सूर्यस्तोत्रम् ४

सूर्यस्तोत्रम् ४

श्रीगणेशाय नमः ॥ ॐ सप्ताश्वं समारुह्यारुणसारथिमुत्तमम् । श्वेतपद्मधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ १॥ बन्धूकपुष्पसङ्काशं हारकुण्डलभूषणम् । एकचक्रधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ २॥ लोहितस्वर्णसङ्काशं सर्वलोकपितामहम् । सर्वव्याधिहरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ ३॥ त्वं देव ईश्वरः शक्रब्रह्मविष्णुमहेशराट् । परं धर्मं परं ज्ञानं त्वां सूर्यं प्रणमाम्यहम् ॥ ४॥ त्वं देवलोककर्ता च कीर्त्यात्मा करणांशकम् । तेजो रुद्रधरं दैवं त्वां सूर्यं प्रणमाम्यहम् ॥ ५॥ पृथिव्यप्तेजो वायुश्चात्माप्याकाशमेव च । सर्वज्ञं श्रीजगन्नाथं त्वां सूर्यं प्रणमाम्यहम् ॥ ६॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । गगनालिङ्गमाराध्यं त्वां सूर्यं प्रणमाम्यहम् ॥ ७॥ निर्मलं निर्विकल्पं च निर्विकारं निरामयम् ॥ जगत्कर्ता जगद्धर्तास्त्वां सूर्यं प्रणमाम्यहम् ॥ ८॥ सूर्यस्तोत्रं जपेन्नित्यं ग्रहपीडाविनाशनम् । धनं धान्यं मनोवाञ्छा श्रियः प्राप्नोति नित्यशः ॥ ९॥ शिवरात्रिसहस्रेषु कृत्वा जागरणं भवेत् । यत्फलं लभते सर्वं तद्वै सूर्यस्य दर्शनात् ॥ १०॥ एकादशीसहस्राणि सङ्क्रान्त्ययुतमेव च । सप्तकोडिसु दर्शेषु तत्फलं सूर्यदर्शनात् ॥ ११॥ अश्वमेधसहस्राणि वाजपेयशतानि च । कोटिकन्याप्रदानानि तत्फलं सूर्यदर्शनात् ॥ १२॥ गयापिण्डः परं दाने पितृणां च समुद्धरम् । दृष्ट्वा ह्यग्र्येश्वरं देवं तत्फलं समवाप्नुयात् ॥ १३॥ अग्र्येश्वरसमोपेतो सोमनाथस्तथैव च । कैदारमुदकं पीत्वा पुनर्जन्म न विद्यते ॥ १४॥ सूर्यस्तोत्रं पठेन्नित्यमेकचित्तः समाहितः । दुःखदारिद्र्यनिर्मुक्तः सूर्यलोकं स गच्छति ॥ १५॥ इति सूर्यस्तोत्रं सम्पूर्णम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : sUryastotram 4
% File name             : sUryastotram4.itx
% itxtitle              : sUryastotram 4
% engtitle              : sUryastotram 4
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Latest update         : February 20, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org