श्रीशङ्कराचार्यशतकम्
श्रीशिवदत्तशर्माचतुर्वेदः
साहित्यविभागाध्यक्षः
काशीहिन्दूविश्वविद्यालयस्य संस्कृतसङ्काये
शङ्करभगवत्पादं शिवाऽवतारं समाश्रये सुखदम् ।
कल्याणाय जनानां ज्ञानामृतवर्षिणं मेघम् ॥ १॥
मानवतेयं धन्या सञ्जाता यत्कृपालेशैः ।
आविर्भूतः प्रथमः स श्रीमान् शङ्कराचार्यः ॥ २॥
भूवलये धन्यतमः सर्वोऽयं कालटीभागः ।
यत्रत्यधूलिकणिका शङ्करपदसौरभं वहति ॥ ३॥
सा माता धन्यतमा यस्याः कुक्षौ समवतीर्णम् ।
निखिलागमस्वतन्त्रं सत्यं सच्चिन्मयं ज्योतिः ॥ ४॥
प्रणमामो गोविन्दं भगवन्तं सद्गुरुं नित्यम् ।
यस्य च शिक्षा फलिता जगद्गुरुत्वे स्वयंवृता काचित् ॥ ५॥
वन्दितदिव्यचरित्रः परमपवित्रः प्रभास्फुरद्गात्रः ।
भूतभविष्यन्मध्ये विभूतिरिव वर्तमानोऽयम् ॥ ६॥
ज्योतिः किञ्चन साक्षाद् भासितमासीत्तु भूवलये ।
यच्चाऽनन्तं कालं सम्यक् संस्तम्भयामास ॥ ७॥
कालोऽयं कलिरूपः सत्ययुगादपि समुन्नतो जातः ।
यस्मिन् शङ्करभगवत्पादैराविष्कृतिः क्लृप्ता ॥ ८॥
धन्या मानवतेयं सञ्जाता शङ्कराचार्यः ।
स्वयमवतीर्य समस्याः सर्वाः संसाधयामास ॥ ९॥
वेदानामथ मननं विधाय सद्यः समुन्नतं तत्त्वम् ।
व्याप्तं परमनिगूढं वैशद्येनाथ घोषयामास ॥ १०॥
उपनिषदां व्याख्यानं विहितवता धीमता येन ।
भाष्याणां सा सरणिः प्रणम्य भावं समानीता ॥ ११॥
तासामथ सर्वासामुपनिषदामुपरि भाष्यसंरचना ।
या विहिताऽऽचार्यवरैः सुधेव सा जीवनोन्नतये ॥ १२॥
तदनन्तरमुपनिषदां महत्त्वमग्रे परिस्फुरितम् ।
अद्वैततत्त्वमयता सर्वासां सुस्फुटा जाता ॥ १३॥
तदिदं किञ्चन तावद्विलक्षणं दिव्यताभरितम् ।
विज्ञानं विद्योतितमभवच्छ्रीशङ्कराचार्यैः ॥ १४॥
व्याख्या तावदियं सा गरीयसी शङ्कराचार्यैः ।
उपनिषदां या रचिता संसारे निधिरयं कश्चित् ॥ १५॥
पञ्चमवेदविवर्ते दिव्ये तस्मिन् महत्त्वसम्पूर्णे ।
गीता सङ्ग्रथिताऽऽसीन्महितमहाभारते ग्रन्थे ॥ १६॥
वेदव्यासविरचना सेयं क्रोडीचकार तत्सर्वम् ।
मानवजीवनमध्ये समुन्नतं यत् प्रकाम्यं वा ॥ १७॥
तत्र च गीता दिव्या श्रीकृष्णेनार्जुनाय सन्दिष्टा ।
शङ्करभगवत्पादव्याख्यानं संप्रतीक्षमाणाऽऽसीत् ॥ १८॥
तदुपरि भाष्यविरचना कृता समासीत्तु शङ्कराचार्यैः ।
तदवधि गीता गीता जाता सर्वासु जनतासु ॥ १९॥
अद्वैतस्य समुद्रं तरङ्गितं वा न पश्यन्तः ।
दिग्भ्रान्ता इव मूढा जन्मनि जन्मनि भजन्ति दुःखचयम् ॥ २०॥
अद्वैताख्यं तत्त्वं गीतायां गीतमेव कृष्णेन ।
तत्सन्देशं लब्ध्वा पार्थो विजयी बभूव सङ्ग्रामे ॥ २१॥
पार्थत्वं ननु जातिः काचन सर्वेषु देहेषु ।
काले काले स्वीयं रूपं सम्यक् प्रकाशयत्येव ॥ २२॥
अद्यापि सैव गीता श्रीकृष्णस्यैव मुखकमलसञ्जाता ।
सर्वविधं पार्थत्वं पदे पदे सन्दिशत्येव ॥ २३॥
सर्वमपीदं तत्त्वं गीताभाष्यस्य रचनायाम् ।
शङ्करभगवत्पादैः प्रकाशितं सर्वदा जयति ॥ २४॥
यद्यप्यासीद् गीता महति महाभारते विमला ।
किन्तु महत्त्वं तस्याः प्राथम्येन प्रकाशितं जातम् ॥ २५॥
तावत्प्रभृति समेषामाचार्याणां च विदुषां च ।
दृष्टौ गीता काचिद् विपुलज्ञाने गभीरनदी ॥ २६॥
यद्यपि शङ्करभगवत्पादैर्व्याख्यायिता गीता ।
तत्रैव पूर्वभाष्याणामपि सङ्केत उल्लसति ॥ २७॥
किन्तु न मिलितान्येतान्यद्यावधि भाष्यरूपाणि ।
शङ्करभगवत्पादैरारचितं भाष्यमेवाऽऽद्यम् ॥ २८॥
अग्रे तु प्रस्थानत्रयमध्ये सुप्रतिष्ठिता गीता ।
नानाव्याख्यानानां केन्द्रीभूतैव सञ्जाता ॥ २९॥
अद्वैतवादविमतैरप्याचार्यैर्मता गीता ।
सर्वा सम्परिपीता कर्ममये जीवने सर्वैः ॥ ३०॥
गीताऽमृतमिदमतुलं सूक्ष्मेक्षिकया विचारयन्वाचा ।
नूनं निखिलं तेजो सम्भृतवांस्तद् विचारेषु ॥ ३१॥
योऽयं मर्यादाया गरिमा कश्चित् समुच्छलति ।
सर्वोऽयं सन्देशः करुणापूर्णस्य शङ्कराचार्यस्य ॥ ३२॥
श्रीव्यासेन विरचितं दिव्यतमं ब्रह्मसूत्रं तत् ।
शारीरिकेण भाष्येणाऽसौ स्वच्छं प्रकल्पयामास ॥ ३३॥
वेदान्तडिण्डिमानां घोषश्चासीत् समुच्छलितः ।
वैचारिकसङ्घर्षाणामप्येषा विलक्षणा सरणिः ॥ ३४॥
उपनिषदामतिगहने ज्ञानवने सञ्चरन्नित्यम् ।
दिव्यफलानामन्वेषणमथ दानश्रीगुरुर्विदधे ॥ ३५॥
दर्शनसारैः सर्वैरोतप्रोतानि भिक्षुसूत्राणि ।
श्रोबादरायणकृतानि व्याख्या रत्नैविभूषयामास ॥ ३६॥
सर्वेषामथ तेषां तेषां विख्यातदर्शनानां वा ।
सुगभीराणि मतानि तु नूनं विश्लेषयामास ॥ ३७॥
ज्ञानस्याद्याकाशे नूतनसूर्यायितं येन ।
प्रातःस्मरणीयोऽसौ पुण्यश्लोकोऽस्ति शङ्कराचार्यः ॥ ३८॥
स्वयमेव श्रीव्यासश्छन्नतया यत्समीपमागत्य ।
शास्त्रार्थं च वितन्वन् स्वात्मानं तोषयामास ॥ ३९॥
विद्यारण्यविरचितं शङ्करदिग्विजयमालोच्य ।
शङ्करभगवत्पादे जातं विनयोज्ज्वलं चेतः ॥ ४०॥
इतिहासानां मध्ये विभूतिसारैर्विभूषितस्वान्तः ।
बुद्धादूर्ध्वं पुरुषो न दृष्टिपथगो विभात्यद्य ॥ ४१॥
विमता येन ध्वस्ता वैदिकमार्गाः प्रकाशिताः सम्यक् ।
सर्वो लोको नूनं नित्यं सच्छिष्यतां नीतः ॥ ४२॥
दिव्यं जगद्गुरुपदं स्वयमेवोपायनीकृत्य ।
भारतजनता तुष्टा मानवता चापि सम्पुष्टा ॥ ४३॥
पोषितचारित्रचित्रैर्विभूषितं वा चराचरञ्चैतत् ।
शङ्करभगवत्पादध्यानैरानन्दितं जातम् ॥ ४४॥
सर्वेषामपि तावद्देवानां चाऽथ देवीनाम् ।
दिव्याः स्तुतयो रचिता विनिर्मलैश्छन्दसां निचयैः ॥ ४५॥
सर्वेषामथ तेषां स्तुतिरूपश्च्छन्दसां महिमा ।
सत्यं सत्यमनन्तं सुखसंसारं समानयति ॥ ४६॥
सौन्दर्यलहरिकायाः प्रवाहमाला निमग्नानाम् ।
भक्तानां हृदयानां या भाषा साऽस्ति मन्त्रमयी ॥ ४७॥
भजगोविन्दस्तोत्रे जनजनमानसविराजिते दिव्ये ।
कल्याणानां करुणां धारां विस्तारयाञ्चक्रे ॥ ४८॥
वाराणसीनिवासे लीलानां दिव्यचित्राणि ।
सम्पश्यन् विचचार स्वच्छन्दं शङ्कराचार्यः ॥ ४९॥
श्रीविश्वनाथपूजनजगदम्बार्चननिवेदनेन विश्वेशम् ।
कोटीनपि तान्देवानावाहितवान् विभावना भरितः ॥ ५०॥
सर्वेषामथ तेषां देवानां तुष्टिमातन्वन् ।
गाङ्गं पयः पिबन्नथ विरजोरूपे विराजितो जातः ॥ ५१॥
नास्तिकतासिद्धान्तान् विवादमध्ये समाहुत्य ।
ज्ञानाऽग्निकुण्डमध्ये यज्ञे स्वाहाचकार विक्षिप्तान् ॥ ५२॥
बुद्धो योऽसौ जातोऽवताररूपस्तदुपदेशान् ।
धूर्ता विपरीततया काले विस्तारयामासुः ॥ ५३॥
आसीद् धूर्तैरेभिस्तादृशमाच्छादितं सर्वम् ।
ज्ञानस्य गगनमेतत् कालाऽऽवरणैर्यथा मेघैः ॥ ५४॥
वेदान्तपवनवेगैर्विच्छिन्ना बौद्धमेघा ये ।
भारतवर्षाऽऽकाशं विहाय दूरं प्रयातास्ते ॥ ५५॥
वाग्युद्धानि वितन्वन् बौद्धाचार्यैः सहैव सहसैव ।
तेषां पराजयानामितिहासे लेखनं चक्रे ॥ ५६॥
मीमांसकान् विवादे सम्यक् सच्छिष्यतां नीत्वा ।
नानाशास्त्रार्थानां जनतायां संप्रवर्तनं चक्रे ॥ ५७॥
आसेतुराहिमाचलमथाटकात् कटकपर्यन्तम् ।
पदभ्यां विचरन् नित्यं जनजनसन्दर्शनं चक्रे ॥ ५८॥
दिव्यानथ तान्देवान्दिक्कोणेषु प्रतिष्ठितानपि वा ।
सम्पूजयन्निकामं सन्तुष्टः शङ्करस्वामी ॥ ५९॥
यत्र हि जगाम जनता कोटिशतैः प्राप तं द्रष्टुम् ।
दर्शनवन्दनभाषणविनिमयरूपेण धन्यतां भेजे ॥ ६०॥
राजानो येऽप्यासंस्तस्मिन् कालेऽथ संसारे ।
वैभवमतुलं स्वीयं तच्चरणे प्रार्पयामासुः ॥ ६१॥
स्तोत्राणां या काचिद्दिव्या रचनावलिर्जयति ।
तस्या उद्भवसंस्था आचार्यस्तोत्रमालेयम् ॥ ६२॥
जीवेश्वरयोर्मिलने बिन्दुत्वं संप्रयातानि ।
स्तोत्राक्षराणि शाश्वतभावैर्नित्यं प्रपूर्णानि ॥ ६३॥
यत्राऽस्माकं श्रद्धाधाराऽसौ संप्रवहन्नास्ते ।
तत्रैव स्तुतिकाले चेतो नित्यं निबद्धत्तां याति ॥ ६४॥
अद्वैतदर्शनस्याऽऽविर्भावे यन्मनोलग्नम् ।
तेन कथं देवानां स्तोत्राणीमानि रचितानि ॥ ६५॥
द्वैते त्वेतत्सर्व स्तोत्रं प्रक्रम्यतां नाम ।
कथमद्वैते स्तोत्रं तत्र द्वैतत्वमायातम् ॥ ६६॥
सन्देहोऽयं तावदद्वैते नैव साधुतां याति ।
अज्ञाने तु द्वैताऽवस्थैवाऽत्रानुभूयमानाऽऽस्ते ॥ ६७॥
अज्ञानावस्थतो ज्ञानावस्थं मनो यथा भूयात् ।
तस्यार्थे सात्त्विकता सङ्गतिरावश्यकी कथिता ॥ ६८॥
अज्ञानावस्थायां द्वैते बुद्धौ प्रजातायाम् ।
अद्वैतभावनार्थं स्तोत्राणीमानि रचितानि ॥ ६९॥
अद्वैते तु तदेकं दृश्यं द्रष्टा च नो किञ्चित् ।
रूपं मृग्यं जातं केवलमेकं हि तत्त्वं तत् ॥ ७०॥
नूनं तस्या एवोच्चाया भूमेरवाप्त्यर्थम् ।
नानाजन्म गृहीतं नानारूपाणि चाप्तानि ॥ ७१॥
नाना-भाव-विलोपोऽपि च नानात्वेनैव सम्भाव्यः ।
एतत्तत्त्वं मत्वा स्तोत्राणां पद्धतिः सेयम् ॥ ७२॥
द्वैताऽवस्थास्थितिरप्येषा निर्मलतां यायात् ।
तस्मिन्नर्थे चैते देवा एवोपकुर्वन्ति ॥ ७३॥
अद्वैताऽवस्थायां यदा स्थितिर्जायते नाम ।
नूनं तदा न संस्तुतिरप्येषा चादृता भवति ॥ ७४॥
या साहित्ये सेवा विहिता श्रीशङ्कराचार्यैः ।
नैकशताब्दीं यावत्साऽद्याप्यायात्यविच्छिन्ना ॥ ७५॥
पुनः समाजदृष्टिर्याता श्रीशङ्कराचार्याणाम् ।
वैदिकमार्गविलोपस्तेषां क्षणमपि न सह्यतां यातः ॥ ७६॥
वैचारिकसङ्घर्षे बौद्धान् सम्यक् पराजित्य ।
वैदिकविश्वासानां दीप्तिः स्थानं परं लेभे ॥ ७७॥
आस्तिकताया घोषो नूनं तैरेव तादृशो विहितः ।
भूमण्डलमिदमखिलं दिव्यैर्भावैर्विमण्डितं येन ॥ ७८॥
नानावतारचर्चा परमेश्वररूपचित्रेषु ।
जनतायां हृन्मन्दिरमध्यस्थेयं पुनर्जाता ॥ ७९॥
वर्णाश्रममर्यादा देशे संस्थापिता जाता ।
शान्तिः काऽप्यवतीर्णा समृद्धिमयता समायाता ॥ ८०॥
वैराग्याविष्कारे नूनं तैर्यन्मनो दत्तम् ।
संन्यासाश्रमधारा नवावतारा स्थितिं प्राप ॥ ८१॥
दशनाम्नां संन्यासाश्रमनिष्ठानां विभूतिरूपाणाम् ।
आविर्भावे जाते लोको वैराग्यमापेदे ॥ ८२॥
वैराग्यमयी धारा नतमां साधारणी काचित् ।
नैवेयं सङ्घर्षात्पलायने कापि सरणिः स्यात् ॥ ८३॥
जीवनसफलीकरणे वैराग्यस्यैव धारेयम् ।
पूर्णतमं स्वाराज्यं जीवनमध्ये समादिशति ॥ ८४॥
सर्वासां सिद्धीनां साम्राज्ये संस्थितो भूत्वा ।
दूरे संस्थित आसीन्मुक्तो मुक्तिप्रदाताऽयम् ॥ ८५॥
देशस्य चतुष्कोणे पीठानां स्थापनां कृत्वा ।
धार्मिकमर्यादानां परिपालनभावमातेने ॥ ८६॥
अद्यापि तेषु पीठेष्वासीनाः शङ्कराचार्याः ।
धार्मिकसद्भावानां प्रचारकार्येषु सज्जन्ते ॥ ८७॥
शङ्करभगवत्पादैर्या या सरणिः प्रवर्तिता दिव्या ।
सा सैवाऽद्य समस्ते देशे परिपाल्यते सकलैः ॥ ८८॥
सोऽयं भारतदेशोऽद्यत्वे तद्दिष्टमार्गाणाम् ।
अवलम्बनमथ कृत्वा जगद्गुरुत्वं वहन् जयति ॥ ८९॥
इतिहासे स्वर्णमये लिखितं कालेन करुणारम्यम् ।
नानाऽसङ्ख्यैश्चरितैस्तदिदं विभ्राजते ज्योतिः ॥ ९०॥
दर्शन-विचार-सरणौ शाङ्करसिद्धान्तमुज्झित्वा ।
कोऽपि विचारः कर्तुन्नतमामद्याऽस्ति शक्यसम्पादः ॥ ९१॥
स्तोत्राणां साहित्ये शङ्करवाक्यावलिः सेयम् ।
सन्तर्पयति नितान्तं मानसमद्यापि सहृदयावल्याः ॥ ९२॥
शङ्करचरितसमर्चनविधया नूनं महाकवयः ।
छन्दोवितानमसमं नूनं विस्तारयन्त्यद्य ॥ ९३॥
शास्त्रविचारावसरे शीर्षस्थः शङ्कराचार्यः ।
सर्वैरेवोद्ध्रियते नास्तिकहास्तिकपञ्चाननः सद्यः ॥ ९४॥
खण्डनमण्डनसरणिः काऽपि समायोज्यतां नाम ।
शङ्करभगवत्पादा नो विस्मरणीयतां यान्ति ॥ ९५॥
संन्यासैमण्डलानां सर्वस्वं शङ्कराचार्याः ।
संन्यासैनां समाजे श्रेष्ठत्वं सर्वसम्मतं चाऽस्ते ॥ ९६॥
ग्रन्थाऽगारे तावद् विलोक्यते ग्रन्थनिचयेषु ।
शाङ्करसिद्धान्तानां ग्रन्थानां सा महीयसी सङ्ख्या ९७॥
उत्तरदक्षिणभेदं विलोपयन्नूनमाचार्यः ।
दक्षिणदेशोत्पन्नश्चोत्तरदेशेषु बभ्राम ॥ ९८॥
जडजङ्गमजगतामथ सिद्धान्तेऽद्वैतमास्थाय ।
ननु देशकालभेदे का भाषा शङ्कराचार्ये ॥ ९९॥
गङ्गा-रेवामज्जनव्यत्यन्तेनादरेण संसाध्य ।
नूनं पूतचरित्रो नेताऽऽसीच्छङ्कराचार्यः ॥ १००॥
इति तावच्छीगिरिधरशर्मचतुर्वेदतनुजन्मा ।
शिवदत्तचतुर्वेदः शङ्करशतकं निवेदयति ॥ १०१॥
Encoded and proofread by Mandar Mali