पुराणोक्तनवग्रहमन्त्रजपप्रयोगः
सूर्यः - ॐ ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसम्भूतां पीडां हरतु ते रविः ॥ १॥
चन्द्रः - ॐ रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसम्भूतां पीडां हरतु ते विधुः ॥ २॥
भौमः - ॐ भूमिपुत्रो महातेजा जगतां भयकृत्सदा ।
वृष्टिकृद् वृष्टिहर्ता च पीडां हरतु ते कुजः ॥ ३॥
बुधः - ॐ उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान् पीडां हरतु ते बुधः ॥ ४॥
बृहस्पतिः - ॐ देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां हरतु ते गुरुः ॥ ५॥
भृगुः - ॐ दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणाञ्च पीडां हरतु ते भृगुः ॥ ६॥
शनिः - ॐ सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां हरतु ते शनिः ॥ ७॥
राहुः - ॐ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु ते तमः ॥ ८॥
केतुः - ॐ अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे शिखी ॥ ९॥
मुन्था - मुन्थेश्वरस्य मन्त्र एव मुन्थाया मन्त्रः ॥ १०॥
रवेः सप्तसहस्राणि चन्द्रस्यैकादशैव तु ।
कुजे दशसहस्राणि बुधे चतुःसहस्रकम् ॥
एकोनविंशतिर्जीवे शुक्रे षोडश एव च ।
त्रयोविंशति मन्दस्य राहुरष्टादश स्मृतः ।
केतोः सप्तसहस्राणि इत्येते जपसङ्ख्यया ॥
इति पुराणोक्तनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः ।
Proofread by Paresh Panditrao