वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः

वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः

अथ वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः -

सूर्यः

अथ आदित्यमन्त्रः - ॐ आकृष्णेति मन्त्रस्य हिरण्यस्तूपाङ्गिरस ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता सूर्यप्रीत्यर्थे जपे विनियोगः ॥ अथ देहाङ्गन्यासः - आकृष्णेन शिरसि । रजसा ललाटे । वर्तमानो मुखे । निवेशयन् हृदये । अमृतं नाभौ । मर्त्यं च कट्याम् । हिरण्ययेन सविता ऊर्व्वोः । रथेना जान्वोः । देवो याति जङ्घयोः । भुवनानि पश्यन् पादयोः ॥ अथ करन्यासः - आकृष्णेन रजसा अङ्गुष्ठाभ्यां नमः । वर्तमानो निवेशयन् तर्जनीभ्यां नमः । अमृतं मर्त्यं च मध्यमाभ्यां नमः । हिरण्ययेन अनामिकाभ्यां नमः । सविता रथेना कनिष्ठिकाभ्यां नमः । देवो याति भुवनानि पश्यन् करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः - आकृष्णेन रजसा हृदयाय नमः । वर्तमानो निवेशयन् शिरसे स्वाहा । अमृतं मर्त्यं च शिखायै वषट् । हिरण्येन कवचाय हुँ । सविता रथेना नेत्रत्रयाय वौषट् । देवो याति भुवनानि पश्यन् अस्त्राय फट् । अथ ध्यानं - पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहनः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ सूर्यगायत्री - ॐ आदित्याय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ १॥ जपमन्त्रः - ॐ ह्राँ ह्रीं ह्रौं सः ॐ भूर्भुवः स्वः - ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॐ स्वः भुवः भूः ॐ सः ह्रौं ह्रीं ह्राँ ॐ सूर्याय नमः ॥ १॥ अस्य जपसङ्ख्या सप्तसहस्राणि ७०००, जपान्ते अर्कसमित्तिलपायसघृतैर्द्दशांशहोमः, तद्दशांशेन तर्पणं, तद्दशांशेन मार्जनं, तद्दशांशेन ब्राह्मणभोजनम् । अथ दानद्रव्याणि - माणिक्यगोधूमसवत्सधेनुः कौसुम्भवासो गुडहेम ताम्रम् । आरक्तकं चन्दनमम्बुजञ्च वदन्ति दानं हि प्रदीप्तधाम्ने ॥

चन्द्रः

अथ चन्द्रमन्त्रः - इमन्देवेतिमन्त्रस्य गौतम ऋषिः, सोमो देवता, विराट् छन्दः, सोमप्रीत्यर्थे जपे विनियोगः । अथ देहाङ्गन्यासः - इमं देवा शिरसि । असपत्नꣳ ललाटे । सुवध्वं नासिकायाम् । महते क्षत्राय मुखे । महते ज्येष्ट्याय हृदये । महते जानराज्याय उदरे । इन्द्रस्येन्द्रियाय नाभौ । इमममुष्य कट्याम् । पुत्रममुष्यै मेढ्रे । पुत्रमस्यै ऊर्वोः । विशऽएष वो जान्वोः । मीराजा जङ्घयोः । सोमोऽस्माकं गुल्फयोः । ब्राह्मणानाꣳ राजा पादयोः । अथ कर न्यासः - इमन्देवाऽअसपत्नꣳ सुवध्वं अङ्गुष्ठाभ्यां नमः । महते क्षत्राय महते ज्येष्ठ्याय तर्जनीभ्यां नमः । महते जानराज्यायेन्द्रस्येन्द्रियाय मध्यमाभ्यां नमः । इमममुष्य पुत्रममुष्यै पुत्रमस्यै अनामिकाभ्यां नमः । विशऽएष वो मीराजा कनिष्ठिकाभ्यां नमः । सोमोऽस्माकं ब्राह्मणानाꣳ राजा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - इमन्देवाऽअसपत्नꣳ सुवध्वं हृदयाय नमः । महते क्षत्राय महते ज्येष्ठ्याय शिरसे स्वाहा । महते जानराज्यायेन्द्रस्येन्द्रियाय शिखायै वषट् । इमममुष्य पुत्रममुष्यै पुत्रमस्यै कवचाय हुँ । विशऽएष वो मी राजा नेत्रत्रयाय वौषट् । सोमोऽस्माकं ब्राह्मणानाꣳ राजा अस्त्राय फट् । अथ ध्यानं - श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः । चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः ॥ १॥ चन्द्रगायत्री - ॐ अत्रिपुत्राय विद्महे सागरोद्भवाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ १॥ जपमन्त्रः - ॐ श्राँ श्रीं श्रौं सः ॐ भूर्भुवः स्वः ॐ इमन्देवाऽअसपत्नꣳ सुवध्वम्महते क्षत्राय महते ज्येष्ठ्याय महते जानराज्ज्यायेन्द्रस्येन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशऽएष वोऽमीराजा सोमोस्माकम्ब्राह्मणानाꣳ राजा । ॐ स्वः भुवः भूः ॐ सः श्रौं श्रीं श्राँ ॐ सोमाय नमः । जपसङ्ख्या एकादशसहस्राणि ११०००, जपान्ते पलाशसमित्तिलपायसघृतैर्दशांशहोमः, अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - सद्वंशपात्रस्थिततन्दुलाश्च कर्पूरमुक्ताफलशुभ्रवस्त्रम् । युगोपयुक्तं वृषभश्च रौप्यं चन्द्राय दद्याद् घृतपूर्णकुम्भम् ॥

भौमः

अथ भौममन्त्रः - अग्निर्मूद्धेति मन्त्रस्य विरूपाङ्गिरस ऋषिः, अग्निर्देवता, गायत्री छन्दः, भौमप्रीत्यर्थे जपे विनियोगः अथ देहाङ्गन्यासः - अग्निः शिरसि । मूर्द्धा ललाटे । दिवः मुखे । ककुत् हृदये । पतिः उदरे । पृथिव्या नाभौ । अयं कट्याम् । अपाꣳ जान्वोः । रेताꣳ सि गुल्फयोः । जिन्वति पादयोः । अथ करन्यासः - अग्निर्मूर्द्धा अङ्गुष्ठाभ्यां नमः । दिवः ककुत् तर्जनीभ्यां नमः । पतिः मध्यमाभ्यां नमः । पृथिव्या अयं अनामिकाभ्यां नमः । अपाꣳ रेताꣳ सि कनिष्ठिकाभ्यां नमः । जिन्वति करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - अग्निमूर्द्धा हृदयाय नमः । दिवः ककुत् शिरसे स्वाहा । पतिः शिखायै वषट् । पृथिव्या अयं कवचाय हुँ । अपाꣳ रेताꣳ सि नेत्रत्रयाय वौषट् । जिन्वति अस्त्राय फट् ॥ अथ ध्यानं - रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगतो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदायमस्मद्वरदः प्रसन्नः ॥ १॥ भौमगायत्री - ॐ क्षितिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् । जपमन्त्रः - ॐ क्राँ क्रीं क्रौं सः भूर्भुवः स्वः ॐ अग्निर्म्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । अपाꣳ रेताꣳ सि जिन्न्वति । ॐ स्वः भवः भूः ॐ सः क्रौं क्रीं क्राँ ॐ भौमाय नमः ॥ जपसङ्ख्या - दशसहस्राणि १०००० जपान्ते खदिरसमित्तिलपायसघृतैर्दशांशहोमः, अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - प्रवालगोधूममसूरिकाश्च वृषोऽरुणश्चापि गुडः सुवर्णम् । आरक्तवस्त्रं करवीरपुष्पं ताम्रं च भौमाय वदन्ति दानम् ॥

बुधः

अथ सौम्यमन्त्रः - उद्बुध्यस्वेति मन्त्रस्य परमेष्ठी प्रजापति ऋषिः त्रिष्टुप्छन्दः, बुधो देवता, बुधप्रीत्यर्थे जपे विनियोगः । अथ देहाङ्गन्यासः - उद्बुध्यस्वेति शिरसि । अग्ने प्रति ललाटे । जागृहि त्वं मुखे । इष्टापूर्ते हृदये । सꣳ सृजेथामयञ्च नाभौ । अस्मिन्त्सधस्थे कट्याम् । अद्ध्युत्तरस्मिन् ऊर्वोः । विश्वे देवा जान्वोः । यजमानश्च गल्फयोः । सीदत पादयोः ॥ अथ करन्यासः - उद्बुध्यस्वाग्ने प्रतिजागृहि त्वं अङ्गष्ठाभ्यां नमः । इष्टापूर्ते तर्जनीभ्यां नमः । सꣳ सृजेथामयं च मध्यमाभ्यां नमः । अस्मिन्त्सधस्थेऽद्ध्युत्तरस्मिन् अनामिकाभ्यां नमः । विश्वेदेवा यजमानश्च कनिष्ठिकाभ्यां नमः । सीदत करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - उद्बुध्यस्वाग्ने प्रतिजागृहि त्वं हृदयाय नमः । इष्टापूर्ते शिरसे स्वाहा । सꣳ सृजेथामयञ्च शिखायै वषट् । अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन् कवचाय हुँ । विश्वेदेवा यजमानश्च नेत्रत्रयाय वौषट् । सीदत अस्त्राभ्यां नमः । अथ ध्यानं - पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी । चर्मासिधृक् सोमसुतो गदाभृत् सिंहाधिरूढो वरदो बुधश्च ॥ १॥ बुधगायत्री - ॐ चन्द्रपुत्राय विद्महे रोहिणीप्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥ १॥ जप मन्त्रः - ॐ ब्राँ ब्रीं ब्रौं सः भूर्भुवः स्वः ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते सꣳ सृजेथामयञ्च अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्न्विश्वे देवा यजमानश्च सीदत ॥ ॐ स्वः भुवः भूः ॐ सः ब्रौं ब्रीं ब्राँ ॐ सौम्याय नमः । जपसङ्ख्या - चतुः सहस्राणि ४०००, जपान्ते अपामार्गसमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - चैलं च नीलं कलधौतकांस्यं मुद्राज्यगारुत्मतसर्वपुष्यम् । दासी च दन्तो द्विरदस्य नूनं वदन्ति दानं बिधुनन्दनाय ॥

बृहस्पतिः

अथ बृहस्पतिमन्त्रः - बृहस्पतेति मन्त्रस्य गृत्समद ऋषिः, अनुष्टुप्छन्दः, ब्रह्मा देवता, बृहस्पतिप्रीत्यर्थे जपे विनियोगाः अथ देहाङ्गन्यासः - बृहस्पते शिरसि । अतियदर्य्यो ललाटे । अर्हाद्युमत् मुखे । विभाति क्रतुमत् हृदये । जनेषु नाभौ । यद्दीदयत् कट्याम् । शवसऋतप्रजात ऊर्वोः । तदस्मासु द्रविणं जान्वोः । धेहि गुल्फयोः । चित्रं पादयोः । अथ करन्यासः - बृहस्पतेऽ अतियदर्य्यो अङ्गुष्ठाभ्यां नमः । अर्हाद्युमत् तर्जनीभ्यां नमः । विभाति क्रतुमत् मध्यमाभ्यां नमः । जनेषु अनामिकाभ्यां नमः । यद्दीदयच्छवसऋतप्रजाततदस्मासु कनिष्ठिकाभ्यां नमः । द्रविणं धेहि चित्रं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - बहस्पतेऽअतियदर्यो हृदयाय नमः । अर्हाद्युमत् शिरसे स्वाहा । विभाति क्रतुमत् शिखायै वषट् । जनेषु कवचाय हुँ । यद्दीदयच्छवसऋतप्रजाततदस्मासु नेत्रत्रयाय वौषट् । द्रविणं धेहि चित्रं अस्त्राय फट् ॥ अथ ध्यानं - पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः । तथाऽक्षसूत्रं च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यम् ॥ १॥ गुरुगायत्री - ॐ अङ्गिरोजाताय विद्महे वाचस्पतये धीमहि तन्नो गुरुः प्रचोदयात् ॥ १॥ जपमन्त्रः - ॐ ह्राँ ह्रीं ह्रौं सः भूर्भुवः स्वः ॐ बृहस्पतेऽअतियदर्य्योऽअर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवसऽऋत प्रजात तदस्मासु द्रविणन्धेहि चित्रम् । ॐ स्वः भवः भूः ॐ सः ह्रौं ह्रीं ह्राँ ॐ बृहस्पतये नमः । जपसङ्ख्या एकोनविंशतिसहस्राणि १९०००, जपान्ते अश्वत्थसमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - शर्करा च रजनीतुरङ्गमः पीतधान्यमपि पीतमम्बरम् । पुष्पराजलवणे च काञ्चनं प्रीतये सुरगुरोः प्रदीयताम् ॥

शुक्रः

अथ शुक्रमन्त्रः - अन्नात्परिस्रुतेति मन्त्रस्य प्रजापतिऋषिः, अनुष्टुप् छन्दः, शुक्रो देवता, शुक्रप्रीत्यर्थे जपे विनियोगः अथ देहाङ्गन्यासः - अन्नात्परिस्रुतः शिरसि । रसं ब्रह्मणा ललाटे । व्यपिबत्क्षत्रं मुखे । पयः सोमं हृदये । प्रजापतिः नाभौ । ऋतेन सत्यं कट्याम् । इन्द्रियं विपानꣳ गुदे । शुक्रं वृषणे । अन्धस ऊर्वोः इन्द्रस्येन्द्रियं जानुनोः । इदं पयः गुल्फयोः । अमृतं मधु पादयोः अथ करन्यासः - अन्नात्परिस्रुतो रसं अङ्गुष्ठाभ्यां नमः । ब्रह्मणा व्यपिबत्क्षत्रं तर्ज्जनीभ्यां नमः । पयः सोमम्प्रजापतिः मध्यमाभ्यां ऋतेन सत्यमिन्द्रियं अनामिकाभ्यां नमः । विपानर्ठं शुक्रमन्धस कनिष्ठिकाभ्यां नमः । इन्द्रस्येन्द्रियमिदम्पयोमृतं मधु करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - अन्नात्परिस्रुतो रसं हृदयाभ्यां नमः । ब्रह्मणा व्यपिबत्क्षत्रं शिरसे स्वाहा । पयः सोमं प्रजापति शिखायै वषट् । ऋतेन सत्यमिन्द्रियं कवचाय हुँ । विपानर्ठं शुक्रमन्धस नेत्रत्रयाय वौषट् । इन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु अस्त्राय फट् । अथ ध्यानं - श्वेताम्बरः श्वेतवपुः किरीटी चतुर्भुजो दैत्यगरुः प्रशान्तः । तथाऽक्षसूत्रञ्च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यम् ॥ १॥ भृगुगायत्री - ॐ भृगुवंशजाताय विद्महे श्वेतवाहनाय धीमहि तन्नः कविः प्रचोदयात् ॥ १॥ जपमन्त्रः - ॐ द्राँ द्रीं द्रौं सः भूर्भुवः स्वः ॐ अन्नात् परिस्रुतो रसम्ब्रह्मणा व्यपिबत्क्षत्रम्पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानर्ठं शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयो मृतम्मधु । ॐ स्वः भुवः भूः ॐ सः द्रौं द्रीं द्राँ ॐ शुक्राय नमः । जपसङ्ख्या षोडशसहस्राणि १६०००, जपान्ते औदुम्बरसमित्तिलपायसघृतैर्दशांशः होमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - चित्राम्बरं शुभ्रतुरङ्गमश्च धेनुश्च वज्रं रजतं सुवर्णम् । सुतण्डुलानुत्तमगन्धयुक्तान् वदन्ति दानं भृगुनन्दनाय ॥

शनिः

अथ शनिमन्त्रः - शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्रीछन्दः आपो देवता, शनिप्रीत्यर्थे जपे विनियोगः । अथ न्यासः - शन्नो शिरसि । देवीः ललाटे । अभिष्टय मुखे । आपो कण्ठे । भवन्तु हृदये । पीतये नाभौ । शं कट्याम् । योः ऊर्वोः । अभि जान्वोः । स्रवन्तु गुल्फयीः । नः पादयोः । अथ करन्यासः - शन्नो देवीः अङ्गुष्ठाभ्यां नमः । अभिष्टये तर्ज्जनीभ्यां नमः । आपो भवन्तु मध्यमाभ्यां नमः । पीतये अनामिकाभ्यां नमः । शंय्योरभि कनिष्ठिकाभ्यां नमः । स्रवन्तु नः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - शन्नो देवीः हृदयाय नमः । अभिष्टये शिरसे स्वाहा । आपो भवन्तु शिखायै वषट् । पीतये कवचाय हुँ । शन्थ्योरभि नेत्रत्रयाय वौषट् । स्रवन्तु नः अस्त्राय फट् ॥ अथ ध्यानं - नीलाम्बरः शूलधरः किरीटी गृघ्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदाऽस्तु मह्यं वरदोऽल्पगामी ॥ १॥ शनिगायत्री - ॐ कृण्णाङ्गाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ॥ १॥ जपमन्त्रः - खाँ खीं खौं सः ॐ भूर्भुवः स्वः ॐ शन्नो देवीरभिष्टय।आपो भवन्तु पीतये शंय्योरभिस्रवन्तु नः । ॐ स्वः भुवः भूः ॐ सः खौं खीं खाँ ॐ शनैश्चराय नमः ॥ जपसङ्ख्या त्रयोविंशतिसहस्राणि २३०००, जपान्ते शमीसमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - भाषांश्च तैलं विमलेन्द्रनीलं तिलाः कुलित्था महिषी च लोहम् । कृष्णा च धेनुः प्रवदन्ति नूनं दुष्टाय दानं रविनन्दनाय ॥

राहुः

अथ राहुमन्त्रः - कया नश्चित्रेति मन्त्रस्य वामदेव ऋषिः, गायत्री छन्दः, राहुर्देवताः, राहुप्रीत्यर्थे जपे विनियोगः ॥ अथ देहाङ्गन्यासः - कया शिरसि । न ललाटे । चित्र मुखे । आ कण्ठे । भुव हृदये । दूती नाभौ । सदा कट्याम् । वृधः मेढ्रे । सखा ऊर्व्वो । कया जान्वोः । शचिष्ठया गुल्फयोः । वृता पादयोः ॥ अथ करन्यासः - कया नः अङ्गुष्ठाभ्यां नमः । चित्र आ तर्ज्जनीभ्यां नमः । भुवदूती मध्यमाभ्यां नमः । सदावृधः सखा अनामिकाभ्यां नमः । कया कनिष्ठिकाभ्यां नमः ॥ शचिष्टया वृता करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः । कया नः हृदयाय नमः । चित्र आ शीरसे स्वाहा । भवदूती शिखायै वषट् । सदावृधः सखा कवचाय हुँ । कया नेत्रत्रयाय वौषट् । शचिष्ठया वृता अस्त्राय फट् ॥ अथ ध्यानं - नीलाम्बरो नीलवपुः किरीटी करालवक्त्रः करवाल शूली । चतुर्भुजश्चक्रधरश्च राहुः सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥ १॥ (सिंहासनस्थो) राहुगायत्री - नीलवर्णाय विद्महे सैहिकेयाय धीमहि तन्नो राहुः प्रचोदयात् ॥ १॥ जपमन्त्रः - ॐ भ्राँ भ्रीं भ्रौं सः ॐ भूर्भुवः स्वः ॐ कया नश्चित्र।आभुवदूती सदावृधः सखा । कया शचिष्ठया व्वृता ॐ स्वः भुवः भूः ॐ सः भ्रौं भ्रीं भ्राँ ॐ राहवे नमः । जपसङ्ख्या साष्टदशसहस्राणि १८०००, जपान्ते दुर्वासमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - गोमेदरत्नं च तुरङ्गमश्च सुनीलचैलामलकम्बलञ्च । तिलाश्च तैलं खलु लोहमिश्रं स्वर्भानवे दानमिदं प्रदेयम् ॥

केतुः

अथ केतुमन्त्रः - केतुं कृण्वन्निति मन्त्रस्य मधुच्छन्द ऋषिः, गायत्रीच्छन्दः, केतुर्देवता, केतुप्रीत्यर्थे जपे विनियोगः । अथ देहाङ्गन्यासः - केतुं शिरसि । कृण्वन् ललाटे । अकेतवे मुखे । पेशो हृदये । मर्या नाभौ । अपेशसे कट्याम् । सं ऊर्व्वो । उषद्भिः जान्वोः । अजायथाः पादयोः । अथ करन्यासः - केतुं कृण्वन् अङ्गुष्ठाभ्यां नमः । अकेतवे तर्ज्जनीभ्यां नमः । पेशोमर्या मध्यमाभ्यां नमः । अपेशसे अनामिकाभ्यां नमः । समुषद्भिः कनिष्ठिकाभ्यां नमः । अजायथाः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - केतुङ्कृण्वन् हृदयाय नमः । अकेतवे शिरसे स्वाहा । पेशोमर्या शिखायै वषट् । अपेशसे कवचाय हुँ । समुषद्भिः नेत्रत्रयाय वौषट् । अजायथाः अस्त्राय फट् ॥ अथ ध्यानं - धूम्रो द्विबाहुर्वरदो गदाधरो गृध्रासनस्थो विकृताननश्च । किरीटकेयूरविभूषितो यः सदाऽस्तु मे केतुगणः प्रशान्तः ॥ १॥ केतुगायत्री - अत्रवाय (धूम्राय ) विद्महे कपोतवाहनाय धीमहि तन्नः केतुः प्रचोदयात् । अथ जपमन्त्रः - ॐ प्राँ प्रीं प्रौं सः ॐ भूर्भुवः स्वः, ॐ केतुङ् कृण्वन्नकेतवे पेशो मर्य्याऽअपेशसे । समुषद्भिरजायथा । ॐ स्वः, भुवः, भूः, ॐ सः प्रौं प्रीं प्राँ ॐ केतवे नमः ॥ जपसङ्ख्या सप्तदशसहस्राणि १७०००, जपान्ते कुशसमित्तिलपायसघृतैर्दशांशहोमः, अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि - वैडूर्यरत्नं सतिलं च तैलं सुकम्बलं चापि मदो मृगस्य । शस्त्रं च केतोः परितोषहेतोश्छागस्य दानं कथितं मुनीन्द्रैः ॥ इति वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः । Encoded and proofread by Paresh Panditrao
% Text title            : Navagraha Mantra Japa PrayogaH Vedokta Sabija
% File name             : navagrahamantrajapaprayogaHvedoktasabIja.itx
% itxtitle              : navagrahamantrajapaprayogaH vedokta sabIja
% engtitle              : navagrahamantrajapaprayogaHvedoktasabIja
% Category              : navagraha, nava, veda, mantra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Paresh Panditrao
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan)
% Latest update         : October 14, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org