्तेऽवरोहणमभूच्च गुणौजसां तु सूर्योऽग्निवर्णसदृशश्चरमाद्रिमेति ॥ २४॥ युग्मकम् पार्थं शरीरमिह न स्वयशःशरीरं म्ळानेतरं त्वमलिनं परिरक्षितुं च । त्यक्तं धनं धनमिति ध्रुवतोऽधिगन्तु - मादानतोऽप्यधिकमन्यकृते प्रदातुम् ॥ २५॥ येऽधारयन् मकुटदण्डयुगं च ते क्व राजाधिकारमधुमत्तमलीमसाः क्व । हा तद्दिलीपचरितादिकमग्निवर्ण - राजप्रमत्तचरितावधिकं दुरन्तम् ॥ २६॥ काव्यं यदा विरचितं परिपूर्णमेव - माचार्यवाग् ध्वनति तद्धृदये पुरोक्ता । भावत्कसूक्तिनिवहो रुचिरः कदाचित् प्राप्स्यत्यसंशयमथोज्जयिनीहृदन्तम् ॥ २७॥ विशेषकम् प्राप्स्यत्यहो किमथ कोऽस्य निगूढमर्थं वेत्स्यत्यसौ नृपपुरी ननु रत्नकामा । शक्तिः किमस्ति वचसः परिहर्तुमेव खड्गोग्रनीतिमथ रक्षितुमार्तवर्गम् ॥ २८॥ जाने न वक्तुमुचितोत्तरमस्य सर्व - स्यैतत्तु वच्मि करुणैव कवीन्द्रवाणी । आयाहि जानकि पितुर्गृहमाश्रमं मे देशान्तरस्थमिति भावय मा विषीद ॥ २९॥ एतत्सुभाषितनिदानदयापयोध्यै आक्रन्दितानुसरणैकहृदे नमोऽस्तु । श्ळोकोऽभवद्युवकिरातपृषत्कविद्ध - क्रौञ्चाभिदृष्टिजनितः किल यस्य शोकः ॥ ३०॥ एतत्पथे किल रघूद्वहदिग्जयाभि - यानं महोत्सवसमं समतीतपूर्वम् । तांबूलपत्ररचिताञ्जलिभिर्निपीय केरासवं भटजनोऽत्र विशश्रमुः किम् ॥ ३१॥ मार्गं तमेवमनुसृत्य तदा च काव्य - पान्थोऽप्ययं चरति केवलपादचारी । नास्त्येव तस्य मनुजोऽनुचरश्च कश्चि - न्नास्त्येव तस्य तु रथश्च तुरङ्गमाश्च ॥ ३२॥ अस्त्यस्य भूर्जतरुपत्रमयोंऽसलंबी भाण्डस्तु केवलममुं न सभाजयन्ति । युद्धे पराजितनृपाश्च परन्तु शुद्ध - ग्रामीणसौहृदमियं प्रकृतिश्च रम्या ॥ ३३॥ पूगैश्च मारुतचलत्फलभारनम्रै - राविःप्रभेण पुरतोऽब्धितटेन यास्यन् । सोऽयं समुद्रचुळुकस्मृतिगन्धवाहि - कावेर्युपासिततटैः परिगच्छति स्म ॥ ३४॥ आकण्ठमज्जनवतो बहुमुक्तकैः स - न्तुष्टान् करोषि कविते ननु ताम्रपर्णि । मुक्तावलीव पतिता सितसैकते सा चक्षुष्मतां परमनिर्वृतिमातनोति ॥ ३५॥ पश्चात् तदा मलयसानुमतो निमन्त्र - णावाहि चन्दनमरुत् तमुपैति मन्दम् । भूयोऽपि तत्परिसरप्रकृतिप्रदत्त - सौन्दर्यपूरितमनाः स तु याति पान्थः ॥ ३६॥ हारीतकैर्डयितमूषणवल्लरीषु चैलाफलाहितसुगन्धतनुर्नभस्वान् । दृश्यौ पुरो मलयदर्दुरपर्वतौ ता - वुर्व्याः स्तनाविव तटार्दितचन्दनौ स्तः ॥ ३७॥ सह्याद्रिपङ्क्तिरथ दृश्यत एव भूम्याः स्रस्तांशुकोद्धुरनितंबसमानरम्या । बालानिलैश्च मुरचीसुखशीतळोप - चारं करोति नवकेतकरेणुगन्धैः ॥ ३८॥ वेलासमीरणसमीरितराजताळी - राजिध्वनिं सकुतुकं मुहुरेव शृण्वन् । सौन्दर्यधामनि दिशाभुवि दक्षिणस्यां तीर्थाटकः कविवरः स मुदा प्रयाति ॥ ३९॥ तस्योत्तरायणदिनात् पथिकस्य पूर्वा रात्रिस्तदैकविपुलोज्ज्वलसत्रशाला । अल्पप्रकाशकशिलामयभित्तिदीप - ज्वालापुरोभुवि स जाग्रदवस्थितोऽस्ति ॥ ४०॥ अन्येषु सुप्तिमुपयत्सु स नैजभाण्ड - बन्धं विमोचयति सन्निहितेषु तत्र । भूर्जत्वचां शकलितेषु विवृत्य सम्प्र - त्येकैकमाहितमुदं च पठत्यथोच्चैः ॥ ४१॥ पत्नीवियोगपरिखेदविलोलचित्त - जन्यं श्रुतं तदजदीनविलापवाक्यम् । किञ्चित् परं मृदुलवस्तु निहन्तुमत्र कालः सदा वितनुते मृदुमेव वस्तु ॥ ४२॥ तस्यानुबन्धि कथितं कविना तुषार - सेकाहतं सरसिजं त्विति गद्गदेन । सत्राधिवासिषु गतेषु सशब्दनिद्रां शेते परं कविरपीह विनिद्र एव ॥ ४३॥ कोकस्य दीनरुदितेन समानमेतत् - काव्यं पुनः प्रवहति स्रगियं यदीत्थम् । जीवापहा भवति चेत् तदहं कुतो वा जीवामि योऽधृत हृदि स्रजमेव चैनाम् ॥ ४४॥ पाषाणमप्यमृततां भजते कदाचित् पाषाणतां व्रजति चामृतमन्यदापि । एतत्तु सर्वमपि नैव मनुष्यनिष्ठं किन्त्वीश्वरेहितमिति प्रजिगाय चोच्चैः ॥ ४५॥ स्नेहातुरस्वरलयात्मकगीतकेऽस्मिन् पान्थात्मदुःखमथवाजविलाप एव । भूषा निरर्थविकला किल शून्यशय्या जाता ममेति सहसावसिते तु गीते ॥ ४६॥ पप्रच्छ कश्चिदथ मित्र विरम्यते किं कर्तास्य को भवति किं स हि काळिदासः । कोऽसावितीह पुनरप्यथ काव्यकारः कश्चित् तथोत्तरयितुं प्रतिभाति तस्य ॥ ४७॥ युग्मकम् भूयोऽपि तेन कथितं न हि काळिदासं जाने न केनचिदुदीरितपूर्व एषः । किन्तु त्वदालपिततत्कृतकाव्यखण्ड - संभावनेन मम तृप्तिरहो न जाता ॥ ४८॥ काव्यं तदाशु लिखितुं पठितुं ममाशा जागर्ति तत् त्वमतिथीभव मेऽद्य रात्रौ । क्रोशद्वयं चरति चेद् गृहमस्ति मे तद् गृह्णीष्व ते सखिनिमन्त्रणमेतदेव ॥ ४९॥ एवं मनोहरसुसंस्कृतभाषणेषु चात्मावबोधजनकेष्वभिनन्दकेषु । विज्ञेन काव्यरसिकेन कृतेषु तेषु श्रोत्रं गतेषु कविरात्मनि तुष्टिमाप ॥ ५०॥ अन्येद्युरस्य सुमनस्सुहृदो निकेते पीयुषवत् प्रवहति स्म सुकाव्यगीतिः । नोक्ता तदापि निजसत्यकथातिथेया - यास्तां कविः क इति काव्यमिदं तु कार्यम् ॥ ५१॥ वाचः स भूर्जदलतोऽनुलिखत्यथ स्व - नाराचकेन सुहृदुत्तमतालपत्रे । काव्यं स्वकीयमिह तत् प्रथमं शृणोति भावार्द्रकं श्रुतिपवित्रमहोऽन्यकण्ठात् ॥ ५२॥ आमन्त्र्य तं तदनु मित्रवरं स काव्य - पान्थः समारभत नैजसुदीर्घयात्राम् । भूयोऽपि पर्वतततिस्तटिनीकदंबः क्षेत्राणि मित्रनिवहस्ततसत्रशालाः ॥ ५३॥ वक्त्राब्जमद्यलहरी यवनाङ्गनानां यत्राधिकं हरति नेत्रमयं प्रदेशः । द्राक्षालतावलिनिकुञ्जवृताजिनेषु कादंबरीरसरताः सुमिळन्ति यत्र ॥ ५४॥ तेषां मनोहरसुसौहृदसत्कृतीस्ताः स्वीकृत्य चाप्रकटितस्वयथार्थभावः । वैरागिवत् स तु युवा कवनानि काळि - दासस्य कस्यचिदिहालपति प्रकामम् ॥ ५५॥ विशेषकम् एवं समानहृदयैर्बहुभिर्मनुष्यै - र्नानाविधैः प्रचलिता कथनैरथेयम् । वाग्वल्लरी बहुळपक्षशशाङ्कतुल्या संवर्धितास्य कवितापथिकस्य कीर्तिः ॥ ५६॥ रात्र्यागमे भवति चोत्तरदिग्विभागे देवालयेऽत्र महितोज्ज्वलकीर्तियुक्ते । दीपावली विरळकान्तिरनुक्रमेण जातास्ति निश्चलतरा प्रकृतीश्वरी च ॥ ५७॥ आराधनोपकृतमन्त्रततिः पवित्र - घण्टोदितध्वनिरपि प्रशमत्वमेति । मिष्टान्नभोजनसमेधितचित्तहर्षा विप्रास्तदग्रवसतिं परितो निषण्णाः ॥ ५८॥ तेषां सुनर्मवचनान्यलसं विशृण्व - न्नास्ते कविः स नितरां विजने यथा स्यात् । संभाषणस्य विषयस्तु कवेश्च काळि - दासस्य देशकवितासविशेषतादिः ॥ ५९॥ वङ्गं कलिङ्गमथ कुंकुमदेशमेव - माहुर्जना बहुविधाः कविजन्मदेशम् । केचिद् वदन्ति कविजन्म न चैव सप्त - स्वाजन्मपुण्यनगरीष्विति निर्विशङ्कम् ॥ ६०॥ गोपोऽस्ति निस्स्वकुलजः किल माळवस्य ग्रामस्य सूनुरिति तद्रसने च साक्षात् । काळ्या कृताक्षरवरप्रविलेखनेन भेजे कवित्वमिति च प्रवदन्ति केचित् ॥ ६१॥ प्रादुर्बभूवुरिह तस्य च जातिजन्म - देशानुबन्धितविचित्रकथाविवादाः । वादेन किं फलमनेन जनिश्च यत्र - कुत्रापि वा भवतु सा कविता सुधा नु ॥ ६२॥ सूनं तु न प्रभवति स्वसुगन्धगुप्त्यै सोऽयं बहिर्गळति निश्वसितच्छलेन । वायुर्न तन्नियमनाय च शक्तिभूः स्याद् व्याप्नोत्ययं परिमळोऽपि च वायुमार्गे ॥ ६३॥ भूयोऽपि भूर्जतरुचर्मविलेखनेन चावर्तनेन हृदुपस्थितिकारकेण । अन्योन्यसंविनिमयेन च तानि रम्य - काव्यानि पात्रमभवन् किल कीर्तिराशेः ॥ ६४॥ आसीत् क्रमेण निजभाण्डतलोपशायि - काव्याध्वगस्य नयनं सुकृताश्रुपूर्णम् । आयाति यं भ्रमणकौतुकिनं विरागाद् रागाकुला वरणमाल्यधृतार्द्रपाणिः ॥ ६५॥ आरात् स्वयंवरवधूरिव कीर्तिलक्ष्मी - र्गोपायति स्वयमथाप्ययमात्मना तु । शब्दाभिधेययुगळं तदुपासितं च नृत्यत्यथोज्ज्वलमुमेशवदात्मनीह ॥ ६६॥ युग्मकम् किञ्चित् तथापि विरहोदितलोलदुःख - मुद्वेलयत्यधिकमेव मनस्तदीयम् । कर्णीरथात् तदनु दूरमपागतात् त - द्दृष्टिस्तु तं समुपगच्छति दीनदीनम् ॥ ६७॥
पञ्चमः सर्गः देवतात्मनोऽङ्कतले पान्थो न जानाति यानमिदमविराम - मस्यान्तरा सूर्ययानम् । उपरिगतमथ कियदितीत्थं ? पूर्वदिशि पूणेन्दुमुकुटं समुह्य कति राकानिशाः समायाताः ॥ १॥ चरदश्वनिकरततसैन्धवतटानां स्फुटितकश्मीरजक्षेत्रनिचयानां परतः प्रदृश्यते प्रालेयशैलः । उन्निद्रमर्मरितहरितपत्रेषु पुन्नागपुष्पसौरभ्योज्ज्वलेषु प्रस्तरेष्वत्रत्यमृगनाभिसंस्पर्श - गन्धवद्गिरितटमुपेत्य स निषण्णः ॥ २॥ विकिरति हिमस्तुङ्गशृङ्गतो गायति च कीचको भ्रमरकृतरन्ध्रः । गन्धर्ववल्लकीतुल्या हिमापगा जागर्ति गानैः कुतश्चित् । भूर्जतरुपत्रपुटपाळीषु धातुरस - रक्ताभलिपिषु रक्ताभिः । विद्याधराङ्गनाभिर्लिखितमन्मथा - लेखाः किमेतेऽब्दशकलाः ॥ ३॥ पुन्नागमन्दारनवपारिजातकैः संभूय पुष्पिते तस्मिन् भृगौ सदा - प्युन्निद्रमास्ते वसन्तः । तप्तातपोग्रशृङ्गे तत्र निष्ठुरं प्रज्वलत्यूष्मागमर्तुः । उन्मुखं चातकं वात्सल्यबिन्दुभिस्- तर्पयत्स्वब्दनिकरेषु । अन्तराळस्थलस्यान्तरा नर्तनं धत्ते च वर्षामयूरः । सुन्दरपरागसुमसंकाशहिमधूळि - संकुलेष्वचलकटकेषु । आयाति कः शिशिरहेमन्तशारदे - ष्वेते किमायान्ति सर्वे ? सम्मिळति यत्र हा सर्वर्तुरम्यता तत्रैव समुपैति पान्थः । उत्तुंगहैमवतशृङ्गकूटं समा - रूढवानेकान्तपान्थः ॥ ४॥ स्वर्गायते भूमिरत्र शेते सुखं स्वर्गः क्षमाङ्कतटमेत्य । क्षोणीतलेऽपि विहरद्देवभूस्तुहिन - पूरितोऽयं सानुदेशः । श्रूयते पर्णेषु नागभूम्योः सुरत - सल्लापमर्मरनिनादः । अत्र हि स्वर्गीयहर्षः ॥ ५॥ धत्ते तुषारकणिकां शंभुभस्म वा ह्यत्रत्यपर्वतब्यूहः ? अरुणप्रभोज्ज्वलं हरनिटिललोचनं प्रोन्मीलतीव मार्तण्डः । हरजटायां धवळगिरिकूटकेऽथवा भासते सितचन्द्रलेखा ? शृङ्गेषु सान्द्रं समाधिस्थधूर्जटेः शान्तिपूर्णं महामौनम् । तस्मिन् विलीयते हृदयं प्रशान्तम् ॥ ६॥ समुदेति कस्मात् कुतो वानुमात्रं वि - वर्धमानो डमरुताळः ? श्रीरङ्गके नटननिर्मग्ननटराज - करगतमहाडमरुताळः । नासौ दिवास्वप्नमथवा मतिभ्रमो हृदयनयनेक्षितं सत्यम् । आकाशभूम्यौ दिवारात्रकारका - वादित्यचन्द्रौ च सकलभुवनान्यपि सम्पूरयन्महाकाळनटनं तदा जागर्ति पथिकस्य पुरतः । नयननळिनं परमहर्षेण पूरितम् । नवसर्गताळसुस्पन्दितमिदानीं डमरुरपरो भवति हृदयम् ॥ ७॥ सायन्तने रम्यमन्दारपत्रव - न्नेत्रे निमीलिते मन्दम् । तार्तीयनेत्रं समुन्मीलितं येन पश्यति त्रिभुवनं पान्थः । वैराग्यमेत्य कठिने तपसि लीनं मारारिमात्मनाथं लब्धुमाग्रहात् । तीव्रानुरागार्द्रचित्तां तपस्विनीं पश्यत्यपर्णां स पान्थः । गुप्तं निबद्धसुमबाणं मधुप्रियं लुप्तधैर्यं हरं तार्तीयनेत्राग्नि - तप्तं मृतं पतिं स्मृत्वा कुररीव चाक्रन्दतीं रतिं पश्यति मुहुर्मनसि पान्थः ॥ ८॥ परिणामसुन्दरकथायां च तस्यां शिवपार्वतीविवाहार्थं समागतम् । आर्द्राक्षतेन पद्मातपत्रेण मा- ङ्गल्यस्तवेन चाह्ळादार्द्रमानसं लक्ष्मीं च वाणीं च देवीद्वयं यथा पत्रे लिखत्यसौ स्वयमेव पान्थः ॥ ९॥ गङ्गाकळिन्दजेऽसेविषातां चमर - युक्ते महेशं च पार्श्वद्वयेऽपि । निजभूतगणसेवितातोद्यघोषः समुदेति सर्वतोऽतन्द्रम् । किङ्किणीहासरुतवृषभपृष्ठे व्याघ्र - चर्मास्तृतेऽर्धनारीशः पुरोभुवि आनन्दमूर्तिरायाति । नेतुं तमेव निजपत्तनं पर्वता - भूमेर्दिवश्च संरक्षकमसौ सुतं जनयिष्यति ध्रुवं स्कन्दम् ॥ १०॥ कल्पद्रुकामधेन्वमृतादि सर्वं स्वर्ग ते स्वाधीनमेव । यस्य परिरक्षार्थमावश्यकं भवति मर्त्यभुवि कस्यचिद् बालस्य जन्म ॥ ११॥ स्वर्गशप्तानां किमेषा धरित्री ? मर्त्यस्य भूनिवासः शाप एव किम् ? सुस्थिरस्नेहबन्धा जन्मजन्मसु पुष्पिता तिक्तमधुराणि च फलान्यत्र यच्छन्ति लोकान्तरं किमेतादृशं वर्ततेऽस्मिन् महाब्रह्माण्डभाण्डे ? पृथिवी ह्युदाररमणीया ॥ १२॥ तीव्रप्रणयोज्ज्वलात्मनां मेळन - सत्रं हि हैमवतभूमिः । हेमकूटाचलशृङ्गात् सकौतुक - मायान्ति भूमौ सुरास्ते । रङ्गे तु नामस्खलितापराधतो गुरुशापहेतोः कदाचित् उर्वशी चागमत् स्वप्नतुल्या अस्वर्गजां सुधामास्वादयच्च या विक्रमनृपालहृदयानुरागः । अप्सरा अप्यनुभुङ्क्ते स्म मर्त्यस्य सौहार्दशुद्धदौर्बल्यान्यहो तदा ॥ १३॥ संभ्रमन्मेघमाला पुण्यवाहिनी - हृदयाद् गृहीत्वांबुकणततिं पुनरथ मार्गान्तरेण प्रयाति । एवं स पान्थोऽपि हैमवतभूमेः सुरभिलशिलाशकलतुल्यं वंशनाळीपूर्णमधुसमानं हृदये च मधुरानुभूतीः समाहृत्य सोपानतोऽवतीर्णोऽस्ति । पथदर्शिकेयं विभाततारा ॥ १४॥
षष्ठः सर्गः पुनरपि माळवे ज्वलन्ति मार्गोभयपार्श्वभाजः पलाशपुष्पाग्निकणाः प्रकामम् । यद्दर्शनात् सोऽभिललाष पान्थः प्राप्तुं निजग्राममपूर्वरम्यम् ॥ १॥ परन्तु तत्रास्ति निजं किमेत - च्चिन्तान्तरा तं विमनीकरोति । ततः स गूढात्मकहृत्क्षतानां रक्तार्द्रबिन्दून् परिमार्ष्टि मन्दम् ॥ २॥ तुषारवक्त्रांशुकशारदर्तु - सन्ध्यानिभा केयमुदेति तत्र । न किञ्चिदुक्त्वापि यदीयनेत्रं सर्वं वदत्येव सदा समार्द्रम् ॥ ३॥ शनैः शनैरेव तदीयरूपं तिरोभवत्यक्षिपथात् कवेः किम् । अव्यक्तहेतोः स च तत्कुमार्या नामाकरोन्माळविकेति हृद्यम् ॥ ४॥ अस्त्यग्निमित्रो विदिशाधिपो यः सोल्लासमास्ते निजवल्लभाभिः । योऽभूत् परं चित्रपटस्थकन्या - लावण्यमाध्वीस्वदनेऽतिसक्तः ॥ ५॥ तत्प्राप्तिसिद्धौ कलिताक्षतन्त्रै - र्विदूषकोपायशतैश्च राज्ञा । जयार्थमात्तैश्च लघूपजापै - रासूत्रितैर्नाट्यगुरूत्थयुद्धैः ॥ ६॥ अन्तःपुरस्थप्रमदामदैश्च युक्तं विभक्ताङ्गकमन्तरङ्गे । प्रयुज्यते नाटकमत्र सङ्क - ल्पाकल्पिता माळविकैव भाति ॥ ७॥ युग्मकम् पादांबुजं माळवकन्यकायाः सखी न वा ते हृदयाभिवाञ्छा । अलक्तरक्तं मणिनूपुराल - ङ्कृतं च रम्यं च तनोति पान्थ ॥ ८॥ अपुष्पितस्य प्रमदावनस्था - शोकस्य तां दोहदके नियुङ्क्ते । देवी दयाधाम च धारिणी किं पान्थाथवा ते हृदयाभिवाञ्छा ॥ ९॥ सकुड्मळः पञ्चदिनान्तरेऽभू - दशोकवृक्षोऽपि नितान्तशोभः । भूर्जत्वचीत्थं लिखतस्तवात्र हर्षाश्रुधारा पतिता मुहुः किम् ॥ १०॥ देवीपदार्हां सुकुमारलोला - मेतां सुकन्यां परिचारवृत्तौ । नियुञ्जते ये स्म पुनस्त एव लज्जावनम्रा ननु संबभूवुः ॥ ११॥ मनोहरोऽयं किल विग्रहः किं सितेन नीपेन विधीयते स्म । संकल्पचित्रादथवा सजीव - स्वरूपमाधाय समुत्थितोऽभूत् ॥ १२॥ यथा विलोलेषु दलेषु मन्द - समीरणस्पर्शविधौ तथास्याः । कराङ्गुलीस्पन्दमृदुप्रकम्पो व्याप्नोति पक्ष्मावृतनीलनेत्रे ॥ १३॥ नृत्यत्पदे ते मणिनूपुराभ्या - मभङ्गुरं ताळतरङ्गिते स्तः । कदा नु पश्याम्यहमस्वतन्त्रे - त्युक्तं तया किं कविमेव गीतम् ॥ १४॥ वितीर्य भूयश्छलिताख्यलास्य - माधुर्यकं माळविके तिरोऽभूः । तिष्ठस्यहो किं विदिशाधिपस्यो - ज्जयिन्यधीशस्य पुरोऽथवा त्वम् ॥ १५॥ हरित्तृणोऽयं स्मरतीह भूमौ नीलं नभो वीक्ष्य शयान एव । खगो यदि स्यां शरवेधिलुब्धः कुतश्चिदस्तीत्यवबोधहीनः ॥ १६॥ उपर्युपर्युड्डयने पतिष्या - म्येकेन रोदेन च मृत्युमेमि । असङ्ख्यबाणक्षतजाक्तदेहो - प्यायुर्विवृध्यै ह्यभिलाषुकोऽस्ति ॥ १७॥ युग्मकम् पृषत्कमञ्चे शयितोऽपि कश्चित् प्रतीक्षितुं जीवितमीहते हा । एकाभिलाषस्तु कवेरिहास्ति तद्दर्शनं स्निग्धपवित्रहृद्यम् ॥ १८॥ प्रतीक्षया श्यामजडीकृतायां रात्रौ च दीर्घप्रहराकुलाभाम् । सर्वं वृथैवेति हृदन्तराळे मन्त्रे श्रुतेऽपि ध्वनतीव कर्णे ॥ १९॥ अशब्दमप्यत्यधिकं सुशक्त - माह्वानमाप्तं त्विह शून्यतायाः । गृहातुरोऽयं पथिकः प्रयाति तं दक्षिणाशापथमेव पश्यन् ॥ २०॥ युग्मकम् कच्चित् ततः पृच्छति निम्नगाया वीची -स कुत्रास्ति सुहृद्वरो नः । कच्चित् प्रतीक्षाभरितः स पान्थ - मश्वत्थवृक्षोऽङ्गुलिभिश्च तत्र ॥ २१॥ आस्ते निमेषाकलनेन कच्चित् प्रत्युद्गमार्थं च पलाशवृक्षाः । तिष्ठन्ति तत्रातिमनोहराभान् धृत्वा प्रसूनोज्ज्वलसुप्रदीपान् ॥ २२॥ युग्मकम् वृष्टिर्न वा पर्यवसानमापे - त्याहात्र मृत्सामृदुलोष्णगन्धः । प्रहस्य यक्षीव विमुक्तकेशा स्थितः प्रसूनैः कुटजद्रुमोऽसौ ॥ २३॥ परोक्षतस्तिष्ठति केतकीयं लज्जानता पुष्पवती मनोज्ञा । वेश्याकुमारीनिभहेमपुष्पः किरातिकाभो बकुळद्रुमोऽपि ॥ २४॥ विराजमानौ कुसुमांबराणि धृत्वा मनोमोहनवाटिकायाम् । लोध्रद्रुमो माद्यति पुष्पवृद्धि - हर्षाकुलोऽसौ तिलकस्तथैव ॥ २५॥ युग्मकम् नभस्वतोऽसावभिलावकाल - श्चिनोत्ययं माळवगन्धराजिम् । प्रत्युद्व्रजाभ्यागतमत्र सम्यक् सदागते वेत्सि जनं किमेनम् ॥ २६॥ यः पूरितोदात्तसुखोग्रताप - चेताश्च योऽदग्धवपुर्निदाघे । ग्रस्तोऽपि शीतैर्न जडीकृतो यः संवत्सरान् यो बहु सञ्चचार ॥ २७॥ सर्गस्थितो यो निजचित्तभारान् भूर्जत्वचेष्वन्ववतारयच्च । दीर्घप्रवासात्परमिष्टतीर्थं प्राप्येव यो निःश्वसितं करोति ॥ २८॥ मृत्त्वं च तन्माळवदेशकोणे भाग्यायतिं यो मनुते स्वकीयाम् । सोऽयं स्वभाण्डं वटवृक्षमूले निक्षिप्य तत्रैव सुखं च शिश्ये ॥ २९॥ विशेषकम् वटद्रुपत्राळ्यवकाशतोऽधो द्रवन्ति किं पुष्करनीलिमानि । अनेन चोत्तानशयेन दृष्टं नभो लसत्येव किमप्यपूर्वम् ॥ ३०॥ बाल्हीकपुष्पास्तृतकोमळाभं काश्मीरदेशं सुरसिद्धसेव्यम् । गङ्गाप्रपातार्द्रहिमाद्रितुङ्ग - शृङ्गं च दृष्ट्वा विनिवर्तमानः ॥ ३१॥ पान्थोऽयमेतस्य मुखावलोकाद् ग्रामस्य किं जायत एव बाढम् । आर्द्राञ्चिताक्षश्च समुत्सुकश्चा - प्यानन्दताळद्रुतमानसश्च ॥ ३२॥ युग्मकम् पञ्चेन्द्रियैरप्यनुभूयते स्म चाद्यान्नलावण्यरसोऽत्र नूनम् । अत्रैव दृष्टा ह्यृतुपर्ययाणां शोभाद्भुतैराद्यमथादरैश्च ॥ ३३॥ वर्षैरनेकैस्तमदृष्टपूर्वा दिदृक्षवश्चात्र हि विस्मयन्ते । समावृतैरागत एव काळि - दासोऽयमित्यात्मगतं तदुक्तम् ॥ ३४॥ क्व वा भवान् कालमियन्तमासी - दस्मान् न किं विस्मृतवानसीति । क्षेमोक्तयः स्नेहभराद्भुतार्द्राः श्रुताः परं तेन गृहातुरेण ॥ ३५॥ यात्रासु मध्येऽत्र विशश्रमुर्ये विद्वद्वरैस्तैर्विषयीकृतोऽभूत् । कवीन्द्रमुक्तामणिकाळिदास - स्तदीयकाव्यानि च तत्प्रशंसा ॥ ३६॥ कविः स किंदेश्य इति प्रकामं श्रुतोऽत्र वादप्रतिवादघोषः । अत्रत्य एवास्ति स काव्यकार इत्यात्मतुष्टिप्रभवश्च शब्दः ॥ ३७॥ तत्काव्यखण्डाः प्रथिताः किलासन् कर्णानुकर्णश्रवणेन चोक्त्या । नासौ तदव्याजमुखानि पश्यन् स्वापह्नवेन प्रभुरत्र वक्तुम् ॥ ३८॥ तस्थौ विनम्रः स यथापराधं कृत्वा पुनस्तप्तमनाश्च जातः । ग्रामीणवृद्धोदितवत्सलत्व - माह्ळादमाला हि बभूव तस्मिन् ॥ ३९॥ ग्रामे किमत्रास्ति मदीयमेत - च्चिन्ता तिरोऽभून्निजबन्धवो हि । परिस्थिताः स्वस्य कृतेऽभिमान - भाजास्त्विमे ग्रामजना वराकाः ॥ ४०॥ किं नो विहाय त्वमितो गमिष्य - स्येवं हि पृच्छत्यथ मित्रमेकम् । न नेत्युवाचापि तु चन्द्रकान्त - तुल्यं तदात्मा द्रवतीव भाति ॥ ४१॥ पादे चलत्यर्धविबोधवत्तद् - ग्रामे पुरा वृद्धकुटीं निशाम्य । अन्तर्न कोऽपीत्यनुयोगि नेत्रं श्रुतं च वृद्धः स मृतो बभूव ॥ ४२॥ निजैकपुत्रीविरहाकुलोऽसौ न कञ्चिदूचे कतिचिद्दिनेषु । अथैकदा चोड्डयते स्म पक्षी शून्यं त्वभूत् पञ्जरमेष गेहः ॥ ४३॥ पुरातनप्रेमकथाश्च काश्चि - न्नीडादितः श्रोत्रपथं प्रविष्टाः । किं तत् स्मरन्त्युज्जयिनीसुवर्ण - नीडोपबद्धास्ति विहङ्गबाला ॥ ४४॥ न सन्ति पापानि विमुक्तिसिध्यै किं तापशान्त्यै प्रभवेन्नदीयम् । ग्रामीणसंस्कारवदेतदापः स्वच्छप्रशान्तस्फटिकावदाताः ॥ ४५॥ आकण्ठमस्यां विनिमज्य नद्या - मालापयामास परस्सहस्रम् । गायत्रिकां मृत्सघटस्य चान्त - राकाशमस्यानिशमर्कदीप्तम् ॥ ४६॥ तेन प्रकाशेन तु नीयमान - मात्मानमाशंस्य विनीतिपूर्वम् । स्थितेऽपि कुत्राप्यभियन्ति नैके पूर्वे सतीर्थ्याः सममेव भूयः ॥ ४७॥ तेषां कवेः सर्गतपःफलाना - मास्वादकास्ते मिळिता वदन्ति । न केवलं सोज्जयिनी त्वदुक्तिं प्रत्युद्व्रजिष्यन्त्यपि तु त्रिलोकी ॥ ४८॥ अश्वत्थवृक्षे हृदयाकृतिं च सहस्रशः श्यामळपर्णराजिम् । निस्तन्द्रमास्पन्दचलां विलोक्य निश्शब्दमेवेह कमाह सोऽयम् ॥ ४९॥ अस्वस्थमेतद्धृदयं किलैकं मर्त्यस्य हा दुस्सहमेव वृक्ष । एतान्यहो ते हृदयान्यसङ्ख्या - न्यस्वस्थितान्यत्र सदा भवन्ति ॥ ५०॥ समीरणैराळुलितानि तानि सर्वाणि सर्वर्तुषु तुल्यमेव । दृष्ट्वा निषीदाम्यखिलं तवैत - च्छायातटे विस्मितमानसोऽहम् ॥ ५१॥ अस्वास्थ्यमेतन्महदस्तु तेऽह - मिच्छामि शान्तिं त्वदनातपेऽस्मिन् । सर्गात्मकाविष्करणाकुलस्य शान्तिस्तु लभ्या मरणेऽथवा स्यात् ॥ ५२॥ ग्रीष्मो गतश्चातकशाबकेन केकारवेणैति स वर्षकालः । पुनस्समायाति वसन्तमासो वनप्रियाणां मधुरस्वरेण ॥ ५३॥ यदा विकंप्रप्रविलोलचञ्चू - पुटेन मन्दं चटका विरौति । तदा समागच्छति नग्नपादः सवेपथुश्चापि तुषारकालः ॥ ५४॥ भजन्ति साक्ष्यं ह्यृतुभेदभावे खगा इमेऽश्वत्थतरुः कविश्च । कवेर्मनस्यार्तवसङ्क्रमांस्तान् जानन्ति नेमे तरुपक्षिवर्गाः ॥ ५५॥ स्वकीयभाण्डस्थितपत्रखण्डा वहन्ति तेषां करलाञ्छनानि । इदं किलैतिह्यमहो कविं तत् - पश्चात्स्थितं पश्यति कस्सचेताः ॥ ५६॥ मूर्तीभवत्प्राक्तननैजपुण्यां लज्जावनम्रं समुपस्थितां ताम् । स्वप्नेषु जाग्रत्स्वपि चार्धबोधे - ष्वयं सदा पश्यति चत्वरस्थः ॥ ५७॥ प्रश्नः स तस्याः प्रथमः स्मितं त - दनुत्तरं हा पुळकप्रदायि । निवृत्य सा च स्थितिरप्यपाङ्ग - दृष्टिर्विलज्जाञ्चिततीक्ष्णपाता ॥ ५८॥ आमन्त्रणं दूरविनीतदोळा - गवाक्षतोऽक्षिप्रहितं च मूकम् । धावद्रथाश्वोत्थखुरारवस्सो - प्यनारतं सन्त्यनुवर्तमानाः ॥ ५९॥ युग्मकम् संश्रूयते किं स खुरारवोऽद्या - प्येतन्नु किं सत्यमुत स्मृतिर्वा । भूयोऽत्र तेऽप्युज्जयिनीमहीन्द्र - दूतास्समायान्ति हयाधिरूढाः ॥ ६०॥ तेषां कुतो वा विजनाङ्कणेऽस्मिन् पक्षीन्द्रचक्षूंषि परिभ्रमन्ति । अत्रैक एवास्ति वटद्रुमूले समागतास्ते किमिहैव देशे ॥ ६१॥ यथागतं ते प्रतियान्तु वेगा - दित्यानतास्योऽयमिहैव तस्थौ । निमीलिताक्षश्च वटद्रुवृद्धे समर्पिताङ्गोऽर्धसुषुप्तिमाप ॥ ६२॥ आहत्य भूमौ स्वभुजोग्रदण्डे - नैते दृढं तस्य पुरोऽवतस्थुः । अलं सुषुप्त्या किमु मूढ काळि - दासः कविः कश्चिदिहास्ति दृष्टः ॥ ६३॥ दृष्ट्वाप्यसौ भूपतिदूतचिह्ना - न्याचारपूर्वं न च तान् सिषेवे । अयं तु निश्शेषनिवीतभीत्या - दराक्ष इत्यद्भुतमाप्नुवंस्ते ॥ ६४॥ कोऽयं विमूढो बधिरोऽथ मूकः प्रष्टुं च तेऽन्यत्र जवेन जग्मुः । प्रत्यागमिष्यन्ति किमेत एव दूता मुदा ग्रामजनोपनीताः ॥ ६५॥ तं ते क्षमस्वेत्यभिवन्द्य भूप - सन्देशमित्थं कथयांबभूवुः । उत्तिष्ठमान प्रियसत्कवे त्वा - मिहोज्जयिन्यां विनिमन्त्रयामः ॥ ६६॥ आचार्यवाक्यं ध्वनति स्म भूयो - प्येतत्स्मृतौ मन्द्रगभीररम्यम् । अबोधतः साञ्जलिरन्तरासौ गुरुस्मृतौ पुण्यजले निमग्नः ॥ ६७॥ न काञ्चिदूचे प्रतिवाचमेष स्वकीयरत्नं तु जहार पूर्वम् । अवन्त्युदारा च किमर्थमेत - च्चिन्तोत्तरङ्गं हृदयं बभूव ॥ ६८॥ नैवागमिष्याम्यहमेवमेव वदेति वक्त्यान्तरधर्मरोषः । निमन्त्रणं विक्रमभूपदत्तं न त्याज्यमत्रैव शृणोति चेत्थम् ॥ ६९॥ जाज्ज्वल्यमानज्वलनद्विपार्श्वो यथा महाघोरवने तथायम् । तस्थौ कविस्तद् घनमौनजन्य - प्रत्युत्तराशङ्कितमानसेषु ॥ ७०॥ अस्वस्थितेषु क्षितिपेन्द्रदूते - ष्वेवं निजग्रामसुहृत्सु चात्र । तिष्ठत्सु मा गच्छ विहाय चास्मा - नित्युक्तपूर्वश्च सुहृद्वरो यः ॥ ७१॥ स एव चागत्य पुरोऽद्य वाच - मूचे कविं तं विनिरुद्धकण्ठः । गन्तासि चेन्नस्त्वभिमान एव ग्रामीणशैलीयमहो विशुद्धा ॥ ७२॥ विशेषकम् पुष्प्यत्यशोकः किल दोहदेन तथा कवेरङ्कुरिता प्रतीक्षा । द्रष्टुं मुखं तत् सकृदप्यहं किं शक्नोमि यद्युज्जयिनीं गतश्चेत् ॥ ७३॥ अथाह नैजोज्जयिनीप्रयाण - वाञ्छां कविः स्वल्पवचोभिरेव । तदा च तद्ग्राममनोऽभिमान - हर्षैस्तरङ्गायितमेव बाढम् ॥ ७४॥ स्नेहातिवर्षेण समार्द्रचित्तो - स्त्येषां च निर्व्याजहृदां तथापि । शङ्कावशिष्टा भवतीह पारं पराजितोऽस्मीति नितान्तशल्या ॥ ७५॥ पराजयं चाप्यसकृद् वरिष्ये यदीहजन्मन्यतुलप्रियार्द्रम् । प्रियामुखाब्जं सकृदप्यहो तद् भवेन्मुहुर्मे नयनस्य पात्रम् ॥ ७६॥ गत्वोच्यतां दोळकसेवकादि - वृन्दं विना यास्यति काळिदासः । प्रशान्तिमाप्नोत्यपराह्नसूर्या - तपोऽनिलः सान्त्वयतीव मन्दम् ॥ ७७॥
सप्तमः सर्गः उज्जयिनीं प्रति किमाद्यदृष्टिप्रणयोऽत्र शिप्रा - पुरोऽवतस्थौ कविरार्द्रचित्तः । शीतानिलस्याथ निमन्त्रणेन स्नेहोदये तत्र च गाहते स्म ॥ १॥ क्ळमः क्रमाल्लीयत एव शैत्ये स्नात्वोपविष्टोऽस्ति शिलातलेऽस्मिन् । शीतोपचारं कुरुते स शिप्रा - वातोऽब्जगन्धाकलितांबुबिन्दुः ॥ २॥ अज्ञातमेतं पथिकं च कस्मा - ज्जन्मान्तरस्थापितगाढबन्धात् । स्वप्रत्यभिज्ञाविषयीकरोषि त्वमुज्जयिन्युज्ज्वलरम्यहर्म्ये ॥ ३॥ दीर्घायते पत्तनराजवीथी पार्श्वस्थसौधेषु समुत्पतन्ति । संगीतवाद्यध्वनिभिश्च सार्धं नृत्तान्तरे नूपुरशिञ्जितानि ॥ ४॥ धूपेन कालागरुचन्दनाभ्यां सुसंस्कृतेनोष्मळचुम्बनौघैः । संवृण्वता कामपि केशिनीं तै - र्गवाक्षरन्ध्रैर्निभृतं गते तु ॥ ५॥ व्याप्नोति को मादकगन्धपूरः सङ्क्रीडयन्ती गृहशारिका का । उदेति देवेन्द्रधनुर्वळभ्यां मयूरपिञ्छाचलनैर्मनोज्ञम् ॥ ६॥ युग्मकम् भूमावयं गच्छति पादचारी स्वर्गस्य वक्त्रं पुरतो विभाति । स्वर्गोऽत्र सक्त्या समुदेति तत्र वैराग्यचन्द्रोदय एव भाति ॥ ७॥ दयैव गङ्गा मदभङ्गरूपो वह्निश्च नित्यं शरणं प्रयातः । यन्मस्तकं यस्य च वीर्यबिन्दौ शेते विशालं गगनं सुखेन ॥ ८॥ सुधायते यस्य गळे विषं च तस्यालये चण्डमहेश्वरस्य । प्रभातपूजासु च घण्टिकायाः श्रोत्रं गतो मन्द्रगभीरनादः ॥ ९॥ युग्मकम् विन्यस्य पादं शिशुवत् सलीलं सोपानमारुह्य यथाक्रमेण । जगत्पितुस्तस्य पुरः स्थितोऽसौ कृताञ्जलिर्मीलितलोचनोऽभूत् ॥ १०॥ मुखे च या सृष्टिरुदेति मन्द्र - स्थाय्यां शुभाशीर्विशदाक्षरा सा । पुनः स साक्षात्कुरुते त्रिलोकी - सम्राजमाकाशमहाधिपं तम् ॥ ११॥ गन्तुं ततो विक्रमराजधानी - मैच्छत् कविस्तं प्रतिपालयन्तीम् । सूक्तिः पुरैवोज्जयिनीं गता ता - मन्वेति कर्ताद्य यथागुरूक्ति ॥ १२॥ पुष्पाङ्कणं प्राप्य स गोपुरेण मुख्यस्य सौधस्य पुरो जगाम । द्वाःस्थस्तदा तत्पदचारिपान्थ - क्षीणार्तभावं तु निरीक्षते स्म ॥ १३॥ स्नानेन शुद्धोऽपि कुचेलकोऽयं को वा भवेदंसविलम्बिभाण्डः । अथागतश्चाह नृपाय काळि - दासं पुरद्वारि वद स्थितं माम् ॥ १४॥ किं काळिदासः श्रुतपूर्वमेव तन्नाम नामैव ततोऽधिकं न । अथान्तरानीतकविः स राज - दूतानुयातश्चरतीह मन्दम् ॥ १५॥ गच्छत्यसौ पक्षिमृगादिशिल्प - हृद्योन्नतस्तूपशतानि तानि । पुस्तानि चित्राञ्चितपार्श्वभित्तीः पश्यन् सुवृत्तान्तररम्यवीथ्या ॥ १६॥ सम्पूर्यते वेणुमृदङ्गवीणा - नादैः श्रुतिः सिक्तमथाक्षि वर्णैः । दृष्टं च सर्वं रमणीयमेव श्रुताश्च सर्वे मधुरार्द्रशब्दाः ॥ १७॥ ग्रामप्रियोऽयं तु तथापि राज - हर्म्यं जनाकीर्णमिदं गभीरम् । घोरानलेनावृतवासगेह - समानमेवेति विमन्यते स्म ॥ १८॥ जालं किलेदं परपुष्टनाम्नो - प्यतन्त्रसञ्चारिविहङ्गमस्य । तथापि नाकानुकृतिः पृथिव्यां मनुष्यसृष्टेयमनन्यरम्या ॥ १९॥ सुदीर्घमार्गक्ळमतप्तपादः स वेत्रवत्याऽऽदरतोऽनुयातः । उपैति सोपानमशेषविद्व - दभ्यर्चितं मण्डपसन्निधिस्थम् ॥ २०॥ तिष्ठत्यसौ विस्मितनेत्रयुग्मः कविः परं विक्रमचक्रवर्ती । सिंहासनस्योपरि सन्निविष्टो विराजते सूर्यसमानतेजाः ॥ २१॥ स्वर्णच्छदैः केसरिभिश्चतुर्भि - र्धृतं हि सिंहासनमस्य पश्चात् । शुक्ळाभ्रशुभ्राभसुवर्णदण्ड - च्छत्रं च शैत्यप्रदचामरे च ॥ २२॥ सुचित्रितं येन रसार्द्रवाचा रघूत्तमानां चरितं सुधीरं । कविः स पश्यत्यधुनैव कञ्चि - न्महीपतिं ह्येष तु विक्रमार्कः ॥ २३॥ शकारिमेतत्सदृशं व्यचिन्ति पूर्वं तथा नेत्यवधार्यतेऽद्य । अयं न तीक्ष्णव्रतवान् दिलीपो रघुर्न यो दिग्विजयी यशस्वी ॥ २४॥ अजोऽपि नार्द्राकुलमानसस्तत् - पुत्रोऽपि नो यः प्रियवल्लभायै । गृहीतमृत्युर्भवति स्म नैव त्यागैकशीलः स च रामचन्द्रः ॥ २५॥ अनन्वयो विक्रमभूमिपाल - स्तथापि कामप्यकळङ्ककन्याम् । स्वीयां व्यधाद् यो विनिगूढतन्त्रै - स्स चाग्निमित्रः स्मरणे प्रविष्टः ॥ २६॥ कलापकम् एषा कथा यद्यपि विक्रमार्क - कीर्तीन्दुमध्येऽस्ति कळङ्करेखा । तथापि हस्ताहितचामराभि - स्तन्वीभिरुत्पक्ष्मळतूलिकाभिः ॥ २७॥ अदृश्यपत्रेषु शकोग्रयुद्धे विजेतुरेतन्नृपविक्रमस्य । प्रतापशौर्यादिकथाविशेषो विलिख्यतेऽद्यापि निरन्तराळम् ॥ २८॥ नक्षत्रमालाधवळान्तरीक्ष - मध्ये यथा पूर्णशशाङ्कबिम्बम् । विभाति तद्वत् खलु विक्रमार्क - राजाधिराजः स हि भीमकान्तः ॥ २९॥ जानाति नाचारमसौ तथापि राज्ञे जयाशीर्वचनानि दत्वा । आनम्रशीर्षः कविरत्र तस्थौ शुभाय वा प्रार्थितवान् महेशम् ॥ ३०॥ जयालुराद्योज्जयिनीपुरीयं यस्याः शिरो वा मन एव राजा । स्मश्रुप्रवृद्धे क्षितिपालवक्त्रे स्मितं तु किञ्चित् समुदेति मन्दम् ॥ ३१॥ यथाम्बरे श्रावणमेघपुर्णे मनोहरा चन्द्रकलावतीर्णा । दृष्ट्वैतदस्मिन् कविमानसेऽपि विश्वासलेशः स्फुटितः क्रमेण ॥ ३२॥ रजःप्रभावोडुविलोचने ते नवागतं तं स्पृशतः सुखेन । आरोढुमत्रोन्नतपीठमेनं निमन्त्रयत्याङ्ग्यवशात् सभायाम् ॥ ३३॥ क्षीणः कविर्नम्रशिराः स नन्द्या समग्रहीदासनमादरेण । शरीरमेतद्दयनीयमस्य वेषश्च भूषाप्यपरिष्कृता च ॥ ३४॥ सुसंस्कृतः किं परमात्मदीपः प्रकाशते वा लघुमृद्घटेऽस्मिन् । दत्तो वरोऽयं कविकीर्तिरूपः केनोन्मिषद्यौवनधारिणेऽस्मै ॥ ३५॥ जानीमहेऽत्राद्य चरन् सुदूरं समागतो माळवदेशतस्त्वम् । तद् गच्छ विश्रामय चाविळम्बं स्वच्छन्दमित्याह नृपः पुनश्च ॥ ३६॥ नैवातिथिस्त्वं मम राजधान्यां मदात्ममित्रं भवसीति विद्धि । मैत्री कथं निस्समचित्तयोरि - त्यन्तः कवेश्चिन्तितमस्ति कस्मात् ॥ ३७॥ युग्मकम् क्व चातपत्रस्य च चामरस्य छायां गतोऽधीशपदाधिकारात् । उन्मत्तचित्तो नृपतिः क्व चायं कविः कलालोलमनाश्च निस्स्वः ॥ ३८॥ शान्तिं न काञ्चिल्लभते च चित्त - मस्मिन् निकेतेऽधिकशान्तिलक्ष्ये । क्षौमास्तृतेयं मृदुरम्यशय्या विचित्रपर्णान्युपबर्हणानि ॥ ३९॥ वितानकालंकृतमञ्जुमञ्चः पीठानि रूप्यावपनेषु तत्र । माधुर्यधुर्याणि फलानि नैक - मद्यानि च स्फाटिकभाजनेषु ॥ ४०॥ कविं शुभाशंसनया च साकं प्रलोभकानि प्रतिपालयन्ति । किन्त्वत्र चेतो विजनेऽत्यगाध - दुःखह्रदे हा पततीव भाति ॥ ४१॥ विशेषकम् सत्रे निशायां च वटद्रुमूले - प्यबाधनिद्रासुखमार्जितं किम् । भद्रेऽत्र कोष्ठे मृदुमञ्चकेऽस्मिन् निश्शब्दरात्रेऽप्यमलप्रशान्ते ॥ ४२॥ निद्रां विदूरीकुरुते च को वा निस्तन्द्रमस्वास्थ्यमिहान्तरा किम् । अशान्तचित्तस्य कुतः सुखं किं मथ्नाति चास्वस्थमनोऽवशं वा ॥ ४३॥ युग्मकम् कवेर्मनो योऽत्र समाचकर्ष निश्शब्दमोहो विफलः स किं स्यात् । करोषि किं ग्रामसुते मनोज्ञे ह्यन्तःपुरेऽस्मिन् कुहचिद् वसन्ती ॥ ४४॥ क्व वाधुना त्वं सुमवाटिकायां लीलागृहे वा प्रमदावने वा । किं ते स्मृतौ ताः कनकाभसन्ध्याः ग्रामापगासैकतशीतवाताः ॥ ४५॥ अपि स्मरस्येकवटद्रुमं त - च्छायागतं तं कतिचिल्लिखन्तम् । दिदृक्षसि त्वं सकृदप्यहो त - न्मुखं तवेक्षाविहितानुयात्रम् ॥ ४६॥ चित्तं कवेरात्मगतेष्वशान्ते - ष्वामग्नमद्धा पुनरुत्थितं तत् । स्पृष्टाररः कश्चिदिहार्धबोधे - नान्तःप्रवेशाय कृतानुवादः ॥ ४७॥ द्वारं विवृत्य प्रविवेश सौम्यो - दारस्मितः साञ्जलिरन्तरासौ । शुश्रूषणार्थं च कवेर्नियुक्तो नृपेण योऽग्र्यो वयसा दयावान् ॥ ४८॥ स्नेहार्द्रवाग्दर्शनसेवनाद्यौ - त्सुक्यं कविं तोषयति स्म यस्य । सप्रश्रयं पल्लवनामकोऽह - मित्यब्रवीद् योऽथ तमन्वियेष ॥ ४९॥ अभीष्टभोज्यानि च नित्यनैमि - त्तिकानि कर्माचरणानि तस्य । स्मितेन मौनं स समाचरंस्त - दनन्तरं गौरवयुक्तमाह ॥ ५०॥ न तानि वक्तुं प्रभवाम्यहं तु ग्रामीण एवात्र च पार्थिवानि । धान्यानि मूलानि फलानि सर्वा - णीष्टानि मेऽन्यत् किमिति ब्रवीमि ॥ ५१॥ विशेषकम् क्षणं विचिन्त्याह कविः सदापि द्रष्टुं च मामर्हसि पल्लव त्वम् । तस्येष्टकार्याणि सदानुतिष्ठन् स पल्लवोऽभूत् कविमित्रमाप्तम् ॥ ५२॥ अन्यत्वबुध्या प्रतिभान्तमेतं राजालयं मामिह पल्लवोऽयम् । बध्नाति यस्तं निजसन्निधानं नेतुं नृपाज्ञां विनिवेद्य तस्थौ ॥ ५३॥ प्रणम्य भूपं कविरास्त नाना - रत्नाञ्चितेऽन्यत् सदसीव रत्नम् । नान्दीं महाकाळपरां जिगाय कोऽन्यः कवेरस्ति च वन्दनीयः ॥ ५४॥ अत्युन्नतैश्वर्यधरोऽपि सर्वं दत्त्वाश्रितेभ्यो धृतकृत्तिवासाः । कान्तार्धदेहोऽपि विरक्तचित्तो यतीश्वरोऽष्टाङ्गकळेबरेण ॥ ५५॥ बिभ्रत्प्रपञ्चोऽप्यभिमानहीनो महेश्वरो मङ्गलसत्पथेषु । निरुध्य वृत्तिं च तमोमयीं वो नयत्विति प्रोच्य समापयत् सः ॥ ५६॥ युग्मकम् ईशस्तवेऽप्यत्र किमान्तरार्थः कटाक्ष्यतेऽचिन्ति न कैश्चिदेवम् । नृपोऽपि धन्योऽद्य तु काळिदास - सूक्त्या सभा मे समलङ्कृतेति ॥ ५७॥ द्वेधा सभां मे नवरत्नभूता - मलङ्कुरु त्वं विदुषां मनोज्ञाम् । एवं नृपे वक्तरि साधुवादैः सभातलं हर्षसमृद्धमासीत् ॥ ५८॥ असौ तु भाग्यप्रणयैकपात्रं वाणीप्रसादं कथमेष लेभे । वागस्य मायाशिखिबर्ह एवे - त्यासीत् सभा मिश्रविकाररम्या ॥ ५९॥ पप्रच्छ राजा कविनोक्तपद्यं कस्मिंश्च काव्ये भवतीत्यथेदम् । स्वनिर्मिते नूतननाटके च नान्दीत्यवोचत् कविरादरेण ॥ ६०॥ तद्दर्शनायात्तकुतूहलोऽसा - वाह प्रयोगः क्रियतां च तस्य । आगामिचैत्रोत्सव एव तत्रा - स्त्याज्ञा न वाशीर्वचनं च राज्ञः ॥ ६१॥ भासादिपौराणिककाव्यकर्तॄन् विहाय किं स्निह्यति काळिदासे । सभेयमित्यस्ति कवेर्विशङ्का सभासदां चापि नृपस्य नैव ॥ ६२॥ स्मरान्तराचार्यवरं विनीतो वन्दस्व चेत्यात्मनि मन्त्रिते तु । कविर्निजस्थानगतोऽस्ति काव्यं ध्वनिप्रदीप्तं लळितं यथा स्यात् ॥ ६३॥ उद्यत्समाह्ळादसुपूर्णिमाया - मप्यस्तशक्ता हसितुं यथाब्धिः । सर्वात्महृष्टः कथमातपत्र - च्छायागतश्चामरवातशीतः ॥ ६४॥ कक्ष्याप्रदीपं निभृतं प्रकाश्य शुश्रूषिकायां तु बहिर्गतायाम् । आयाति देवाहुतिधूमगन्धे सन्दृश्यते हा स्मृतिसानुसीम्नि ॥ ६५॥ अपुष्पिताशोकतरोरधस्ता - न्मञ्जीरशिञ्जामनु पुष्पमेळा । अस्त्यत्र सर्गात्मकभद्रमूर्ति - श्चित्तं तु भग्नं व्यथितं च यस्य ॥ ६६॥ युग्मकम्
अष्टमः सर्गः रङ्गोत्सवस्य ध्वजारोहः लतानिकुञ्जे रसिकोऽङ्गनानां पुंस्कोकिलो गायति लीनदेहः । अन्तःपुरान्तात् प्रवहन्ति तन्त्री - लयान्वितप्रेमसुगीतकानि ॥ १॥ नवीनवासन्तमहोत्सवस्य ध्वजाधिरोहं दधतेऽतिमोदाः । सपल्लवाशोकपलाशचूता - स्तदोज्जयिन्यस्ति वसन्तरथ्या ॥ २॥ सुगन्धतैलज्वलदग्निदीपा वसन्तपुष्पाण्यभवन् निशायाम् । आतोद्यगीतानि च नाट्यगेहे नान्दीं ब्रुवन्त्यत्र महोत्सवस्य ॥ ३॥ सर्वेन्द्रियामोदविशेषहेतुः सामाजिकानां च सतां मनोज्ञम् । प्रयुज्यतेऽद्य प्रथमं हि काळि - दासप्रणीतं नवनाटकं तत् ॥ ४॥ राजाधिराजः पुरतो निषण्णः पश्चात् कलातत्त्वविदो रसज्ञाः । आर्द्राशयाश्चान्यसुखासुखज्ञाः शङ्काविलोलाः सुसमानचित्ताः ॥ ५॥ नव्येषु सर्वेषु पराङ्मुखाश्च भवन्ति दोषैकदृशश्च केचित् । प्रतिक्षणं वर्धत एव कौतू - हलं तदेकाग्रलयं विचित्रम् ॥ ६॥ युग्मकम् यदाग्निमित्रस्य पुरो निजात्मा - र्पणं पदं माळविका विगीय । नृत्तं विधत्ते च तदा प्रहर्ष - वर्षः कियान् विक्रमभूपचित्ते ॥ ७॥ इयं पुरो माळविकापरास्ति निवेदयन्ती पदमेव तन्मे । चिन्ताकुलोऽभून्नृपतिस्तदायं कवीश्वरः किन्नु परेङ्गितज्ञः ॥ ८॥ यतो ह्यहं माळविकानुरक्त इत्येतदत्यन्तनिगूढमेव । राजालयस्थं च रहस्यमेवं कविर्विजानाति कथं न जाने ॥ ९॥ कवेस्तृतीयं नयनं चकास्ति येनैकहस्तामलकप्रकाशम् । जगत्त्रयं पश्यति यस्य सर्व - मन्तर्निविष्टं सुतरां सुतार्यम् ॥ १०॥ मदीयसत्यान्यत एव मन्ये मम प्रियस्वप्नशतानि चासौ । कविः समाविष्कुरुते यथा मे हृदि प्रविष्टोऽतिनिगूढदेहः ॥ ११॥ पुरोऽत्र चेटी बकुळावलीयं राज्ञीप्रदत्तेन च नूपुरेण । करोत्यलं माळविकापदाब्ज - मालक्तकार्द्रारुणकोमळाभम् ॥ १२॥ अनुक्षणं सर्वमिदं विलोक्य तिष्ठत्यसौ वृक्षलतानिलीनः । नृपोऽग्निमित्रस्तरळाकुलाङ्गः सभास्थितोऽयं च नृपस्तथैव ॥ १३॥ सूक्ष्माणि रङ्गे चलनानि नाना - सभासदां च प्रतिभावभेदान् । समं निरीक्ष्य क्वचिदत्र कोणे कविर्निषण्णो विनिगूढहर्षः ॥ १४॥ तथापि गूढं निहितं यदन्त - र्दुःखं बहिस्तत्प्रवहत्यबाधम् । इयं च मे माळविकाऽवरोधे विभाति या माळवरम्यशोभा ॥ १५॥ विराजतेऽसौ हिमशुभ्रपुष्पं राज्ञी च धारिण्यतिमात्रशुद्धा । इरावतीयं मधुमत्तलोला चाम्पेयसूनं प्रविलोभनीयम् ॥ १६॥ एतत्प्रसूनद्वयमग्नचित्तो नृपालभृङ्गः कलिकां नवीनाम् । कन्यामिमां माळविकां विलोक्य गुञ्जन्निहास्ते मधुलोलुपोऽयम् ॥ १७॥ यदा मयैतद्विटभृङ्गमोहः प्रशंसितोऽभूद् विमलानुरागः । तदाहमात्मानमनिन्द्यमेवे - त्यवैमि निष्पक्षविमर्शनेन ॥ १८॥ अतीव निन्द्या विटवृत्तिरेषा साधारणानां यदि मानवानाम् । ग्राह्यो हि धर्मो विहितो हितश्चा - साधारणानां धरणीपतीनाम् ॥ १९॥ अहो वसन्तोत्सव एव तेषां राज्ञामिदं जीवितमस्ति यस्मिन् । न केवलं चैकसुमेन देया माध्वी सहस्रैः कुसुमैः परन्तु ॥ २०॥ प्रत्यक्षदृश्यं त्विदमेव चातः - परं विशेषान्तरिकार्थजातम् । जानन्तु तेऽज्ञातवचांसि चैवं सत्यस्य तास्ताः परभागशोभाः ॥ २१॥ उद्यानरङ्गे परितोऽग्निमित्रो भ्रमत्यलं कामविकारमूढः । कर्तुं मनश्शान्तिविभङ्गमस्मिन् स्मरोऽद्य किं पातयति प्रकामम् ॥ २२॥ मन्दारजातीसहकारपुष्प - बाणानथास्या निशितान् कटाक्षान् । कामातुरो माळविकापदाब्ज - स्पर्शामृतं प्रार्थयते नरेन्द्रः ॥ २३॥ युग्मकम् विन्ध्यं च विद्युल्लतया निहन्तु - मभ्युद्यतेवाम्बुदमालिका सा । इरावती रोषकषायिता स्व - काञ्च्या नृपं ताडयितुं प्रवृत्ता ॥ २४॥ तस्यास्तु पादग्रहणेन राजा मां दण्डयेत्याह शमाभिलाषी । गृह्णीष्व तौ माळविकापदावि - त्युक्त्वा गता सा ज्वलदग्निकल्पा ॥ २५॥ पश्यामि नाट्ये मुकुरे मदीयं सत्यं किलेत्येवममंस्त भूपः । निर्वर्ण्य रङ्गं त्विदमात्तहर्षा सभापि हृष्टं च कविं करोति ॥ २६॥ यथानृपेच्छं तरुणीं विवोढुं करोत्युपायान् बहुधा रसेन । यो गौतमो नर्मसुहृत् स एवे - त्यलं विजानाति नृपालवर्यः ॥ २७॥ विना तु गत्यन्तरमत्र राज्ञो नवेष्टवध्वै प्रियधारिणी सा । सुस्वागतं वक्ति सशङ्खनादं समाप्यते चान्तिमपञ्चमोऽङ्कः ॥ २८॥ तत्सूचको मङ्गळमञ्जुगाना - लापश्च हृद्यो विदुषां समाजे । समुत्थितं तत् करघोषणं च सन्तोषयामासतुरद्य भूपम् ॥ २९॥ अन्विष्यते सर्वजनैः कवीन्द्रो राज्ञापि सार्द्रस्वरभावभाजा । आनीयतेऽयं पुरतश्च तस्य संतृप्तिसम्पूरितनेत्रयुग्मः ॥ ३०॥ करेऽस्य राजा नवरत्नरम्यां सुशृङ्खलामर्पयति द्रुतं सा । पतत्यथात्मन्यतिगूढमस्मिन् भुजेऽथवेति क्षणमालुलोच ॥ ३१॥ आस्तां न जानातु कदाचिदस्य भारं निषण्णोऽस्ति कविर्विनम्रः । आभूष्यते किं मकुटेन तस्य शीर्षः प्रकामं विनयाभिधेन ॥ ३२॥ आराधनाप्रोज्ज्वलनीलनेत्रै - र्निराज्यतेऽयं तरुणः कविः किम् । दग्धाः किमीर्ष्याघनसारखण्डाः सविस्मयालोकनभाजनेषु ॥ ३३॥ हर्षातिरेकेषु सभाखिला सा निमज्जनोन्मज्जनमातनोति । ततः समुद्भूय चिराद् ध्वनन्त्य - विच्छिन्नधारोज्ज्वलहस्तघोषा ॥ ३४॥ नवागतो नाटककृत् तथापि तन्नाटकं प्रीतिदमाबभूव । विद्वज्जनानामिति नाट्यकाराः परस्परं सम्प्रति मन्त्रयन्ति ॥ ३५॥ प्रीता वयं सांप्रतमित्यवादी - न्नृपालको यन्महती प्रशंसा । प्रसादरूपेण विराजते स्म प्रत्यक्षमेवास्य विलोचनान्ते ॥ ३६॥ रङ्गे स्थितां नाटकनायिकां स दृष्ट्वा तु राजा लळिताशयां ताम् । प्रोवाच नृत्तं छलितं तवेदं द्रष्टुं च भूयोऽपि ममाभिलाषः ॥ ३७॥ कृताञ्जलिर्मन्दमथो जगामै - वाधोमुखी सा न विलोक्य कञ्चित् । अन्तःपुरं प्राप नृपालको नि - श्शून्यस्त्वभून्नाट्यगृहाङ्कणोऽपि ॥ ३८॥ एकान्तसङ्केतमवाप नैजं चिन्तान्तरं वा स कविः किमर्थम् । सन्दिग्धचित्तोऽभवदेष तस्यां संवृत्य दृष्ट्वेममिह स्थितायाम् ॥ ३९॥ अचिन्ति यन्माळविका ममेयं किमु क्षणात् प्राक् तदभूद् यथार्थम् । यद्येकमत्रानुविचारयेत् त- मेवाथ पश्येदिति किन्नु माया ॥ ४०॥ इयं च ते माळविकेति गूढं दौत्यं वहन्ती च कपोतिकैका । समेत्य सन्मानसनीडकं तत् प्रविश्य सञ्जल्पति किं मनोज्ञम् ॥ ४१॥ हर्षस्तदाकस्मिकदर्शनेन खेदोऽथवा तत्क्षणिकत्वदृष्टेः । न किञ्चिदूचे मिथ इत्यतुष्टि - र्दृष्टोऽप्यभिज्ञात इवेति शङ्का ॥ ४२॥ अपश्यदित्येव यथार्थमित्थं विभिन्नचिन्तामथनेन जाते । दन्दह्यमानो ज्वलनेऽतिघोरे लाक्षागृहोऽभूत् कविचित्तमद्य ॥ ४३॥ युग्मकम् अस्मादशक्यं तु पलायनं हा तपैवमेकान्तदुरन्ततायाम् । भाग्यातिरेकं मम चिन्तयित्वा निद्रां त्यजेयुर्बहवोऽत्र रात्रौ ॥ ४४॥ एकान्तनिर्भाग्यहतोऽस्मि निद्रा - विहीन एवेति न कोऽपि वेत्ति । द्वारेऽस्ति कः पल्लव एहि किं वा स्वरे तु कातर्यमबोधपूर्वम् ॥ ४५॥ अस्त्यद्य युष्मद्दिनमुज्जयिन्यां सार्वत्रिकं ते शुभनाम चैव । गतेषु सभ्येषु समेषु कर्णे ध्वनत्यसौ हर्षरवो गभीरः ॥ ४६॥ किमेतदास्ये न स हर्षराशिः किमत्र चिन्ताकुलितस्त्वमास्से । तदापि दृष्टो न च मन्दहासो भवन्मुखे कश्चन यन्मुहूर्ते ॥ ४७॥ अस्मिन् करे विक्रमभूमिपेन समार्द्रचित्तेन दयाधिकेन । विभूषिते वीरसुशृङ्खलेन भवानभून्मुख्यविशिष्टरत्नम् ॥ ४८॥ विद्वत्सभायां महितोज्जयिन्यां तथाप्ययं गौरवभाव एव । इत्याह वेलातटमेत्य फेनान् भिन्दन्निवोर्मिः स च पल्लवोऽपि ॥ ४९॥ विशेषकम् गते मुहूर्ते तु नितान्तमूके सस्मार दीनं कविराकुलात्मा । अस्मिन् रहस्ये किल भागभाक्त्वं कोऽन्यो भजेत् पल्लवतोऽप्यमुष्मात् ॥ ५०॥ राज्ञा नियुक्तो मम सौख्यचर्यां निर्वोढुमेवायमतःपरं यः । मदिङ्गितज्ञोऽभवदेष मे य- ज्जानातु तद्दुःखजमान्तरार्थम् ॥ ५१॥ अथाह मन्दं स तु पल्लवस्या- काङ्क्षां प्रगाढां शमयन् कवीन्द्रः । निजप्रियग्रामटिकासुतायाः कथां स्वकीयां च विकाररम्याम् ॥ ५२॥ कथानुबन्धः कविनोच्यतेऽय- मिहैव जन्मन्यनुरागमुग्धम् । द्रष्टुं सकृत् तन्मुखपद्ममेत- न्निमन्त्रणं स्वीकृतमुज्जयिन्याः ॥ ५३॥ सर्वाभ्यसूयापदमद्य सर्वैः समादृतोऽसौ कविरेव किं वा । अगाधतायां बडवाग्निदग्ध- समुद्रवच्छान्तमना इवास्ते ॥ ५४॥ विश्वास्यभूमेरतिवर्तते हा सत्यस्य नानाविधसूक्ष्मतत्त्वम् । स्मृत्वा परं पल्लव आह भूयः कथाविशेषं तमनुक्रमेण ॥ ५५॥ स्मरामि पद्मेव मनोज्ञकन्या काचित् ततो माळवतः कदाचित् । अन्तःपुरस्याङ्कणसीम्नि चास्मि- न्नान्दोळिकातोऽवततार मन्दम् ॥ ५६॥ स्मरामि चाद्यापि मुखं तु तस्या लुब्धेन पश्चादनुधावितायाः । मृग्या इवोपेतभयं न चान्या नृत्तं चकार च्छलिताभिधानम् ॥ ५७॥ अभ्यस्य नृत्तं लळितं च गीतं वने लतोद्यानलता च जाता । एवं च सा नेत्रकनीनिकाभू- न्नाट्योत्तमाचार्यपरम्पराणाम् ॥ ५८॥ अन्तःपुरे नृत्तखळूरिकाया- मेकाकिनी सा निषसाद नित्यम् । तस्थौ परासां बहुनर्तकीनां मध्ये च निश्शब्दतरङ्गतुल्या ॥ ५९॥ कमप्यसौ पश्यति नो तथापि सम्पश्यमाना भवतीह सर्वैः । अनन्तरं पल्लव आह मन्द- मेतत्सुकन्यामुखदर्शनेन ॥ ६०॥ स्वप्नद्रुमः पल्लवितो बभूव श्रीविक्रमस्येति तु किंवदन्ती । पाषाणभित्तेरपि चास्ति कर्णो रहस्यवेदीह समीरणोऽपि ॥ ६१॥ युग्मकम् कविः स मौनं न बभञ्ज साल- भञ्जेव निश्चेष्टशरीरमास्ते । स पल्लवः स्नेहविलोलमंसे स्पृशन् करेणैवमुवाच हार्दम् ॥ ६२॥ करोमि किं वा वद मां यथेष्टं ममाभिलाषस्त्वयमेक एव । तया सहैकान्तभुवि स्थितस्तां सम्भाषितुं केवलमीक्षितुं वा ॥ ६३॥ जानाति योऽन्तःपुरगं च सर्वं स पल्लवस्तं कविमेवमूचे । सम्भावये स्नेहमिमं पवित्रं त्वदीयदौत्यं च वहामि भद्रम् ॥ ६४॥ नवं च रत्नं नवसूज्ज्वलं च रत्नेषु तेऽस्म्युज्जयिनि प्रकामम् । कीर्त्यैतया वक्ष्यसि लब्धवाने- वास्मिन्नसूयानिशितान् पृषत्कान् ॥ ६५॥ भवद्यशोरत्नमनोज्ञपेटा- मेवं सदा पूर्णतरां विधातुम् । तमस्यनेके प्रविनष्टसर्वा- श्चरन्ति निश्शब्दविलापपूर्णाः ॥ ६६॥ सर्वेऽप्यदृश्यायतशृङ्खलाभि- र्बद्धा बलान्निष्ठुरबन्धनेऽस्मिन् । एतेषु मध्येऽन्यतमोऽप्यहं चे- त्ययं कवीन्द्रः शयने पपात ॥ ६७॥ स्वच्छन्दसञ्चारसुखेच्छुरात्मा योऽस्यैव साक्षादसहायतासौ । कञ्चिन्निधिं हा परिपालयन्तः स्नेहेन वीथ्यां तु लसन्ति दीपाः ॥ ६८॥ युग्मकम्
नवमः सर्गः श्यामयामाः श्यामपक्षे किमेतस्मिन् ज्योत्स्नागमविळम्बनम् । यामिनीहृदयं व्यग्रं तितिक्षारहितं यथा ॥ १॥ पर्णराजिर्निश्चलास्ति कुत्रागच्छत् समीरणः । प्रदीपाश्चान्तराळेषु निमिषन्ति मुहुर्मुहुः ॥ २॥ अन्तःपुरं च निद्रालु प्रशान्तं सुखसान्द्रितम् । तथापि कविरेकाकी निद्राहीनो निषीदति ॥ ३॥ अज्ञात्वा भूतलेनापि पादं विन्यस्य कश्चन । आगत्य कविमेवं तत्कर्णे मन्त्रयते किमु ॥ ४॥ उत्थिष्ठागच्छ गच्छावो मामेवानुव्रज क्षणम् । सुज्ञातः पल्लवस्येह मार्गः सर्वोऽपि दुर्गमः ॥ ५॥ अन्तःपुरेऽल्पविवृतं गवाक्षं च तदन्तिके । कविं द्रष्टुं तरळितं नेत्रं विन्यस्य साऽऽधुना ॥ ६॥ प्रतिपालयतीत्युक्तेः पूर्वमेव समुत्थितः । अविश्वासप्रतीत्येव कविस्तत्रैव तिष्ठति ॥ ७॥ वर्धितैर्हृदयस्पन्दैर्दीर्घैर्निःश्वसितैरपि । मन्दं मन्दं स चलति पल्लवेन समं कविः ॥ ८॥ तिष्ठत्स्वपद्गजवरवृन्दवन्निश्चलाभया । वृक्षपङ्क्त्या विचित्राभिर्विशालाङ्कणवीथिभिः ॥ ९॥ आलेखितानेकवर्णच्छायाचित्रमनोहरैः । लताकुटीरैर्युक्ताभिरन्तरङ्कणवीथिभिः ॥ १०॥ सञ्चरन्तौ नोदितायां चन्द्रिकायां पुरोभुवि । अन्तरिक्षप्रभादृष्टमार्गेणेह कथञ्चन ॥ ११॥ शिलाशृङ्खलिकादीर्घराजगेहसमुच्चये । गेहस्यैकस्य पृष्ठान्ते तस्थतुस्तावुभावपि ॥ १२॥ कलापकम् तत्र भित्तिषु सर्वत्र व्याप्तपुष्पितवल्लिका । तयोर्निगूढस्थित्यर्थं छायागृहमभूत् किमु ॥ १३॥ कुटजानां पुष्पितानां सुगन्धेनाखिलं नभः । सुवासितं च चित्ते तु सप्तसिन्धूच्चलद्ध्वनिः ॥ १४॥ सोत्कण्ठितं कविस्तस्थौ सान्द्रच्छाये स पल्लवः । निरीक्षते क्व वा दृश्यमीषद्विवृतजालकम् ॥ १५॥ तनुक्षौमेनावृतं तत् पुरतो दृश्यते किमु । प्रतिपालयिता पश्चात् कविदृष्टिप्रलोभिनी ॥ १६॥ गवाक्षसुषिरेणाथ कञ्चिद् गुप्तं दिदृक्षुणी । दृश्येते तारकादीप्तमनोहरविलोचने ॥ १७॥ छायारूपं पल्लवस्य प्रत्यभिज्ञाय सा द्रुतम् । पप्रच्छोद्वेगसहिता -सोऽयं -मौनमथाचरत् ॥ १८॥ आह्वयेऽत्रैवास्ति पश्चादित्यस्मिन्नुक्तवत्यहो । धूमायितनिशालोके चान्वियेषाक्षियुग्मकम् ॥ १९॥ पुनःसमागमारम्यसन्मुहूर्तपरम्परा । वर्णिता येन सोऽधीरो जायतेऽस्मिन् मुहूर्तके ॥ २०॥ पुरा वटद्रुच्छायायां किञ्चित् स्वस्मिन् लिखत्यहो । आरादुपेत्य तस्थौ या प्रियकौतुकसन्निभा ॥ २१॥ नीवारस्तम्बकाकीर्णकेदारक्षेत्रसीमसु । नदीतीरेऽपि शारीव भ्रमति स्म तदा च या ॥ २२॥ नष्टीभूतपितृस्नेहवात्सल्यमधुकङ्गुका । सन्त्यज्य या प्रियं सर्वं ग्रामादिह समागता ॥ २३॥ सास्मिन्नन्तःपुरोदाररम्यकाञ्चनपञ्जरे । अन्यैव तिष्ठतीदानीं - मिथोदर्शनमीदृशम् ॥ २४॥ कलापकम् कवौ तस्य गवाक्षस्य छायामाश्रित्य तिष्ठति । स्फुटितं किं चन्द्रिकायाः प्रथमं मालतीसुमम् ॥ २५॥ स्तब्धनिःश्वासवेगा सा बद्धाञ्जलिरवस्थिता । अश्रुपूर्णं तन्नयनमुन्मिषत्येव सस्पृहम् ॥ २६॥ ततो मन्दं पतन्नीहारार्द्रपत्रनिभं वचः । गळितं- विस्मृतैवाहं भवतेति व्यचिन्तयम् ॥ २७॥ विस्मर्तुं नैव शक्नोमि त्वामित्यस्मत्सुदुर्गतिः । इत्युवाच कविश्चित्तनिर्गतं श्वसितं यथा ॥ २८॥ दीप्तयोर्नेत्रयोस्तस्याः पश्यन् तिष्ठत्यसौ कविः । तत्र तस्थावियं किञ्चिदविश्वास्याद्भुतं यथा ॥ २९॥ निजमानससन्तानभूता माळवकन्यका । रङ्गस्था दीपिका साक्षान्नैव च्छाया न संशयः ॥ ३०॥ पुरा वराकी या ग्रामकन्यका नैव साऽऽधुना । यथाशास्त्रं समभ्यस्तनृत्तगीतेयमङ्गना ॥ ३१॥ इतिवक्तव्यतामूढो नैव किञ्चिदुवाच सः । ततः सा कन्यकातीव विषण्णा परिपृच्छति ॥ ३२॥ अथ किं जनको दृष्टः - न चोत्तरमयं ददौ । पितुरन्त्यं चिन्तयित्वा नम्रैवाश्रु मुमोच सा ॥ ३३॥ एकतारां समाश्लिष्य वक्षसि श्रुतिनिर्मलम् । दुरन्तप्रेमचरितं गायन्तं तं वयोऽधिकम् ॥ ३४॥ एकपुत्रीवियोगोत्थसन्तापेनास्थिमात्रकम् । अपश्यदन्ते यत् स्मृत्वा तेन निःश्वसितं तदा ॥ ३५॥ युग्मकम् अशक्तः सान्त्वनायासौ कविस्तत्रैव तिष्ठति । भाषाया निस्सहायत्वमाद्यं जानन्निव क्षणम् ॥ ३६॥ अत्रैव स्यात् किमु भवान् यद्येवं तु कदाचन । द्रष्टुं लभ्येत सन्दर्भश्चेति मौनं बभञ्ज सा ॥ ३७॥ त्वद्दर्शनाभिलाषेणैवोज्जयिन्या निमन्त्रणम् । मया स्वीकृतमद्यैतत् सुकृतं मे - वचः कवेः ॥ ३८॥ सुकृतं तन्ममेत्युक्त्वा सहसा पुनराह सा । यत्त्वया लिखितं तस्य श्रवणेऽर्थावबोधनम् ॥ ३९॥ नासीन्मे किन्तु कुतुकात् तत्र तस्थौ पुनर्मया । तदर्थबोधे हृदयमर्पितं त्वयि सादरम् ॥ ४०॥ दर्शं दर्शं त्वन्मुखं तत् काव्यं श्रोतुमतःपरम् । न स्यात् सौभाग्यमित्येव मत्वा चाहमरीरुदम् ॥ ४१॥ एकदा यत् त्वमागच्छस्तन्मे सुकृतमेव किम् । शब्दं तव शृणोमि स्म गुप्ताहं पुनरप्यमुम् ॥ ४२॥ भावत्कभावनासृष्टकन्यकात्वेन सांप्रतम् । रङ्गेऽतिष्ठं तदा यत्तदपि मे सुकृतं न किम् ॥ ४३॥ एकश्वासेनैवमुक्त्वा स्वस्तिकेन निजोरसि । स्थिता सा पञ्जरगता शारिकेव मनोहरी ॥ ४४॥ तदीयं वचनं स्नेहसान्द्रं कर्तुमजायत । योऽसौ तपति नैजस्निग्धात्मनः पुरतः स्वयम् ॥ ४५॥ दर्शने पुनरप्याशा दर्शनायेति कन्यका । कियन्तं कालमेतन्मे दर्शनं - प्रत्युवाच सः ॥ ४६॥ नष्टस्नेहप्रदीपैकवर्तिकादीप्तिवत् तदा । आगता चन्द्रिका त्यक्तनिद्रा रत्रिरिवोज्ज्वला ॥ ४७॥ आच्छाद्यतां गवाक्षोऽत्र ज्योत्स्ना सर्वत्र संसृता । केवलं पल्लवोऽयं नौ सहायः - साधयाम्यहम् ॥ ४८॥ असह्यो विरहः किन्तु विरहस्य मुहूर्तके । पुनर्दर्शनसौभाग्यं मनसा प्रार्थयत् कविः ॥ ४९॥ छायानुगामिनं यत्तं कविमेवानुवर्तते । तदार्द्रनेत्रं गण्डेऽस्या मुक्ताबिन्दूनधारयत् ॥ ५०॥ चारचक्षुरगम्येन मार्गेण विचरन् कविः । उवाच पल्लवं तेऽहं कृतज्ञोऽस्म्येव सर्वदा ॥ ५१॥ कति साहसकर्माणि कृतानि सुहृदा त्वया । निस्सारं तदिति- स्नेहपारस्पर्यं मनोहरम् ॥ ५२॥ पल्लवे गच्छति कविरेकः शय्यागृहं गतः । कथमायाति वा निद्रा चिन्तामग्ने तु मानसे ॥ ५३॥ II पुनश्च कृष्णपक्षास्ते बहुवारं समागताः । श्यामयामेषु भूयोऽपि बभूवुस्तत्समागमाः ॥ ५४॥ सान्त्वनातीतदुःखस्य मूर्तिमद्भावसम्मिता । तिष्ठतीयं समागत्य मन्दं वातायनान्तिकम् ॥ ५५॥ रक्ष मामिति तन्नेत्रे प्रार्थना किमु विद्यते । का रक्षेति न जानानः कविस्तिष्ठति दुःखितः ॥ ५६॥ यदास्या नृत्तगीतेषु यथाविध्यनुशीलनम् । पूर्तीकरोति भूपस्तद्दिनमेव प्रतीक्षते ॥ ५७॥ तदनन्तरमस्यान्तःपुररम्यवधूगणे । लप्स्यते सापि पदवीमित्येषा तु जनश्रुतिः ॥ ५८॥ नृपस्य प्रीतिपात्रं त्वमित्याचार्योऽन्तरान्तरा । तं ब्रवीत्यभिनन्दोक्तिस्वरेण प्रीतिपूर्वकम् ॥ ५९॥ साक्षाद् ददर्शैव तस्या नृत्तं विक्रमभूमिपः । हृद्यं छलितनृत्तं तदभिनन्दितवांश्च सः ॥ ६०॥ कथाः सर्वाश्च शुश्राव कविस्तस्या मुखात् परम् । हृदयं दर्शयन्तीव सर्वमेवाब्रवीदसौ ॥ ६१॥ विद्वत्सभासु सर्वत्र जयशीला गिरस्तदा । अन्तर्लीना इवाभान्ति कवेर्मूकं तु तिष्ठतः ॥ ६२॥ दर्शनेऽस्या विषादोऽस्ति दिदृक्षैव ततः परम् । तदन्तरे सम्भवेयुः स्वल्पमात्रसुखानि च ॥ ६३॥ कदाचित् कविराह ह्यः स्वप्ने त्वां दृष्टवानहम् । कण्वपुत्रीवेषभूषाधारिणीं सुमनोहरीम् ॥ ६४॥ स्वप्नो यथार्थतामाप ह्यनन्तरमहामहे । शाकुन्तळप्रयोगोऽभूद् राजाज्ञानुसृतं तदा ॥ ६५॥ मृगैश्च साकं संवर्धमानां तापसनन्दिनीम् । तस्यामात्तपुनर्जन्मां दृष्ट्वाश्रूणि ममार्ज सः ॥ ६६॥ विटे मधुकरे तस्याः समागम्य मुखाम्बुजम् । स्पृष्ट्वाऽस्पृष्ट्वा च संभ्रम्य धिक्कृतिं परिकुर्वति ॥ ६७॥ दुष्यन्तमेवाक्रन्द त्वद्रक्षणे केवले त्विमे । एवं सख्योर्हसत्योः स कविर्नम्रमुखो बभौ ॥ ६८॥ विटाद् रक्षितुमाक्रन्देन्नृपमेव सुरक्षकम् । नृपोऽपि विट एवात्र - जहास कविरन्तरा ॥ ६९॥ तुषारबिन्दुवच्छुभ्रलावण्यद्युतिवत् तथा । समायान्तीं मुनिसुतां स्वान्तिकं सुकुमारिकाम् ॥ ७०॥ दृष्ट्वाश्रुपूर्णनयनः पीतचिन्तामधुद्रवः । निषीदति स्म भूपालः सदस्यग्रासने रसात् ॥ ७१॥ युग्मकम् स्वकीयमबलाजन्मैवास्य दुःखस्य कारणम् । निन्दावमानयोश्चेति क्रन्दत्येषा कुमारिका ॥ ७२॥ गृह्णीष्व मातर्मामेवं भूमिदेवीं प्रति द्रुतम् । हस्तं प्रसार्याश्रुपूर्णनेत्रा चोच्चैः प्ररोदिति ॥ ७३॥ तदामंस्त कविः कण्वपुत्री चात्रैव तिष्ठति । इमां न कापि स्वीकर्तुमप्सरा ह्यागमिष्यति ॥ ७४॥ नाटकेऽवसिते राजा साक्षीकृत्य सभासदः । काळिदासमलञ्चक्रे स्वर्णशृङ्खलया करे ॥ ७५॥ हस्तनिर्घोषमुखरं नाट्यगेहमभूत् तदा । अथ क्रमात् सदस्येषु गतेष्वस्तमितो रवः ॥ ७६॥ राजसन्निधिमानीता नाट्याचार्यैर्यथाक्रमम् । अभिनेतृवरा येऽवतस्थुः साञ्जलयस्त्विह ॥ ७७॥ धृतकण्वसुतावेषामभिनेत्रीं नृपालके । अभिनन्दति सस्नेहं तस्थौ निस्सङ्गमेव सा ॥ ७८॥ भयं किं वा परिभ्रान्तिरिति ज्ञातुमशक्नुषी । सादरं साञ्जलिकरा सालभञ्जीव सा स्थिता ॥ ७९॥ कटाक्षवीक्षणेनापि तन्मुखं न ददर्श सा । पतगः पतितः किं वा नृपान्तर्नयने तदा ॥ ८०॥ निरीक्ष्य सर्वमुत्तस्थौ न निरीक्ष्येव शीघ्रतः । निद्रागारमवाप्तुं स निश्चक्राम च भूमिपः ॥ ८१॥ III ज्योत्स्नाकणविहीनायां निशायामपि गच्छति । अशान्तोऽपि कविस्तेन पथा शीलवशात् स्वयम् ॥ ८२॥ अदृश्यरात्रिकुसुमतप्तनिःश्वाससौरभम् । अन्धकारेऽपि सान्निध्यं प्रसारयति सर्वतः ॥ ८३॥ प्रकाशनेच्छुरप्यन्धतामिस्रे स्थितये विधिः । अत्रास्म्यहमिति प्राहेवार्द्रगन्धप्रसारणात् ॥ ८४॥ कञ्चित् प्रतीक्ष्यान्धकारे तिष्ठदक्षीव वर्तते । गवाक्षो विवृतो यस्य मूकशान्ते पुरोभुवि ॥ ८५॥ कविस्तिष्ठति तद्दीर्घनिःश्वासोष्मळमारुते । किञ्चिच्चञ्चलितं किं वा विलोलं जालकांशुकम् ॥ ८६॥ युग्मकम् अप्रख्यापितमप्यस्यागमनं प्रतिपाल्य सा । निर्वापितप्रदीपा तदाह्वानोत्का स्थिता नु किम् ॥ ८७॥ न विशेषः कश्चिदत्रागन्तुमैच्छम्- उवाच सः । नूनमायास्यसीत्येव भाति मे स्मेति सा द्रुतम् ॥ ८८॥ पूर्णमौनेषु निःश्वासैर्व्रणितेषु कथञ्चन । सहसास्याः कण्ठनाळाद् वचोधारा प्रसारिता ॥ ८९॥ असूयालुभटौघेन परीतो वर्तते भवान् । गूढतन्त्रैर्विजेतुं त्वां यो मुहूर्तं प्रतीक्षते ॥ ९०॥ सन्ति कापट्यगर्तानि भवन्मार्गेषु सर्वतः । यदि काचिद् विपत् स्यात् तामशक्ता स्मर्तुमप्यहम् ॥ ९१॥ न हि शक्नोषि मां त्रातुं मम जन्मेदृशं किल । हविरस्मि मदर्थं मा जुहोत्विह भवान् स्वयम् ॥ ९२॥ गच्छ त्वं यत्रकुत्रापि न चिरान्मा विशङ्कया । त्वत्पादरेणुस्पर्शार्थी देशः को वा न विद्यते ॥ ९३॥ भवतो हृदयस्यास्य महासाम्राज्यसीम्नि मे । स्नेहसिंहासनं दत्तमेकमित्यस्ति धन्यता ॥ ९४॥ इतःपरं काम्यमस्य वनपुष्पस्य किं प्रभो । अग्निदग्धमिमं गेहं त्यक्त्वा यातु भवान् द्रुतम् ॥ ९५॥ घनवर्षवदुच्चैः सा प्ररुरोद ततः करम् । प्रसार्य जालरन्ध्रेण तस्थौ सा भावनिर्भरा ॥ ९६॥ स्पृष्ट्वासौ मृदुलं हस्तमस्या मन्दं परामृशत् । कवेस्तदङ्गुलीस्पर्शः सुधावर्षोऽभवत् तदा ॥ ९७॥ न भविष्यति किञ्चिन्मे कस्मात् तेऽशुभचिन्तितम् । किञ्चिन्निःश्वस्याब्रवीत् सः- त्वां हित्वा कुत्र याम्यहम् ॥ ९८॥ विन्यस्योपरि तत्पाणिपल्लवं निटिले तथा । मुखेऽपि निखिले तस्थौ चित्सुखामृतपो यथा ॥ ९९॥ समीपे न विदूरे न - पादन्यासरवः किमु । अन्धकारो वैरिणोऽपि बन्धुः स्यादित्यमन्यत ॥ १००॥ स्तब्धं मनस्तथाप्यन्तर्न्ययच्छन्निजसंभ्रमम् । वातायनं पिधेहीत्थमुक्त्वामन्त्र्य जगाम सः ॥ १०१॥ पुनर्दर्शनसौभाग्यं नाशशंसोपचारतः । पादचारेण सङ्केतं प्राप शीघ्रमसौ कविः ॥ १०२॥ उत्कण्ठया तदा यत्र द्वारि तिष्ठति पल्लवः । भयं भवति तद्दृष्टौ कोऽपूर्वोऽयं परिभ्रमः ॥ १०३॥
दशमः सर्गः रत्नपरीक्षा श्यामयामैरत्र सूक्ष्मचारनेत्राणि तान्यपि । तयोः समागमानां समभवन् गूढसाक्षिणः ॥ १॥ मरुत्तरङ्गिते पत्रव्राते मर्मरसन्निभम् । कर्णाकर्णिकया सा च वार्ता प्रचलिता द्रुतम् ॥ २॥ सचिवेष्वन्ततो गत्वा सत्यं तन्मन्त्रयत्यहो । अशक्नुवन् विश्वसितुं तस्थौ तत्रैव भूमिपः ॥ ३॥ यस्य सत्कीर्तिचन्द्रस्य शीतरश्मिशतैरभूत् । धवळोज्ज्वलवर्णाभा स्वकीयोज्जयिनीपुरी ॥ ४॥ तस्य काव्यकृतस्तन्वी सा किं प्रणयभाजनम् । तथापि विक्रमार्कस्य सा कथं विस्मृता भवेत् ॥ ५॥ युग्मकम् स्वमनोहारिणी कन्या पक्षे तिष्ठति सांप्रतम् । प्रतिपक्षे तु धन्योऽसौ कविमित्रं च तिष्ठति ॥ ६॥ अनयोस्तु परित्यक्तुमेकं शक्नोमि हा कथम् । इति धर्मव्यथामग्नो मध्ये तिष्ठति भूपतिः ॥ ७॥ केवलं ग्रामकन्या सा तथापि सुरमार्गतः । अप्सरा इव चान्दोळादस्मिन् राजाङ्कणे यदा ॥ ८॥ अवतीर्णा तदारभ्य तस्यां सक्तं मनो मम । निरक्षरा साद्य पुनर्नाट्यसङ्गीतकोविदा ॥ ९॥ युग्मकम् तादृशीं तां वधूकर्तुं प्रत्युद्गन्तुं यथाविधि । शुभावहां तिथिं राजा मुहूर्तं च प्रतीक्षते ॥ १०॥ कथामिमां राजधान्यां को न जानाति पूर्णतः । अज्ञात्वा हि कवेश्चित्तं तत्सक्तं नृपमानसम् ॥ ११॥ अत्युदारमना भूत्वा यमसौ समभावयत् । स एव कविरत्रैवमवजानाति भूमिपम् ॥ १२॥ इदं तु सर्वं जानन्नेवैकान्ते च तया सह । समागमाय धिक्कारं कुर्वन् योऽसौ सुहृत् कथम् ॥ १३॥ रत्नं सा स कवीन्द्रोऽपि रत्नं वर्धितमूल्यकम् । अतस्तं मा त्यजेत्येतदुपदेशोक्तिसान्त्वनम् ॥ १४॥ विक्रमार्कस्य कर्णे तु कुर्वन्ति सचिवाः सदा । सामदानाद्यतिक्रम्य दण्डः किं नु विचार्यते ॥ १५॥ युग्मकम् सचिवैस्तन्त्रनिपुणैर्मनःसन्तुलनान्वितैः । मन्त्रयन्मोचनोपायं पश्यत्यवनिपालकः ॥ १६॥ न किञ्चिदपि जानामीत्येवंभावनया नृपः । आसनस्थोऽभवद् यस्य पुरतो नीयते कविः ॥ १७॥ विश्वासशीतळज्योत्स्नां हृदये सम्प्रसारयन् । कुशलं पृच्छति कविं राजा स्मेरमुखाम्बुजः ॥ १८॥ श्रोतुं वार्तामतिक्रूरां स्वीकर्तुं दण्डनं तथा । पीडनं चानुभोक्तुं निस्सङ्गभावेन चेतसा ॥ १९॥ सन्नद्धः काव्यकारोऽत्र निषण्णो राजसन्निधौ । सन्ने यस्य मुखे नासीत् किन्तु मन्दस्मितोदयः ॥ २०॥ अकालसम्भवत्कालमेघवर्षो यथा तथा । अभिनन्दनवाग्धारां वर्षत्यस्मिन् कवौ नृपः ॥ २१॥ छत्रस्याधश्चामरस्य वातो मे वाति पार्श्वतः । तथापि मित्र ते स्नेहशैत्यमेवाभिकामये ॥ २२॥ कवेः स्वच्छन्दवासोऽत्रैवेति मे पुळकप्रदम् । तुष्ट्या तृप्त्या किन्तु सर्गास्वास्थ्येनेह समावस ॥ २३॥ पुनराह नृपः श्रीमन्नगायत पुरा भवान् । अहैतुकीं प्राणवतामव्यक्तमधुरां व्यथाम् ॥ २४॥ आत्मानुभूतं सत्यं तत् किं ते तस्माद् विमुक्तये । प्रयतेऽहं किं करोमि तदर्थं सदयं वद ॥ २५॥ विमूकं पुनरप्यत्रोपविष्टं कविकुञ्जरम् । निमिमीते निर्निमेषं राजाथोवाच सुस्मितम् ॥ २६॥ भवतोऽयं पुरीवासो भवतूल्लासवान् सदा । रम्यवस्तूनि नान्विष्यस्येतैस्त्वन्विष्यसे परम् ॥ २७॥ उपहारान्तरं वीरशृङ्खलाधिकमोहनम् । समर्पये करे चास्मिन्नचिरेण महाकवे ॥ २८॥ एतेषां श्रूयमाणानामज्ञात्वार्थमसौ कविः । किमु वक्तव्यमित्येतदपि नो वेत्ति किञ्चन ॥ २९॥ सामगानसमं राजभाषणं तन्निशम्य सः । आदरेण समामन्त्र्य जगाम वसतिं कविः ॥ ३०॥ उपहारान्तरं वीरशृङ्खलाधिकमूल्यकम् । किं स्यात् परीणामगुप्तकथेव प्रतिभाति तत् ॥ ३१॥ तदुत्तरं प्रतीक्ष्यास्मिन् कवौ तत्र निषीदति । विलीयतेऽन्धकारे तत्कक्ष्यागतदिनप्रभा ॥ ३२॥ कवाटस्यार्धपिहितस्योद्घाटनरवस्तदा । श्रूयते पादनिःस्वानं कङ्कणक्वणितं तथा ॥ ३३॥ नापृच्छत् केयमित्येष मणिनूपुरशिञ्जितम् । स्फुटं वदति नैवेयं स्वकीयपरिचारिका ॥ ३४॥ अथेयमस्ति वा कन्या रम्या सा प्रियमानसा । नैवेयं सेत्याह सर्वव्यापीदं मदसौरभम् ॥ ३५॥ कस्या वस्त्राञ्चलस्यायं शब्दो विलुळितस्य वा । कस्या वा तरळोल्लोलवलयोदितशिञ्जितम् ॥ ३६॥ कस्या वा विकिरन्त्यत्र निःश्वासार्द्रदलान्यहो । पस्पर्श का कवेरस्य मनःसूनरजःस्वपि ॥ ३७॥ कविः क्रमेण तां नीचामुद्दीपयति वर्तिकाम् । पुरतो दृश्यमानेयं का पुनर्मेनका किमु ॥ ३८॥ अग्निपञ्चकमध्यस्थामद्रिकन्यां तपस्विनीम् । अचञ्चलाग्न्यन्तरवदस्मान् योऽदर्शयत् पुरा ॥ ३९॥ कल्पद्रुपतितोत्फुल्लपुष्पायाप्सरसे पुरा । वाङ्मयेन पुनर्जन्म ददौ योऽतीव सुन्दरम् ॥ ४०॥ अन्यस्यामप्सरःपुत्र्यां पृथिव्याः परिशुद्धताम् लावण्यं च समन्वीय प्रादर्शयदिहैव यः ॥ ४१॥ स कविश्चिन्तयामास साक्षादेवाप्सरास्त्वियम् । कस्याज्ञयेयमागच्छदत्र किं वास्य कारणम् ॥ ४२॥ कलापकम् नैवात्र विक्रमो नैव विश्वामित्रोऽपि तापसः । वर्ततेऽत्र वराकोऽयं कविरेव हि केवलम् ॥ ४३॥ वश्येन सुस्मितेनेह तिष्ठतीयं मनोहरी । निस्त्रपं स्वयमेवास्मै समर्पयितुमुद्यता ॥ ४४॥ राजोपहारोऽमूल्योऽयमिदानीमेव चाभवत् । स्पष्टा कथापरीणामगुप्तिरासूत्रिता तदा ॥ ४५॥ राजधान्यां विशिष्टानामतिथीनां महीभृताम् । सत्काराय सुनैवेद्यं विक्रमार्कनृपाहृतम् ॥ ४६॥ प्रांशुलभ्यं फलमियं तिष्ठतीह कराञ्चले । कविं प्रणम्य सा प्राह- दासीयं तव गृह्यताम् ॥ ४७॥ युग्मकम् सुहृद्राजवरैस्तुल्यं कविमेनं च निर्धनम् । साक्षात् स विक्रमादित्यः सत्करोतीह सादरम् ॥ ४८॥ अतःपरं चारितार्थ्यप्रदमन्यत् किमस्ति हा । अभिनन्दनसम्मानमप्यन्यत् किमु विद्यते ॥ ४९॥ इत्थं सन्तोषधवळज्योत्स्ना नोदेति तन्मुखे । तत्र प्रत्युत रोषोऽभिमानजः समुदेति किम् ॥ ५०॥ अन्तःक्षोभं तु संयम्य कविरास्ते विमूकवत् । चिन्ताब्धिवीचीः शमयन्नात्मशक्तिं च वर्धयन् ॥ ५१॥ सुतार्यक्षौमवासोऽस्याः स्रस्तं भवति च स्वयम् । स्पन्दते तदुरःकञ्चुकावृतं कोरकद्वयम् ॥ ५२॥ द्रवितुं स्वयमेवात्र सवितुः किरणोष्मणि । हिमशीकरनिर्मुक्तविकसत्सुमसन्निभम् ॥ ५३॥ स्वविग्रहं सुनिर्माल्यं विधातुं स्वयमेव सा । निजसौवर्णभूषास्ता विनिर्मोक्तुं समुद्यता ॥ ५४॥ युग्मकम् अथ मेति प्रशान्तं तन्निषेधति कविस्तदा । समेत्यालसमस्योपस्थितिमाप विलासिनी ॥ ५५॥ तटभित्तटिनीवीचीसमाज्ञातविलोभिनी । साह राजनियुक्ताहं भवत्प्रियहितैषिणी ॥ ५६॥ पानपात्रं पूरयेऽहं केन द्राक्षारसेन वा । देवप्रियेण किं ब्रूहि साक्षात् सोमरसेन वा ॥ ५७॥ केन रागेणालपामि मदशक्तिप्रदेन वा । केन नृत्तेन मायूरपिञ्छिकां वितनोम्यहम् ॥ ५८॥ अलौकिकं मादकं किमैन्द्रियस्वर्गगोपुरम् । प्रोद्घाटयाम्यहं हर्षाद् भवदर्थं प्रभो वद ॥ ५९॥ सारङ्गीमधुरे तस्मिन् स्वररागसुधाझरे । क्षीरे सितेव मृदुलं मनो लीयेत कस्य वा ॥ ६०॥ ध्यानलीनं महाकाळमुपास्ते यत् सदैव तत् । आनन्दलयमग्नं न त्वलीयत मनः कवेः ॥ ६१॥ दृढदीप्तेन नेत्रेण निर्वर्ण्याह कविः स ताम् । सर्वसम्मोहनं रूपमेतत् प्रत्यङ्गसुन्दरम् ॥ ६२॥ उन्मादकं विशालेऽस्मिन् प्रपञ्चहृदयान्तरे । वश्यवाङ्मयरूपेणालिखितं चासकृन्मया ॥ ६३॥ प्रमादोऽभूत् तवायं - न तेषां येऽस्मिन् निशामुखे । प्रैषयन् पुरतो मे त्वां सत्यं मे जानते न ते ॥ ६४॥ रुदन्ति यदि मे दीनं प्रत्येकं परमाणवः । परित्यजेयुर्मां तेऽपि स्नेहार्द्रायात्मनः कृते ॥ ६५॥ सुवर्णनिर्मितो रत्नखचितश्च कृपाणकः । मारकः किं पातितश्चेत् सुदृढेऽपि हृदन्तरे ॥ ६६॥ अधिकारोग्रहस्तेन क्षिप्रं मां प्रति सम्प्रति । विद्युल्लतोज्ज्वलं शस्त्रं त्वमिति प्रतिभाति मे ॥ ६७॥ एतस्मादुद्भविष्यन्ती क्षतिर्मे खलु दुर्गतिः । जीवतो मृतिरेवात्महतिरेवेति मन्मतम् ॥ ६८॥ क्षत्रवीर्याण्यनेकानि निर्जितानि यया पुरा । नग्नसौन्दर्यशक्तिः सा निःसहाया निराकृता ॥ ६९॥ ततो दुःसहदुःखेन प्रतिगन्तुं समुद्यता । तिष्ठेति कविनोक्ता सा तस्थौ श्रुत्वेव तद्वचः ॥ ७०॥ कविराहार्द्रमेनां- न त्वय्यनादृतिरस्ति मे । त्वामिह प्रैषयन् ये ते वाच्या विनयपूर्वकम् ॥ ७१॥ त्वयि सम्प्रीतिमांश्चाहं सुतृप्तो लीन एव च । दौत्यं ते सफलं सम्यक् त्वया निर्व्यूढमित्यपि ॥ ७२॥ निवृत्य सा निमेषार्धं निर्वर्ण्य च कवेर्मुखम् । शान्तेन सुदृढेनापि स्वरेणैवमभाषत ॥ ७३॥ असत्यकथनायेमां मा निर्दिश महाप्रभो । कुलकर्मण्यसत्यत्वं नाद्यावधि कृतं मया ॥ ७४॥ राज्ञो दासीयमाज्ञानुसारिणी नाभिसारिणी । इति सत्योदिता वाचो हृदयान्निर्गता इव ॥ ७५॥ अथारुदत् संवृतास्या कविश्चाभूत् सविस्मयः । नवबोधोदयेनेव तीक्ष्णसत्योपदर्शनात् ॥ ७६॥ क्षमस्व भद्रे सदयं यद्यहं त्वामखेदयम् । अथाशक्त्या न किञ्चित्तामवदत् कविकोविदः ॥ ७७॥ तस्यां गतायां तद्दास्यदैन्यनिन्दनकर्मणि । पश्चात्तापेन दग्धोऽभूत् कविः कारुण्यवानसौ ॥ ७८॥ नासत्यवादिनी सैषा तेन यत् सुतिरस्कृता । तदप्यवनिपेन्द्रः श्वो ज्ञास्यत्येव न संशयः ॥ ७९॥ तस्मादाविष्करिष्यन्ति ते राजपुरुषादयः । कथाविशेषान् विविधान् सामदानवृथात्वतः ॥ ८०॥ रोषोदयो भवेच्चक्रवर्तिनश्च भवत्वयम् । सर्वं किलात्र हा छत्रचामराज्ञानियन्त्रितम् ॥ ८१॥ निद्रां गच्छेत् पल्लवोऽत्र निशापि बहुशो गता । प्राप्यस्थानं नास्ति नैव श्रोतव्यः कश्चनापि वा ॥ ८२॥ कक्ष्याद्वारं विधायान्तराळवीथ्या सुदूरतः । विना लक्ष्यस्थलं मन्दमन्दं गच्छत्यसौ कविः ॥ ८३॥ नृत्यद्वातोऽपि निद्रापि वृक्षशाखासु किं शनैः । गायकः कृकराटः किं क्षीणो मौनं भजत्यसौ ॥ ८४॥ जगामान्विष्य पिहितं गवाक्षं कामुकः कविः । कुत्र वा कामिनी सा स्यात् प्रतीक्षानिर्भराशया ॥ ८५॥ अर्धबोध इवात्रत्यराजवीथ्या स गच्छति । अज्ञातलक्ष्यं भूयोऽपि गच्छत्येव कविः स्वयम् ॥ ८६॥ भवन्ति निद्राहीनानि ज्वलद्दीपयुतानि च । गणिकानां गृहाण्यत्र पार्श्वयोरुभयोरपि ॥ ८७॥ वीणा च तन्वीकण्ठश्च सम्भूयैकं सुगीतकम् । गातुं स्पर्धां करोतीव कुत्रचिद् भवनातरे ॥ ८८॥ अन्यत्र कामुकोन्मादो हसत्युच्चैश्च गर्जति । कस्याश्चिन्नृत्तसुन्दर्या नूपुराशिञ्जितैः सह ॥ ८९॥ पुरो मकररथ्या सा बोधहीनेव वर्तते । कामाग्निदग्धबलिपुष्पाणां गन्धेन सन्ततम् ॥ ९०॥ नेति नेतीति मनसा मन्त्र्यते वीथिका तु या । मृग्यते कविना सान्या- दूरे किमनलप्रभा ॥ ९१॥ चिता प्रशान्तज्वालासौ ख्याता पितृवनाख्यया । यत्रान्ते प्राप्यते सर्वैरर्धरात्रे मयाप्यहो ॥ ९२॥ सक्तोऽसक्तो नृपो दासश्चैकतल्पं भजन्निह । शान्तिं गच्छेत् साम्यदृष्टिसारसौन्दर्यसद्मनि ॥ ९३॥ अत्रैव सर्वदुःखानि विस्मृत्यानन्यचिन्तया । तिष्ठत्युन्मीलितेनान्तर्लोचनेन महाकविः ॥ ९४॥ काळमेघजटाजूटादर्धचन्द्रस्त्वधस्तलम् । निरीक्षते तदा भूतिं ज्योत्स्नाभस्म विलिम्पति ॥ ९५॥ पावकनेत्रं मीलय सदयं हे हर वर्षय चन्द्रमरीचीः । चितासमीपे तस्थौ कविरु- न्नम्य करौ च प्रर्थयतीव महेशपावकनेत्रनिमीलन- तुल्यं चित्यामनला विगताः । तरवः पितृवनसीमनि जाता- श्छाया ज्योत्स्ना तदन्तराळे । शकलीभूयाकाशस्यान्ते बोधाबोधतलानि मिळित्वा । भङ्ग्यान्योन्यं लिखितमपूर्वल- यस्यालेख्यमिवास्ति मनोज्ञम् ॥ ९६॥ कस्मिन् पटहे चोच्चैः श्रुत्या कालं को वा परिमात्यत्र आदिविळम्बितताळमनुक्षण- माहा चटुलद्रुतगतिरास्ते । पवनालुळितजटा इव वटतरु- शाखास्तत्र विलुळिताः सन्ति । कृष्णभुजङ्गफणोन्नयनेन स- मं तदनातपनटनं लसति । शिवतेजोमयरूपं विकसित- मथ हा गगनापूर्णं दृष्ट्वा । कविरिह गायति- मम हृदयेन तु रसितोग्रं कुरु नटनं भगवन् ॥ ९७॥ नृत्तं कुरु नटनायक भवदा- नन्दश्रीनटनद्रुतताळः काननवृक्षलतास्वथ नीच- स्थिततृणकोटिषु सर्वास्वपि च । आर्द्रमनस्स्वनुशासननिर्दे- शाज्ञानामविधेया ये वा तेषां हृदयेष्वपि च सिरासु च नित्यस्पन्दं कुरु तव चरण- ध्वनिरिह मृत्युञ्जयमन्त्रध्वनिः ॥ ९८॥ अर्धोक्तौ विररामेदं गानमेष कविस्त्विह । भूमावुत्तानतः क्षीणशरीरो निपपात हा ॥ ९९
एकादशः सर्गः आमन्त्रणमुज्जयिन्यै विभातमायाति कवेश्च सम्यग् बालातपश्चुम्बति फालदेशम् । निद्रोत्थितोऽयं त्वचिराद् विजाना- त्यात्मानमेतत्पितृकाननस्थम् ॥ १॥ सुपुष्पितोऽसौ तरुणार्कवृक्षः सदागतिस्तप्तमरुद्विशेषः । भस्माकुलेयं भयदा चिता च काव्याध्वगं प्रश्नमिमं त्वपृच्छत् ॥ २॥ अकाल एवात्र किमागतस्त्वं - स्वयं तदावर्तनलोलुपोऽभूत् । विभ्रामकस्वप्न इवेह कस्मात् पूर्वेद्युरागच्छमहो निशायाम् ॥ ३॥ उपैति कश्चित् सुगभीरघण्टा - नादोऽत्र शिप्रासरिदम्बुपायी । श्मशानसंश्ळेष्यनिलोपनीतो घुष्यन्महाकाळसमर्चवेळाम् ॥ ४॥ चितान्तराळादिव मन्दमन्दं समुत्थितो याति कविस्त्वतान्तः । अथेह शिप्रापरिमज्जनेन शैत्यं भजेतां तनुमानसे ते ॥ ५॥ अबोधतो मे हृदये चितैका कृताद्य निर्वापय तां तु शिप्रे । भवत्करस्पर्शवशाद् दयार्द्रा - च्छान्तिं भजेत् तापशतानि भद्रे ॥ ६॥ निमज्जयामास कविश्च शिप्रा - स्नेहार्द्रशीताम्बुषु नैकवारम् । सर्वंसहे यं नियतेर्नियोगं भयं विनेत्याप सुधीरतां च ॥ ७॥ स्मृताविवानातपकान्तिपूरे शनैः शनैर्गच्छति काव्यकारे । अन्विष्य गन्तास्मि भवन्तमेवं वदन् पुरस्तिष्ठति पल्लवश्च ॥ ८॥ शब्दोपलब्धिर्न भवेद् विकारै - र्हृदन्तराळे परिपूरिताभे । परस्परं यौ मनसैव वित्त - स्तयोस्तु मौनं बहुलार्थपूर्णम् ॥ ९॥ स पल्लवस्तेन कवीश्वरेण साकं स्वसङ्केतगृहं जगाम । उपेत्य सैषा परिचारिकापि खाद्यान्नपेयं रुचिरं निनाय ॥ १०॥ समश्यतां प्रातरिहाशनं द्रा - गिहैव विश्राम्यतु चित्सुखेन । बालं यथैवं प्रियवाचमुक्त्वा ततो जगामाशु स पल्लवोऽपि ॥ ११॥ प्रकम्पनः कश्चिदिव प्रशान्तः कश्चिद् घनासार इवान्त्यमाप्तः । सर्वं बहिः शान्तमिव प्रतीतं भवेदिदं वा प्रतिभासमात्रम् ॥ १२॥ स्फुटत्स्मृतेर्गन्धशतानि भूयो - प्याश्ळेष्टुकामं मन एव शत्रुः । सर्वर्तुसौन्दर्यविलेखनार्थं वटद्रुमूले मयि सन्निविष्टे ॥ १३॥ मार्गेण तेनैव किमर्थमायात् सा मे मनः सोत्कमभूत् किमर्थम् । श्रोतुं च काव्यं मम सन्निकर्षे तस्थौ किमर्थं नु निरक्षरा सा ॥ १४॥ युग्मकम् कमप्युदारप्रणयार्द्रबन्धं विनार्थबोधं धृतवान् कुतोऽहम् । द्रक्ष्यामि नैवेति सुनिश्चितं तद् - वक्त्रं किमर्थं पुनरप्यपश्यम् ॥ १५॥ सुवर्णनीडे स्वयमेव कस्मात् प्रवेशयामास विचारशून्यः । नीडान्तरस्थस्य खगस्य दैन्य - ज्ञानं विना लब्धमनेन किं स्यात् ॥ १६॥ भित्वार्गळं प्रोड्डयनेऽपि शिष्टा - न्यथार्गळान्यत्र बहूनि सन्ति । सर्वोऽपि दासः क्रियते विलोभै - स्तिक्ताम्ळकान्तैर्मधुभिः फलैश्च ॥ १७॥ दासेतरोऽस्मिन् भुवने समेऽपि राजाधिराजोऽस्ति स एक एव । प्रत्यक्षतो ज्ञानमिदं च सर्व - मन्तेऽखिलं यत् खलु दिव्यदुःखम् ॥ १८॥ काव्यानि सर्वाणि च जीवरक्त - जन्यानि भूर्जत्वचि भावितानि । सञ्चित्य नैजे तु पुराणभाण्डे कवीश्वरो निक्षिपति क्रमेण ॥ १९॥ समृद्धपुष्पैश्च पलाशवृक्षै - रुपेतपार्श्वद्वयया सरण्या । सुकेतकीसूनमनोहरेण नीवारकेदारहृदन्तरेण ॥ २०॥ मधुद्रवार्द्रं सहकारपुष्प - गन्धं स पीत्वा लळितं यथेष्टम् । मुदा चरन्मारुतसन्निभोऽयं कविश्च भूयोऽपि चरिष्णुरासीत् ॥ २१॥ नामन्त्र्य राजानमितोऽगमिष्यद् भीरुप्रवृत्तिश्च तदाभविष्यत् । अतोऽस्य सन्दर्शनसम्मतार्थं स पल्लवः प्रेषयितव्य एव ॥ २२॥ गच्छामि भूयोऽप्यनिवार्यधार्यं दुःखं वहन्नेव विधेर्नियोगात् । तदा मदीये हृदयेऽभविष्यत् सदाप्यनिर्वापितमग्निकुण्डम् ॥ २३॥ दिदृक्षिता सा सकृदप्यहो न जन्मान्तरेष्वप्यसकृत् सहर्षम् । निशाम्य चामन्त्रयितुं प्रियां तां शशाक नेति व्यथितं मनो मे ॥ २४॥ शनैः कवाटो विवृतश्च चेतो- गतं यथा पल्लव आगतोऽभूत् । आगच्छ- किञ्चिद् गुरु वक्तुमस्ती - त्येतन्मुखं मौनगिरैव वक्ति ॥ २५॥ विचार्य कार्यं विविधं सुदीर्घं मन्त्रिप्रवेकैः सह भूमिपालः । अन्तर्गृहं सम्प्रति सन्निविष्टः प्रतीक्षते तत्र कविं भवन्तम् ॥ २६॥ समागमो यश्चिरकाङ्क्षितः स फलीकृतश्चापि जवेन किन्तु । गच्छाग्रतः सूक्ष्मतयेति चेतः पुनःपुनर्मन्त्रयतीव गूढम् ॥ २७॥ वक्ष्यामि नासत्यमिति स्मरामि भूयो दृढं तद् गणिकोक्तवाक्यम् । स्नेहोपहारं विनयेन दत्तं तिरस्कृतं ज्ञापितवान् नृपः स्यात् ॥ २८॥ परीक्षितो मे सुदृढानुराग - स्तेनात एवासममर्षपात्रम् । कारुण्यशून्यो भविता च दण्ड - स्तस्य श्व इत्येव बलाद् विशङ्के ॥ २९॥ प्रजाधिपोऽन्विष्यति चेत् कवीन्द्रः सत्यं वदामीति दृढीचकार । आमुष्मिकादैहिकतोऽपि तस्यां प्रेमास्ति मे माळवकन्यकायाम् ॥ ३०॥ अत्यन्तसङ्घर्षनिमेषकेषु निश्शब्दमन्तर्मथितेषु तेषु । सप्रश्रयं सोऽप्यवधानपुर्व - मन्तर्गृहं प्राप कविर्नृपस्य ॥ ३१॥ प्रसार्य बाहुद्वयमाह भूपः सुस्वागतं सौहृदभावरम्यम् । अथादरेणोपनिवेशयंस्तं भङ्ग्या बभाषे कुशलार्द्रवाचः ॥ ३२॥ कवेर्मनोऽनस्ततरङ्गवारा - न्निधिश्च शश्वत् सममस्तशन्तम् । इति प्रजानन्नपि लोकरीत्या पृच्छामि - सौख्यं नु महाकवे किम् ॥ ३३॥ उपक्रमे वागियमत्युदारा प्रस्तावना कस्य तु नाटकस्य । न्यूनातिरिक्तेतरमुत्तरं त - स्योक्त्वा कविः स्वासनसन्निविष्टः ॥ ३४॥ यद्यप्यशान्तं हृदयं तथापि तस्याननं भात्यमलप्रशान्तम् । समाप्य नैजालसभाषणं स राजा पुनः सम्यगभाषतैवम् ॥ ३५॥ इहातिथीभूय भवान् समायात् ततोऽधिको नाभवदेव कालः । तथाप्यभूदात्मपुरी तवेय - मात्मीयमेषाप्यकरोत् कविं त्वाम् ॥ ३६॥ अनेन सन्तुष्टमभून्मनो मे प्रायोगिकं सत्यमिदं च जाने । स्वतन्त्रशीलं हृदयं कवेस्तत् - साम्राज्यमानन्त्यमपारता च ॥ ३७॥ एकान्तता सा क्व कवीषिता क्व कोलाहलोऽयं ह्यनुभूयमानः । नैवेह कान्तिः प्रकृतिप्रियात्म - पुत्राभिकाम्या कृतकेतरा सा ॥ ३८॥ नैवानृषिः काव्यकृदित्यतस्त - स्यावश्यकं तापसवाटमेकम् । अतस्त्यजेमां नगरीं व्रजाब्द - वासाय तं रामगिरिं पवित्रम् ॥ ३९॥ इतः प्रयाणाय मनोभिलाषः प्रयातुमेवात्र नृपेण चोक्तम् । कुत्रेति देशोक्तिरियं तु तस्य विस्मापकं सत्यमहो बभूव ॥ ४०॥ शान्तिप्रदो रामगिरिस्तथापि कस्तत्र यानं परिनिश्चिनोति । नृपो निजेच्छा किमु तस्य कालः केनाब्द इत्येव विधिर्विधेया ॥ ४१॥ भिषग्विधिस्तिक्तरसेयमत्र रोगीप्सितं दुग्धमतोऽन्यदेव । निष्कासनाज्ञा मधुरोक्तिगूढा राज्ञा प्रदत्तेति तु नग्नसत्यम् ॥ ४२॥ पुरी किलैषोज्जयिनी ममैव गतागतं मेऽत्र तु निश्चिनोति । राज्ञैव नाहं परिसंवृणोति सत्यं त्विदं हा मधुवाङ्मयेन ॥ ४३॥ रात्रौ च काञ्चिद् गणिकां ददौ यो ह्यः स्नेहसम्मानतया स एव । तपोवनं हा कवये च मह्य- मन्ते ददाति स्म दयासमेतम् ॥ ४४॥ एवं विचारस्फुटदग्निनाळ - ज्वलत्स्फुलिङ्गानि निगृह्य चित्ते । अक्षोभ्य एवास्ति कविर्निषण्ण - स्तल्लोचने किं ज्वलितोऽग्निनाळः ॥ ४५॥ प्रजाधिपो वक्ति - मनोभिरामा परिस्थिती रामगिरेरतीव । दूरे च मेघैरभिवन्दितानि शृङ्गाणि नीलाचलसानवश्च ॥ ४६॥ आम्रद्रुकुञ्जानि विहङ्गमानां गानं च सूनोज्ज्वलपल्वलानि । सुगन्धवातार्द्रतटाश्च ताळ - लयाश्च तासां तरुवल्लरीणाम् ॥ ४७॥ युग्मकम् अतुल्यवाग्वैभवराजशिल्पि - वर्यस्य तत् सर्गतपोवनं स्यात् । सृष्टिर्भवेत् तत्प्रतिभानिटाल - नेत्रोद्भवा निष्प्रतिमा कदाचित् ॥ ४८॥ नृपः पुनश्चाह - वरिष्ठसृष्ट्या तया भवान् प्राप्स्यति वत्सरान्ते । भूयस्त्विमामुज्जयिनीं दिनं तत् सुशोभनं हा प्रतिपालयामः ॥ ४९॥ दयाविशून्यं नयतन्त्रहृद्यं श्रुत्वा वचो ह्येवमतीव शान्तः । प्रतिब्रवीति स्म कविः - कृतज्ञो - स्म्युदारबुद्ध्यै भवते नितान्तम् ॥ ५०॥ अद्यावधीहातिदयामयस्त्व - मासीश्च निःस्वे मयि काव्यकारे । तत् तेऽधमर्णोऽहमशक्त एव प्रतिब्रवीतुं च कृतज्ञभावम् ॥ ५१॥ एवं कविश्चात्मविकारवीचि- प्रवाहमावृत्य वचो बभाषे । अन्येद्युरेवोषसि गन्तुमद्यै - वामन्त्रयामास महीपतिं सः ॥ ५२॥ उदारमेवाह नृपश्च - कर्णी - रथेन चायान्ति तदुद्वहन्तः । अन्ये च भृत्या विजनो यतो हि पन्थाश्च नैकं दिनरात्रमस्ति ॥ ५३॥ कविश्च बद्धाञ्जलिराह -मास्तु पद्भ्यां चरन्नेव सुशीलितोऽस्मि । आमन्त्र्य भूयोऽपि न किञ्चिदुक्त्वा ततस्तिरोऽभूदथ काव्यकारः ॥ ५४॥ गतोऽवतीर्णो दिवसस्त्रिसन्ध्या दूरात् समायात्यनुरक्तवक्त्रा । अंसे वहंस्तारकमेकमेको धाराधरो गच्छति पङ्गुतुल्यः ॥ ५५॥ उदेति मन्दं वळभौ कपोत - युग्मस्य कण्ठान्मधुरो निनादः । उद्यानशाखीविटपेषु नीडं प्रत्यागतानां पततां सुगीतम् ॥ ५६॥ स्वेन प्रणीतं मुनिकन्यकाया गीतं वहत्यत्र यतःकुतशित् । अनेन सार्धं हृदयं किलैकं विपञ्चिकीभूय रुदत्यथार्द्रम् ॥ ५७॥ वृथाप्रतीतिस्तु भवेत् सदैकं प्ररोदनं श्रूयत एव चित्ते । अनुप्रयात्येतदहर्निशं तं मार्गेषु सर्वत्र च काव्यपान्थम् ॥ ५८॥ निशेयमेकापि ततःपरं तु परैव मे ह्युज्जयिनी पुरीयम् । यैषा ददौ मे महितोपहारान् प्रशस्तिमुद्राश्च मृषापवादान् ॥ ५९॥ प्रतिप्रयच्छाम्यखिलानि तुभ्यं मा यच्छ मे तं ह्ययि राजधानि । समर्पितं वक्षसि ते मया यं स्वीयं यशोमौक्तिकरम्यहारम् ॥ ६०॥ स पल्लवस्तिष्ठति सन्निकर्षे वक्तव्यतामूढ इवातिमूकः । ज्ञातं कथञ्चित् किल राजधान्यां सर्वत्र यद् गूढतया नृपोक्तम् ॥ ६१॥ अन्याश्च सन्त्यत्र कथाः कविर्मा जानातु याश्चेति तु पल्लवेच्छा । कविः स वेश्याकुलसङ्गमोत्को भवत्यतन्द्रं मधुपानसक्तः ॥ ६२॥ इत्यादिनानाविधदुष्प्रवादाः ह्यन्तःपुरेषु प्रसरन्ति गूढम् । कविर्न जानात्विदमित्यभीप्सन् स पल्ल्वोऽप्यत्र विषण्णमास्ते ॥ ६३॥ युग्मकम् अन्ते भवावश्चिरविप्रयुक्तौ - कविः कथञ्चिद् विरराम चोक्त्वा । पुनश्च मौनं- सुहृदः करौ तौ सङ्गृह्य वाचं कविरेवमूचे ॥ ६४॥ इतो गमिष्याम्युषसश्च पूर्व- मिति प्रतिज्ञा मम दुर्विलङ्घ्या । सखे न जानास्यपि कुत्र वा सा सुविस्तृतायामिह राजधान्याम् ॥ ६५॥ तथापि तां द्रक्ष्यसि हा कदाचित् तदा सखे तत्करयोरथैतत् । दत्वा पुनर्मद्वचनात् प्रिया सा वाच्या- मम स्मारकमेतदेव ॥ ६६॥ आदाय नैजं हृदयं सुरक्तं पट्टांशुकेनेव समावृतं तत् । स्नेहोपहारं कविना प्रदत्तं समग्रहीत् पल्लवहस्तयुग्मम् ॥ ६७॥ विवृत्य तत् पश्यति पल्लवोऽय - महो सुवर्णाञ्चितशृङ्खलेयम् । सैषा तु राज्ञा कवये प्रदत्ता मिश्रीभवत्काञ्चननागतुल्या ॥ ६८॥ यस्यास्ति सर्वस्वमपाहृतं तत् कवेरतः किं समुपेक्षणीयम् । अत्रैव कुत्रापि निजार्धदेहं त्यक्त्वा कविर्याति ततोऽर्धजीवः ॥ ६९॥ स्वप्नो न कश्चिद्दलितो न चास्ति याम्येव यान्त्या निशया समेतः । नावश्यकस्तन्नृपदत्तदोळा- भृत्यावलीबद्धपरिच्छदो मे ॥ ७०॥ अंसे वहन्नक्षरभाण्डमेतत् पद्भ्यां चरन्नेव सुखं प्रयामि । अस्मिन् पुरीघोरवने वसन्ति धृतस्मिता हिंस्रमृगा मनुष्याः ॥ ७१॥ तत्रापि नित्यव्यतिरिक्तशोभः कश्चिन्मनस्वी प्रियपल्लवोऽस्ति । सगद्गदस्तं कविराह- नैव शक्नोमि चामन्त्रयितुं सखे त्वाम् ॥ ७२॥ गच्छातिसूक्ष्मं तव लक्ष्यदेश- प्राप्तिं दृढीकर्तुमिहैव पश्चात् । ज्ञातुं च सर्वं सुनिगूढरीत्या विदग्धचाराक्षिचयश्चकास्ति ॥ ७३॥ लब्धं मया त्वत्परिचर्ययात्म - सौख्यं प्रभो सज्जनसङ्गतेन । भाग्यं तदत्रास्तमितं भवत्ये - वातःपरं ... क्रन्दति पल्लवोऽसौ॥ ७४॥ अंसे वहन् भाण्डभरं च मन्दं यदा कविर्गोपुरतोऽवतीर्णः । साक्षीभवत्यस्य विनिःश्वसन्ने - वायं ज्वलद्भित्तिशिलाप्रदीपः ॥ ७५॥ इतःपरं त्वं प्रतिगच्छ - भूयः कविर्बभाषेऽनुगतं सखायम् । अनुग्रहाश्वासभरात् स चक्रे साष्टाङ्गपातं कवये प्रणामम् ॥ ७६॥ तत्रैव तिष्ठन्नयमश्रुपूर्ण - नेत्रेण यात्राशुभमाशशंस । छाया- कला - बिन्दुरिति क्रमेण चान्तर्हितं तं कविमेव मार्गे ॥ ७७॥ निर्वर्ण्य निर्वर्ण्य तथैव तस्थौ स्नेहाकुलत्वं तदचिन्त्यहेतु । नभश्चरः कश्चिदहो ज्वलित्वा त्वस्तङ्गतः कुत्रचिदन्धकारे ॥ ७८॥
द्वादशः सर्गः कश्चित् कान्ताविरहगुरुणा कश्चित् प्राणे ज्वलति कनकाग्निस्ततः सम्यगुद्य - ज्ज्वालारूपं नयनयुगळं भासुरं भासते तत् । कायः कस्मात् स इह भजते कार्श्यकान्तिं वियोगाद् वर्षाभोग्याज्जनितदुरितात् सर्गतापान्नु तीव्रात् ॥ १॥ आलोक्य त्वामिह सविधगे मय्यथापूर्णनेत्रे वात्सल्यार्द्रं कथयति भवान् स्नेहरम्यं त्वमेहि । सौख्यं किं वा - कुशलवचनं मे तथैवाधरोष्ठे जीर्णप्रायं भवति - सुखदुःखातिवर्ती भवान् किम् ॥ २॥ दुःखं वा स्यात् सुखमथ भवेच्छैत्यमत्युग्रतापः सृष्टिं कर्तुं यदि भवति हा पद्मपीठोपरिस्थः । सत्यस्यास्यावरककनकप्रौढपात्रोज्ज्वलाभा प्रातःसन्ध्या तदनु मधुरा याति सा च त्रिसन्ध्या ॥ ३॥ एकस्याश्चेच्चलनविगतौ सत्यमह्नः प्रभा स्या - दन्यस्याश्चेत्तदिह तमसापूर्णयामा त्रियामा । ब्रूते सत्यं हृदयमिह चेत् सावधानश्च कर्णो मायारङ्कुस्तदिदमखिलं नैव सत्यं यथार्थम् ॥ ४॥ अब्दो ह्येकः समतिगत एवेह तूर्णं किमित्थं तुष्ट्यात्यन्तं कथयति भवान् मां स्म शान्तान्तरङ्गः । वर्षाभोग्यः किमयमधिवासोऽस्ति - पप्रच्छ चाहं तत्त्वं - कालावधिरवसिता किं -भवानाह शीघ्रम् ॥ ५॥ यद्यप्येवं त्ववसितमहादण्डकालावधेर्मे बद्धस्यार्द्रं प्रणयि हृदयं बन्धनागारकेऽस्मिन् । पौराकीर्णं नगरमथ तत् किं महारण्यमेव स्वान्तःशान्तिप्रदमिह प्रकृत्यम्बिकोत्सङ्गरङ्गम् ॥ ६॥ नापृच्छं त्वामत इह कुतस्तेऽयमेकान्तवासः पृथ्व्यामस्यां तव कतिविधाः सन्ति गन्तव्यदेशाः । आरण्येऽस्मिन् प्रकृतिरुचिरे जानकीस्नानपुण्यो - दाराः शीताः सलिलझरिका नैकपक्षिप्रभेदाः ॥ ७॥ शश्वत्पुष्पाण्यवकिरदरण्योत्थसत्केसराणां पर्णस्पन्दा मधुकरततिः कीचकानां च दण्डाः । सम्भूयैते धरणितलदेवालयेऽस्मिन् प्रकुर्वत् - सङ्गीते त्वं किमु सुखनिमग्नोऽभवो जीवनाख्ये ॥ ८॥ निद्रालोले मयि च धरणौ नित्यमस्यां शयाने वात्सल्यार्द्रं लळितमधुरं त्वत्यगाधात् कुतश्चित् । जानाम्येतत् सरति हृदयस्पन्दनं मे सिरासु नान्यः केषामहमिह भवामीति वाचं ब्रवीषि ॥ ९॥ अत्रात्यन्तं प्रियहृदयया मातृदेव्या समेतः सोदर्यैर्हा खगमृगलतापादपैश्चापि साकम् । ज्ञात्वा स्नेहप्रसृतवचनैः सम्यगन्योन्यमेवं वासं चक्रे सकुतुकमिहैवैकगेहे यथा स्यात् ॥ १०॥ दीर्घं संवत्सरमिह भवान् नीतवान् स्वच्छसौख्या - दित्थं ज्ञात्वा मम तु नितरामस्ति सान्त्वस्तथापि । त्यक्तुं सद्यः प्रभवति भवानुज्जयिन्याः स्मृतिं किं नैतत् साध्यं त्विह जनुषि मे चेति किं त्वं ब्रवीषि ॥ ११॥ किन्त्वन्वेष्टुं प्रतिवच इवात्यन्तमूकः कुतश्चि - द्दूरे दृष्ट्वा सविधमुपविश्योचिषे वाचमेवम् । अन्तर्बाष्पाणि च मम समुह्याम्बुवाहः पुरीं तां गन्तुं हन्त प्रचलति सदा कश्चिदार्द्रान्तरात्मा ॥ १२॥ हृद्रक्तेनालिखितमिह यन्मेघसन्देशकाव्यं तस्य स्निग्धप्रणयरुचिरामब्रवीस्त्वं कथां माम् । कश्चिद् यक्षोऽभवदिह भवानुज्जयिन्याऽऽळकात्वं प्राप्ता चासौ नृपतिरधिकारोग्रमत्तः कुबेरः ॥ १३॥ निर्लीनात्मा बहुतरमभूदात्मतुल्यप्रियाया - मित्थं चक्रे कठिनमपराधं किलायं च यक्षः । एकान्तायां गिरितटभुवि प्राप चात्रोग्रदण्डं वर्षाभोग्यप्रविततवियोगेन वासाय सोऽयम् ॥ १४॥ यक्षः कान्ताविरहदहने तत्र जाज्ज्वल्यमाने देहे चैवं मनसि च कृशे तप्यमाने युवायम् । आषाढस्य प्रथमदिवसे मेचकं मेघमेकं क्रीडामग्नं गजमिव नभोमण्डलस्थं ददर्श ॥ १५॥ अञ्जल्यासौ कुटजकुसुमान् वर्षयित्वा च तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार । किञ्चिद् वक्तुं भवति निकटे यस्य नैकोऽपि सोऽयं मेघायास्मै स्वयमथ गिरा चाब्रवीदात्मवृत्तम् ॥ १६॥ अल्पो वायुर्जलमतिमनोहारि विद्युच्च धूमो - प्येषां योगात् समुदितशरीरोऽयमास्ते क्व मेघः । सन्देशार्थः क्व च पटुनिबोद्धव्यचैतन्ययुक्तः कामार्तानां न खलु स विभेदार्थचिन्ताविवेकः ॥ १७॥ कोऽपूर्वोऽसौ हृदयरुचिरो यक्षसङ्कल्प एवे - त्याविश्चिन्ते मम तु नयने पश्यसीवाभिलाषम् । काव्यं तत् त्वं प्रथममिह मे निर्धनायालपस्ये - वैतस्मै हा न खलु विभवे सार्वभौमोत्तमाय ॥ १८॥ नद्यः पुर्यो गिरिशिखरकाश्चारुमालानि सम्यक् सद्यः सीरोत्कषणसुरभीण्यम्बुकच्छा मृगाणाम् । स्वाद्योद्भिन्नप्रथममुकुळारम्भरम्भाश्च मार्गा - श्चक्राङ्गानां बिसकिसलयच्छेदपाथेयभाजाम् ॥ १९॥ वाटीव्रातः ककुभसुरभिः पक्वजम्बूफलैरा - श्यामारण्यान्यटविकवधूभुक्तिरम्यान्तराणि । क्रीडाकुञ्जान्युदयनकथाकोविदग्रामवृद्धा - लापैरुच्चैर्मुखरितजनाकीर्णकेन्द्रस्थलानि ॥ २०॥ उच्चारावैर्गृहबलिभुजां ग्रामचैत्यानि दृश्या - न्यल्पासारैः कुसुमितकदम्बद्रुवाटानि शान्ते । सन्ध्याकाले शिवबलिसमारब्धभेरीनिनादः प्राकारश्चाप्यमृतकिरणोत्तंसदेवालयस्य ॥ २१॥ गेहोत्कण्ठाकुलितमनसं त्वां विधत्ते यदेतत् सर्वं दृश्यं मम नयनयोरग्रतो माळवीयम् । भ्राम्यत्यस्योपरि च सकलस्यात्तवृष्टिः स को वा कामाकारो भवति मुदिरश्चित्तमार्द्रं कवेर्वा ॥ २२॥ विशेषकम् जानाम्यर्थं तव तु वचसो यन्न शक्नोमि हातुं जन्मन्यस्मिन् हृदयनिहितामुज्जयिन्याः स्मृतिं मे । वक्रः पन्था भवतु भवतः स्वल्पमप्युज्जयिन्याः सौधोत्सङ्गप्रणयविमुखो मा च भूरित्यवादीः ॥ २३॥ मेघाय त्वं तदनु नगरी सा च सौन्दर्ययुक्तं स्वर्गस्यैकं शकलमिति चाप्याह शिप्रानदीस्थम् । पद्मोद्गन्धं पटु मदकळं चारवं सारसानां हृद्योदारं स्मरसि मृदुलं सम्यगम्ळानरम्यम् ॥ २४॥ जीवत्येषा विरहविधुरा प्रेयसी तेऽळकायां छायात्वेनाकलितवपुषीह त्वया ह्युज्जयिन्याः । तत्रागारं धनपतिगृहस्योत्तरेणास्ति यस्मिन् चेतोहारी सुरधनुरिव प्रेक्ष्यते तोरणौघः ॥ २५॥ यस्योद्याने विलसति तया वर्द्धिता कान्तयैका मन्दारश्रीः किसलयसुमोपात्तभारावनम्रा । आराद्धुं यामिव कुरवका माधवी सीधुगन्धा रक्ताशोकोऽपि च सविनयस्तत्र राजन्ति चारात् ॥ २६॥ द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृश्यौ गेहान्ते सा भवति विरहार्ता हि चालेख्यमाने । यस्याश्चित्रे सपदि भजते वेपथुः किं करौ ते वर्षत्यस्मान्नयनयुगळात् किं सुतप्ताश्रुधारा ॥ २७॥ कार्श्यं गात्रे भवति कृशता मध्यदेशेऽपि चास्ते श्रोणीभारादलसगमना दृश्यते निम्ननाभिः । नम्राङ्गी या चकितहरिणीचञ्चलप्रेक्षणा सा धातुः सृष्टिष्विह युवतिवृन्देषु चाद्यैव नूनम् ॥ २८॥ चित्ते भित्तौ विरहविधुरस्यात्मनाथस्य रूपं चित्रीकर्तुं कृशतरमतीवेयमुद्योगिनी स्यात् । पृच्छन्ती स्यात् स्मृतिमधुगिरा पञ्जरस्थां शुकीं त्वं भर्तारं मे स्मरसि करुणार्द्रं च त्वल्लाळनोत्कम् ॥ २९॥ उत्सङ्गस्थां मलिनवसनायां च तस्यां विपञ्ची - मुद्गायन्त्यां मधुरमथ तद्बाष्पपातात् समार्द्राम् । मृद्विं तन्त्रीं पुनरिह मुहुः सारयन्त्यां च रागं विस्मृत्यार्ते मनसि निहितं खिन्नखिन्ना भवेत् सा ॥ ३०॥ ताळं कृत्वा दशशतदळान्तेष्वथायाति यो वा शीतो वायुः स इव भवतो भावना नृत्यतीह । उज्जैनीस्था विमलहृदया माळवग्रामकन्या यासावत्र प्रणयविधुरा यक्षपत्नी बभूव ॥ ३१॥ तस्या भर्ता स्वयमपि तथा स्नेहकारुण्यपूर्णो मेघो यस्या निकटभुवि च प्रोषितस्तत्र गत्वा । भक्तिश्रद्धाभरितहृदयः श्रावयत्यादरात् तं सन्देशार्थं पवनतनयो मैथिलीं तामिव प्राक् ॥ ३२॥ भर्तुर्मित्रं प्रियमविधवेऽहं समावेदये ते तत्सन्देशं श्रवणमधुरं विद्धि मां वारिदं यः । मन्द्रस्निग्धध्वनिभिरुदितैर्दूरदेशं गतेषु प्रेयस्यालिङ्गनकुतुकितां वर्धयत्यध्वगेषु ॥ ३३॥ विश्वस्तोऽहं मनसि सदयं धार्यतां - त्वां विचिन्त्यै- वास्ते प्रेयान् दुरितरहितो रामगिर्याश्रमेषु । इत्यर्धोक्ते पठनविरतो मेघदूतस्य सद्यो भूयो भूयो रणरणिकया वर्धते गद्गदः किम् ॥ ३४॥ शुभ्रज्योत्स्नापुळकितनिशीथे गवाक्षस्य पश्चात् क्षान्तिं त्यक्त्वा पुनरिह सदाशावहं रूपमेकम् । तत्रोद्दीप्तं नयनयुगळं जालकस्यावकाशाद् वीतालम्बं करतलयुगं लम्बमानं मनोज्ञम् ॥ ३५॥ स्वस्मिन् वक्त्रे करतलयुगं तत्तु विन्यस्य लब्धः स्वर्गानन्दः - पुनरपि तदा स्मर्यते सर्वमेतत् । काव्ये चास्मिन् कथितमितरत् प्रत्यभिज्ञानवाक्यं यत्तन्नुनं रुचिरकवितौचित्यसङ्कल्पजन्यम् ॥ ३६॥ युग्मकम् पूर्णं कृत्वा विरमति भवान् तच्च सन्देशकाव्यं स्वीयं रक्तं मुहुरिह कणैरल्पकैः प्रोक्षतीव । सन्देशं त्वं विरहविधुरां तां द्रुतं श्रावयित्वा प्रत्यागन्तुं मुदिरममुनैवाध्वना याचते च ॥ ३७॥ मा भूदित्थं तव च विरहः कान्तया विद्युतापी - त्येवं तस्मै वदसि महदाशंसितं स्वोपकर्त्रे । काव्यालापो विरमति तदा मारुतः सन्निकृष्ट - श्चक्रे वृष्टिं बकुळकुसुमैस्तत्र सम्यक् समन्तात् ॥ ३८॥ सान्निध्यं मे किमु न भवता स्मर्यते दूरतस्ते सञ्चारोत्कं भवति नयनं विस्तृताकाशसीम्नि । तामेकान्ते विरहविधुरां मद्बहिःप्राणभूतां सन्देशं मे कथयितुमये मेघ किं प्राभवस्त्वम् ॥ ३९॥ सा मे कान्ता किमपि वचनं त्वन्मुखेनाब्रवीत् किं जीवन्ती वा कथमथ भवान् वक्तुमेतत् समस्तम् । आगन्ता किं त्वरितमथवा नैव चायास्यसि त्वं दृश्यन्ते ते वदनकमले नैकभावान्तराणि ॥ ४०॥ कारुण्यार्द्रां प्र्कृतिमतुलां काननीयामिमां त्वां पश्यस्येकं प्रतिनवमिवाश्चर्यभूतं मनोज्ञम् । आरादासीत्तव तु परिचर्योत्सुकेयं च वृक्ष - च्छायाभूता किसलयमयी चामरा सूर्यतापे ॥ ४१॥ निद्रां कर्तुं परिसृततृणापूर्णशय्या प्रबोध - प्रोद्युक्तोऽयं विहगनिवहो निर्मलो निर्झरौघः । माधुर्यार्द्रं फलमिति मनोहारि वैविध्यपूर्णं तत्सान्निध्यं सुविदितमभूत् किन्नु ते सर्वदापि ॥ ४२॥ वृक्षच्छाया विरहदुरितस्याब्ददीर्घस्य मूका साक्षिण्येषा भवति भवतः सर्गदुःखस्य चापि । मूले चैतद्विपिनबकुळस्योपविष्टः खलु त्वं यात्राक्ळेशाद् बहुषु दिनरात्रेषु भूयः पुरा किम् ॥ ४३॥ यद्यप्येषा धरणिरखिला गेह एव स्वकीयो विस्तीर्णस्ते तदपि चिरकर्मोत्थबन्धेन चेयम् । वृक्षच्छाया कथमपि विहातुं न शक्या भवेत् किं तिष्ठस्येवं धृतवपुरिहाहत्य दुःखं नितान्तम् ॥ ४४॥ गच्छावोथेत्यवददवनम्य स्वयं भाण्डभारं धृत्वा स्वांसे सपदि च भवान् चित्तदार्ढ्येन साकम् । पृच्छाम्येवं गमनमिह नावुज्जयिन्युन्मुखं किं क्षिप्रं चैवागतमथ तथेत्युत्तरं त्वन्मुखाब्जात् ॥ ४५॥ नैवैतन्मे गमनमिह तत्रत्यसम्राट्समक्षं नैवादातुं बहुमतिमिमां काव्यसृष्टिं समर्प्य । अन्यत् किं वा फलमिति मया नैव पृष्टं त्वया नै - वोक्तं चापीत्यनुपदमितः प्रस्थितुं प्रारभेथाम् ॥ ४६॥
त्रयोदशः सर्गः पुनरप्युज्जयिनीं प्रति छायाप्रदं प्रणमते बकुळं स संस्प - र्श्यामन्त्रणोत्सुक इवादरपूर्णमारात् । वातेरितानि कतिचित् कुसुमानि हस्ते - नादाय जिघ्रति च तन्मृदुगन्धपूरम् ॥ १॥ निक्षिप्य तान्यपि ततो बृहति स्वभाण्डे सोपानतोऽवतरसि प्रथमात् त्वमस्मात् । पश्चादहं च पथि ते प्रतिमूर्तिकल्पो निःशब्दसाक्षिसदृशश्च चरामि मन्दम् ॥ २॥ प्रातःप्रभृत्यधिकदूरमथा प्रदोषं गत्वा च पार्श्वतरुमूलतलेषु चान्तः । विश्रम्य पावनपुरातनचैत्यकेषु व्याधोपजीवितकुटीषु वनान्तरेषु ॥ ३॥ जीर्णेषु सत्रनिवहेषु च रात्रिकाले निद्रामुखेन शयनीयसुखं च लब्ध्वा । आरण्यपक्षिततिकीर्तनमालया स- मुत्थाय चाल्पपथिभक्ष्यरुचा चराव ॥ ४॥ युग्मकम् मार्गे च तत्र पथिकान्तरपादमुद्रा दृष्टा भवन्ति परिवर्तत एव शब्दः । आवां विशालगहनस्थलिकामतिक्र - म्यारादहो जनपदान्तमनुप्रविष्टौ ॥ ५॥ एकाहदूरमित एव भवेदवाप्तौ स्यावाद्य एव हि तदुज्जयिनीं प्रदोषे । ज्योत्स्ना भविष्यति निशामुखपूर्वयाम एवेति किञ्चन विचिन्त्य भवानवोचत् ॥ ६॥ ज्ञातुं न केनचिदिहाधृतविप्रभिक्षु - वेषो भवानगमदग्रत एव वेगात् । साध्वन्तरोचितवपुष्यहमप्यथावां प्राप्तौ पुरीपरिसरे नवगोपुराग्रे ॥ ७॥ विघ्नं न कश्चन चकार पथि क्वचिन्नौ को वात्र वारयति भूसुरभिक्षुवर्गम् । आवां सुखेन चरतः स्म च शुक्ळपक्ष - चन्द्राद्ययामकिरणेषु सुदुर्बलेषु ॥ ८॥ अस्याङ्कणस्थसकलस्थलबिन्दवोऽपि ह्युद्दीपयन्ति विविधस्मरणानि भूयः । अद्यात्र सूक्ष्मविकसत्कुसुमस्य गन्धे - नानीयते गतमहानुभवस्मृतिश्च ॥ ९॥ एवं नवीनजननान्तरसन्निभेऽस्मिन् मार्गे कविश्चरति सौहृदसुप्रबुद्धः । वातायनं सकलमेव समावृतं य - स्यास्ते स सौधमवलोक्य तमुच्छ्वसन् किम् ॥ १०॥ अन्विष्यते यदिह सद्म तवेक्षितेन तज्ज्ञानमस्ति न हि मे तदिहानुयामि । वैदग्ध्यतो विरहितः परदर्शनेभ्यो मार्गेऽन्तरा क्वचिदथात्मसुगुप्तिमाप्तः ॥ ११॥ त्यक्त्वा पुनस्त्वजिरवीथिमिहान्तराळ - पथ्यन्तरेण वसतेः पुरतः स्थितोऽसि । नान्तः प्रविश्य सहसा क्षणमात्रमत्र तिष्ठन्नथान्तरिकमेव निरीक्षसे त्वम् ॥ १२॥ अन्तः प्रकाशयति कश्चन दीपकोऽसौ मन्दं समाह्वयसि देहळिकागतस्त्वम् । स्पृष्ट्वा कवाटमथ पल्लव इत्यनेन नाम्ना ह्यतीवमृदुपल्लवसुस्वरेण ॥ १३॥ आज्ञानुसारमिह ते स्थितवानहं तु छायान्तरं किमपि संश्रित एव पश्चात् । मन्त्रस्य पल्लव इति प्रथितस्य तस्य जापेन किं स्वयमितो विवृतं कवाटम् ॥ १४॥ नैव स्वयं विवृतमत्र विवृत्य गेह - द्वारं स पल्लव इहैव समागतोऽस्ति । यद्यप्यहं प्रथममेव निशामयामि सोऽयं चिरन्तनसुहृत्सदृशो ममास्ते ॥ १५॥ सोऽयं भवन्तमिह न प्रथमं विवेद सत्यं भवांश्च परिवर्तित एव नूनम् । काषायवस्त्रमपसार्य जवेन भैक्षं साक्षात्स्वरूपमथ दर्शितवानसि त्वम् ॥ १६॥ पश्यन् मुहुर्मुहुरपीह भवन्तमेव स्थित्वाञ्जसाद्भुतविकस्वरलोचनोऽसौ । उच्चैरथोच्चरितवान् प्रियकाळिदास - शब्दं तु भूतपरिबाधितवत् सहर्षम् ॥ १७॥ विन्यस्य मन्त्रयति किन्न्वधरेऽङ्गुलिं स मा मेति नागममिहाद्य तु कळिदासः । किंत्वस्मि ते प्रियपुरातनमित्रमेव मा मा ब्रवीतु मम नाम पुरः परेषाम् ॥ १८॥ केशादिपादमिह सातिशयं निरीक्ष्य त्वामाह गद्गदगिरा स तु पल्लवाख्यः । अर्धीभवत्तव शरीरमिदं च वर्षे - णैकेन सोढमतिदुःखभरं व्यनक्ति ॥ १९॥ नैव ; त्वहं परमतुष्टिमवापमेव चैकान्तवाससमये किल रामशैले । प्रत्यागतं च भवता यदिदं त्वकस्मा - दत्यर्थमस्य नयने गिरि चाशु मोदात् ॥ २०॥ नाहं परैरिह च दृश्य इति ब्रुवन्ने - वान्तःप्रविश्य भवनस्य भवांश्च तस्थौ । पानोपचारमकरोदथ दीर्घयात्रा - प्रत्यागतद्विककृते - कवये च मे च ॥ २१॥ सत्कारमप्यनतिदीर्घसुभाषणं च सर्वं चकार निभृतं विगतारवं च । प्रत्यागतिं तु महितोज्जयिनी किमर्थं जानाति मे पुनरियं - तव चोद्यमेतत् ॥ २२॥ भावत्कनिर्गमनतः परमत्र नास्त्ये- काहो यदा न कथितं तव नाम राज्ञा । आस्थानगायकवराश्च विपञ्चिकायां गायन्ति कर्णमधुरं तव काव्यजातम् ॥ २३॥ जानाति यद्यवनिपस्तव चागतिं प्र - त्युद्यात्यसंशयमिहान्यनृपं यथा त्वम् । शेषं समस्तमपि तेऽस्तु यथाहितं चे - त्युक्त्वा विनिःश्वसति हा प्रियपल्लवोऽसौ ॥ २४॥ अक्षोभ्य एव सकलं तु भवान् निशम्य तिष्ठत्यहं तदवलोक्य च विस्मितोऽस्मि । सङ्गृह्य पल्लवकरं विवृताखिलात्म - भावं ददौ स्वहृदयं च भवानिवास्मै ॥ २५॥ शान्तश्च दीनहृदयश्च भवान् स्वकीय - शिष्टाभिलाषमथ तं वदतीह मन्दम् । साक्षी तु केवलमिहास्य विदूरकोणे तिष्ठन्नहं च मृदुरस्तमयंश्च दीपः ॥ २६॥ स्नेहालुरत्र मयि हा प्रियपल्लवस्त्व - मेवेति वच्मि कमिदं च सखे त्वदन्यम् । नैवाग्रहोऽस्ति वसितुं च ममोज्जयिन्या - मेवं न मे बहुमतिं समवाप्तुमिच्छा ॥ २७॥ अस्मिंस्तु जन्मनि ममास्त्यभिलाष एक - स्तत्पूरणाय तव देहि सहायहस्तम् । जीवोऽपरोऽस्ति मम सा कथमप्यतस्तां दृष्ट्वा कृतार्थहृदयस्त्वचिरेण यामि ॥ २८॥ अन्तःपुरे नृपवधूरमणीयरत्न - हर्म्येऽथवा विविधशिल्पविचित्रकुड्ये । शालासु वा नटनगेहगतासु गम्भी- रोदारसुन्दरकृतासु महानटीनाम् ॥ २९॥ देवालयेषु च समर्पितदेवदासी- गेहेषु वा धरणिदेवसमृद्धिमत्सु । अन्यत्र वा भवति सा किमियं ममाशा द्रष्टुं च तां सकृदतः प्रतियामि शीघ्रम् ॥ ३०॥ युग्मकम् वक्तव्यमेव किमिदं कथमत्र वक्तुं शक्यं यदेतदनभिज्ञतयास्तबोधः । नेत्रे त्वकारणभयं त्विव वर्तमानं वाग्भिर्निगूहितमिवाशु गुहान्तरे च ॥ ३१॥ एवंविधा भवति पल्लवभावरूप - साधारणस्थितिरयं च विषादमूकः । हस्तेन हस्तमपि ते परिगृह्य दक्षि - णाशागतेन तु पथा नयति क्रमेण ॥ ३२॥ अस्ताचलोन्मुखगतोऽस्ति च शीतभानु - रासन्नमृत्युरिव हा क्षयकासरोगी । भूमौ शनैः पतति यो गगनप्रकाश - स्तस्यैव चास्फुटमनातपवद् भवावः ॥ ३३॥ गच्छत्यसौ च भवता सह पल्लवोऽपि गेहाङ्कणस्य कुहचित् किल पार्श्वभागे । तिष्ठत्यसाविह सुमाञ्चितकायमान - कल्पं पुरोऽस्ति नवनीतशिलाकुटीरम् ॥ ३४॥ आन्दोळिका भवति काचन मण्डपेऽस्मिन् मन्दारजातिशतभीरुसितस्रगाढ्या । सम्यग्विभूषितवती पुरतश्च यस्या मन्दं ज्वलत्किरणकोऽस्ति शिलाप्रदीपः ॥ ३५॥ सञ्जल्पितुं किमपि न प्रभवंस्तथैव तस्थौ तदा परवशः खलु पल्लवोऽसौ । एतन्निगूढतरकारणकार्यभावं ज्ञातुं न शक्त इति हा स्थितवान् भवांश्च ॥ ३६॥ ग्रामे पुरा प्रकृतिमोहनमाळवाख्ये या डोलिका गगनसीम्नि तिरोहिता सा । तस्याः पटावरणतः कमपि प्रगाढ - मन्वेषयत्ससलिलं नयनद्वयं च ॥ ३७॥ भूयोऽपि हा स्मृतिपथे सहसा समाया - त्याहात्र मित्रमपि हृन्निहितस्वहस्तः । आन्दोळिकेयमिह हा भवतः प्रियायाः स्थानेऽवशिष्यति च तत्स्मृतिमावहन्ती ॥ ३८॥ युग्मकम् याता क्व सा वद सखे प्रियवल्लभायाः स्थाने कथं भवति हा खलु डोलिकेयम् । एवं जवाद् भवति पृच्छति पल्लवोऽपि किं वच्मि हेत्यतुलसम्भ्रममानसोऽभूत् ॥ ३९॥ गाढं पुनः स तु कवेः सुकरं गृहीत्वा तस्थौ विमूकमथ मन्दमुवाच चैवम् । वक्ष्याम्यहं सकलमेव दुरन्तवृत्तं त्वद्यानतःपरमिहोज्जयिनीपुरीस्थम् ॥ ४०॥
चतुर्दशः सर्गः आन्दोळिकायाः कथा उच्चस्थः पूर्णचन्द्रोऽस्तमयतेऽसमये यथा । तथा तस्मिन् कविश्रेष्ठे निष्क्रामति कुतश्चन ॥ १॥ खिन्नाश्चाराधकास्तस्य चान्विष्यति परस्परम् । कुत्रागच्छत् किमर्थं वा कथं वेति कदेति वा ॥ २॥ किमासीदात्ममित्रं स कविर्नश्चक्रवर्तिनः । किमासीत् सत्कविः सोऽयमुज्जयिन्याः सुभूषणम् ॥ ३॥ अप्रतीक्षितमेतत्तु तिरोधानं किमर्थकम् । इत्यचिन्ति परं तस्य सुमनोभिः सुहृत्तमैः ॥ ४॥ युग्मकम् वार्ता यथेच्छं निर्माय व्यापयन्ति दिवानिशम् । प्रतिकारत्वरादग्धाः कविकीर्त्यभिलाषुकाः ॥ ५॥ प्रणयोऽभूच्चक्रवर्तिसहोदर्यां कवेः किल । बहूनविनयान्यन्यान्यपि चक्रे कविः किल ॥ ६॥ ज्ञात्वैतत् सकलं राजा क्रुद्धोऽभूदित्यनन्तरम् । आज्ञां चकारोज्जयिनीं त्यक्त्वा गन्तुमिति क्षणात् ॥ ७॥ इत्थं निराकृतो लज्जानम्रशीर्षः कुतश्चन । निश्चक्राम कविस्त्वेवं व्याप्नुवन् बहुधा कथाः ॥ ८॥ सत्कृत्याराधितवतीं राजकीयामुदारताम् । धिक् चक्रे किं कवीन्द्रोऽयं निर्दयत्वेन केवलम् ॥ ९॥ स्वच्छन्दाय विहाराय स्वातन्त्र्यं यो मुदा ददौ । विश्वासं तं वञ्चितवान् कविः किं स नराधमः ॥ १०॥ श्रुतं सर्वं सत्यमिति विचिन्त्याहुश्च केचन । शुश्रूषवोऽभवन् केचित् सत्यं निर्मलमश्रुतम् ॥ ११॥ कवेरभावे राजा तु मौनमेव भजन् स्वयम् । खिन्नवद् भवति स्मैवं बहवो दिवसा गताः ॥ १२॥ ऋतुमङ्गलसंशुद्धं प्रथमं कुसुमं वहन् । द्वारं गतोऽभूद् भूयोऽपि वसन्तर्तुर्यथापुरम् ॥ १३॥ बालातपः सुवर्णाभो हृद्यालापः पिकस्य च । शतवर्णलयोल्लासः प्रमदोद्यानतल्लजे ॥ १४॥ मधुवाचां सुन्दरीणां रागनैवेद्यमेव च । अथैवं हृदयं भूपो विषादात् प्रविमुक्तये ॥ १५॥ ऋतूत्सवमदोन्मादलहरीं पुनरिच्छति । व्रणितोऽपि मुहुर्वंशो गायत्येवानिलागमे ॥ १६॥ युग्मकम् भूयोऽपि जागरूकाभून्नाट्यगेहोपशालिका । नाट्याचार्याः समायान्ति विदग्धनटसंयुताः ॥ १७॥ अस्मिन् वर्षे विक्रमोर्वशीयमेव प्रयोजयेत् । इत्याशा विक्रमादित्यमानसेऽङ्कुरिता किल ॥ १८॥ पुरा माळविका याऽऽभूत् तथा चापि शकुन्तळा । सैव कन्या प्रयोगेऽस्मिन्नुर्वश्यपि भविष्यति ॥ १९॥ कुमारिकायास्तस्यास्तदुर्वशीवेषदर्शनम् । सर्वेषामभिलाषोऽस्ति राज्ञः किल विशेषतः ॥ २०॥ सूत्रधाराङ्गुलीकॢप्तचलनानुसृतं तथा । चञ्चा चलति तद्वत् सा चलत्येवैकयन्त्रवत् ॥ २१॥ अभ्यासानन्तरं तस्याश्चिन्तयन्त्याः पुरोभुवि । आयाति स्म ससन्तोषं चक्रवर्ती कदाचन ॥ २२॥ नाजानात्तं नृपं सा स्वामभिनन्दितुमागतम् । प्रत्युज्जगाम तं नैव भक्त्यादरपुरस्सरम् ॥ २३॥ न दुर्वासा नृपस्तस्मान्न शशाप रुषा च ताम् । क्षमावानिव तत्रैव तस्थावस्वस्थमानसः ॥ २४॥ आचार्ये स्मारयत्यश्रु धारयन्ती निरन्तरम् । न किञ्चनापि कमपि वक्तुं शक्ता स्थितैव सा ॥ २५॥ स्मृत्वा कं वा तया तस्थौ स्थायि किं नयने भयम् । रङ्गे हित्वा स्मितसुमं तन्मुखे किं न राजते ॥ २६॥ तथापि साक्षाज्जीवत्येवोर्वशीत्वेन रङ्गके । अन्यत् सर्वं तदा नूनं विस्मरत्यवनीपतिः ॥ २७॥ चरितं नृपतेः शत्रुविजयस्यैव केवलम् । विजितास्तेन शकवत्पराक्रमपरायणः ॥ २८॥ तस्य वाकाटका राष्ट्रकूटाश्च सुहृदः परम् । दक्षिणे दिशि सख्यं तद् दुर्गमेव सुनिर्मितम् ॥ २९॥ ध्वजं स्थापितवान् तस्य दुर्गस्योपरि विक्रमः । सुतां प्रभावतीं दत्वा वाकाटकमहीपतेः ॥ ३०॥ असौ विधिवशाद् राज्ञी त्वकाले विधवाभवत् । तथापि पुत्रस्य कृते राज्यभारमुवाह सा ॥ ३१॥ नैसर्गिकी सुखासक्तिः सुते यद्यप्यवर्धत । तथापि राज्यं दुःखार्ता तस्मिन्नेव निचिक्षिपे ॥ ३२॥ विक्रमार्कोऽप्युत्सवस्य प्रददौ च निमन्त्रणम् । सर्वेभ्यो मित्रराजेभ्यः स्वदौहित्रनृपाय च ॥ ३३॥ ततः समागतस्तत्र मुदा चैत्रमहामहः । रङ्गप्रदीपाः सर्वत्र प्रज्वलन्त्यधिकाधिकम् ॥ ३४॥ विक्रमार्कः समायाति मित्रराजवरैः सह । तथा प्रवरसेनोऽप्यायाति दौहित्रभूपतिः ॥ ३५॥ अतिवात्सल्यपूर्वं स पितामहनृपालकः । करं गृहीत्वा दौहित्रमुपवेशयति क्षणात् ॥ ३६॥ तद्दृश्यदर्शने हर्षबाष्पधाराकुलाभवत् । प्रभावती च- नैपथ्यमभूत् सङ्गीततुन्दिलम् ॥ ३७॥ उन्नीयते यवनिका रङ्गभूमिरनावृता । प्रेक्षकाक्षीव हृदयं समुत्फुल्लं च वर्तते ॥ ३८॥ पुरूरवा हेमकूटात् प्रत्यागच्छति सत्वरम् । तत्सुवर्णरथान्मन्दमवरोहत्यथोर्वशी ॥ ३९॥ तदारभ्यान्तिमं रङ्गं यावदत्र प्रशोभते । उर्वशीवेषधारिण्याः प्रयोगकृतहस्तता ॥ ४०॥ तस्यां मुग्धमना भूत्वा दौहित्रयुवभूमिपः । पितामहस्य सान्निध्येऽप्यानन्दविवशोऽभवत् ॥ ४१॥ पञ्चाङ्केष्वथ पूर्णेषु मङ्गलोद्गीतपूर्वकम् । नाटकान्ते यवनिका संवृणोति च वेदिकाम् ॥ ४२॥ तद्दिनेऽप्यभिनेतारः सर्वे साञ्जलयो द्रुतम् । नृपोत्तमस्य सविधमागच्छति यथापुरम् ॥ ४३॥ न पश्यन्ती मुखं कस्याप्यानतास्या कृताञ्जलिः । आगम्य या गता तत्र नैव तस्थौ कलामपि ॥ ४४॥ को वा निःसङ्गभावोऽस्या मुखेऽस्तीति ससंभ्रमम् । श्रद्दधानोऽभवत् किं स गूढं विक्रमभूमिपः ॥ ४५॥ निर्ममे नयतन्त्रे सुशिक्षणं च ततोऽधिकम् । मातुश्चातन्द्रवात्सल्यमपि यं समनीयत ॥ ४६॥ सत्पथेन युवा सोऽपि नृपः प्रवरसेनकः । दिवानिशं पश्यति हा हृदि तां देवसुन्दरीम् ॥ ४७॥ मातैव शरणं सैव वात्सल्यं सान्त्वनं तथा । तस्मात् पुत्रः साभिलाषं मातुरग्रे न्यवेदयत् ॥ ४८॥ प्रभावत्या यथा नैजपुत्रः प्रवरसेनकः । तथा सापि पितुः प्रीतिभाजनं समभूत् सदा ॥ ४९॥ तस्मादादरपूर्वं सा जगाम पितृसन्निधौ । प्रियपुत्रस्याभिलाषं निवेदयितुमञ्जसा ॥ ५०॥ निःशब्दं सर्वमेवासौ शुश्रावावहिताशयः । शान्तश्च किन्तु न प्रत्युवाच चिन्ताकुलो नृपः ॥ ५१॥ पुत्र्या यदुक्तं तत् तस्य प्रत्यभादहितं किमु । न किमङ्गीकरोत्येष सुतायास्तं मनोरथम् ॥ ५२॥ यदा तत् कन्यकारत्नं स्वीयं कर्तुमकाम्यत । तदारभ्य नृपस्याभूद् भूयो भूयोऽशुभोत्करः ॥ ५३॥ विश्वप्रकाशकं रत्नमपरं लज्जया विना । नृपेण यत् परित्यक्तं तस्यापीयं हि कारणम् ॥ ५४॥ तथापि तस्या निःसङ्गभावोऽयं किं नृपं प्रति । तामेव चिन्तयित्वा किं तपत्यन्तः पुनः पुनः ॥ ५५॥ क्रन्दत्यहो किं सारङ्गी कापि नाट्यगृहान्तरे । कश्चित् सन्तप्तहृदयस्पन्दः किं नूपुरारवः ॥ ५६॥ विस्मर्तुं तन्माळवीयलावण्यं शक्यते कथम् । एवं दुःखाग्निरेकोऽस्मिन् हृदये जाज्वलीति किम् ॥ ५७॥ किं कर्ममूढो राजासौ मन्त्रिभिर्मन्त्रयत्यलम् । पित्रर्थं निजतारुण्यं परितत्याज किं पुरुः ॥ ५८॥ वव्रे नित्यब्रह्मचर्यं भीष्मः किन्नु पितुः कृते । साहसं तत् सुतार्थं तु त्यागो धर्मो न संशयः ॥ ५९॥ युग्मकम् वात्सल्यस्निग्धमाधुर्यमाप्नोति नृपहृत्तटम् । पुत्र्याः कृते पुनः पुत्रीपुत्रस्य च कृते शनैः ॥ ६०॥ नव्यप्रभातवेळायां चन्द्ररश्मिव्रजो यथा । लीयते हृदयामोदशीतळः स मनोरथः ॥ ६१॥ आमन्त्रणार्थं तिष्ठन्तीं पुत्रयुक्तां प्रभावतीम् । वात्सल्यार्द्रो नृपो वक्ति यथेच्छं वां भवत्विति ॥ ६२॥ ऋतूत्सवः समाप्तस्ते गताश्चातिथयः समे । वाकाटकमहीपालो न गत्वात्रावशिष्यते ॥ ६३॥ अन्येद्युः सप्त चान्दोळाः स्थिता राजगृहाङ्कणे । अग्रे प्रवरसेनस्य प्रभावत्यास्ततः परम् ॥ ६४॥ ततः पञ्चसु डोलासु नीताः पञ्च कुमारिकाः । आनीयते सा प्रथमं सखीभिः परिवारिता ॥ ६५॥ युग्मकम् पूर्वेद्युर्नाट्यशालायामुर्वशीवेषधारिणी । रराज या सैव चात्र पूर्वमानीयते शनैः ॥ ६६॥ विभूषणविहीनैव शालीना चारुता हि सा । तस्याः सख्यश्चतस्रोऽन्तःपुरस्थास्तदनन्तरम् ॥ ६७॥ नेत्रमार्द्रं विक्रमस्य भवत्यस्याः समीक्षणे । आत्मन्येव विलीयन्ते सन्तप्ताश्रूणि किं तदा ॥ ६८॥ गौरवं न परित्यज्य तिष्ठत्यत्र महीपतिः । असौ माळवकन्या तु न पश्यति परिस्थितान् ॥ ६९॥ शुभ्रवस्त्रं स्वल्पमात्रमलङ्कारास्तथापि सा । सम्पश्यमाना सर्वैरप्यप्सरा इव राजते ॥ ७०॥ कालाख्यनेत्रपक्ष्माग्रे सान्द्रीभूता विलम्बिनी । विलोलतरळा बाष्पबिन्दुवत् सा विराजते ॥ ७१॥ शिबिकावाहकानां सुमन्द्रगम्भीरसंरवैः । सप्त चान्दोळिकाः शीघ्रं पुरोगच्छति पङ्क्तिशः ॥ ७२॥ एषा चोज्जयिनीगाढकामिता मुक्तिकापरा । अतिगच्छति हा कुत्र तद्वासः स्यादितःपरम् ॥ ७३॥ न शक्यं शुक्तिकामेव प्रतिगन्तुमितःपरम् । वारान्निधावेव भूयः पतनं चापि दुर्घटम् ॥ ७४॥ स्वायत्तीकृतवान् यस्तां मुक्तां सोऽप्यचिरादहो । अन्यस्मै प्रददात्येतद्दुरन्तं नावसीयते ॥ ७५॥ रक्षार्थं पुरतः सन्ति हयारूढाश्च सैनिकाः । पश्चात्त्वश्वाकृष्टदीर्घवाहनानां परम्परा ॥ ७६॥ वाहनानि सुपूर्णानि भाण्डैर्भारभृतैस्तथा । सप्ताहयात्राभुक्त्यर्थमिष्टपाथेयसञ्चयैः ॥ ७७॥ चतुर्नरभृतः कर्णीरथः सञ्चरति द्रुतम् । अष्टपादो जन्तुरिव दीर्घरम्यपथे भुवि ॥ ७८॥ क्रमेण चावरुह्यन्ते सप्त चान्दोळिकाः पथि । तमोयामेषु चायासश्रान्त्यै सङ्केतसीमसु ॥ ७९॥ सप्ताहयात्रासन्ध्यासु प्रतिसङ्केतमन्दिरम् । डोलावरूढान् सकलान् प्रत्युद्गन्तुं यथाविधि ॥ ८०॥ विश्रामगेहेष्वानेतुं दातुं चेष्टसुभक्षणम् । भयभक्तियुतास्तस्थुर्नृपसेवकसंहतिः ॥ ८१॥ दिनदीर्घा च यात्राथ विश्रान्तिभजनं निशि । अतःपरं त्वहोरात्रमेकमेवावशिष्यते ॥ ८२॥ रेवायाश्चापरे पारे वाकाटकमहीपतेः । प्रियं जनपदं भक्त्यादरात् प्रत्युद्गमिष्यति ॥ ८३॥ एवं षष्ठी समायाता सन्ध्या तत्र यथापुरम् । सङ्केते विरतिं प्राप्ता सप्त चान्दोळिकागतिः ॥ ८४॥ डोलावरूढान् मनुजान् भक्त्यादरपुरःसरम् । प्रत्युद्गन्तुं समायाता नृपालपरिसेवकाः ॥ ८५॥ विक्रमार्कमहीपस्य प्रियपुत्री प्रभावती । तस्याः पुत्रश्च विश्रान्तिगेहमुद्दिश्य जग्मतुः ॥ ८६॥ पश्चाद्भवाया डोलायाः पटानावरणे समैः । दृश्यते मीलिताक्षी सा शयानैव च कन्यका ॥ ८७॥ सख्यस्तामाह्वयन्त्युच्चैः स्वरैरथ ससंभ्रमम् । निद्राणेव सुखं सा तु दृश्यते शयनासने ॥ ८८॥ किमित्यन्विष्यन्ति सर्वे सोद्वेगं तदनन्तरम् । जानन्ति सत्यमेकं तद् विस्मयस्तब्धमानसाः ॥ ८९॥ निराहारा भवन्त्यासीद् दिनसप्तकमत्र सा । सखीभिः प्रेरितायां तु निःशब्दैरासने स्थिता ॥ ९०॥ मृत्युश्याममराळेन दष्टं यद् बिससूत्रकम् । तत्सन्निभेन हस्तेन विन्यस्तं च निजोरसि ॥ ९१॥ दुकूलं दृश्यते यस्मिन् राजमुद्रोज्ज्वलाङ्किता । सुवर्णशृङ्खला रम्यनवरत्नविराजिता ॥ ९२॥ युग्मकम् दत्वान्त्यचुम्बनं फाले क्षौमेनावृत्य विग्रहम् । राजमातापि सन्तप्ता तस्यास्तस्मिन् जडे तदा ॥ ९३॥ अश्रूण्यन्त्योदकत्वेन पातयामास सन्ततम् । माळवस्याङ्क एवान्त्यतल्पं माळविकावृतम् ॥ ९४॥ युग्मकम् आन्दोळषट्कं नृवहं माळवात् पुरतोऽगमत् । नृशून्यया डोलिकया त्वैकया चापरे जनाः ॥ ९५॥ दुःखभारेण सन्तप्ताः प्रतिजग्मुर्महापुरीम् । स्मर्तुं स्मृत्वाशु मार्ष्टुं च डोलैवेहावशिष्यते ॥ ९६॥ युग्मकम् नवनीतशिलामण्डपेऽस्मिन् डोलां निचिक्षिपे । यत्र राज्ञा प्रज्ज्वलिता चैका सौवर्णवर्तिका ॥ ९७॥ अद्यापि नैव निर्वाणा वर्तते किमियं पुरः । भग्नस्य तस्य प्रणयदीपस्य प्राणनाळिका ॥ ९८॥ युग्मकम् विरामचिह्नमेतस्याः कथायाः पल्लवोऽकरोत् । दुःखबाष्पेण न द्रष्टुमनयोस्तु परस्परम् ॥ ९९॥ शक्यते किन्त्वात्मतापमुभौ जानीत एव किम् । तस्मात् किं पल्लवः सम्यगाश्ळिष्यति सुहृत्कविम् ॥ १००॥ युग्मकम् अथ तत्स्वर्णडोलायाः पुरतस्तत्र मीलतः । दीपस्य पुरतः स्वीयं दूतकाव्यं समार्पयत् ॥ १०१॥ तच्च काव्यं कवेः स्नेहदुःखानामक्षरात्मकम् । रूपमेवास्य हृदयमेव तच्छान्तसुन्दरम् ॥ १०२॥ आन्दोळिकान्तर्दृष्ट्वासौ पश्यन् किञ्चिदिव स्थितः । अश्राव्यवेगं वातेनाव्यक्तमाक्रन्दनं यथा ॥ १०३॥ अप्रत्यक्षो बभूवासौ कविः शून्ये तमस्यहो । कालोऽपि पूर्णनैश्चल्यं प्रापेवैकनिमेषके ॥ १०४॥ युग्मकम् निखिलं शब्दजातं यत् तदस्तङ्गमितं किमु । अप्रत्यक्षोऽभवत् कालबोधोऽपीति प्रतीयते ॥ १०५॥ सर्वं स्वप्नोऽभवत् किन्नु किं वा स्वप्नस्य सत्यता । स्वप्न इत्युच्यते सत्यस्यैव मायामुखं किमु ॥ १०६॥ असंख्यानां दुरूहाणां समस्यानां च पूर्तये । काले तपति यो दृश्यप्रपञ्चाद् भौतिकादतः ॥ १०७॥ निश्चक्राम कविः सोऽयं सञ्चरत्यधुनापि किम् । हृद्यसूक्ष्मध्वनीन् कुर्वन् मर्त्यचित्तेषु सन्ततम् ॥ १०८॥ युग्मकम् ममावबोधोज्ज्वलभूर्जपत्रे व्यालेखितां तेन च सत्यगाथाम् । गायामि काले पथि - सोत्सुकान् नः कुर्वन्तु जन्मान्तरसौहृदानि ॥ १०९॥
Original Malyalam poem by ONV Kurup Sanskrit text by NVP Unithiri Popularly known as ONV, ONV Kurup (b. 1931) is one of the major poets of Kerala. He has authored more than 25 works in Malayalam and has won many awards including Soviet Land Nehru Award, Central Sahitya Academy Award and Bharatiya Bhasha Parishad Award. He has been conferred Padmasri in 1998 . NVP Unithiri (b. 1945) is presently Professor and Head of the Department of Sanskrit, University of Calicut, Kerala. Author of more than 20 books in Malayalam and Sanskrit, he has to his credit many papers in various research journals. The text encoded by NVP Unithiri unithiri@sify.com, anandavardhanan@yahoo.com

% Text title            : ujjayini kaavya
% File name             : ujjayini.itx
% itxtitle              : ujjayinI kAvyam
% engtitle              : Poem on Ujjayini
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Original Malyalam by ONV Kurup Sanskrit by NVP Unithiri
% Language              : Sanskrit
% Subject               : kaavya
% Transliterated by     : NVP Unithiri unithiri at sify.com, anandavardhanan at yahoo.com
% Proofread by          : NVP Unithiri unithiri at sify.com, anandavardhanan at yahoo.com
% Indexextra            : ONV Kurup -Malyalam and NVP Unithiri -Sanskrit
% Latest update         : November 30, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP