सूर्यस्तोत्रम् ४
श्रीगणेशाय नमः ॥
ॐ सप्ताश्वं समारुह्यारुणसारथिमुत्तमम् ।
श्वेतपद्मधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ १॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषणम् ।
एकचक्रधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ २॥
लोहितस्वर्णसङ्काशं सर्वलोकपितामहम् ।
सर्वव्याधिहरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥ ३॥
त्वं देव ईश्वरः शक्रब्रह्मविष्णुमहेशराट् ।
परं धर्मं परं ज्ञानं त्वां सूर्यं प्रणमाम्यहम् ॥ ४॥
त्वं देवलोककर्ता च कीर्त्यात्मा करणांशकम् ।
तेजो रुद्रधरं दैवं त्वां सूर्यं प्रणमाम्यहम् ॥ ५॥
पृथिव्यप्तेजो वायुश्चात्माप्याकाशमेव च ।
सर्वज्ञं श्रीजगन्नाथं त्वां सूर्यं प्रणमाम्यहम् ॥ ६॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
गगनालिङ्गमाराध्यं त्वां सूर्यं प्रणमाम्यहम् ॥ ७॥
निर्मलं निर्विकल्पं च निर्विकारं निरामयम् ॥
जगत्कर्ता जगद्धर्तास्त्वां सूर्यं प्रणमाम्यहम् ॥ ८॥
सूर्यस्तोत्रं जपेन्नित्यं ग्रहपीडाविनाशनम् ।
धनं धान्यं मनोवाञ्छा श्रियः प्राप्नोति नित्यशः ॥ ९॥
शिवरात्रिसहस्रेषु कृत्वा जागरणं भवेत् ।
यत्फलं लभते सर्वं तद्वै सूर्यस्य दर्शनात् ॥ १०॥
एकादशीसहस्राणि सङ्क्रान्त्ययुतमेव च ।
सप्तकोडिसु दर्शेषु तत्फलं सूर्यदर्शनात् ॥ ११॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कोटिकन्याप्रदानानि तत्फलं सूर्यदर्शनात् ॥ १२॥
गयापिण्डः परं दाने पितृणां च समुद्धरम् ।
दृष्ट्वा ह्यग्र्येश्वरं देवं तत्फलं समवाप्नुयात् ॥ १३॥
अग्र्येश्वरसमोपेतो सोमनाथस्तथैव च ।
कैदारमुदकं पीत्वा पुनर्जन्म न विद्यते ॥ १४॥
सूर्यस्तोत्रं पठेन्नित्यमेकचित्तः समाहितः ।
दुःखदारिद्र्यनिर्मुक्तः सूर्यलोकं स गच्छति ॥ १५॥
इति सूर्यस्तोत्रं सम्पूर्णम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com