श्रीनवग्रहमङ्गलस्तोत्रं अथवा श्रीनवग्रहमङ्गलाष्टकम्

श्रीनवग्रहमङ्गलस्तोत्रं अथवा श्रीनवग्रहमङ्गलाष्टकम्

भास्वानर्कसमिच्च रक्तकिरणसिंहाधिपः काश्यपो गुर्विन्द्वोश्च कुजस्य मित्रमरिखत्रिस्थश्शुभः प्राङ्मुखः । शत्रुर्भार्गवसौरयोः प्रियगुडः कालिङ्गदेशाधिपो मध्ये वर्तुलमण्डले स्थितियुतः कुर्यात् सदामङ्गलम् ॥ १॥ चन्द्रः कर्कटक प्रभुस्सितरुचिश्चात्रेय गोत्रोद्भवः चाग्नेये चतुरश्रगोऽपरमुखो गौर्यर्चया तर्पितः । षट्सप्ताग्निदशाद्यशोभनफलोऽशत्रुर्बुधार्कप्रियः सौम्यो यामुन देशपर्णजसमित् कुर्यात् सदा मङ्गलम् ॥ २॥ भौमो दक्षिण दित्रिकोण निलयोऽवन्तीपतिः खादिर- प्रीतो वृश्चिकमेषयोरधिपतिर्गुर्वर्क चन्द्रप्रियः । ज्ञारिः षट्त्रिशुभप्रदश्च वसुधादाता गुहाधीश्वरो भारद्वाजकुलोद्भवोऽरुणरुचिः कुर्यात् सदामङ्गलम् ॥ ३॥ सौम्यः पीत उदङ्मुखसमिधपामार्गोऽत्रिगोत्रोद्भवः बाणेशानगतस्सुहृद्रविसितो वैरी कृतानुष्णरुक् । कन्यायुग्मपतिर्दशाष्टम चतुष्षण्णेत्रगश्शोभनो विष्ण्वाराधन तर्पितो मगधपः कुर्यात् सदा मङ्गलम् ॥ ४॥ जीवश्चोत्तर दिङ्मुखोत्तरककुप् जातोऽङ्गिरोगोत्रतः पीतोऽश्वत्थसमिच्च सिन्ध्वधिपतिश्चापर्क्षमीनाधिपः । सूर्येन्दुक्षितिजप्रियस्सित बुधारातिस्समो भानुजे सप्तापत्यतपोर्थगश्शुभकरः कुर्यात् सदामङ्गलम् ॥ ५॥ शुक्रो भार्गवगोत्रजस्सितरुचिः पूर्वाननः पूर्वदिक् काम्बोजाधिपतिस्तुलावृषभपश्चौदुम्बरैस्तर्पितः । सौम्यायः सुहृदम्बिका स्तुतिवशात्प्रीतोऽर्कचन्द्राहितो नारी भोगकरश्शुभो भृगुसुतः कुर्यात् सदा मङ्गलम् ॥ ६॥ सौरिः कृष्णरुचिश्चपश्चिममुखः सौराष्ट्रपः काश्यपो नाथः कुम्भमृगर्क्षयोः प्रियसुहृच्छुक्रज्ञयोर्गृध्रगः । षट्त्रिस्थश्शुभदोऽशुभो तनुगतिश्चापाकृतौ मण्डले सन्तिष्ठन् चिरजीवितादि फलदः कुर्यात् सदा मङ्गलम् ॥ ७॥ राहुर्बर्बरदेशपो निऋऋतौ कृष्णाङ्ग शूर्पासनो याम्याशाभिमुखश्च चन्द्ररविरुत् पैठीनसिः क्रौर्यवान् । षट्त्रिस्थश्शुभकृत्करालवदनः प्रीतश्च दूर्वाहुतौ दुर्गापूजनतः प्रसन्नहृदयः कुर्यात् सदा मङ्गलम् ॥ ८॥ केतुर्जेमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः चित्राङ्क ध्वजलाञ्छनो हि भगवान् याम्याननश्शोभनः । सन्तुष्टो गणनाथ पूजनवशात् गङ्गादितीर्थप्रदः षट्त्रिस्थश्शुभकृच्च चित्रिततनुः कुर्यात् सदा मङ्गलम् ॥ ९॥ इति श्रीनवग्रहमङ्गलस्तोत्रं अथवा श्रीनवग्रहमङ्गलाष्टकं सम्पूर्णम् । The stotra has nine verses but is also called as aShTakam, perhaps mistakenly. Proofread by Mohan Chettoor
% Text title            : Navagraha Mangala Stotram 2
% File name             : navagrahamangalastotram2.itx
% itxtitle              : navagrahamaNgalastotram 2 athavA navagrahamaNgalAShTakam 2 (bhAsvAnarkasamichcha raktakiraNasiMhAdhipaH kAshyapo)
% engtitle              : Navagraha Mangala Stotram or Mangalashtakam 2
% Category              : navagraha, nava, mangala, aShTaka
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : This has 9 verses but is mistakenly called aShTakam as well
% Latest update         : October 11, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org