विदुर नीति

विदुर नीति

Vidura Niti has been extracted from प्रजागरपर्व (उद्योगपर्व) of महाभारत.

अध्यायः ३३

वैशम्पायन उवाच । द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥ १॥ प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ २॥ एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥ ३॥ द्वाःस्थ उवाच । विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् । द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ ४॥ धृतराष्ट्र उवाच । प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् । अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ ५॥ द्वाःस्थ उवाच । प्रविशान्तः पुरं क्षत्तर्महाराजस्य धीमतः । न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥ ६॥ वैशम्पायन उवाच । ततः प्रविश्य विदुरो धृतराष्ट्र निवेशनम् । अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ ७॥ विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् । यदि किं चन कर्तव्यमयमस्मि प्रशाधि माम् ॥ ८॥ धृतरष्त्र उवाच । सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः । अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ ९॥ तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया । तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ १०॥ जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ ११॥ यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः । सवेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ १२॥ तन्मे ब्रूहि विदुर त्वं यथावन् मनीषितं सर्वमजातशत्रोः । यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः ॥- ॥ विदुर उवाच । अभियुक्तं बलवता दुर्बलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ १३॥ कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप । कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ १४॥ धृतराष्ट्र उवाच । श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः । अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥ १५॥ विदुर उवाच । रजा लक्षणसम्पन्नस्त्रैलोक्यस्याधिपो भवेत् । प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥- ॥ विपरीततरश्च त्वं भागधेये न सम्मतः । अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥- ॥ आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् । गुरुत्वात्त्वयि सम्प्रेक्ष्य बहून्क्लेषांस्तितिक्षते ॥- ॥ दुर्योधने सौबले च कर्णे दुःशासने तथा । एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥- ॥ एकस्मात्वृक्षाद्यज्ञपत्राणि राजन् स्रुक्च द्रौणी पेठनीपीडने च । एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च ॥- ॥ आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥- ॥ निषेवते प्रशस्तानि निन्दितानि न सेवते । अनास्तिकः श्रद्दधान एतत्पण्डित लक्षणम् ॥ १६॥ क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ १७॥ यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ १८॥ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ १९॥ यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ २०॥ यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किं चिदवमन्यन्ते पण्डिता भरतर्षभ ॥ २१॥ क्षिप्रं विजानाति चिरं श‍ृणोति विज्ञाय चार्थं भजते न कामात् । नासम्पृष्टो व्यौपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ २२॥ नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः ॥ २३॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्य कालो वश्यात्मा स वै पण्डित उच्यते ॥ २४॥ आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ २५॥ न हृष्यत्यात्मसम्माने नावमानेन तप्यते । गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ २६॥ तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ २७॥ प्रवृत्त वाक्चित्रकथ ऊहवान्प्रतिभानवान् । आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥ २८॥ श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असम्भिन्नार्य मर्यादः पण्डिताख्यां लभेत सः ॥ २९॥ अर्थं महान्तमासद्य विद्यामैश्वर्यमेव च । विचरत्यसमुन्नद्धो यस्य पण्डित उच्यते ॥- ॥ अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३०॥ स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ ३१॥ अकामां कामयति यः कामयानां परित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥- ॥ अकामान्कामयति यः कामयानान्परिद्विषन् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३२॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ३३॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ३४॥ श्राद्धं पितृभ्यो न ददाति दैवतानि नार्चति । सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥- ॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते । विश्वसत्यप्रमत्तेषु मूढ चेता नराधमः ॥ ३५॥ परं क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ ३६॥ आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढ बुद्धिरिहोच्यते ॥ ३७॥ अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते । कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३८॥ अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा । विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ ३९॥ एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ४०॥ एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ४१॥ एकं हन्यान्न वाहन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ ४२॥ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ ४३॥ एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं स प्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ४४॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ४५॥ एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ४६॥ एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ४७॥ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् । क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा ॥- ॥ क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते । शान्तिशङ्खः करे यस्य किं करिष्यति दुर्जनः ॥- ॥ अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । अक्षमावान्परं दोषैरात्मान्ं चैव योजयेत् ॥- ॥ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ ४८॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ४९॥ द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते । अब्रुवन्परुषं किं चिदसतो नार्थयंस्तथा ॥ ५०॥ द्वाविमौ पुरुषव्याघ्र परप्रत्यय कारिणौ । स्त्रियः कामित कामिन्यो लोकः पूजित पूजकः ॥ ५१॥ द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ५२॥ द्वावेव न विराजेते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥- ॥ द्वाविमौ पुरुषौ राजन्स्वर्गस्य परि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ ५३॥ न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ ५४॥ द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढं शिलाम् । धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥- ॥ द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥- ॥ त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ । कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ ५५॥ त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ ५६॥ त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५७॥ हरणं च परस्वानां परदाराभिमर्शनम् । सुहृदश्च परित्यागस्त्रयो दोषा क्षयावहः ॥- ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥- ॥ वरप्रदानं राज्यां च पुत्रजन्म च भारत । शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥- ॥ भक्तं च बजमानं च तवास्मीति वादिनम् । त्रीनेतान् शरणं प्राप्तान्विषमेऽपि न सन्त्यजेत् ॥- ॥ चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् । अल्पप्रज्ञैः सह मन्त्रं न कुर्यान् न दीर्घसूत्रैरलसैश्चारणैश्च ॥ ५८॥ चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थ धर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ ५९॥ चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः । पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ ६०॥ देवतानां च सङ्कल्पमनुभावं च धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ ६१॥ चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रं उत मानमौनं मानेनाधीतमुत मानयज्ञः ॥- ॥ पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ ६२॥ पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् । देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ६३॥ पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ ६४॥ पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ ६५॥ षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ६६॥ षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ६७॥ अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम् । ग्रामकारं च गोपालं वनकामं च नापितम् ॥ ६८॥ षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ ६९॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि राजन् ॥- ॥ षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ ७०॥ षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ ७१॥ प्रमदाः कामयानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ ७२॥ षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् । गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः ॥- ॥ षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिता शिष्याः कृतदारश्च मातरम् ॥- ॥ नारिं विगतकामस्तु कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकम् ॥- ॥ आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥- ॥ ईर्षुर्घृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥- ॥ सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ॥ ७३॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ७४॥ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ७५॥ ब्राह्मण स्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ७६॥ नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति । एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ ७७॥ अष्टाविमानि हर्षस्य नव नीतानि भारत । वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ ७८॥ समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ ७९॥ समये च प्रियालापः स्वयूथेषु च सन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ८०॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥- ॥ नवद्वारमिदं वेश्म त्रिस्थूणं पञ्च साक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ८१॥ दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ ८२॥ त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश । तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ ८३॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ ८४॥ यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च । विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ ८५॥ जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ ८६॥ सुदुर्बलं नावजानाति कंचिद्- युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ ८७॥ प्राप्यापदं न व्यथते कदा चिद् उद्योगमन्विच्छति चाप्रमत्तः । दुःखं च काले सहते जितात्मा धुरन्धरस्तस्य जिताः सपत्नाः ॥ ८८॥ अनर्थकं विप्र वासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । दम्भं स्तैन्यं पैशुनं मद्य पानं न सेवते यः स सुखी सदैव ॥ ८९॥ न संरम्भेणारभतेऽर्थवर्गम् आकारितः शंसति तथ्यमेव । न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ ९०॥ न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । नात्याह किं चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥ ९१॥ यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूर्च्छितः कटुकान्याह किं चित् प्रियं सदा तं कुरुते जनोऽपि ॥ ९२॥ न वैरमुद्दीपयति प्रशान्तं न दर्ममारोहति नास्तमेति । न दुर्गतोऽस्मीति करोति मन्युं तमार्य शीलं परमाहुरग्र्यम् ॥ ९३॥ न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः । दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्य शीलः ॥ ९४॥ देशाचारान्समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः । स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति ॥ ९५॥ दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ ९६॥ दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाँल्लोकवादान् । एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ ९७॥ समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च । गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः ॥ ९८॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्मकृत्वा । ददात्यमित्रेष्वपि याचितः सं- स्तमात्मवन्तं प्रजहात्यनर्थाः ॥ ९९॥ चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किं चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ १००॥ यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्ध भावः । अतीव सञ्ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ १०१॥ य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत । अनन्त तेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥ १०२॥ वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्र कल्पाः । त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥ १०३॥ प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः । न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥ १०४॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रंशोऽध्यायः ॥ ३३॥

अध्यायः ३४

धृतराष्ट्र उवाच । जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ १॥ त्वं मां यथावद्विदुर प्रशाधि प्रज्ञा पूर्वं सर्वमजातशत्रोः । यन्मन्यसे पथ्यमदीनसत्त्व श्रेयः करं ब्रूहि तद्वै कुरूणाम् ॥ २॥ पापाशङ्गी पापमेव नौपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् । कवे तन्मे ब्रूहि सर्वं यथावन् मनीषितं सर्वमजातशत्रोः ॥ ३॥ विदुर उवाच । शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् । अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥ ४॥ तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति । वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ ५॥ मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत । अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ ६॥ तथैव योगविहितं न सिध्येत्कर्म यन्नृप । उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ ७॥ अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ ८॥ अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ ९॥ यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये । कोशे जनपदे दण्डे न स राज्यावतिष्ठते ॥ १०॥ यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ ११॥ न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् । श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ १२॥ भक्ष्योत्तम प्रतिच्छन्नं मत्स्यो बडिशमायसम् । रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥ १३॥ यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदद्यं भूतिमिच्छता ॥ १४॥ वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ १५॥ यस्तु पक्वमुपादत्ते काले परिणतं फलम् । फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ १६॥ यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ १७॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ १८॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ १९॥ अनारभ्या भवन्त्यर्थाः के चिन्नित्यं तथागताः । कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ २०॥ कांश्चिदर्थान्नरः प्राज्ञो लभु मूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ २१॥ ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव । आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ २२॥ चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति ॥ २३॥ यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ २४॥ पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ २५॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ॥ २६॥ अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ २७॥ य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने ॥ २८॥ धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ २९॥ अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ ३०॥ सुव्याहृतानि सुधियां सुकृतानि ततस्ततः । सञ्चिन्वन्धीर आसीत शिला हारी शिलं यथा ॥ ३१॥ गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३२॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥ ३३॥ यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि । यच्च स्वयं नतं दारु न तत्सन्नामयन्त्यपि ॥ ३४॥ एतयोपमया धीरः सन्नमेत बलीयसे । इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ३५॥ पर्जन्यनाथाः पशवो राजानो मित्र बान्धवाः । पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेद बान्धवाः ॥ ३६॥ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ ३७॥ मानेन रक्ष्यते धान्यमश्वान्रक्ष्यत्यनुक्रमः । अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ ३८॥ न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ३९॥ य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये । सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ ४०॥ अकार्य करणाद्भीतः कार्याणां च विवर्जनात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ४१॥ विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । एते मदावलिप्तानामेत एव सतां दमाः ॥ ४२॥ असन्तोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन । मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ ४३॥ गतिरात्मवतां सन्तः सन्त एव सतां गतिः । असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ ४४॥ जिता सभा वस्त्रवता समाशा गोमता जिता । अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ ४५॥ शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ ४६॥ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ ४७॥ सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ४८॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ ४९॥ अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ ५०॥ ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ ५१॥ इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ५२॥ यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ॥ ५३॥ अविजित्य य आत्मानममात्यान्विजिगीषते । अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ५४॥ आत्मानमेव प्रथमं देशरूपेण यो जयेत् । ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ५५॥ वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ ५६॥ रथः शरीरं पुरुषस्य राजन् नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशलः सदश्वैर् दान्तैः सुखं याति रथीव धीरः ॥ ५७॥ एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ५८॥ अनर्थमर्थतः पश्यन्नर्तं चैवाप्यनर्थतः । इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ५९॥ धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ ६०॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ ६१॥ आत्मनात्मानमन्विच्छेन्मनो बुद्धीन्द्रियैर्यतैः । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६२॥ क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामश्च राजन्क्रोधश्च तौ प्राज्ञानं विलुम्पतः ॥ ६३॥ समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति । स वै सम्भृत सम्भारः सततं सुखमेधते ॥ ६४॥ यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् । जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ६५॥ दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्म भिः । इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ ६६॥ असन्त्यागात्पापकृतामपापांस् तुल्यो दण्डः स्पृशते मिश्रभावात् । शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ ६७॥ निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान् । यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥ ६८॥ अनसूयार्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ६९॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ७०॥ आक्रोश परिवादाभ्यां विहिंसन्त्यबुधा बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ७१॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् ॥ ७२॥ वाक्संयमो हि नृपते सुदुष्करतमो मतः । अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ ७३॥ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ ७४॥ संरोहति शरैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ७५॥ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः । वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः ॥ ७६॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रत्र्यहानि । परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ७७॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ ७८॥ बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते । अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ ७९॥ सेयं बुद्धिः परीता ते पुत्राणां तव भारत । पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे ॥ ८०॥ राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् । शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ ८१॥ अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः । तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ ८२॥ आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः । गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ८३॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥ ३४॥

अध्यायः ३५

धृतराष्ट्र उवाच । ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः । श‍ृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ १॥ विदुर उवाच । सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २॥ आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो । इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ३॥ यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते । तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ४॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ ५॥ केशिन्युवाच । किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन । अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ६॥ विरोचन उवाच । प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः । अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ७॥ केशिन्युवाच । इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन । सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ ८॥ विरोचन उवाच । तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ ९॥ विदुर उवाच । अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् । एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥ १०॥ विरोचन उवाच । अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् । सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ११॥ सुधन्वोवाच । पितापि ते समासीनमुपासीतैव मामधः । बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ १२॥ विरोचन उवाच । हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः । सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ १३॥ सुधन्वोवाच । हिरण्यं च गवाश्वं च तवैवास्तु विरोचन । प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ १४॥ विरोचन उवाच । आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते । न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ १५॥ सुधन्वोवाच । पितरं ते गमिष्यावः प्राणयोर्विपणे कृते । पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ १६॥ प्रह्लाद उवाच । इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह । आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ १७॥ किं वै सहैव चरतो न पुरा चरतः सह । विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ १८॥ विरोचन उवाच । न मे सुधन्वना सख्यं प्राणयोर्विपणावहे । प्रह्राद तत्त्वामृप्च्छामि मा प्रश्नमनृतं वदीः ॥ १९॥ प्रह्लाद उवाच । उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने । ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ २०॥ सुधन्वोवाच । उदकं मधुपर्कं च पथ एवार्पितं मम । प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ २१॥ प्रह्लाद उवाच । पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः । तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ २२॥ अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् । एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ २३॥ सुधन्वोवाच । यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः । यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ २४॥ नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः । अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ २५॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ २६॥ हन्ति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् । सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ २७॥ प्रह्लाद उवाच । मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन । मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ २८॥ विरोचन सुधन्वायं प्राणानामीश्वरस्तव । सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ २९॥ सुधन्वोवाच । यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः । पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ३०॥ एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः । पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ ३१॥ विदुर उवाच । तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि । मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ३२॥ न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥ ३३॥ यथा यथा हि पुरुषः कल्याणे कुरुते मनः । तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३४॥ न छन्दांसि वृजिनात्तारयन्ति आयाविनं मायया वर्तमानम् । नीडं शकुन्ता इव जातपक्षाश् छन्दांस्येनं प्रजहत्यन्तकाले ॥ ३५॥ मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् । राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्ठः ॥ ३६॥ सामुद्रिकं वणिजं चोरपूर्वं शलाक धूर्तं च चिकित्सकं च । अरिं च मित्रं च कुशीलवं च नैतान्साख्येष्वधिकुर्वीत सप्त ॥ ३७॥ मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः । एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथा कृतानि ॥ ३८॥ अगार दाही गरदः कुण्डाशी सोमविक्रयी । पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ ३९॥ भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः । अतितीक्ष्णश्च काकश्च नास्तिको वेद निन्दकः ॥ ४०॥ स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि । रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ ४१॥ तृणोक्लया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश् च ॥ ४२॥ जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्य सेवा ह्रियं कामः सर्वमेवाभिमानः ॥ ४३॥ श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ४४॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहु भाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ४५॥ एतान्गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य । राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ॥ ४६॥ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि । चत्वार्येषामन्ववेतानि सद्भिश् चत्वार्येषामन्ववयन्ति सन्तः ॥ ४७॥ यज्ञो दानमध्ययनं तपश् च चत्वार्येतान्यन्ववेतानि सद्भिः । दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ४८॥ न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् । नासौ हर्मो यतन सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ४९॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ ५०॥ पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५१॥ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ ५२॥ पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ ५३॥ असूयको दन्द शूको निष्ठुरो वैरकृन्नरः । स कृच्छ्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ ५४॥ अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा । अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५५॥ प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५६॥ दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् । अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५७॥ पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् । यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५८॥ जीर्णमन्नं प्रशंसन्ति भार्यं च गतयौवनाम् । शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥ ५९॥ धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ६०॥ गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ ६१॥ ऋषीणां च नदीनां च कुलानां च महामनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ६२॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ६३॥ सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६४॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥ ६५॥ दुर्योधने च शकुनौ मूढे दुःशासने तथा । कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ ६६॥ सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ । पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ६७॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये पञ्चत्रिंशोऽध्यायः ॥ ३५॥

अध्यायः ३६

विदुर उवाच । अत्रैवोदाहरन्तीममितिहासं पुरातनम् । आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ १॥ चरन्तं हंसरूपेण महर्षिं संशितव्रतम् । साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ २॥ साध्या ऊचुः । साध्या देवा वय्मस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् । श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ३॥ हंस उवाच । एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः । ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ ४॥ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ५॥ नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥ ६॥ मर्माण्यस्थीनि हृदयं तथासून् घोरा वाचो निर्दहन्तीह पुंसाम् । तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥ ७॥ अरुं तुरं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥ ८॥ परश्चेदेनमधिविध्येत बाणैर् भृशं सुतीक्ष्णैरनलार्क दीप्तैः । विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥ ९॥ यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव । वासो यथा रङ्ग वशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ १०॥ वादं तु यो न प्रवदेन्न वादयेद् यो नाहतः प्रतिहन्यान्न घातयेत् । यो हन्तुकामस्य न पापमिच्छेत् तस्मै देवाः स्पृहयन्त्यागताय ॥ ११॥ अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । प्रियंवदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२॥ यादृशैः संविवदते यादृशांश् चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १३॥ यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ १४॥ न जीयते नोत जिगीषतेऽन्यान् न वैरक्कृच्चाप्रतिघातकश् च । निन्दा प्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥ १५॥ भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् । सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ १६॥ नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च । राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ १७॥ दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः । न कस्य चिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥ १८॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः । निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ १९॥ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥ २०॥ प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण । न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥ २१॥ धृतराष्ट्र उवाच । महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश् च । पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥ २२॥ विदुर उवाच । तमो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्न दानम् । येष्वेवैते सप्तगुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥ २३॥ येषां न वृत्तं व्यथते न योनिर् वृत्तप्रसादेन चरन्ति धर्मम् । ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥ २४॥ अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च । कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ २५॥ देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २६॥ ब्राह्मणानां परिभवात्परिवादाच्च भारत । कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ २७॥ कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः । कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ २८॥ वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च मयद्यशः ॥ २९॥ मा नः कुले वैरकृत्कश् चिदस्तु राजामात्यो मा परस्वापहारी । मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥ ३०॥ यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् । न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ ३१॥ तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यन्ते कदा चन ॥ ३२॥ श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् । प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥ ३३॥ सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः । एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥ ३४॥ न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् । यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि ॥ ३५॥ यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते । स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ३६॥ चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः । पारिप्लवमतेर्नित्यमध्रुवो मित्र सङ्ग्रहः ॥ ३७॥ चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ ३८॥ अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ३९॥ सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ४०॥ अर्थयेदेव मित्राणि सति वासति वा धने । नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ ४१॥ सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् । सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥ ४२॥ अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ४३॥ पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः । पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः ॥ ४४॥ सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ ४५॥ चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य छिद्रोद कुम्भादिव नित्यमम्भः ॥ ४६॥ धृतराष्ट्र उवाच । तनुरुच्छः शिखी राजा मिथ्योपचरितो मया । मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ४७॥ नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः । यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ४८॥ विदुर उवाच । नान्यत्र विद्या तपसोर्नान्यत्रेन्द्रिय निग्रहात् । नान्यत्र लोभसन्त्यागाच्छान्तिं पश्याम तेऽनघ ॥ ४९॥ बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् । गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ॥ ५०॥ अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः । रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५१॥ स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः । तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५२॥ स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते । न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥ ५३॥ न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५४॥ न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् । भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किं चिदन्यद्विनाशात् ॥ ५५॥ सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भयम् ॥ ५६॥ तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः । बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ५७॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ ५८॥ ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च । वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५९॥ महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य एव वातेन शाखा स्कन्धं विमर्दितुम् ॥ ६०॥ अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः । ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ ६१॥ एवं मनुष्यमप्येकं गुणैरपि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवौकजम् ॥ ६२॥ अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च । ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥ ६३॥ अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ६४॥ न मनुष्ये गुणः कश्चिदन्यो धनवताम् अपि । अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ६५॥ अव्याधिजं कटुकं शीर्ष रोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् । सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ ६६॥ रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् । दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् ॥ ६७॥ पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् । दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति ॥ ६८॥ न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः । प्रध्वंसिनी क्रूरसमाहिता श्रीर् मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ ६९॥ धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु । एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः ॥ ७०॥ मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरु कुलमाजमीढ । पार्थान्बालान्वनवास प्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन् ॥ ७१॥ सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रैर् मा तेऽन्तरं रिपवः प्रार्थयन्तु । सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ७२॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ ३६॥

अध्यायः ३७

विदुर उवाच । सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् । वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ १॥ तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् । अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ २॥ यश्चाशिष्यं शासति यश् च कुप्यते यश्चातिवेलं भजते द्विषन्तम् । स्त्रियश्च योऽरक्षति भद्रमस्तु ते यश्चायाच्यं याचति यश् च कत्थते ॥ ३॥ यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी । अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र ॥ ४॥ वध्वा हासं श्वशुरो यश् च मन्यते वध्वा वसन्नुत यो मानकामः । परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५॥ यश्चैव लब्ध्वा न स्मरामीत्युवाच दत्त्वा च यः कत्थति याच्यमानः । यश्चासतः सान्त्वमुपासतीह एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ ६॥ यस्मिन्यथा वर्तते यो मनुष्यस् तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥ ७॥ धृतराष्ट्र उवाच । शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा । नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ८॥ विदुर उवाच । अतिवादोऽतिमानश्च तथात्यागो नराधिपः । क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ ९॥ एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ १०॥ विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः । वृषली पतिर्द्विजो यश्च पानपश्चैव भारत ॥ ११॥ शरणागतहा चैव सर्वे ब्रह्महणैः समाः । एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ १२॥ गृही वदान्योऽनपविद्ध वाक्यः शेषान्न भोकाप्यविहिंसकश् च । नानर्थकृत्त्यक्तकलिः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ १३॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १४॥ यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १५॥ त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १६॥ आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १७॥ उक्तं मया द्यूतकालेऽपि राजन् नैवं युक्तं वचनं प्रातिपीय । तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्र वीर्य ॥ १८॥ काकैरिमांश्चित्रबर्हान्मयूरान् पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः । हित्वा सिंहान्क्रोष्टु कान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ १९॥ यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य । तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ २०॥ न भृत्यानां वृत्ति संरोधनेन बाह्यं जनं सञ्जिघृक्षेदपूर्वम् । त्यजन्ति ह्येनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ २१॥ कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्य् आयव्ययावनुरूपां च वृत्तिम् । सङ्गृह्णीयादनुरूपान्सहायान् सहायसाध्यानि हि दुष्कराणि ॥ २२॥ अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः । वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ २३॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २४॥ अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः । अरोग जातीयमुदारवाक्यं दूतं वदन्त्यष्ट गुणोपपन्नम् ॥ २५॥ न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले । न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत ॥ २६॥ न निह्नवं सत्र गतस्य गच्छेत् संसृष्ट मन्त्रस्य कुसङ्गतस्य । न च ब्रूयान्नाश्वसामि त्वयीति स कारणं व्यपदेशं तु कुर्यात् ॥ २७॥ घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बाल पुत्रा । सेना जीवी चोद्धृत भक्त एव व्यवहारे वै वर्जनीयाः स्युरेते ॥ २८॥ गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः । स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ २९॥ गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च सुखं बलं च । अनाविलं चास्य भवेदपत्यं न चैनमाद्यून इति क्षिपन्ति ॥ ३०॥ अकर्म शीलं च महाशनं च लोकद्विष्टं बहु मायं नृशंसम् । अदेशकालज्ञमनिष्ट वेषम् एतान्गृहे न प्रतिवासयीत ॥ ३१॥ कदर्यमाक्रोशकमश्रुतं च वराक सम्भूतममान्य मानिनम् । निष्ठूरिणं कृतवैरं कृतघ्नम् एतान्भृतार्तोऽपि न जातु याचेत् ॥ ३२॥ सङ्क्लिष्टकर्माणमतिप्रवादं नित्यानृतं चादृढ भक्तिकं च । विकृष्टरागं बहुमानिनं चाप्य् एतान्न सेवेत नराधमान्षट् ॥ ३३॥ सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः । अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ ३४॥ उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कां चित् । स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ ३५॥ हितं यत्सर्वभूतानामात्मनश्च सुखावहम् । तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ ३६॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥ ३७॥ पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेरन्नपि देवाः स शक्राः । पुत्रैर्वैरं नित्यमुद्विग्नवासो यशः प्रणाशो द्विषतां च हर्षः ॥ ३८॥ भीष्मस्य कोपस्तव चेन्द्र कल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य । उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ ३९॥ तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः । पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ ४०॥ धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः । मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ ४१॥ न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् । वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ४२॥ न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ ४३॥ अर्थसिद्धिं परामिच्छन्धर्ममेवादितश् चरेत् । न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ ४४॥ यस्यात्मा विरतः पापात्कल्याणे च निवेशितः । तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या ॥ ४५॥ यो धर्ममर्थं कामं च यथाकालं निषेवते । धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति ॥ ४६॥ सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः । स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ४७॥ बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे । यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ ४८॥ अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते । धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ ४९॥ यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् । अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् ॥ ५०॥ येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत । यद्बलानां बलं श्रेष्ठं तत्प्रज्ञा बलमुच्यते ॥ ५१॥ महते योऽपकाराय नरस्य प्रभवेन्नरः । तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५२॥ स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु । भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ ५३॥ प्रज्ञा शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५४॥ सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत । नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ ५५॥ अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ५६॥ स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते । तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५७॥ एवमेव कुले जाताः पावकोपम तेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५८॥ लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः । न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५९॥ वनं राजंस्त्वं सपुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि । सिंहैर्विहीनं हि वनं विनश्येत् सिंहा विनश्येयुरृते वनेन ॥ ६०॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥ ३७॥

अध्यायः ३८

विदुर उवाच । ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ १॥ पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ । सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं ततो दद्यादन्नमवेक्ष्य धीरः ॥ २॥ यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥ ३॥ चिकित्सकः शक्य कर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च । सेनाजीवी श्रुतिविक्रायकश् च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ ४॥ अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च । तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश् च ॥ ५॥ अरोषणो यः समलोष्ट काञ्चनः प्रहीण शोको गतसन्धि विग्रहः । निन्दा प्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः ॥ ६॥ नीवार मूलेङ्गुद शाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः । वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः ॥ ७॥ अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ८॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ९॥ अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः । श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १०॥ पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः । स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ११॥ पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् । गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् । भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ १२॥ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १३॥ नित्यं सन्तः कुले जाताः पावकोपम तेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ १४॥ यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश् च ये । स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ १५॥ करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् । धर्मकामार्थ कार्याणि तथा मन्त्रो न भिद्यते ॥ १६॥ गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ १७॥ नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् । अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् । अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ १८॥ कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः । गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ १९॥ अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति । स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ २०॥ कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् । तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ २१॥ स्थानवृद्ध क्षयज्ञस्य षाड्गुण्य विदितात्मनः । अनवज्ञात शीलस्य स्वाधीना पृथिवी नृप ॥ २२॥ अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः । आत्मप्रत्यय कोशस्य वसुधेयं वसुन्धरा ॥ २३॥ नाममात्रेण तुष्येत छत्रेण च महीपतिः । भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ २४॥ ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा । अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ २५॥ न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः । अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ २६॥ दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च । नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ २७॥ निरर्थं कलहं प्राज्ञो वर्जयेन्मूढ सेवितम् । कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ २८॥ प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ २९॥ न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये । लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः ॥ ३०॥ विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ३१॥ अनार्य वृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ३२॥ अविसंवादनं दानं समयस्याव्यतिक्रमः । आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३३॥ अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । अपि सङ्क्षीण कोशोऽपि लभते परिवारणम् ॥ ३४॥ धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ ३५॥ असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६॥ न स रात्रौ सुखं शेते स सर्प इव वेश्मनि । यः कोपयति निर्दोषं स दोषोऽभ्यन्तरं जनम् ॥ ३७॥ येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत । सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ३८॥ येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च । ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ ३९॥ यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च । मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ ४०॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ४१॥ यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ४२॥ हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः । आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ४३॥ तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव । ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव ॥ ४४॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ ३८॥

अध्यायः ३९

धृतराष्ट्र उवाच । अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा । धात्रा हि दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे घृतोऽहम् ॥ १॥ विदुर उवाच । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २॥ प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ ३॥ द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः । प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ ४॥ न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् । क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ ५॥ समृद्धा गुणतः के चिद्भवन्ति धनतोऽपरे । धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ॥ ६॥ धृतराष्ट्र उवाच । सर्वं त्वमायती युक्तं भाषसे प्राज्ञसम्मतम् । न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ ७॥ विदुर उवाच । स्वभावगुणसम्पन्नो न जातु विनयान्वितः । सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ ८॥ परापवाद निरताः परदुःखोदयेषु च । परस्परविरोधे च यतन्ते सततोथिताः ॥ ९॥ स दोषं दर्शनं येषां संवासे सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ १०॥ ये पापा इति विख्याताः संवासे परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ ११॥ निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति । या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ १२॥ यतते चापवादाय यत्नमारभते क्षये । अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ॥ १३॥ तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः । निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ १४॥ यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् । सपुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ॥ १५॥ ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् । कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥ १६॥ श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् । विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ॥ १७॥ किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः । प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥ १८॥ दीयन्तां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर । एवं लोके यशःप्राप्तो भविष्यत्सि नराधिप ॥ १९॥ वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् । मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ २०॥ ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना । सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ २१॥ सम्भोजनं सङ्कथनं सम्प्रीतिश् च परस्परम् । ज्ञातिभिः सह कार्याणि न विरोधः कथं चन ॥ २२॥ ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च । सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ २३॥ सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद । अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ २४॥ श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति । दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ २५॥ पश्चादपि नरश्रेष्ठ तव तापो भविष्यति । तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ २६॥ येन खट्वां समारूढः परितप्येत कर्मणा । आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ २७॥ न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् । शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ २८॥ दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् । त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ २९॥ तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः । भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ ३०॥ सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः । अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ ३१॥ अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ३२॥ परिच्छदेन क्षत्रेण वेश्मना परिचर्यया । परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ ३३॥ ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा । समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ॥ ३४॥ दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ३५॥ अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च । तथैवापेत धर्मेषु न मैत्रीमाचरेद्बुधः ॥ ३६॥ कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् । जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥ ३७॥ इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते । अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ ३८॥ मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ ३९॥ अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते । मतिमास्थाय सुदृढां तदकापुरुष व्रतम् ॥ ४०॥ आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ ४१॥ कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ ४२॥ मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् । भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्ण दर्शनम् ॥ ४३॥ अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च । महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ ४४॥ नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा । प्रभ विष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ ४५॥ क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् । अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ ४६॥ यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते । कामं तदुपसेवेत न मूढ व्रतमाचरेत् ॥ ४७॥ दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च । न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः ॥ ४८॥ आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् । अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ ४९॥ अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ५०॥ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्र फला दारा दत्तभुक्त फलं धनम् ॥ ५१॥ अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्व देहिकम् । न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ ५२॥ कानार वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे । उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ ५३॥ उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ ५४॥ तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् । हिंसा बलमसाधूनां क्षमागुणवतां बलम् ॥ ५५॥ अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम् ॥ ५६॥ न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥ ५७॥ अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ ५८॥ स्त्री धूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि । चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ ५९॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ॥ ६०॥ अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ६१॥ अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् । निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ६२॥ अध्वा जरा देहवतां पर्वतानां जलं जरा । असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥ ६३॥ अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् । कौतूहलमला साध्वी विप्रवास मलाः स्त्रियः ॥ ६४॥ सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥ ६५॥ न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ ६६॥ यस्य दानजितं मित्रममित्रा युधि निर्जिताः । अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ ६७॥ सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । धृतराष्ट्रं विमुञ्चेच्छां न कथं चिन्न जीव्यते ॥ ६८॥ यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ६९॥ राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर । समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥ ७०॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९॥

अध्यायः ४०

विदुर उवाच । योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा । क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः ॥ १॥ महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनुपाक्रुष्ट एव । सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ २॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीक निर्बन्धः समानि ब्रह्महत्यया ॥ ३॥ असूयैक पदं मृत्युरतिवादः श्रियो वधः । अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ४॥ सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ ५॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ६॥ आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता । अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ७॥ अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश् च । वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते सन्तु गृहे सदैव ॥ ८॥ अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥ ९॥ गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् । देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ १०॥ इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् । न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ११॥ नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः । त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य त्वं तोष परो हि लाभः ॥ १२॥ महाबलान्पश्य मनानुभावान् प्रशास्य भूमिं धनधान्य पूर्णाम् । राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेन्द्रान्वशमन्तकस्य ॥ १३॥ मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति । तं मुक्तकेशाः करुणं रुदन्तश् चितामध्ये काष्ठमिव क्षिपन्ति ॥ १४॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ १५॥ उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः । अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ १६॥ अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् । तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ १७॥ इदं वचः शक्ष्यसि चेद्यथावन् निशम्य सर्वं प्रतिपत्तुमेवम् । यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति ॥ १८॥ आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः । तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ १९॥ कामक्रोधग्राहवतीं पञ्चेन्द्रिय जलां नदीम् । कृत्वा धृतिमयीं नावं जन्म दुर्गाणि सन्तर ॥ २०॥ प्रज्ञा वृद्धं धर्मवृद्धं स्वबन्धुं विद्या वृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदा चित् ॥ २१॥ धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ २२॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्न वर्जी । ऋतं ब्रुवन्गुरवे कर्म कुर्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ २३॥ अधीत्य वेदान्परिसंस्तीर्य चाग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च । गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ २४॥ वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च धनैः काले संविभज्याश्रितांश् च । त्रेता पूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देव सुखानि भुङ्क्ते ॥ २५॥ ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः । तुष्टेष्वेतेष्वव्यथो दग्धपापस् त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ २६॥ चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध । क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस् तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ २७॥ धृतराष्ट्र उवाच । एवमेतद्यथा मां त्वमनुशासति नित्यदा । ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ २८॥ सा तु बुद्दिः कृताप्येवं पाण्डवान्रप्ति मे सदा । दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ २९॥ न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् । दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ ३०॥ ॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ ४०॥ इति विदुर नीति समाप्ता ॥
% Text title            : vidura niiti
% File name             : viduraniti.itx
% itxtitle              : viduranItI
% engtitle              : vidura nItI
% Category              : major_works, vyAsa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Maharshi Vyasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Adhyaya 33 prajaagaraparva (udyogaparva) of Mahaabhaarata
% Indexextra            : (meaning from mahAbhArata)
% Latest update         : December 18, 1999
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org