श्रीदिनेशस्तवः
मानससरोगतं मे शोषय पङ्कं खरोस्रं दिननाथ ।
नो चेत्खरत्वमेषामुस्राणां भूयात्कथं ब्रूहि ॥ १॥
निवार्य बाह्यं परमन्धकारं
दिनेश गर्वं कुरुषे वृथा त्वम् ।
यद्यस्ति शक्तिस्तव मामकीन-
मन्तःस्थमान्ध्यं विनिवारयाशु ॥ २॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीदिनेशस्त्यवः सम्पूर्णः ।
Proofread by PSA Easwaran