बृहस्पतिमङ्गलस्तोत्रम्
जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तरासंस्थितः ।
पीतोऽश्वत्थसमिद्धसिन्धुजनितश्चापोऽथ मीनाधिपः ॥ १॥
सूर्येन्दुक्षितिजप्रियो बुधसितौ शत्रूसमाश्चापरे ।
सप्ताङ्कद्विभवः शुभः सुरगुरुः कुर्यात्सदा मङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत् पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥
वेदशास्त्रार्थतत्त्वज्ञः ज्ञानविज्ञानपारग ।
विबुधार्तिहरो नित्यं देवाचार्य नमोऽस्तुते ॥ ३॥
ॐ अनया पूजया बृहस्पतिदेवः प्रीयताम् ।
ॐ बृहस्पतये नमः ॐ जीवाय नमः ॐ सुराचार्याय नमः ।
॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीबृहस्पतिमङ्गलस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran