श्री अनुभवाष्टकम्
निरवग्रहबोधविग्रहं निजमाधुर्यधुराधुरन्धरम् ।
परितः प्रथतेतरामहो परमं नः परमार्थवैभवम् ॥ १॥
अवधूततमिस्रविस्रवं विविधोपाधिपरङ्गपारगम् । (विविधोपाधित)
अहह स्फुटमद्य भुञ्ज्महे निजसाम्राज्यमुखैक सम्प्लवम् ॥ २॥
स्वरसस्फुरणस्कुटाधुतः सहजः सम्प्रसरन् समन्ततः ।
किमपि स्वदतेतरामहो महिमा वाङ्मनसातिलङ्घितः ॥ ३॥
सहजन्मसमग्रजन्मिनां प्रथमानप्रथमं महन्महः ।
मधुरं मधुरादयो मुहुर्मुहुरास्वाद्य चमत्कृता वयम् ॥ ४॥
न वचांसि न चित्तवृत्तयः पदमेतत् परिमातुमीशते ।
परमं किमपीदमद्भुतं पुनरप्य ---- ॥ ५॥
चरणाभरणे फणिभ्रमादिव दूराय पलायिता वयम् ।
अधुना पुनराद्यविद्यया परमानन्दपदे कथं स्थिताः ॥ ६॥
--- णाकत्रणानिरीक्षणाक्षणनिर्वासितसर्वसंञ्ज्वराः ।
------सर्वतः कलयामः कथयामहे कियत् ॥ ७॥
न परः प्रणयेन ---- ता वयम् ।
सपदि स्वपदेऽभिषेचितास्तदहो कृष्णकृपाविजृम्भितम् ॥ ८॥
अनुभवाष्टकमेतदनारतं परिपठन्ति जहन्ति रसान्तरम् ।
निजरसेन चिरं चरितार्थतामनुभवन्तु जगन्ति निरन्तरम् ॥ ९॥
इति श्री अनुभवाष्टकं सम्पूर्णम् ।
(The manuscript had incomplete/indecipherable lines marked with ---)
Proofread by Saritha Sangameswaran