श्रीविचारदीपकः

श्रीविचारदीपकः

(श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितः) श्रीरमापतये नमः । ॥ मङ्गलं ॥ फणीन्द्रभोगामलतल्पशायिने दुरन्तदुर्ज्ञेयविचित्रमायिने । समस्तसत्त्वैकहृदब्जयायिने नमोऽस्तु मेशाय विमोक्षदायिने ॥ १॥ स्वच्छास्त्रतैलश्च विरागवर्तिक- श्चेतः सुपात्रश्च गुरूक्तिपावकः । निर्वातहृद्गेहगतः प्रकाशयेत् सर्वेप्सितं वस्तुविचारदीपकः ॥ २॥ कलौ हि योगो न जपस्तपो व्रतं न चापि यागो न सुरार्चनं तथा । प्रयाति सिद्धिं दुरितप्रभावत- स्ततो विचारैकपरायणो भवेत् ॥ ३॥ आहारनिद्रादि समं शरीरिषु वैशेष्यमेकं हि नरे विचारणम् । तेनोज्झितः पक्षिपशूपमः स्मृत- स्तस्माद्विचारैकपरायणो भवेत् ॥ ४॥ विचारहीनस्य वनेऽपि बन्धनं भवेदवश्यं भरतादिवद्यतः । गृहेऽपि मुक्तो जनकादिवद्भवे- त्ततो विचारैकपरायणो भवेत् ॥ ५॥ पठन्तु शास्त्राणि यजन्तु वाध्वरै- रटन्तु तीर्थानि तपन्तु तापकैः । विदन्ति नात्मानमृते विचारणं ततो विचारैकपरायणो भवेत् ॥ ६॥ तस्य खरूपं तु समासतः स्फुटं शास्त्रान्तरादत्र विकृष्य यत्नतः । सन्दर्श्यते शिष्यगुरुप्रसङ्गतो युक्त्या कयापीह हि बोध्यते वुधैः ॥ ७॥ दृष्ट्वा जराजन्मविपत्तिसङ्कुलं सर्व जगच्चांवुतरङ्गभङ्गुरम् । भीतः समागम्य जनोज्झितं स्थलं कश्चिन्मुमुक्षुः समचिन्तयत्त्विदम् ॥ ८॥ अहो विचित्राः खलु मोहशक्तयः प्रचोदितो याभिरहं निरन्तरम् । जनुर्जरादुःखनिपीडितोऽपि नो कदापि पश्यामि हितं यदात्मनः ॥ ९॥ बाल्यं मया केलिकलाकलापकै- र्नीतं च नारीनिरतेन यौवनम् । वृद्धोऽधुना किं नु करोमि साधनं मुक्तेर्वृथा मे खलु जीवितं गतम् ॥ १०॥ निद्राव्यवायाशनतत्परोऽभवं नित्यं विवेकापगतो यथा पशुः । नात्मानमन्तःस्थमपि व्यलोकयं सर्वं वृथा मे खलु जीवितं गतम् ॥ ११॥ भवापहो नैव सतां समागमः कृतः श्रुता नापि कथाघहारिणी । हरेर्न तीर्थानि गतानि वै मया वृथाखिलं मे खलु जीवितं गतम् ॥ १२॥ चतुर्भुजश्चक्रगदायुधः प्रभु- र्निरञ्जनः सर्वभवार्तिभञ्जनः । स्मृतः कदापीह मया न माधवो वृथाखिलं मे खलु जीवितं गतम् ॥ १३॥ इहाङ्गनातातसुतादिबान्धवैः समागमोऽयं मम किन्निबन्धनः । सदाऽचलो वांवुतरङ्गचञ्चलो हितावहो मे किमुताहितावहः ॥ १४॥ इमे च दारात्मजसेवकादयः समाश्रिता मामथ कर्म वा निजम् । गतिस्तथैषां ननु का भविष्यति मयि प्रयाते परलोकमन्ततः ॥ १५॥ पापैरनेकैस्तु यदर्थमादरा- द्वित्तं समानीय करोम्यहं व्ययम् । ते बान्धवा वै मम दुःखभागिनः किंवा भविष्यन्ति गतस्य रौरवम् ॥ १६॥ सायं समेत्यैकतरुं विहङ्गमाः प्रातः प्रयान्तीह दिशं निजां निजाम् । त्यक्त्वा यथान्योन्यमगं च तं तथा सर्वे समायान्ति च यान्ति बान्धवाः ॥ १७॥ यथा कपोतोऽन्नकणाभिवाञ्छया शिचं विशन्नेति दुरन्तबन्धनम् । कुटुम्बजाले विषयाशयाविशं तथा विमुच्येय कथं जगत्पते ॥ १८॥ इयं च मुक्तालिलसत्पयोधरा कणन्मणिव्रातनितम्बमण्डला । विभाति रम्या ललनाऽविचारतो विचारदृष्ट्या तु कुमांसपुत्रिका ॥ १९॥ एषा तु बद्ध्वालकदामभिर्दृढं कृष्ट्वा च हावाञ्चितलोलवीक्षणैः । मामङ्गना नर्तयतीह सन्ततं नाद्यापि लज्जे कपितुल्यतां गतः ॥ २०॥ सूनुर्मयायं परिपूज्य देवता लब्धः प्रयत्नेन च वर्द्धितोऽधुना । मामेव मूढः परिशिक्षितः स्त्रिया द्वेष्टीत्यहो भाग्यविपर्ययो हि मे ॥ २१॥ अनेकयत्नैः समुपार्ज्य सर्वतः सदाप्तिरक्षाक्षतिदुःखदं धनम् । व्ययं कुकार्येषु करोम्यहो पदं स्वकं स्वकीयेन करेण हन्यते ॥ २२॥ जले स्थले योऽपि च शैलमस्तके सदैव पुष्णाति जगच्चराचरम् । स मेऽशनं दास्यति विश्वपालको न किं किमर्थं तु गतोऽस्मि दीनताम् ॥ २३॥ लब्ध्वापि देवेप्सितमानुषं वपु- र्नीतं समस्तं गृहकृत्यकल्पनैः । चिन्तामणिं हस्तगतं विहाय वै क्रीतं मया काचदलं कुबुद्धिना ॥ २४॥ इदं सदाऽभ्यङ्गसुतैलवासितं वराङ्गनालिङ्गनलालितं मुहुः । हितान्नपानौषधिवर्धितं वपुः कृतघ्नमन्ते न समं मयैष्यति ॥ २५॥ मलीमसेऽनात्मनि नाशशालिनि शुचित्वमात्मत्वमवैमि नित्यताम् । अनाद्यविद्यातिमिरावृतेक्षणः किमञ्जनं तस्य भवेन्निवर्तकम् ॥ २६॥ क्षणं क्षणं दीपशिखोपमां दधत् सरन्ध्रकुम्भास्रवदंवुसन्निभम् । प्रयात्यशेषं तु ममायुरुत्तमं न सेक्षणोऽपीह विलोकयाम्यहो ॥ २७॥ गता मदीयाः पितरो यमालयं प्रयान्ति चान्येपि दिनन्दिनं प्रति । अहं तु पश्यन्नपि तानहो शठ- स्तथापि मन्ये स्थितिमात्मनो ध्रुवाम् ॥ २८॥ एते च जिह्वेक्षणनासिकादय- श्चौरास्तु शश्वन्मम देहवासिनः । लुम्पन्ति सर्वात्मधनं प्रमाथिनो नाद्याप्यवेक्षे मम पश्यताज्ञताम् ॥ २९॥ पतङ्गमीनेभमृगालयो लयं प्रयान्ति पञ्चेन्द्रियपञ्चगोचरैः । मया तु तत्पञ्चकमेव सेव्यते गतिर्न जाने मम का भविष्यति ॥ ३०॥ यथाऽहितुण्डे पतितोऽपि मेडकः समीहतेऽत्तुं मशकानचेतनः । तथान्तकास्यान्तरितः समन्तत- स्तथापि काङ्क्षे विषयानहो जडः ॥ ३१॥ सितं शिरः सम्पतिता रदावली मुखं वलिव्रातवृतं च चक्षुषी । गतप्रभे मे शिथिलायते वपु- स्तथापि चेतो युवतिं स्मरत्यहो ॥ ३२॥ अधःशिरस्केन दुरन्तसङ्कटे मया यदम्बाजठरे विनिश्चितम् । स्मरामि नाद्यापि तदुद्धताशयो मुरारिमाया हि किलातिदुस्तरा ॥ ३३॥ करोमि दुष्कर्म सदा प्रयत्नतः फलं तु वाञ्छामि सुखं सुकर्मणः । करञ्जमारोप्य तु केन भुज्यते फलं रसालस्य बतेयमज्ञता ॥ ३४॥ कोऽहं कथं केन कुतः समुद्गतो यास्यामि चेतः क्व शरीरसङ्क्षये । किं मेस्ति चेहागमने प्रयोजनं वासोऽत्र मे स्यात्कति वासराणि वा ॥ ३५॥ इत्थं सुधीः शुद्धधिया निरन्तरङ्ग सञ्चिन्तयन्नप्यगमन्न निश्चयम् । खिन्नान्तरङ्गस्तु ततः समित्करो गत्वाभ्युवाचात्मविदांवरं गुरुम् ॥ ३६॥ शिष्य उवाच । भवार्णवे जन्मजरातिमिङ्गिले तृषाऽनले मोहविवर्तसङ्कुले । निमज्जतो मे किमु तारकं दृढं वदार्तबन्धो मयि चेदनुग्रहः ॥ ३७॥ गुरुरुवाच । संसारदुष्पारमहोदधौ नृणां तुम्बीवदेवोर्ध्वमधश्च मज्जताम् । गोविन्दपादाम्बुरुहैकचिन्तनं पोतं वदन्तीह दृढं विपश्चितः ॥ ३८॥ शिष्य उवाच । इहैव सन्त्यज्य गृहं सबान्धवं धनं शरीरं च गतस्य देहिनः । भवेदमुत्रास्य सहायकस्तु कः सुहृद्वदेतद्वद वेदविद्विभो ॥ ३९॥ गुरुरुवाच । वधूर्जनित्री जनकः सहोदरः सुतो धनं मित्रममुत्र गच्छता । समेति साकं न सहायकोऽपि को विना स्वधर्मेण नरेण वै क्वचित् ॥ ४०॥ शिष्य उवाच । धर्मस्य मार्गा बहवो महर्षिभिः सन्दर्शिता भुक्तिविमुक्तिसिद्धये । कस्तेषु गम्यस्तु मयात्मशुद्धये निःशेषधर्मैकरहस्यविद्गुरो ॥ ४१॥ गुरुरुवाच । वाचा च चित्तेन च कर्मणापि यत् सम्पालनं नित्यमवेक्ष्य शास्त्रतः । सत्यस्य तद्धर्ममिहोत्तमं बुधाः प्राहुस्ततस्तं हि समाश्रयाचिरम् ॥ ४२॥ शिष्य उवाच । इदं जगच्चित्रचरित्रचित्रितं विनिर्मितं केन कथं कुतस्तथा । मृषाऽमृषा वापि ततो विलक्षणं भवेदथानादि किमादिमन्मुने ॥ ४३॥ गुरुरुवाच । यः सर्वगः सर्वविदक्षरः प्रभु- र्मयाधिपस्तन्तुरिवोर्णनाभितः । तस्मादनिर्वाच्यमिदं प्रजायते वेगात्मना चेदमनाद्युदाहृतम् ॥ ४४॥ (वेगशब्दोऽत्र प्रवाहवाचकः, प्रवाहजवयोरपीत्यमरः, अमरकोशः) शिष्य उवाच । स्वकीयमुद्दिश्य किलेतरस्य वा प्रयोजनं किन्तु विनाप्रयोजनम् । विनिर्मिमीते जगदेतदीश्वरो वदैतदज्ञानतमोनभोमणे ॥ ४५॥ गुरुरुवाच । सदाप्तकामस्य तु नात्महेतवे न चेतरस्यापि न चाप्यहेतुका । जगत्क्रिया क्रीडनमेव केवलं विभोर्वदतींह तु वेदवादिनः ॥ ४६॥ शिष्य उवाच । निशाकरेन्द्रार्कयमानलानिला घराघराधारनदीनदीश्वराः । भयेन कस्याखिलशक्तिधारिणः सदैव भीता नियतिं त्यजन्ति नो ॥ ४७॥ गुरुरुवाच । यमीश्वराणां परमं महेश्वरं तथोद्यतं वज्रमपि श्रुतिर्जगौ । भयेन तस्याखिलमेव कम्पते यथेह राज्ञोऽनुचरादिकं जगत् ॥ ४८॥ जडानि कर्माणि पृथक् पृथग्जनैः कृतानि चित्राणि सदा समन्ततः । विबुद्ध्य कालेन तु कोऽखिलार्थवित् फलं दयालुर्भगवन् प्रयच्छति ॥ ४९॥ गुरुरुवाच । येनेश्यते सर्वमिहान्तरात्मना लोकेश्वरा यस्य निदेशकारिणः । तेनाखिलं कर्मफलं प्रसूयते वर्षांवुना सस्यमिवाविरोधतः ॥ ५०॥ शिष्य उवाच । दिवाकरो दाहकरो निशाकर- स्तडिद्गणश्चोडुगणस्तथानिशम् । विभाति कस्यामितदीप्तिदीपितो ब्रवीतु मे संशयशैलदेवराट् ॥ ५१॥ न यत्र सूर्यो न निशाकरस्तथा न चापि विद्युज्ज्वलनः प्रकाशते । श्रुतौ स्वयञ्ज्योतिरुदीरितश्च यो विभाति तस्याखिलमेव तेजसा ॥ ५२॥ शिष्य उवाच । सदेवनागासुरसिद्धमानवं जगत्समग्रं प्रलये लयोन्मुखम् । विलीयते कस्य तनावनाशिनो जगत्पतेर्ब्रूहि विपश्चिताम्पते ॥ ५३॥ गुरुरुवाच । यस्योदरेऽनन्ततनोर्महात्मनो ब्रह्माण्डलक्षाणि परिस्फुरन्त्यलम् । खद्योतका भान्ति यथा नभोंऽगणे तस्मिन्निदं याति लयं लयेऽखिलम् ॥ ५४॥ शिष्य उवाच । इहास्ति देवः खलु कस्तु पूज्यतां गतः कथं तस्य भवेच्च पूजनम् । सुपूजितेनापि च तेन किं फलं भवेदिहामुत्र वदाशु मे विभो ॥ ५५॥ गुरुरुवाच । यः सर्वगोऽव्यक्तवपुः स्वसंस्थिति- र्यन्मूर्तयो ब्रह्ममहेशमाधवाः । सर्वेश्वरं वेदवचांसि यं जगु- र्देवाधिदेवं तमवेहि सन्मते ॥ ५६॥ गुरुरुवाच । न पुष्पमालाभिरसौ न चन्दनै- र्न धूपदीपादिनिवेदनैरपि । प्रयाति तोषं तु मनोंऽवुजार्पणात् ततोऽचिरं मोक्षफलं प्रयच्छति ॥ ५७॥ शिष्य उवाच । स्थलं निवासस्य गुरो क्व विद्यते सदैव देवस्य कथं च गम्यते । कथं भवेत्तस्य च दर्शनं द्रुतं ब्रवीतु मे तत्त्वदृशां मणिर्भवान् ॥ ५८॥ गुरुरुवाच । तस्य स्थलं भूमिगतं न चाम्बरे पातालगं वापि सदा हृदम्बुजे । जानीहि तद्वासमुपेत्य चेतसा पश्यन्ति तं दिव्यदृशस्तु योगिनः ॥ ५९॥ शिष्य उवाच । अहं शरीरं किमुतेन्द्रियाणि वा मनोऽथवा प्राणगणोऽथवा मतिः । अथो किमेषां तु समुच्चयोऽस्मि किं ततः पृथग्वात्मविदां शिरोमणे ॥ ६०॥ गुरुरुवाच । शरीरमेतन्न तथेन्द्रियाण्यपि मनोऽपि नो प्राणगणोऽपि नो मतिः । न चापि धीमन्नसि तत्समुच्चय- स्ततोऽन्यमात्मानमवेहि साक्षिणम् ॥ ६१॥ शिष्य उवाच । विचेष्टते केन मनः प्रचोदितं करोति केनासुगणो गमागमौ । वपुस्तथेदं ननु केन नीयते हृदि प्रविष्टेन गुरुर्ब्रवीतु मे ॥ ६२॥ गुरुरुवाच । कर्णस्य कर्णं मनसो मनःश्रुति- र्वाचं च वाचो यमसोरसुं जगौ । तेनानिशं यन्त्रमिवान्तरात्मना सम्प्रेरितं सर्वमिदं प्रवर्तते ॥ ६३॥ शिष्य उवाच । कर्तृत्वभोक्तृत्वमुखं किमात्मनः किं धर्मजालं मनसोऽथवा मतेः । किंवेन्द्रियाणां किमुतासुगं भवे- देतद्दयालो वद मे विनिश्चितम् ॥ ६४॥ गुरुरुवाच । कर्त्ता तु नात्मा न मनो न शेमुषी नैवेन्द्रियाणीह न चासवस्तथा । नाहङ्कृतिर्नापि वपुर्विवेकिनः कर्त्तारमेषां तु समुच्चयं विदुः ॥ ६५॥ शिष्य उवाच । निबद्ध्यतेऽयं किल केन हेतुना तथैव केनेह जनो विमुच्यते । बन्धश्च मोक्षश्च किमात्मकः स्मृतः कृपार्द्रदृष्टे वद मे समासतः ॥ ६६॥ गुरुरुवाच । निबद्ध्यतेऽयं विषयानुरागतो विरागतस्तेषु विमुच्यते द्रुतम् । स्वभावतः संस्खलनं हि बन्धनं पुनः स्थितिस्तत्र विमुक्तिरुच्यते ॥ ६७॥ शिष्य उवाच । जीवो विभुर्वाणुरुतापि मध्यमो नानाऽथवैकः किमु मध्यसङ्ख्यकः । नित्योऽथवा किं प्रलये विनश्यति सर्वं तदेतत्कृपया वदाशु मे ॥ ६८॥ गुरुरुवाच । नाणुः समस्तावयवानुगो यतो नो मध्यमोऽयं परिणामवर्जनात् । आकाशवत्सर्वगतो हि गीयते तस्मात्त्वमेनं विभुमेव निश्चिनु ॥ ६९॥ शिष्य उवाच । रविर्यथैको निखिलाक्षिभासक- स्तथाऽयमात्माखिलदेहदीपकः । उपाधिभेदाच्च भवेद्व्यवस्थितिः प्रमाणहीना तु तृतीयकल्पना ॥ ७०॥ गुरुरुवाच । समस्तवस्त्वेकविनाशसाक्षिणो भवेद्विनाशो न कदापि केनचित् । लये भवेच्चेद्वद कस्तदाश्रय- स्ततस्त्विमं नित्यमवेहि देहिनम् ॥ ७१॥ शिष्य उवाच । स्वरूपमीशस्य तु किं विनिश्चितं तथास्य जीवस्य च किं वपुर्भवेत् । कियत्तयोरस्ति तथैव चान्तरं ब्रवीतु मे तत्त्वविदां वरो भवान् ॥ ७२॥ गुरुरुवाच । मायायुतं ब्रह्म महेश्वरं वुधा जीवं समेतं च वदन्त्यविद्यया । नैवान्तरं किञ्चिदुपाधिमन्तरा सम्यग्विचारेण तयोऽस्तु लभ्यते ॥ ७३॥ शिष्य उवाच । कथं महाम्भोधितरङ्गतुल्ययो- र्विरुद्धधर्मास्पदयोः परस्परम् । भवेदिहैक्यं परमेशजीवयो- र्वदैतदात्मानुभवाद्भवार्तिहन् ॥ ७४॥ गुरुरुवाच । यथाब्धिता चापि तरङ्गता तयो- र्विहाय नीरैक्यमिहोपलक्ष्यते । अपास्य जीवेश्वरभावमीक्ष्यते तथा चिदानन्दमयं विचक्षणैः ॥ ७५॥ शिष्य उवाच । बहूनुपायानवदन्निहर्षयो विशुद्धयेंऽतःकरणस्य निश्चितान् । भवेत्तु तेषामचिरं विशोधको महामते कस्तमुपादिशाशु मे ॥ ७६॥ गुरुरुवाच । न तीर्थयात्राभिरिदं न चाध्वरै- स्तपोभिरुग्रैर्न जपैर्व्रतैरपि । तथा विशुद्ध्यत्यचिरं यथा हरे- रनन्यचेतःस्मरणेन नित्यशः ॥ ७७॥ शिष्य उवाच । अनेकशास्त्राणि पुरर्षिपुङ्गवैः कृतानि सर्वाणि च युक्तिमन्ति वै । प्रमाणता तेषु तु कस्य सम्भवे - दशेषशास्त्रार्थविचारसारवित् ॥ ७८॥ गुरुरुवाच । यद्यद्धि वेदानुगतं सयुक्तिकं तत्तत्तु बालोक्तमपीह गृह्यते । तद्बाह्यमप्यम्बुजजन्मनोदितं प्रामाण्यमायाति वचो न कर्हिचित् ॥ ७९॥ शिष्य उवाच । उपासनाज्ञानमुतापि कर्म वा भवेद्दृढं किन्नु विमोक्षसाधनम् । अथो किमेतानि समुच्चितानि वा किमन्यदप्यस्ति तदाप्तिकारणम् ॥ ८०॥ गुरुरुवाच । नोपासना नैव च कर्म कारणं मोक्षस्य नैवापि समुच्चयस्तयोः । ज्ञानं वदन्तीह तु तस्य साधनं नान्योऽस्ति पन्था भवरोगशान्तये ॥ ८१॥ शिष्य उवाच । उपासनायाश्च तथैव कर्मणो भवेद्विबोधस्य च किन्नु साधनम् । स्वरूपमेषां च किमस्ति निश्चितं पृथक् पृथग्ब्रूहि विभो समासतः ॥ ८२॥ गुरुरुवाच । श्रद्धा मनःस्थैर्यमुपासनस्य वै स्वास्तिक्यवित्ताधिकतादिकर्मणः । ज्ञानस्य वैराग्यविवेचनादिकं विज्ञा वदन्तीह तु साधनं पृथक् ॥ ८३॥ गुरुरुवाच । दानाग्निहोत्रादि तु कर्मणस्तथो- पास्तेश्च चेतोर्पणमिष्टवस्तुनि । ब्रह्मात्मनोरैक्यविनिश्चयं बुधाः प्राहुर्विबोधस्य च लक्षणं पृथक् ॥ ८४॥ शिष्य उवाच । कस्येह वृक्षस्य फले सुखासुखे शाखाश्च कास्तस्य मता महामते । बीजं च मूलं च पदानि कानि किं सङ्क्षेपतो ब्रूहि पृथक पृथग्गुरो ॥ ८५॥ गुरुरुवाच । योऽनेकजन्मार्जितवासनापदः सङ्कल्पमूलोऽनुभवैकबीजकः । धर्मेतरोत्तुङ्गलतोपशोभितः कर्मद्रुमस्तस्य फले सुखासुखे ॥ ८६॥ शिष्य उवाच । कथं नु निर्मूलनमस्य चाचिरं भवेद्गुरो कर्मतरोरशेषतः । निरूढपादस्य च भीतिदायिनो दयानिधे तद्वद मे विनिश्चितम् ॥ ८७॥ गुरुरुवाच । वैराग्यमेवास्य दृढं दृढाशयाः शस्त्रं वदन्तीह विवेकसंशितम् । तेनैनमुन्मूलय बोधवीर्यतो नान्यत्तु तत्साधनमस्ति वै क्वचित् ॥ ८८॥ शिष्य उवाच । सुखाय लोको यतते निरन्तरं सुखं च दुःखेन सदैव मिश्रितम् । अमिश्रितं यन्नु तदाप्यते कथं तदर्थिनं मे वद वेदविद्गुरो ॥ ८९॥ गुरुरुवाच । यस्यैतदानन्दमहोदधेर्लवं सर्वं भवेन्निर्वृतमाश्रितं जगत् । यत्र स्थितो वेत्ति न दुःखमण्वपि तत्प्राप्यतेऽकामहतात्मवेदिना ॥ ९०॥ शिष्य उवाच । तथैव दुःखापगमाय जन्तवः सदा यतन्ते स तु नैव सिद्ध्यति । पदं नु किञ्चाखिलदुःखवर्जितं भवेद्भवांस्तत्कृपया ब्रवीतु मे ॥ ९१॥ गुरुरुवाच । महेन्द्रलोकं भुवनं स्वयम्भुवो रमेशधामापि नगं पिनाकिनः । प्रयातु पातालमपि प्रमुच्यते न दुःखलेशात्तु विनात्मसंस्थितिम् ॥ ९२॥ शिष्य उवाच । ज्ञानोदयानन्तरमस्य देहिनः कर्त्तव्यमस्तीह न किञ्चनापि वा । चेदस्ति किं तत्कृपया ब्रवीतु मे सम्यग्भवानागमगोऽप्यगोचरः ॥ ९३॥ गुरुरुवाच । ज्ञानामृतातृसमतेर्विवेकिनो नैवास्ति किञ्चित्करणीयतां गतम् । यद्यस्ति तद्वृत्तिनिरोधनं सदा नान्यत्कदापीति वदन्ति सूरयः ॥ ९४॥ शिष्य उवाच । इमा ध्वजाग्राग्निशिखातडित्प्रभा नदीरयाश्वत्थदलालिचञ्चलाः । कथं निरुद्धा ननु चित्तवृत्तयो भवन्ति तन्मे वद योगिनां पते ॥ ९५॥ गुरुरुवाच । यथा प्रमत्ता वनदन्तिनः क्वचित् प्रयत्युपायेन विना न निग्रहम् । तथैव योगेन विना न वृत्तयो निरोधनं यान्ति ततस्तमभ्यसेत् ॥ ९६॥ शिष्य उवाच । किं लक्षणं तस्य वदन्ति योगिनो योगस्य चाङ्गानि कियन्ति सन्ति वै । निर्विघ्नमायाति कथं च सिद्धतां योगीन्द्र मे ब्रूहि समासतः स्फुटम् ॥ ९७॥ गुरुरुवाच । सन्त्यज्य सङ्कल्पविकल्पजालकं यत्र स्थितिं याति मनोऽतरात्मनि । योगं तमष्टाङ्गमवेहि स ध्रुवं वैराग्यतोऽभ्यासबलाच्च सिद्ध्यति ॥ ९८॥ शिष्य उवाच । किं पौरुषेणाभिमतं स्वकर्मणा पूर्वार्जितेनोत जनैरवाप्यते । वस्त्वेतयोः किञ्च बलिष्ठमुच्यते सर्वार्थविद्ब्रूहि यदेव निश्चितम् ॥ ९९॥ गुरुरुवाच । नैकेन पुंसा तनयः क्वचिद्यथा नैवैकया वाङ्गनयापि जन्यते । संयोगमेवात्र तथैव कारणं विद्धि त्वमाद्यं च बलिष्ठमेतयोः ॥ १००॥ शिष्य उवाच । सर्वत्रगं वेदवचोभिरुच्यते ब्रह्मोपलादौ तु कथं न लक्ष्यते । अस्मच्छरीरेषु यथैतदञ्जसा सर्वज्ञ मे ब्रूहि विबोधवृद्धये ॥ १०१॥ गुरुरुवाच । सामान्यतः सर्वगतापि भानुभा यद्वद्विशेषेण विभाति दर्पणे । ब्रह्मापि सर्वत्रगतं मतौ स्फुटं तद्वद्विभातीत्यनुभूयते बुधैः ॥ १०२॥ शिष्य उवाच । परिव्रजन्नेव जनो विमुच्यते गृहेपि तिष्ठन्किमु वा दयोदधे । तयोश्च किं तत्र विमोक्षकारणं वदैतदाम्नायवचोऽनुरोधतः ॥ १०३॥ गुरुरुवाच । विशेषतो न्यस्तगृहो विमुच्यते क्वचिद्गृहस्थोऽपि च पूर्वयत्नतः । न चेह कश्चिन्नियमोऽस्ति पक्षिणोऽ- भवन्मृगाश्चापि यतो विवेकिनः ॥ १०४॥ गुरुरुवाच । शवोपमं देहमिमं विलोकय- न्नटेदिमां यस्तु धरां गतस्पृहः । असक्तचेताः समदर्शनः क्षमी शुचिर्दयालुः स विमुच्यते यतिः ॥ १०५॥ गुरुरुवाच । यथाप्तितुष्टोऽनृतरागवर्जितः स्वधर्मनिष्ठोऽतिथिपूजकः शुचिः । जितेन्द्रियो वृद्धजनानुगः क्षमी विचारशीलश्च गृहेपि मुच्यते ॥ १०६॥ शिष्य उवाच । शमं गतो मेऽखिलसंशयज्वरो भवन्मुखाम्भोजवचोमृतद्रवैः । वनेऽथवा किं सदने विहारिणा मया कथं स्थेयमिहाधुना गुरो ॥ १०७॥ गुरुरुवाच । शरीरतः कर्म समारचन् बहि- र्गतान्तरासक्तिरमित्रमित्रयोः । समः सतां सेतुमलङ्घयँस्तत- स्तपोवने वा सदने रमस्व भोः ॥ १०८॥ गुरुरुवाच । मनोभ्रमं विश्वमिदं चराचरं विलोकयन्नात्मरतिर्गतैषणः । विनिर्ममो मानमदादिवर्जित- स्तपोवने वा सदने रमस्व भोः ॥ १०९॥ गुरुरुवाच । अहं हरिः सर्वमिदं च तन्मयं ततोऽन्यदासीन्न भविष्यति क्वचित् । इमं दृढं निश्चयमन्तरास्थित- स्तपोवने वा सदने रमस्व भोः ॥ ११०॥ ततः समभ्यर्च्य गुरुं मुहुर्मुहुः प्रणम्य चैवामुदिताशयोऽगमत् । सुखेप्सुरेकान्तनिकेतनं ततो जगाम सन्त्यक्ततनुः परं पदम् ॥ १११॥ इमं मुमुक्षुः सुमुमुक्षुमोक्षदं विचारयेद्यस्तु विचारदीपकम् । समाहितः सोऽस्तसमस्तसंशयः पुनर्भवं याति न याति तत्पदम् ॥ ११२॥ विचारदीपकः सोऽयं मनोविष्ण्वालयेऽर्पितः । ब्रह्मानन्दाभिधानेन यतिना हरितुष्टये ॥ ११३॥ श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितः श्रीविचारदीपकःं सम्पूर्णः । हरिः ॐ ॥ Encoded and proofread by Tanvir Chowdhury
% Text title            : Vicharadipakah
% File name             : vichAradIpakaH.itx
% itxtitle              : vichAradIpakaH
% engtitle              : vichAradIpakaH
% Category              : major_works, upadesha
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Tanvir Chowdhury
% Proofread by          : Tanvir Chowdhury
% Indexextra            : (Scan)
% Latest update         : December 4, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org