बालबोधसङ्ग्रहः
विषयसूचिका ।
१ आध्यात्मविद्याप्रबोधप्रकारः ।
२ ज्ञानस्वरूपम्
३ साधनचतुष्टयम्
४ आत्मैक्यज्ञानविचारणा
५ पञ्चविंशति तत्त्वानि
६ अन्तःकरणचतुष्टयम्
७ अनिर्वचनीयो आत्मा
८ देशिकस्य करुणया ज्ञानप्राप्तिः
श्रीमच्छङ्करभगवत्पादचरणारविन्दाभ्यान्नमोनमः ॥
आध्यात्मविद्याप्रबोधप्रकारं व्याख्यास्यामः ।
आधिभौतिकाधिदैविकाध्यात्मिकादि तापत्रयाग्निसन्तप्तः
सकलसाधनोपेतः संसाराद्विरम्य शिष्यः सद्गुरुं शरणं
गत्वा साष्टाङ्गं प्रणिपत्य विज्ञप्तिं करोति ।
भो स्वामिन् ! मम संसारनिवृत्तिं कुरु ।
गुरुरुवाच -
अरे शिष्य तव संसारनिवृत्तिः ज्ञानेन भवितव्या ।
ज्ञानं च श्रवणमनननिदिध्यासनैः ब्रह्मसाक्षात्कारो भवति ।
शिष्य उवाच -
भो स्वामिन् श्रवणं नाम किम्? मननं नाम किम्? निदिध्यासनं नाम किम्?
गुरुरुवाच -
भो वत्स !श्रवणम् नाम वेदान्तवाक्यानामुपक्रमोपसंहारतात्पर्यलिङ्गानां
साधनचतुष्टययुक्तः सन् श्राव्यम् ।
मननं नाम श्रुतार्थस्य उपपत्त्यनुपपत्तिभ्यां युक्तिभिरालोचनं
मननम् । निदिध्यासनं नाम निश्चितार्थस्य तदेकनिष्ठत्वेन
संशयविपर्यय त्यागेन अवस्थानं निदिध्यासनम् । स एव
फलितसाक्षात्कारः । श्रुतिवाक्यं प्रमाणम् । भिद्यते
हृदयग्रन्थिः छिद्यते सर्व संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ [मुण्डक २:८]
शिष्यः -
भो स्वामिन् ! साधनचतुष्टयं नाम किम् ?
गुरुरुवाच -
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कम् ।
मुमुक्षुता च ।
नित्यमात्मस्वरूपं हि दृश्यन्तद्विपरीतकम् ।
एवं यो निश्चयः सम्यक् विवेकोऽस्य नरस्य वै ॥
जगत्सर्वमनित्यम् । ब्रह्मैव नित्यम् । इहामुत्रफलभोग विरागोनाम
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
तथैव काकविष्ठायाः वैराग्यं तद्धि निर्मलम् ॥
इहपरसुखविषयेषु वैराग्यं विरागः ।
शमादिषट्कं नाम शमोदमउपरतिस्तितिक्षा श्रद्धासमाधानम् ।
शमो नाम - सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
दमोनाम - निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ।
उपरतिर्नाम - विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
तितिक्षा नाम - सहनं सर्वदुःखानां तितिक्षा शुभामता ।
श्रद्धा नाम - निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
समाधानं नाम - चित्तैकाग्र्यं तु संलक्ष्ये समाधानमिति श्रुतम् ।
एतत् शमादिषट्कम्।
मुमुक्षुता - संसारबन्धनान्मुक्तिः कथं स्यान्मे कदा विधे ।
इति यासु दृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥
एवं साधनचतुष्टयसम्पन्नस्यैव ब्रह्मात्मैक्यज्ञाने अधिकारः ।
आत्मैकविज्ञानं विचारेण विना न जायते । विचारः कार्यः।
शिष्य उवाच -
विचारोनाम ?
गुरुरुवाच -
अहं कः ? इदं सर्वं कथं जातम् ? कुत्र वा लयं गच्छति ?
सदा सद्भिः विचारः कार्यः ।
शिष्य उवाच -
भो स्वामिन् ! अहं तु विचारं न जानामि सन्त कुत्र वा सन्ति ?
को वेद ? त्वमेव मां करुणाकटाक्षपोतेन संसारवारिधेः
पारं दर्शय त्वमेव मे गतिः ।
श्रीगुरुरुवाच -
भो वत्स ! मय्येव तव दृढा भक्तिश्चेत् शृणु ।
त्वं तु देहो न भवसि । अतः जडत्वात् दृश्यत्वात् दृश्यादन्यो
द्रष्टेति न्यायात् । अमङ्गलत्वाच्च । नित्यत्वाच्च ।
सविकारत्वाच्च जात एव देहस्त्वं न भवसि ।
त्वं तु चैतन्यमात्रम् ।
शिष्य उवाच -
भो स्वामिन् ! अहं देहो न भवामि चेत् देहस्य सुखदुःखं मां
बाधते । अत एव देह एवाहम् ।
गुरुरुवाच -
देहो जडः ।
शिष्य उवाच -
कथं जडः देहस्तावत् बाल्यमारभ्य नित्यं वर्धते जडस्य
वृद्धिर्न संभवति । एवमेव सर्वम् ।
गुरुरुवाच -
भो शिष्य ! देहतादात्म्येन तव सुखदुःखं प्रतिभाति ।
यथा धनादिकन्नष्टं चेत् दुःख भवति ।
तेनैव द्रव्यादिकं स्वयं भवति वा
सुखदुःखयोः कारणाभावेऽपीति ।
यथा लाभालाभे तादात्म्येन सुखदुःखे भासतः ।
तथैव देहतादात्म्येन सुखदुःखे प्रतिभासतः ॥
यथा द्रव्यादिभ्यः स्वयं भिन्नः तथैव देहात् स्वयं भिन्नः ।
जड त्वं च शृणु - देहो वर्धते इति कृत्वा देहो जडो न
भवतीति यद्वदसि तदसत् । जडस्यापि वृद्धिदर्शनात् ।
यथा वेदिका मृद्रूपा जडापि मृन्निक्षेपेण कुड्यादिरूपेण
वर्धते । किं तन्मात्रेण चैतन्यं भवति वा ।
तथैवान्नमयशरीरस्य पुनःपुनः अन्नं नित्यं निक्षेपेण
देहो वर्धते । अत एव जडः । अमङ्गळत्वाच्च ।
शृणु - जन्मकालपरामर्शे अमङ्गळं सिद्धमेव ।
तव देहः दृश्यत्वं कथमिति चेत् मम शरीरे
श्यामगौरवत्वादिना प्रतीयमाने कृश स्थूलत्वादिभिश्च
सिद्धमेव । त्वं तु द्रष्टा । अनित्यत्वं शृणु ।
बाल कौमाराद्यवस्थायुक्तत्वात् सविकारित्वम् ।
त्वं तु देहाद्यविकारः । नित्यश्च । योऽहं बाल्ये क्रीडासक्तः
यौवने विषयासक्तः वार्धक्ये चिन्तायुक्तः तावत्तावत्
सोऽहमित्यनुभवात् ताभिर्व्यवस्थाभिर्युक्तस्य नित्यत्वम् ।
तस्माद्देहो न भवसि । त्वं चिन्मात्रोऽसि साक्षी ।
शिष्य उवाच -
भो स्वामिन् ! तव प्रसादलेशात् देहो न भवामीति मम ज्ञानं
जातम् । तावता मम को लाभः ?
गुरुरुवाच -
यदा त्वं पञ्चीकृतपञ्चमहाभूत समभवस्थूलशरीरं न
भवसि तदा नामरूपजातिवर्णाश्रमादयस्तव न सन्ति ।
एतत् सर्वं स्थूल शरीरस्यैव ।
शिष्य उवाच -
भो स्वामिन् ! त्वत् प्रसादात् सत्यं त्वदाज्ञया अहं स्थूलदेहो
न भवामि । तत्सम्बन्धाः वर्णाश्रमदयः स्त्रीपुंनपुंसकादयः
श्यामगौरवत्वादि नामरूपादयः मम न सन्ति ।
अतः परमिन्द्रियाण्यहम् । इन्द्रियेषु सत्सु पश्यामि शृणोमि
स्पृशामि इत्याद्यनुभवाच्च इन्द्रियाण्यहमेव ।
गुरुरुवाच -
भो वत्स ! इन्द्रियाण्यपि जडानि त्वं न भवसि
पञ्चभूतकार्यत्वात् ।
शिष्यः -
भो स्वामिन् ! इन्द्रियाणि जडानि कथं भूतकार्याणि कथम् ?
गुरुरुवाच -
यो वत्स इन्द्रियाणि आत्मानं जानन्ति परमपि न जानन्ति यथा
प्रदीपवत् । भो श्रोत्र इदानीं त्वं अत्र तिष्ठसीत्युक्ते भो
स्वामिन् अत्र स्थास्यामीति वक्तुमसमर्थं एवं सर्वाणि करणानि
अत जडानि । भूतकार्यं कथमिति शृणु ।
श्रोत्रेन्द्रियमाकाशकार्यम् । आकाशाध्यात्मिक गुणशब्दग्रहणे
साधनम् । त्वगिन्द्रियं वायुकार्यम् ।
वाय्वाध्यात्मिकगुणस्पर्शग्रहणे साधनम् ।
चक्षुस्तेजः कार्यम् । तेज आध्यात्मिकगुणरूपग्रहणे साधनम् ।
रसनेन्द्रियमपां कार्यम् । जलाध्यात्मिकगुणरसग्रहणे साधनम् ।
एतानि ज्ञानेन्द्रियाणि । पञ्चभूतसत्त्वगुणादुत्पन्नानि ।
अथ कर्मेन्द्रियाणि शृणु ।
कर्मेन्द्रियाणि -
वाक् आकाशकार्यम् । आकाशाध्यात्मिकगुणशब्दो वदति ।
पाणीन्द्रियं वायुकार्यम् । वाय्वाध्यात्मिकगुणेन गृह्णाति ।
पादेन्द्रियं तेजः कार्यम् । तेज आध्यात्मिककार्यं गमनादिकं
करोति । गुह्येन्द्रियमपां कार्यम् । जलाध्यात्मिककार्यम् ।
मूत्ररेतोत्सर्गादिकं करोति । गुदेन्द्रियं पृथिवीकार्यम् ।
पृथिव्याध्यात्मिकगुणम् । पुरीषादिकं करोति ।
एवं कर्मेन्द्रियाणि पञ्चभूतरजोगुणेभ्यः उत्पन्नानि ।
पञ्चभूततमोगुणात् विषया उत्पन्नाः ।
शब्दस्पर्शरूपरसगन्धाः वचनादानगमन विसर्गानन्दाः ।
एतानि सर्वाणीन्द्रियाणि पञ्चभूताध्यात्मिक कार्याणि जडानि ।
स्वस्वदेवतानुग्रहेण स्वस्वविषयान् प्रति वर्तन्ते ।
शिष्यः -
कस्येन्द्रियस्य किं दैवतम् ?
गुरुरुवाच -
श्रोत्रेन्द्रियस्य दिगधिदैवतम् ।
त्वगिन्द्रियस्य वायुरधिदैवतम् ।
चक्षुरिन्द्रियस्य सूर्योऽधिदैवतम् ।
रसनेन्द्रियस्य वरुणोऽधिदैवतम् ।
घ्राणेन्द्रियस्याश्विनीदेवतावधिदैवतम् ।
वागिन्द्रियस्याग्निरधिदैवतम् ।
पाणीन्द्रियस्य इन्द्रोऽधिदैवतम् ।
पादेन्द्रियस्य विष्णुरधिदैवतम् ।
पाय्विन्द्रियस्य मृत्युरधिदैवतम् ।
गुह्येन्द्रियस्य प्रजापतिरधिदैवतम् ।
इन्द्रियाणामधिभूतं च शृणु -
श्रोत्रेन्द्रियस्य श्रोतव्यमधिभूतम् ।
नेत्रेन्द्रियस्य द्रष्टव्यमधिभूतम् ।
त्वगिन्द्रियस्य स्पर्शनोऽधिभूतम् ।
रसनेन्द्रियस्य रसग्रहणमधिभूतम् ।
घ्राणेन्द्रियस्य गन्धग्रहणमधिभूतम् ।
वागिन्द्रियस्य वक्तव्यमधिभूतम् ।
पाणिन्द्रियस्य दातव्यमधिभूतम् ।
पादेन्द्रियस्य गमनमधिभूतम् ।
पाय्विन्द्रियस्य विसर्जनमधिभूतम् ।
उपस्थेन्द्रियस्य उत्सर्जनमधिभूतम् ।
सर्वाणि करणानि स्वस्वदेवतानुग्रहणैव स्वस्वविषयान् जानन्ति ।
अत एव जडानि तानि त्वं न भवसि ।
शिष्य उवाच -
भो स्वामिन् ! सत्यम् इन्द्रियाणि जडानीति मम ज्ञानं जातम् ।
परं मन एवाहम् । स्वस्थे मनसि पश्यामि शृणोमि तदभावे
न पश्यामि न शृणोमि अत एव मन एवाहम् ।
गुरुरुवाच -
भो वत्स ! मनः कथं त्वं भवसि ? मे मनः इदानीं
समाधानतया तिष्ठतीत्यनुभवात् मनसोऽपि भिन्न एव त्वं
मनस्तव दृश्यम् । मनसस्त्वं दृष्ट्वा मनस्तवाधीनत्वाच्चात
एव मनो न भवसि । प्राणे पश्यामि शृणोमि प्राणाभावे न पश्यामि
न शृणोमि अत एव ।
शिष्य उवाच -
भो स्वामिन् ! सत्यं मनो न भवामि बुद्ध्या निश्चितेऽर्थे मनो
धावति । अत एव बुद्धिरेवाहम् । साप्यन्तःकरणवृत्तित्वात् ।
अत एव प्राण एव अहमस्मि ।
गुरुरुवाच -
भो वत्स ! प्राणस्त्वं न भवसि जडत्वात् ।
शिष्यः -
भो स्वामिन् ! प्राणो जडः कथम् ?
गुरुः -
शृणु रात्रौ प्रसुप्तस्य पुरुषस्य वस्तूनि चोरो गृहीत्वा
गच्छति तदानीं प्राणस्तिष्ठत्येव । कथं नावबुध्यते ।
अत एव जडः ।
शिष्यः -
भो स्वामिन् ! प्राणो जडश्चेत् जडशरीरं कथं चेष्टयति
जडस्य चेतनायोगात् ।
गुरुः -
शृणु जडस्यापि जडचालकत्वं लोके दृष्टमस्ति यथा
चण्डमारुतः गृहोपरिस्थिततृणादीन् नभसि भ्रामयित्वान्यत्र
पातयति । किन्तावता वायुश्चैतन्यं भवति वा । एवं
प्राणस्यापि देहचेष्टकत्वम् । अत एव प्राणोऽपि त्वं न भवसि ।
शिष्यः -
भो स्वामिन् ! त्वदाज्ञया एतत्सर्वमहं न भवामि ।
तावता मम को लाभः ?
गुरुः-
अरे शिष्य ! सावधानतया शृणु । एतत् सर्वं सप्तदशकं
लिङ्गशरीरं त्वं यदा न भवसि । तदानीं
देवतिर्यङ्मनुष्यादिजन्मादिकं नास्ति । यथा जानु भग्नपङ्गोरिव
गमनागमनं तव नास्त्येव ।
शिष्यः -
भो स्वामिन् ! त्वत्प्रसादादेव सत्यं परं च प्राणमनो बुद्धि
दशेन्द्रिय समन्वितम् । अपञ्चीकृत भूतोत्थं सूक्ष्माङ्गं
भोगसाधनम् । भो स्वामिन् ! एतत्सर्वं अहं न भवामि तर्हि
कोऽहमिति मामहं न जानामि । कृपया स्वामिना वक्तव्यम् ।
गुरुः -
भो शिष्य ! इदमेव तव कारणशरीरं कथम् ?
भो शिष्य अरे सर्वं जानासि स्वात्मानमेव न जानामीति वदसि ।
इदमेव तवाज्ञानं सर्वेषां स्थूलसूक्ष्म शरीराणां कारणत्वात्
कारणमित्याभिधीयते । इयमेवाविद्या संसारानर्थदायिनी ।
`` आब्रह्म ज्ञानैक निलया अस्या निवृत्तिरेव मुक्तिः ।
मुमुक्षिभिः प्रयत्नैः परिहर्तव्या । ''
शिष्यः -
भो स्वामिन् ! कथं परिहर्तव्या ?
गुरुः -
अरे शिष्य ! त्वमेव माऽहं न जानामीति वदसि । तर्हि त्वत्तोऽन्यः
कोऽपि वदति वा ? वक्ता श्रोता द्रष्टा त्वमेव ।
शिष्यः -
अस्मिन्नर्थे श्रुतिः प्रमाणं वर्तते वा ?
गुरुः -
अरे वत्स ! सर्वेषां वेदान्तानां अत्रैव श्रुतिवाक्यं प्रमाणम् ।
`` नान्यतोऽस्मि वक्ता नान्यतोऽस्मि श्रोता नान्यतोऽस्मि मन्ता
नान्यतोऽस्मि द्रष्टा चेति ''
येन वा पश्यति येन वा शृणोतीत्यादि प्रमाणानि बहूनि सन्ति ।
त्रिषु धामसु यत् भोज्यं भोक्ता भोगश्च यत् भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥
स्मृतिरपि - क्षेत्रज्ञं चापि मां विद्धि सर्वभूतस्तमात्मानमिति ।
पुराणं च -
सकल इदमहं च वासुदेवः परमः पुमान् परमेश्वरः स एकः ।
इति मतिरमला भवत्यन्ते हृदयगते व्रज तां विहाय दूरात् ।
एवं विज्ञानेन स्वात्मरामः सन् यस्तिष्ठति स ब्रह्म स शिवः
स हरिः सेन्द्रः सोऽक्षरः परमस्वराट् । ज्योतींषि विष्णुः
भुवनानि विष्णुः वनानि विष्णुः गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वम् । इदं त्वं नास्ति विप्रवर्य ।
एतादृशेनानुभवेन शिष्ययुक्तः सन् स्वानुभवस्थितिं दर्शयति ।
न हि बन्धपदं न हि मोक्षपदं न हि पापपदं न हि पदम् ।
न हि रिक्तपदं न हि पूर्णपदं किं रोदिषि मानस सर्वसमम् ।
अहो अहं नमो मह्यं दक्षो नास्तीति मत्समः ।
असंस्पर्शशरीरेण येन विश्वं चिरं धृतम् ।
मयि सुखबोधपयोधौ महति ब्रह्माण्ड बुदबुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ।
हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
हरिरहमस्मि हरोऽहं विधिरप्यहमस्मि कारणं तेषाम् ।
धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् ।
धार्मिकजनसुलभोऽहं धन्योऽस्मि धातुरादिभूतोऽहम् ॥
मन्योऽहमस्मि महतां मन्दमतीनां माननीयोऽहम् ।
मद मान राग मोहित मानस दुर्वासना दुरापोऽहम् ।
नाहं नमामि देवान् एते नमस्यन्ति च नित्यं माम् ।
मत्तः परतरो नास्ति चिन्मात्रोऽहं सदाशिवः ।
किमिदं किमस्य रूपं कथमिदमुदभूदमुष्य को हेतुः ।
इति न कदापि चिन्त्यम् ।
चिन्त्यं मायेति धीमता विश्वम् ।
गुरुणैव नावा प्राक्तनभाग्यानुकूलमारुतेन ॥
दुस्सहदुःखतरङ्गोत्तुङ्ग संसार सागरोत्तीर्णः ।
शरणं न हि मम जननी सुतो न सोदरश्चान्ये ॥
परमं शरणं इदं मे चरणं मम मूर्ध्नि देशिकन्यस्तम् ।
आस्ते देशिकचरणं निरवधिरास्ते मदीक्षणे करुणा ॥
आस्ते किमपि तदुक्तं किमितःपरमस्मि जन्मसाफल्यम् ॥
इदं ज्ञानं परं श्रेष्ठं सतां संमतमादरात् ।
यः शृणोति च मेधावी स मुक्तो नात्र संशयः ।
॥ इति श्रीपरमहंसपरिव्राजकाचार्य
श्रीमत् शङ्कराचार्यविरचितबालबोधसङ्ग्रहः समाप्तः ।
Encoded and proofread by Sunder Hattangadi