केतुमङ्गलस्तोत्रम्
केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्कध्वजलाञ्छनोहिभगवान्यो दक्षिणाशामुखः ।
ब्रह्माचैवतु चित्रगुप्तपतिमान्प्रीत्याधिदेवस्सदा-
षट्त्रिस्थशुभ कृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे शिखी ॥
अनया पूजया केतुः प्रीयताम् ।
ॐ केतवे नमः । ॐ शिखिने नमः ।
ॐ रुद्रप्रियाय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीकेतुमङ्गलस्तोत्रं सम्पूर्णम् ॥
Some books in print reverse tamaH and shikhI
in the navagraha pIDAharastotram.
Check the 108 names also.