स्वामीशिवानन्दस्य बालकोपदेशः

स्वामीशिवानन्दस्य बालकोपदेशः

Swami Shivananda Sanskrit translation by Dr. Jayadeva Jani स्वामि-श्रीशिवानन्दस्य बालकोपदेशः संस्कृत अनुवादन डाॅ जयदेव जानी यस्य God created you, your brother, sister, father, mother, friend and your relatives. ईश्वरः असृजत् त्वाम् तव भ्रातरम् भगिनीम् पितरम् माततरम् सुहृदम् तथा च तव बन्धुवर्गम् । He created the sun, moon and the stars. ईश्वरः असृजद् आदित्यम् चन्द्रमसम् तारकाणि च । He created the animals and the birds. ईश्वरः असृजत् पशून् विहगान् च । He created the mountains, rivers and trees. ईश्वरः असृजत् पर्वतान् नदीः वृक्षान् च । He created the whole world. 1 ईश्वरः असृजत् सकलम् इदम् विश्वम् । १ %====================================================================== He dwells in your heart. सः तव हृदये निवसति । He is everywhere. सः सर्वत्र अस्ति । He is all-pervading. सः सर्वव्यापकः अस्ति । He is all-knowing. सः सर्वज्ञः अस्ति । He is all-powerful. सः सर्वशक्तिमान् अस्ति । He is all-merciful. सः सर्वेषु दयालुः अस्ति । He is all-loving. सः सर्वेषु स्नेहिलः अस्ति । He is all-blissful. सः सम्पूर्णः आनन्दमयः अस्ति । Your body is the moving temple of God. तव देहः तस्य चलन्मन्दिरम् अस्ति । Keep the body pure, strong and healthy. 2 (अतः) देहम् शुद्धम् सुदृढम् निरोगि च त्वम् रक्ष । २ %====================================================================== God is Love. ईश्वरो ह प्रेम । God is Truth. ईश्वरो हि सत्यम् । God is Peace. ईश्वरो वै शान्तिः । God is Bliss. ईश्वरो ह आनन्दः । God is Light. ईश्वरो वै प्रकाशः । God is Power. ईश्वरो हि शक्तिः अस्ति । God is Knowledge. ईश्वरो ह ज्ञानम् । Realise Him and be free. 3 तम् वेद मुक्तः च भव । ३ %====================================================================== Do Kirtan daily morning and night. प्रतिदिनम् सायम्प्रातः कीर्तनम् कुरु । Pray daily. प्रतिदिनम् प्रार्थनाम् कुरु । Offer flowers to Him. तस्मै पुष्पाणि निवेदय । Prostrate before Him. तम् च नमस्कुरु । Offer sweetmeats to Him and then eat. तस्मै मिष्टान्नम् निवेद्य एव भुङ्क्ष्व । Place light before Him. तत्पुरतः दीपम् प्रज्वालय । Burn camphor before Him. तत्पुरतः कर्पूरम् प्रज्वालय । Do Arati. नीराजनम् कुरु । Put garland on Him. तस्मै मालार्पणम् विधेहि । Pray to Him daily. प्रतिदिनम् तम् प्रार्थय । He will give you everything. 4 सः तुभ्यम् सर्वम् दास्यसि । ४ %====================================================================== Keep a picture of God in your room. तस्य चित्रम् तव कक्षे स्थापय । Worship Him daily. तम् पूजय प्रतिदिनम् । All your desires will be fulfilled. 5 स ते सर्वान् कामान् पूरयैत । ५ %====================================================================== Offer this morning prayer to God, everyday: तस्य ईष्वरस्य प्रातःप्रार्थनाम् इमाम् कुरु प्रतिदिनम् : ``O Lord of this world! Prostrations unto Thee! जगदीश नमस्तुभ्यम् । Thou art my Guru, real Mother, real Friend त्वमेव मम सद्गुरुः । माता त्वम् मे सखा त्वम् मे । and real Guide. मार्गदेष्टा च त्वमेव मे । Protect me. I am Thine. All is Thine. रक्ष माम् । तव अहम् अस्मि । सर्वम् त्वदीयम् । Thy Will be done.'' 6 त्वदीयम् सङ्कल्पितमेव भविष्यति । ६ %====================================================================== ``O Adorable God! Salutations unto Thee. Give me pure intellect. देवदेव नमस्तुभ्यम् देहि मे सुमतिम् वराम् । Make me pure. Give me light, strength, health and long life. Make me a good Brahmachari.'' 7 निर्मलम् कुरु माम् देहि प्रकाशम् शक्तिमेव च आरोग्यम् दीर्घमायुष्यम् ब्रह्मचर्यम् च देहि मे । ७ %====================================================================== ``O Almighty Lord! Remove all my evil qualities. विभो त्वम् दुर्गुणान् सर्वान् ममापनय सर्वथा । Make me virtuous. Make me a patriot. Let me love my mother-country.'' 8 गुणान् धेहि देशभक्तिम् मातृभूमिम् भजै सदा । ८ %====================================================================== Before you retire to bed at night, offer this prayer to God: शयनात् पूर्वम् निशासु ईश्वरस्य इमाम् प्रार्थनाम् कुरु । ``O Sweet God! Forgive my sins and wrong actions. मधुरेश्वर पापान् क्षमस्व दुष्कृतम् मे च । I thank You for all Your gifts. आभारितः अस्मि तव दानगणैः च सर्वैः । You are very kind to me. त्वम् वै दयालुः असि भूरिदयाम् करोषि । Let me remember You always.'' नित्यम् तव आस्मरणम् अस्तु मम अन्तरङ्गे । ``Make me dutiful. Give me success in my examination. Make me a good, brilliant boy. (Make me a good, brilliant girl.) धर्मे रेतिम् सफ़लताम् च परीक्षणे मे मेधाविनम्/मेधाविनीम् कुरु विभो भवते । Adorations unto Thee.'' नमस्ते । ``Give me good memory. Let me love all. Let me serve all. Let me see You in all. देहि स्मृतिम् दृढमतिम् प्रणयानि सर्वान् सेवै मम त्वयि दृशिः सकलस्य भूयात् । Make me prosperous. Protect me, my father, mother, grandfather, grandmother, brothers and sisters. Glory unto Thee!'' 9 ऋद्धिम् प्रदेहि मह्यम् पाहि माम् पितरम् जननीम् च तातपितरम् पितामहीम् बन्धून् तथा च भगिनीम् । स्वस्ति प्रभो त्वम् असि कीर्तियशःप्रदाता । ९ %====================================================================== Dear Govinda! Do not fight with your brother, sister or classmates. Obey your parents and teachers. Do not smoke. This is a bad habit. You will get disease from smoking. Give up bad company. 10 वत्स गोविन्द कलहम् मा कुरु भ्रात्रा भगिन्या वर्गमित्रैः वा । पित्रोः गुरोः च आज्ञाङ्कितः भव । मा कुरु धूम्रपानम् । एतद् वै व्यसनम् । धूम्रपानकरणेन त्वम् रोगग्रस्तः भविष्यसि । त्यज दुष्टसम्पर्कम् । १० %====================================================================== Do not use vulgar words. Do not abuse anybody. Be kind to all. Serve all. Love all. Respect elders. Do not steal anything. Do not hurt anybody. Speak gently. Speak sweetly. Be punctual in your school. 11 अश्लीलशब्दान् मा वद । मा कञ्चन अपशब्दान् ब्रूहि । सर्वेषु दयालुः भव । सर्वान् सेवस्व । सर्वेषु प्रीणय । गुरुजनान् आदर । मा किञ्चिदपि मुषाण । मा कञ्चिदपि पीडय । विनम्रम् वद । मधुरम् वद । शालायाम् समयपालकः भव । ११ %====================================================================== Study your daily lessons well. Stand first in the class. Do not play much. Do not kill bugs and scorpions. Do not waste time. 12 दैनिक-स्वाध्यान् सम्यक् पठ । वर्गेषु प्रथमः भव । मा अतिक्रीडाम् भज । कीटान् मत्सरान् मा हिन्धि । समयम् व्यर्थम् मा गमय । १२ %====================================================================== Don't play cards. Playing cards will make you a wicked boy. Do not go to cinema. But do go to the temple daily and worship the Lord. Take flowers, camphor and fruits when you go to the temple. 13 क्रीडापत्रैः मा क्रीड । क्रीडापत्रैः खेला त्वाम् दुष्टम् बालम् करिष्यति । चलचित्रम् मा गच्छ । परन्तु प्रतिदिनम् देवालयम् गच्छ ईश्वरम् च भज । यदा त्वम् देवालयम् गच्छेः तदा पुष्पाणि कर्पूरम् फलानि च उपहर । १३ %====================================================================== Don't hate anybody, but do love all. Give a pie to a blind man. Wash the clothes of your parents. Never become angry towards your parents and others. Anger is very bad. It will spoil your health. You will spoil your name. You will do wrong actions if you become angry. 14 मा कस्यापि द्वेषम् कुरु । सर्वेषु प्रीतिम् कुरु । अन्धजनाय वराटकम् देहि । पित्रोः वस्त्राणि क्षालय । पितृभ्याम् मा कदापि क्रुध्य । अन्येभ्यः अपि मा क्रुध्य । क्रोधः हि दुष्टः । क्रोधः तव स्वास्थ्यम् हरिष्यति । तव नाम च आविलम् करिष्यति । यदि क्रोधम् करिष्यसि त्वम् अकार्याणि करिष्यसि । १४ %====================================================================== God watches your thoughts. Don't hide your thoughts. Be frank. Be pure in your thoughts, words and actions. 15 ईश्वरः तव विचारान् पश्यति । स्वविचारान् मा अपह्नुहि । स्पष्टः भव । विचारेषु वचनेषु कर्मसु च शुद्धः भव । १५ %====================================================================== Worship Lord Surya, the Sun-God, on Sundays. Repeat 'Om Mitraya Namah', 'Om Suryaya Namah', 'Om Adityaya Namah'. Lord Surya will give you good health and vigour and good eyesight. 16 सूर्यदेवम् रविवासरे भज । पुनः पुनह् ब्रूहि: ॐ मित्राय नमः । ॐ सूर्याय नमः । ॐ आदित्याय नमः । सूर्यदेवः तुभ्यम् स्वास्थ्यम् शक्तिम् दृष्टि-सामर्थ्यम् च दास्यति । १६ %====================================================================== Worship Lord Shiva on Mondays. Worship Devi on Tuesdays and Fridays. Worship Guru on Thursdays. Worship Hanuman on Saturdays. You will get plenty, peace, prosperity and success! 17 सोमवासरे भगवन्तम् शिवम् भज । भौमवासरे शुक्रवासरे च जगदम्बाम् भज । गुरुवासरे गुरुम् भज । शनिवासरे हनूमन्तम् भज । त्वम् बाहुल्यम् शान्तिम् समृद्धिम् सफ़लताम् च अवाप्स्यसि । १७ %====================================================================== Lord Brahma is the creator of this world. Sarasvati, Goddess of learning, is His Sakti or energy or wife. Lord Vishnu is the preserver of this world. Goddess LakShmi is His Sakti, energy or wife. She is the Goddess of wealth. Lord Shiva is the destroyer of this world. Uma or Parvati is His Sakti, energy or wife. Lord Ganesa is His eldest son. Lord Subrahmanya is His second son! 18 प्रजापतिः ब्रह्मा अस्य जगतः उत्पादकः । तस्य विद्यादेवि सरस्वती शक्तिः पत्नी वा । भगवान् विष्णुः अस्य जगतः पालकः । तस्य शक्तिः पत्नी वा देवी लक्ष्मीः । सा समृद्धेः देवी । भगवान् शिवः अस्य जगतः संहारकः । तस्य शक्तिः पत्नी वा उमा पार्वती । तस्य ज्येष्ठः पुत्रः गणेशः । तस्य द्वितीयः पुत्रः सुब्रह्मण्यः । १८ %====================================================================== Lord Ganesa removes all obstacles. Lord Subrahmanya gives all success and strength. Worship them with faith and devotion. You will get Bhakti (devotion), Bhukti (happiness) and Mukti (liberation). 19 भगवान् गणेशः सर्वान् विघ्नान् अपाकरोति । भग्वान् सुब्रह्मण्यः सर्वाः सफ़लताः सामर्थ्यम् च वितरति । श्रद्धया भक्त्या च तयोः पूजनम् विधेहि । त्वम् भक्तिम् भुक्तिम् मुक्तिम् च प्राप्स्यसि । १९ %====================================================================== God loves you. He gives you many good things. He gives you food to eat and clothes to wear. He has given you ears to hear, eyes to see, a nose to smell, tongue to taste, hands to feel and work, and legs to walk. 20 ईश्वरः त्वयि स्निह्यति । सः तुभ्यम् बहूनि शुभानि वस्तूनि ददाति । सः तुभ्यम् भोजनाय अन्नम् परिधानाय च वस्त्राणि यच्छति । सः तुभ्यम् श्रवणाय कर्णौ दर्शनाय नेत्रे घ्राणाय नासिकाम् स्वादनाय रसनाम् स्पर्शनाय कर्म करणाय च हस्तौ चलनाय च पादौ दत्तवान् । २० %====================================================================== You cannot see God with your fleshy eyes but He sees you. He takes care of you. He knows all that you do. 21 त्वम् तम् ईश्वरम् शरीर-चक्षुर्भ्याम् दृष्टुम् न समर्थः किन्तु सः त्वाम् पश्यति । सः तव योगक्षेमम् वहति सः तत् तत् सर्वम् जानाति यत् यत् अपि त्वम् कर्म करोषि । २१ %====================================================================== He is very kind to you. Love Him. Praise Him. सः त्वयि कृपालुः । तस्मिन् स्निह्य । तम् प्रशंस । Sing His Name and glory. Pray to Him to keep you away from all sins. He will be pleased with you. He will bless you. 22 तस्य नाम-गुण-कीर्तनम् कुरु । त्वाम् सर्वेभ्यः पापेभ्यः अवितुम् तम् प्रार्थयस्य । सः तुभ्यम् प्रसन्नः भविष्यति । सः ते अशिषः दास्यति । २२ %====================================================================== O David! Look at the rose! How beautiful it is! What a fine fragrance it has. You love it. You pluck it and smell it. Can a scientist produce a rose? You can make a paper-flower which may look beautiful but it has no sweet smell. 23 भोः डेविड । गुलाब-पुष्पम् पश्य । अहो कीदृशम् सुन्दरम् । कीदृशी मनोहरा सुरभिः तस्मिन् । तुभ्यम् तत् रोचते । त्वम् तत् पुष्पम् चिनोषि जिघ्रसि च । कः वैज्ञानिकः गुलाबपुष्पम् उत्पादयितुम् समर्थः । त्वम् कर्गद-पुष्पम् उत्पादयितुम् सक्षमः किन्तु तत्र मधुरा सुरभिः न वर्तते । २३ %====================================================================== The rose soon fades and loses its beauty and fragrance. You throw it away. It is perishable. Its beauty lasts for a few minutes. Who has created the beautiful flower? This Creator is God. He is Beauty of beauties. He is everlasting Beauty. Attain Him. You also will possess eternal beauty. Beauty is God. Always discriminate between the real and the unreal. 24 गुलाबपुष्पम् नचिरात् म्लायति स्वकीयाम् सुन्दरताम् सुरभिम् च उज्झति । तत् तु नश्वरम् । तस्य सुन्दरता कतिचित् क्षण-स्थायिनी । कः सुन्दरम् पुष्पम् उत्पादयति । उत्पादकः ईश्वरः एव । सः एव सुन्दराणाम् सौन्दर्यम् । सः अविनाशि सौन्दर्यम् । तम् प्राप्नुहि । ततः त्वम् अपि शाश्वतम् सौन्दर्यम् अवाप्स्यसि । सौन्दर्यम् एव ईश्वरः । नित्य-अनित्ययोः विवेकम् नित्यम् भज । २४ %====================================================================== There is only one God. But His names and aspects are endless. Call Him by any name and worship Him in any aspect that pleases you. You are sure to see Him and get His grace and blessings. 25 एकः एव ईश्वरः । किन्तु तस्य नामानि अनन्तानि मूर्तयः च अनन्ताः । येन केन अपि नाम्ना तम् आकारय । यया कया अपि मूर्त्या तम् पूजय या तुभ्यम् अतीव रोचते । त्वम् तम् अवश्यम् प्रक्ष्यसि । तस्य कृपाम् आशिषः च आसादयसि एव । २५ %====================================================================== Brahma, Vishnu and Shiva are the three Forms of the one God of the Hindus. Allah is the God of Muslims. Jehovah is the God of the Jews. The Father in Heaven is the God of Christians. Ahura Mazda is the God of the Zoroastrians. 26 ब्रह्मा विष्णुः शिवः च हिन्दूनाम् एकेश्वरस्य त्रीणि स्वरूपाणि । अल्लः मोहमदीयानाम् ईश्वरः । यहूदीनाम् ईश्वरः येहोवा । ख्रिस्तीनाम् ईश्वरः स्वर्गस्थितः परमपिता । जरस्थोस्तीयानाम् अहुरमज़्दः ईश्वरः । २६ %====================================================================== God is the Aim of all religions. Every religion points out the way to attain God. God is the central topic of every religion. 27 सर्वेषाम् धर्मसम्प्रदायानाम् ध्येयः ईश्वरः एव । प्रत्येकम् धर्मसम्प्रदायः ईश्वर-प्राप्तेः मार्गम् दिशति । ईश्वरः एव प्रत्येकम् धर्मसम्प्रदायस्य केन्द्र-विषयः । २७ %====================================================================== Do not fight with your Christian friends. Do not fight with your Muslim friends or Parsee friends. Their religions also lead them to God just as your religion does. You can reach the same destination by travelling through any of the paths leading to it. ``All paths lead to God.'' Bear this in mind. 28 तव ख्रिस्ति-मित्रैः मा युद्ध्यस्व । तव मोहमदीय-मित्रैः पारसिक-मित्रैः वा मा युद्ध्यस्व । तेषाम् धर्म-सम्प्रदायः अपि तान् ईश्वरम् प्रापयति यथा तव धर्म-सम्प्रदायः । तदेव गन्तव्यम् त्वम् तेषाम् केनचिद् एकेन पथा गच्छन् प्राप्नुयाः । सर्वे मार्गाः ईश्वरम् प्रति गच्छन्ति इति मनसि नितराम् कुरु । २८ %====================================================================== Purity, charity, control of the senses, penance, truthfulness, absence of hatred and pride will help you to attain God. 29 शुधिः दानम् इन्द्रीय-संयमः तपः सत्यम् राग-द्वेश- राहित्यम् च तव सहाय्यम् करिष्यन्ति ईश्वर-प्राप्तिम् प्रति ॥ २९ % ॥ ॐ तत्सत् ॥ Please send corrections to Haresh BakShi hareshbakShi at hotmail.com . %====================================================================== %ADVICE TO CHILDREN By SRI SWAMI SIVANANDA % % %CREDITS: Translated by: Dr. Jayadeva Jani % Reader, Sanskrit Dept. of M. S. Uni of Vadodara, INDIA %Communication link: Arati Pradeep %Transliterated by: Haresh BakShi July 31, 1998 %NOTE: All errors, of any kind, are mine. -- Haresh BakShi % hareshbakShi at hotmail.com %
% Text title            : svAmIshivAnandasya bAlakopadeshaH
% File name             : advice.itx
% itxtitle              : bAlakopadeshaH (svAmIshivAnandasya)
% engtitle              : Advice to children
% Category              : vedanta, misc, advice, upadesha
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Advice to children by Swami Shivananda)
% Latest update         : October 1, 2010
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org