॥ मणिरत्नमाला ॥

अपार संसार समुद्र मध्ये निमज्जतो मे शरणं किमस्ति । गुरो कृपालो कृपया वदैत- द्विश्वेश पादाम्बुज दीर्घ नौका ॥ १॥ बद्धो हि को यो विषयानुरागी को वा विमुक्तो विषये विरक्तः । को वाऽस्ति घोरो नरकः स्वदेह- स्तृष्णाक्षयः स्वर्ग पदं किमस्ति ॥ २॥ संसार हृत्कस्तु निजात्म बोधः को मोक्ष हेतुः प्रथितः स एव । द्वारं किमेकं नरकस्य नारी का स्वर्गदा प्राणभृतामहिंसा ॥ ३॥ शेते सुखं कस्तु समाधिनिष्ठो जागर्ति को वा सदसद्विवेकी । के शत्रवः सन्ति निजेन्द्रियाणि तान्येव मित्राणि जितानि कानि ॥ ४॥ को वा दरिद्रो हि विशाल तृष्णः श्रीमांश्च को यस्य समस्ति तोषः । जीवन्मृतो कस्तु निरुद्यमो यः कोवाऽमृतः स्यात्सुखदा निराशा ॥ ५॥ पाशो हि को यो ममताभिधानः संमोहयत्येव सुरेव का स्त्री । को वा महान्धो मदनातुरो यो मृत्युश्च को वापयशः स्वकीयम् ॥ ६॥ को वा गुरुर्यो हि हितोपदेष्टा शिष्यस्तु को यो गुरु भक्त एव । को दीर्घ रोगो भव एव साधो किमौषधिं तस्य विचार एव ॥ ७॥ किं भूषणाद्भूषणमस्ति शीलं तीर्थं परं किं स्वमनो विशुद्धम् । किमत्र हेयं कनकं च कान्ता श्राव्यं सदा किं गुरुवेदवाक्यम् ॥ ८॥ के हेतवो ब्रह्म गतेस्तु सन्ति सत्सङ्गतिर्दान विचार तोषाः । के सन्ति सन्तोऽखिल वीतरागा अपास्त मोहाः शिव तत्त्व निष्ठाः ॥ ९॥ को वा ज्वरः प्राणभृतां हि चिन्ता मूर्खोऽस्ति को यस्तु विवेकहीनः । कार्या मया का शिव विष्णु भक्तिः किं जीवनं दोष विवर्जितं यत् ॥ १०॥ विद्या हि का ब्रह्म गति प्रदा या बोधो हि को यस्तु विमुक्ति हेतुः । को लाभ आत्मावगमो हि यो वै जितं जगत् केन मनो हि येन ॥ ११॥ शूरान्महा शूरतमोऽस्ति को वा मनोज बाणैर्व्यथितो न यस्तु । प्राज्ञोतिधीरश्च समोऽस्ति को वा प्राप्तो न मोहं ललना कटाक्षैः ॥ १२॥ विषाद्विषं किं विषयाः समस्ता दुःखी सदा को विषयानुरागी । धन्योऽस्ति को यस्तु परोपकारी कः पूजनीयो ननु तत्त्वनिष्ठः ॥ १३॥ सर्वास्ववस्थास्वपि किं न कार्यं किंवा विधेयं विदुषां प्रयत्नात् । स्नेहश्च पापं पठनं च धर्मः संसारमूलं हि किमस्ति चिन्ता ॥ १४॥ विज्ञान्महाविज्ञतमोऽस्ति को वा नार्या पिशाच्या न च वञ्चितो यः । का शृङ्खला प्राणभृतां च नारी दिव्यं व्रतं किं च निरस्त दैन्यम् ॥ १५॥ ज्ञातुं न शक्यं हि किमस्ति सर्वै- र्योषिन्मनो यच्चरितं तदीयम् । का दुस्त्यजा सर्वजनैर्दुराशा विद्याविहीनः पशुरस्ति को वा ॥ १६॥ वासो न सङ्गः सह कैर्विधेयो मूर्खैश्च नीचैश्च खलैश्च पापैः । मुमुक्षुणा किं त्वरितं विधेयं सत्सङ्गतिर्निर्ममतेश भक्तिः ॥ १७॥ लघुत्व मूलं च किमर्थितैव गुरुत्व बीजं पदयाचनं किम् । जातोऽस्ति को यस्य पुनर्न जन्म को वा मृतो यस्य पुनर्न मृत्युः ॥ १८॥ मूकोऽस्ति को वा बधिरश्च को वा वक्तुं न युक्तं समये समर्थः । तथ्यं सुपथ्यं न शृणोति वाक्यं विश्वासपात्रं न किमस्ति नारी ॥ १९॥ तत्त्वं किमेकं शिवमद्वितीयं किमुत्तमं सच्चरितं यदस्ति । किं कर्म कृत्वा न च शोचनीयः । कामारि कंसारि समर्चनाख्यम् ॥ २०॥ शत्रोर्महाशत्रु तमोऽस्ति को वा कामःसकोपानृत लोभतृष्णः । न पूर्यते को विषयैः स एव किं दुःखमूलं ममताभिधानम् ॥ २१॥ किं मण्डनं साक्षरता मुखस्य सत्यं च किं भूतहितं तदेव । त्यक्त्वा सुखं किं स्त्रियमेव सम्यक् देयं परं किं त्वभयं सदैव ॥ २२॥ कस्यास्ति नाशे मनसो हि मोक्षः क्व सर्वथा नास्ति भयं विमुक्तौ । शल्यं परं किं निज मूर्खतैव के के ह्युपोस्या गुरुवश्च वृद्धाः ॥ २३॥ उपस्थिते प्राण हरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् । वाक्कायचित्तैः सुखदं यमघ्नं मुरारि पादाम्बुजमेव चिन्त्यम् ॥ २४॥ के दस्यवः सन्ति कुवासनाख्याः कः शोभते यः सदसि प्रविद्यः । मातेव का या सुखदा सुविद्या किमेधते दान वशात्सुविद्या ॥ २५॥ कुतो हि भीतिः सततं विधेया लोकापवादाद्भव काननाच्च । को वास्ति बन्धुः पितरौ च कौ वा विपत्सहायः परिपालकौ यौ ॥ २६॥ बुद्ध्या न बोध्यं परिशिष्यते किं शिव प्रशान्तं सुख बोध रूपम् । ज्ञाते तु कस्मिन् विदितं जगत्स्या- त्सर्वात्मके ब्रह्मणि पूर्ण रूपे ॥ २७॥ किं दुर्लभं सद्गुरुरस्ति लोके सत्सङ्गतिर्ब्रह्म विचारणा च । त्यागो हि सर्वस्य निजात्म बोधः किं दुर्जयं सर्व जनैर्मनोजः ॥ २८॥ पशोः पशुः को न करोति धर्म प्राधीत शास्त्रोऽपि न चात्मबोधः । किं तद्विषं भाति सुधोपमं स्त्री के शत्रवो मित्रवदात्मजाद्याः ॥ २९॥ विद्युच्चलं किं धन यौवनायु- र्दानं परं किं च सुपात्र दत्तम् । कण्ठे गतेरप्यसुभिर्न कार्यं किंवा विधेयं मलिनं शिवार्चा ॥ ३०॥ किं कर्म यत्प्रीतिकरं मुरारेः क्वास्था न कार्या सततं भवाब्धौ । अहर्निशं किं परिचिन्तनीयं संसार मिथ्यात्व शिवात्म तत्त्वम् ॥ ३१॥ कण्ठं गता वा श्रवणं गता वा प्रश्नोत्तराख्या मणिरत्नमाला । तनोतु मोदं विदुषां प्रयत्नात् रमेश गौरीश पदौ सुसेव्यौ ॥ ३२॥ Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com Thirtytwo Catechetical Verses on Morals and Religion by Shankaracharya http://www.scribd.com/doc/101238331/Mani-Ratna-Mala

% Text title            : maniratnamala (aka Prashnottari-maniratnamala)
% File name             : maniratnamala.itx
% itxtitle              : maNiratnamAlA
% engtitle              : Maniratnamala
% Category              : stotra, shankarAchArya
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : stotra
% Author                : Attributed to Adi Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sunder hattangadi
% Proofread by          : sunder hattangadi
% Description-comments  : 32 verses on conduct conducive to liberation
% Source                : http://www.scribd.com/doc/101238331/Mani-Ratna-Mala  Mani Ratnamala. [Thirty-two Catechetical Verses on Morals : Religion. With  Literal Translation, Paraphrase and Metrical Version in Telugu, and English  Paraphrase by Nori Hanumachchhastri].  ShankarAchArya, Masulipatam, 1911  Code   1857 (Telugu). Prashnottari-maniratnamala
% Latest update         : Jan. 2, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP