बुधमङ्गलस्तोत्रम्
सौम्योदङ्मुख-पीतवर्ण-मगधश्चात्रेयगोत्रोद्भवो ।
बाणेशानदिशः सुहृच्छनिभृगुः शत्रुः सदा शीतगुः ॥ १॥
कन्या युग्मपतिर्दशाष्टचतुरः षण्नेत्रकः शोभनो ।
विष्णुः पौरुषदेवते शशिसुतः कुर्यात्सदा मङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥
बुध त्वं बुद्धिजननो बोधवान् सर्वदा नृणाम् ।
तत्त्वावबोधं कुरु मे सोमपुत्र नमोऽस्तु ते ॥ ३॥
अनया पूजया बुधदेवः प्रीयताम् ।
ॐ बुधाय नमः ॐ आत्रेयाय नमः ॐ सोम पुत्राय नमः ।
॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीबुधमङ्गलस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran