॥ उपदेशसाहस्री ॥

गद्यबन्धः प्रथमो भागः शिष्यप्रतिबोधविधिप्रकरणम् । १ कूटस्थाद्वयात्मबोध प्रकरणम् । २ परिसंख्यानप्रकरणम् । ३ पद्यबन्धः द्वितीयो भागः उपोद्धातप्रकरणम् १ प्रतिषेधप्रकरणम् २ ईश्वरात्मप्रकरणम् ३ तत्त्वज्ञानस्वभावप्रकरणम् ४ बुद्ध्यपराधप्रकरणम् ५ विशेषपोहप्रकरणम् ६ बुद्ध्यारूढप्रकरणम् ७ मतिविलापनप्रकरणम् ८ सूक्ष्मताव्यापिताप्रकरणम् ९ दृशिस्वरूपपरमार्थदर्शनप्रकरणम् १० ईक्षितृत्वप्रकरणम् ११ प्रकाशप्रकरणम् १२ अचक्षुस्ष्ट्वप्रकरणम् १३ स्वप्नस्मृतिप्रकरणम् १४ नान्यदन्यत्प्रकरणम् १५ पार्थिवप्रकरणम् १६ सम्यङ्मतिप्रकरणम् १७ तत्त्वमसिप्रकरणम् १८ अथात्ममनःसंवादप्रकरणम् १९
गद्यबन्धः प्रथमो भागः । शिष्यप्रतिबोधविधिप्रकरणम् ॥ १॥ अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानामर्थिनामर्थाय ॥ १॥ तदिदं मोक्षसाधनं ज्ञानं साधनसाध्यादनित्यात्सर्वस्माद्विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंसपारिव्राजायशमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय ब्रूयात्पुनःपुनः यावद्ग्रहणं दृढीभवति ॥ २॥ श्रुतिश्च--- ' परीक्ष्य लोकान् ...तत्त्वतो ब्रह्मविद्याम् ' इति । दृढगृहीता हि विद्या आत्मनः श्रेयसे सन्तत्यै च भवति । विद्यासन्ततिश्च प्राण्यनुग्रहाय भवति नौरिव नदीं तितीर्षोः । शास्त्रं च---' यद्यपस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूयः ' इति । अन्यथा च ज्ञानप्राप्त्यभावात्---' आचार्यवान् पुरुषो वेद ' , ' आचार्याद्धैव विद्या विदिता ' , ' आचार्यः प्लवयिता ', ' सम्यग्ज्ञानं प्लव इहोच्यते ' इत्यादिश्रुतिभ्यः, ' उपदेक्ष्यन्ति ते ज्ञानं, ' इत्यादिस्मृतेश्च ॥ ३॥ शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर्बुद्ध्वा अग्रहणे हेतूनधर्मलौकिक-प्रमाद-नित्यानित्यविवेकविषया- संजातदृढपूर्वश्रुतत्वलोकचिन्तावेक्षण-जात्याद्यभिमानादीन् तत्प्रतिपक्षैः श्रुतिस्मृतिविहितैः अपनयेत , अक्रोधादिभिरहिंसादिभिश्च यमैः, ज्ञानविरुद्धैश्च नियमैः ॥ ४॥ अमानित्वादिगुणं च ज्ञानोपायं सम्यक् ग्राहयेत् ॥ ५॥ आचार्यस्तूहापोहग्रहणधारणशमदमदयानुग्रहादिसम्पन्नो लब्धागमो दृष्टादृष्टभोगेष्वनासक्तः त्यक्तसर्वकर्मसाधनो ब्रह्मविद्ब्रह्मणि स्थितोऽभिन्नवृत्तो दंभदर्पकुहकशाठ्यमायामात्सर्यानृताहङ्कारममत्वादिदोषवर्जितः केवलपरानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वमुपदिषेत्---' सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ', ' यत्र नान्यत्पश्यति ', ' आत्मैवेदं सर्वम् ', ' आत्मा वा इदमेक एवाग्र आसीत् ', ' सर्वं खल्विदं ब्रह्म ' इत्याद्याः आत्मैक्यप्रतिपादनपराः श्रुतीः ॥ ६॥ उपदिश्य च ग्राहयेद्ब्रह्मणो लक्षणम्---' य आत्माऽपहतपाप्मा ', ' यत्साक्षादपरोक्षाद्ब्रह्म ', ' योऽशनायापिपासे ', ' नेति नेति ', ' अस्थूलमनणु ', ' स एष नेति ', अदृष्टं द्रष्टृ ', ' विज्ञानमानन्दम् ', सत्यं ज्ञानमनन्तम् ', अदृश्येऽनात्म्ये ', ' सा वा एष महानज आत्मा ', अप्राणो ह्यमनाः ', ' सबाह्याभ्यन्तरो ह्यजः ', विज्ञानघन एव ', ' अनन्तरमबाह्यम् ', ' अन्यदेव तद्विदितादथो अविदितात् ', ' आकाशो वै नाम ' इत्यादिश्रुतिभिः ॥ ७॥ स्मृतिभिश्च---' न जायते म्रियते वा ', ' नादत्ते कस्यचित्पापम् ', ' यथाकाशस्थितोनित्यम् ', क्षेत्रज्ञं चापि मां विद्धि ', ' न सत्तन्नासदुच्यते ', ' अनादित्वान्निर्गुणत्वात् ', ' समं सर्वेषु भूतेषु ', ' उत्तमः पुरुषस्त्वन्यः ', इत्यादिभिः श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिपादनपराभिः तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश्च ॥ ८॥ एवं श्रुतिस्मृतिभिः गृहीतपरमात्मलक्षणं शिष्यं संसारसागरादुत्तितीर्षुं पृच्छेत्---कस्त्वमसि सोम्येति ॥ ९॥ स यदि ब्रूयात्---ब्राह्मणपुत्रः अदोन्वयः ब्रह्मचार्यासम्, गृहस्थो वा, इदानीमस्मि परमहंसपरिव्राट् संसारसागरात् जन्ममृत्युमहाग्राहात् उत्तितीर्षुरिति ॥ १०॥ आचार्यो ब्रूयात्---इहैव तव सोम्य मृतस्य शरीरं वयोभिरद्यते मृद्भावं वापद्यते, तत्र कथं संसारादुद्धर्तुमिच्छसीति । नहि नद्याः अवरे कूले भस्मीभूते नद्याः पारं तरिष्यसीति ॥ ११॥ स यदि ब्रूयात्---अन्योऽहं शरीरात् । शरीरं तु जायते, म्रियते, वयोभिरद्यते, शाखाग्न्यादिभिश्च विनाश्यते, व्याध्यादिभिश्च प्रयुज्यते । तस्मिन्नहं स्वकृतधर्माधर्मवशात् पक्षी नीडमिव प्रविष्टः पुनः पुनः शरीरविनाशे धर्माधर्मवशात् शरीरान्तरं यास्यामि, पूर्वनीडविनाशे पक्षीव नीडान्तरम् । एवमेवाहमनादौ संसारे देवमनुष्यतिर्यङ्निरयस्थानेषु स्वकर्मवशादुपात्तमुपात्तं शरीरं त्यजन्, नवं नवं च अन्यदुपाददानो, जन्ममरणप्रबन्धचक्रं घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्रमणात् अस्मान्निर्विण्णो भगवन्तमुपसन्नोऽस्मि संसारचक्रभ्रमणप्रशमाय । तस्मान्नित्य एवाहं शरीरादन्यः । शरीराणि आगच्छन्त्यपगच्छन्ति च वासांसीव पुरुषस्येति ॥ १२॥ आचार्यो ब्रूयात्---साध्ववादीः, सम्यक्पश्यसि । कथं मृषाऽवादीः ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचार्यासम्, गृहस्थो वा, इदानीमस्मि परमहंसपरिव्राडिति ॥१३॥ तं प्रति ब्रूयादाचार्यः---स यदि ब्रूयात् भगवन्, कथमहं मृषाऽवादिषमिति ॥ १४॥ यतस्त्वं भिन्नजात्यन्वयसंस्कारं शरीरं जात्यन्वयवर्जितस्यात्मनः प्रत्यभ्यज्ञासीः ब्राह्मणपुत्रोऽदोन्वय इत्यादिना वाक्येनेति ॥ १५॥ स यदि पृच्छेत् कथं भिन्नजात्यन्वयसंस्कारं शरीरं, कथं वा अहं जात्यन्वयसंस्कारवर्जित इति ॥ १६॥ आचार्यो ब्रूयात्---शृणु सोम्य यथेदं शरीरं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं, त्वं च जात्यन्वयसंस्कारवर्जितः, इत्युक्त्वा तं स्मारयेत्---स्मर्तुमर्हसि सोम्य, परमात्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितोऽसि ' सदेव सोम्येदम् ' इत्यादिभिः श्रुतिभिः स्मृतिभिश्च । लक्षणं च तस्य श्रुतिभिः स्मृतिभिश्च ॥ १७॥ लब्धपरमात्मलक्षणस्मृतये ब्रूयात्---योऽसावाकाशनामा नामरूपाभ्यामर्थान्तरभूतः अशरीरः अस्थूलादिलक्षणः अपहतपाप्मादिलक्षणश्च सर्वैः संसारधर्मैः अनागन्धितः ' यत्साक्षादपरोक्षाद्ब्रह्म ', ' य आत्मा सर्वान्तरः ,' अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता', नित्यविज्ञानस्वरूपः अनन्तरः अबाह्यः विज्ञानघन एव, परिपूर्णः आकाशवत्, अनन्तशक्तिः, आत्मा सर्वस्य, अशनायादिवर्जितः, आविर्भावतिरोभाववर्जितश्च, स्वात्मविलक्षणयोः नामरूपयोः जगद्भूतबीजयोः स्वात्मस्थयोः तत्त्वान्यत्वाभ्यामनिर्वचनीययोः स्वयंवेद्ययोः सद्भावमात्रेणाचिन्त्यशक्तित्वाद् व्याकर्ता अव्यकृतयोः ॥ १८॥ ते नामरूपे अव्याकृते सती व्याक्रियमाणे तस्मादेतस्मादात्मन आकाशनामाकृती संवृत्ते । तच्चाकाशाख्यं भूतमनेन प्रकारेण परमात्मनः सम्भूतं प्रसन्नादिव सलिलान्मलमिव फेनम् । न सलिलं न च सलिलादत्यन्तभिन्नं फेनम् । सलिलव्यतिरेकेणादर्शनात् । सलिलं तु स्वच्छं अन्यत् फेनान्मलरूपात् । एवं परमात्मा नामरूपाभ्यामन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नः तद्विलक्षणः । ते नामरूपे अव्याकृते सती व्याक्रियमाणे फेनस्थानीये आकाशनामाकृती संवृत्ते ॥ १९॥ ततोऽपि स्थूलभवमापद्यमाने नामरूपे व्याक्रियमाणे वायुभावमापद्येते, ततोऽप्यग्निभावं, अग्नेरब्भावं, ततः पृथ्वीभावं इत्येवंक्रमेण पूर्वपूर्वानुप्रवेशेन पञ्चमहाभूतानि पृथिव्यन्तान्युत्पन्नानि । ततः पञ्चमहाभूतगुणविशिष्टा पृथ्वी । पृथ्व्याश्च पञ्चात्मिक्यो व्रीहियवाद्या ओषधयो जायन्ते । ताभ्यो भक्षिताभ्यो लोहितं च शुक्रं च स्त्रीपुंसशरीरसंबन्धि जायते । तदुभयमृतुकाले अविद्याप्रयुक्तकामखजनिर्मथनोद्धृतं मन्त्रसंस्कृतं गर्भाशये निषिच्यते । तत्स्वयोनिरसानुप्रवेशेन विवर्धमानं गर्भीभूतं नवमे दशमे वा मासि सञ्जायते ॥ २०॥ तज्जातं लब्धनामाकृतिकं जातकर्मादिभिः मन्त्रसंस्कृतं पुनः उपनयनसंस्कारयोगेन ब्रह्मचारिसंज्ञं भवति । तदेव शरीरं पत्नीयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति । तदेव वनस्थसंस्कारेण तापससंज्ञं भवति । तदेव क्रियाविनिवृत्तिनिमित्तसंस्कारेण परिव्राट्संज्ञं भवति । इत्येवं त्वत्तो भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् ॥ २१॥ मनश्चेन्द्रियाणि च नामरूपात्मकान्येव ' अन्नमयं हि सोम्य मनः ' इत्यादिश्रुतिभ्यः ॥ २२॥ कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्येतच्छृणु । योऽसौ नामरूपयोर्व्याकर्ता नामरूपधर्मविलक्षणः स एव नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्मवर्जितो नामरूपे इह प्रविष्टः अन्यैरदृष्टः स्वयं पश्यन्, तथाऽश्रुतः श्रुण्वन्, अ- मतो मन्वानो, अविज्ञातो विजानन्---' सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते ' इति । अस्मिन्नर्थे श्रुतयः सहस्रशः ' तत्सृष्ट्वा तदेवानुप्राविशत् ', ' अन्तः प्रविष्टः शास्ता जनानाम् ', ' स एष इह प्रविष्टः ', ' एष त आत्मा ', ' स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ', ' एष सर्वेषु भूतेषु गूढोऽऽत्मा ', ' सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः ' इत्याद्याः ॥ २३॥ स्मृतयोऽपि ' आत्मैव देवताः सर्वाः ', ' नवद्वारे पुरे देही ', ' क्षेत्रज्ञं चापि मां विद्धि ', ' समः सर्वेषु भूतेषु ', ' उपद्रष्टानुमन्ता च ', ' उत्तमः पुरुषस्त्वन्यः ', अशरीरं शरीरेषु ' इत्याद्यः । तस्मात् जात्यन्व्ययसंस्कारवर्जिततस्त्वमिति सिद्धम् ॥ २४॥ स यदि ब्रूयात्---अन्य एवाहमज्ञः सुखी दुःखी बद्धः संसारी, अन्योऽसौ मद्विलक्षणः असंसारी देवः, तमहं बल्युपहारनमस्कारादिभिः वर्णाश्रमकर्मभिश्चाराध्य संसारसागरादुत्तितीर्षुरस्मि, कथमहं स एवेति ॥ २५॥ आचार्यो ब्रूयात्---नैवं सोम्य प्रतिपत्तुमर्हसि, प्रतिषिद्धत्वाद्भेदप्रतिपत्तेः । कथं प्रतिषिद्धा भेदप्रतिपत्तिरित्यत आह---' अन्योऽसावन्योऽहमस्मीति न स वेद ', ' ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ', मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' इत्येवमाद्याः ॥ २६॥ एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्शयन्ति ॥ २७॥ अभेदप्रतिपत्तेश्च मोक्षं दर्शयन्ति सहस्रशः---' स आत्मा तत्त्वमसि ' इति परमात्मभावं विधाय ' आचार्यवान् पुरुषो वेद ' इत्युक्त्वा ' तस्य तावदेव चिरम् ' इति मोक्षं दर्शयन्त्यभेदविज्ञानादेव । सत्याभिसन्धस्य अतस्करस्येव दाहाद्यभाववत् संसाराभावं दर्शयन्ति दृष्टान्तेन, भेददर्शनादसत्याभिसन्धस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादिदृष्टान्तेन ॥ २८॥ ' त इह व्याघ्रो वा ' इत्यादिना च अभेददर्शनात् ' स स्वराट् भवति ' इत्युक्त्वा तद्विपरीतेन भेददर्शनेन संसारगमनं दर्शयन्ति---' अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोक भवन्ति ' इति प्रतिशाखम् । तस्मात् मृषैवैवमवादीः---ब्राह्मणपुत्रोऽदोन्वयः संसारी परमात्मविलक्षण इति ॥ २९॥ तस्मात् प्रतिषिद्धत्वाद्भेददर्शनस्य, भेदविषयत्वाच्च कर्मोपादानस्य, कर्मसाधनत्वाच्च यज्ञोपवीतादेः कर्मसाधनोपादानस्य परमात्माभेदप्रतिपत्त्य प्रतिषेधः कृतो वेदितव्यः । कर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमात्माभेदप्रतिपत्तिविरुद्धत्वात् । संसारिणो हि कर्माणि विधीयन्ते तत्साधनानि च यज्ञोपवीतादीनि, न परमात्मनोऽभेददर्शिनः । भेददर्शनमात्रेण च ततोऽन्यत्वम् ॥ ३०॥ यदि कर्माणि कर्तव्यानि, न निवर्तयिषितानि, कर्मसाधनासम्बन्धिनः कर्मनिमित्तजात्याश्रमाद्यसम्बन्धिनश्च परमात्मनश्च आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् ' स आत्मा तत्त्वमसि ' इत्येवमादिभिर्निश्चितरूपैर्वाक्यैः, भेदप्रतिपत्तिनिन्दां च नाभ्यधास्यत् ' एष नित्यो महिमा ब्राह्मणस्य', ' अनन्वागतं पुण्येनानन्वागतं पापेन अत्र स्तेनोऽस्तेनः ' इत्यादिना ॥ ३१॥ कर्मासम्बन्धिस्वरूपत्वं कर्मनिमित्तवर्णाद्यसम्बन्धरूपतां च नाभ्यधास्यत्, कर्माणि च कर्मसाधनानि च यज्ञोपवीतादीनि यद्यपरितित्याजयिषितानि । तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा, परमात्माऽभेददर्शनविरोधात्, आत्मा च पर एवेति प्रतिपत्तव्यो यथाश्रुत्युक्तलक्षणः ॥ ३२॥ स यदि ब्रूयात्---भगवन्, दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदना, अशनायादिनिमित्तं च प्रत्यक्षं दुःखं मम । परश्चायमात्मा, 'अयमात्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघित्सोऽपिपासः सर्वगन्धरसवर्जितः ' इति श्रूयते सर्वश्रुतिषु स्मृतिषु च । कथं तद्विलक्षणः अनेकसंसारधर्मसंयुक्तः परमात्मानमात्मत्वेन च मां संसारिणं परमात्मत्वेन अग्निमिव शीतत्वेन प्रतिपद्येयम्? संसारी च सन् सर्वाभ्युदयनिःश्रेयससाधने अधिकृतः अभ्युदयनिःश्रेयससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीतादीनि कथं परित्यजेयमिति ॥ ३३॥ तं प्रति ब्रूयात्---यदवोचो दह्यमाने छिद्यमाने वा देहे प्रत्यक्षा वेदनोपलभ्यते ममेति तदसत् । कस्मात्? दह्यमाने छिद्यमान इव वृक्षे उपलब्धुरुपलभ्यमाने कर्मणि शरीरे दाहच्छेदवेदनाया उपलभ्यमानत्वात् दाहादिसमानाश्रयैव वेदना । यत्र हि दाहः छेदो वा क्रियते तत्रैव व्यपदिशति दाहादिवेदनां लोकः, न वेदनां दाहाद्युपलब्धरीति । कथं? क्व ते वेदनेति पृष्टः शिरसि मे वेदना उरसि उदरे इति वा यत्र दाहादिस्तत्रैव व्यपदिशति, न तूपलब्धरीति । यदुपलब्धरि वेदना स्यात्, वेदनानिमित्तं वा दाहच्छेदादि, वेदनाश्रयत्वेनोपदिशेद्दाहाद्याश्रयवत् ॥ ३४॥ स्वयं च नोपलभ्येत चक्षुर्गतरूपवत् । तस्मात् दाहच्छेदादिसमानाश्रयत्वेन उपलभ्यमानत्वाद्दाहादिवत् कर्मभूतैव वेदना । भावरूपत्वाच्च साश्रया तण्डुलपाकवत् । वेदनासमानाश्रय एव तत्संस्कारः । स्मृतिसमानकाल एवोपलभ्यमानत्वात् वेदनाविषयः । तन्निमित्तविषयश्च द्वेषोऽपि संस्कारसमानाश्रय एव । तथ चोक्तम्---' रूपसंस्कारतुल्याऽऽधी रागद्वेषौ भयं च यत् । गृह्यते धीश्रयं तस्माज्ज्ञाता शुद्धोऽभयः सदा ' ॥ ३५॥ किमाश्रयाः पुना रूपादिसंस्कारादय इति । उच्यते । यत्र कामादयः । क्व पुनस्ते कामादयः? ' कामः सङ्कल्पो विचिकित्सा ' इत्यादिश्रुतेः बुद्धावेव । तत्रैव रूपादिसंस्कारादयोऽपि, ' कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदये ' इति श्रुतेः । ' कामा येऽस्य हृदि श्रिताः', ' तीर्णो हि यदा सर्वान् शोकान् हृदयस्य', ' असङ्गो ह्ययम्', ' तद्वा अस्यैतदतिच्छन्दाः' इत्यादिश्रुतिभ्यः, ' अविकार्योऽयमुच्यते', ' अनादित्वान्निर्गुणत्वात्' इत्यादि इच्छाद्वेषादि च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति स्मृतिभ्यश्च कर्मस्थैवाशुद्धिः नात्मस्था इति ॥ ३६॥ अतो रूपादिसंस्काराद्यशुद्धिसम्बन्धाभावात् न परस्मादात्मनो विलक्षणस्त्वमिति प्रत्यक्षादिविरोधाभावात् युक्तं पर एवात्माऽहमिति प्रतिपत्तुम्---'तदात्मानमेवावेदहं ब्रह्मास्मि ', ' एकधैवानुद्रष्टव्यम् ', ' अहमेवाऽधस्तात् ', ' आत्मैवाऽधस्तात् ', ' सर्वमात्मानं पश्येत् ', ' स एषोऽकलः ', ' अनन्तरमबाह्यम् ', ' सबाह्याभ्यन्तरो ह्यजः ', ' ब्रह्मैवेदम् ', ' एतया द्वारा प्रापद्यत ', ' प्रज्ञानस्य नामधेयानि ', ' सत्यं ज्ञानमनन्तं ब्रह्म ', ' तस्माद्वा ', ' तत्सृष्ट्वा तदेवानुप्राविशत् ', ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी ', ' अशरीरं शरीरेषु ', ' न जायते म्रियते ', ' स्वप्नान्तं जागरितान्तम् ', ' स म आत्मेति विद्यात् ', ' यस्तु सर्वाणि भूतानि ', तदेजति तन्नैजति ', ' वेनस्तत्पश्यन् ', ' तदेवाग्निः ', ' अहं मधुरभवं सूर्यश्च ', ' अन्तः प्रविष्टः शास्ता जनानाम् ', ' सदेव सोम्य ', ' तत्सत्यं स आत्मा तत्त्वमसि ' इत्यादिश्रुतिभ्यः ॥ ३७॥ स्मृतिभ्यश्च---' पूः प्राणिनः सर्वगुहाशयस्य ', ' आत्मैव देवताः ', ' नवद्वारे पुरे ', ' समं सर्वेषु भूतेषु ', ' विद्याविनयसम्पन्ने ', ' अविभक्तं विभक्तेषु ', ' वासुदेवः सर्वम् ' इत्यादिभ्यः एक एवात्मा परं ब्रह्म सर्वसंसारधर्मविनिर्मुक्तस्त्वमिति सिद्धम् ॥३८॥ स यदि ब्रूयात्---यदि भगवन् ' अनन्तरोऽबाह्यः ' , ' सबाह्याभ्यन्तरो ह्यजः ', 'कृत्स्नः ', 'प्रज्ञानघन एव ' सैन्धवघनवदात्मा सर्वमूर्तिभेदवर्जितः आकाशवदेकरसः, तर्हि किमिदं दृश्यते श्रूयते वा साध्यं साधनं वा साधकश्चेति श्रुतिस्मृतिलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति ॥ ३९॥ आचार्यो ब्रूयात्---अविद्याकृतमेतद्यदिदं दृश्यते श्रूयते वा, परमार्थतस्त्वेक एवात्मा अविद्यादृष्टेः अनेकवत् आभसते, तिमिरदृष्ट्या अनेकचन्द्रवत् । ' यत्र वा अन्यदिव स्यात् ', ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ', ' मृत्योः स मृत्युमाप्नोति ', ' अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पं, अथ यदल्पं तन्मर्त्यमिति ', ' वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ', ' अन्योऽसावन्योऽहम् ' इति भेददर्शननिन्दोपपत्तेरविद्याकृतं द्वैतं ' एकमेवाद्वितीयम् ', ' यत्र त्वस्य ', ' तत्र को मोहः कः शोकः ' इत्याद्येकत्वविधिश्रुतिभ्यश्चेति ॥ ४०॥ यद्येवं भगवन्, किमर्थं श्रुत्या साध्यसाधनादिभेद उच्यते उत्पत्तिः प्रलयश्चेति ॥ ४१॥ अत्रोच्यते---अविद्यावत उपात्तशरीरादिभेदस्य इष्टानिष्टयोगिनमात्मानं मन्यमानस्य साधनैरेवेष्टानिष्टप्राप्तिपरिहारोपायविवेकमजानतः इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस्तद्विषयमज्ञानं निवर्तयितुं शास्त्रं न साध्यसाधनादिभेदं विधत्ते । अनिष्टरूपः संसारो हि स इति तद्भेददृष्टिमेवाविद्यां संसारमुन्मूलयति उत्पत्तिः प्रलयाद्येकत्वोपपत्तिप्रदर्शनेन ॥ ४२॥ अविद्यायामुन्मूलितायां श्रुतिस्मृतिन्यायेभ्यः ' अनन्तरमबाह्यम् ', ' सबाह्याभ्यन्तरो ह्यजः ', ' सैन्धवघनवत् ', ' प्रज्ञानघन एवैक आत्मा ', ' आकाशवत्परिपूर्णः ' इत्यत्रैव एका प्रज्ञाप्रतिष्ठा परमार्थदर्शिनो भवति, न साध्यसाधनोत्पत्तिप्रलयादिभेदेन अशुद्धिगन्धोऽप्युपपद्यते ॥ ४३॥ तच्चैतत् परमार्थदर्शनं प्रतिपत्तुमिच्छता वर्णाश्रमाद्यभिमानकृतपाङ्क्तरूपपुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् । सम्यक्प्रत्ययविरोधात्तदभिमानस्य भेददर्शनप्रतिषेधार्थोपपत्तिश्चोपपद्यते । नह्येकस्मिन्नात्मन्यसंसारित्वबुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर्भवति । नह्यग्नौ शीतत्वबुद्धिः शरीरे वा अजरामरणबुद्धिः । तस्मादविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां च यज्ञोपवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः ॥ ४४॥ ॥ ॐ तत् सत् ॥ Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com

% Text title            : upadesha saahasrii
% File name             : upadeshasaahasrii1.itx
% itxtitle              : upadeshasAhasrI gadyapadyabandhaH
% engtitle              : upadeshasAhasrI
% Category              : vedanta
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : advice
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Latest update         : August 25, 2002, July 2, 2011
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP