श्रीभास्कराष्टकम्

श्रीभास्कराष्टकम्

श्रीपद्मिनीशमरुणोज्ज्वलकान्तिमन्तं मौनीन्द्रवृन्दसुरवन्दितपादपद्मम् । नीरेजसम्भवमुकुन्दशिवस्वरूपं श्रीभास्करं भुवनबान्धवमाश्रयामि ॥ १॥ मार्ताण्डमीशमखिलात्मकमंशुमन्तं आनन्दरूपमणिमादिकसिद्धिदं च । आद्यन्तमध्यरहितं च शिवप्रदं त्वां श्रीभास्करं नतजनाश्रयमाश्रयामि ॥ २॥ सप्ताश्वमभ्रमणिमाश्रितपारिजातं जाम्बूनदाभमतिनिर्मलदृष्टिदं च । दिव्याम्बराभरणभूषितचारुमूर्तिं श्रीभास्करं ग्रहगणाधिपमाश्रयामि ॥ ३॥ पापार्तिरोगभयदुःखहरं शरण्यं संसारगाढतमसागरतारकं च । हंसात्मकं निगमवेद्यमहस्करं त्वां श्रीभास्करं कमलबान्धवमाश्रयामि ॥ ४॥ प्रत्यक्षदैवमचलात्मकमच्युतं च भक्तप्रियं सकलसाक्षिणमप्रमेयम् । सर्वात्मकं सकललोकहरं प्रसन्नं श्रीभास्करं जगदधीश्वरमाश्रयामि ॥ ५॥ ज्योतिस्वरूपमघसञ्चयनाशकं च । तापत्रयान्तकमनन्तसुखप्रदं च । कालात्मकं ग्रहगणेन सुसेवितं च । श्रीभास्करं भुवनरक्षकमाश्रयामि ॥ ६॥ सृष्टिस्थितिप्रलयकारणमीश्वरं च दृष्टिप्रदं परमतुष्टिदमाश्रितानाम् । इष्टार्थदं सकलकष्टनिवारकं च श्रीभास्करं मृगपतीश्वरमाश्रयामि ॥ ७॥ आदित्यमार्तजनरक्षकमव्ययं च छायाधवं कनकरेतसमग्निगर्भम् । सूर्यं कृपालुमखिलाश्रयमादिदेवं लक्ष्मीनृसिंहकविपालकमाश्रयामि ॥ ८॥ फलश्रुतिः श्रीभास्कराष्टकमिदं परमं पवित्रं यत्र श्रुतं च पठितं सततं स्मृतं च । तत्र स्थिराणि कमलाप्तकृपाविलासै- र्दीर्घायुरर्थबलवीर्यसुतादिकानि ॥ हरिः ॐ तत् सत् इति श्रीभास्कराष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bhaskarashtakam
% File name             : bhAskarAShTakam.itx
% itxtitle              : bhAskarAShTakam
% engtitle              : bhAskarAShTakam
% Category              : navagraha, aShTaka
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Latest update         : April 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org