॥ प्रबोधसुधाकरः ॥

प्रबोधसुधाकरस्य अनुक्रमणिका १ देहनिन्दाप्रकरणम् । २ विषयनिन्दाप्रकरणम् । ३ मनोनिन्दाप्रकरणम् । ४ विषयनिग्रहप्रकरणम् । ५ मनोनिग्रहप्रकरणम् । ६ वैराग्यप्रकरणम् । ७ आत्मसिद्धिप्रकरणम् । ८ मायासिद्धिप्रकरणम् । ९ लिङ्गदेहादिनिरूपणप्रकरणम् । १० अद्वैतप्रकरणम् । ११ कर्तृत्वभोक्तृत्वप्रकरणम् । १२ स्वप्रकाशताप्रकरणम् । १३ नादानुसन्धानप्रकरणम् । १४ मनोलयप्रकरणम् । १५ प्रबोधप्रकरणम् । १६ द्विधाभक्तिप्रकरणम् । १७ ध्यानविधिप्रकरणम् । १८ सगुणनिर्गुणयोरैक्यप्रकरणम् । १९ आनुग्रहिकप्रकरणम् ।
॥ १॥ देहनिन्दाप्रकरणम् । नित्यानन्दैकरसं सच्चिन्मात्रं स्वयंज्योतिः । पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १॥ यं वर्णयितुं साक्षाच्छृतिरपि मूकेव मौनमाचरति । सोऽस्माकं मनुजानां किं वाचां गोचरो भवति ॥ २॥ यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव । अध्यात्मशास्त्रसारैर्हरिचिन्तनकीर्तनाभ्यासैः ॥ ३॥ क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः । पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् ॥ ४॥ वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् । मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५॥ सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु । तत्राहन्ता देहे ममता भार्यादिविषयेषु ॥ ६॥ देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः । एवं विचार्यमाणेऽहन्ताममते निवर्तेते ॥ ७॥ स्त्रीपुंसोः संयोगात्सम्पाते शुक्रशोणितयोः । प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८॥ मातृगुरूदरदर्यां कफमूत्रपुरीषपूर्णायाम् । जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९॥ दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति । शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ॥ १०॥ अथवा यन्त्रच्छिद्राद्यद तु निःसार्यते प्रबलैः । प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११॥ आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्रैः । जन्मान्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२॥ नरपशुविहङ्गतिर्यग्योनीनां चतुरशीतिलक्षाणाम् । कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३॥ चरमस्तत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः । स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥ १४॥ आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् । एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या ॥ १५॥ आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि । तच्चेद्गच्छति सर्वं मृषा ततः काधिका हानिः ॥ १६॥ नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम् । स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७॥ सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः । हा कष्टं क्षुत्कामैः श्रान्तैर्नो शक्यते वक्तुम् ॥ १८॥ रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः । स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः ॥ १९॥ नासाग्राद्वदनादवा कफं मलं पायुतो विसृजन् । स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति ॥ २०॥ पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति । नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः ॥ २१॥ केशावधि नखराग्रादिदमन्तः पूतिगन्धसम्पूर्णम् । बहिरपि चागरुचन्दनकर्पूराद्यैर्विलेपयति ॥ २२॥ यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् । औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः ॥ २३॥ क्षतमुतन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् । तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसंकीर्णाः ॥ २४॥ यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे । सम्प्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥ २५॥ सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् । तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥ २६॥ एवंविधोऽतिमलिनो देहो यत्सत्तया चलति । तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन् ॥ २७॥ क्वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः । इति यो लज्जति धीमानितरशरीरं स किं मनुते ॥ २८॥
॥ २॥ विषयनिन्दाप्रकरणम् । मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या । दुरदृष्टवृष्टिविरसो देहो गेहं पतत्येव ॥ २९॥ भार्या रूपविहीना मनसः क्षोभाय जायते पुंसाम् । अत्यन्तं रूपाढ्या सा परपुरुषैर्वशीक्रियते ॥ ३०॥ यः कश्चित्परपुरुषो म्त्रं भृत्योऽथवा भिक्षुः । पश्यति हि साभिलाषं विलक्षणोदाररूपवतीम् ॥३१॥ यं कंचित्पुरुषवरं स्वभर्तुरतिसुन्दरं दृष्ट्वा । मृगयति किं न मृगाक्षी मनसेव परस्त्रियं पुरुषः ॥ ३२॥ एवं सुरूपनार्या भर्ता कोपात्प्रतिक्षणं क्षीणः । नो लभते सुखलेशं बलिमिव बलिभुग्बहुष्वेकः ॥ ३३॥ वनिता नितान्तमज्ञा स्वाज्ञामुल्लङ्घ्य वर्तते यदि सा । शत्रोरप्यधिकतरा परभिलाषिण्यसौ किमुत ॥ ३४॥ लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः । मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः ॥ ३५॥ सर्वेऽपि पुत्रभाजस्तन्मुक्तौ संसृतिर्भवति । श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥ ३६॥ तत्प्राप्त्युपायसत्त्वाद्द्वितीयपक्षेऽप्यपुत्रस्य । पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् ॥ ३७॥ नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्रः । उत्पन्नमात्रपुत्रे जीवितचिन्ता गरीयसी तस्य ॥ ३८॥ जीवन्नपि किं मूर्खः प्राज्ञः किं वा सुशीलभाग्भविता । जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः ॥ ३९॥ पितृमातृबन्धुघाती मनसः खेदाय जायते पुत्रः । चिन्तयति तातनिधनं पुत्रो द्रव्याद्यधीशताहेतोः ॥ ४०॥ सर्वगुणैरुपपन्नः पुत्रः कस्यापि कुत्रचिद्भवति । सोऽल्पायू रुग्णो वा ह्यनपत्यो वा तथापि खेदाय ॥ ४१॥ पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम् । इत्थं शरीरकष्टैर्दुःखं सम्प्रार्थ्यते मूढैः ॥ ४२॥ पितृमातृबन्धुभगिनीपितृव्यजामातृमुख्यानाम् । मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका ॥ ४३॥ दैवं यावद्विपुलं यावत्प्रचुरः परोपकारश्च । तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे ॥ ४४॥ अश्नन्ति चेदनुदिनं वन्दिन इव वर्णयन्ति संतृप्ताः । तच्चेद्द्वित्रदिनान्तरमभिनिन्दन्तः प्रकुप्यन्ति ॥ ४५॥ दुर्भरजठरनिमित्तं समुपार्जयितुं प्रवर्तते चित्तम् । लक्षावधि बहुवित्तं तथाप्यलभ्यं कपर्दिकामात्रम् ॥ ४६॥ लब्धश्चेदधिकोऽर्थः पत्न्यादीनां भवेत्स्वार्थः । नृपचौरतोऽप्यनर्थस्तस्मादृव्योद्यमो व्यर्थः ॥ ४७॥ अन्यायमर्थभाजं पश्यति भूपोऽध्वगामिनं चौरः । पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम् ॥ ४८॥ पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः । अश्वमतङ्गजहेतोः प्रतिक्षणं नाश्यते सोऽर्थः ॥ ४९॥ राज्यान्तराभिगमनाद्रणभङ्गान्मन्त्रिभृत्यदोषाद्वा । विषशस्त्रगुप्तघातान्मग्नाश्चिन्तार्णवे भूपाः ॥ ५०॥
॥ ३॥ मनोनिन्दाप्रकरणम् । हसति कदाचिद्रौति भ्रान्तं सद्दश दिशो भ्रमति । हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निन्दति स्तौति ॥ ५१॥ किमपि द्वेष्टि सरोषं ह्यात्मानं श्लाघते कदाचिदपि । चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् ॥ ५२॥ दम्भाभिमानलोभैः कामक्रोधोरुमत्सरैश्चेतः । आकृष्यते समन्ताच्छ्वभिरिव पतितास्थिवन्मार्गे ॥ ५३॥ तस्माच्छुद्धविरागो मनोऽभिलषितं त्यजेदर्थम् । तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति ॥ ५४॥
॥ ४॥ विषयनिग्रहप्रकरणम् । संसृतिपारावारे ह्यगाधविषयोदकेन सम्पूर्णे । नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति ॥ ५५॥ छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः । छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् ॥ ५६॥ छिद्राणां तु निरोधात्सुखेन पारं परं याति । तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥ ५७॥ पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते । ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५८॥ पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् । तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५९॥ अनृतं परापवादं रसना वदति प्रतिक्षणं तेन । परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ६०॥ विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति । विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये ॥ ६१॥ हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् । अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥ ६२॥ धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते । तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ॥६३॥ उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः । एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः ॥ ६४॥
॥ ५॥ मनिनिग्रहप्रकरणम् । स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण । सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥ ६५॥ एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः । न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥ ६६॥ वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् । ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्राम्भः ॥ ६७॥ तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् । तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥ ६८॥ यं विषयमपि लषित्वा धावति बाह्येन्द्रियद्वारा । तस्याप्राप्तौ खिद्यति तथा यथा स्वं गतं किंचित् ॥ ६९॥ नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः । यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति ॥ ७०॥ तुम्बीफ्लं जलान्तर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् । तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति ॥ ७१॥ इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् । शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२॥ चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् । वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३॥ निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् । न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥ ७४॥ अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः । बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५॥ सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य । शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥ ७६॥ प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् । हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥ ७७॥
॥ ६॥ वैराग्यप्रकरणम् । परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा । कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥ ७८॥ दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा । नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९॥ ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः । तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥ ८०॥ कुत्राप्यरण्यदेशे सुनीलतृणवालिकोपचिते । शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥ ८१॥ तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः । कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ ८२॥ वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य । अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥ ८३॥ द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे । स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं संत्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते ॥ ८४॥ विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट- न्संतापत्रयदीर्घदावदहनज्वालावलीव्याकुलः । वल्गन्फल्गुषु सुप्रदीप्तनयनश्चेतःकुरङ्गो बला- दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥ ८५॥
॥ ७॥ आत्मसिद्धिप्रकरणम् । उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् । स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥ ८६॥ यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्तत्र । तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम् ॥ ८७॥ त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र । शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥ ८८॥ अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत् । आत्मप्रतीतिरस्माद्गुडभक्षणजं सुखं यद्वत् ॥ ८९॥ रसगन्धरूपशब्दस्पर्शा अन्ये पदार्थाश्च । कस्मादनुभूयन्ते नो देहान्नेन्द्रियग्रामात् ॥ ९०॥ मृतदेहेन्द्रियवर्गो यतो न जानाति दाहजं दुःखम् । प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति ॥ ९१॥ मनसो यदि वा विषयस्तद्युगपत्किं न जानाति । तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता ॥ ९२॥ गाढध्वान्तगृहान्ततः क्षितितले दीपं निधायोज्ज्वलं पञ्चच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत् । तद्बाह्ये परितोऽनुरन्ध्रममलां वीणां च कस्तूरिकां सद्रत्नं व्यजनं न्यसेच्च कलशच्छिद्राध्वनिर्गच्छताम् ॥ ९३॥ तेजोंशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते तद्रन्ध्रैः कलशेन वा किमु मृदो भाण्डेन तैलेन वा । किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः ॥ ९४॥
॥ ८॥ मायासिद्धिप्रकरणम् । चिन्मत्रः परमात्मा ह्यपश्यदात्मानमात्मतया । अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम् ॥ ९५॥ द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै । तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् ॥ ९६॥ सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त । इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥ ९७॥ चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत् । परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥ ९८॥ सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः । सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥ ९९॥ माया तावददृश्या दृश्यं कार्यं कथं जनयेत् । तन्तुभिरदृश्यरूपैः पटोऽत्र दृश्यः कथं भवति ॥ १००॥ स्वप्ने सुरतानुभवाच्छुक्रद्रावोयथा शुभे वसने । अनृतं रतं प्रबोधे वसनोपहतिर्भवेत्सत्या ॥ १०१॥ स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा । शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥ १०२॥ एवमदृश्या माया तत्कार्यं जगदिदं दृश्यम् । माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति ॥ १०३॥ रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभवोऽस्याः । सौदामिनीव नश्यति मुनिभिः सम्प्रक्ष्यमाणैव ॥ १०४॥ माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता । चिदश्चिद्ग्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् ॥ १०५॥ घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति । तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः ॥ १०६॥ ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य । सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य ॥ १०७॥ दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः । न खलु दिनस्य दिनत्वं तैर्विकृतैः सान्द्रसंघातैः ॥ १०८॥ अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् । न परंतु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥ १०९॥
॥ ९॥ लिङ्गदेहादिनिरूपणप्रकरणम् । स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः । कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥ ११०॥ स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः । अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥ १११॥ सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव । षोडषमन्तःकरणं तत्संघातो हि लिङ्गतनुः ॥ ११२॥ तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् । तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात् ॥ ११३॥ तत्सारभूतबुद्धो यत्प्रतिफलितं तु शुद्धचैतन्यम् । जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ॥ ११४॥ चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं स्यात् । अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् ॥ ११५॥ नन्वर्कप्रतिबिम्बः सलिलादिषुयः स चावभासयति । किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥ ११६॥ प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु । तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥ ११७॥ चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः । नेत्रादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति ॥ ११८॥
॥ १०॥ अद्वैतप्रकरणम् । तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति । स इदं सर्वं च स्यात्तस्य हि देवाश्च नेशते भूत्या ॥ ११९॥ येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः । अहमन्योऽसावन्यश्चेत्थं यो वेद पशुवत्सः ॥ १२०॥ इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च । ज्ञानी त्वात्मैवेयं मतिर्ममेत्यत्र युक्तिरपि ॥ १२१॥ ऋजु वक्रं वा काष्ठं हुताशदग्धं सदग्नितां याति । तत्किं हस्तग्राह्यं ऋजुवक्राकारसत्त्वेऽपि ॥ १२२॥ एवं य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः । देहीव दृश्यतेऽसौ परं त्वसौ केवलो ह्यात्मा ॥ १२३॥ प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा । तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु ॥ १२४॥ दैवादेकशरावे भग्ने किं वा विलीयते सूर्यः । प्रतिबिम्बचञ्चलत्वादर्कः किं चञ्चलो भवति ॥ १२५॥ स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन । तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति ॥ १२६॥ येनोदकेन कदलीचम्पकजात्यादयः प्रवर्धन्ते । मूलकपलाण्डुलशुनास्तेनैवैते विभिन्नरसगन्धाः ॥ १२७॥ एको हि सूत्रधारः काष्ठप्रकृतीरनेकशो युगपत् । स्तम्भाग्रपट्टिकायां नर्तयतीह प्रगूढतया ॥ १२८॥ गुडखण्डशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः । केयूरकङ्कणाद्या यथैकहेम्नो भिदाश्च पृथक् ॥ १२९॥ एवं पृथक्स्वभावं पृथगाकारं पृथग्वृत्ति । जगदुच्चावचमुच्चैरेकेनैवात्मना चलति ॥ १३०॥ स्कन्धधृतसिद्धमन्नं यावन्नाश्नाति मार्गगस्तावत् । स्पर्शभयक्षुत्पीडे तस्मिन्भुक्ते न ते भवतः ॥ १३१॥ मानुषमतङ्गमहिषश्वसूकरादिष्वनुस्यूतम् । यः पश्यति जगदीशं स एव भुङ्क्तेऽद्वयानन्दम् ॥ १३२॥
॥ ११॥ कर्तृत्वभोक्तृत्वप्रकरणम् । यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते । तं न करोति विवस्वान्न कारयति तद्वदात्मापि ॥ १३३॥ लोहे हुतभुग्व्याप्ते लोहान्तरताड्यमानेऽपि । तस्यान्तर्गतवह्नेः किं स्यान्निर्घातजं दुःखम् ॥ १३४॥ निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि । अन्तर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् ॥ १३५॥ ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि ॥ १३६॥ निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति । ईरयति वारयति वा तं दीपः किं तथात्मापि ॥ १३७॥ गेहान्ते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा । दीपस्तुष्यत्यथवा खिद्यति किं तद्वदात्मापि ॥ १३८॥
॥ १२॥ स्वप्रकाशताप्रकरणम् । रविचन्द्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः । यद्यपि तथाप्यमीभिः प्रकाश्यते क्वापि नैवात्मा ॥ १३९॥ चक्षुर्द्वारैव स्यात्परात्मना भानमेतेषाम् । यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात् ॥ १४०॥ तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा । नो चेत्सत्यालोके पश्यत्यन्धः कथं नार्थान् ॥ १४१॥ सत्यात्मन्यपि किं नो ज्ञानं तच्चेन्द्रियान्तरेण स्यात् । अन्धे दृक्प्रतिबन्धे करसंबन्धे पदार्थभानं हि ॥ १४२॥ जानाति येन सर्वं केन च तं वा विजानीयात् । इत्युपनिषदामुक्तिर्बध्यत आत्मात्मना तस्मात् ॥ १४३॥
॥ १३॥ नादानुसन्धानप्रकरणम् । यावत्क्षणं क्षणार्धं स्वरूपपरिचिन्तनं क्रियते । तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः ॥ १४४॥ सिद्ध्यारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् । उपलक्षणं हि मनसः परमं नादानुसन्धनम् ॥ १४५॥ भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते । किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे ॥ १४६॥ चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम् । वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः ॥ १४७॥ नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् । तत्र मनो लीनं चेन्न पुनः संसारबन्धाय ॥ १४८॥ परमानन्दानुभवात्सुचिरं नादानुसन्धानात् । श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु ॥ १४९॥
॥ १४॥ मनोलयप्रकरणम् । संसारतापतप्तं नानायोनिभ्रमात्परिश्रान्तम् । लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि ॥ १५०॥ अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् । इति मन्थरतां यातं यदा तदा मूर्छितं चेतः ॥ १५१॥ चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः । सरिदिव सागरयाता समुद्रभावं प्रयात्युच्चैः ॥ १५२॥ आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् । क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह ॥ १५३॥ दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च भानमात्रं स्यात् । तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति ॥ १५४॥ याति स्वसंमुखत्वं दृङ्मात्रं वा यदा तदा भवति । दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति ॥ १५५॥ एकस्मिन्दृङ्मात्रे त्रेधा द्रष्ट्रादिकं हि समुदेति । त्रिविधे तस्मिँल्लीने दृङ्मात्रं शिष्यते पश्चात् ॥ १५६॥ दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति । आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा ॥ १५७॥
॥ १५॥ प्रबोधप्रकरणम् । माधुर्यं गुडपिण्डे यत्तत्तस्यांशकेऽणुमात्रेऽपि । एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति ॥ १५८॥ अथवा न भिन्नभावः कर्पूरामोदयोरेवम् । आत्मस्वरूपमनसां पुंसां जगदात्मतां याति ॥ १५९॥ यद्भावानुभवः स्यान्निद्रादौ जागरस्यान्ते । अन्तः स चेत्स्थिरः स्याल्लभते हि तदाद्वयानन्दम् ॥ १६०॥ अतिगम्भीरेऽपारे ज्ञानचिदानन्दसागरे स्फारे । कर्मसमीरणतरला जीवतरङ्गावलिः स्फुरति ॥ १६१॥ खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ । स्फुरति मृषैव समन्तादनेकविधजीवमृगतृष्णा ॥ १६२॥ अन्तरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति । दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ॥ १६३॥ बाह्याभ्यन्तरपूर्णः परमानन्दार्णवे निमग्नो यः । चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः । १६४॥ पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे हरौ संवित्स्फारसुधार्णवे विरहिते वीचीतरङ्गादिभिः । भास्वत्कोटिविकासितोज्ज्वलदिगाकाशप्रकाशे परे स्वानन्दैकरसे निमग्नमनसां न त्वं न चाहं जगत् ॥ १६५॥
॥ १६॥ द्विधाभक्तिप्रकरणम् । चित्ते सत्त्वोत्पत्तौ तटिदिव बोधोदयो भवति । तर्ह्येव स स्थिरः स्याद्यदि चित्तं शुद्धिमुपयाति ॥ १६६॥ शुद्ध्यति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते । वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥ १६७॥ यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे । प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥ १६८॥ जानन्तु तत्र बीजं हरिभक्त्या ज्ञानिनो ये स्युः । मूर्तं चैवामूर्तं द्वे एव ब्रह्मणो रूपे ॥ १६९॥ इत्युपनिषत्तयोर्वा द्वौ भक्तो भगवदुपदिष्टौ । क्लेशादक्लेशाद्वा मुक्तिः स्यादेतयोर्मध्ये ॥ १७०॥ स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा । प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥ १७१॥ स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् । विविधोपचारकरणैर्हरिदासैः संगमः शश्वत् ॥ १७२॥ कृश्णकथासंश्रवणे महोत्सवः सत्यवादश्च । परयुवतौ द्रविणे वा परापवादे पराङ्मुखता ॥ १७३॥ ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् । यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता ॥ १७४॥ एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना । समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥ १७५॥ स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ । मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् ॥ १७६॥ सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् । अद्रोहो भूतगणे ततस्तु भूतानुकम्पा स्यात् ॥ १७७॥ प्रमितयदृच्छालाभे सन्तुष्टिर्दारपुत्रादौ । ममताशून्यत्वमतो निरहंकारत्वमक्रोधः ॥ १७८॥ मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता । सुखदुःखशीतोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥ १७९॥ निद्राहारविहारेष्वनादरः सङ्गराहित्यम् । वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥ १८०॥ केनापि गीयमाने हरिगीते वेणुनादे वा । आनन्दाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः ॥ १८१॥ तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् । स्थिरतां याते तस्मिन्याति मदोन्मत्तदन्तिदशाम् ॥ १८२॥ जनुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः । एतादृशी दशा चेत्तदैव हरिदसवर्यः स्यात् ॥ १८३॥
॥ १७॥ ध्यानविधिप्रकरणम् । यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये । कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥ १८४॥ तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् । पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् ॥ १८५॥ आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् । मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥ १८५॥ वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलङ्कारान् । गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥ १८७॥ गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि । भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥ १८८॥ मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् । मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥ १८९॥ सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः । सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥ १९०॥ कंदर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् । त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते ॥ १९१॥ पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्त्वा । श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं भवति ॥ १९२॥ दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके । क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥ १९३॥
॥ १८॥ सगुणनिर्गुणयोरैक्यप्रकरणम् । श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम् । यत्प्रोक्तं गूढतया तदहं वक्ष्येऽतिविशदार्थम् ॥ १९४॥ भूतेष्वन्तर्यामी ज्ञानमयः सच्चिदानन्दः । प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥ १९५॥ ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासश्च । स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः ॥ १९६॥ इतरे दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे । भगवाननया दृष्ट्या न लक्ष्यते ज्ञानदृग्गम्यः ॥ १९७॥ यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान् । दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ ॥ १९८॥ साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्बिम्बम् । विश्वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥ १९९॥ यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः । सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः ॥ २००॥ एको भगवान्रेमे युगपद्गोपीष्वनेकासु । अथवा विदेहजनकश्रुतदेवभूदेवयोर्हरिर्युगपत् ॥ २०१॥ अथावा कृष्णाकारां स्वचमूं दुर्योधनोऽपश्यत् । तस्माद्व्यापक आत्मा भगवान्हरिरीश्वरः कृष्णः ॥ २०२॥ वक्षसि यदा जघान श्रीवत्सः श्रीपतेः स किं द्वेष्यः । भक्तानामसुराणामन्येषां वा फलं सदृशम् ॥ २०३॥ तस्मान्न कोऽपि शत्रुर्नो मित्रं नाप्युदासीनः । नृहरिः सन्मार्गस्थः सफलः शाखीव यदुनाथः ॥ २०४॥ लोहशलाकनिवहैः स्पर्शाश्मनि भिद्यमानेऽपि । स्वर्णत्वमेति लौहं द्वेषादपि विद्विषां तथा प्राप्तिः ॥ २०५॥ नन्वात्मनः सकाशादुत्पन्ना जीवसंततिश्चेयम् । जगतः प्रियतर आत्मा तत्प्रकृते नैव संभवति ॥ २०६॥ वत्साहरणावसरे पृथग्वयोरूपवासनाभूषान् । हरिरजमोहं कर्तुं सवत्सगोपान्विनिर्ममे स्वस्मात् ॥ २०७॥ अग्नेर्यथा स्फुलिङ्गाः क्षुद्रास्तु व्युच्चरन्तीति । श्रुत्यर्थं दर्शयितुं स्वतनोरतनोत्स जीवसंदोहम् ॥ २०८॥ यमुनातीरनिकुञ्जे कदाचिदपि वत्सकांश्च चारयति । कृष्णे तथार्यगोपेषु च वरगोष्ठेषु चारयत्स्वारात् ॥ २०९॥ वत्सं निरीक्ष्य दूराद्गावः स्नेहेन संभ्रान्ताः । तदभिमुखं धावन्त्यः प्रययुर्गोपैश्च दुर्वाराः ॥ २१०॥ प्रस्रवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान् । पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा ॥ २११॥ गोप अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय । इत्थमलौकिकलाभस्तेषां तत्र क्षणं ववृधे ॥ २१२॥ गोपा वत्साश्चान्या पूर्वं कृष्णात्मका ह्यभवन् । तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन ॥ २१३॥ प्रेयः पुत्राद्वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मात् । अन्तरतरं यदात्मेत्युपनिषदः सत्यताभिहिता ॥ २१४॥ नन्वुच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः । दुर्योधनेऽर्जुने वा तरतमभावं कथं नु गतवान्सः ॥ २१५॥ बधिरान्धपङ्गुमूका दीर्घाः खर्वाः सरूपाश्च । सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन ॥ २१६॥ भूतसमत्वं नृहरेः समो हि मशकेन नागेन । लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात् ॥ २१७॥ आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत् । नानाकैतवयत्नैः पररमणीभिः कथं रमते ॥ २१८॥ सुन्दरमभिनवरूपं कृष्णं दृष्ट्वा विमोहिता गोप्यः । तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः ॥ २१९॥ गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुञ्जानाः । कृष्णं विनान्यविषयं समक्षमपि जातु नाविन्दन् ॥ २२०॥ दुःसहविरहभ्रान्त्या स्वपतीन्ददृशुस्तरून्नरांश्च पशून् । हरिरयमिति सुप्रीताः सरभसमालिङ्गयांचक्रुः ॥ २२१॥ काऽपि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः । अपिबत्स्तनमिति साक्षाद्व्यासो नारायणः प्राह ॥ २२२॥ तस्मान्निजनिजदयितान्कृष्णाकारान्वृजस्त्रियो वीक्ष्य । स्वपरनृपतिपत्नीनामन्तर्यामी हरिः साक्षात् ॥ २२३॥ परमार्थतो विचारे गुडतन्मधुरत्वदृष्टान्तात् । नश्वरमपि नरदेहं परमात्माकारतां याति ॥ २२४॥ किं पुनरनन्तशक्तेर्लीलावपुरीश्वरस्येह । कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः ॥ २२५॥ मृद्भक्षणेन कुपिअतां विकसितवदनां स्वमातरं वक्त्रे । विश्वमदर्शयदखिलं किं पुनरथ विश्वरूपोऽसौ ॥ २२६॥
॥ १९॥ आनुग्रहिकप्रकरणम् । विषविषमस्तनयुगलं पाययितुं पूतना गृहं प्राप्ता । तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः ॥ २२७॥ अनयत्पृथुतरशकटं निजनिकटं वा कृतापराधमपि । कण्ठाश्लेषविशेषादवधीद्बाल्येऽसुरं कृष्णः ॥ २२८॥ यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ । रिङ्गन्नङ्गणभूमौ स्वमालयं प्रापयन्नृहरिः ॥ २२९॥ नित्यं त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी । काकः कोऽपि वराको बकोऽप्यशोकं गतो लोकम् ॥ २३०॥ गोगोपीगोपानां निकरमहि पीडयन्तमतिवेगात् । अनघमघासुरमकरोत्पृथुतरमुरगेश्वरं भगवान् ॥ २३१॥ पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः । दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिन्धुः ॥ २३२॥ पातु गोकुलमाकुलमशनितटिद्वर्षणैः कृष्णः । असहायएकहस्ते गोवर्धनमुद्दधारोच्चैः ॥ २३३॥ वासोलोभाकलितं धावद्रजकं शिलातलैर्हत्वा । विस्मृत्य तदपराधं विकुण्ठवासोऽर्पितस्तस्मै ॥ २३४॥ त्रेधा वक्रशरीरामतिलम्बोष्ठीं स्खलद्वपुर्वचनात् । स्रक्चन्दनपरितोषात्कुब्जामृज्वाननामकरोत् ॥ २३५॥ निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः । तुङ्गोन्मत्तमतङ्गः पतङ्गवद्दीपकस्याग्रे ॥ २३६॥ युद्धमिषात्सह रङ्गे श्रीरङ्गेनाङ्गसङ्गमं प्राप्य । मुस्श्टिकचाणूराख्यौ ययतुर्निःश्रेयसं सपदि ॥ २३७॥ देहकृतादपराधाद्वैकुण्ठोत्कण्ठितान्तरात्मानम् । यदुवरकुलावतंसः कंसं विध्वंसयामास ॥ २३८॥ हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै । भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम् ॥ २३९॥ मीनादिभिरवतारैर्निहताः सुरविद्विषो बहवः । नीतास्ते निजरूपं तत्र च मोक्षस्य का वार्ता ॥ २४०॥ ये यदुनन्दननिहतास्ते तु न भूयः पुनर्भवं प्रापुः । तस्मादवताराणामन्तर्यामी प्रवर्तकः कृष्णः ॥ २४१॥ ब्रह्माण्डानि बहूनि पङ्कजभवान्प्रत्यण्डमत्यद्भुतान् गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः । शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात् कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥ २४२॥ कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः सुता जह्नोः पूता चरणनखनिर्णेजनजलम् । प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥ २४३॥ मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि । कारुण्यैकाधिवासे सकृदपि वदनं नेक्षसे त्वं मदीयं तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शान्तिम् ॥ २४४॥ उदासीनः स्तब्धः सततमगुणः सङ्गरहितो भवांस्तातः कातः परमिह भवेज्जीवनगतिः । अकस्मादस्माकं यदि न कुरुते स्नेहमथ तत् वसस्व स्वीयान्तर्विमलजठरेऽस्मिन्पुनरपि ॥ २४५॥ लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां संकोचः पङ्कजानां किमिह समुदिते मण्डले चण्डरश्मेः । भोगः पूर्वार्जितानां भवति भुवि नृणां कर्मणां चेदवश्यं तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरूर्जितं निर्जितं ते ॥ २४६॥ नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता- मौत्कण्ठ्यप्रबलप्रभञ्जनभरैराकर्षितो वर्षति । विज्ञानामृतमद्भुतं निजवचो धाराभिरारादिदं चेतश्चातक चेन्न वाञ्छतिमृषाक्रान्तोऽसि सुप्तोऽसि किम् ॥ २४७॥ चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् । विश्रान्तिर्हितमप्यहो क्व नु त्वयोर्मध्ये तदालोच्यतां युक्त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम् ॥ २४८॥ पुत्रान्पौत्रमथस्त्रियोऽन्ययुवतीर्वित्तन्यथोऽन्यद्धनं भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया । नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥ २४९॥ काम्योपासनयार्थयन्त्यनुदिनं किंचित्फलं सेप्सितं किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः । अस्माकं यदुनन्दनाङ्घ्रियुगलध्यानावधानार्थिनां किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥ २५०॥ आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः । लोहमपि चुम्बकाश्मा संमुखमात्रं जडं यद्वत् ॥ २५१॥ अयमुत्तमोऽयमधमो जात्या रूपेण सम्पदा वयसा । श्लाघ्योऽश्लाघ्यो वेत्थं न वेत्ति भगवाननुग्रहावसरे ॥ २५२॥ अन्तःस्थभावभोक्ता ततोऽन्तरात्मा महामेघः । खदिरश्चम्पक इव वा प्रवर्षणं किं विचारयति ॥ २५३॥ यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते । भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥ २५४॥ सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् । केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥ २५५॥ यद्यपि गगनं शून्यं तथापि जलदामृतांश्रूपेण । चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥ २५६॥ तद्वद्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः । कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥ २५७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः समाप्तः ॥
Encoded by Sunder Hattangadi sunderh@hotmail.com

% Text title            : prabodha sudhAkara
% File name             : prabodha.itx
% itxtitle              : prabodhasudhAkaraH
% engtitle              : Prabodhasudhakara
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : pramukha
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Latest update         : August 25, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP