स्वरूपानुसन्धानाष्टकम् विज्ञाननौका च

स्वरूपानुसन्धानाष्टकम् विज्ञाननौका च

तपोयज्ञदानादिभिः शुद्धबुद्धि- र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या । परित्यज्य सर्वं यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १॥ दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य मत्या विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निदिध्यास विद्वान्- परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २॥ यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेदहीनम् । अहम्ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३॥ यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४॥ निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५॥ यदानन्दलेशैः समानन्दि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम् । यदालोकने रूपमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६॥ अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं यदोङ्कारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७॥ यदानन्द सिन्धौ निमग्नः पुमान्स्या- दविद्याविलासः समस्तप्रपञ्चः । तदा नः स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८॥ स्वरूपानुसन्धानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः । श्रुणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ स्वरूपानुसन्धानाष्टकं सम्पूर्णम् ॥ Encoded and proofread by Sunder Hattangadi आभाति = shines आचार्यस्य = Teacher's आदराद् = with respect आदिभिः = and other deeds आलोकने = seeing आनन्द = bliss आप्नोति = obtains आत्म = soul अद्भुतं = wondrous अद्वैतम् = non-dual अहम् = I अज्ञानतो = by ignorance अनन्तं = infinite अनुसन्धान = communion अन्यत् = other अष्टकम् = 8 verses अस्मि = .. 1.. am अतीतं = transcending अत्र = here अत्य् = exceedingly अवस्था = state अविद्या = ignorance भाति = shines भावो = mood भगवत् = endowed with Lordly powers भक्ति = devotion भवेद् = becomes ब्रह्म = Spirit ब्रह्मनिष्ठं = devoted to Truth/Spirit बुद्धि = intellect बुद्ध्या = . discrimination च = and छङ्कर = Shankara चित्तो = heart दान = donation दयालुं = compassionate एकगम्यं = aiming for the One एकं = one alone एव = only एव = itself गम्यम् = . realising गोविन्द = Govinda गुरुं = Teacher हीनं = without हीनं = less इह = here इति = thus कृतौ = composed कृते = having done लेशैः = a fraction मनो = mind मनुष्यः = . human मत्या = mind मृत्यु = death नः = to us नेति = neti 'not this, not this' निदिध्यास = constant contemplation निमग्नः = steeped निमित्तं = occasion निराकारम् = formless निरस्त = given to penance निरीहं = desireless निर्विकल्पं = beyond thought निषेधे = negating नित्यं = eternal नृपादेः = kings and others ओङ्कार = OM पदे = feet परं = supreme परमहंस = supremely discriminating परिच्छेद = separation परित्यज्य = giving up परिव्राजक = itinerant पठेद् = studies प्रबोधे = . enlightened प्रकाश = illumined प्रमाणात् = .. 9.. authority प्रपञ्चः = . manifest world प्रशान्तं = serene पुमान् = human पूज्य = worshipful पूर्णम् = . perfect रूपां = form सङ्ग = attachment सद्यो = immediately समाधि = deep absorption समानन्दि = blissful समाराध्य = tranquil समस्त = all समस्तं = everything सम्पूर्णम् = .. ends सर्वं = all सत्त्वे = in essence शिष्यस्य = disciples शिवं = auspicious श्री = glorious श्रुणोति = listens शुद्ध = pure सिन्धौ = ocean स्फुरत्य् = inspires स्थितानां = attained स्तुतिं = praise स्वरूप = one's essence स्वरूपम् = . one's essential nature स्याद् = if it be तद् = that तदा = then तपो = [tapaH] austerity तत् = that तत्त्वं = essence त्रय = three तुच्छ = trifling तुरीयं = the fourth state उद्युक्त = motivated उज्ज्वलं = bright वा = or वाग् = speech वाक्यैः = phrases वेद = Veda विभुं = glories विचार्य = asking विद्वान् = wise विलासः = play विमुक्तं = liberated विनष्टं = vanishing विरक्तः = dispassionate विष्णुर् = all pervading विशुद्धं = pure विश्वं = world वृत्त्या = mental attitude यः = who यज्ञ = sacrifice यन् = that यत् = that
% Text title            : svarupaanusandhaanaaShTaka
% File name             : svarupa-8.itx
% itxtitle              : svarUpAnusandhAnAShTakaM vijnAnanaukA cha (shaNkarAchAryavirachitam)
% engtitle              : Svarupanusandhanashtakam
% Category              : aShTaka, shankarAchArya, vedanta
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Author                : attributed to shaNkaraachaarya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Vedanta philosophy
% Indexextra            : (Sanskrit)
% Latest update         : March 22 2003
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org