एकश्लोकीनवग्रहस्तोत्रम् ४
ॐ सूर्यः शौर्यमथनेन्दुरुच्चपदवीं, सन्मङ्गलं मङ्गलः ।
सद्बुद्धिं च बुधो गुरुश्च गुरुतां, शुक्रः सुखं शं शनिः ।
राहुर्बाहुबलं करोतु विपुलं, केतुः कुलस्योन्नतिम् ।
नित्यं प्रीतिकरा भवन्तु भवतां, सर्वे प्रसन्ना ग्रहाः ॥
ॐ आदित्यादि नवग्रह देवताभ्यो नमो नमः ॥
इत्येकश्लोकी नवग्रहदेवताप्रार्थनास्तोत्रं समाप्तम् ।