दिनकरार्तिक्यम्
जय दिनकर जय भास्कर जय भग जय तरणे! ।
(१) तराणिस्त्वमसि तमसि जनिमृतिभवभयतरणे! । ध्रुव०॥
कर्मणि सतां प्रवृत्तिं प्रकरोषि च वृष्टिं
किं च ददास्यन्धानामिव जगतां दृष्टिं
पास्यनलस एव परिभ्रमणपरः सृष्टिं
मन्ये लोकं वरसं त्वां भगवन् ! (२)गृष्टिम् ॥ १॥
जगदालयदीपस्त्वं चक्षुर्लोकानां
दुःसहविरहमहार्तेरङ्गदः कोकानां(३)
(४)हेतुर्मन्देहासुरसेनाशोकानां
तव (५)भाम्बुरुहां सुखदारणिरिव तोकानाम् ॥ २॥
किम्बहुना स्तवमकं ब्रूमस्तव सारं
कुरुते पुरतस्तेंऽजलिमजयद्यो मारं
त्वं खलु सद्गतिभाजामार्याणां द्वारं
मुदिर इव मयूरकुलं सुखयसि (६)सेद्वारम् ॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं दिनकरार्तिक्यं सम्पूर्णम् ।
१। त्वं तमसि अन्धकारे तरणिर्नौरसीति योज्यम् ।
२। गृष्टिः सकरप्रसूतर गौः । अतिवत्सलां धेनुमित्यर्थः ।
३। कोका रात्रौ वियुक्ताचक्रवाकाः ।
४। मन्देहा नाम दिनकरं मायम्प्रातरुपरुन्धाना दानवविशेषाः ।
५। भा अम्बुरुहां इति पदच्छेदः ।
६। सतां वारः समुदायस्तम ।
Proofread by Rajesh Thyagarajan