॥ विज्ञानशतकं भर्तृहरिकृत ॥

विगलदमलदानश्रेणिसौरभ्यलोभो- पगतमधुपमालाव्याकुलाकाशदेशः । अवतु जगदशेषं शश्वदुग्रात्मदर्य्यो ? विपुलपरिघदन्तोद्दण्डशुण्डो गणेशः ॥ १॥ यत्सत्तया शुचि विभाति यदात्मभासा प्रद्योतितं जगदशेषमपास्तदोषम् । तद्ब्रह्म निष्कलमसङ्गमपारसौख्यं प्रत्यग्भजे परममङ्गलमद्वितीयम् ॥ २॥ माता मृता जनयितापि जगाम शीघ्रं लोकान्तरं तव कलत्रसुतादयोऽपि । भ्रातस्तथापि न जहासि मृषाभिमानं दुःखात्मके वपुषि मूत्रकुदर्पकूपे ॥ ३॥ ब्रह्मामृतं भज सदा सहजप्रकाशं सर्वान्तरं निरवधि प्रथितप्रभावम् । यद्यस्ति ते जिगमिषा सहसा भवाब्धेः पारे परे परमशर्मणि निष्कलङ्के ॥ ४॥ आरभ्य गर्भवसतिं मरणावसानं यद्यस्ति जीवितुमदृष्टमनेककालम् । जन्तोस्तथापि न सुखं सुखविभ्रमोऽयं यद्बालया रतिरनेकविभूतिभाजः ॥ ५॥ सा रोगिणी यदि भवेदथवा विवर्णा बालाप्रियाशशिमुखी रसिकस्य पुंसः । शल्यायते हृदि तथा मरणं कृशाङ्ग्या- यत्तस्य सा विगतनिद्रसरोरुहाक्षी ॥ ६॥ त्वत्साक्षिकं सकलमेतदवोचमित्थं भ्रातर्विचार्य भवता करणीयमिष्टम् । येनेदृशं न भविता भवतोऽपि कष्टं शोकाकुलस्य भवसागरमग्नमूर्तेः ॥ ७॥ निष्कण्टकेऽपि न सुखं वसुधाधिपत्ये कस्यापि राजतिलकस्य यदेष देवः । विश्वेश्वरो भुजगराजविभूतिभूषो हित्वा तपस्यति चिरं सकला विभूतीः ॥ ८॥ भूमण्डलं लयमुपैति भवत्यबाधं लब्धात्मकं पुनरपि प्रलयं प्रयाति । आवर्तते सकलमेतदनन्तवारं ब्रह्मादिभिः सममहो न सुखं जनानाम् ॥ ९॥ यदा देवादीनापि भवति जन्मादि नियतं महाहर्म्यस्थाने ललितललनालोलमनसाम् । तदा कामार्तानां सुगतिरिह संसारजलधौ निमग्नानामुच्चै रतिविषयशोकादिमकरे ॥१०॥ स्वयं भोक्ता दाता वसु सुबहु सम्पाद्य भविता कुटुम्बानां पोष्टा गुणनिधिरशेषेप्सितनरः । इति प्रत्याशस्य प्रबलदुरितानीतविधुरं शिरस्यस्याकस्मात्पतति निधनं येन भवति ॥ ११॥ विपश्चिद्देहादौ क्वचिदपि ममत्वं न कुरुते परब्रह्मध्याता गगननगराकारसदृशे । निरस्ताहङ्कारः श्रुतिजनितविश्वासमुषितो निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२॥ अरे चेतश्चित्रं भ्रमसि यदपास्य प्रियतमं मुकुन्दं पार्श्वस्थं पितरमपि मान्यं सुमनसाम् । बहिः शब्दाद्यर्थे प्रकृतिचपले क्लेशबहुले न ते संसारेऽस्मिन्भवति सुखदाद्यापि विरतिः ॥ १३॥ न जानीषे मूर्ख क्वचिदपि हितं लोकमहितं भ्रमद्भोगाकाङ्क्षाकलुषिततया मोहबहुले । जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४॥ वियद्भूतं भूतं यदवनलभं ? चाखिलमिदं महामायासङ्गाद्भुजग इव रज्वां भ्रमकरम् । तदत्यन्ताल्हादं विजरममरं चिन्तय मनः परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५॥ न चेत्ते सामर्थ्यं भवनमरणातङ्कहरणे मनोऽनिर्दिष्टेऽस्मिन्नवगतगुणे ज्ञातुमकले । तदा मेघश्यामं कमलदलदीर्घाक्षममलं भजस्व श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६॥ क्वयातः क्वायातो द्विज कलयसे रत्नमटवी- मटन्व्याघ्राघ्रातो मरणमगमद्विश्वमहितः । अयं विद्यारामो मुनिरहह केनापि विदुषा न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७॥ अहं श्रान्तोऽध्वानं बहुविषमतिक्रम्य विषमं धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः । इदानीं केनापि स्थितिमुदरकूपस्य भरणे कदन्नेनारण्ये क्वचिदपि समीहे स्थिरमतिः ॥ १८॥ यमाराध्याराध्यं त्रिभुवनगुरोराप्तवसतिः ध्रुवो ज्योतिश्चक्रे सुचिरमनवद्यं शिशुरपि । अवाप प्रल्हादः परमपदमाराध्य यमितः स कस्यालं क्लेशो हरति न हरिः कीर्तितगुअणः ॥ १९॥ कदाचित्कष्टेन द्रविणमधमाराधनवशा- न्मया लब्धं स्तोकं निहितमवनौ तस्करभयात् । ततो नित्ये कश्चित्क्वचिदपि तदाखुर्बिलगृहेऽ- नयल्लब्धोऽप्यर्थो न भवति यदा कर्म विषमम् ॥ २०॥ जगाम व्यर्थं मे बहुदिनमथार्थार्थिततया कुभूमीपालानां निकटगतिदोषाकुलमतेः । हरिध्यानव्यग्रं भवितुमधुना वाञ्छति मनः क्वचिद्गङ्गातीरे तरुणतुलसीसौरभभरे ॥ २१॥ कदा भागीरथ्या भवजलधिसन्तारतरणेः स्खलद्वीचीमालाचपलतलविस्तारितमुदः । तमस्स्थाने कुञ्जे क्वचिदपि निविश्याहृतमना भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ २२॥ कदा गोविन्देति प्रतिदिवसमुल्लासमिलिताः सुधाधाराप्रायास्त्रिदशतटिनीवीचिमुखरे । भविष्यन्त्येकान्ते क्वचिदपि निकुञ्जे मम गिरो मरालीचक्राणां स्थितिसुखरवाक्रान्तपुलिने ॥ २३॥ यदध्यस्तं सर्वं स्रजि भुजगवद्भाति पुरतो महामायोद्गीर्णं गगनपवनाद्यं तनुभृताम् । भवेत्तस्या भ्रान्तेर्मुररिपुरधिष्ठानमुदये यतो नस्याद्भ्रान्तिर्निरधिकरणा क्वापि जगति ॥ २४॥ चिदेव ध्यातव्या सततमनवद्या सुखतनु- र्निराधारा नित्या निरवधिरविद्यादिरहिता । अनास्थामास्थाय भ्रमवपुषि सर्वत्र विषये सदा शेषव्याख्यानिपुणमतिभिः ख्यातयतिभिः ॥ २५॥ अहोऽत्यर्थेऽप्यर्थे श्रुतिशतगुरुभ्यामवगते निषिद्धत्वेनापि प्रतिदिवसमाधावति मनः । पिशाचस्तत्रैव स्थिररतिरसारेऽपि चपलं न जाने केनास्य प्रतिकृतिरनार्यस्य भविता ॥ २६॥ नित्यानित्यपदार्थतत्त्वविषये नित्यं विचारः सतां संसर्गे मितभाषिता हितमिताहारोऽनहङ्कारिता । कारुण्यं कृपणे जने सुखिजने प्रीतिः सदा यस्य स प्रायेणैव तपः करोति सुकृती चेतोमुकुन्दप्रियः ॥ २७॥ सा गोष्ठी सुहृदां निवारितसुधास्वादाधुना क्वागम- त्तेधीरा धरणीधरोपकरणीभूता ययुः क्वापरे । ते भूपा भवभीरवो भवरताः क्वागुर्निरस्तारयो हा कष्टं क्व च गम्यते नहि सुखं क्वाप्यस्ति लोकत्रये ॥ २८॥ भानुर्भूवलयप्रदक्षिणगतिः क्रीडारतिः सर्वदा चन्द्रोप्येषकलानिधिः कवलितः स्वर्भानुना दुःखितः । ऱ्हासं गच्छति वर्धते च सततं गीर्वाणविश्रामभू- स्तत्स्थानं खलु यत्र नास्त्यपहतिः क्लेशस्य संसारिणाम् ॥ २९॥ संसारेऽपि परोपकारकरणख्यातव्रता मानवा ये सम्पत्तिगृहा विचारचतुरा विश्वेश्वराराधकाः । तेऽप्येनं भवसागरं जनिमृतिग्राहाकुलं दुस्तरं गम्भीरं सुतरां तरन्ति विविधव्याध्याधिवीचीमयम् ॥ ३०॥ रे रे चित्त मदान्ध मोहबधिरा मिथ्याभिमानोद्धता व्यर्थेयं भवतां धनावनरतिः संसारकारागृहे । बद्धानां निगडेन गात्रममतासंज्ञेन यत्कर्हिचि- द्देवब्राह्मणभिक्षुकादिषु धनं स्वप्नेऽपि न व्येति वः ॥ ३१॥ यावत्ते यमकिङ्कराः करतलक्रूरासिपाशादयो वुर्दान्ताः सृणिराजदीर्घसुनखा दंष्ट्राकरालाननाः । नाकर्षन्ति नरान्धनादिरहितान्यत्तावदिष्टेच्छया युष्माभिः क्रियतां धनस्य कृपणास्त्यागः सुपर्वादिषु ॥ ३२॥ देहाद्यात्ममतानुसारि भवतां यद्यस्ति मुग्धं मतं वेदव्यासविनिन्दितं कथमहो पित्राद्यपत्ये तदा । दाहादिः क्रियते विशुद्धफलको युष्माभिरुद्वेजितैः शोकेनार्थपरायणैरपसदैर्दृष्टार्थमात्रार्थिभिः ॥ ३३॥ अद्यश्वो वा मरणमशिवप्राणिनां कालपाशै- राकृष्टानां जगति भवतो नान्यथात्वं कदाचित् । यद्यप्येवं न खलु कुरुते हा तथाप्यर्थलोभं हित्वा प्राणी हितमवहितो देवलोकानुकूलम् ॥ ३४॥ दृष्टप्रायं विकलमखिलं कालसर्पेण विश्वं क्रूरेणेदं शिव शिव मुने ब्रूहि रक्षाप्रकारम् । अस्यास्तेकः शृणु मुररिपोर्ध्यानपीयूषपानं त्यक्त्वा नान्यत्किमपि भुवने दृश्यते शास्त्रदृष्ट्या ॥ ३५॥ ध्यानव्यग्रं भवतु तव हृत्तिष्ठतो यत्र तत्र श्रीमद्विष्णोस्त्रिभुवनपतेर्नित्यमानन्दमूर्तेः । लक्ष्मीचेतःकुमुदविपुलानन्दपीयूषधाम्नो मेघच्छायाप्रतिभटतनोः क्लेशसिन्धुं तितीर्षोः ॥ ३६॥ कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे मायासिंहीविहरणमहीलोभभल्लूकभीमे । जन्मारण्ये न भवति रतिः सज्जनानां कदाचि- त्तत्त्वज्ञानां विषयतुषिताकण्टकाकीर्णपार्श्वे ॥ ३७॥ यामासाद्य त्रिलोकीजनमहितशिवावल्लभारामभूमिं ब्रह्मादीनां सुराणां सुखवसतिभुवो मण्डलं मण्डयन्तीम् । नो गर्भे व्यालुठन्ति क्वचिदपि मनुजा मातुरुत्क्रान्तिभाज- स्तां काशीं नो भजन्ते किमिति सुमतयो दुःखभारं वहन्ते ॥ ३८॥ किं कुर्मः किं भजामः किमिह समुद्रितं साधनं किं वयस्याः संसारोन्मूलनाय प्रतिदिवसमिहानर्थशङ्कावतारः । भ्रातर्ज्ञातं निदानं भवभयदलने सङ्गतं सज्ज्नां तां काशीमाश्रयामो निरुपमयशसः स्वःस्रवन्त्या वयस्याम् ॥ ३९॥ भुक्तिः क्वापि न मुक्तिरस्त्यभिमता क्वाण्यस्ति मुक्तिर्न सा काश्यामस्ति विशेष एव सुतरां श्लाघ्यं यदेतद्रूपम् । सर्वैरुत्तममध्यमाधमजनैरासाद्यतेऽनुग्रहा- द्देवस्य त्रिपुरद्विषः सुरधुनीस्नानावदातव्ययैः ॥ ४०॥ विद्यन्ते द्वारकाद्या जगति कति न ता देवताराजधान्यो यद्यप्यन्यास्तथापि स्खलदमलजलावर्तगङ्गातरङ्गा । काश्येवारामकूजत्पिकशुकचटकाक्रान्तदिक्कामिनीनां क्रीडाकासारशाला जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४१॥ काशीयं समलङ्कृता निरुपमस्वर्गापगाव्योमगा- स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः । चञ्चच्चञ्चलचञ्चरीकनिकरारागाम्बरा राजते कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ४२॥ वन्हिप्राकारबुद्धिं जनयति वलभीवासिनां नागराणां गन्धारण्यप्रसूतस्फुटकुसुमचयः किंशुकानां शुकानाम् । चञ्च्वाकारो वसन्ते परमपदपदं राजधानी पुरारेः सा काश्यारामरम्या जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४३॥ भजत विबुधसिन्धुं साधवो लोकबन्धुं हरहसिततरङ्गं शङ्कराशीर्षसङ्गम् । दलितभवभुजङ्गं ख्यातमायाविभङ्गं निखिलभुवनवन्द्यं सर्वतीर्थानवद्यम् ॥ ४४॥ यदमृतममृतानां भङ्गरङ्गप्रसङ्ग- प्रकटितरसवत्तावैभवं पीतमुच्चैः । दलयति कलिदन्तांस्तां सुपर्वस्रवन्तीं किमिति न भजतार्ता ब्रह्मलोकावतीर्णाम् ॥ ४५॥ स्वाधीने निकटस्थितेऽपि विमलज्ञानामृते मानसे विख्याते मुनिसेवितेऽपि कुधियो न स्नान्ति तीर्थे द्विजाः । यत्तत्कष्टमहो विवेकरहितास्तीर्थार्थिनो दुःखिता यत्र क्वाप्यटवीमटन्ति जलधौ मज्जन्ति दुःखाकरे ॥ ४६॥ नाभ्यस्तो धातुवादो न च युवतीवशीकारकः कोप्युपायो नो वा पौराणिकत्वं न च सरसकविता नापि नीतिर्न गीतिः । तस्मादर्थार्थिनां या न भवति भवतश्चातुरी क्वापि विद्वन् ज्ञात्वेत्थं चक्रपाणेरनुसर चरणाम्भोजयुग्मं विभूत्यै ॥ ४७॥ अर्थेभ्योऽनर्थजातं भवति तनुभृतां यौवनादिष्ववश्यं पित्राद्यैरर्जितेभ्योऽनुपकृतिमतिभिः स्वात्मनैवार्जितेभ्यः । यस्माद्दुःखाकरेभ्यस्तमनुसर सदा भद्र लक्ष्मीविलासं गोपालं गोपकान्ताकुचकलशतटीकुङ्कुमासङ्गरङ्गम् ॥ ४८॥ भ्रातः शान्तं प्रशान्तं क्वचिदपि निपतन्मित्र रे भूधराग्रे ग्रीष्मे ध्यानाय विष्णोः स्पृहयसि सुतरां निर्विशङ्के गुहायाम् । अन्वेष्यान्तादृगत्र क्षितिवलयतले स्थानमुन्मूल याव- त्संसारानर्थवृक्षं प्रथिततममहामोहमूलं विशालम् ॥ ४९॥ केदारस्थानमेकं रुचिरतरमुमानाट्यलीलावनीकं प्रालेयाद्रिप्रदेशे प्रथितमतितरामस्ति गङ्गानिवेशे । ख्यातं नारायणस्य त्रिजगति बदरीनाम सिद्धाश्रमस्य तत्रैवानादिमूर्तेर्मुनिजनमनसामन्यदानन्दमूर्तेः ॥ ५०॥ सन्तन्ये त्रिदशापगादिपतनादेव प्रयागादयः प्रालेयाचलसम्भवा बहुफलाः सिद्धाश्रमाः सिद्धयः । यत्राघौघसहा भवन्ति सुधियां ध्यानेश्वरणां चिरं मुक्ताशेषभियां विनिद्रमनसां कन्दाम्बुपर्णाशिनाम् ॥ ५१॥ किं स्थानस्य निरीक्षणेन मुरजिद्ध्यानाय भूमण्डले भ्रातश्चेद्विरतिर्भवेद्दृढतरा यस्य स्रगादौ सदा । तस्यैषा यदि नास्ति हन्त सुतरां व्यर्थं तदान्वेषणं स्थानस्यानधिकारिणः सुरधुनीतीराद्रिकुञ्जादिषु ॥ ५२॥ स्वान्तव्योम्नि निरस्तकल्मषघने सद्बुद्धितारावली- सन्दीप्ते समुदेति चेन्निरुपमानन्दप्रभामण्डलः । ब्रह्मज्ञानसुधाकरः कवलिताविद्यान्धकारस्तदा क्व व्योम क्व सदागतिः क्व हुतभुक् क्वाम्भाः क्व सर्वंसहा ॥ ५३॥ विश्वेश्वरे भवति विश्वजनीनजन्म- विश्वम्भरे भगवति प्रथितप्रभावे । यो दत्तचित्तविषयः सुकृती कृतार्थो यत्र क्वचित्प्रतिदिनं निवसन् गृहादौ ॥ ५४॥ चिद्रत्नमत्र पतितं वपुरन्धकूपे पुंसो भ्रमादनुपमं सहनीयतेजः । उद्धृत्य यो जगति तद्भविता कृतार्थो मन्ये स एव समुपासितविश्वनाथः ॥ ५५॥ यद्येता मदनेषवो मृगदृशश्चेतःकुरङ्गारयो धीराणामपि नो भवेयुरबलाः संसारमायापुरे । को नामामृतसागरे न रमते धीरस्तदा निर्मले पूर्णानन्दमहोर्मिरम्यनिकरे रागादिनक्रोज्झिते ॥ ५६॥ बालेयं बालभावं त्यजति न सुदति यत्कटाक्षैर्विशालै- रस्मान्विभ्रामयन्ती लसदधरदलाक्षिप्तचूतप्रवाला । नेतुं वाञ्छत्यकामान् स्वसदनमधुना क्रीडितुं दत्तचित्तान् पुष्यन्नीलोत्पलोत्पलाभे मुरजिति कमलावल्लभे गोपलीले ॥ ५७॥ शिव शिव महाभ्रान्तिस्थानं सतां विदुषामपि प्रकृतिचपला धात्रा सृष्टाः स्त्रियो हरिणीदृशः । विजहति धनं प्राणैः साकं यतस्तदवाप्तये जगति मनुजा रागाकृष्टास्तदेकपरायणाः ॥ ५८॥ हरति वपुषः कान्तिं पुंसः करोति बलक्षितिं जनयति भृशं भ्रान्तिं नारी सुखाय निषेविता । विरतिविरसा भुक्ता यस्मात्ततो न विवेकिभि- र्विषयविरसैः सेव्या मायासमाश्रितविग्रहा ॥ ५९॥ कमलवदना पीनोत्तुङ्गं घटाकृति बिभ्रती स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला । विशददशना मध्यक्षामा वृथेति जनाः श्रमं विदधति मुधारागादुच्चैरनीदृशवर्णने ॥ ६०॥ जनयति सुतं कञ्चिन्नारी सती कुलभूषणं निरुपमगुणैः पुण्यात्मानं जगत्परिपालकम् । कथमपि न साऽनिन्द्या वन्द्या भवेन्महतां यतः । सुरसरिदिव ख्याता लोके पवित्रितभूतला ॥ ६१॥ धन्या एते पुमांसो यदयमहमिति त्यक्तचेतोविकल्पा निश्शङ्कं संचरन्तो विदधति मलिनं कर्म कामप्रयुक्ताः । जानन्तोऽप्यर्थहीनं जगदिदमखिलं भ्रान्तवद्द्वैतजालं रागद्वेषादिमन्तो वयमयमिति हा न त्यजन्तेऽभिमानम्॥ ६२॥ प्रज्ञावन्तोऽपि केचिच्चिरमुपनिषदाद्यर्थकारा यतन्तो व्याकुर्वन्तोऽपि केचिद्दलितपरमता यद्यपि ज्ञाततत्त्वाः । तीर्थे तीर्थं तथापि भ्रमणरसिकतां नो जहत्यध्वखेदा यत्तत्कष्टं विधत्ते मम मनसि सदा पश्यतस्तत्र कृत्यम् ॥ ६३॥ तीर्थावस्थानजन्यं न भवति सुकृतं दुष्कृतोन्मूलनं वा यस्मादाभ्यां विहीनः श्रुतिसमधिगतः प्रत्यगात्मा जनानाम् । सर्वेषामद्वितीयो निरतिशयसुखं यद्यपि स्वप्रकाशा- स्तीर्थे विद्यास्तथापि स्पृहयति तपसे यत्तदाश्चर्यहेतुः ॥ ६४॥ उदासीनो देवो मदनमथनः सज्जनकुले कलिक्रीडासक्तःकृतपरिजनः प्राकृतजनः । इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे कथं भ्रान्तस्थाता कथय सुकृती कुत्र विभयः ॥ ६५॥ निस्सारावसुधाधुना समजनि प्रौढप्रतापनल- ज्वालाज्वालसमाकुला द्विपघटासङ्घट्टविक्षोभिता । म्लेच्छानां रथवाजिपत्तिनिवहैरुन्मीलिता कीदृशी- यं विद्या भवितेति हन्त न सखे जानीमहे मोहिताः ॥ ६६॥ वेदो निर्वेदमागादिह नमनभिया ब्राह्मणानां वियोगा- द्वैयासिक्यो गिरोऽपि क्वचिदपि विरलाः सम्मतं सन्ति देशे । इत्थं धर्मे विलीने यवनकुलपतौ शासति क्षोणिबिम्बं नित्यं गङ्गावगाहाद्भवति गतिरितः संसृतेरर्थसिद्धौ ॥ ६७॥ गङ्गा गङ्गेति यस्याः श्रुतमपि पठितं केनचिन्नाममात्रं दुरस्थस्यापि पुंसो दलयति दुरितं प्रौढमित्याहुरेके । स गङ्गा कस्य सेव्या न भवति भुवने सज्जनस्यातिभव्या ब्रह्माण्डं प्लावयन्ती त्रिपुरहरजटामण्डलं मण्डयन्तीम् ॥ ६८॥ यत्तीरे वसतां सतामपि जलैर्मूलैः फलैर्जीवतां मुक्ताहंममभावशुद्धमनसामाचारविद्यावताम् । कैवल्यं करबिल्वतुल्यममलं सम्पद्यते हेलया । स गङ्गा ह्यतुलामलोर्मिमपटला सद्भिः कुतो नेक्ष्यते ६९॥ तीर्थानामवलोकने सुमनसामुत्कण्ठते मानसं तावद्भूवलये सतां पुररिपुध्यानामृतास्वादिनाम्। पावत्ते न विलोकयन्ति सरितां रोचिष्णुमुक्तावलीम् । श्रीमन्नाकतरङ्गिणीं हरजटाजूटाअटवीविभ्रमाम् ॥ ७०॥ संसारो विविधाधिबाधबधिरः सारायते मानसे निःसारोऽपि वपुष्मतां कलिवृकग्रासीकृतानां चिरम् । दृष्टायां घनसारपाथसि महापुण्येन यस्यां सतां सा सेव्या न कुतो भवेत्सुरधुनीस्वर्गापवर्गोदया ॥ ७१॥ यस्याः सङ्गतिरुन्नतिं वितनुते वाराममीषां जनै- रुद्गीता कविभिर्महेश्वरमनोभीष्टा महीमण्डले । सा सन्तः शरदिन्दुसोदरपयः पूराभिरामा नद- त्कोकश्रेणिमनोजपुण्यपुलिना भागीरथी सेव्यताम् ॥ ७२॥ क्वचिद्धंसश्रेणी सुखयति रिरंसुः श्रुतिसुखं नदन्ती चेतो नो विपुलपुलिने मन्थरगतिः । तदेतस्या योऽर्थी सुरतरुलता नाकतटिनीई सदा सद्भिः सेव्या सकलपुरुषार्थाय कृतिभिः ॥ ७३॥ कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती प्रशस्तादेवानामपि भवति सेव्यानुदिवसम् । इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा- सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥ ७४॥ यावज्जागर्ति चित्ते दुरितकलुषिते प्राणिनो वित्तपुत्र- क्षेत्राद्यर्थेषु चिन्ता तदतिपरतया भ्राम्यमानस्य नित्यम् । तावन्नार्थस्य सिद्धिर्भवति कथमपि प्राथितस्यार्तिभाजा कैवल्याख्यस्य लोके रमणसुखभुवो मुक्तदोषानुषक्तेः ॥ ७५॥ सन्त्यर्था मम सञ्चिता बहुधाः पित्रादिभिः साम्प्रतं वाणिज्यैः कृषिभिः कलाभिरपि तान्विस्तारयिष्यामि वः । हे पुत्रा इति भावन्ननुदिनं संसारपाशावलीं छेत्तायं तु कथं मनोरथमयीं जीवो निरालम्बनः ॥ ७६॥ जानन्नेव करोति कर्म बहुलं दुःखात्मकं प्रेरितः केनाप्यप्रतिवाच्यशक्तिमहिना देवेन मुक्तात्मना । सर्वज्ञेन हृदिस्थितेन तनुमत्संसाररङ्गाङ्गणे माद्यद्बुद्धिनटीविनोदनिपुणो नृत्यन्नङ्गप्रियः ॥ ७७॥ को देवो भुवनोदयावनकरो विश्वेश्वरो विद्यते यस्याज्ञावशवर्तिनो जलधियो नाप्लावयन्ति क्षितिम् । इत्याम्नातमपीश्वरं सुरशिरोरत्नं जगत्साक्षिणं सर्वज्ञं धनयौवनोद्घतमना नो मन्यते बालिशः ॥ ७८॥ कस्येमौ पितरौ मनोभववता तापेन संयोजिता- वन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः । इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः शान्तिस्तस्य कथं भवेद्घनवतो दुष्कर्मधर्मश्रमात् ॥ ७९॥ हिक्काकास भगन्दरोदरमहामेदज्वरैराकुलः श्लेष्माद्यैरपि निद्रया विरहितो मन्दानलोल्पाशनः । तारुण्येऽपि विलोक्यते बहुविधो जीवो दरिद्रेश्वरो हा कष्टं कथमीदृशं भगवतः संसारदुःसागरे ॥ ८०॥ माद्यत्तार्किकतान्त्रिकद्विपघटासङ्घट्टपञ्चानन- स्तद्वदृप्तकदन्तवैद्यककलाकल्पोऽपि निष्किञ्चनः । यत्र क्वापि विनाशया कृशतनुर्भूपालसेवापरो जीवन्नेव मृतायते किमपरं संसारदुःसागरे ॥ ८१॥ आढ्यः कश्चिदपण्डितोऽपि विदुषां सेव्यः सदा धार्मिको विश्वेषामुपजारको मृगदृशामानन्दकन्दाकरः । कर्पूरद्युतिकीर्तिभूषितहरिद्भूमण्डले गीयते शश्वद्द्वन्दिजनैर्महीतनुभृतः पुण्यैर्न कस्योदयः ॥ ८२॥ कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्वोदितः कामित्वादभिमन्यते हितमतं धीरोप्यभीष्टं नरः । निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद्दृश्यते यत्तस्मादयमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८३॥ निष्कामा मुनयः परावरदृशो निर्धूतपाप्मोदया निःसङ्गा निरहङ्कृता निरुपमानन्दं परं लेभिरे । यद्गत्वा न लुठन्ति मातृजठरे दुःखाकरे मानवा दुर्गन्धे पुनरेत्यकाममकरे संसारपाथोनिधौ ॥ ८४॥ कामस्यापि निदानमाहुरपरे मायां महाशासना निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् । यत्सङ्गाद्भगवानपि प्रभवति प्रत्यङ्महामोहहा श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेक्रियाः ॥ ८५॥ तुल्यार्थेन त्वमैक्यं त्रिभुवनजनकस्तत्पदार्थःप्रपद्य प्रत्यक्षं मोहजन्म त्यजति भगवति त्वंपदार्थोऽपि जीवः । श्रुत्याचार्यप्रसादान्निरुपमविलसद्ब्रह्मविद्यैस्तदैक्यं प्राप्यानन्दप्रतिष्ठो भवति विगलितानाद्यविद्योपरीहः ॥ ८६॥ संन्यासो विहितस्य केशवपदद्वन्द्वे व्यधायि श्रुता वेदान्ता निरवद्यनिष्कलपरानन्दाः सुनिष्ठाश्चिरम् । संसारे वधबन्धदुःखबहुले मायाविलासेऽव्ययं ब्रह्मास्मीति विहाय नान्यदधुना कर्तव्यमास्ते क्वचित् ॥ ८७॥ हित्वा विश्वाद्यवस्थाः प्रकृतिविलसिता जाग्रदाद्यैर्विशेषैः सार्धं चैतन्यधातौ प्रकृतिमपि समं कार्यजातैरशेषैः । ज्ञानानन्दं तुरीयं विगलितगुणकं देशकालाद्यतीतं स्वात्मानं वीतनिद्रः सततमधिकृतश्चिन्तयेदद्वितीयम् ॥ ८८॥ अग्रेपश्चादधस्तादुपरि च परितो दिक्षु धान्यास्वनादिः कूटस्था संविदेका सकलतनुभृतामन्तरात्मानियन्त्री । यस्यानन्दस्वभावा स्फुरति शुभधियः प्रत्यहं निष्प्रपञ्चा जीवन्मुक्तः स लोके जयति गतमहामोहविश्वप्रपञ्चः ॥ ९०॥ क्वाहं ब्रह्मेति विद्या निरतिशयसुखं दर्शयन्ती विशुद्धं कूटस्थं स्वप्रकाशं प्रकृति सुचरिता खण्डयन्ती च मायाम् । क्वाविद्याहं ममेति स्थगितपरसुखा चित्तभित्तौ लिखन्ती सर्वानर्थाननर्थान् विषयगिरिभुवा वासनागैरिकेण ॥ ९१॥ अहं ब्रह्मास्मीति स्फुरदमलबोधो यदि भवे- त्पुमान्पुण्योद्रेकादुपचितपरानर्थविरतिः । तदानीं क्वाविद्या भृशमसहमानौपनिषदं विचारं संसारः क्व च विविधदुःखैकवसतिः ॥ ९२॥ कश्चित्क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठा- दुत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् । कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचि- च्चित्रं संसृतिपद्धतिः प्रथयति प्रीतिञ्च कष्टञ्च नः ॥ ९३॥ नान्नं जीर्यति किञ्चिदौषधबलं नालं स्वकार्योदये शक्तिश्चंक्रमणे न हन्त जरया जीर्णीकृतायां तनौ । अस्माकं त्वधुना न लोचनबलं पुत्रेति चिन्ताकुलो ग्लायत्यर्थपरायणोऽतिकृपणो मिथ्याभिमानो गृही ॥ ९४॥ अन्नाशाय सदा रटन्ति पृथुकाःक्षुत्क्षामकण्ठास्त्रियो वासोभी रहिता बहिर्व्यवहृतौ निर्यान्ति नो लज्जया । गेहादङ्गणमार्जनेऽपि गृहिणो यस्येति दुर्जीवितं यद्यप्यस्ति तथापि तस्य विरतिर्नोदेति चित्रं गृहे ॥ ९५॥ सद्द्वंशो गुणवानहं सुचरितः श्लाघ्यां करोत्यात्मनो नीचानां विदधाति च प्रतिदिनं सेवां जनानां द्विजः । योषित्तस्य जिघृक्षया स च कुतो नो लज्जते सज्जना- ल्लोभान्धस्य नरस्य नो खलु सतां दृष्टं हि लज्जाभयम् ॥ ९६॥ कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं मर्त्यानामिति देवमौलिविलसद्भाजिष्णुचूडामणिः । श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभु- र्यस्मात्तत्त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ॥ ९७॥ यत्प्रीत्यर्थमनेकधामनि मया कष्टेन वस्तु प्रियं स्वस्याशाकवलीकृतेन विकलीभावं दधानेन मे । तत्सर्वं विलयं निनाय भगवान् यो लीलया निर्जरो मां हित्वा जरयाकुलीकृततनुं कालाय तस्मै नमः ॥ ९८॥ आयुर्वेदविदां रसाशनवतां पथ्याशिनां यत्नतो वैद्यानामपि रोगजन्म वपुषो ह्यन्तर्यतो दृश्यते । दुश्चक्षोत्कवलीकृतत्रिभुवनो लीलाविहारस्थितः सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ॥ ९९॥ ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्याजना लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः । येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां प्राणा यन्ति लयं सुखेन मनसा श्रीरङ्गचिन्ताभृताम् ॥ १००॥ हे पुत्राः व्रजताभयं यत इतो गेहं जनन्या समं रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया । काशीं साम्प्रतमागतोऽहमहह क्लेशेन हातुं वपुः सर्वानर्थगृहं सुपर्वतटिनीवीचिश्रियामण्डिताम् ॥ १०१॥ यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्रजः । मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये तत्राद्वैतवने सदा विचरताच्चेतः कुरङ्गः सताम् ॥ १०२॥ बुधानां वैराग्यं सुघटयतु वैराग्यशतकं गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् । जनानामानन्दं वितरतु नितान्तं सुविशद- त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३॥ इति श्रीभर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् । This text and sequence is based on the book by K. B. Ghule(1896) which has 103 verses with Sanskrit commentary. Another by Pathak with Gujarati translation has 101 selected but resequenced verses plus 38 more as parishiShTa. Pathak's book is expanded and perhaps more scrutinised. Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Vijnanashataka
% File name             : vijnAnashatakam.itx
% itxtitle              : vijnAnashatakam (bhartRiharikRitam)
% engtitle              : Vijnanashataka by Bhartrihari
% Category              : shataka
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Bhartrihari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sunder hattangadi sunderh at hotmail.com
% Proofread by          : sunder hattangadi sunderh at hotmail.com
% Description-comments  : From a scanned copy of text by K. B. Ghule(1896)
% Latest update         : August 23, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP