जातकपारिजातः
Edition
CHAUKHAMBHA SANSKRIT SANSTHAN
Publishers and Distributors of Oriental Cultural Literature
Varanasi (India)
श्री दैवज्ञ वैद्यनाथ
जातकपारिजातः
अथ राशिशिलाध्यायः ॥ १॥
अथ ग्रहनामस्वरूपगुणभेदाध्शाशः ॥ २॥
अथ वियोनिजन्माद्यध्यायः ॥ ३॥
अथारिष्टाध्यायः ॥ ४॥
अथ आयुर्दायाध्यायः ॥ ५॥
अथ जातकभङ्गाध्यायः ॥ ६॥
अथ राजयोगाध्यायः ॥ ७॥
अथ द्व्यादिग्रहयोगाध्यायः ॥ ८॥
अथ मान्द्यब्दादिफलाध्यायः ॥ ९॥
अथाष्टकवर्गाध्यायः ॥ १०॥
अथ प्रथमद्वितीयभावफलाध्यायः ॥ ११॥
अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२॥
अथ पङ्चमषष्ठभावफलाध्यायः ॥ १३॥
अथ सप्तमाष्टमनवमभावफलध्यायः ॥ १४॥
अथ दशमैकादशद्वादशभावफलाध्यायः ॥ १५॥
अथ स्त्रीजातकाध्यायः ॥ १६॥
अथ कालचक्रदशाध्यायः ॥ १७॥
अथ दशापहलाध्यायः ॥ १८॥
अथ ग्रन्थोपसंहारः ।
अथ राशिशिलाध्यायः ॥ १॥
श्रीकान्ताजशिवस्वरूपममरज्योतिर्गणस्वामिनं
मायातीतमशेषजीवजगतामीशं दिनेशं रविम् ।
नत्वा गर्गपराशरादिरचिंतम् सङ्गृह्य होराफलं
वक्ष्ये जातलपारिजातमखिलज्योतिर्विदां प्रीतये ॥ १॥
भारद्वाजकुलोद्भवस्य विदुषः श्रीज्यक्कटाद्रेरिह ।
ज्योतिःशास्त्रविशारदस्य तनयः श्रीवैद्यनाथा सुधीः ।
होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये ।
राशीश्थाननिरूपणादि सकलं वक्ष्ये यथाऽनुक्रमन् ॥ २॥
प्रणम्य वन्दारुजनाभिवन्द्यपदारविन्दं रधुनायकस्य ।
सङ्गृह्य सारावलिमुख्यतन्त्रं करोम्यहं जातकपारिजातम् ॥ ३॥
अथ राशीनां संज्ञविशेषाः ।
मेषाजः विश्वकृयतुम्बुराद्या वृषाभगाताबुरुगोकुलानि ।
द्वन्द्वं नृयुग्मां जितुमं यमं च युगं तृतीयं मिथुनं वदन्ति ॥ ४॥
कुलीरकर्कटककक्र्कटाख्याः कण्ठीरवः सिंहमृगेन्द्रलेयाः ।
पात्र्होनकन्यारमणीतरुण्यस्तौली वणिक्जूकतुलाघटाश्च ॥ ५॥
अल्यष्टमं वृश्चिककुर्पिकीटाः धन्वी धनुश्चापशराशनानि ।
मृगो मृगास्यो मकरश्च नक्रः कुम्भो घटस्तोयघराभिधानः ॥ ६॥
मीनान्त्यमत्स्यपृथुरोमभवा वदन्ति दस्त्रादिकर्क्षनवपादयुताः क्रियाद्याः ।
चक्रस्थिता दिविचरा दिननाथसंख्याः क्षेत्रर्क्षराशिभवनानि भसंज्ञितानि ॥ ७॥
कालात्मकस्य च शिरोमुखदेशवक्षोहृत्कृक्षिभागकटिबस्तिरहस्यदेशाः ।
उरू च जानुयुगलं परतस्तु जङ्गे पादद्वयं क्रियमुखावयवाः क्रमेण ॥ ८॥
अथ मीनादीनां स्वरूपवर्णनम् ।
ज्यत्यस्तोभयपुच्छमस्तकयुतौ मीनौ सकुम्भो नर-
स्थौली चापधरस्तुरङ्गजधनो नक्रो मृगास्थो भवेत् ।
वीणाढ्यं सगदं नृयुग्ममबला नौस्था ससस्यानला
शेषाः स्वस्वगुणाभिधानसदृशाः सर्वे स्वदेशाश्रयाः ॥ ९॥
अथ मेषादीनां स्थानवर्णनम् ।
मेषस्य धातुकररत्नधरातलं स्यात् उक्ष्णस्तु सातुकृषिगोकुलकाननानि ।
द्यूतकृयारतिविहारमही युगस्य वापीतटाकपुलिनानि कुलीरराशेः ॥ १०॥
कण्ट्ःईरवस्य धनशैलगुहावनानि षष्ठस्य शाद्वलवधूरतिशिल्पभूमिः ।
सर्वार्थसारपुरपण्यमही तुलायाः कीतस्य चाश्मविधकीटबिलप्रदेशाः ॥ ११॥
चापस्य वाजिरथवारणवासभूमिः एणाननस्य सरिदम्बुवनप्रदेशाः ।
कुम्भस्य तोयघटभाण्डगृहस्थलानि मीनाधिवाससरिदम्बुधितोयराशिः ॥ १२॥
अथ मेषादीनां स्वरूपविशेषादिवर्णनम् ।
ह्वस्वा गोऽजघटाः समा मृगयुक्चापान्त्यकर्कटकाः ।
दीर्घा वृश्किककन्यकाहरितुला मेषादिपुंयोषितौ ।
प्रागादिक्रियगोनृयुक्कटकभान्येतानि कोणान्विता-
न्याहुः क्रूरशुभौ चरस्थिरतरद्वन्द्वानि तानि क्रमात् ॥ १३॥
दीर्योपेता निशि वृषनृयुक्कर्किचापाजनक्राः
हित्वा युग्मं भवनमपरे पृष्टपूर्वोदयाश्च ।
शेषाः शीर्दीदयदिनबलाः श्रेष्ठता राशयस्ते
मीनाकारद्वयमुभयतः काललग्नं समेति ॥ १४॥
अथ मीनादीनां सलिलादिसंज्ञाविशेषाः ।
मीनालिकर्कटमृगाः सलिलाभिनास्तोयाश्रया घटवधुयुगगोपसंज्ञाः ।
निस्तोयभूतलचराः क्रियचापतौलिकण्ठीरवाश्च बहवः प्रवदन्ति सन्तः ॥ १५॥
अथ भावविशेषसम्बन्धाम्मेषादीनां चतुष्पदादिसज्ज्ञापूर्वक्ं बलित्वकथनम् ।
चापापरार्धहरिगोमकरादिमेषा मानस्थिता बलयुताश्च चतुष्पदाख्याः ।
कन्यानृयुग्मघटटाऊळीशारषाणड्य लग्नान्विता यदि नरा द्विपदा बलाढ्याः ॥ १६॥
मृगापरार्द्धान्त्यकुलीरसंज्ञा जलाभिधाना बलिनश्चतुर्थे ।
जलाश्रयो वृश्चिकनामधेयः स सप्तमस्थानगतो बली स्यात् ॥ १७॥
केन्द्रं गतोऽहि द्विपदो बलाढ्यः चतुष्पदाः केन्द्रगता रजन्याम् ।
कीटास्तु सर्वे यदि कण्टकस्थाः सन्धिद्वये वीर्ययुता भवन्ति ॥ १८॥
अथ राशीनां घातु-मूल जीवसज्ज्ञाः ।
घातुर्मूलं जीवमित्वाहुरार्या मेषादीनामोजयुग्मे तथैव ।
स्वर्णाद्वातुर्मृत्तिकान्तं तृणान्तं वृक्षान्मूलं जीवकूटः स जीवः ॥ १९॥
अथ मेषादीनां विप्रत्वादिनरूपणाम् ।
मीनालिवृषभा विप्राश्चापाजहरयो नृपाः ।
कुम्भयुग्मतुला वैश्याः शूद्राः स्त्रीमृगकर्कटाः ॥ २०॥
अथ मेषादीनां कालविशेषे अन्धत्वादिनिरूपणम् ।
सदा निशान्धाः क्रियगोमृगेशा मध्यन्दिने कर्कटयुग्मकन्ताः ।
पूर्वाह्वकाले बधिरौ तुलाली धन्वी मृगाख्यश्च तथाऽपराहे ॥ २१॥
मृगान्नश्चापघरश्च पङ्गू सन्धिद्वये नाशकरौ भवेताम् ।
स्यादृक्षसन्धिः कटकालिमीनभान्तं प्रगण्ढान्तमिति प्रसिद्धम् ॥ २२॥
अथ मेषादीनां वर्णविशेषः ।
रक्तगौरशुककान्तिपाटलाः पाण्डुइत्ररुचिनीलकाङ्चनाः ।
पिङ्गलः शबलबभ्रुपाण्डुरास्तुम्बुरादिभवनेषु कलिताः ॥ २३॥
अथ मेषादीनां बलाबलफलम् ।
वस्त्राद्यं शालिमुख्यं, वनफलनिचयः, कन्दली मुख्यधान्यम्,
स्वक्सारं, मुद्गपूर्वं, तिलवसनमुखं, त्विक्षुलोहादिकं च ।
शस्त्रावं, काङ्चनाद्यं जलजनिकुसुमं, तोयजातं समस्तम्,
द्रव्याण्याहुः क्रियादिष्वबलयुतेष्वल्पताधिक्यभाङ्जि ॥ २४॥
अथ राशिस्वामिनिरूपणम् ।
धराजशुक्रज्ञशशिनसौम्यसितारजीवार्कजमन्दजीवाः ।
क्रमेण मेषादिषु राशिनाथस्तदंशपाश्चेति वदन्ति सन्तः ॥ २५॥
अथ सूर्यादीनां त्रिकोणराश्यादिवर्णनम् ।
मूलत्रिकोणा हरिताबुरुक्रिया वधूधनुस्तौलिघटा दिवाकरत् ।
सितासिताकर्कङ्गिरसां नखांशकास्त्रिकोणमादौ परतः स्वमन्दिरम् ॥ २६॥
वृषादिभागत्रयमुच्चमिन्दोर्मूलत्रिकोणं परतस्तु सर्वम् ।
मेषादिगा द्वादशभागसंज्ञाः कुजस्य कोणं परतः स्वभं स्यात् ॥ २७॥
कन्यार्द्धमुच्चं, शशिजस्य लोणं दशांशकाः स्वर्क्षफलं शरांशाः ।
कुम्भस्त्रिकोणं, फणिनायकस्य तुङ्गं नृयुग्मं, रमणी गृहं स्यात् ॥ २८॥
अथ सूर्यादीनामुच्चनीचराशिनिरूपणपूर्वकमत्युच्चनोचभागनिरूपणम् ।
मेषो वृषो मकरषष्ठकुलीरमीनाः तौली च तुङ्गभवनानि तदस्तनीचाः ।
नित्याङ्गनाहरिमणामनुसारनीरसङ्ख्या दिवाकरसुखादतितुङ्गभागाः ॥ २९॥
अथ दशवर्गीनिरूपणं तस्वामिनिरूपणङ्च ।
लग्नं होरा दृकाणं स्वरनवदशकद्वादशांशा कलांशाः
त्रिंशत्षष्ट्यंशकाख्या व्ययदुरितचयश्रिकरा मानवानाम् ।
होरा राश्यर्धमोजे इनकरशशिनोरिन्दुमार्तण्ढोरे (2)
युग्मे राशौ, दृगाणा निजतनयतपःस्थानपानां भवन्ति ॥ ३०॥ (3)
लग्नादिसप्तमांशेशास्त्वोजे राशौ यथाक्रमम् ।
युग्मे लग्ने स्वरांशानामधिपाः सप्तमादयः ॥ ३१॥ (4)
चापाजसिंहराशीनां नवांशास्तुम्बुरादयः ।
वृषक्नयामृगाणां च मृगाद्या नव कीर्तिताः ॥ ३२॥
नृयुक्तुलाघटानां च तुलाद्याश्चांशका नव ।
कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः ॥ ३३॥
चरे चाद्यंशको ज्ञेयः, स्थिरे मध्यनवांशकः ।
अन्त्यांशको द्विस्वभावे वर्गोत्तम इति स्मृतः ॥ ३४॥ (5)
लग्नादिदशमांशेशात्वोजे, युग्मे शुभादिकाः (6)
द्वादशांशाधिपतयस्तत्तद्रासिवशानुगाः ॥ ३५॥ (7)
ओजे कलांशप्रभुखास्तदीशा विरङ्चिशौरीशदिवाकराश्च ।
युग्मे विलग्ने सति भास्कराद्या विलोमतः षोडशभागनाथाः ॥ ३६॥ (8)
अथ दयवर्गजाताः संज्ञावियेषाः ।
मूलत्रिकोणस्वगृहोच्चभागवर्गोत्तमानां दयवर्गजानम् ।
संबोगजातोत्तमनामपूर्वा वैशेषिकांशा इति ते वदन्ति ॥ ४४॥
उत्तमं तु त्रिवर्गैक्यं चातुर्वर्गन्तु गोपुरम् ।
वर्गपङ्चकसंयोगं सिंहासनमिहोच्यते ॥ ४५॥
वर्गह्वयं पारिजातं षड्णां पारावतांशकः ।
सप्तमं देवलोकः स्यादष्टमं च तथा भवेत् ॥ ४६॥
ऐरवतम् तु नवकं फलं तेषां पृथक् पृथक् ॥ १/२॥
अथषद्वर्गाः सप्तवर्गश्चा ।
विलग्नहोराद्रेष्काणनवांशद्वादशांशकाः ॥ ४७॥
त्रिंशांशकश्च षड्वर्गः शुभकर्मसु शस्यते ।
सप्तांशयुक्तः षड्वर्गः सप्तवर्गोऽभिधीयते ॥ ४८॥
जातकेषु च सर्वेषु ग्रहाणां बलकारणम् ॥ १/२॥
अथ भावानां नामानि ।
कल्पोदयाद्यतनुजन्मविलग्नहोरा वागर्थभुक्तिन्यनस्वकुटुम्बभानि ।
दुश्चिक्यविक्रमसहोदरवीर्यधैर्यकर्णास्तृतीयभवनस्य भवन्ति संज्ञाः ॥ ४९॥
पातालवृद्धिहिबुकक्षितिमातृविद्यायानाम्बुगेहसुखबन्धुचतुष्टयानि ।
धीदेवराजपितृनन्दनपङ्चकानि रोगांगशस्त्रभयषष्ठारिपुक्षतानि ॥ ५०॥
जामित्रकामगमनानि कलत्रसम्पद्द्यूनास्तसप्तमगृहाणि वदन्ति चार्याः ।
रन्ध्रायुरष्टणमृत्युविनाशनानि धर्मो गुरुः शुभतपोनवभाग्यमानि ॥ ५१॥
व्यापारमेषूर्णमध्यमानं ज्ञानं च राजास्पदकर्मसंज्ञाः ।
एकादशोपान्त्यभवायलाभा रिःफव्ययद्वादशकान्त्यभाति ॥ ५२॥
अथ भावानां केन्द्रादिसंज्ञाः ।
मेषूरणोदयकलत्ररसातलानि स्युः केन्द्रकण्टकचतुष्टयसंज्ञितानि ।
लग्नात्रिकोणभवनं च स्यादित्रिकोणमुदयान्नव्मं वदन्ति ॥ ५३॥
तनुसुखमदनाज्ञा राशयः केन्द्रसंज्ञाउ पणफरभवनानि स्वायपुत्राष्टमानि ।
व्ययरिपुगुरुदुश्चिक्यानि चापोक्लिमानि प्रभ्वति चतुरस्रं मृत्युबन्धुद्वयं च ॥ ५४॥
दुश्चिक्यायारिमानान्युपचयभवनान्याहुराहुराचार्यमुख्याः
शेषाः पीडर्क्षसंज्ञा नवधनजलधीकामरन्ध्रान्त्यहोराः ।
एते भावास्तदीशेन्दुजसितगुरुभिः संयुता वीक्षिता वा
नान्यैर्युक्ता न दृष्टा यदि शुभफलदा जन्मतः पृच्छतो वा ॥ ५५॥
अथ राशीनामुदयमानानि ।
नखा जिना विंशतिरष्टयुक्ता रदाङ्गलोका वियदर्णवाख्याः ।
मेषादिभानं क्रमशो वदन्ति तुलादिषत्कस्य विलोमतस्ते ॥ ५६॥
अथ राशीनां शुभाशुभभागाः ।
तनुः शरा रारिखराः किरीटिनो धना गुरुर्हेयनखा नरा नुकाः ।
शशाङ्कभागा यदि तुम्बुरादिके मुहूर्तजन्मादिषु मृत्युसूचकाः ॥ ५७॥
पुत्रो वतुर्दिव्यजनाधिको धनी विराटयो गोत्रवयो धिको धुनाः ।
मेषादिके पुष्करभागसंज्ञका मुहुर्तजन्मादिषु शोभनप्रदाः ॥ ५८॥
अथ मेषादिराशीनां वासदेशाः ।
क्रमात्पाटलकर्नातचरचोलवसुन्ध्राः ।
पाण्ड्यकेरलकोल्लासमलयावनिसैन्धवाः ॥ ५९॥
उदक्पङ्चालयवनकोशलक्षितिसंज्ञकाः ।
मेषादिसर्वराशीनां वासदेशाः प्रकीर्तिताः ॥ ६०॥
अथ राशीनां ष्लवस्वनिरूपणम् ।
स्वाम्याशाख्यं यत्तदापप्लवस्वं भानुक्रान्तादम्बुसंज्ञोऽभिजित्स्यात् ।
होरातन्त्रे पारिजाताभिधाने संज्ञाध्यायः कीर्तितो राशिशीलः ॥ ६१॥
इति श्रीनवग्रहकृपया वैद्याथविरचिते जातकपारिजाते
राशिशीलाध्यायः प्रथमः ॥ १॥
अथ ग्रहनामस्वरूपगुणभेदाध्शाशः ॥ २॥
तत्रादौ सूर्यादीनां कालात्मत्वादिनिरूपणम् ।
कालस्यात्मा भास्कतश्चित्तमिन्दुः सत्वं भौमः स्याद्वचश्चन्द्रसूनुः ।
देवाचार्यः सौख्यविज्ञानसारः कामः शुक्रे दुखभेवार्कसूनुः ॥ १॥
अथर्व्यादीनां राजत्वादिनिरूपणं
दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ ।
कुमारे वित् कुजो नेता प्रेष्यस्तपननन्दनः ॥ २॥
अथ सूर्यदीनां नामान्तराणि ।
द्देलिः सूर्यस्तपनदिनकृद्भानुपूषारुणार्काः
सोमः शीतद्युतिरुडुपतिग्लैर्मृगाङ्केन्दुचन्द्राः ।
आरो वक्रक्षितिजरुधिराङ्गारक्कूरनेत्राः
सौम्यस्तारातनयबुधविद्वोधनाश्चेन्दुपुत्रः ॥ ३॥
मन्त्री वाचस्पतिगुरुसुराचार्यदेवेज्यजीवाः
शुक्रः काव्यः सितभृगुसुताच्छास्फुजिद्दानवेज्याः ।
छायासूनुस्तरणितनयः कोणशन्यर्किमन्दाः
राहुः सर्पासुरफणितमः सैहिकेयागवश्च ॥ ४॥
ध्वजः शिखी केतुरिति प्रसिद्धा वदन्ति तज्ज्ञा गुलिकश्च मान्दिः ॥ ४ १/२॥
अथरव्यादीनामुपग्रहाः ।
उप्रग्रहा भानुसुखग्ररांशाः कालादयः कष्टफलप्रदाः सुय्ः ॥ ५॥
क्रमशः कालपरिधिधूमार्द्धप्रहराह्वयाः ।
यमकण्टककोदण्डमान्दिपातोपकेतवः ॥ ६॥
अथ रव्यदीनां स्वरूपम् ।
भानुः शामललोहितद्युतितनुश्चन्द्रः सिताङ्गो युवा
दूर्वाश्यमलकान्तिरिन्दुतनयः, संरक्तगौरः कुजः ।
मन्त्री गौरकलेवरः:, केतुर्विचित्रद्युति ॥ ७॥
अथ ग्रहाणां शुभाशुभत्वानिरूपणम् ।
प्रकाशकौ शीतकरप्रभाकरौ, ताराग्रहाः पङ्च धरासुतादयः ।
तमः स्वरूपौ शिखिसिंहिकासुतौ, शुभाः शशिज्ञामरवन्द्यभार्गवाः ॥ ८॥
क्षीणेन्दुमन्दरविराद्दुशिखिक्षमाजाः पापास्तु पापयुतचन्द्रसुतश्च पापः ।
तेयामतीच शुभदौ गुरुदानवेज्यौ, क्रूरौ दिवाकरसुतक्षितिजौ भवेताम् ॥ ९॥
शुक्लादिरात्रिदशकेऽहनि मध्यवीर्यशाली द्वितीयदशकेऽतिशुभप्रदोऽसौ ।
चन्द्रस्तृटीयदशके बलवर्जितस्तु सौम्येक्षणादिसहितो यदि शोभनः स्यात् ॥ १०॥
अथ रव्यादिनामुदयप्रकारः ।
रव्यारराहुमन्दाश्च पृष्टेनोद्यन्ति सर्वदा ।
शरिसा शुक्रचन्द्रज्ञा जीवस्तूभयतो व्रजेत् ॥ ११॥
अथ रव्यादीनामाकारविशेषाः ।
दिवाकरज्ञौ विहगस्वरूपौ सरीसृपाकारयुतः शशाङ्कः ।
पुरन्दरार्चायसितौ द्विपादौ चतुष्पदौ भानुसुतक्षमाजौ ॥ १२॥
अथ रव्यादीनां सङ्चारदेशाः ।
जलाशयु चन्द्रसुरारिवन्द्यौ बुधालयग्नामचरौ गुरुज्ञौ ।
कुजाहिमन्दध्वजवासरेशा भवन्ति शैलाटविसङ्चरन्तः ॥ १३॥
अथ रव्यादीनां बाल्यादिवयोनिरूपणम् ।
बालो धराजः कुमारकस्त्रिंशद्गुरुः षोडशवत्सरः सितः ।
पङ्चाशदर्को विधुरब्दसप्ततिः शताब्दसङ्ख्याः शनिराहुकेतवः ॥ १४॥
अथ ग्रहाणां शास्त्राधिपत्यनिरूपणं धातुमूलासिसंज्ञाश्च ।
शाखाधिपा जीवसितारबोधना धानुस्वरूपद्युचरौ कुजारुणौ ।
मूलप्रधानौ तुहिनाकरार्कजौ जीवौ सितार्थौ तु विमिश्र इन्दुजः ॥ १५॥
अथ ग्रहाणामवस्थेयत्ता ।
दीप्तः प्रमुदितः स्वस्थः शान्तः शक्तः प्रपीडितः ।
दीनः खलस्तु विकलो भीतोऽवस्था दश क्रमात् ॥ १६॥
अथ स्थानविशेषादवस्थाविशेषाः ।
स्वोच्चत्रिकोणोपगतः प्रदीप्तः स्वस्थः स्वहेगे मुदितः सुहृद्भे ।
शान्तस्तु सौम्यग्रहवर्गयातः शक्तोऽतिशुद्दः स्फुटरश्मिजालैः ॥ १७॥
ग्रहाभिभूतस्त्वतिपीडितः स्यादरातिराश्यंशगतोऽतिदीनः ।
खलस्तु पापग्रहवर्गयोगान्नी वेऽतिभीतो विकलोऽस्तयातः ॥ १८॥
अथ ग्रहणां वर्णविशेषाः ।
वर्णास्ताम्रसितारक्तहरितापीतकर्बुराः ।
कृष्णकान्तिरिनादीणां नष्टादौ च प्रकीर्तिताः ॥ १९॥
अथ रव्यादीनां द्रव्याणि अधिदेवताश्च ।
द्रव्याणि ताम्रमणिकाङ्चनशुक्तिरौष्यमुक्तान्ययश्च दिननाथमुखग्र्हाणाम् ।
वह्निअम्बुषण्मुखहरीन्द्रशचीविरङ्चिमुख्या दिवाकरमुखादधिदेवताः स्युः ॥ २०॥
अथ रव्यादीनां रत्नानि ।
माणिक्यं दिननायकस्य, विमलं मुक्ताफलं शीतगोः
माहेयस्य च विद्रुमं मरकटं सौम्यस्य गारुत्मकम् ।
देवेज्यस्य च पुष्परागमसुराचार्यस्य गारुत्मकम्
नीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥ २१॥
अथ ग्रहाणां वस्त्रादिनिरूपणम् ।
स्यूलाम्बरं नृतनचारुचेलं कृशानुतोयाहतम्ध्यमानि ।
दृढांशुकं जीर्णमिनादिकानां वस्त्राणि सर्वे मुनयो वदन्ति ॥ २२॥
प्रागादिका भानुसितारराहुमन्देन्दुविद्देवपुगोहिताः स्युः ।
शुक्रारचन्द्रज्ञौरेज्यमन्दा वसन्तमुख्यर्त्वधिपा दृगाणैः ॥ २३॥
देवतोयतटवह्निविहाराः कोशगेदृशयनोत्करदेशाः ।
भानुपूर्वनिलयाः परिकल्प्या वेश्मकोणनिलयावहिकेनू ॥ २४॥
अथ पर्देशविभाग इनाहीनाम् ।
लङ्कादीकृष्णासरिदन्तमारः सितस्ततो गौतभिकान्तभूमिः ।
विन्ध्यान्तमार्यः सुरनिग्नगान्तं बुधः शनिः स्यात्तुहिनाचकान्तः ॥ २५॥
अथ ग्रहाणां जातयो गुणाश्च ।
विप्रौ जीबसितौ दिनेशरुधिरौ भूपालकौ वैश्यराड्
इन्दुः शूद्रकुलाधिपः शशिसुतो मन्दोऽवराणां पतिः ।
आदित्यामरमन्त्रिशीतकिरणाः सत्त्वप्रधानग्रहाः
शुक्रज्ञौ सरजोगुणौ शनिधरापुत्रौ तमःस्वामिनौ ॥ २६॥
अथ ग्रहाणां नरादिसंज्ञा महाभूताधिपत्यश्च ।
नराकारा भानुक्षितिजगुरवः शुक्रशशिनौ
वधूरूपौ षण्ढप्रकृतिपुरुषौ मन्दशशिजौ ।
वियत्क्षोणीतेजपवनपयसामेव पतयः
सुराचार्यज्ञारधुमणिसुतदेवारिसचिवाः ॥ २७॥
अथ ग्रहाणां कक्षाक्रम ।
कक्षायां क्रमओ दिनेशतयाज्ज्योतिर्भचक्राश्रिताः
छायासुनुगुरुक्षमाजदिनकृच्छुकेन्दुपुत्रेन्दवः ॥ २७ १/२॥
अथ सूर्यादीनां धातुविशेषादि ।
भज्जास्नायुवसाऽस्थिशुक्ररुधिरत्वग्धातुनाथा क्रमाद् ।
आरार्किज्यदिनेशशुक्रशशभृत्तारासुताः कीर्तिताः ॥ २८॥
लवणकटुकपायस्वादुतिक्ताम्लमिश्राः शशिरविशनिजीवारासुरेज्यज्ञनाथाः ।
अयनदिवसपक्षर्त्वब्दमासक्षणेशा रविकुजसितसौम्या मन्दजीवेन्दवश्च ॥ २९॥
अथ रव्यादीनां स्थानविशेषे दृष्टयः ॥
पादेक्षणं भवति सोदरमानराश्योरर्धं त्रिकोणयुगलेऽखिलखेचराणाम् ।
पादोनदृष्तिनचयश्चतुरस्त्रयुग्मे सम्पूर्णदृग्बलम्नङ्गगृहे वदन्ति ॥ ३०॥
अथ रव्यादीनां दृष्टिविशेषे बलित्वम् ।
शनिरतिबलशाली पाददृग्वीर्ययोगे सुरकुलपतिमन्त्री कोणदृष्टौ सुभः स्यात् ।
त्रितयचरणदृष्टया भूकुमारः समर्थः सकलगगनवासाः सप्तमे दृग्बलाढ्याः ॥ ३१॥
अथ ग्रहाणामृध्वार्दिदृष्टयः ।
अथोर्वदृष्टी दिननाथभौमौ दृष्टिः कटाक्षेण कवीन्दुसून्वोः ।
शशाङ्कगुर्वोः गमभागदृष्टिरधोऽक्षिपानस्त्यदिनाथशन्योः ॥ ३२॥
अथ ग्रहाणां स्थानबलम् ।
स्वोच्चत्रिकोणस्वसुहृद्दृगाणराश्यंशवैशेषिकवर्गवन्तः ।
आरोहवीर्याधिकविन्दुकास्ते खेचारिणः स्थानबलाधिकाः स्युः ॥ ३३॥
नीचारिपापस्वगयोगनिरीक्ष्यमाणास्तद्वर्गसन्धिलघुबिन्दुदुरंशकाश्च ।
आदित्यरश्मिपरिभूतपराजितास्ते दृष्टयादिशक्त्यसहिताश्च न शोभनाः स्युः ॥ ३४॥
अथ ग्रहाणां दिग्बलम् ।
विलग्नपातालबधूनभोगा बुधामरेज्यौ भृगुसूनुचन्द्रौ ।
मन्दो धरासूनुदिवाकरौ चेत् क्रमेण ते दिग्बलशालिनः स्युः ॥ ३५॥
अथ कालबलम् ।
निशीन्दुमन्दावनिजाः परेऽहनि स्वकीयहोरासममासवासराः ।
सितादिपक्षद्वयगाः शुभाशुभा बुधः सदा कालजवीर्यशालिनः ॥ ३६॥
अथ चेष्टाबलम् ।
जैत्रा व्क्रसमागमोपगसितज्ञारामरेज्यासिताः,
दिव्याशायनगेन्दुतिग्मकिरणौ चेष्टाबलांशाधिकाः ॥ ३६ १/२॥
अथ ग्रहानां निसर्गबलम् ।
सौम्यक्षेपयुता महीसुतभुस्वा(खा)श्चेष्टाबलाढ्याः क्रमान्
नैसर्गस्य बलाधिकाः शनिकुजज्ञाचार्यशुक्रेन्द्वनाः ॥ ३७॥
क्रमेण दृक्स्थाननिसर्गचेष्टादिक्कालवीर्याणि च षड्बलानि ।
सुधाकरेष्विन्दुशरेन्दुशैलभेदानि तानि प्रवदन्ति सन्तः ॥ ३८॥
स्वरूपषष्ट्यंशविषष्टिकांशा मृगादिवीर्योपगषड्बलाढ्याः ।
क्रमेण तद्योगभवं बलं हि पूर्ण त्रिपदं दलं वा ॥ ३९॥
अथ बलप्रमाणम् ।
अर्धाधिकं षट्कमिनस्य सूरेः शुक्रस्य पङ्चाधिकमर्धरूपम् ।
सप्तेन्दुपुत्रस्य बलं षडिन्दोः सौरारयोः सायकरूपसंख्या ॥ ४०॥
अथ ग्रहाणां तात्कालिक-मैत्रीविनारः ।
अन्योन्यतः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः ।
तत्कालमित्राणि स्वगा भवन्ति तदन्ययाता यदि शत्रवस्ते ॥ ४१॥
अथ सूर्यादीनां नैसर्गिकाः शत्रुमित्रोदासीनाः ।
मित्राणि भानोः कुजचन्द्रजीवाः शत्रू सितार्की शशिजः समानः ।
चन्द्रस्य मित्रे दिननायकज्ञे समा गुरुक्ष्माजसितासिताः स्युः ॥ ४२॥
आरस्य मित्राणि रवीन्दुजीवाश्चान्द्री रिपुः शुक्रशनी समानौ ।
सूर्यासुरेज्यौ बुधस्य समाः शनीज्यावनिजास्त्वरीन्दुः ॥ ४३॥
सूर्यारचन्द्राः सुहृदस्तु सूरेः शत्रू सितज्ञौ रविजः समानः ।
मित्रे शनिज्ञौ भृगुन्दनस्येन्द्वनावरी जीवकुजौ समानौ ॥ ४४॥
मन्दस्य सूर्येन्दुकुजाश्च शत्रवः समः सुरेज्यः सुहृदौ सितेन्दुजौ ॥ १/२॥
LOST PAGE
LOST PAGE
LOST PAGE
अथ सूर्यादिभ्यः फलविशेषचिन्ता ।
सूर्यादात्मपितृप्रभावनिरुजाशक्तिश्रियश्चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ।
सत्त्वं रोगगुणानुजावनिसुतज्ञातीर्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्धोधनः ॥ ४९॥
प्र्ज्ञानित्यशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणनि मदनव्यापारसौम्ख्यं भृगोः ।
आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः
सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥ ५०॥
अथ ग्रहाणां भावकारकत्वम् ।
द्युमणिरमरमन्त्री भूसुतः सोमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः ।
दिनकरदिविजेज्यौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात् ॥ ५१॥
अथ ग्रहाणां स्थाननविशेषे शुभाशुभप्रदता ।
कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः ।
अरिष्ट्दास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥ ५२॥
अथ सूर्यादीनां स्वरूपाणि ।
प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः ।
पित्तात्मकः स्वल्पकचाभिरामो देवाकरः सत्त्वगुणप्रधानः ॥ ५३॥
सङ्जारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः ।
सदैव धीमांस्थनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥ ५४॥
क्रूरेक्षणस्तरूणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः ।
संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥ ५५॥
दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः ।
हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशिजश्च विद्वान् ॥ ५६॥
बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी ।
कपिलरुचिकचाक्षः सात्त्विकोऽतिव धीमान् अलधुनृपतिचिह्नः श्रीधरो देवमन्त्री ॥ ५७॥
असितकुटिलकेशः श्यामसौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः ।
अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥ ५८॥
काठीन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा ।
पीनद्विजश्चारुपिशङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥ ५९॥
इतरयोगे ग्रहाणां वृद्धिमत्ता ।
अर्केण मन्दः, शनिना महिसुतः, कुजेन जीवो गुरुणा निशाकरः ।
सोमेन शुक्रोऽसुरमन्त्रिणा बुधो बुधेन चन्द्रः खलु वर्द्धते सदा ॥ ६०॥
अथ ग्रहाणां स्थानबलविशेषः ।
स्वोच्चस्वकीयभवनस्वदृगाणद्दोरावारांशकोदगयनेषु दिन्स्य मध्ये ।
राशिप्रवेशसमये सुहृदंशकादौ मेषूरणे दिनमणिर्बलवानजस्रम् ॥ ६१॥
चन्द्रः कर्किणि गोपतौ निजदिनद्रेक्काणहोरांशके
राश्यन्ते शुभवीक्षणे निशि सुखे याम्यायने वीर्यवान् ।
इन्दुः सर्वकलाधरो यदि बली सर्वत्र सन्धि विना
सर्वव्योमचरेक्षितस्तु कुरुते भूपालयोगं नृणाम् ॥ ६२॥
आरः स्ववारनवभागदृगाणवर्गे मीनालिकन्भमृगसुन्बुरुयामिनीषु ।
वक्रे च याम्यदिशे राशिमुखे बलाढ्यो मीने कुलिरभवने च ददाति ॥ ६३॥
अन्यानृयुग्मभवने निजवारवर्गे चापे विना रविमहुर्निशमिन्दुसूनुः ।
सौम्यायने च बलवानपि राशिमध्ये लग्ने सदा यदि यशोबलवृद्धिदः स्यात् ॥ ६४॥
मीनालिचापकटके निजवर्गवारे मध्यन्दिनोदगयने यदि राशिमध्ये ।
कुम्भे च नीचभवनेऽपि बली सुरेज्यो लग्ने सुखे च दशमे बहुवित्तदः स्यात् ॥ ६५॥
स्वोच्चस्ववर्गदिवसे यदि राशिमध्ये शत्रुव्ययानुजगृहे हिबुकेऽपराह्ण ।
युद्धे च शीतकरसङ्गमवक्रचारे शुकोऽरुणस्य पुरतो यदि शोभनः स्यात् ॥ ६६॥
मन्दस्तुलामकरकुम्भगृहे कलत्रे याम्यायने निजदृगाणदिने दशायाम् ।
अन्ते गृहस्य समरे कृष्णपक्षे वक्रः समस्तभवनेषु बलाधिकः स्यात् ॥ ६७॥
मेषालिकुम्भतरुणिवृषकर्कटेषु मेषूरणे च बलवानुरगाधिपः यात् ।
कन्यावसानवृषचापधरे निशायामुत्पातकेतुजनने च शिखी बली स्यात् ॥ ६८॥
प्रोक्तप्रकारप्रबलान्विता ये मूलं विबला भवन्ति ।
भावेषु योगेषु दशाकलषु न सम्यगुक्तानि फलानि सन्ति ॥ ६९॥
अथ ग्रहाणामधिमुखत्वादि ।
अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः ।
अपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥ ७०॥
भानामवस्थानगताः क्रमेण मदार्यभौमार्किसितज्ञचन्द्राः ।
तेषामधःस्थानगतो बलीयान् राहुर्भहीमण्डलमूर्धि संस्थः ॥ ७१॥
स्थानविशेषे स्थितिक्रमविशेषे च ग्रहाणां विफलता ।
सभानुरिन्धुः शशिजश्चतुर्थे गुरुः सुते भूमिसुतः कुतुम्बे ।
भृगुः सपत्ने रविजः कलत्रे विलग्नतस्ते विफला भवन्ति ॥ ७२॥
अथ दोषापहरणम् ।
राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः ।
त्रयाणां भूमिजो हन्ति चतुर्णा दानवार्चितः ॥ ७३॥
पङ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः ।
सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ७४॥
अथ ग्रहाणां पीडाकरणप्रकारः ।
सदाऽग्निरोगज्वरवृद्धिदीपनक्षयातिसागदिकरोगसङ्कुलम् ।
नृपालदेवावनिदेवकिङ्करैः करोति चित्तव्यसनं देवाकरः ॥ ७५॥
पाण्डुदोषजलदोषकामलापीनसादिरमणीकृतामयैः ।
कालिकासुरसुवासिनीगणैराकुलं च कुरुते तु चन्द्रमाः ॥ ७६॥
पीनबीजकफशास्त्रपावकग्रन्थिरुग्व्रणदरिद्रजामयैः ।
वीरशैवगणभैरवादिभिर्भीतिमाशु कुरुते धरासुतः ॥ ७७॥
गुह्योदरादृश्यसमीरकुष्ठमन्दाग्निशूलग्रहणीरुगाद्यैः ।
बुधादिविष्णुप्रियदासभूतैरतीव दुःखं शशिजः करोति ॥ ७८॥
आचार्यदेवगुरुभूसुरशापदोषैः शोकं च गुल्मरुजमिन्द्रगुरुः करोति ।
अन्ताविकारजनिमेहरुजा सुराद्यैः स्वेष्टाङ्गनाजनकृतैर्भयमासुरेज्यः ॥ ७९॥
दारिद्यदोषनिजकर्मपिशाचचौरेः क्लेशं करोति रविजः सह सन्धिरोगैः ।
कण्डूमसूरिरोपुकृत्रिमकर्मरोगैः स्वाचारहीनलघुजातिगणैश्च केतुः ॥ ८०॥
करोत्यपस्मारमसूरिरज्जूक्षुद्दृक्कृमिप्रेतपिशाचभूतैः ।
उद्वन्घनेनारुचिकुष्ठरोगैर्विधुन्तुदश्चातिभयं नराणाम् ॥ ४१॥
अथ राशौ ग्रहफलपरिपाककालः ।
आद्यन्तमध्यभवनोपगता नभोगाश्चादित्यभूमितनयौ शनिशीतरश्मी ।
जीवासुरेन्द्रसचिवौ फलदाःक्रमेण तारासुतः सकलकालफलप्रदः स्यात् ॥ ४२॥
अथ धातुजरोगे धातुनाथोपासना ।
यद्धातुकोपजनिताखिलरोगशान्त्यै तन्नाथमाशु उपतर्पणहोमदानैः ।
सम्पूज्य रोगभयशोकविमुक्तचित्ताः सर्वे नराः सुखयशोबलशालिनः स्युः ॥ ४३॥
अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् ।
बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण ।
त्रिंशल्जवैर्ष्यत्ययतः समे स्युरेकैकशोऽशाः पुनरेव कार्याः ॥ ८४॥
अथ जाग्रदाद्यावस्थाः ।
उच्चांशे स्वनवांशे च जागरूकं वदन्ति हि ।
सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिभांशकम् ॥ ८५॥
अथ ग्रहाणां फलदानकालः ।
शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ ८६॥
समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते ।
ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्र्तितः खेटकृपाकटाक्षात् ॥ ८७॥
इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
ग्रहनामस्वरूपगुणमेदाध्यायः ॥ २॥
अथ वियोनिजन्माद्यध्यायः ॥ ३॥
क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः चतुष्टयगतेत दवेक्षणाद्वा ।
चन्द्रोपगद्विरसमागसमानरूपं सत्त्वं वदेद्यादि भवेत्स वियोनिसंज्ञः ॥ १॥
पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः ।
लग्नं च वियोनिसंज्ञकं दृष्टाऽत्रापि वियोनिमादिशेत् ॥ २॥
क्रियः शिरो वक्त्रगलो वृषोऽन्ये पादांसकं पृष्ठोमुरोऽथ पार्श्वे ।
कुक्षिस्त्वपानोऽघ्न्यथ मेद्रभुष्कौ स्फिक्पुच्छमित्याह चतुष्पदाङ्गे ॥ ३॥
लग्नांशकाद्ग्रहयोगेक्षणाद्वा वर्णान् वदेद्बलयुक्ताद् वियोनौ ।
दृष्टया समानान् प्रवदेत्तु संख्यां रेखां वदेत्स्मरसंस्थैश्च पृष्ठे ॥ ४॥
देहाम्बुगौ सुखाङ्गेशौ वतुष्पाज्जननं भवेत् ।
देहेशे सुखपे वाऽहिकेतुयुक्ते पशोर्जनिः ॥ ५॥
अथ ग्रहविशेषक्षणादिना पशुविशेषजनिः ।
श्क्रेक्षिते गोजननं महिष्यार्कियुतेक्षिते ।
राहुकेतुयुक्ते मेषः पापाढ्येऽन्यपशोजनिः ॥ ६॥
अथ स्थलाम्बुजनियोगकरी ग्रहस्थितिः ।
खगे दृकणे बलसंयुतेन वा ग्रहेण युक्ते चरभांशकोदये ।
बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोगसंभवाः ॥ ७॥
होरेन्दुसूरिरविभिर्विबलैस्तरूणां तेयस्थले तरुभुर्वोऽशकृतः प्रभेदः ।
लग्नाद्ग्रहः स्थलजलर्क्षपतिस्तु यावांस्तावन्त एव तरवः स्थलतोयजाताः ॥ ८॥
अथ रव्यादीनां वृक्षविशेषजनिकारणता ।
अन्तःसारान् जनयति रविर्दुर्भुगान् सूर्यसूनुः
क्षीरोपेतांस्तुहिनकिरणः कण्टकाढ्यांश्च भौमः ।
वागीशज्ञौ सफलविफलान् पुष्पवृक्षांश्च शुक्रः
स्निग्धानिन्दुः कटुकविटपान् भूमिपुत्रस्तु भूयः ॥ ९॥
शुभोऽशुभर्क्षे रुचिरं कुभूमिजं करोति वृक्षं विपरीतमन्यथा ।
परांशके थावति विच्युतः स्वकाद् भवन्ति तुल्यास्तरवस्तथाविधाः ॥ १०॥
अथ निषेकधिधिः ।
कुजेन्दुहेतु प्रतिमासमार्तवं गते तु पीडर्क्षमनुष्णदीधितौ ।
अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ ११॥
यथाऽस्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोगः ॥
असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टैः सविलामहासः ॥ १२॥
रवीन्दुशुक्रावनिजैः स्वभावगैः गुरौ त्रिकोणोदयसंस्थितेऽपि। वा ।
भवत्यपत्यं हि विबीजिनागिने करा हिमांशोर्विदृशामिवाफलाः ॥ १३॥
दिवाकरेन्द्वोः स्मरगौ कुजर्कजौ गदप्रदौ पुङ्गलयोषितोस्तदा ।
व्ययस्वगौ मृत्युकरौ युतौ तथा तदेकदृष्त्या मरणाय कल्पितौ ॥ १४॥
विवाऽर्कशुक्रौ पितृमातृसंज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ।
पितृव्यमातृष्वसृसंज्ञितौ च तावथौजयुग्मर्क्षगतौ तयोः शुभौ ॥ १५॥
शीतज्योतिषि ज्योषितोऽनुपचयस्थाने कुजेनेक्षिते ।
जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ।
दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निवेकं पुमान् ।
अत्याज्ये च समूलभे शुभगुणे पर्वादिकालोज्भिते ॥ १६॥
अथ स्त्रीणामृतुकालपरिमाणम् ।
विभावरीषोडश भामिनीनामृतुद्रमाद्या ऋतुकालमाहुः ।
नाद्याश्चतस्रोऽत्र निशेकयोग्याः पराश्च युग्माः सुतदाः प्रशस्ताः ॥ १७॥
अथ तुर्यादिरात्रिषु निषेके सताने विशेषः ।
पुत्रोऽल्पायुदारिका वंशकर्ता बन्ह्या पुत्रः सुन्दरीशो विरूपा ।
श्रीमान् पापा धर्मशीलस्तथा श्रीःसर्वज्ञः स्यातुर्यरात्रात् क्रमेण ॥ १८॥
अथ सुतादियोगकरी ग्रहस्थितिः ।
अष्टमाष्टमगे सूर्ये निषेकर्क्षात्सुतोद्भवाः ।
अथवाऽधानलग्नात्तु त्रिकोणस्थे दिनेश्वरे ॥ १९॥
अस्मिन्नाधनलग्ने तु शुभदृष्टियुतेऽथवा ।
दीर्घायुर्भाग्यवान् जातः सर्वविद्यान्नमेष्यति ॥ २०॥
ओजर्क्षे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः
पुङ्जन्म प्रवदेत्समांशकगतैर्युग्मेषु तयोर्षितः ।
गुर्वर्कौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियम्
द्व्याङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ २१॥
विहाय लग्नं विषमर्क्षसंस्थः सौरोऽपि पुंजन्मकरो विलग्नात् ।
प्रोक्तग्रहाणावलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ २२॥
अथ क्रीयत्वकरा योगाः ।
अन्योन्यं यदि पश्यतः शशिरवी यद्यार्किसौम्यावपि
वक्रो वा समगं दिनेशमसमे चन्द्रोदयौ चेत्स्थितौ ।
युग्मौजर्क्षगतावपिन्दुशशिजौ भूम्यात्मजेनेक्षितौ
पुंभागे सितलग्नशीतकिरणाः षट् क्लीबयोगस्त्विमे ॥ २३॥
अथ थमलादिजनिकरा योगाः ।
युग्मे चन्द्रसितौ तथौजभवने स्युर्ज्ञारजीवोदयाः
लग्नेन्दू नृनरीक्षितौ च समगौ युग्मेषु वा प्राणिनः ।
कुर्युस्ते मिथुनं गृहोदयगतान्द्व्यंगांशकान्पश्यति
स्वांशे ज्ञे त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्चैः समम् ॥ २४॥
अथ व्यदिकजननयोगः ।
धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्टैः ।
ज्ञेनार्किणा वीर्ययुतेन दृष्टे सन्ति।प्रभूता आपि कोशसंस्थाः ॥ २५॥
द्विशरीरांशसंयुक्तान् ग्रहान् लग्नं च पश्यति ।
कन्यांशकगतश्चान्दिर्गर्भस्थं त्रितयं वदेत् ॥ २६॥
युग्मांशकस्तु कन्यैका द्वौ पुमांसौ च गर्भजाः ।
युग्मांशगान्विलग्नं च गर्भस्थाः पुरुषास्त्रयः ॥ २७॥
कन्यायुग्मांशकोपेतांस्तय्हा युग्मांशगो बुधः ।
कन्यानवांशकः सौम्यस्तिस्त्रो गर्भगताङ्गनाः ॥ २८॥
द्विस्वभावगतार्कगुरू बुधनिरीक्षितौ ।
पुंयुग्मं कुरुतस्तद्वत् शशिशुक्रमहीसुताः ॥ २९॥
कुर्वन्ति स्त्रीयुगं तत्र बलाबलविशेषतः ॥ २९ १/२॥
स्त्रीनपुंसकदश्चान्द्रिः पुंनपुंसक्दोऽर्कजः ॥ ३०॥
निषेककाले चन्द्रार्कावन्योन्यं यदि पश्यतः ।
तथैव चन्द्रमन्दौ वा क्लीबजन्मप्रदौ तथा ॥ ३१॥
निषेके भ्रातृलग्नेशयोगे यमलसम्भवः ।
लग्नेशे भ्रातृपक्षस्थे स्वोच्चे वा यमलोद्भवः ॥ ३२॥
षष्ठेशो देहसम्बन्धी बुधः षष्ठगतो यदि ।
बुधक्षेत्रे च यस्य स स्त्रीनपुंसकः ॥ ३३॥
बुधस्थानेन शनिना पुंनपुंसकता भवेत् ॥ १/२॥
निषेकलग्नेशतृतीयनाथौ लग्नस्थितौ चेद्यमलोद्भवः स्यात् ॥ १/२॥
अथ पादजातस्वप्रदौ योगौ ।
तृतीनाथेन युते निषेके भोगीशयुक्ते यदि पादजातः ॥ ३४॥
राहूदये लग्ननाथे कर्मस्थे पादपूर्वजः ॥ १/२॥
अथ सर्पवेष्टितदेहयदा योगाः ।
सराहौ रन्ध्रपे लग्ने जातः स्यात् सर्पवेष्टितः ॥ ३५॥
रन्ध्रेश्वरे पापयुते विलग्ने जातो नगोर्वेष्टिदेहवान्स्यात् ।
केन्द्रे सरहौ गुलिकेन युक्ते लग्नेश्वरे वावा निधनेशयुक्ते ॥ ३६॥
क्रूरग्रहाणां च दृगाणल्ग्ने जातो नगैर्वेष्टितदेहवान् स्यात् ।
लग्नत्रिभागेऽण्डजसर्पकोलास्रन्नाथयुक्तस्तु तथा त्रिभागः ।
शुभप्रदाणां च दृशा विहीने जातो नगैर्वेष्टितदेहवान् स्यात् ॥ ३७॥
यशांके पापल्ग्ने वा वृश्चिकेशत्रिभागगे ।
शुभैः स्वायस्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ ३८॥
चतुष्पादगते भानौ शेषैर्वीर्यसमन्वितैः ।
द्वितनुस्थैश्च यमलौ भवतः कोशवेष्टितौ ॥ ३९॥
छागसिंहवृषे लग्ने तत्स्थे सौरेऽथवा कुजे ।
राश्यंशसदृशे गात्रे जतस्थेनालवेष्टितः ॥ ४०॥
लग्ने सपापे बहुपापदृष्टे राहुध्वजाभ्यां सहितेऽथवाऽत्र ।
पापग्रहाणां विलग्नभे वा जातो नरो नालविदेष्टिताङ्गः ॥ ४१॥
क्रूरान्तरे लनगते सराहौ लग्ने कुजे वासरनाथदृष्टे ।
लग्ने शनु भुमिसुतेन दृष्टे जातो नरो नालविवेष्टिताङ्गः ॥ ४२॥
अथ प्रसूतिकालज्ञापिका ग्रहस्थितिः ।
तत्काल इन्दुसहितो द्विरसंशको यस्ततुल्यराशिसहिते पुरतः शशाङ्के ।
यावानुदेति दिनरात्रिसमानभागस्तावद्रते दिननिशोः प्रवदन्ति जन्म ॥ ४३॥
उदयति मृदुभांशे सप्तमस्थे च मन्दे ।
यदि भवति निषेकः सूतिरब्दत्रय्ण ।
शशिनि तु विधिरेष द्वादशाब्दैः प्रकुर्यात् ।
निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥ ४४॥
अथ संस्कारविहीनपुत्रजन्मज्ञापका योगाः ।
पितृकर्मेश्वरौ दुःस्थौ देहेशे बलसंयुते ।
विना सीमन्तकमादि जातः पुत्रो न संशयः ।
लाभे पापे पापगृहे न सीमन्तयुतो भवेत् ॥ ४५ १/२॥
अथ पितुरसन्निधौ जन्मयोगाः ।
पितुर्जातः परोक्षस्य लग्नमिन्दावपश्यति ।
विदेशस्थस्य चरभे मध्याद्दष्टे दिवाकरे ॥ ४६॥
उदयस्थेऽथवा मन्दे वाऽस्तं समागते ।
स्थिते वाऽन्तः चपानाथे शशाङ्कसुतशुक्रयोः ॥ ४७॥
पितरय्रसः क्षेत्रजो वेति ज्ञपिका द्युचरस्थितिः ।
लग्ने वा यदि शीतांशौ शुभखेचरराशिगे ।
ओरसोऽयं भवेज्जातो गुरुर्गसमन्विते ॥ ४८॥
जीवो न भौमसंदृष्टः स्ववर्गे चार्कचन्द्रमाः ।
क्षेत्रजोऽयं भवेज्जातः ससौम्यो वा बलान्वितः ॥ ४९॥
मन्दवर्गगते चन्द्रे मन्दयुक्ते तु पङ्चमे ।
भानुभार्गवसंदृष्टे पुत्रः पौनर्भवो भवेत् ॥ ५०॥
अथ अनूढापत्यत्व्सराधको ग्रहयोगः ।
व्यये भास्करसंदृष्टे वर्गे भास्करचन्द्रयोः ।
चन्द्रसूर्ययुते वाऽपि कानीनोऽयं भवेन्नरः ॥ ५१॥
अथ दत्तपुत्रत्वसाधको योगः ।
चन्द्रदृष्टियुतो मान्दिर्भानुपुत्रसमन्वितः
तद्वीक्षणयुतो वाऽपि दत्तपुत्रो भवेन्नरः ।
शन्यङ्गारकसंयुक्ते सप्तमे वाऽथ पङ्चमे
अन्यैरवीक्षिते खेटैः कृत्रिमं तु विनिर्दिशेत् ॥ ५२॥
अथ जारजत्वसाधका योगाः ।
परस्परक्षेत्रगतौ तु होरारसातकेशौ यदि जन्मलग्नात् ।
लग्नेश्वरो वा हिबुकेश्वरो वा ध्वजाहियुक्तो जननं परेण ॥ ५४॥
लग्नं शशाङ्कं सुरराजमन्त्री न वीक्षते नैकगृहस्थितौ वा ।
न जीववर्गगेण युतौ तदानीं जातं वदेदन्यसमागमेन ॥ ५५॥
स्वातीद्वितीया रविवारयुक्ता ससप्तमी सोमजरेवती च ।
सद्वादशीभानुसुतश्रविष्ठा चैतेषु जातः परतो वदन्ति ॥ ५६॥
भद्राण्यतिथियुक्तेषु त्रिपादर्क्षन्वितेषु च ।
मन्दार्कभौमवारेषु जात्मन्योद्भवं विदुः ॥ ५७॥
न लग्नमिन्दु च गुरुनिरीक्षते न वा शशाङ्कं रविणा समागतम् ।
सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ५८॥
गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे ।
तद्द्रेष्काणे तदंशे वा न परैर्जात इष्यते ॥ ५९॥
अथ जन्मनि पितुर्बद्धत्वादि ।
क्रूरर्क्षगतावशोभनौ सूर्याद् द्यूननवात्मजस्थितौ ।
बद्धस्तु पिता विदेशगः स्वे वा राशिवशात्तथा पथि ॥ ६०॥
अथ जन्मदेशाः ।
पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे ।
लग्ने जलजोऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ॥ ६१॥
आओयोदयमाप्यगः शशी सम्पूर्णः समवेक्षतेऽथवा ।
मेषूरणबन्धुलग्नगः स्यात् सूतिः सलिले न संशयः ॥ ६२॥
उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षिते यमे ।
अलिकर्कियुते विलग्नगे सौरे शीतलरेक्षितेऽवटे ॥ ६३॥
मन्देऽब्जगते विलग्नगे बुधसूर्येन्दिनिरीक्षिते क्रमात् ।
कीडाभवने सुरालये जननं* चोषरभूमिषूदिशेत् ॥ ६४॥
नृलग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे ।
रविर्नरेन्द्रामरगोकुलेषु शिल्पालयो ज्ञः प्रसवं करोति ॥ ६५॥
राश्यंशसमानगोचरे मार्गे जन्म चरे स्थिरे गृहे ।
स्वर्क्षाशगते स्वमन्दिरे बलयोगात्फलमशकर्क्षयोः ॥ ६६॥
अथ मात्रा स्यक्तस्य दीर्घयुष्टम् ।
आरार्कजयास्त्रिकोणगे चन्द्रोऽस्ते च विसृज्यतेऽम्बया ।
दृष्टेऽमरराजमन्त्रिणा दीर्घयुः सुखभाक् च स स्मृतः ॥ ६७॥
अथ मात्रा स्यक्तस्य विनाशयोगः ।
पापेक्षिते तुहिनगाबुदये कुजेऽस्ते स्यक्तो विनश्यति कुजार्कजयोस्तथाऽये ।
सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्ये तरेषु परहस्तगतोऽप्यनायुः ॥ ६८॥
अथ प्रसवस्थानम् ।
पितृमातृगृहेषु तद्बलात्तरुशालाइषु नीचगतैः शुभैः ।
यदि नैकगतैश्च वीक्षितौ लग्नेन्दू विजने प्रसूयते ॥ ६९॥
मन्दर्क्षाशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा
तद्युक्ते वा तमसि शयनं नीचसंस्थैश्च भूमौ ।
यद्भद्राशिर्ब्रजति हरिजं गर्भमोक्षस्तु तद्वत् ॥ ७०॥
अथ सूतीगृहे दीपज्ञानं द्वारज्ञानं च ।
स्नेहः शशाङ्कादुदयाच्च वर्ती दीपोऽर्कयुक्तर्क्षवशाणराद्यः ।
द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्क्ष्यं ग्रहैर्वीर्यसमनिव्तैर्वा ॥ ७१॥
अथ सूतीगृहस्वरूपम् ।
जीर्ण संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ
काष्ठाढ्यं सुदृढं रवौ शशिसुते चानेकशिल्प्युद्भवम् ।
रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं
चक्रस्थैस्तु यथोपदेशरचनां सामन्तपूर्वां वदेत् ॥ ७२॥
अथ सुतीगृहदिशा ।
मेषकुलीरतुलालिघतैः प्रगुत्तरते गुरुसौम्यगृहेषु ।
पश्चिमतश्च वृषेण निवासो दक्षिणभागकरौ मृगसिंहौ ॥ ७३॥
अथ सूतीगृहे जन्मस्थानम् ।
प्राच्यादिगृहे क्रियादयो द्वौ द्वौ कोणगता द्विमूर्त्तयः ।
शय्यास्वपि वास्तुवद्वदेत् पातैः षट्त्रिनवान्त्यसंस्थितैः ॥ ७४॥
अथ उपसुतिकाज्ञानम् ।
लग्नचन्द्रान्रगतैर्ग्रहैः स्युरुपसूतिकाः ।
बहिरन्तश्च चक्रार्द्धे दृशादश्येऽन्षवा परे ॥ ७५॥
अथ जातकस्य स्वरूपादिज्ञानम् ।
लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा ।
चन्द्रसमेतनवांशपर्वणः कादिविलग्नविभक्तभगात्रः ॥ ७६॥
कन्दृक्ष्रोत्रनसाकपोलहनवो वक्त्रं च होरादय-
स्ते कण्ठांसकबाहुपाश्वहृदयक्रोडानि नाभिस्ततः ।
बस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी
जडाङ्घ्रीत्युन्जयत्र वाममुदितैर्द्रेक्काणभागैर्स्त्रधा ॥ ७७॥
अथ जाताङ्गे चिह्वज्ञानम् ।
तस्मिन्पापयुते व्रणं शुभयुते दृष्टे च लक्ष्मादिशेत्
स्वर्क्षंशे स्थिरसंयुते च सहजः स्यादन्यथाऽगन्तुकः ।
मन्देऽश्मानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूभवः
सूर्ये काष्ठचतुष्पदेन हिमगौ शृङ्ग्यब्जजोऽन्यैः शुभम् ॥ ७८॥
समनुपतिता यस्मिन् भागे त्रयः सबुधा ग्रहा
भवति नियमातस्यावाप्तिः शुभेष्वशुभेषु वा ।
व्रणकृदशुभः षष्ठे देहे तनोर्भसमाश्रिते
तिलकमशकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान् ॥ ७९॥
वियोनिजन्मविज्ञानं निषेकोदयजं फलम् ।
जन्मकालप्रिज्ञानं यत्तदाचार्यभाषितम् ॥ ८०॥
इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
आधानजन्माध्यायस्तृतीयः ॥ ३॥
अथारिष्टाध्यायः ॥ ४॥
तत्रादौ द्वादशाप्दीमध्ये आयुषोऽनिश्वितता
आद्वादशाब्दान्तयोनिजन्मनामायुष्कला निश्चयुतिं न शक्यते ।
मात्रा च पित्रा कृतपापकर्मणा बालप्रहैर्नाशमुपैति बालकः ॥ १॥
आद्ये चतूष्के जननीकृताधैर्मध्ये तु पित्राऽजितपापसैः ।
बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम् ॥ २॥
अथारिष्टपूर्वकमायुषां भेदाः ।
अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् ।
अल्पं चान्द्रात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम् ॥ ३॥
अथ अरिष्टदा ग्रहस्थितिः ।
विलग्नगतस्त्वपि देवमन्त्री विनाशरिःफारिगते शशाङ्के ।
विलोकिते पापवियचरेण विभानुना मृत्युमुपैति ग्र॥॥ः ॥ ४॥
गण्डान्ततारासहिते मृगाक्के पापेक्षिते पापसमन्विते वा ।
बालो लयं यति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा ॥ ५॥
ताताविकासोदरभातुलाश्च मातामही मातृपता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ ६॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७॥
अथ पित्रादीनामरिष्टयोगाः ।
तातान्विकासोदरमातुलाश्च मातामही मातृपिता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥ ६॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा य्(व्)दा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥ ७॥
क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीच्चणयोगहीनौ ।
केन्द्रच्युतो यद्यमरेशमन्त्री जातस्य भाता समुपैति नाशम् ॥ ८॥
अथ सगर्भामृत्युयोगौ ।
सभानुजे शीतकरे विलग्नाद् दिवाकरे रिःफगृहोपयाति ।
धरासुते नधुगते तदानीं विपद्यते तज्जननी सगर्भा ॥ ९॥
विलग्नचन्द्रौ शुभदृक्विहीनावशोभनव्योमचरान्तरस्थौ ।
विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥ १०॥
षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु ।
पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥ ११॥
लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृष्टिवर्जितौ ।
शस्त्रेण मृत्यु समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥ १२॥
अथ जातस्य मातृमरणयोगाः ।
चन्द्राचतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः ।
व्यापारगैर्वा यदि वासरेशाज्जातस्य माता निधनं प्रयाति ॥ १३॥
शुक्राद्रवौ विक्रमगे बलाध्ये मन्देक्षिते मन्दसमन्विते वा ।
क्षीणे शशाङ्ले यदि वा सपापे माता सपुत्रा म्रियते,अचिरेण ॥ १४॥
लग्नादिने वाऽष्टमगे धराजे पापेक्षिते सौम्यदृशा विहीने ।
ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति ॥ १५॥
शुक्रात् कुजेऽहनि तपः सुतराशियात् चन्द्रात्रिकोणगृहगे रविजे रजन्याम् ।
पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के ॥ १६॥
अथ गर्भस्य मासधिपाः(होरायाम्)
कललग्ननाक्कुरास्थिचर्माङ्गज्चेतनताः
सितकुजजीवरविचन्द्रार्कुबुधाः परतः ।
उदयकुजजीवरविचन्द्रार्किंबुधाः गदिता
वदन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥ १७॥
अथ गर्भ सुखम् ।
शशाङ्कलग्नोपगतैः शुभग्रहैस्त्रिकोणजायार्थसुखास्पदस्थितैः ।
तृतीयलाभर्क्षगतैश्च पापकैः सुखी च गर्भो रविणा निरीक्षितः ॥ १८॥
अथ जातस्य पितृमरणयोगाः ।
व्ययस्थितेऽर्के ससुते विलग्नादपि क्षयेन्दौ मदनोपयाते ।
पितुर्वियोगं प्रव्दन्ति सद्यः शुभेक्षिते तु त्रिभिरब्दमानैः ॥ १९॥
चरोपगे चन्द्रमसि क्षपायां बुधेक्षिते दूरदिशं प्रयातः ।
चरे शनौ भानुयुते निशायां विदेशगो वाति पिता विनाशम् ॥ २०॥
अथ जातस्य मृत्युयोगाः ।
क्षीणे शशिन्युदयगे यदि कण्टकस्थे पापेऽथवा निधनगे म्रियतेऽथ बालः ।
रन्ध्ररिगैरशुभखेटदृशा समेतैः सौम्यैः कृतान्तनगरं समुपैति मासात् ॥ २१॥
एकत्र मन्दावनिनन्दनार्का रन्ध्रस्थिता वा रिपुराशियाताः ।
सौम्यैरयुक्ता अविलोकितास्ते जातस्य सद्यो मरणप्रदाः स्युः ॥ २२॥
चन्द्रांशे सओप्तमे भौमे सौम्यदृष्टिविवर्जिते ।
सप्तसप्ततितारायामुपैति मरणं शिशुः ॥ २३॥
मन्दावनिजमार्तण्डैः पुत्रस्यानसमन्वितैः ।
सप्तसप्ततिनक्षत्रे जातस्य मरणं वदेत् ॥ २४॥
धरसुते चन्द्रनवांशकस्थे लग्नांशके वा न च जीवदृष्टे ।
सुधाकरे नन्दनराशियाते समेति याम्यं पदभाशु बालः ॥ २५॥
नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते ।
जातो मृतप्रायकलेवरः सन्कृच्छेण वैवस्वतलोकमिति ॥ २६॥
अपोक्लिमस्थानगता न भोगा विधूतवीर्यां यदि भानुमुख्याः ।
मासद्वयं तस्य वा जातस्य चायुः कथयन्ति तज्ज्ञाः ॥ २७॥
लग्नारिरन्ध्रव्ययगे शशाङ्के पापेन दृष्टे शुभदृष्टिहीने ।
केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैवियोगं व्रजति प्रजातः ॥ २८॥
सौरे मदस्थे यदि वा विलग्ने जलोदयऽब्जे यदि कीटगे वा ।
सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम् ॥ २९॥
भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा ।
सन्ध्यात्रये च सङ्जातो मासान्मृत्युमुपैति सः ॥ ३०॥
रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् ।
केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति ॥ ३१॥
पापाबुदयास्तगतौ क्रूरेण युतश्च शशी ।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात् ॥ ३२॥
क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगैः ।
केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ ३३॥
क्रूरेण संयुतः शशी स्मरान्त्यमृत्युलग्नगः ।
कण्टकाद्विःशुभैरवीक्षितश्च मृत्युदः ॥ ३४॥
शशिन्यरिविनाशगे निधनमाशु पापेक्षिते ।
शुभैरथ समाष्टकं दलमतश्च मिश्रेक्षिते ।
असद्भिरवलोकिते बलिभिरत्र म्(भ)आसं शुभे
कलत्रसहिते च पापविजिते विलग्नाधिपे ॥ ३५॥
अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते
जननिसुतयोर्मृत्युलग्ने रवौ तु सशस्त्रजः ।
उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै-
र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते ॥ ३६॥
असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनैधनाश्रितैः ।
भवति मरणमाशु देहनां यदि बलिना गुरुणा न वीक्षितैः ॥ ३७॥
सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुते मरणाय शीतश्मिः ।
भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितां वा ॥ ३८॥
अथ वर्षमध्ये मरणम् ।
योगे स्थानं बलनश्चन्द्रे स्वं वा तनुगृहमथवा ।
पपैर्दृष्टे बलवति मरणं वर्धस्यान्तः किल मुनिगदितम् ॥ ३९॥
अथ वर्षद्भयमायुः ।
वक्री शनिभौमगृहोपयातः केन्द्रेऽथवा शत्रुगृहे विनाशे ।
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥ ४०॥
अथ वर्षत्रयमायुः ।
बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूनिः ।
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥ ४१॥
अथ चतुर्थवर्ष मरणम् ।
षष्ठाष्टमे कर्किणि जन्मलग्नात् सौम्ये सुधारश्मिनिरीक्ष्यमाणो ।
अब्दैश्चतुर्भिः समुपैति नाशं जातो नरः सर्वबलान्वितोऽपि ॥ ४२॥
अथ पङ्चमेऽब्दे मरणम् ।
रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिः सहैकस्थैः ।
रविशनिभौमशशाङ्कैर्मरणं खलु पङ्चमिवर्षैः ॥ ४३॥
अथ षद्वर्षमायुः ।
यदा सुधारशिमनवांशकस्थे निरीक्षिते शीतकरेण मन्दे ।
लग्नाधिपे चन्द्रदृशा समेते जातस्य षद्वर्षमितं तदाऽयुः ॥ ४४॥
अथ सप्तमेऽब्दे मरणम् ।
लग्ने यद्द्रेक्काणो निगलाहिहिहङ्गपाशधरसूज्ञः ।
मरणाय सप्तवर्षैः क्रूरयुतो न स्वपतिसंदृष्टः ॥ ४५॥
अथ सप्ताष्टवर्षे मृत्युः ।
लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः ।
दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात् ॥ ४६॥
अथ नवमेऽब्दे मृत्युः ।
दिवकरेन्दुभूपुत्रः पुत्रस्यानसमन्विताः ।
जातो यमपुरं याति नवमाब्दे न संशयः ॥ ४७॥
पापो विलग्नाधिपतिः शशांकादन्यस्थतः क्रूरनिक्षितश्चेत् ।
चन्द्रांशकस्थे यदि वा तदीशो जातः शिशुर्याति लयं नवाब्दैः ॥ ४८॥
अथ दशवर्शायुः ।
मृगांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
जन्मप्रभृतिशत्रुत्वं तस्यायुर्दशवत्सरम् ॥ ४९॥
अथ एकादशे वर्षे मरणम् ।
रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति ।
एकादशभिर्वर्षैर्जातं नृपतुल्यभोगसम्पन्नम् ॥ ५०॥
अथ द्वादशेऽब्दे मरणम् ।
चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः ।
लग्नादष्तमराशिस्थो द्वादशाब्दे सितेक्षितः ॥ ५१॥
अल्यांशकस्थिते मन्दे सूर्येणैव निरीक्षिते ।
पितृद्वषसमायुक्तो द्वादशाब्दं च जीवति ॥ ५२॥
अथ त्रयोदशेऽब्दे मृत्युः ।
लग्नांशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
त्रयोदशाब्दे मरणम् जातस्य पितृवैरिणः ॥ ५३॥
अथ चतुर्थदशऽब्दे मृत्युः ।
कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥ ५४॥
अथ पङ्चदशाब्दय्युः ।
सिमांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
शस्त्रपीडा भवेत्तस्य चायुः पङ्चदशाब्दकम् ॥ ५५॥
अथ षोडशेऽब्दे मरणम् ।
कर्काशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥ ५६॥
अथ सप्तदशेऽब्दे मृत्युः ।
यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते ।
रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥ ५७॥
अथ अष्टादशेऽब्दे मृत्युः ।
परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ ।
रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥ ५८॥
अथ सद्यो मृत्युः ।
जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
देहाधिपे शुभादृष्टे जातः सद्यो वुनश्यति ॥ ५७॥
अथ १९ वर्षे मृत्युः ।
तदीशस्तुङ्गभागश्चेदायुरेकोनविंशतिः ॥ ५८॥
अथ २० वर्षे मृत्युः ।
केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु ।
षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥ ५९॥
अथ २२ वर्षे मृत्युः ।
जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः ।
अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः ॥ ६१॥
२६/२७ वर्षे मृत्युः ।
मन्दोद्ये शत्रुराशौ सौम्यैरापोक्लिमोपगैः ।
षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे ॥ ६२॥
अथ २८ वर्षे मरणम् ।
रन्ध्रेशे जीवसंदृष्टे पापे पापनिरीक्षिते।
रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतुवत्सरे ॥ ६३॥
अथ २९ वर्षे मृत्युः ।
चन्द्रे मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ।
एकोनत्रिंशके वर्षे जातो यम्पुरं व्रजेत् ॥ ६४॥
अथ २९ वा ३० वर्षे मृत्युः ।
जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ।
सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ ६५॥
अथ ३२ वर्षे मरणम् ।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ।
त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ ६६॥
क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ।
पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ ६७॥
अथ अल्पायुर्योगाः ।
षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति ।
अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ६८॥
क्रूरषष्ठ्यंशकए वाऽपि रन्ध्रेशे भानुजेऽपि वा ।
पापान्विते पापखेटे चाल्पमायुर्विनिर्दिशेत् ॥ ६९॥
व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ ।
क्रूरषष्ठ्यंशसंयुक्तौ वाऽल्पमायुर्विनिरिदिशेत् ॥ ७०॥
इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः ।
अथारिष्टभङ्गाः ।
अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे ।
केन्द्रस्थिते पापदृशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः ॥ ७१॥
अथ चन्द्रकृतोऽरिष्टभङ्गः ।
चन्द्रः सन्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा ।
सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः ॥ ७२॥
अथ शुभग्रहकृतोऽरिष्टभङ्गः ।
जीवभार्गवसौम्यानामेकः केन्द्रगतो बली ।
पापकृद्योगहीनश्चेत्सद्योऽरिष्टस्य भङ्गकृद् ॥ ७३॥
अथ चद्रकृतोऽरिष्टभङ्गः ।
स्वोच्चस्थः स्वगृहेऽथवापि सुहृदां वर्गे च सौम्यस्य वा ।
सम्पूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽपि वा ॥ ७४॥
शत्रूणामवलोकनादिरहितः पापैरयुक्तेक्षितो।
अरिष्टं हन्ति उदुस्तरं दिनमणिः प्रालेयराशिं यथा ॥ ७५॥
पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः ।
तं चन्द्रमा रिपुविनाशग्तोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥ ७६॥
अथ गुरुकृतोऽरिष्टभङ्गः ।
केन्द्रोपगोऽतिबलवान् स्फुरदंशुमली स्वर्लोकराजसचिवः शमयेदवश्यम् ।
एको बहुनि दुरितानि उदुतराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥ ७७॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नेशे बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ।
अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ ७७॥
अथ ग्रहकृतोऽरिष्टभङ्गः ।
यस्य जन्मनि तुङ्गस्याः स्वक्षेत्रस्थान्माश्रिताः ।
चिरायुषं शिशु जातं कुर्वन्त्यत्र न संशयः ॥ ७८॥
अथ राहुकृतोऽरिष्टभङ्गः ।
राहुस्त्रिषष्ठलाभे लग्नत्सौम्यैर्निरीक्षितः सद्यः ।
नाश्यति सर्वदुरितं मारुत् इव तलसङ्गातम् ॥ ७९॥
अजव्वृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ।
वृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ ८०॥
अथ पुमश्चन्द्रकृतोऽरिष्टभङ्गः ।
निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ।
जानस्य निःशोषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ ८१॥
अथ राशीशकृतोऽरिष्टभङ्गः ।
चन्द्राधिष्ठतराशीशे लग्न्स्थे शुभवीक्षिते ।
भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥ ८२॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नाधिपोऽतिबलशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः ।
मृत्युंविधूय विदधाति स दीर्घमायुः सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ ८३॥
अथ मध्यमायुःप्रदता जीवस्य ।
बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे ।
षष्ठामव्यये पापे मध्यमायुरुदाहृतम् ॥ ८४॥
द्वात्रिंशद्वत्सरादुपति सप्ततिपर्यन्तं मध्यमायुर्योगः ।
अथ पूर्णयुःप्रदा योगाः ।
चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ।
गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥ ८५॥
केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ।
ताम्यां निरिक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ८६॥
उच्चान्वितैर्स्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः ।
रन्ध्रे पापविहीने च दीर्घमायुविनिर्दिशेत् ॥ ८७॥
रन्ध्रेस्थितैर्स्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुविनिर्दिशेत् ॥ ८८॥
स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ।
शनिर्वा रन्ध्रनाथो वा दीर्घमायुविनिर्दिशेत् ॥ ८९॥
त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
लग्नेशे बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥ ९०॥
षट्सप्तर्न्ध्रभावेषु उभेषु सहितेषु च ।
त्रिषडायेषु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥ ९१॥
रिःफशत्रुगताः पापा ल्ग्नेशे यदि केन्द्रगः ।
रन्ध्रस्थानगता पापाः कर्मेशः बहुसम्मतम् ॥ ९२॥
रन्ध्रे शस्थगृहाधीशो यस्मिन् राशौ व्यवस्थितः ।
तदीशो लग्ननाथश्च केन्द्रगो यदि ताद्दशम् ॥ ९३॥
द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ।
स्वोच्चमूलत्रिकोणे वा चिरं जीवति भाग्यवान् ॥ ९४॥
द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ।
द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥ ९५॥
चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ।
शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥ ९६॥
अथ पूर्णयुषः प्रमाणम् ।
सप्तत्युपरिशतान्तं पूर्णमायुः ।
अथ योगविदेषात् युगान्तमायुः ।
मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः ।
बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥ ९७॥
अथ मुनित्वप्रदो ग्रहयोगः ।
एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ ।
अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥ ९८॥
अथ अमितमायुः ।
गुरुशशिसहिते कुलिरलग्ने शशितनये भृगुजे च केन्द्रयाते ।
भवरिपुहजोपगैश्च शेषैरमितमिहायुरनुक्रममाद्विना स्यात् ॥ ९९॥
अथ देवसादृश्यप्रदा ग्रहस्थितिः ।
त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते ।
रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥ १००॥
शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः ।
वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥ १०१॥
अथ श्रसङ्ख्यायुःप्राप्तिः ।
मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे ।
सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ १०२॥
अथ मुनिसमत्वम् ।
देवलोकांशके मन्दे भौमे पारावतांशके ।
सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ १०३॥
अथ युगान्तमायुः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ १०४॥
अथ ब्रह्मपदप्राप्तिः ।
चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते ।
त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ १०५॥
लग्ने सेव्ये भृगौ कामे कन्यायामुडुनायके ।
चापे मेषांशके लग्ने जातो याति परं पदम् ॥ १०६॥
अथ आयुषः सप्तविधता ।
बालारिष्टं योगसङ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः ।
दिव्यं योगाम्यासमन्त्रक्रियाद्यैरायुः सपतैतानि सङ्कीर्तितानि ॥ १०७॥
इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते
बालारिष्टाध्यायः चतुर्थः ॥ ४॥
अथ आयुर्दायाध्यायः ॥ ५॥
निसर्गपैड्यांशकरश्मिच्क्रनक्षत्रदायाष्टवर्गजाति ।
पराशराद्यिः कथितानि यानि संगृह्य तानि क्रमशः प्रवच्मि ॥ १॥
अथ निसर्गायुषो वर्षसङ्ख्यह् ।
नरवाः ययी द्वु धृतिय्च धृतिय्च कृतिः खबाणा राविपूर्वकाणाम् ।
इमा निरुक्ताः क्रमयो ग्रहाणां नैसर्गिके ह्वायुषि वर्षसंख्याः ॥ २॥
अथ पिण्डायुषो वर्षसंख्यः ।
नवेन्दवो वाणयमाः शरक्ष्मा दिवाकराः पश्चभुवः कुपक्षाः ।
नखाश्च भाखत्प्रमुखप्रहाणां पिण्डायुषोऽब्दा निजतुङ्गानाम् ॥ ३॥
अथ पिण्डायुषः स्पष्टीकरणविधिः ।
निजोश्चशुद्धः खचरो विशोध्योः भमणडलात् षड्भवनोनकश्चेत् ।
यथास्थितः षड्भवनाधिकश्चेल्लीकृतः सङ्गुणितो निजाब्दैः ॥ ४॥
तत्र खाभ्ररसचन्द्रलोचनैरुद्धृते सति यदाप्यते फलम् ।
वर्षमासदिननाडिकार्दकं ताद्धि पीण्डभवमायुरुच्यते ॥ ५॥
स्वोच्चोनस्फुटखेचरं यदि रसादल्पं भचक्रोद्धृतम्
लिप्तीकृत्य निजायुरब्दगुणितं तच्चक्रलिप्ताहृतम् ।
लब्धं वासरनायकादिखचरैर्दृत्तायुरब्दादिकम्
नीचार्द्धक्रमशो वदन्ति भुनयः पैण्डये च नैसर्गिके ॥ ६॥
अथायुषो हरणं होरायाम् ।
नीचेऽतोऽर्त्द्धं ह्वसति हि तत्श्वान्तरस्थेऽनुपातो
होरा त्वांशप्रतिभमपरे राशितुल्यं वदन्ति ।
हित्वा वक्रं रिपुगृहगतैर्हीयते स्वत्रिभागः
सूर्योचिक्षत्रद्युतिषु च दलं प्रोज्भूय शुक्रार्कपुत्रौ ॥ ७॥
क्षोणीपुत्रं वर्जियत्वा रिपुस्थार्व्यंशं नीचस्थानगास्ते तदर्धम् ।
अस्तं याताः शर्व एवार्द्धहानिं कुर्युहित्वा शुक्रमार्तण्डपुत्रौ ॥ ८॥
अथ व्ययादिहरणम्
सर्वार्द्धत्रिचरणपश्चषष्ठभागाः क्षीयन्ते व्ययभवनादसत्सु वामम् ।
सत्स्वर्धं हसति तथैकराशिगानामेकोऽम्श हरति बली तथाऽह सत्यः ॥ ९॥
एकर्क्षोपगानां यो भवति बलाधिको विशेषेण ।
क्षपयति यथोत्कभंशं स एव नान्योऽपि तत्रस्थः ॥ १०॥
अथ क्रुरोदयहरणम् ।
सार्द्धोदितोदितनवांशहतात्समस्ताद् भागोऽष्टयुक्तशतसद्ख्य उपैति नाशम् ।
क्रूरे विलग्नसहिते विधिना त्वनेन सौम्येक्षिते दलमतः प्रलयं प्रयाति ॥ ११॥
लिप्रिभूतैर्लग्नभावैर्नहन्यादायुर्द्धयं खेचराणां पृथक्स्यम् ।
व्योमाकाशत्विन्दुपक्षैर्भजेत्तत् स्वायुर्दायाच्छोध्यमब्दादि लब्धम् ॥ १२॥
एतत् क्रूरे लग्नके सौम्यदृष्टे तस्मिन्पापे तत्फलार्द्धं विशोध्यम् ।
एतरायेनां शसङ्ज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिके च ॥ १३॥
अथ लग्नायुःसाधनम् ।
आयुस्थैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र ।
भक्ते द्विशत्या फलमब्दपूर्वं यत्स्याद्विलग्नायुषि तञ्च योज्यम् ॥ १४॥
लग्नराशिसमाश्वाब्दास्तन्मासाद्यनुपाततः ।
लग्नायुर्द्ष्यमिच्छन्ति होराशास्त्रविशारदाः ॥ १५॥
अथ षड्विधरणम् ।
क्रूरोदयास्तरिपुनीचस्वगीपगानां रिःफायमाननवरन्ध्रकलत्रगानाम् ।
कृत्वा यथाहरणषत्कमिनादिकानां लग्नायुषा सह युते यदि तुल्यमायुः ॥ १६॥
अथ अंशकायुः ।
स्वमतेन किलाह जीवशर्मा ग्रहदायं परमायुपः स्वरांशम् ।
ग्रहभुक्तनवांशराशितुल्यं बहुसाम्यं समुपैति सत्यवाक्यम् ॥ १७॥
सत्योक्ते ग्रहमिष्टं लिप्तिकृत्वा शतद्वयेनास्तम् ।
मण्डलभागविशुद्धेऽब्दाः स्युः शेषात्तु मासाद्याः ॥ १८॥
स्वतुङ्गवक्रोपगतैर्स्त्रसंगुणो द्विरुत्तमस्वाम्शकभत्रिभागगिः ।
इयान् विशेषस्तु मदन्तभाषिते समानमन्यत् प्रथमेऽप्युदीरितम् ॥ १९॥
किन्त्वत्र भांशप्रतिमं ददाति वीर्यान्विता राशिसमं च होरा ।
क्रूरोदये चोऽपचयः स नात्र कार्यं च नाब्दैः प्रथमोपदिष्टैः ॥ २०॥
सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणाभिः ।
वाचार्यकं त्वत्र बहुघ्नतायामेकं तु शद् तदेव कार्शम् ॥ २१॥
अथ राश्मिजायुः ।
दशगोशरबाणाद्रिवसुसायकरश्मयः दिननायकमुख्येषु निजतुङ्गतेषु च ॥ २२॥
स्वोच्चोनमिष्टखचरं यदि षड्गृहोनं चक्राद्विशोध्य कृलिप्तकमंशुमानैः ॥
हत्वा भचक्रकलिकाहृतमच्दपूर्वं रव्यादिरशिभजनितायुरिति ब्रुषन्ति ॥ २३
अथ रश्मेर्हरणम् ।
स्वराशिकुमतिसुहृत्गृहस्थे वक्रोपगे तद्राद्विगुणिकृताम्युः? ।
वक्रवसानेऽष्टमभागर्कज्यां सपत्नगे द्वादयभागहानिः ॥ २४॥
अस्तङ्गतेषु द्युचरेषु चार्द्धं हित्वा शानिं दानवपूजितं च ।
तद्राश्मियोगे ग्रहदत्तमायुर्महेन्द्रशास्त्रोदितमाहुरार्याः ॥ २५॥
अथ चक्रायुः ।
रव्यादिसप्तग्रहतारकांशभुक्तावशेषाब्दसमूहमायुः ।
सव्यापसव्योपगवाक्यजं वा वदन्ति चक्रायुरिनादिकानाम् ॥ २६॥
अथ दशायुः ।
आदित्यसुख्यनवखेचरयोगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् ।
आयुर्दशाजनितमष्टकवर्गजातं यत्प्रोक्तमेव सकलं प्रवदन्ति तज्ज्ञाः ॥ २७॥
अथ बलोपेते शुभदृष्टेऽशसम्भवम् ।
रवौ पिण्डोद्भवं कुर्याच्चन्द्रे नैसर्गिकं क्रमात् ॥ २८॥
जच्चङ्गते रवौ चान्ये बलिष्ठाः केन्द्रकोणगाः ।
सर्वेषु स्वोच्चभावेषु बलिष्ठे शशहंसके ॥ २९॥
एवं चिरायुषां योगोष्वन्येषु गणितेषु च ।
चान्द्रयोगेषु त्र्ये तु चन्द्रे च बलसंयुते ॥ ३०॥
महापुरुषयोगेषु वीर्योत्कटयुतेषु च ।
राजयोगेषु सर्वेषु पैणड्यमाह पराशरः ॥ ३१॥
लग्ने गुरौ कर्मगते च भानौ चन्द्रे सुखे वाऽस्तगते बलाढ्ये ।
केन्द्रत्रिकोणोपचये च सौम्ये पापेष्चथापोक्लिमगेषु पैणड्यम् ॥ ३२॥
पैणड्यं भानौ निसर्गप्रभवमुडुपतौ रश्मिजं सोमपुत्रे
भौमे भिन्नाष्टवर्गोदितमसुरगुरौ कालचक्रोद्भवायुः ।
देवाचार्ये दशायुर्दिनकरतनये सामुदायं बलिष्टे
लग्ने यद्यंशकायुर्भवति बलयुते चाहुराचार्यमुख्याः ॥ ३३॥
अथायुषः पष्टीकरणम् ।
आयुरब्दादिकं सर्वं निश्चलेन गुणिकृतम् ।
मातङ्गेन हृतं लब्धं सौरमानायुरुच्यते ॥ ३४॥
आयुषोऽधिकारिणः ।
ये धर्ममार्गनिरता द्विजदेवभक्ता ये पव्यभोजनरता विजितेन्द्रियश्च ।
येमानवाद्वृतिसत्कुलशीलसीमास्तेषामिदं कथितमायुरुदारधीभिः ॥ ३५॥
ये पापलुब्धाश्वोराश्च देवब्राह्मणनिन्दकाः ।
सर्वाशिनश्च ये तेषामकालमरणं नृणाम् ॥ ३६॥
धर्मे विकल्पबुद्धीनां दुःशीलानां च विद्विषाम् ।
ब्राह्मणानां च देवानां परद्रव्यापहारिणाम् ॥ ३७॥
भयक्कराणां सर्वेषां मूर्खाणां पिशुनस्य च ।
स्वधर्माचारहीनानां पापकर्मोपजीविनाम् ॥ ३८॥
शास्त्रेष्वनियतानां च मूढानामपमृत्यवः ।
अन्येषामुत्तमायुः स्यादिति शास्त्रविदो विदुः ॥ ३९॥
अथ नानाजातीयमायुः ।
गृध्रोलुकशुकष्त्राड्क्षसर्पाणां च सहस्रकम् ।
श्येनवानरमल्लुकमणडुकानां शतत्रग्रम् ॥ ४०॥
पश्चाशदुत्तरशवं राक्षसानां प्रकीर्तितम् ।
नराणां कुञ्जराणां च विंशोत्तरशतं विदुः ॥ ४१॥
द्युत्रिंशदायुरश्चानां पश्चविंशत् खरोष्टूयोः ।
वृषमाहिषयोश्वैश्व चतुर्वशतिवत्सराः ॥ ४२॥
विंशत्यायुर्मयूराणां छागादीनां च षोडश ।
हंसस्य पङ्चनवकं द्वादशाब्दाः पिकाः शुकाः ॥ ४३॥
तद्वत्पारावतानां च कुक्कूटस्याष्टवत्सराः ।
बुद्बुदानामणडजानां सप्तसङ्गथाः समाः स्मृताः ॥ ४४॥
आरिष्टदशा ।
त्रिमणडलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः ।
न सौम्यग्रहसंयुक्तस्तदशान्ते मृतिं वदेत् ॥ ४५॥
राशिसन्धिस्थखेटानां दशा रोगप्रदा भवेत् ।
त्रिंशद्भागमनुक्रान्तदशायां मरणं नृणाम् ॥ ४६॥
षष्ठाष्टमस्थो रिपुदृष्टमूर्त्तिः पापग्रहः पापगृहोपगश्चेत् ।
स्वान्तर्दशायां मरणं नराणां वदन्ति युद्धे विजितस्य दाये ॥ ४७॥
पङ्चम्यारदशा मृत्युं दद्यात्षष्ठी गुरोर्दशा ।
शनेश्चतुर्थी मृत्युः स्यादशा राहोस्तु पञ्चमी ॥ ४८॥
नीचारातिविमूढस्य विपत्प्रत्यारिनैधनाः ।
दशा दद्युर्मृतिं तस्यं पापयुक्ता विशेषतः ॥ ४९॥
तत्तद्भावार्थकामेशदशास्वन्तर्दशासु च ।
तत्तद्भावविनाशः स्यात् तद्युक्तेक्षितकारकैः ॥ ५०॥
अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ ।
तदीशानवभागर्क्ष गते वा मरणं भवेत् ॥ ५१॥
अथ च्छिद्रग्रहाः ।
रन्ध्रेश्वरो रन्ध्रयुक्तो रन्ध्रष्टा स्वरेश्वरः ।
रन्ध्राधिपयुतश्चैव चतुःषष्टयंशनायकः ॥ ५२॥
रन्ध्रे श्वरातिशत्रुश्च सप्त च्छिद्रग्रहाः स्मृताः ।
तेषां मध्ये बली यस्तु तस्य दाये मृतिं वदेत् ॥ ५३॥
तत्तद्भावाद्वपयस्त्थस्य तद्भावाधीश्वरस्य वा ।
वीर्योर्पेतस्य खेटस्य पाके मृत्युर्न संशयः ॥ ५४॥
अथ द्रेक्काणस्वरूपम् ।
कुलीरमीनालिगता दृगाणाः मध्यावसानप्रथमा भुजङ्गाः ।
अलिद्वितीयो मृगलेयपूर्वः क्रमेण पाशो निगडो विहङ्गः ॥ ५५॥
विलग्नजन्मद्रेक्काणाद्यस्तु द्वाविंशाति स्वरः ।
सुधाकरोपगांशर्क्षात् चतुःषष्ट्यंशको भवेत् ॥ ५६॥
अथ जीघदेहमृत्युसंज्ञाः ।
लग्नं पश्चहतं च मान्दिसहितं प्राणस्फुटं प्राणिनाम्
चन्द्र्स्य स्फुटमष्टकेन गुणितं देहं समान्दिस्फुटम् ।
सप्तघ्नं गुलिकस्तुटं सह दिवानथेन मृत्युर्भवेत्
तस्माज्जीवकलेवरैक्यविपुले जातश्विरं जीवति ॥ ५७॥
अथ निर्याणसमयाः
जीवमृत्युतनुयोगराशिगे गोचरेण रविजे धनक्षयः ।
तन्त्रिकोणगृहगेऽथवा नृणां तन्नवांशकयुते मृतिं वदेत् ॥ ५८॥
भावत्रिकोणगे मन्दे भावनाशं वदेद्वुधः ।
भावाधिपतिकोणे वा गुरौ प्राप्ते मृतिर्भवेत् ॥ ५९॥
लग्नाकर्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु ।
तद्राशिसंस्थे पुरुहूतवद्ये तत्कोणगे वा मृतिमेति जातः ॥ ६०॥
स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् ।
तदेआशिवभागस्थे जीवे मृत्युर्न संशयः ॥ ६१॥
मान्दिस्फुटे भानुस्फुतं विशोध्य राश्यंशकोणे रविजे मृतिः स्यात् ।
धूमादिपङ्चग्रहयोगराशिद्रेक्काणयातेऽर्कसुते च मृत्युः ॥ ६२॥
मान्दिस्फुटोदितनवांशगतेऽमरेज्ये तद्द्वादशांशसहिते दिननाथसूलौ ।
द्रेक्कणकोणभवने दिनपे च मृत्युर्लग्नेन्दुमान्देयुतभेऽश॥ओदये स्यात् ॥ ६३॥
विलग्नमान्दिस्फुटयोगमांशं निर्याणमांसं प्रवदन्ति तज्ज्ञाः ।
निर्याणचन्द्रे गुलिकेन्दुयोगो लग्नं विलग्नार्क्किसुतेन्दुयोगम् ॥ ६४॥
गुलिकं रविसूनुं च गुणित्वा नवसङ्गयया ।
उभयोरैक्यराशगृहगे रविजे मृतिः ॥ ६५॥
षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते ।
तत्रिकोणोपगे वाऽपि मन्द् मृत्युभयं नृणाम् ॥ ६६॥
जीवे नन्दहते विरिङ्चिगुणितं मन्दं च मान्दिस्फुटम्
संयोज्यं पुनरक्कवृद्धिभिनजं मन्दात्मजं योजयेत् ॥
तदेवेशपुरोहितस्फुटचयप्राप्तं नवांशं गते
जीवे गोचरगे यदि नृणां निर्याणकालो भवेत् ॥ ६७॥
भानुस्फुटे नवहते रविजं च मान्दिं हत्वा ग्रहैरतदिनराशिगणेषु योज्यम् ।
मान्दि पुनश्च नवकेन हतं च युव्ज्यात् तद्राशिकांशगतपूषणि मृत्युकालः ॥ ६८॥
सुतेशसंयुक्तनभश्वराणाम् दशाब्दसङ्गया दिननायकाप्ताः ।
तच्छेषिते मासि मृतिं नराणां वदन्ति लग्नेशयुतग्रहैर्वा ॥ ६९॥
चन्द्रस्फुटे नवकसङ्गुणिते तु मान्दिं मन्दं च नन्दहतमिन्दुनियोजनीयम् ।
कृत्वा पुर्ननवहतार्कसुतं समेतं यत्तन्नवांशकशशी मरणप्रदः स्यात् ॥ ७०॥
जतोऽह्नि चेदर्कशानिस्फुटौक्यतारादिनिर्याणदशा प्रकल्प्या ।
तारेशराद्दुस्फुटयोगतारापूर्वा दशाऽनिष्टकरा रजन्याम् ॥ ७१॥
अथ निर्याणहेतुः ॥
उदयाद्द्वाविंशतिकं द्रेक्काणं कारणं मृत्योः ।
तस्याधिपस्य निर्याणं सूच्येद्विधिवत्तमः ॥ ७२॥
ज्ञेया जन्मानि यन्नवांशकगतो मान्दिस्तदोयास्तके
राशौ तिष्ठति चेत् शुभस्तु बलवान् सौख्येन नूनं मृतिः ।
भूपुत्रे समरेण सूर्यतनये चोरादिभिर्दानवैः
सर्पाद्यैश्च तथा नृपभयात्क्षिणोडुपे तोशजात् ॥ ७३॥
रन्ध्रं येन निरीक्षितं बलवता तद्धातुकोपन्मृतिः
सूर्यादभ्रिजलायुधव्वरककक्षुत्तृट्कृतैश्चामयैः ।
लग्नादष्टमधामपे तनुगते कालस्य कालस्य यदेहजैः
छिद्राम्शे च चरस्थिरोभयगते देशान्तरे स्वे पाथि ॥ ७४॥
शून्यागारे रन्ध्राशौ बलिष्ठैरादित्याद्यैर्वीक्षिते स्वेचरेन्दैः ।
नो चेन् छिद्रस्थानयातैश्च नो चेत् तद्रद्रेक्काणस्वामिना मृत्युमेति ॥ ७५॥
रव्यादिखेटनिजधातुभवामयेन जातस्तदीयखललींकरपीडया वा ।
रन्ध्रे शुभग्रहयुते तु विलापहेतुं सौख्येन मृत्युभुपयाति शुभोपयाते ॥ ७६॥
तुलायां रुधिरे प्राप्ते वृषभस्थे दिवाकरे ।
चन्द्रे मन्दगृहं प्राप्ते विणमध्ये मरणं भवेत् ॥ ७७॥
बलिना शानिना दृष्टे क्षीणेन्दौ निधनाश्रिते ।
गुदाक्षिरुकपीडया वा मृत्युः शस्त्रकृतो भवेत् ॥ ७८॥
लग्नाच्छिद्रत्रिकोणस्थैरर्कारार्किनिशाकरैः ।
मृत्युः स्याच्छैलपातेन वज्ञकुढ्यादिभिश्च वा ॥ ७९॥
भौमारुणौ यदि परस्परराशियुक्तौ केन्द्रस्थितौ निधननावकखेचरेन्द्रात् ।
जातोऽघसानसमये क्षितिपालकोपात् शूलादिकायुधवरैनिधनं समेति ॥ ८०॥
चन्द्रे तनौ दिनकरे विबलेऽष्टमस्थे
लग्नाद्व्यये सुरगुरौ सुखगे च पापे ।
जातस्य तस्य शयनाच्च्युतहेतुमृत्युः
शस्त्रेण वा निशि निधादकृतेन वा स्यात् ॥ ८१॥
लग्नेशे निधनांशस्थे मूढे षष्ठगतेऽथवा ।
क्षुवाधया च मरणं बन्धुहीने महीतले ॥ ८२॥
आयुर्विलग्नाधिपती बलेन हीनौ धरासूनुरृणोशयुक्तः ।
युद्धे मृतिं तस्य वदन्ति तज्ज्ञाः शस्त्रेण जातस्य मृतिं विशेषः ॥ ८३॥
लग्नेश्वरे वाहननाथयुक्ते वागीश्वरेणापि युते त्वजीर्णात् ।
दारेश्वरे वाहनावित्तराशिनाथान्विते वा मरणं त्वजीर्णात् ॥ ८४॥
भुक्त्यंशपो भानुसुतेन युक्तो दुःस्थानगो वा विषभक्षणे ।
सहार्हना वा शिखिना च तस्य मृत्युर्भवेद्रज्जुनिबन्धने ॥ ८५॥
पिशाचपीडाऽग्निजले विपत्स्याद्भौमहिमन्दान्यतमेन युक्त ।
क्षीणे शशाङ्के निधनस्थिते च दुःस्थे त्वपस्मारभयान्मृतिः स्यात् ॥ ८६॥
रन्ध्रस्यानगते सूर्ये भौमे वा बलवजिते ।
वित्ते पापग्रहैर्युक्ते पित्तरोगान्द्मृतिं वदेत् ॥ ८७॥
जलराशिगते चन्द्रे चाष्टमस्थेऽथवा गुरौ ।
पापग्रहेण संदृष्टे क्षयरोगान्मृतिं वदेत् ॥ ८८॥
अष्टमस्थानगे शुक्रे पापग्रहनिरीक्षिते ।
वातरोगात्क्षयाद्वाऽपि प्रमेहाद्वा मृतिं वदेत् ॥ ८९॥
सूर्यस्थानगते सौम्ये पापग्रहनिरीक्षिते ।
त्रिदोषान्मरणं विन्द्याज् ज्वररोगेण वा वदेत् ॥ ९०॥
मृत्युस्थानगते राहौ पापग्रहनिरीक्षिते ।
पिटकाद्युष्णरोगाद्वा सर्पदोषान्मृतिर्भवेत् ॥ ९१॥
पराभवगते राहौ पापग्रहनिरीक्षिते ।
मसूरिकादिरोगाद्वा पित्तभ्रंशान्मृतिं वदेत् ॥ ९२॥
अथ हस्तादिविच्छेदयोगाः ।
धर्मे शनौ चाथ गुरौ तृतीये करच्छिदः स्याग्निधने व्यये वा ।
कर्मस्थिताश्चेद्यदि राहुन्मन्दसौम्याः करच्छेद्युतोऽत्र जातः ॥ ९३॥
शुक्रेण दृष्टे यदि रन्ध्रनाथे सूर्ये शनौ वा फाणिनाथयुक्ते ।
क्रूरादिषष्ट्यंशसमन्विते वा विच्छेदनं तच्छिरसो वदन्ति ॥ ९४॥
मन्दे विलग्ने मदने सराहौ कन्यान्विते भार्गवनन्दने च ।
क्षीणे शशाङ्के मदराशियुक्ते विच्छिन्नहस्तश्च पदेन सार्द्धम् ॥ ९५॥
भूसूनुलग्ने यदि वा तदंशे सूर्यान्विते कृष्णानिशाकरे तु ।
फणीशचन्द्रात्मजसंयुतेऽर्कराशौ यदा तर्ह्युदरप्रभेदम् ॥ ९६॥
मन्दोदये सौम्यदृशा विहीने सर्पार्कयुक्ते यदि कृष्णचन्द्रे ।
नाभिप्रवेशोदरभेदमाहुः शस्त्रेण जातस्य प्राशराद्याः ॥ ९७॥
अथ दुर्मरणयोगाः ।
षष्ठाष्तमव्यये चन्द्रे लग्ननाथेन वीक्षिते ।
मन्दमान्द्यगुसंयुत्क्ते तस्य दुर्मरणं वदेत् ॥ ९८॥
मेषुरणस्थे यदि चित्रभानौ भौमे चतुर्थे न च सौम्युयुक्ते ।
सौम्ये विलग्नोपगते तु मृत्यु गोशृङ्गतः शूलनिपाततो वा ॥ ९९॥
दशमसुखसमेतैः पापदृष्तैश्च सय्म्यै-
रुदयनिधनयातैः शूलपातान्मृतिः स्यात् ।
शशिनि तनुगृहस्थे बन्धुगे न्भानुपुत्रे
कलहजनितदोषैरम्बरस्थे च भौमे ॥ १००॥
लग्नं गते दिनकरे तरुणीगतेन्दौ पापेक्षिते कलहतोयभयान्मृतिः स्यात् ।
लग्ने दिनेशशशिनौ द्विशरीरकेऽन्ये पापेक्षिता यदि बहुदकशृङ्गदष्टात् ॥ १०१॥
तुहिनकिरणलग्नात् पापखेटोपयाते नवमतनयराशौ पापखेटेक्षिते वा ।
भुजगनिगडपाशे रन्ध्रजन्मत्रिमागे जननसमयलग्नान्मृत्युद्बन्धनेन ॥ १०२॥
मीनोदये शशिरवी यदि पापयुक्तो पापेऽष्टमे च मरणं रभणीकृतं स्यात् ॥
भौमे सुखे दिनकरे यदि वा मदस्थे मन्देऽष्टमे शशिनि चान्नविशेषजन्यम् ॥ १०३॥
मन्दे धने सुखगते शशिनि क्षमाजे मानस्थिते व्रणकृतेन मृतिं समेति ।
बन्धुस्थेऽवनिसुते धनगे शशाङ्के भानौ नभस्थलगते तु गजाश्वयानात् ॥ १०४॥
रन्ध्रे शनौ वियति हीनबले शशङ्के भानौ सुखे निभृतकाष्ठहतेन मृत्युः ।
पापान्तरे जनलग्नपतौ सकेतौ लग्नाष्तमे खलयुते साति मातृकोपात् ॥ १०५॥
सुखास्प्दस्थैरशुभैर्ग्रहेन्दैस्त्रिकोणगैर्वाऽथ विलग्नराशौ ।
रन्ध्रेश्वरे भूतनयेन सार्द्ध उद्बन्धनात्तस्य मृतिं वदन्ति ॥ १०६॥
लग्ने रवौ सुते मन्दे रन्ध्रस्थे तृडुनायके ।
धर्म गते धरासूनौ वृक्षाशबिभयान्मृतिः ॥ १०७॥
पापेष्वाज्ञाबन्धुराशिस्थितेषु क्षीणे तारान्गयके शत्रुराशौ ॥
लग्नाच्छिद्रस्वानराशि गते वा यात्राकाले शत्रुदोषान्मृतिः स्यात ॥ १०८॥
लग्नान्त्यगौ भानुधराक्रमारौ दिनेशचन्द्रेन्दुसुता मदस्थाः ।
सुरालथोद्यानवनप्रदेशे प्रवासभूमौ भ्रियते तु जातः ॥ १०९॥
लग्नाष्तमे पापयुतेऽष्टमेशे रिःफोपयाते यदि केन्द्रगे वा ।
लग्नेश्वरे हीनबलेन युक्ते दुर्मार्गर्दोषात्प्रवदन्ति मृत्युम् ॥ ११०॥
भौमार्कजक्षेत्रगते शशाङ्के पापेक्षिते पापखगान्तरस्थे ।
कन्यागृहे वा हिबुकोपयाते मृतिं वदेदग्निजशस्त्रपातैः ॥ १११॥
यादि विषघटिकायामष्टमे पापयुक्ते विंषशिखिभवसस्त्रैर्जायते तस्य मृत्युः ।
बहुदिविचरयुक्ते लग्नपे साष्टमेशे बहुजनमृतिकाले मृत्युमेति प्रजातः ॥ ११२॥
लग्नेशस्थनवांशस्य राशिकोपोद्भवामयैः ।
मृत्युं तस्य वदन्त्येके हौरिका मुनिपुङ्ग्रवाः ॥ ११३॥
होरेशऽशगते तु तुम्दुरगृहे तापस्वराग्न्युद्भवै-
रूक्षे श्वासविकारशूलजनितैर्युग्मे शिरशूलजैः ।
वातोन्मादमवैः कूलीरभवने सिंहे विषस्फोटकैः
कन्यवां जठराम्निगुह्यजनितैर्जातस्य मृत्युं वदेत् ॥ ११४॥
जूकेशोकचतुष्पदज्वरभषैः कीटेऽस्मशस्त्रादिभि-
चापे तीव्रमरूद्भषैर्मृगसुखे ज्वाघ्रादिशूलामयैः ।
कुम्भे ज्याघ्रवधूकृतैरनिभिषे तोयातिसायिर्मृतिम्
संघ्रस्थांशगता प्रचारधरणी जातस्य मृत्युप्रदा ॥ ११५॥
अथ बिर्याणदिग्ज्ञनानम् ।
निशि बलयुतराशौ लग्नयातेऽह्निकाले
यदि दिनबलयुक्ते जन्मलग्ने रजन्याम् ।
उदयगनवभागे स्वामियोगेक्षितानाम्
दिशि मृतिमुपयाति स्थानवीर्याधिकस्य ॥ ११६॥
अथ मोहकालः शषपरिणामश्च ।
होरशेषनवांशमानघटिका मोहः स्वभांशेक्षिते
पापैस्तद्द्विगुणीकृतस्त्रिगुणितः सौम्यैरवस्थात्मकः ।
क्रूरापश्वरसौम्यमिश्रतनुगैर्द्वाविंशतित्र्यंशकै-
र्न्नशं याति शशीरमग्निजलसंभिश्रश्वमुख्यैः क्रमात् ॥ ११७॥
अथ मरणानन्तरं गतिज्ञनम् ।
देवमर्त्यपितृनारकालयप्राणिनो गुरुरिनक्षभासुतौ ।
कुर्युरिन्दुभृगुजौ बधार्कजौ मृत्युकालभवलग्नगा यदि ॥ ११८॥
भूश्वक्रं स्यात् तुम्बुराद्यं चतुष्कं सिंहागाराद्यं भुवश्वक्रमाहुः ।
चापादिस्थं तत्सुवश्वक्रजन्यं जीवो मृत्युक्षेत्रलोकं समेति ॥ ११९॥
रिःफाधीशे पापषष्त्यंशयाते पापैर्दृष्टे नारकं लोकमेति ।
राहौ रिःफे मान्दिरन्ध्रेशयुक्ते शत्रुस्थानस्वामिदृष्टे तथा स्यात् ॥ १२०॥
उच्चस्थे शुभखेचरे व्ययगते पापग्रहैः शोभनैः
सन्दृष्टे शुभवर्गके च विपुलं स्वर्गादिभोगं वदेत् ।
कर्मस्थानपतौ पुरन्दरगुरौ रिःफोपयातेऽथवा
सौम्यव्योमनिवासदृष्टिसहिते तस्यामरत्वं भवेत् ॥ १२१॥
बृहस्पतौ चापनवांशकस्थे बलान्विते कर्कटलग्नयाते ।
त्रिभिश्वतुभिः सह कण्टकेषु नभश्वरैर्ब्रह्मपदं प्रयति ॥ १२२॥
धनुविलग्ने यादि तुम्बुरांशके लग्ने गुरौ दानवपूजितेऽस्तगे ।
कन्यागते शीतकरे बलान्विते परं पदं लोकमुपैति शावतम् ॥ १२३॥
अध्यायोपसंहारः
निसर्गदायप्रमुखायुरब्दस्फुटक्रियामृत्युदशाप्रभेदाः ।
निर्याणकालप्रभवाश्व सर्वे सक्कीर्तिता भानुमुखप्रसादात् ॥ १२४॥
इति क्षीनवप्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
आयुर्दायाध्यायः पङ्चमः ॥ ५॥
अथ जातकभङ्गाध्यायः ॥ ६॥
तत्रादौ जातकभङ्गपरिभाषा ।
केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः ।
केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः ॥ १॥
राजभङ्गाः ।
मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः
कन्याराशिगते यदा भृगुसुते क्न्यांशके भिक्षुकः ।
नीचर्क्षे त्वातिनीचभागहिते जातो दिवानायके
राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ २॥
मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते
जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् ।
तारानाथविकर्तनौ गदगतौ सौरेण संवीक्षितौ
जातोऽसौ समुपैति नीचविहितोपायेन सप्तीवनम् ॥ ३॥
केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेतैरदृष्टे
भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः ।
सौम्यादृष्टेऽर्क्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या-
दर्क्कीन्द्वर्क्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः ॥ ४॥
मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्त्यभे वाक्पतौ
जातो भिक्षुक एव शोकजलधौ भग्नो विदेशं गतः ।
धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे
जातः पापरतः परन्नधनभुग् विद्याविहीनो भवेत् ॥ ५॥
जीवे रहुयुतेऽथवा शिखियुते पापेक्षिते नीचकृन्
नीचे नीचसमीक्षिते सुरगुरौ विप्राऽतिदुष्कर्मकृत् ।
निद्री चन्द्रविलग्नपौ सह दिवानाथेन मन्देक्षितौ
प्रेष्यः स्यादशुभैः शुभग्रहदृशा हीनैश्च मानस्थितैः ॥ ६॥
भागुएशेऽन्त्यगते सहादरगतैः पापैर्व्ययेशेऽर्थगे
दुर्भोजी परिबन्धनादिसहितो जातोऽन्यजायारतः ।
सर्वैनीचसपत्नभागाहितैः कर्मेतस्थानगै-
र्विद्याबुद्धिकलत्रपुत्ररहितः कोपी सदा भैक्षकृत् ॥ ७॥
लग्नस्वामिनि रिःफगे तु वियति क्रूरे सचन्द्रे कुजे
जातोऽसौ परदेशगः सुखधनत्यागी दरिद्रो भवेत् ।
होराजन्मपती न शोभन्युतावस्तंगतावन्त्यगे
भाग्येशे यदि नष्टदारतनयो जातः कुलध्वंसकः ॥ ८॥
सौम्यासौम्ययुतेषु केन्द्रभनेष्विन्दौ तनुस्वामिना
दृष्टे मन्दनवांशके सति कुलध्वंसी विदारात्मजः ।
कामेबोधनशुक्रयोः सुतगृहे जीवे सुखस्थे शुभे
पापे रन्ध्रगते च चन्द्रभवनाज्जाताः कुलघ्वंसिनः ॥ ९॥
चरावसाने शशिनि स्थिरादौ द्विदेहमध्ये बलवर्जिते च ।
हीने विलग्ने यदि केचरेन्द्रैर्विनाशमेति क्षितिपालयोगात् ॥ १०॥
लग्नराशिनवभावनायका भानुशीतकरदेवपूजिताः ।
शत्रुभागसहिताः स्वनीचभस्वामिभांशसहिताः परानुगः ॥ ११॥
शशिनि गगनाते कामगे दानवेज्ये नवमभवनयाते पापखेटे कुलघ्नः ।
भृगुजशशिजचन्द्राः केन्द्रगा जन्मलग्ने तमसि विहितकर्मघ्वंसको नीचतुल्यः ॥ १२॥
नीचे भ्रिगौ म्न्दनवांशके वा दुःथानगे भानुसुतेक्षिते च ।
कामस्थिते शीतकरे सभानौ मात्रा सह प्रैष्यभुपैति नित्यम् ॥ १३॥
नीचे गुरौ वासर्नायके वा केन्द्रस्थिते पापयुते शिशुघ्नः ।
केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ १४॥
शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च ।
नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ १५॥
चन्द्रात्सुते लग्नपतौ धने वा सौम्येतरेष्वष्टमराशिगेषु ।
मानस्थिते शीतकरे तदग्नी जातस्तु जीवत्यतिहेयवृत्त्या ॥ १६॥
नीचारिभांशौ भृगुदेवपूज्यौ तदंशके वासरनाथपुत्रे ।
जातः सुदुःखःसुतदारहीनः कृच्छेण संजीवति भाग्यहीनः ॥ १७॥
सर्वे पापाः केन्द्रनीचारिसंस्थाः सौम्यर्दृष्टा रिःफरन्ध्रारियातः ।
निघ्नत्येते राजयोग्ं ग्रहेन्द्रा नीचारातिक्रूरषष्ठ्यंशकाश्च ॥ १८॥
केन्द्रस्थिता मन्दनिशाकरार्काः शुभैरदृष्टा यदि मद्यपायी ।
क्रूरारिषष्ठ्यंशकनीचभागा दुष्कर्मयुक्तोऽन्यकलत्रगामी ॥ १९॥
नीचे भृगौ धर्मगते सपापे द्विजप्रहर्ता यदि पापदृष्टे ।
व्यये शुभर्क्षेऽर्कसुतांशकस्थे भृगौ च दासीवरनन्दनः स्यात् ॥ २०॥
अथ रेकायोगाः ।
लग्नेशे बलवर्जिते परिभवस्थानाधिपेनेक्षिते
सूर्योच्छन्नकरे पुरन्दरगुरौ रेकाख्ययोगो भवेत् ।
बन्धुस्थानप्संयुतांशकपतौ तिग्मांशुलुप्तद्युतौ
रिःफेशेन निरीक्षिते सति यदा योगस्तु रेकाडयः ॥ २१॥
षष्थस्वामिनिरीक्षिते सुखपतौ रन्ध्रेशयुक्ते तथा
मानेशे सुतगे विलग्नरमणे नीचं गते रेकभाक् ।
रन्ध्रारिव्ययराशिगा यदि शुभाः केन्द्रत्रिकोणोपगाः
पापा लाभगृहाधिपे च विबले रेकाभिशस्तो भवेत् ॥ २२॥
होरशः खलसंयुतः सित गुरु चास्तं गतौ तद्वदेद्
बन्धुस्थानपतिः शुभेतरयुतश्चास्तं गतो रेकदः ।
भाग्यस्थानपतौ विकर्तनकरच्छत्ने विलग्नाधिपे
नीचस्थे धनपे च नीचगृहगे रेकाभिधानो भवेत् ॥ २३॥
नीचस्था यदि वा दिनेशाकिरणच्छन्नास्त्रयो लग्नपे
दुष्टस्थानगतेऽथवा गतब्ले योगस्तु रेकप्रदः ।
होरावित्तनवास्पदायसुखधीकामानुस्थाः खला-
स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ २४॥
एकद्विकत्रिकस्वलद्यचरा नराणां कल्पेस्वेविक्रमगताः परतस्तथैव ।
आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदाः रिपुस्वलग्नहनीचदृष्टाः ॥ २५॥
रेकायोगफलम् ।
निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः
क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः ।
भिक्षाशी मलिनो विवादनिरतो मात्सर्यरोपान्वितो
देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैर्निदितः ॥ २६॥
दुष्टात्मा कुनखी कुमर्गनिरतो अभागायोगान्वितो
बन्धूनामपकारदूषणपर्ः स्वल्पाधुराभिक्षुकः ।
मृकोऽन्धो बधिरः प्रमत्तह्वद्यः कामाहुरो रोषवाण्
पङ्गुर्नेत्रविकारभावसहितो रेकोद्भवः स्यान्नरः ॥ २७॥
अथ दरिद्रयोगाः ।
भाग्येश्वरादतिबलो निधनेश्वरो वा लग्नाधिपस्त्रिदशनाथगुरुर्यदि स्यात् ।
केन्द्राद्वहिदिनकरस्य करामितप्तो लाभाधिपो यदि विहीनबलो दरिद्रः ॥ २८॥
लाभारिव्ययरन्ध्रपुत्रगृहगा जीवारमन्देन्दुजा
नीचस्थानगता यदा रविकरच्छन्नास्तदा भिक्षुकः ।
भाग्यस्थानगतो दिनेशतनयः सौम्येतरैरीक्षितो
लग्नस्थः शशिनन्दनो रवियुतो नीचांशगो भिक्षुक ॥ २९॥
जीवज्ञशुक्ररविनन्दनभूमिपुत्रा रन्ध्रारिरिःफसुरकर्मगता यदि स्यात् ।
लग्नेश्वरादतिबली व्ययभावनाथो नीचस्थितो रविकराभिहितो दरिद्रः ॥ ३०॥
शुक्रार्यद्विजराजभूमितनया नीचस्थिता जन्मनि
व्योमाये नवमे कलत्रतनये जातो दरिद्रो भवेत् ।
लग्ने दानवपूजितेऽमरगुरौ पुत्रे धरानन्दने
लाभे रात्रिकरे तृतीयभवने नीचं गते भिक्षुकः ॥ ३१॥
लग्ने चरे चरनवांशगतेऽसितेन दृष्टे च नीचगुरुणा यदि भिक्षुकः स्यात् ।
जातो विनाऽमरपुरोहितलग्नराशि जीवे रिपुव्ययगते तु भवेद्दरिद्रः ॥ ३२॥
जातः स्थिरे लग्नगते तु पापाः केन्द्रत्रिकोणोपगताश्च सर्वे ।
केन्द्राद्वहिःस्थानगतास्तु सौम्या भिक्षाशनः स्यात्परपोषितश्च ॥ ३३॥
चरे विलग्ने निशि सौम्यखेटस्त्रिकोणकेन्द्रोपगता नवीर्याः ।
स्वलग्नहाः केन्द्रबहिःस्थिताश्चेद् भिक्षाशनं नित्यमुपैति जातः ॥ ३४॥
पापा नीचस्थानगाः पापकर्मा, सौम्या नीचस्थानगा गूढपापः ।
जीवे नीचस्थानगे कर्मराशौ, नीचे भौमे मन्दनस्थे तथैव ॥ ३५॥
नीचांशगस्तुङ्गगृहोपयाता जातस्य नीचं फलमाशु दद्युः ।
नीचङ्गतास्तुङ्गनवांशकस्थाः सौम्यं फलं व्योमचराः प्रकुर्युः ॥ ३६॥
अथ दरिद्रयोगफलम् ।
निर्भाग्यो विलएन्द्रयो विषमढीर्दारात्मजैर्निन्दतो
भिक्षाशी विषमस्थितो विषमवाक् शिश्रोदरे तत्परः ।
अन्यायर्जनतत्परस्त्वनुदिनं मात्सर्यवाक् कण्टकी
नित्यं त्यात्परदारसक्तहृदयो नीचोऽन्धमूको जडः ॥ ३७॥
दारिद्रयोगे कलहप्रियः स्यात् कुष्टी परेषां हिरह्वत् कृतघ्नः ।
वाचालको भूसुरभक्तिहीनः कुदारयुक्तः कुनस्वी च जातः ॥ ३८॥
अथ प्रेष्ययोगाः ।
माने रवौ मन्मथगे निशीशे गेहे शनौ सोदरगे धराजे ।
लग्ने चरे देवगुरौ धनस्थे जातो निशायां परकार्यकृत्स्यात् ॥ ३९॥
धर्मे भृगौ कामगते मृगाङ्के वाचस्पतौ वित्तविलग्नपे वा ।
रन्ध्रस्थिते भूतनये च कीर्त्या लग्ने स्थिरे प्रेष्यभवा भवन्ति ॥ ४०॥
प्रेष्यश्चरोदयपतौ निशि सन्धियाते केन्द्रस्थिते यदि प्खलद्युच तु जातः
मन्देन्दुजीवभृगुजा दिवि केन्द्रकोणे सन्धिस्थिताः स्थिरविलग्नयुते तथा स्यात् ।
ऐरावतांशेन्द्रगुरौ ससन्धौ शीतद्युतौ चोत्तमवर्गयुक्ते ।
केन्द्राद् वहिःस्थे निशि कृष्णपक्षे शुक्रे विलग्ने परकर्मजीवी ॥ ४२॥
प्रेष्यो भवेदरिसुखास्पदसन्धियाता भूपुत्रदेवगुरुवासरनायकाश्चेत् ।
पापांशके शशिनि शोभनराशियुक्ते जीवे विलग्नपयुतेपरकार्यकृत्स्यात ॥ ४३॥
मृगाननस्थे पुरुहूतवन्द्ये सपत्नभावाष्टमरिःफराशौ ।
रसातलस्थे हिमगौ विलग्नाज्जातः परप्रेष्यमुपैति नित्यम् ॥ ४४॥
अथ प्रेष्ययोगफलम् ।
पापात्मा कलहप्रियः काठिनवाह् भूदेवतादूषको
विद्याभाग्यविहीनदुष्टरसिको मात्सर्यकोपान्वितः ।
मिथ्यावादविनोदवङ्चनरतः शिश्नोदरे तत्परः
कारुण्यास्थिरमानभङ्गिचतुरो योगे परप्रेष्यके ॥ ४५॥
अथ अङ्गहीनयोगाः ।
मेषे वृषे चापधरे विलग्ने विकारदन्तो यदि पापदृष्टे ।
मन्दे मन्दस्थेऽहियुते कुजे वा बलैर्विहीनेऽङ्गविहीनवान् स्यात् ॥ ४६॥
लग्नाद्दशमगश्चन्द्रः सप्तमस्थो धरासुतः ।
द्वितीयस्थानगो भानुरङ्गहीनो भवेन्नरः ॥ ४७॥
त्रिकोणगे ज्ञे विबलैस्ततोऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगुणैस्तदा भवेत् ।
अवाग्गवीन्दावशुभैर्भसन्धिगैः शुभेक्षिते चेत् कुरुते गिरं चिरात् ॥ ४८॥
सौम्य्र्क्षाशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः
कुब्जः स्वर्क्षे शशिनि तनुगे मन्दमाहेयदृष्टे ।
पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे
सन्धौ पापे शशिनि च जडः स्यान्न चेत्सौम्यदृष्टिः ॥ ४९॥
सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने ।
धीनवमोदयगैश्च दृगाणैः पापयुतैरभुजाङ्घ्रिशिराः स्याट् ॥ ५०॥
लग्नद्रेक्काणगो भौमः सौरसूर्येन्दुवीक्षितः ।
कुर्यद्विशिरसन्तद्वत् पङ्चमे बाहुवर्जितम् ॥ ५१॥
रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते
नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः ।
व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि-
र्न शुभगदिता योगा याप्या भवन्ति शुभेकिताः ॥ ५२॥
शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के ।
रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्नगे बुद्बुदाक्षः ॥ ५३॥
व्यये रवीन्दूयुगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये ।
षट्छिद्रगाश्चाक्षि हरन्ति सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ ५४॥
विकर्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् ।
तस्येक्षणं दक्षिणमाशु हन्यादहीक्षमासूनुयुतस्तु वामम् ॥ ५५॥
दिनेशचन्द्रौ यदि रिष्फयातौ सपत्नरन्ध्रव्ययगास्त्वसौम्याः ।
हन्यादरिस्थो नयनं हि वामं रन्ध्रस्थितो दक्षिणभागनेत्रम् ॥ ५६॥
कुजे धनेशे निधने रवीन्द्वोः शत्रुव्ययस्थानगते,अर्कजेऽन्धः ।
रन्ध्रावसानारिते शशाङ्के शनौ सभौमे यदि नष्टनेत्रः ॥ ५७॥
षष्थे चन्द्रेऽष्टमे भौमे लग्नादन्त्यगतेऽर्क्कजे ।
वित्तस्थानगते भौमे शक्रोऽप्यन्धो भवेद् ध्रुवम् ॥ ५८॥
लग्नेश्वरेण सहिते यदि चित्तनाथे दुःस्थेऽक्षिनाशनमथास्फुजिदिन्दुयुक्ते ।
नेत्रेश्वरे तनुगते यदि नैशिकोऽन्घः स्वोच्चे शुभग्रहयुते न तथा वदन्ति ॥ ५९॥
अथ रोगयोगाः ।
राहौ विलग्ने सकुजेऽर्कपुत्रे साहौ बृहद्वीजमिवाहुएआर्याः ।
लग्नेश्वरे मृत्युगते सराहौ रन्ध्रे समान्दौ च तथैव वाच्यम् ॥ ६०॥
लग्ने सराहौ गुलिके त्रिकोणे रन्ध्रे कुजे मन्दयुते तथैव ।
लग्नेश्वराक्रन्ततदंशनाथे राह्वारमान्द्यादियुते तथैव ॥ ६१॥
लग्ने रवौ भूमिसुतेन दृष्टे गुल्मक्षयश्वासनिपीडितः स्यात् ।
भौमे विलग्ने शानिसूर्यदृष्टे वसूरिरोगाभिहतो मनुष्यः ॥ ६२॥
पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शुनकभीतिमुपैति मर्त्यः ।
तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शुनकभीतिमुपैति जातः ॥ ६३॥
वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ ६४॥
नीचे तृतीयेऽरिगृहे विभूढे पापेक्षिते तद्रलरोगवान् स्यात् ।
विषप्रयोगाद्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनार्थः ॥ ६५॥
पापे तृतीये लग्नरोगमत्र वदन्ति चान्द्रादियुते विशेषात् ।
भौमान्विते प्रेतपुरीशसूनौ तृतीयराशौ यदि कर्णरोगम् ॥ ६६॥
पापेक्षिते सोदरभे सपापे कर्णोद्भवं रोगमुपैति जातः ।
क्रूराविषष्ट्यंशयुते तदीशे कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥
पैतोल्बणं याति रवौ रिपुस्थे पापेक्षिते पापमन्विते च ।
भानौ सरन्ध्रे विबले धराजे पापे धनस्थे तु तथैव वाच्यम् ॥ ६८॥
श्लेष्माभयं बुधयुतेऽवनिजे रिपुस्थे क्रुरांशके यदि सितेन्दुसमीक्षिते च ।
पापेक्षितेऽवनिसुते निधनोपयाते केतौ धनाष्टमगते व्रणरोगमेति ॥ ६९॥
षष्ठेश्वरे पापयुते विलग्ने रन्ध्रस्थिते वा व्रणयुकशरीरः ।
कर्मस्थिते ताद्दशखेचरेन्द्रे व्रणाक्कितः स्याच्छुभदृग्विहीने ॥ ७०॥
लग्नेशभूपुत्रशशाङ्लपुत्राः सह स्थितः सौम्यतरान्य्भावाः ।
अपानरोगं स्व्थवाऽपवित्रं पश्यन्ति षष्ठं मुनयो व्दन्ति ॥ ७१॥
लग्नेशषष्ठाधिपती दिनेशयुक्तौ ज्वरं चन्द्रसमन्वितौ चेत् ।
जलप्रमादं क्षितिसूनुयुक्तौ युद्धेन वा स्फोटकराशिभिर्वा ॥ ७२॥
पित्तात्प्रमादं यदि सौम्ययुक्तौ निर्व्याधिकः सूरसमन्वितौ चेत् ।
शुक्रेण भार्याविपदं वदन्ति मन्देन नीचानिलरोगमाहुः ॥ ७३॥
सराहुकेतु यदि सर्पपीडां चोरादिभिर्भीभिर्तिमुपैति जातः ।
केन्द्रत्रिकोणे यदि साहिकेतू वदन्ति तज्ज्ञा निगलं तदानीम् ॥ ७४॥
षष्ठेश्वरश्चन्द्रसुतेन युक्तः सागुविलग्ने स्वयमत्र शिश्नम् ।
छिनत्त्यसौ सौम्यद्दशा विहीनः सभूमिपुत्रो यदि लिङ्गरोगी ॥ ७५॥
कामेश्वरः शुक्रयुतो रिपुस्थः कलत्रषण्ढत्वभुदीरयन्ति ।
षष्ठेशलग्नाधिपती समन्दौ केन्द्रत्रिकोणे यदि बन्धनं स्यात् ॥ ७६॥
चरे विलग्ने रिपुनाथदृष्टेकुजे च लाभे स्थिरगे च धर्मे ।
द्वन्द्वेऽस्तराशौ प्रवदेन्नराणां रोगं रिपूणां कृतमाभिचारम् ॥ ७७॥
जीवे समन्दे दशमेअर्धचन्द्र् वैकल्यभङ्गे क्षितिजे कलत्रे ।
दिनेशचन्द्रौ रविराशियुक्तौ चन्द्रर्क्षगौ वा यदि शोषणं स्यात् ॥ ७८॥
लग्ने रवौ भूमिसुते कलत्रे सून्मादभाक् तत्र नरो हि जातः ।
उन्मादबुधिं समुपैति लग्ने शनौ कलत्रे सकुजे त्रिकोणे ॥ ७९॥
लग्नत्रिकोणे दिननाथचन्द्रौ शौर्ये गुरौ केन्द्रसमन्विते वा ।
सोन्मादबुद्धिः स भवेत्तदानीं शरासनादौ यदि जन्मलग्ने ॥ ८०॥
कन्द्रस्थितौ सौम्यनिशाक्रौ वा सौम्यांशहीनौ भ्रमसंयुतः स्यात् ।
केन्द्रस्थिता मन्दनिशाकरार्का जडो भवेदत्र मधूपभोक्ता ॥ ८१॥
कुलीरकुम्भालिनवांशयुक्ते चन्द्रे समन्दे यदि गुह्यरोगी ।
चन्द्रे सुखे तद्भवनांशयुक्ते पापान्विते स्याद्यदि कुण्ठरोगी ॥ ८२॥
चन्द्रे सपापे फणिनाथयुक्ते रिःफे सुते रन्ध्रगतेऽथवाऽपि ।
जन्मादभक् तत्र सरोषयुक्तो जातस्तु नित्यं कलहप्रियः स्यात् ॥ ८३॥
चन्द्रेव्यये वा यदि वासुरेशे मन्दे त्रिकोणे मदरन्ध्रगेऽर्के ।
दन्ताक्षिरोगी च भवेत्तदानी नीचारिपापांशगतास्तथैव ॥ ८४॥
सुताम्बुगौ पापखगौ विशेषाच्चेदष्टरिःफारिगतेऽन्धता स्यात् ।
शुभग्रहाणामवलोकहीने चान्धो भवत्येव शुभैर्न दोषः ॥ ८५॥
हित्वा लग्नपति विलग्नसहितेष्वन्त्येषु कुष्ठं वदेत्
नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे ।
मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके
केन्द्रे शोभनयोगदृष्टिरहिते कुष्टं वदेद् देहिनाम् ॥ ८६॥
पापान्विते शशिनि रन्ध्रपलग्नराशौ सर्पेक्षिते निधनपे यदि गुह्यरोगी ।
रन्ध्रे चतुस्त्रितयपापयुते तथैव सौम्यग्रहेण सहिते यदि रोगहीनः ॥ ८७॥
जलचरगृहरोगेन्दौ तत्पतौ षष्ठ्याते जलगृहगतखेटैरीक्षिते मूत्रकृच्छम् ।
परिभवरिपुयाते शीतगौ भौमदृष्टे रविसुतयुतलग्ने शोणितं रोगमेति ॥ ८८॥
क्षीणे मन्दगृहोदये हिमकरे पापग्रहैरन्विते
रन्ध्रारातिगतेऽथवा पवनकृद् गुल्मादिरोगं वदेत् ।
चन्द्रे पापवियच्चरान्तरंगते मन्दे मदस्थानगे
जातो विद्रधिजन्मशोषजनितैः सन्तप्तदेहो भवेत् ॥ ८९॥
अजीर्णगुल्मामयशूलमेति कुजे विलग्ने विबलेऽरिनाथे ।
लग्ने सपापे फणिनायके वा मन्देऽष्टमे कुक्षिरुगदितः स्यात् ॥ ९०॥
ह्वच्छुलरोगमुपयाति सुखे फणीशे पापेक्षिते गतबले यदि लग्ननाथे ।
शूलाभयं तनुपतौ रिपुनीचराशौ भौमे सुखे रविसुते यदि पापदृष्टे ॥ ९१॥
जातो भुक्तिविरोधरेगनिहतो रन्ध्रेश्वरे दुर्बले
लग्ने पापनिरीक्षिते परिभवस्ताने समन्देक्षिते ।
वान्तिभ्रान्तिजपाण्डुमेति सकुजे चन्द्रे रिपुस्थान्गे
जातः शूलविसर्पमेति दिनकृच्चन्द्रारयुक्ते यदा ॥ ९२॥
आरेक्षिते यदि विलग्नगृहेऽरिनाथे भानेऽथवाऽस्ततनुगे कृतमाभिचारम् ।
लग्नाधिपेन सहितेऽवनिजे विलग्ने केन्द्रेऽथवा रिपुपतौ तनुगे तथा स्यात् ॥ ९३॥
जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे
माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे ।
मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ
भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ ९४॥
चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम्
जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति ।
सौम्ये वातकफाभयं भृगुसुते मूलातिसारं तथा
मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ ९५॥
कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे
षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने ।
रिःफे पापे शशिनि रिपुगे मानुजे रन्ध्रयाते
पापांशस्थे तनुगृहपतौ मीनसं रोगमेति ॥ ९६॥
मन्दे कुलीरभवनोपगते मृगस्थे चन्द्रे जलोदररुजं समुपैति जातः ।
सारे शनौ रिपुगते रविराहुदृष्टे लग्नाधिपे च विबले सति दीर्घरोगी ॥ ९७॥
हस्वः कुजे निजगृहे सुखविक्रमस्थे चन्द्रात्मजे रविसुते यदि लग्नगे स्यात् ।
स्वर्क्षे कुजे सुखसहोदरगेन्दुसूनौ होरधिपे शनियुते तु तथा वदन्ति ॥ ९८॥
अथ होरायाम्
लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म ।
द्यूनस्थयोर्नवमपङ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारभुशन्ति जातम् ॥ ९९॥
नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः ।
निथमाच्छवणोपघातदा रदवैकृत्यकराश्च सप्तमे ॥ १००॥
वर्गोत्तमादिशुभवर्गयुतेऽमरेज्ये लग्ने रसातलगते यदि वा बलाध्ये ।
वित्तायवृद्धिगृहगेषु वियच्चरेषु लग्नाधिपे बलयुते सुखमेति जातः ॥ १०१॥
ये जातभङ्गा नृपयोगभङ्गाः प्रेष्या दरिद्राङ्गविहीनरेकाः ।
ये रोगभेदाः परिकीर्तितास्ते सूर्यादिसर्वद्युचरप्रसादात् ॥ १०२॥
इति वैद्यनाथविरचिते जातकपारिजाते जातकभङ्गास्थे षष्ठाध्यायः ॥ ६॥
अथ राजयोगाध्यायः ॥ ७॥
कन्यमीननृयुग्मगोहरिधनुः कुम्भस्थितैः खेचरैः
सेनामत्तमतङ्गचाजिविपुलो राजा यशस्वी भवेत् ।
तौलिच्छागवृधावसानगृहगैर्जातोऽखिलक्ष्मापति-
र्गिचापान्त्यमकेन्द्रगैः पृथुयशाः पृथ्वीश्चरो जायते ॥ १॥
कन्यामेषतुलामृगेन्द्रघटगैर्जतो महीपालको
दुश्चिक्यप्रतिभारसातलगतैर्बहुर्र्थदेशाधिपः ।
खेटा विक्रमबन्धुपुत्रगृहगा द्वौ वित्तधर्मस्थितौ
शेषौ लग्नकलत्रराशिसहितौ राजा भवेद्द्वार्मिकः ॥ २॥
तारेशहोरासहिता गभोगा जातो यशस्वी मनुजाधिपः स्यात् ।
सौम्यास्तपोलाभगृहोपयाताः पापा रिपुव्योमगता नरेशः ॥ ३॥
लग्नास्पदानङ्गगृहोपयाता बलान्वितः शोभनखेचरेन्द्राः ।
कुजार्कपुत्रौ नवमायसंस्थौ नृपो भवेत्सर्वगुणाभिरांअः ॥ ४॥
वर्गोत्तमांशोपगते विलग्ने चन्द्रेऽथवा चन्द्रविमुक्तखेटैः ।
सुखास्पदानङ्गगृहोपयातैर्विलोकितैर्भानवनायकः स्यात् ॥ ५॥
अश्विन्यामुदयस्थिते भृगुसुते सर्वग्रहैरीक्षिते
जातो राजकुलाग्नजो रिपुकुलघ्वंसी बहुस्त्रीरतः ।
हित्वा नीचनवांशमम्बरचरैस्त्र्याद्यैः स्वमागान्वितै-
रेको लग्नगतो यदि क्षितिपतिः पङ्चादिकैर्वित्तवान् ॥ ६॥
शुक्रेऽरिनीचमपहाय कुतुम्बसंस्थे लग्नेश्वरे बलयुते पृथिवीपतिः स्यात् ।
चन्द्रेऽतिमित्रनिजभागगते निशायां शुक्रेक्षिते नृपतिरन्यविलोकहीने ॥ ७॥
मीने मीननवांशके भृउगुसुते लग्नस्थिते भूपतिः
स्वोच्चे लग्नगृहाधिपे बलयुते राजा शशाङ्केक्षिते ।
लग्नस्वामिनि तुङ्गमन्दिरगते नीचारिभागंविना विना
केन्द्रस्थानगते नभोगवियुते जातो महीपालकः ॥ ८॥
भाग्यस्थे निजतुङ्गमित्रभवने सम्पूर्णगात्रे विधौ
लग्नादास्पदवित्तराशिगतयोः शन्यारयोर्भूपतिः ।
चन्द्रे पूर्णकलान्विते बलयुते लग्नं विना केन्द्रगे
दृष्टे दानवमन्त्रिणा च गुरुणा राजा महीदानकृत् ॥ ९॥
एकस्मिन्परमोच्चगेऽतिसुहृदा दृष्टे यदि क्ष्मापति-
स्तत्तुल्यो भृगुनन्दने बलयुते लाभेऽथवा रिःफगे ।
द्वित्रिव्योमचरेषु तुङ्गगृहगेष्विन्दौ कुलीरे स्थिते
लग्ने पूर्णबलान्विते नरपतिः सर्वत्र पूज्यो भवेत् ॥ २०॥
सर्वे चोपचयस्थिताः शुभस्वगाः पापा विलग्नस्थिता
मानस्था यदि वा जितारिनिचयः क्रूरो महीपालकः ।
भानौ सप्तमगे निशाकरयुते तुङ्गादिवर्गस्थिते
सौम्यासौम्यनिरीक्षितेऽतिचपलो राजाऽथवा तत्समः ॥ २१॥
नीचङ्गतो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः ।
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धर्मिकचक्रवर्ती ॥ २३॥
नीचस्थितग्रहनवांशपतौ त्रिकोणे केन्द्रेऽथवा चरगृहे यदि जन्मलग्ने ।
तद्भावपे चरगृहांशसमन्विते वा जातो महीपतिरतिप्रबलोऽथवा स्यात् ॥ २४॥
मानस्थनपतौ पराभवगते पारावतांशेऽथवा
स्वोच्चस्वर्क्षसुहृन्नवांशकगते राजाधिराजो भवेत् ।
लग्ने नीचगृहे पुरन्द्दरगुरौ रन्ध्रे सपापग्रहे
तद्राश्यंशसमन्विते यदि तदा राजाधिराजो भवेत् ॥ २५॥
जीवस्य व्ययगे शनौ सहजपे लाभेऽथवा भास्करे
रिःफे लग्नपतौ तु निर्जरगुरावुर्वीशराजो भवेत् ।
भाग्येशस्थन्वांशपे तनयगे बन्धुस्थिते वा नृपो
दृष्टे वा शशिजे सुरेन्द्रगुरुणा युक्ते स राजप्रियः ॥ २६॥
भाग्शेयेन निरीक्षिते ययिसुते केन्द्रस्थिते भृगुजाम्
तुल्शत्वं समुपैति जातमनुजो लग्नस्थिते वाक्पतौ ।
केन्द्रे वा शदि कोणगे रविसुते मूलत्रिकोणोच्चगे
लाभेयेन निरीक्षिते बलशुते भूपालतुल्शो भवेत् ॥ २७॥
लग्ने शीतकरे गुरौ सुखगते कर्मस्थिते भार्गवे
तुङ्गस्वर्क्षगते दिवाकरसुते राजाऽथवा तत्समः ।
अन्त्योपा न्त्वविलग्नवित्तसहजव्यापारगेहेषु वा
सौम्यव्योमचरेपु भूपतिसमो राजाधिराजप्रियः ॥ २८॥
मन्दे चोत्तमवर्गके बलयुते नीचा<शवर्ज्ये गुरौ
भानौ शोभनदृष्तिभागसहिते राजप्रियस्तत्समः ।
राहौ कर्मणि लाभगे रविसुते भाग्याधिपेनेक्षिते
लग्नेशे यदि नीचखेटरहिते पृथ्वीशतुल्यो भवेत् ॥ २९॥
नीचं गता द्वित्रिचतुर्ग्रहेन्द्राः षष्ठ्यंशके शोभनभागयुक्ताः ।
स्वतुङ्गराश्यांशसमन्विता वा धरापतिर्धर्मिकचक्रवर्ती ॥ २०॥
लग्नात्कर्मशुभाहिपौ शुभगृहाद्वयापारधर्मेश्वरौ
मानादास्पदभाग्यपौ च सहित्तावन्योन्यराशिस्थितौ ।
अन्योन्यक्षणकेन्द्रगौ धनपतेः सम्बन्धिनौ चेद्धनी
जातो यानपकायपिक्षितयुतौ बहुर्थयनाधिपः ॥ २१॥
षतसु ग्रहेषुच्चगृहस्थितेषु राजाधिराजोऽखिलभूपतिः स्यात् ।
उच्चं गतैः पङ्चभिरिन्द्रवन्द्ये लग्नस्थिते सर्वजनावनीशः ॥ २२॥
कुम्भोदयस्थे रविजे चतुर्भिः स्वोच्चंगतैः सर्वमहीपतिः स्यात् ।
मेषोदयस्थे यदि चन्द्रपुत्रे स्वोच्चं गते देवगुरौ नृपालः ॥ २३॥
चन्द्रे वृषोदयगते यदि षड्भिरन्यैर्दृष्टेऽतिबाल्यवयसि क्षितिनायकः स्यात् ।
तुङ्गस्थितैकस्वचरे निजमित्रयातैरन्यैः समेति नरपालसमानभोग्यम् ॥ २४॥
वर्गोत्तमे वा यदि पुष्करांशे सारेन्दुदेवेन्द्रगुरौ नृपालः ।
कर्मस्थिते शोभनदृष्तियुक्ते सम्पूर्णगात्रे शशिनि क्षितीशः ॥ २५॥
गुरुसितयुतचन्द्रे चापगे चन्द्रसूनौ यदि तनुगृहयाते भूमिजे कन्यकायाम् ।
मृगसुखभवनस्थे भानुपुत्रे नृपः स्यादतिशयबलयुक्तः सर्वभूपालपूज्यः ॥ २६॥
कन्यावसानयुगचापमृगाननस्थैः सौम्येन्दुभौमगुरुभानुसुतैर्नृपालः ।
मीनोदये शशिनि पूर्णतनौ बलाढ्ये स्वोच्चे कुजे रविसुते घटगे नरेशः ॥ २७॥
मृगोदयस्थे यदि भुकुमारे कुलीरगे चन्द्रमसि क्षितीशः ।
धराजपूषामरवन्द्यमाना मृगाजकुम्भोपगता नरेशः ॥ २८॥
लग्नाधिपेतरयुते यदि पूर्णचन्द्रे शुक्रज्ञदेवगुरुदृष्टियुते तु राजा ।
वर्गोत्तमांशसहिता गुरुशुक्रभौमाः पापा न केन्द्रभवनोपगता नरेशः ॥ २९॥
शीर्षोदयेषु निखिलद्युचरेषु चन्द्रे सौम्यग्रहेक्षणयुते कटके महीपः ।
लग्नाधिपे नवमगे दशमस्थिते वा लग्ने सुधाकरयुते पृथिवीपतिः स्यात् ॥ ३०॥
चापार्धं गतवान् सहन्नकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहिते स्वोच्चे च भूनन्दनः ।
यद्येवं भवति क्षितेरधिपतिः सन्त्यज्य शौर्यं भयाद्
दूरादेव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ ३१॥
उपचयगृहसंस्थो जन्मपो स्यस्य चन्द्रात्
शुभगृहनवांशे केन्द्रयाताश्च सौम्याः ।
सकलबलवियुक्ता ये च पापाभिधानाः
स भवति नरनाथः शक्रतुल्यो बलेन ॥ ३२॥
उच्चामिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः ।
स शास्ति पृथ्वी बहुरत्नपूर्णा बृहस्पतिः कर्कटकोपगश्चेत् ॥ ३३॥
स्वस्य त्रिकोणे रविरुच्चगोऽपि वा स्वस्वांशस्था रविशुक्रसोमजाः ।
तृतीयषष्ठमगा निशाकरात् कुर्वन्ति गोपालमिव क्षितीश्वरम् ॥ ३४॥
रविशाशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थैर्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः ।
स भवति नरपुत्रो भुपतिर्यत् प्रयणे गजमदजलसेकैः सिच्यते यस्य रेणुः ॥ ३५॥
क्षमासुतः स्वोच्चमुपाश्रितो बली रवीन्दुवाचस्पतिभिर्निरिक्षितः ।
भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणक्षमः ॥ ३६॥
भ्धोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेऽमले ।
वियद्रते भार्गवनन्दने ग्रहे प्रशास्ति पृठ्वीमगदो निराकुलः ॥ ३७॥
प्रधानबलसंयुक्तः सम्पूर्णः शशलाङ्छनः ।
एकोऽपि कुरुते जातं नराधिपमरिन्दमम् ॥ ३८॥
देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः ।
करोति बहुधानाथं निर्जितारातिमण्डलम् ॥ ३९॥
लग्नेशे केन्द्रराशिस्थे कर्मेशे वृधिराशिगे ।
भाग्येशे लाभगे जातश्चिरञ्जिवी महीपतिः ॥ ४०॥
रविलुप्तकरः सौम्यः स्वस्थो मूलत्रिकोणगः ।
सर्वविद्याधिको राजा नेतरेषां स्वचारिणाम् ॥ ४१॥
अर्कज्ञौ सुखराशिश्थौ मन्देन्दू दशमस्थितौ ।
कुजोदये च सङ्जातो यदिराजा न संशयः ॥ ४२॥
दिवाकरोदये सिंहे शुक्रांशक्विवर्जिते ।
कन्यागते बुधे जातो नीचोऽपि पृथिवीपतिः ॥ ४३॥
मा(भा)नपुत्रोदयस्थौ वा मन्दावनिसुतौ यदि ।
पूर्णेन्दौ गुरुराशिस्थे जातो राजा भविष्यति ॥ ४४॥
बली विलग्नाधिपतिश्च केन्द्रे भूपालयोगं कुरुते नराणाम् ।
तन्मित्रदृष्टे यदि नीचवंशे जातोऽपि राजा नृपवन्दितो वा ॥ ४५॥
जन्माधिपः स्वोच्चगृहे मृगाङ्कं पश्यत्यवश्यं यदि भूमिपालः ।
गजादिसेनातुरगादिसङ्घैर्जितारिकोटिर्जगति प्रजातः ॥ ४६॥
लग्नं विहाय केन्द्रस्थे चन्द्रे पूर्णकलान्विते ।
गुरुभार्गवसन्दृष्टे जातो राजा भवेन्नरः ॥ ४७॥
लग्नेशे केन्द्रमावस्थे नीचमूढारिभं विना ।
नान्यग्रहयुक्ते राजा सार्वभौमो भविष्यति ॥ ४८॥
गुरुचन्द्रदिवानाथाः सुतविक्रमधर्मगः ।
जातो यदि महीपालः कुबेरसमवित्तवान् ॥ ४९॥
चापोदयस्थे बलिनि प्रभाकरे महीसुते कर्मगते सशीतगौ ।
उपान्त्यगे वा भृगुजे व्ययस्थिते सुरेन्द्रतुल्यो नृपतिः प्रजायते ॥ ५०॥
विक्रमायारिगाः पापा जन्मपः शुभवीक्षितः ।
राजा भवति तेजस्वी समस्तजनवन्दितः ॥ ५१॥
मृगोदयस्थे बलिनि क्षमासुते शनौतपःस्थानतेऽथवाऽन्त्यगे ।
देवाकरे सप्तमगे सशीतगौ महीपतिश्चङ्चलमानसो भवेत् ॥ ५२॥
लाभे सुखे वा दशमे समन्दश्चन्द्रमा यदि ।
जातो नृपकुले राजा तत्समो वा धनीभवेत् ॥ ५३॥
जातश्चोपचयस्थिते तनुपतौ चन्द्रे तपःस्थानगे
केन्द्रस्थाः शुभवर्गगा यदि शुभा वीर्यन्विता भूपतिः ।
जीवेन्दू वृषभस्थितौ बलयुतः कोणस्थितो लग्नपः
शान्यारेक्षणवर्जितो यदि तदा जातोऽवनीशो भवेत् ॥ ५४॥
विवाकरे मीनगृहोपयाते कुलीरलग्ने शशिनि क्षितीशः ।
अरातिनीचग्रहदृष्टियुक्ता भूपालयोगं न दिशन्ति सर्वे ॥ ५५॥
जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् ।
विवसुखमूढव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥ ५६॥
धनुर्मीनतुलामेषभृगकुम्भोदये शनौ ।
चार्वङ्गो नृपतिविद्वान् परुग्रामाप्रणिर्भवेत् ॥ ५७॥
स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः ।
शुभं सम्पूर्णपादोनदलपादालप्निष्फलम् ॥ ५८॥
अथ पङ्च महापुरुषयोगाः ।
मूलत्रिकोणनिजतुङ्गगृहोपगाता भौमज्ञजीवसितभानुसुता बलिष्ठाः ।
केन्द्रस्थिता यदा रुचभद्रहंसमालव्यचारुशशयोगकरा भवन्ति ॥ ५९॥
अथ रुचक-योगफलम् ।
जातः श्रीरुचके बलान्वितवपुः श्रीकीर्तिशीलान्वितः
शस्त्री मन्त्रजपाभिचारकुशलो राजाऽथवा तत्समः ।
लावण्यारुणकान्तिकोमलतनुस्त्यागी जीतारिर्धनी
सप्तत्यब्दमितायुषा सह सुखी सेनातुङ्गाधिपः ॥ ६०॥
धर्मेशलाभेशधनेश्वराणामेकोऽपि शीतद्युतिकेन्द्रवर्ती ।
स्वयं च लाभाधिपतिर्गुरुश्चेदखण्डसाभ्राज्यपतित्वमेति ॥ ६१॥
अथ भाद्रयोगफलम् ।
शारूउलप्रतिमाननो गजगातिः पीनोरुवक्षस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छयः ।
मानी बन्धुजनोपकारनिपुणः श्रीभद्रयोगोद्भवो
राजाऽशीतिभितायुरेति विपुलप्रज्ञायशोवित्तवान् ॥ ६२॥
अथ हंसयोगफलम् ।
रक्तास्योन्नतनासिकः सुचरणो हंसखरः श्लेष्मको
गौरङ्गः सुकुमारदारसहितः कन्दर्पतुल्यः सुखी ।
शास्त्रज्ञानपरायणोऽतिनिपुणः श्रीहंसयोगे गुणी
जातोऽशीतिकमायुरेति सयुगं ८४ साधुक्रियाचारवान् ॥ ६३॥
अथ मालव्ययोगफलम् ।
स्त्रीचेष्टो ललिताङ्गसन्धिनयनः सौन्दर्यशाली गुणी
तेजस्वी सुतदारवाहनधनी शास्त्रार्थवित्पण्डितः ।
उत्साहप्रभुशक्तिमन्त्रचतुरस्त्यागी परस्त्रीरतः
सप्तत्यब्दमुपैति सप्तसहितं (77) मालव्ययोगोद्भवः ॥ ६४॥
अथ शशयोगफलम् ।
भूपो वा सचिवो वनाच्लरतः सेनापतिः क्रूरधी-
र्घतोवार्दविनोदङ्चनपरो दाता सरोषेक्षणः ।
तेजस्वी निजमातृभक्तिनिरतः शूरोऽसिताङ्गः सुखी
जातः सप्ततिरायुरेति शशके जारक्रियाशीलवान् ॥ ६५॥
गर्गहोरायाम् ।
यस्य योगस्य यः कर्ता बलवान् जितदृग्युतः ।
अधियोगादियोगेषु स्वदशायां फलप्रदः ॥ ६६॥
अथ भास्करादियोगाः ।
भानोरर्थगते बुधे शशिसुताल्लाभस्थितश्चन्द्रमा-
श्चन्द्रात्कोणगतैः पुरन्दरगुरुर्योगस्तदा भास्करः ।
शूरो भास्करयोगजः प्रभुसमः शास्त्रार्थविद्रुपवान्
गान्धर्वश्रुतिवित्तवान् गणितविद्धीरः समर्थो भवेत् ॥ ६७॥
अथ चन्द्रयोगः ।
चन्द्राद्विक्रमगः कुजोऽवनिसुतादस्ते शनिः सूर्यजा-
दस्ते दैत्यगुतुः सितान्मदनगो जीवो यदीन्द्राह्वयः ।
स्यातस्तत्रभवः सशीलगुणवान् भूपोऽथवा तत्समो
वाग्मी वित्तविचित्रभूषणयशोरूपप्रतापान्वितः ॥ ६८॥
अथ मरुद्योगः ।
शुक्रात् कोणगतो गुरुः सुरगुरोः पुत्र शशी शीतगोः
केन्द्रस्थानसमाश्रितो दिनकरो योगो मरुत्संज्ञकः ।
वाग्मी वायुभवो विशालह्वदयः स्थूलोदरः शास्त्रवित्
सम्पन्नः क्रयविक्रयेषु कुशलो राजाऽथवा तत्समः ॥ ६९॥
अथ बुधयोगः ।
लग्नेज्ञो गुरुकेन्द्रगो हिमकरश्चन्द्रादहिर्वित्तगः
सौर्यस्थानगतौ च भानुरुधिरौ योगो बुधः कीर्तितः ।
राजश्रीबुधयोगजोऽतुलप्रख्यातनामा विदुः
शास्त्रज्ञानकरक्रियासु चतुरो भीमानशत्रुर्भवेत् ॥ ७०॥
अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः ।
लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने ।
अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥ ७१॥
द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते ।
शीतांशोः सुनफायोगस्त्वनफानाम् कीर्तितः ॥ ७२॥
योगो धुरन्धुराख्यः स्याद्वीना सर्वत्र भास्करम् ।
एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥ ७३॥
चन्द्रे सभानौ यदि नीचदृष्टे पापांशके यादि दरिद्रयोगम् ।
क्षीणेन्दुलग्नान्निधने निशायां पापेक्षिते पापयुते तथा स्यात् ॥ ७४॥
विधुन्तुदादिग्रहपीडितेन्तौ पापेक्षिते चाशु दरिद्रमेति ।
लग्नाचतुष्केन्द्रगृहे सपापे निशाकराद्वाऽशु दरिद्रमेति ॥ ७५॥
चन्द्रे पराजितशुभग्रहदृष्टियुक्ते राह्वादिपीडिततनौ तु दरिद्र एव ।
नीचारिवीक्षणयुते रिपुराशिवर्गे चन्द्रे तुलाधरगते तु तथा वदन्ति ॥ ७६॥
केन्द्रे वा यदि कोणगे हिमकरे नीचारिवर्गस्थिते
चन्द्रादन्त्यसपत्नरन्ध्रगृहगे जीवे दरिद्रो भवेत् ।
पापांशे रिपुवीक्षिते चरगृहे चन्द्रे चरांशेऽथवा
जातो याति दरिद्रयोगमतुलं देवेज्यदृग्वर्जिते ॥ ७७॥
अन्योन्यदृष्तौ शनिदानवेज्यौ नीचारिपापग्रहवर्गयातौ ।
एकर्क्षगौ वा यदि राजवंशे जातोऽपि लेमद्रुमयोगमेति ॥ ७८॥
चन्द्रे पापयुते तु पापभवने पापाम्शके वा निशि
व्योमेशेन निरिक्षिते गतबले केमद्रुयोगो भवेत् ।
भाग्यस्थानपवीक्षिते खलयुते नीचांशकेऽब्जे तथा
चन्द्रे नीचयुते निशि क्षयतनौ जातस्य केमद्रुमः ॥ ७९॥
अथ केमद्रुमयोगापवादः ।
निशाकरे केन्द्रगते भृगौ वा जीवेक्षिते नैव दरिद्रयोगः ।
शुभान्विते वाऽशुभमध्यगेन्दौ जीवेक्षिते नैव दरिद्रयोगः ॥ ८०॥
चन्द्रेऽतिमित्रनिजतुङ्गांशकस्थे जीवेक्षिते यदि दरिद्रतया विहीनः ।
चन्द्रेऽतिमित्रनिजतुङ्गगृहांशकस्थे जीवेक्षिते यदि दरोद्रतया विहीनः ॥ ८१॥
योगे केमद्रुमे प्राप्ते यस्मिन् कस्मिश्च जातके ।
राजयोगा विनश्यन्ति हरिं दृष्वा यथा द्विपाः ॥ ८२॥
होरायाम् ।
हित्वाऽर्कं सुनफाऽनफादुरुधुरा स्वान्त्योभयत्थैर्ग्रहः
शीतांशोः कथितोऽन्यथा तु बलिभिः केमद्रुमोऽन्यैस्त्वसौ ।
केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेष्यते
केचित् केन्द्रनवांशकेषु च वदन्त्युक्तिप्रसिद्धा न ते ॥ ८३॥
अथ सुनफादियोगफलम् ।
स्वयमधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च ।
प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिविषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ ८४॥
दत्पङ्गभोगसुख भाग्धनवाहनाच्यस्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः ।
केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ ८५॥
अथ कुजादिकृतसुनफायोगफलानि ।
जातश्च भूपतिश्चण्डो हिंस्त्रो हिम्भः सुधीरधीः ।
धनविक्रमवान् कोपी चन्द्राद्धनगते कुजे ॥ ८६॥
वेदशास्त्रकलागेयकुशलः सुशरीरवान् ।
मनस्वी हितवाग् धर्मी चन्द्राद्वित्तगते बुधे ॥ ८७॥
सर्वविद्याधिकः श्रीमान् कुटुम्बी नृपल्लभः ।
राजतुल्यशस्त्री च चद्रात्वित्तगते गुरौ ॥ ८८॥
विक्रमस्त्रीधनक्षेत्रकर्मवान् बहुवित्तवान् ।
च्तुष्पदाढ्या राजस्त्रीः सिते चद्रात् कुतुम्बगे ॥ ८९॥
पुरग्रामस्थिताशेषैः पूजितो धनवान् सुधिः ।
निपुणः सर्वकार्येषु चन्द्राद्वित्तगते शनौ ॥ ९०॥
अथ कुजादिग्रहकृतानफयोगफलानि ।
मानी रणोत्सुकः क्रोधी धृष्टश्चोरजनप्रभुः ।
धीरः स्वतनुलोभी स्याच्चन्द्रादन्त्यगते कुजे ॥ ९१॥
गान्धर्वलेख्यपटुवाक् कविर्वक्ता सुदेहवान् ।
यशःस्वी राजपूज्यः स्यात् चन्द्राद्व्ययगते बुधे ॥ ९२॥
राजपूज्योऽतिमेधावी गाम्भीर्यगुणसत्त्ववान् ।
शुचिः स्थानधनाढ्यः स्याद् चन्द्राद् द्वादशगे गुरौ ॥ ९३॥
युवतीजनकदर्पुः पश्चादिधनवान् सुधीः ।
धन्धान्याधिकश्चन्द्रादन्त्यस्थानगते भृगौ ॥ ९४॥
विस्तीर्णबाहुर्गुणवान् नेता पश्चादिवित्तवान् ।
गृहीतवाक्यो दुस्त्रीकश्चन्द्रादन्त्यङ्गते शनौ ॥ ९५॥
अथ दुरन्धरयोगफलानि ।
असत्यवादी गुणवान् बिपुणोऽतिषठो गुणी ।
लुब्धो वृद्धोऽसतीसक्तश्चन्द्रे सौम्यारमध्यगे ॥ ९६॥
स्वकर्मविभवो दृष्टो यशस्वी रिपिपीडितः ।
स्वगेहशीलकृच्चन्द्रे मध्यगे कुजजीवयोः ॥ ९७॥
व्यायानी सुभगः क्रूरो हृष्टः सत्कामवित्तवान् ।
भयादशीलः शीतांशौ मध्यगे कुजशुक्रयोः ॥ ९८॥
कुत्सितस्त्रीरतः क्रोधी धनवान् पिशुनोऽरिमान् ।
असन्तृप्तो निशानाथे मध्यगे कुजमदयोः ॥ ९९॥
धर्मात्मा शास्त्रविद्वाग्मी सत्कविः सज्जनान्वितः ।
यशस्वी च निशानाथे मध्यगे बुधजीवयोः ॥ १००॥
नृत्य्गानरतः कान्तः प्रियवाक् शुभगः सुधिः ।
शूर्प्रकृतिकश्चन्द्रे मध्यगे बुधशुक्रयोः ॥ १०१॥
देशाद्देशं गतः पूज्यो नातिविद्याधनान्वितः ।
स्वबन्धुजनविद्वेषी चन्द्रे मन्दज्ञमध्यगे ॥ १०२॥
नृपतुल्यकरः श्रीमान् नीतिज्ञो विक्रमान्वितः ।
ख्यारोऽदुष्टमतिश्चन्द्रे मध्यगे गुरुशुक्रयोः ॥ १०३॥
सुखी विनयविज्ञानविद्यारूपगुणान्वितः ।
धनी शान्तिकरश्चन्द्रे मध्यगे शनिजीवयोः ॥ १०४॥
वृद्धाचारः कुलाढ्यश्च निपुणस्त्रीजनप्रभुः ।
धनी नृपप्रियश्चन्द्रे सितादित्यसुतान्तरे ॥ १०५॥
अवोच्चस्वमित्रभवनोपगतेषु सर्वं प्राप्नोति जातमनुजो नियतं युदक्तम् ।
स्वांशेषु वा निजसुहृद्गृहसंयुतेषु प्राहुस्थैव फलमस्ति पराशरद्याः ॥ १०६॥
चन्द्रः सराहुर्यदि वा सकेतुश्चन्द्रादहिर्वा यदि रिःफयातः ।
नीचास्तगो वा यदि योगकर्ता जातस्य मिश्रं फलमाहुरार्याः ॥ १०७॥
अथ शकटयोगः ।
षष्ठामगतश्चन्द्रात्सुरराजपुरोहितः ।
केन्द्रादन्यगतो लग्नाद्योगः शकटसंज्ञितः ॥ १०८॥
अपि राजकुले जातो निःस्वः शकटयोगजः ।
क्लेशायासवशान्नित्यं सन्तप्तो नृपविप्रयः ॥ १०९॥
अथ पारिजातादियोगफलानि ।
सपारिजारद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः ।
सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ११०॥
करोति पारावतभागयुक्तो विद्यायशःशीविपुलं नराणाम् ।
सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् ॥ १११॥
अथ अधमादि योगः ।
अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे
शशिनि विनयवित्तज्ञानधीनैपुणानि ।
अहनि निशि च चन्द्रे स्वाधिमित्रंशके वा
सुर्गुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥ ११२॥
अथ चन्द्राधियोगा ।
सौम्यैः स्मरारिनिधनेष्वधियोग इन्द्रोस्तस्मिश्चमूपसचिवक्षितिपालजन्म ।
सम्पत्तिसौम्ख्यविभवा हतशत्रवश्च दीर्घयुषो विगतरेगभयाश्च जाताः ॥ ११३॥
अथ लग्नाधियोगः ।
लग्नादरिद्यूनगृहाष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः ।
लग्नाधियोगो भवति प्रसिद्धिः पापः सुखस्थानविवर्जितैश्च ॥ ११४॥
लग्नाधियोगो बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी ।
मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥ ११५॥
अथ गजकेसरीयोगः ।
केन्द्रस्थिते देवगुरौ मृगाङ्कायोगस्तदाहुर्गज्केसरीति ।
दृष्टे सितार्येन्दुसुतैः शशाङ्के नीचास्तहीनैर्गजकेसरी स्यात् ॥ ११६॥
गजकेसरिसङ्जातस्तेजस्वी धनधान्यवान् ।
मेधावी गुणसम्पन्नो राजप्रियकरो भवेत् ॥ ११७॥
अथ अमलायोगः ।
यस्य जन्मसमये शशिलग्नात् सद्ग्रहो यदि च कर्मणि संस्थः ।
तस्य कीर्तिरमला भुवि तिष्ठोदायुषोऽन्तमविनाशनसम्पत् ॥ ११८॥
लग्नाद्वा चन्द्रलग्नाद्वा दशमे शुभसंयुते ।
योगोऽयमभला नाम कीर्तिराचन्द्रतारकी ॥ ११९॥
राजपूज्यो महाभोगी दाता बन्धुजनप्रियः ।
परोपकारी गुणवान् अमलायोगसम्भवः ॥ १२०॥
अथ वास्यादियोगाः ।
व्ययधनयुतखेटैर्वासिवेवेशी दिनेशादुभयचरिकयोगश्चोभयस्थानसंस्थैः ।
निजगृहसुहृदुचस्थानयातैश्च जाता बहुधनसुखयुक्ता राजतुल्या भवन्ति ॥ १२१॥
वास्यादियोगफलानि ।
जातः सुशीलः शुभवेसियोगे वाग्मी धनी वीतभयो जितारिः ।
पापग्रहे दुष्टजनानुरक्तः पापार्मकरो वित्तसुखादिहीनः ॥ १२२॥
वासौ शुभग्रहयुते निपुणः प्रदाता विद्याविनोदसुखवित्तयशोबलाढ्यः ।
पापान्विते यदि विदेशगतोऽतिमूर्खः कामातुरो वधरुचिर्विकृताननः स्यात् ॥ १२३॥
सौम्यान्वितोभयचरीप्रभवा नरेन्द्रास्तत्तुल्यवित्तसुखशीलदयानुरक्ताः ।
पापान्वितोभयचरौ यदि पापकृत्या रोगाभिभूतपरकर्मरता दरिद्राः ॥ १२४॥
अथ शुभादियोगाः ।
शुभाशुभाढ्ये यदि जन्मलग्ने शुभाशुभाख्यौ भवतस्तदानीम् ।
व्ययस्वगैः पापशुभैर्विलग्नात् पापाल्ह्यसौम्यग्रहकर्त्तरी च ॥ १२५॥
शुभयोगभवो वाग्मी रूपशीलगुणान्वितः ।
पापयोगोद्भवः कामी पापकर्मा परार्थभुक् ॥ १२६॥
शुभकर्तरिसङ्जातस्तेजोवित्तबलाधिकः ।
पापकर्तरिके पापी भिक्षाशी मलिनो भवेत् ॥ १२७॥
अथ पर्वतयोगः ।
सौम्येषु केन्द्रगृहगेषु सपत्नरन्ध्रे शुद्धे,अथवा शुभयुते यदि पर्वतः स्यात् ।
लग्नान्त्यपौ यदि परस्परकेन्द्रयातौ मित्रेक्षितौ भवति पर्वतनाम योगः ॥ १२८॥
भाग्यान्वितः पर्वतयोगजातो विद्याविनोदाभिरतः प्रदाता ।
कामी परस्त्रीजनकेलिलोलस्तेजोयशस्वी पुरनायकः स्यात् ॥ १२९॥
अथ काहलयोगः ।
अन्योन्यकेन्द्रगृहगौ गुरुबन्धुनाथौ लग्नाधिपे बलयुते यदि काहलः स्यात् ।
कर्मेश्वरेण सहिते तु विलोकिते वा स्वोच्चस्वके सुखपतौ यदि ताद्दशः स्यात् ॥ १३०॥
ओजस्वी साहसी मूर्खश्चतुरङ्गबलैर्युतः ।
यत्किङ्चिद्ग्रामनाथस्तु जातः स्यात् काहले नरः ॥ १३१॥
अथ मालिकायोगः ।
लग्नादिसप्तगृहगा यदि सप्त खेटा जातो महीपतिरनेकगजाश्वनाथः ।
वित्तादिगो निधिपतिः पितृभक्तियुक्तो धीरोऽग्नरूपगुणवान् नरचक्रवर्ती ॥ १३२॥
जातो चदा विक्रममालिकायां भूपः स शूरो धनीकश्च रोगी ।
सुखदिकषेद् बहुदेशभाम्यभोगी महादानपरो महीपः ॥ १३३॥
पुत्राथा यदि मालिका नरपतिर्यन्वाऽथका कीर्तिमान् ।
लातः चष्ठगृहात् कचिद् धनसुखप्राप्तो दरिद्रो भवेत् ।
कामादिग्रहमालिका यदि बहुस्त्रीयज्ञभो भूपतिः ।
दीर्घर्धनवर्जितो नरवरस्त्रीनिर्जितश्चाष्टमान् ॥ १३४॥
धर्मादिग्रहमालिका गुणनिधिर्यज्वा तपस्वी विभुः ।
कर्माद्या यदि धर्मकर्मनिरतः सम्पूजितः सज्जनैः ।
लाभाद्राजवराङ्गनामनिपतिः सर्वक्रियादक्षको ।
जातो रिःफगृहाद्बहुव्ययकरः सर्वत्र पूज्यो भवेत् ॥ १३५॥
अथ चामरयोगः ।
लग्नेश्वरे केन्द्रगते स्वतुङ्गे जीवेक्षिते चामरनाम् योगः ।
सौम्यद्वये लग्नगृहे कलत्रे नवास्पदे वा यदि चामरः स्यात् ॥ १३६॥
योगे जातश्चामरे राजपूज्यो विद्वान् वाग्मी पण्डितो वा महीपः ।
सर्वज्ञः स्वाद्वेदशास्त्राधिकारी जीवेल्लोके सप्ततिर्वत्सराणाम् ॥ १३७॥
अथ शङ्कयोगः ।
अन्योन्यकेद्न्रगृहगौ सुतशत्रुनाथौ लग्नाधिपे बलयुते यदि शङ्कयोगः ।
लग्नाधिपे च गगनाधिपतौ चरस्थे भाम्याधिपे बलयुते तु तया वदन्ति ॥ १३८॥
श॥ए जातो भोगशीलो दयालुः स्त्रीपुत्रार्थक्षेत्रवान् पुण्यकर्मा ।
शास्त्रज्ञानाचारसाधुक्रियावान् जीवेल्लोके वत्सराणाभशीतिः ॥ १३९॥
अथ भेरीयोगः ।
स्वान्त्योदयास्तभवनेषु वियचरेषु कर्माधिपे बलयुते यदि भेरियोगः ।
केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥ १४०॥
दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धः ।
आचारभुरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥ १४१॥
अथ् मृदङ्गयोगः ।
उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये ।
लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरुपनृपतुल्ययशःप्रदः स्यात् ॥ १४२॥
अथ श्रीन्नाथयोगः ।
कामेश्वरे कर्मगते स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च ।
श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥ १४३॥
अथ शारदयोगः ।
योगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजे
केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ।
चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे
लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ १४४॥
स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्तः ।
विद्याविदोदरतिशीलतपोबलाढ्या जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥ १४५॥
अथ मत्स्ययोगः ।
लग्नधर्मगते पापे पङ्चमे सदसद्युते ।
चतुरस्त्रं गते पापे योगोऽयं मत्स्यसंज्ञकः ॥ १४६॥
कालज्ञः करुणासिन्धुर्गुणधीबलरुपवान् ।
यशोविद्यातपस्वी च मत्स्ययोगसमुद्भवः ॥ १४७॥
अथ कुर्मयोगः ।
कलत्रपुत्रारिगृहेषु सौम्याः स्वतुङ्गमित्रांशकराशियाताः ।
तृतीयलाभोदयगास्त्वसौम्या मित्रोच्चसंस्था यदि कूर्मयोगः ॥ १४८॥
विख्यातकीर्तिर्भुवि राजभोगी धर्माधिकः सत्त्वगुणप्रधानः ।
धीरः सुखा वागुपकारकर्ता कुर्मोद्भवो मानवनायको वा ॥ १४९॥
अथ खाङ्गयोगः ।
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
लग्नेशे केन्द्रकोणस्थे खड्गयोग इतीरितः ॥ १५०॥
वेदार्यशास्त्रनिखिलागमतत्त्वयुक्तिभ्द्धिप्रतापबलवीर्यसुखानुरक्ताः ।
निर्मत्सराश्च निजवीर्यमहानुभावाः खड्गे भवन्ति पुरुषाः कुशलाः कृतज्ञाः ॥ १५१॥
अथ लक्ष्मीयोगः ।
केन्द्रे मूलत्रिकोणस्थे भाग्येशे परमोच्चगे ।
कग्नाधिपे बलाढ्ये च लक्ष्मीयोग इतीरितः ॥ १५२॥
गुणाभिराभो बहुदेशनाथो विद्यामहाकीर्तिरनङ्गरूपः ।
दिगन्तविश्रान्तनृपालवन्द्यो राजाधिराजो बहुदारपुत्रः ॥ १५३॥
अथ कुसुमयोगः ।
स्थिरलग्ने भृगौ केन्द्रे त्रिकोणेन्दौ शुभेतरे ।
मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ १५४॥
दाता महीमण्डलणथवन्द्यो भोगी महावंशजराजमुख्यः ।
लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥ १५५॥
अथ पारिजातयोगः ।
विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि तदंशनाधः ।
केन्द्रत्रिकोणोपगतए यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥ १५६॥
मध्यान्तसौख्यः क्षितिपालवन्द्यो युद्धप्रियो वारणवार्जितयुक्तः ।
स्वकर्मधर्माभिरतो दयालुर्योगो स्याद्यदि पारिजातः ॥ १५७॥
अथ कलानिधियोगः ।
द्वितीये पङ्चमे जीवे बुधशुक्रयुतेक्षिते ।
क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥ १५८॥
कामी कलानिधिभवः सगुणाभिरामः संस्तूयमानचरणो नरपालमुख्यैः ।
सेनातुरङ्गमदवारणशङ्खभेरीवाद्यान्वितो विगतरेगभयारिसङ्घः ॥ १५९॥
अथ अंशावतारयोगः ।
केन्द्रगौ सितदेवेज्यौ स्वोचे केन्द्रगतेऽर्कजे ।
चरलग्ने यदा जन्म योगोऽयभवतारजः ॥ १६०॥
पुण्यश्लोकस्तीर्थचारी कलाज्ञः कामासक्तः कालकर्ता जितात्मा ।
वेदान्तज्ञो वेदशास्त्रधिकारी जातो राजश्रीधरोऽंशावतारे ॥ १६१॥
अथ हरि-हर-विवियोगाः ।
वित्तेशाद्भनरिःफरन्ध्रभवनप्राप्ताश्च सौम्यग्रहाः
कामेशात् सुखभाग्यरन्ध्रगृहगा जीवाब्जचन्द्रात्मजाः ।
देहेशाद्यदि बन्धुमानभवगा सूर्यास्फुजिद्भूमिजाः
प्रोक्तास्तत्र पुरातनैर्हरिहरव्रह्माख्ययोगा इमे ॥ १६२॥
निखिलनिगमविद्यापारगः सत्यवादी सकलसुखसमेतश्चारुवाक् कामशीलः ।
जितरिपुकुलसङ्घः सर्वजीवोपकारी हरिहरविधियोगे सम्भवः पुण्यकर्मा ॥ १६३॥
अथ नाभसयोगः ।
यूपेषुशक्तियवदण्डगदासमुद्रच्छत्रार्द्धचन्द्रशकटाम्बुजपक्षियोगाः ।
नौचक्रवज्नहलकार्मुककूटवापीशृन्गाटकाश्च विविधाकृतिविंशतिः स्युः ॥ १६४॥
रब्जुर्नलश्च मुसलस्त्रित यास्रयाख्याः स्रग्भोगिनौ तु दलयोगभवौ भवेताम् ।
वीणादयश्च कथिता दरदामपाशकेदारशूलयुगगोलकसप्तसङ्ख्याः ॥ १६५॥
होरायाम् ।
रब्जुर्मुसलं नल चराद्यैः सस्यस्त्वाश्चयजान् जगाद् योगान् ।
केन्द्रैः सदसद्युतैर्दवाख्यौ स्वक्सर्पौ कथितौ पराशरेण ॥ १६६॥
योगा व्रजन्त्याश्रयजाः समत्वं यावाब्जवश्राण्डजगोलकाद्यैः ।
केन्द्रोपगप्रोक्तफलौ दलाख्यावित्यहुरन्ये न पृथक् फलौ तौ ॥ १६७॥
इदानी गदाशकटविहगशृन्गाटकहलान् पञ्च योगानाह ।
आसन्नकेन्द्रभवनद्वयगैर्गदाख्यस्तन्वस्तगेषु शकटं विहगः स्वबन्ध्वोः ।
शृङ्गटकं नवमपङ्चमलग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः ॥ १६८॥
शकटाण्डजवच्छुभाशुभैर्वज्नन्तद्विपरीतगैर्यवः ।
कमलं तु विमिश्रसंस्थतैर्वापी तद्यादि केन्द्रबाह्यतः ॥ १६९॥
कण्टकादिप्रवृत्तैश्च वतुर्गृहगतैर्ग्रहैः ।
यूपेषुशक्तिदण्डाख्या होराद्यैः कण्टकैः क्रमात् ॥ १७०॥
नौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितैः ।
अर्धचन्द्रस्तु होराद्यैः प्रोक्तादन्यर्क्षसंस्थितैः ॥ १७१॥
एकान्तरगतैरर्थात्समुद्रः षड्गृहाश्रितैः ।
विलग्नादिस्थितैश्चक्रभित्याकृतिजसङ्ग्रहः ॥ १७२॥
सङ्ग्यायोगाः सप्त सप्तर्क्षसंस्थैरेकापायद्वल्लकीदामपाशाः ।
केदाराख्यः शूलयोगो बुगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ १७३॥
अथ आश्रयदलयोगफलम् ।
ईर्ष्युविदेशनिरतोऽध्वरतश्च रज्जवाम् मानी धनी च मुसले बहुभृत्यसक्तः ।
व्यङ्गः स्थिराढ्यनिपुणो नलजः स्नगुत्थो भोगान्वितो भजगतो बहुदुःखभाजः ॥ १७४॥
अथ गदादियोगफलम् ।
यज्वाऽर्थभाक् सततमर्थरुचिर्गदायां तद्वृत्तिभुक् शकतः सरुजः कुदारः ।
दूतोऽटनः कलकृद्विहगे प्रदिष्टः, शृङ्गाटके चिरसुखी कृषकृद्धलाख्ये ॥ १७५॥
वज्नेऽन्त्यपूर्वसुखितः सुभगोऽतिशूरः, शौचान्वितोऽपि च यत्रे सुखितो वयोऽन्तः
विख्यातकीर्त्यमितसौख्यगुणाश्च पद्मे वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ॥ १७६॥
त्यागात्मवान् क्रतुरैर्यजते च यूपे हिंस्रोऽथ गुप्त्याधिकृतः शरकृच्छराख्ये ।
नीचोऽलसः सुखधनैर्वियुतश्च शल्तौ दण्डे प्रियैर्विरहितः पुरुषोऽन्त्यवृत्तिः ॥ १७७॥
क्षत्रे चाद्यन्तसौख्यातुलधनबलवान् नौभस्तोयजीवी
चक्रे राजा यशस्वी जलाधिभवनरस्तोयवृत्तिः क्षितीशः ।
अर्धेन्दौ भोगशाली गिरिविपिनचरः क्रूरकर्मा च कूटे
चापे जाता मनुष्या यदि गहनचराश्चौर्यनिष्ठा निकृष्टाः ॥ १७८॥
वीणायां सकलक्रियासु निपुणः सङ्गीतनृत्यप्रियो-
दामिह्यामुपकारकृत्पटुमतिः प्रख्यातविद्याधनी ।
पाशे शीलधनार्जनेऽतिचतुरो वाचालकः पुत्रवान्
केदारे कृषिवित्तवानलसदीर्बन्धूपकारी भवेत् ॥ १७९॥
शूले कोपरत्तन्वितो धनरुचिः शूरः क्षतो निर्धनी
भिक्षाशी युगयोगजोऽतिचपलः पापण्डको मद्यपः ।
गोले निर्द्वनकोऽलसोऽटनपरः स्वल्पायुरज्ञानधी-
द्वत्रिंशन् कथिता वराहमिहिराचार्येण योगा इये ॥ १८०॥
भूपालयोगरुचपङ्चकभास्कराद्याः केमद्रुमाधमसनग्रहमालिकाश्च ।
लक्ष्मीहरीशविधिकाहलनाभसद्याः सूर्यादिदेवकृपया परिकीर्तितास्ते ॥ १८१॥
इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते राजयोगासये सप्तमेऽध्याये ॥ ७॥
अथ द्व्यादिग्रहयोगाध्यायः ॥ ८॥
जातः स्त्रीवशगः क्रियासु निपुणश्चन्द्रन्विते भास्करे
तेजस्वी बलसत्त्ववाननृतवाख़् पापी सभौमे रवौ ।
विद्यारूपबलान्वितोऽस्धिरमतिः सम्यान्विते पूषणि
श्रद्धाकर्मपरो नृपप्रियकरो भानौ सजीवे धनी ॥ १॥
स्त्रीमूलार्जितबन्धुमाननियुतः प्राज्ञः सशुक्रेऽरुणे
मन्दप्रायमतिः सपत्नवशगो मन्देन युक्ते रवौ ।
शूरः सत्कुलधर्मवित्तगुणवानिन्दौ धराजन्विते
धर्मी रास्त्रपरो विचित्रगुणवान् चन्द्रे सतार्सुते ॥ २॥
जातः साधुजनाश्रयोऽतिमतिमानायेर्ण युक्ते विधौ
पापास्मा क्रयविक्रयेशु कुशलः शुक्रे सशीतद्युतौ ।
कुस्त्रीजः पितृदूपको गतधनस्तारापतौ सार्कजे
वाग्मी चौषघशिल्पशास्त्रकुशलः सौम्यान्विते भूसुते ॥ ३॥
कामी पूज्यगुणान्वितो गणितविद् भौमे सदेवाच्चिंते,
धानोर्वादरतः प्रपङ्चरसिको धूर्तः सभौमे भृगौ ।
वादी गानविनोदविज्जडमतिः सौरेण युक्ते कुजे
वाग्मी गानविनोदविज्जतोऽधिकधनी वाचस्पतौ सेन्दुजे ॥ ४॥
शास्त्री गानविनोदहास्यरसिकः शुक्रे सचन्द्रात्मजे
विद्यावित्तविशिष्टधर्मगुणवानर्कात्मजे सेन्दुजे ।
तेजस्वी नृपतिप्रियोऽतिमतिमान् शूरः सशुक्रे गुरौ
शिल्पी मन्त्रिणि साकजे पशुपतिर्मल्लः सिते सासिते ॥ ५॥
अथ त्रिग्रहयोगाः ।
सूर्येन्दुक्षितिनन्दनैररिकुलघ्वंसी धनी नीतिमान्
जातश्चन्द्ररवीन्दुजैर्नृपसमो विद्वान् यशस्वी भवेत् ।
सोभाकार्मन्त्रिभिर्गुणनिधिविद्वान् नृपालप्रियः
शुक्रार्केन्दुभिरन्यदारनिरतः क्रूरोरिभीतो धनी ॥ ६॥
मन्देन्द्वर्कसमागमे खलमतिर्मायी विदेशाप्रियो
भास्वद्भूसुतबोधनैर्गतसुखः पुत्रार्धदारान्वितः ।
जीवार्कवनिजैरतिप्रियकरो मन्त्री चमूपोऽथवा
भौमार्कासुरवन्दिर्नयनरुग् भोगी कुलीनोऽर्थवान् ॥ ७॥
मन्दार्कावनिजैः स्वबन्धुरहितो मुर्खोऽधनो रोगभाक्
इन्द्राचार्यरवीन्दुनैः पटुमतिर्विद्यायशोवित्तवान् ।
भानुज्ञासुरपूजितैर्मृदुतनुर्विद्यांशस्वी सुखी
सौरादित्यबुधैर्विबन्धुरधनो द्वेषी दुराचारवान् ॥ ८॥
जीवादित्यसितैः सदारतनयः प्राज्ञोऽक्षिरुग् वित्तवान्
मन्देन्द्राचिंतभानुभिर्गतभयो राजप्रियः सात्विकः ।
जातो भानुसितासितैः कुचरितो गर्वाभिमानान्वित-
श्चन्द्रारेन्दुसुतैः सदाऽशनपरो दुष्कर्मकृद् दूपकः ॥ ९॥
जीवेन्दुक्षितिजैः सरोषवचनः कामातुरो रूपवा-
निन्दुक्ष्माजसितैर्विशीलतनयः सङ्चारशीलो भवेत् ।
तारेशार्कजभूसुतैश्चलमतिर्दुष्टात्मको मातृहा
जीवेन्दुज्ञसमागमे बहुधनख्यातोऽवनीशप्रियः ॥ १०॥
विद्यावानपि नीचकर्मनिरतः सेव्यः सितज्ञेन्दुभि-
स्त्यागी भूपतिपूजितश्च गुणवानिन्दुज्ञतिग्मांशुजैः ।
प्राज्ञः साधुसुतः कलासु निपुणः शुक्रेन्दुदेवाच्चिन्तैः
शास्त्री वृद्दबधूरतो नृपसमो वाचस्पतीन्द्वर्कजैः ॥ ११॥
वेदी राजपुरोहितोऽतिसुभगः शुक्रेन्दुचण्डांशुजै-
र्गान्धर्वश्रुतिकाव्यनाटकपरो जीवज्ञभूनन्दनैः ।
हीनाङ्गः खलवंशजश्चलभतिः शुक्रारचन्द्रात्मजः
प्रेश्यः सामयलोचनोऽटनपरस्ताराजभौमासितैः ॥ १२॥
शुक्रारेन्द्रपुरोहितैर्नरपतेरिष्टः सपुत्रः सुखी
जीवारार्कसुतैः कृशोऽसुखतनुर्मानी दुराचारवान् ।
सौरारसुरपूजितैः कुतनये नित्यं प्रवासान्वितः
शुक्रज्ञामरमन्त्रिभिजितरिपुः की तिप्रतापान्वितः ॥ १३॥
देवेज्येन्दुजभानुजैरतिसुखश्रिकः स्वदारप्रियो
मन्दज्ञासुरवन्दितैरनृतवाग् दुष्टोऽन्यजायारतः ।
जातो जीवसितासितैरमलधीविख्यातसौख्यान्वित-
चन्द्रे पापयुते सदाल्पसुखवान् भानौ पितुस्तद्वदेत् ॥ १४॥
अथ चतुर्ग्रहयोगाः ।
एकर्क्षगैरिननमुचाकरभूसुतज्ञैर्नयी प्रणञ्चकुशलो लिपिकश्च रोगी ।
चन्द्रारभानुगुरुभिधनवान्यशन्वी धीनान्नृपप्रियकरो गतशोकरोगः ॥ १५॥
आरार्क्चन्द्रभृगुजैः सुतदारबन्धु विद्वान् निताशनसुखी निपुणः कुपालुः ।
सूर्येन्दुभानुनभूमिसुतैरशान्तनेत्रओऽटनश्च कुतटापतिरर्थनीनः ॥ १६॥
तारासुतेन्दुरविमन्त्रिभिरिष्टपुत्रहारार्धवान् गुणवशेबलवानुदायः ।
शुक्रेन्दुभानुशशिजैविकलश्च भग्नी मन्देन्दुविहिनकरैरधनः कृतघ्नः ॥ १७॥
तोयाटविक्षितिचरोऽवनिपालपुज्यो भग्नी दिनेशतुदिनद्युतिजीवशुक्रैः ।
जातो विशालनयनो बहुवित्तपुत्रो वाराङ्गनापनिविनेन्दुसुरेज्यनन्दैः ॥ १८॥
मन्देन्दुभानुभृगुजैविबलोऽतिभीरः कन्याज्नाश्रयधनाशनत्त्परश्च ।
आतारुणज्ञगुरुभिः सवलो विपन्ने दरार्धवान् नयन्रोगयुतोऽनुगः स्यात् ॥ १९॥
रविकुजबुधशुक्रैरन्यदारानुरक्तो विषमनयनचेपश्चोरधीर्वीतसत्त्वः ।
दिनकरकुजतारासूनुमन्दैश्चमूपो नरपतिसचिवो वा नीचकृद् भोगशीलः ॥ २०॥
सूर्यारार्यसिअतिर्मद्दीपतिसमः ख्यातोऽतिपूज्यो भनी
जीवारार्किदिवकरैर्गतधनो भ्रान्तः मृदुद्बन्धुमान् ।
भूपुत्रार्कसितासितैः परिभवप्राप्तो विकर्मागुणः
शुक्रार्केन्दुजसूरिभिर्धनयशोमुख्यप्रधानो भवेत् ॥ २१
जीवार्किज्ञदिवाकरैः कलहकृन् मानी दुराचारवान्
मदज्ञारुणभार्गवैः सुवदनः सत्यव्रताचारवान् ।
अर्कार्किज्यसितैः कलासु निपुणो नीचप्रभुः साहसी
जीवेन्दुज्ञकुजैर्नृपप्रियकरो मन्त्री कविः क्ष्मापतिः ॥ २२॥
चन्द्रारज्ञसितैः सुदारतनयः प्राज्ञो विरुपः सुखी-
मन्दरेन्दुभ्धैद्विमातृपितृकः शूरो बहुस्त्रीसुतः ।
चन्द्रारार्यसितैरधर्मकुशलो निद्रालुरर्थानुरो
जीवारार्किनिशाकरैः स्थिरमतिः शूरः शुखी पण्डितः ॥ २३॥
शुक्रज्ञेन्दुसुरार्जितैः स वधिरो विद्वान्यशस्वी धनी
चन्द्रार्किज्ञसुराच्चितैरतिधनो बन्धुप्रियो धार्मिकः ।
शीतांशुज्ञसितासितैर्बहुजनद्वेषी परस्त्रीपति-
जीर्वेन्द्वर्कजभार्गवैर्गतसुखः श्रद्धादयावर्जितः ॥ २४॥
कुजबुजगुरुशुक्रैरर्थवान्निन्दितः स्यात् बुधगुरुशनिभौमैः सामयो वित्तहीनः ।
गुरुसितशनिसौम्यैरेकगेहोपयातैरतिशयधनविद्याशीलमेति प्रजातः ॥ २५॥
अथ पङ्चग्रहयोगाः ।
एकर्क्षगैरिनशशिक्षितिजज्ञजीवैर्जातस्तु युद्धकुशलः पिशुनः समर्थः ।
शुक्रारभानुबुधशीतकरैर्विधर्मश्रद्धालुरन्यजनकार्यपरो विबन्धुः ॥ २६॥
भनन्दनेन्दुरविमन्दपुरन्दरेज्यैराशालुइष्टर्मणीबिरहाभिभूतः ।
चन्द्रारभानुशशिसूनुदिनेशपुत्रैरल्पायुरर्जनपरो विकलत्रपुत्रः ॥ २७॥
जीवेन्दुभौमसितभानुभिराततायी त्यक्तः स्वमातृपितृनधुजनैरनेत्रः ।
मन्देन्दुशुक्ररविभूमिसुतैर्विनामवित्तप्रभावकुशलो मलिनोऽन्यदारः ॥ २८॥
तारेशभानुगुरुबोधनदानवेज्यैर्मन्त्री धनी बलयशोनिजदण्डनाथः ।
भास्वद्बुधेन्दुगुरुभानुसुतैः परान्नभोजी सुभीरुरतिपापरतोग्रवृत्तिः ॥ २९॥
सौम्यासितेन्दुसितभानुभिरर्थहीनो दीर्घाकृतिर्गतसुतो बहुरोगगात्रः ।
जीवेन्द्रशुक्ररविभानुसुतैः सदारो वाग्मीन्द्रजालचतुरो विभयः सशत्रुः ॥ ३०॥
शुक्रारभानुगुरुचन्द्रसुतैर्विशोकः सेनातुरङ्गपतिरन्यवधूविलोलः ।
भूसूनुजीवरविबिधनभानुपुत्रैभिक्षाशनो मलिनजीर्णतराम्बरः स्यात् ॥ ३१॥
पूज्यः कलासु निपुणो वधबन्धनाढ्यो रोगी सितासितगुरुज्ञधराकुमारैः ।
श्रेष्ठोऽतिदुःखभयरोगयुतः क्षुधार्तः शन्यारबोधनविकर्तनदानवेज्यैः ॥ ३२॥
प्रेष्योऽधनो मलिनवेषयुतोऽतिमूर्खश्वोरः कुजेन्दुगुरुशुक्रदिनेशपुत्रैः ।
मन्त्राक्रियासुरतधातुबलप्रसिद्धिकर्मा गुरुज्ञशनिचन्द्रवसुन्धराजैः ॥ ३३॥
ज्ञानी सदेवगुरुसन्मतिधर्मशीलः शास्त्री दिनेशगुरुर्शुक्रशनीन्दुपुत्रैः ।
साधुः सुखी बहुधनप्रबलश्च विद्वानिन्दुज्ञदेवगुरुदानवपूजितारैः ॥ ३४॥
पङ्चग्रहिरेकगृहोपयातैस्चन्द्रज्ञजीवासुग्वन्द्यमन्दैः ।
सर्वत्र पूज्यो विकलेक्षणश्च महीपतुलुअः सचिवोऽथवा स्यात् ॥ ३५॥
अथ षड्ग्रहयोगाः ।
सूर्येन्द्वारबुधामरेज्यभृगुजैरेकर्क्षगैस्तीर्थकृ-
लातोऽरण्यागिरिप्रदेशनिलयः स्त्रीपुत्रवित्तान्वितः ।
शुक्रेन्द्वर्कबुधामरेज्यदिनकृत्पुत्रैः शिरोरोगवा-
नुन्मादप्रकृतिश्च निर्जनधरावासो विदेशं गतः ॥ ३६॥
जीवज्ञारुणभूमिजासितसितैः सङ्चारशीलः सुधी-
रिन्दुज्ञारसितार्किदेवगुरुभिस्तीर्थाटनः स्याद् व्रती ।
जीवारेन्दुरवीन्दुजारुणसुतैश्चोरः परस्त्रीरतः
कुष्ठी बान्धवदूषितो गतसुतो मूर्खो विदेशं गतः ॥ ३७॥
नीचोऽन्यकर्मनिरतः क्षयपीनसार्तो निन्द्यो महीसुतरवीन्दुसितासितज्ञैः ।
मन्त्री कलत्रधननन्दनभोदहीनः शान्तः सितासितकुजारुणजीवचन्द्रैः ॥ ३८॥
अथ मेषादिराशिस्थाग्रहफलम्
जातः स्वल्पधनस्तु गानरसिको विद्याधनक्लेशधी-
रज्ञः सर्वकलारसज्ञैचतुरो हैरण्यर्कः साहसी ।
सम्पूज्यः कुवणिक्क्रियासु कुशलः पुत्रादिभाग्यच्युतः
श्रीमांस्तोयकृषिक्रियादिभिरिने मेषादिराशिस्थिते ॥ ३९॥
स्वर्क्षे भूपकृषिक्रियाटन्धनः शुक्रर्क्षगे कामधीः
सौम्यर्क्षे परिदीनवाक्कर्टकभे राजप्रियो वित्तवान् ।
सिंहे भूमिसुते तु निर्भयधनो जैवे जितारिः सुखी
कुम्भे दुर्जनसेवितो मृगगते भूपोऽथवा तसमः ॥ ४०॥
कौजे चन्द्रसुतेऽधनः सितगृहे विद्वान्नृयुग्मे सुखी
कर्किस्थे निजवित्तहा हरिगते जातो वधूनिजितः ।
कन्यास्थे सुगुणाकरो गतभयश्चापे नृपालप्रियो
मीनस्थे जितसेवकः शनिगृहे शिल्पी परप्रेश्यकः ॥ ४१॥
सेनावित्तसुताधिकः गुरुणवान् दाता कुजर्क्षे गुरौ
तेजस्त्री सितभे परिच्छद्सुहृत्ताराउतर्क्षं गते ।
प्राज्ञः पुत्रधनश्च कर्किणि घटे भोगी यशस्वी हरौ
राजा राजसमोऽथवा निजगृहे नीचोऽटनः केशधीः ॥ ४२॥
जारः श्रीमतिमित्रबन्धुविभवो विद्याधनज्ञानवान्
भीरुर्मन्दसुतोऽतिनीचविहिताचारो नृपालंप्रियः ।
दुष्टस्त्रीगणसेवितो जनपतिर्भोगी कमारीरतः
श्रीविद्यागुणशीलवान् भृगुसुते मेषादिराशिस्थिते ॥ ४३॥
मुर्खो नातिधनो गतस्वसुतधीरम्बासुखप्रच्युतोऽ-
नार्ययः स्वल्पधनात्मजो गुणपुरग्रामाग्रणीरुग्रधीः ।
जातः पुत्रकलत्रवित्तविभवो राजप्रियो वित्तवान्
तेजोराजगुणाधिको रविसूते मेषादिराशिस्थिते ॥ ४४॥
यदुक्तमुडुनाथस्य फलं मेषादिराशिषु ।
तदंशकफलं चात्र परिचिन्त्य वदेद् बुधः ॥ ४५॥
अथ दृष्टिफलम् ।
पापेक्षिते गगनगामिनि दुष्टरोगी जातः स्वधर्धगुणविचयशोविहीनः ।
पापान्विते तु परवित्तवधूविलोलः पारुष्यवाक्कपटबुद्धियुतोऽलसः स्यात् ॥ ४६॥
यदि शुभकरदृष्टे खेचरे जातमर्तः सुतधनयुतभोगी सुन्दरो राजपूज्यः ।
परिभवरहितः स्थात्सौम्यखेतोपयाते जितरिपुरिह धर्माचारवानिङ्गितज्ञः ॥ ४७॥
अथ चन्द्रस्य दृष्टिफलम् ।
चन्द्रे मेषगते कुजादिस्वचरैरालोकिते भूपति-
र्विद्वान् राजसमः समस्तगुणवान् चोरो दरिद्रो भवेत् ।
निस्वस्थेयनृमान्यभूपधनिकप्रेष्यो वृषस्थे तथा
युग्मस्थे विकलो नृपः सुमतिमान् धीरः खलो निर्धनः ॥ ४८॥
कर्कस्थे शशिनि क्षमासुतमुस्वैरालोकिते शौर्यवा-
नार्यश्रेष्ठलविर्महीपतिर्योजीवी सनेत्रामयः ।
भुपः पण्डितवाग् धनी नरपतिः पापी विभुः सिंहगे
कन्यायां धनिको विभुः प्रभुसमो विद्वान् विशीलः सुखी ॥ ४९॥
तौलिस्थे हिमगौ बुधादिशुभदैरालोकिते स्यात् क्रमाद्
भूपः स्वर्णकरो वणिक्कुजरविच्छायासुनैर्वङ्चकः ।
कीटस्थे शशिनि द्विमातृपितृको राजप्रियो नीचकृ-
द्रोगी निर्वनिको नृपालसचियो दृष्टे बुधादिग्रहैः ॥ ५०॥
चन्द्रे धनुःस्थे शुभदृष्तियुक्ते विद्याधनज्ञानयशोबलाढ्यः ।
दृष्टे कुजादित्यदिनेशपुत्रैः सभाशठः पण्यवधूरतः स्यात् ॥ ५१॥
राजा महीपतिर्विद्वान् धनी निर्धनिको विभुः ।
कुजादिग्रहसन्दृष्टे मकरस्थे निशाकरे ॥ ५२॥
कुम्भस्थिते निशानाथे शुभदृष्टे यशोधनः ।
जातः परवधूलोलः पापखेटनिरीक्षिते ॥ ५३॥
मीनस्थे शुभवीक्षिते हिमकरे हास्यप्रियो भूपति-
र्विद्वान् पापनिरीक्षिते परुषवाक् पापात्मको जायते ।
पापांशे खलवीक्षिते शठमतिर्जातोऽन्यजायारतः
सौम्याम्शे शुभवीक्षिते हिमकरे जातो यशस्वी भवेत् ॥ ५४॥
राशिदृष्टिफलं यत्तदंशकेपु च योजयेत् ।
भवन्ति शुभदाः सर्वे शुभदृग्योगसंयुता ॥ ५५॥
अथ लग्नादिभावगतग्रहफलम् ।
मार्तण्डो यदि लग्नगोऽल्पतनयो जातः सुखी निर्घृणः
स्वल्पाशी विकलेक्षणो रणतलश्लाधी शुशीलो नटः ।
ज्ञानाचाररतः सुलोचनशयःस्वातन्त्र्शकस्तूच्चगे
मीने स्त्रीजनसेवितो हरिगते राव्यान्धको वीर्यवान् ॥ ५६॥
क्षीणे रशिन्युदयगे वधिरोऽङ्गहीनः प्रेष्यश्च पापसहिते तु गतायुरेव ।
स्वोच्चस्वर्के धनयशोबहुरूपशाली पूर्णे तनौ यदि चिरायुरुपैति विद्वान् ॥ ५७॥
क्रूरः साहसिकोऽटनोऽतिचपलो रोगी कुजे लग्नगे
विद्यावित्ततपःस्वधर्मनिरतो लग्नस्थिते बोधने ।
जीवे लग्नगते चिरायुरमलज्ञानी धनी रूपवान्
कामी कान्तवपुः सदारतनयो विद्वान् विलग्ने भृगौ ॥ ५८॥
दुर्नासिको वृद्धकलत्ररोगी मन्दे विलग्नोपगतेऽङ्गहीनः ।
महीपतुल्यः सुगुणाभिरामो(आभो)जातः स्वतुङ्गोपगते चिरायुः ॥ ५९॥
क्रूरो दयाधर्मविहीनशीलो राहौ विलग्नोपगते तु रोगी ।
केतौ विलग्ने सरुजोऽतिलुब्धः सौम्येक्षिते राजसमानभोगी ॥ ६०॥
रविक्षेत्रोदये राहू राजभोगाय सम्पदि ।
स्थिरार्थपुत्रान् कुरुते मन्दक्षेत्रोदये शिखी ॥ ६१॥
अथ द्वितीयस्थग्रहफलम् ।
त्यागी धातुद्रव्यवानिष्टशत्रुवार्ग्मी वित्तस्थानगे चित्रभानौ ।
कामी कान्तश्चारुवागिङ्गितज्ञो विद्याशीलो वित्तवान् वित्तगेन्दौ ॥ ६२॥
धतोर्वादकृषिक्रियाटनपरः कोपी कुजे वित्तगे
बुद्ध्योपर्जितवित्तशीलगुणवान् साधुः कुटुम्बे बुधे ।
वाग्मी भिजनसौम्ख्यवित्तविपुलस्त्वागी धनस्थे गुरौ
विद्याकामकलाविलासधनवान्वित्तस्थिते भार्गवे ॥ ६३॥
असत्यवादी चपलोऽटनोअधनः शनौ कुतुम्बोपगते तु वङ्चकः ।
विरोधवान्वित्तगते विधुन्तुदे जनापराधी शिखिनि द्वितीयगे ॥ ६४॥
अथ तृतीयस्थग्रहफलम् ।
शूरो दुर्जनसेवितोऽतिधनवान् त्यागी तृतिये रवौ
चन्द्रे सोदरराशिगेऽल्पधनिको बन्धुप्रियः सात्त्विकः ।
स्व्यातोऽपारपराक्रमः शठमतिर्दुश्चिक्ययाते कुजे
भायाकर्मपरोऽटनोऽतिचपलो दीनोऽनुजस्थे बुधे ॥ ६५॥
भ्रातृस्थानगते गुरौ गतधनः स्त्रीनिर्जितः पापकृत
शुक्रे सोदरगे सरोषवचनः पापी वधूनिजितः ।
अल्पाशी धनशीलवंशगुणवान् भ्रातृस्थिते भानुजे
राहौ विक्रमगेऽतिवीर्यधनिकः केनौ गुणी वित्तवान् ॥ ६६॥
सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात् पुरतो यदि भास्करात् ॥ ६७॥
अथ चतुर्थस्थग्रहफलम् ।
हृद्रोगी धनधान्यबुद्ध्गिरहितः क्रूरः सुखस्थे रवौ
विद्याशीलसुखान्वितः परवधूलोलश्चतुर्थे विधौ ।
भौमे बन्धुगते तु बन्धुरहितः स्त्रीनिर्जितः शौर्यवान्
बन्धुस्थे शशिजे विबन्धुरमलज्ञानी धनी पण्डितः ॥ ६८॥
वाग्मी धनी सुखयशोबलरूपशाली जातः शठप्रकृतिरिन्द्रगुरौ सुखस्थे ।
स्त्रीनिर्जितः सुखयशोधनबुद्धिविद्यावाचालको भृगुसुते यदि बन्धुयाते ॥ ६९॥
आचारहीतः कपटी च माटृक्लेशान्वितो भानुसुते सुखस्थे ।
राहौ कलत्रादिजनावरोधी केतौ सुखस्थे च परापवादी ॥ ७०॥
अथ पङ्चमस्थग्रहफलम् ।
राजप्रियश्चलबुद्धियुक्तः प्रवासशीलः सुतगे दिनेशे ।
मन्त्रक्रियासक्तमना दयालुर्धनी मनस्वी तनये मनीन्दौ ॥ ७१॥
क्रूरोऽटनश्चपलसाहसिको विधर्मा भोगी धनी च यदि पङ्चमगे धराजे ।
मन्वाभिचारकुशलः सुतदारवित्तविद्यायशोबलयुतः सुतगे सति ज्ञे ॥ ७२॥
मन्त्री गुणी विभवासार समन्वितः स्यादल्पात्मजः सुरगुरौ सुत राशियाते ।
सत्पुत्रमित्रधनवानतिरूपशाली सेनातुरङ्गपतिराय्मजगे च शुक्रे ॥ ७३॥
मत्तश्चिरायुरसुखी चपलश्च धर्मि जातो जितारिनिचयः सुतगेऽर्कपुत्रे ।
भीरुर्द्दयालुरधनः सुतगे फणीशे केतौ शठः सलिलभीरुरतीव रोगी ॥ ७४॥
अथ षष्ठस्थग्रहफलम् ।
कामी शूरो राजपूज्योऽभिमानी ख्यातः श्रीमान् शत्रुर्याते दिनेशे ।
अल्पायुः स्यात् क्षीणचन्द्रेऽरिसंस्थे पूर्णे जातोऽतीव भोगी चिरायुः ॥ ७५॥
स्वामी रिपुक्षयकरः प्रबलोदराग्निः श्रीमान् यशोबलयुतोऽवनिजे रिपुस्थे ।
विद्याविनोदकलहप्रियकृशालो बन्धूपकाररहितः शशिजेऽरियाते ॥ ७६॥
कामी जितारिरबलोऽरिगतेऽमरेज्ये शोकापवादसहितो भृगुजे रिपुस्थे ।
बह्वशनो विषमशीलसपवभीतः कामी धनी रविसुते सति शत्रुयाते ॥ ७७॥
राहौ रिपुस्थानगते जीतारिश्चिरायुरत्यन्तसुखी कुलीनः ।
बन्धुप्रियोदारगुणप्रसिद्धविद्यायशस्वी रिपुगे च केतौ ॥ ७८॥
अथ सप्तमस्थग्रहफलम् ।
स्त्रीद्वेषी मदनस्थिते दिनकरेऽतीव प्रकोपो खल-
श्चन्द्रे कामगते दयालुरटनः स्त्रीवश्यको भोगवान् ।
स्त्रीमूलप्रविलापको रणरुचिः कामस्थिते भूमिजे
व्यङ्गः शिल्पकलाविनोदचतुरस्तारासुतेऽस्तं गते ॥ ७९॥
धीरश्चारुकलत्रवान् पितृगुरुद्वेषी मदस्थे गुरौ
देश्यास्त्रीजनवल्लभश्च सुभगो व्यङ्गः सिते कार्मगे ।
भाराध्वश्रमतसप्तधीरधनिको मन्दे मदस्थानगो
गर्वी जारशिस्वामिनिः कणिपतौ कामस्थिते रोगवान् ॥ ८०॥
अनङ्गभावोपगते तु केतौ कुदारको वा विकलत्रभोगः ।
निद्री विशीलः परिदीनवाक्यः सदाऽटनो मूर्खजनाग्नगण्यः ॥ ८१॥
अथ आष्यमस्थग्रहफलम्
मनोऽभिरामः कलहप्रवीणः पराभवस्थे च रवौ न तृप्तः ।
रणोत्सुकस्त्यागविनोदविद्याशीलः शशाङ्के सति रन्ध्रयाते ॥ ८२॥
विनीतवेषो धनवान् गनेषो महीसुते रन्ध्रगते तु जातः ।
विनीतबाहुल्यगुणप्रसिद्धो धनी सुधारश्मिसुतेऽष्ट्मस्थे ॥ ८३॥
मेधावी नीचकर्मा यदि दिविजगुरौ रन्ध्रयाते चिरायु-
र्दिर्घयुः सर्वसौख्यातुलबलधनिको भार्गवे चाष्टमस्थे ।
शूरो रोषाग्न्गण्यो विगतबलधनो भानुजे रन्ध्रयाते
रहौ क्लेशापवादी परिभवगृहगे दीर्घसूत्रश्च रोगी ॥ ८४॥
केतौ यदा रन्ध्रगृहोपयाते जातः परद्रव्यवधूरतेच्छुः ।
रोगी दुराचाररतोऽतिलुब्धः सौम्येक्षितेऽतीव धनी चिरायुः ॥ ८५॥
अथ नवमस्थग्रहफलम् ।
आदित्ये नवमस्थिते पितृगुरुद्वेषी विधर्मश्रित-
श्चन्द्रे पैत्रिकदेवकार्यनिरतस्त्यागी गुरुस्थे यदा ।
भूसूनौ यदि पित्र्यनिष्टसहितः ख्यातः शुभस्थानगे
सौम्ये धर्मगते तु धर्मधनिकः शास्त्री शुभाचारवान् ॥ ८६॥
ज्ञानी धर्मपरो नृपालसचिवो जीवे तपःस्थानगे
विद्यावित्तकलत्रपुत्रविभवः शुक्रे शुभस्थे सति ।
मन्दे भाग्यगृहस्थिते रणतलक्यातो विदारो धनी
भाग्यस्थे भुजगे तु धर्मजनकद्वेषी यशोवित्तवान् ॥ ८७॥
केतौ गुरुस्थानगते तु कोपी वाग्मी विधर्मी परनिन्दकः स्यात् ।
शूरः पितृद्वेषकरोऽतिदम्भाचारो निरुत्साहरतोऽभिमानी ॥ ८८॥
अथ दशमस्थग्रहफलम् ।
मानस्थिते दिनकरे पितृवित्तशील-विद्याशोबलयुतोऽवनिपालतुल्यः ।
चन्द्रे यदा दशभगो धनधान्यवस्त्र-भूषावधूजविलासकलाविलोलः ॥ ८९॥
मेषूरणस्थेऽवनिजे तु जाताः प्रतापवित्तप्रबलप्रसिद्धाः ।
व्यापारगे चन्द्रसुते समस्त-विद्यायशोवित्तविनोदशीलः ॥ ९०॥
सिद्धारम्भः साधुवृत्तः स्वधर्मी विद्वानाद्यो मानगे चामरेज्ये ।
शुक्रे कर्मस्थानगे कर्षकाङ्च स्त्रीभूलाद्वा लब्धवित्तो विभुः स्यात् ॥ ९१॥
मन्दे यदा दशमगे यदि दण्डकर्ता मानी धनी निजकुलप्रभवश्च शूरः ।
चोरक्रियानिपुणबुद्धिरतो विशीलो मानं गते फणिपतौ तु रणोत्सुकः स्यात् ॥ ९२॥
सुधीर्बली शिल्पविदात्मबोधी जनानुरागी च विरोधवृत्तिः ।
कफात्मकः शूरजनाग्नगण्यः सदाऽटनः कर्मगते च केतौ ॥ ९३॥
अथ लाभस्थग्रहफलम् ।
भानौ लभगते तु वित्तविपुलस्त्रीपुत्रदासान्वितः
सन्तुष्तश्च विषादशीलधनिको लाभस्थिते शीतगौ ।
आर्थस्थे धरणीसुते चतुरवाक्कामी धनी शौर्यवान्
सौम्ये लाभगृहं गते निपुणधीविद्यायशस्वी धनी ॥ ९४॥
आयस्थेऽमरमन्त्रिणि प्रबलधीविख्यातनामा धनी
लाभस्थे भृगुजे सुखी परवधूलोलाटनो वित्तवान् ।
भोगी भूपतिलब्धवित्तविपुलः प्राप्ति गते भानुजे
राहौ श्रोत्रविनाशको रणतलश्लाधी धनी पण्डितः ॥ ९५॥
उपान्त्ययाते शिखिनि प्रतापी परप्रियश्चान्यजनाभिवन्द्यः ।
सन्तुष्टचित्तः प्रभुरल्पभोगी शुभक्रियाचाररतः प्रजातः ॥ ९६॥
अथ व्ययस्थग्रहफलम् ।
व्ययस्थिते पूषणि पुत्रशालो व्यङ्गः सुधीरः पतितोऽटनः स्यात् ।
चन्द्रेऽन्व्ययाते तु विदेशवासी भौमे विरोधी धनदारहीनः ॥ ९७॥
बन्धुद्वेषकरो धनी विगतधीस्तारासुते रिष्फगे
चार्वाकी चपलोऽटनः खलमतिर्जीवे यदाऽन्त्यं गते ।
शुक्रे बन्धुविनाशकोऽन्त्यगृहगे जारोपचारोऽधनी
मन्दे रिष्फगृहं गते विकलधीर्मूर्खो धनी वङ्चकः ॥ ९८॥
विधुम्तुदे रिष्फगते विशीलः सम्पत्तिशाली विकलश्च साधुः ।
पुराणवित्तस्थितिनाशकः स्याच्चलो विशीलः शिखिनि व्ययस्थे ॥ ९९॥
उच्चस्थे दिननायके यदि धनी सेनापतिः शीतगौ
मिष्टान्नान्बरभूषणः कुतनयो भूनन्दने शौर्यवान् ।
सौम्ये वंशविवर्द्धनो जनपतिर्धीमाङ्जितारिः सिखी
जीवे वंशकरः सुशीलचतुरो विद्वान्नृपालप्रियः ॥ १००॥
शुक्रे स्वोच्चगते विलासव्नितासङ्गितनृत्यप्रियो
मन्दे ग्रामपुराटवीक्षितिपतिर्जातः कुमारीरतः ।
राहौ चोरजनाधिपः कुलवरः शूरः कुकर्मी धनी
केतौ चोररतस्तु हीनधरणीपालप्रियो जायते ॥ १०१॥
एकः स्वतुङ्गगः स्वेटो मित्रग्रहनिरीक्षितः ।
जनयत्यवनीशं तं पूज्यं शस्यं सुहृद्युतम् ॥ १०२॥
तुङ्गस्थैकवियच्चरे बलयुते जातः स धन्यो धनी
साम्न्त्ः स्वचरद्वये त्रिषु थदा जातोऽवनीशो भवेत् ।
उच्चस्थेषु चतुर्ग्नद्देषु बलवान् केन्द्रेषु भूपालरात्
पङ्चव्योमचरेषु तुङ्गभवनप्राप्तेषु लोकेश्वरः ॥ १०३॥
अथ मूलत्रिकोणगतफलम् ।
मार्तण्डे यदि मूलत्रिकोणगृहगे जातो धनी वन्दित-
श्चन्द्रे वित्तसुखान्वितश्च रुधिरे कोपी दयावर्जितः ।
ताराजे धनिको जपी सुरगुरौ भोगी नृपालप्रियः
शुक्रे ग्रामपुराधिपस्तणिजे शूरस्तु राहौ धनी ॥ १०४॥
अथ स्वक्षेत्रस्थफलम् ।
स्वर्क्षे भास्वति चारुमन्दिरदुराचारोऽग्नकामी विधौ
तेजोरूपधनी कुजे कृषिबलख्यातो बुधे पण्डितः ।
जीवे काव्यकलागमश्रतपरः शुक्रो मनस्वी धनी
मन्दे चण्डपराक्रमो गतसुखी राहौ यशोवित्तवान् ॥ १०५॥
स्वजातिकल्पाधिकपूज्यवित्तो धनाधिकः क्ष्मापतितुल्यभूपः ।
एकादिभिः स्वर्क्षगतैर्ग्रहेन्द्रैर्जालक्रमेणैव भवेन्मनुष्यः ॥ १०६॥
अथ मित्रक्षेत्रस्थफलम् ।
मित्रक्षेत्रगते रवौ दृढसुहृदाता यशस्वी भेवे-
त्तारेशे बहुमानसौख्यधनिको जातो धरानन्दते ।
वित्तागारसुहृत्प्रियः शशिशुते चातुर्यहास्याग्रणी-
जीवे शिष्टरतः सिते सुतसुखी मन्दे परान्नो धनी ॥ १०७॥
स्व्यातः सुखी सुहृत्प्रीतश्वातुर्यगुणवान् सुधीः ।
भोगी परान्नभोक्ता च मित्रराशिफलं क्रमात् ॥ १०८॥
परद्रव्योपभोक्ता स्यादेको मित्रक्षगो ग्रहः ।
द्वौ सुहृद्वित्तभोगी स्यात् त्रयः स्वार्जितवित्तभुक् ॥ १०९॥
सुहृच्चतुष्तये दाता गणपः पङ्चखेचराः ।
चमूपः पङ्ग्रहाः सप्त ग्रहाः स्याद्धरणिपतिः ॥ ११०॥
त्रिभिरुच्चंगतैर्भूपस्त्रिभिर्मन्त्री स्वराशिगैः ।
त्रिभिरस्तं गतैर्दासः त्रिभिनर्चिं गतैर्जडः ॥ १११॥
अथ शत्रुक्षेत्रस्थफलम् ।
शत्रुक्षेत्रगते रवौ पितृसुखत्यागी च सेवापरः
शीतांशौ यदि मातृदुःखनिरतो हृद्रोगशाली भवेत् ।
भूसूनौ विकलोऽकृतज्ञमलिनः सौम्ये सुखी पापधी-
र्जैवे भव्यरतः सिते तु भृतको मन्देऽध्वशोकाकुलः ॥ ११२॥
मिश्रदा रिपुगाः पङ्च षड् ग्रहा हीनसौख्यदाः ।
सर्वदुःकराः सप्त मूढाः कुर्वन्त्यशोभनम् ॥ ११३॥
अथ नीचस्थफलम् ।
नीचस्थे दिननायके तु पतितोऽबन्धुः प्रवासे रतः
शीतांशौ सरुजोऽल्पपुण्यधनवान् भौमे कृतघ्नो धनी ।
क्षुद्रो बन्धुविरोधकृच्छ्शिसुते जीवेऽपवादी खलः
शुक्रे दुःखरतः शनौ गतधनस्त्रीको विप्रन्नः खलः ॥ ११४॥
स्वेषूच्चभावेषु फलं समग्नं त्रिकोणवत्स्यात्फलमंशकेषु ।
स्वराशितुल्यं सुहृदंशकेषु नीचारिमूढेष्वरिराशितुल्यम् ॥ ११५॥
स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः ।
फलं सम्पूर्णपादोनदलपादाल्पनिष्फलम् ॥ ११६॥
केन्द्रत्रिकोणगाः सर्वे शुभदा बलिनः शुभाः ।
त्रिषदायगताः पापा बलिनो यदि शोभनाः ॥ ११७॥
षड्पङ्चकत्रिचतुरक्षिवियङ्चरेन्द्रसम्पर्कजद्यचरभावभवानि यानि ।
तुङ्गादिकग्रहफलानि च कीर्तितानि प्रद्योतनप्रसुखलब्धवरप्रसादात् ॥ ११८॥
इति जातकपारिजाते द्व्यादिग्रहयोगासयेऽष्टमेऽध्याये विमला हिन्दी टिका समाप्ता ॥ ८॥
अथ मान्द्यब्दादिफलाध्यायः ॥ ९॥
मान्द्यब्दादिफलानि वाच्मि गुलिके लग्नस्थिते मन्दधी
रोगी पापयुते तु वङ्चनपरः कामी दुराचारवान् ।
वित्तस्थे विषयातुरोऽट्नपरः क्रोधी दुरालापवान्
पापव्योमचरान्विते गतधनो विद्यार्विहीनोऽथवा ॥ १॥
विरहगर्वभदादिगुणैर्युतः प्रचुरकोपधनार्जनसम्भ्रमः ।
विगतशोकभयश्च विसोदरः सहजैधामनि मन्दसुते यदा ॥ २॥
हिबुक्रभवनसंस्थे मन्दजे वीतविद्याधनगृहसुखबन्धुक्षेत्रयातोऽटनः स्यात् ।
तनयैभवनयाते मन्दसूनौ विशीलश्चलमतिरधबुद्धिः स्वल्पपुत्रोऽल्पजीवी ॥ ३॥
बहुरिपुगणहन्ता भूपविद्याविनोदी यदि रिपुर्गृहयाते मन्दपुत्रे तु शूरः ।
कलहकृदिनपैत्रे कामयाते कुदारः सकलजनविरोधी मन्दबुद्धिः कृतघ्नः ॥ ४॥
विकलनयनवक्रः स्वल्पदेहोऽष्टमस्थे गुरुजनपितृहन्ता नीचकृत्यो गुरुस्थे ।
अशुभशनसमेतः कर्मगे मन्दसूनौ निजकुलहितकर्माचारहीनो विमानः ॥ ५॥
अतिसुखधनतेजोरूपवान् लाभयाते दिनकरसुतपुत्रे चाग्नजं हन्ति जातः ।
विषयरहितवेषो दीनवाक्यः प्रवीणो निखिलधनहरः स्यान्मदजेरिःफयाते ॥ ६॥
मान्दित्रिकोणोपगते विलग्ने रद्द्वादशांशे यदि वा नवांशे ।
मान्द्यान्विता मान्दियुतर्क्षनाथाह् सर्वे सदाऽनिष्टकरा भवन्ति ॥ ७॥
अथ ग्रहयुक्तमान्दिफलम् ।
संयुक्ते यदि भास्करेण गुलिके जातः पिटृद्वेषको
मातृक्लेशकरस्तु शीतरुचिना भौमेन वीतानुजः ।
सोन्मादः शशिजेन देवगुरुणा पास्वण्डको दूषकः
शिक्रेण प्रमदाकृतामयहतो नीचाङ्गनावल्लभः ॥ ८॥
जातः सौख्यरतस्तु मन्दतनये मन्देन युक्ते यदा
सर्पेणैव विध(घ)प्रदस्तु शिखिना वह्निप्रदो जायते ।
भिक्षुः स्याद्विषनाडियुक्तगृहगे भूपालकोऽपि ध्रुवं
जातस्योपखगान्विता गगनगाः कुर्वन्त्यनिष्टं फलम् ॥ ९॥
अथ संवत्सरफलम् ।
प्रभवशरदि जातः साहसी सत्यवादी सकलगुणसमेतः कालविधर्मशाली ।
विभवशरदि कामी निर्मलो नित्यतुष्टः प्रबलधनसमेतो बन्धुविद्यायशस्वी ॥ १०॥
शुक्लाब्दे परदारको गतबलस्त्यागी मनस्वी भवे-
न्मन्त्री कार्यपरोऽतिभाषणपटुर्जातः प्रमोदाभिधे ।
धर्मी दानपरायणः सुतधनः शान्तः प्रजोत्मत्तिजो
नितिज्ञो निपुणः कृपालुरनिशं चाङ्गिरसाब्दे धनी ॥ ११॥
जातः श्रीमुखत्रत्सरे परवधूलोलः शुचिर्वित्तवान्
योगी राजकरो महाधनबलख्यातो भवाब्दे भवः ।
लुब्धश्चङ्चलधीः कृशामयतनुः क्रोधी युवब्दे भिषक्
जातो धातुभवोऽन्यदारनिरतः कार्यार्थवादी शठः ॥ १२॥
श्रीमानीश्चरवत्सरे बलमतिजार्तो गुणग्राहकः
सत्कर्मा बहुधन्यवत्सरभवो भोगी वणिगवृत्तिमान् ।
क्रूरः पापरतः प्रभाथिशरदि क्रोधी विबन्धुः सुखी
जातो विकमवत्सरे यदि धनी सेनापतिः शौर्यवान् ॥ १३॥
वृषरदि दरिद्रोवीतलज्जो विकर्मा दिनकरसमतेजोरूपवान् वित्रभानौ ।
यदि निजकुलविद्याचारधर्मः सुभानौ बहुधनबलशाली तारणब्दे धिवेकी ॥ १४॥
जातः पार्थिववत्सरे नरपतिः श्रीमानतुल्यः श्सुखी
कामी भीरुरशीलवित्तगुणवान् पापी व्ययाब्दे यदि ।
वाग्मी सर्वजिदब्दकेऽतिबलवान् शास्त्री गुणी तत्त्ववित्
सम्पन्न्प् यदि सर्वधरिजनितः शिल्पी नृपालप्रियः ॥ १५॥
शोकी दुष्टपरोऽतिपापनिरतः क्रूरो विरोध्यब्दके
मायावी मदनातुरो विकृतिजो मन्त्रक्रियातन्त्रधीः ।
निर्मोही विगुणोऽतिदीनवचनः पापी स्वराब्दे खलः
स्रवानन्दकरो नृपप्रियनरो मन्त्रार्थविन्नन्दने ॥ १६॥
विजयशरदि धर्मो सत्यसम्पन्नशाली
यदि जयशरदिस्याद्राजतुल्यो नृपो वा ।
मदनरतिविलो९लो मन्मथाब्दे जितारि-
र्गुणधनरहितः स्याद्दुर्भस्वाब्दे विशीलः ॥ १७॥
दुष्टास्मा यदि हेमलम्बिजनितः कृष्यादिकर्मोत्सुकः
श्रीमान्विप्रजनाश्रितः फलपरित्यागी विलम्ब्यब्दके ।
रोगी भीरुरवित्तवान चलमतिर्नीचो विकार्यब्दके
शार्वर्यामतिवित्तभोगसुमनाः सत्यव्रताचारवान् ॥ १८॥
शान्तोदारकृपाकरः प्लवभवेः शूरः स्वधर्माश्रितो
जातः स्त्रीजनवङ्चितः शुभकृति प्राज्ञः शुभाङ्गः सुधीः ।
ज्ञानी शोभकृति क्षितीशगुणवान् विद्याविनोदप्रियो
दुर्भोगी परदारकः शठभतिः क्रोध्यब्दजः क्रोधयुक् ॥ १९॥
मानी हास्यरसप्रियो गुणधनश्लाधी च विश्वावसौ
दुष्टाचारपरः पराभवशरज्जातः कुलघ्वंसकः ।
कामी बन्धुरतः प्लवङ्गजनितो बालप्रियो मन्दधी-
देर्वाराधनतत्परोऽतिसुभगः शौर्यान्वितः कीलके ॥ २०॥
शान्तः सर्वजनप्रियोऽतिधनिकः सौम्यान्दजो धैर्यवान्
नानाशास्त्रविशारदो विकलधीः साधारणाब्दे नरः ।
आशालुश्च विरोधकृद्भवनरः क्रोधी दरिद्रोऽटनो
दुशीलः परिधाविवत्सरभवः पारुष्यवाग्वित्तवान् ॥ २१॥
जातो बन्धुविरागकृत् परवधूलोलः प्रमादीजनि-
मोर्दात्मा निखिलागमश्रुतिपरश्चानन्दजस्तत्त्ववित् ।
पापी राक्षसवत्सरे यदि वृथालापोऽपकारी सतां
दाता दानगुणान्वितोऽनलभवः शान्तः सदाचारवान् ॥ २२॥
योगी पिङ्गलवत्सरे जितमना जातस्तपस्वी भवेत्
कालज्ञो यदि कालयुक्तशरदि श्रीभ्प्गसत्कर्मवान् ।
सिधार्थो गुरुदेवभक्तिनिरतः सिद्धाथिजातः सुधी-
र्जरो रौद्रेसमुद्रवः कुटिलधीर्मानी दुराचारवान् ॥ २३॥
कामी दुर्गतिवत्सरे जडमतिः शोकाभितप्तः खलः
स्थूलोरूदरबाहुमस्तकतनुः स्थाद्दुदुभौ वित्तवान् ।
प्राज्ञः सत्यरतः सुखी च रुधिरोद्रार्यब्दजो वित्तवान्
शान्तो बन्धुजनप्रियोऽतिसुभगो रक्ताक्षिजः शीलवान् ॥ २४॥
जातो जारः क्रोधनाब्दे कुमार्गी बन्धुद्वेषी चोरनिष्ठारतः स्यात् ।
शिष्टाचारः सुप्रसन्नः सुरूपो मानी वीतारातिरिगः क्षयाब्दे ॥ २५॥
अथायनफलम् ।
उत्तरायनसमुद्भवः पुमान् नयोगनिरतश्च निष्ठिकः ।
दक्षिणयनभवः प्रगल्भवः भेदबुद्धिरभिमानतत्परः ॥ २६॥
अथर्तुफलम् ।
दीर्घानिको वसन्तसमये जातः सुगन्धप्रियो
ग्रिष्मतै धनतोयसेव्यचतुरो भोगी कृशाङ्गः सुधी ।
क्षारशीरकटुप्रियः उवचनो वर्षर्तुजः स्वच्छधीः
पुण्यात्मा सुभ्खः सुखी यदि शरत्कालोद्भवः कामुकः ॥ २७॥
योगी कृशाङ्गः कृषक्ष्च भोगी हेमन्तकालप्रभवः समर्थः ।
स्नानक्रियादानरतः स्वधर्मी मानी यशस्वी शिशिरर्तुजः स्यात् ॥ २८॥
अथ मासफलम्
चैत्रे स्र्वकलागमश्रुतिपरो नित्योत्सवः श्रीरतो
वैशाखे यदि सर्वशास्त्रकुशलः स्वातन्त्रिको भूपतिः ।
ज्येष्ठे मासि चिरायुरर्थतनयी मन्त्रक्रियाकोविद-
श्राषाढेऽतिधनी कृपालुरनिशं भोगी परद्वेषकः ॥ २९॥
जातः श्रावणमासि देवधरणीदेवार्चने तत्परो
नानादेशरतश्च भाद्रपदजस्तन्त्री मनोराज्यवान् ।
मासो चाश्चयुजि स्वक्रीयजनविद्वेषी दरिद्रश्चलः
पुष्टाङ्गः कृषको विशालनयनो वित्ताधिकः कार्तिके ॥ ३०॥
सुरगुरुपितृभक्तो मार्गशीर्षो च धर्मी धनगुणबलशाली तुङ्गनासस्तु पुष्ये ।
खलमतिरतिधर्माचारवान् माधमासि प्रतिदिनमुपकर्ता फाल्गुने गानलोलः ॥ ३१॥
अथ पक्षफलम् ।
व(ब)क्षपक्षे यदि पुत्रपौत्रधनाधिको धर्मरत्ः कृपालुः ।
स्वकार्यवादी निजभातृभक्तः स्वबन्धुवैरी यदि कृष्णपक्षे ॥ ३२॥
अथ कालफलम् ।
जातः प्रत्युषसि स्वधर्मनिरतः सत्कर्मजीवी सुखी
मध्याह्वे यदि राजतुल्यगुणवान् जातोऽपराहे धनी ।
सायंकालभवः सुगन्धवनितालोलः खलात्माऽटनो
रात्रौ तत्फलमेव सौख्यबहुलः सूर्योदये जायते ॥ ३३॥
अथ तिथिफलम्
महोद्योगी जातः प्रतिपदि तिथौ पुण्यचरितो-
द्वितीयायां तेजःपशुबलयशोवित्तविपुलः ।
तृतीयायां पुण्यप्रबलभयशीलश्च पटुवाक्
चतुर्थामाशालुस्त्वटनवतुरो मन्त्रनिपुणः ॥ ३४॥
पश्चम्यामखिलागमश्रुतिरतः कामी कृशाङ्गश्चलः
षष्ठ्यामल्पबलो महीपतिसमः प्राज्ञोऽतिकोपान्वितः ।
सप्तम्यां कठिनोरुवाग् जनपतिः श्लेष्मप्रधानो बली
चाष्टम्यामतिकामुकः सुतवधूलोलः कफात्मा भवेत् ॥ ३५॥
ख्यातो दिव्यतनुः कुदारतनयः कामी नवम्यां तिथौ
धर्मत्मा पटुवाक्कलत्रत्नयः श्रीमान् दशम्यां धनी ।
देवब्राह्मणपूजको हरितिथौ दासान्वितो वित्तवान्
द्वादश्यामतिपुण्यकर्मनिरतस्त्यागी धनी पण्डितः ॥ ३६॥
त्रयोदश्यां लुब्धप्रकृतिरतिकामी च धन्वान्
चतुर्दश्यां कोपी परधनवधूको गतमनाः ।
अमायामाशालुः पितृसुरसमाराधनपरो
धनी राकाचन्द्रे यदि कुलयशस्वी च सुमनाः ॥ ३७॥
अथ वारफलम् ।
मानी पिङ्गलकेशलोचचनतनुश्चादित्यवारे विभुः
कामी कान्तवपुर्दयालुरनिशं शीतांशुवारोद्भवः ।
क्रूरः साहसवादकार्यनिरतो भूसूनुवारे सदा
देवब्राह्मणपूजक्ः सुव्रचनः सौम्य्स्य वारोदये ॥ ३८॥
यज्वा भूपतिवल्ल्भश्च गुणवान् स्यातो गुरोर्वसरे
धान्यक्षेत्रधनाश्रितः सितदिने सर्वप्रियः कामधीः ।
मन्दप्रायमतिः परान्नधनभुग् वादप्रवादान्वितो
द्वेषी बन्धुजनावरोधकुशलो मन्दस्य वारोद्भवः ॥ ३९॥
अथ नक्षत्रनामानि ।
तुरङ्गदस्त्राश्वियुगश्विनीहया यमः कृतान्तो भरनी च याम्यभम् ।
हुताशनओऽग्निर्बहुला च कृत्तिका विधिर्विरिङ्चः शकटं च रोहिणी ॥ ४०॥
सौम्यश्चान्द्राग्र्हायण्युडुपमृगशिरस्तारका रौद्रमार्द्रा
चादित्यं तत्पुर्नवस्विति सुरजननी तिष्यपुष्यामरेज्याः ।
आश्लेपाहिर्भुजङ्गः पितृजनकमघाः फल्गुनी भाग्यभं स्य-
र्दयम्णश्चोत्तराख्यं भगमिति कथिनं भानुहस्तारुणार्काः ॥ ४१॥
त्वष्टा च चित्रासुरवर्द्धकी तु स्वाती मरुद्वातसमीरणाख्याः ।
वायुः समीरः परतो विशाखा द्विदैवतेन्द्राग्निकशूर्पभानि ॥ ४२॥
अनूराधा मैत्रं त्वथ कुलिशताराः शतमस्वः
सुरस्वामी जेष्ठा परमसुरमूलक्रतुभुजः ।
पयःपूर्वाषढा सलिलजलतोयानि च समु-
त्तराषाढा विश्वं परमभिजिदाहुर्मुनिगणाः ॥ ४३॥
श्रोणाविष्णुहरिश्रुतिश्रवणभान्याहः श्रविष्ठा वसु
प्राचेताः शततारका वरुणभं चाजैकपादोऽजपान् ।
पूर्वप्रोष्ठपदर्क्षकं परमहिर्बुघ्न्योत्तरा प्रोष्ठपान्
पूषारेवतिपौष्णमानि मुनिभिः सक्कीर्तितानि क्रमात् ॥ ४४॥
अथ गण्डान्तताराः
मूलावासवयोर्मघाभुजगयोः पौष्णाश्वयोः सन्धिजं
गण्डान्तं प्रहरप्रमाणमधिकानिष्टप्रदं प्राणिनम् ।
ज्येष्ठादानवतारसन्धिघटिका चाभुक्तसंज्ञा भवेत्
तन्नाहीप्रभवाङ्गनासुतपशुप्रेष्याः कुलघ्वंसकाः ॥ ४५॥
अथ ज्येष्ठाफलानि
विभक्ता दशभिर्ज्येष्ठानक्षत्राखिलनाडिकाः ।
आद्यंशे जननीमाता द्वितीये जननीपिता ॥ ४६॥
तृतीये जननीभ्राता यदि माता चतुर्थके ।
पङ्चमे जाततनयः षष्थे गोत्रविनाशकः ॥ ४७॥
सप्तमे चोभयकुलं त्वष्टमे वंशनाशनम् ।
नवमे स्वशुरं हन्ति सर्व हन्ति दशांशके ॥ ४८॥
भौमवासरयोगेन ज्येष्ठाजा ज्येष्ठसोदरम् ।
भानुवासरयोगेन मूलजा स्वशुरं हरेत् ॥ ४९॥
ज्येष्ठाद्यपादेऽग्रजमाशु हन्याद् द्वितीयपादे यदि तत्कनिष्ठम् ।
तृतीयपादे पितरं निहन्ति स्वयं चतुर्थे मृतिमेति जातः ॥ ५०॥
अथ मूलफलानि ।
मूलाद्यपादे पितरं निहन्याद् द्वितीयके मातरमाशु हन्ति ।
तृतीयजो वित्तविनाशकः स्याच्चतुर्थपादे समुपैति सौख्यम् ॥ ५१॥
मूलर्क्षनिखिला नाड्यस्तिथिसङ्ख्याविभाजिताः ।
आद्ये पिता पितृभ्राता तृतीये भगिनीपतिः ॥ ५२॥
पितामहश्चतुर्थे तु माता नश्यति पङ्चमे ।
षष्ठे तु मातृभगिनी सप्तमे मातुलस्तथा ॥ ५३॥
अष्ठमांशे पिऋव्यस्त्री निखिलं तु नवांशके ।
दशमे पशुसंधतो भृत्यस्त्वेकादशांशके ॥ ५४॥
द्वादशे तु स्वयं जातस्तज्ज्येष्टस्तु त्रयोदशे ।
चतुर्दशे तद्भगिनी त्वन्ते मातामहस्तथा ॥ ५५॥
आश्लेषाद्ये न गण्डं स्याद्धनगण्डं द्वितीयके ।
तृतीये मातृगण्डम् तु पितृगण्डं चतुर्थके ॥ ५६॥
मूलामधाश्रीचरणे प्रथमे पितुश्च पौष्णेन्द्रयोश्च फणिनस्तु चतुर्थपादे ।
मातुः पितुः स्ववपुषोऽपि करोति नाशं जातो यथा निशि दिनेऽप्यथ सन्ध्ययोश्च ॥ ५७॥
दिवा जातस्तु पितरं रात्रिजो जननी तथा ।
आत्मानं संध्ययोर्हन्ति नास्ति गण्डे विपर्ययः ॥ ५८॥
ऋक्षस्यान्ते भवेद्रात्रावादौ यदि दिने तथा ।
संध्यासु ऋक्षसन्धौ तु तदेतद् गण्डलक्षणम् ॥ ५९॥
पूर्वाषाडे धनुर्लग्ने जातः पितृविनाशकः ।
पुष्ये कर्कटके लग्नेपितृमृत्युकरो भवेत् ॥ ६०॥
पूर्वाषाढे तु पुष्ये च पितरं मातरं सुतम् ।
मातुलं च शिशुर्हन्यात्प्रथमांशकतः क्रमात् ॥ ६१॥
उत्तराफाल्गुनीताराप्रथमे चरणे यदि ।
तिष्यनक्षत्रमध्यस्थपादयोरुभयोर्यदि ॥ ६२॥
पादे तृतीये चित्रायाः पूर्वार्द्धे यमभस्य च ।
तृतीयांशेऽर्कतारायश्चतुर्थाशेऽन्त्यभस्य च ।
जातस्तु पितरं हन्ति जाता चेन्मातरन्तथा ॥ ६३॥
अथ गण्डकालः ।
षोडशाब्दास्तुरङ्गाद्ये मघाद्ये चाष्टवत्सराः ॥ ६४॥
एकाब्दः शक्रतारायां चत्वारस्त्वाष्द्रमूलयोः ।
सार्पे वर्धद्वयं चैव रेवत्यामेकवत्सरः ॥ ६५॥
द्वौ मासौ चोत्तरादोषः पुष्यर्क्षे तु त्रिमासकम् ।
नवमे मासि पितरं पूर्वाषाढोद्भवं हरेत् ॥ ६६॥
हस्तर्क्षे यदि जातस्तु पितरं द्वादशाब्दके ।
अभुक्तमूलजः पुत्रः पितरं हन्ति तत्क्षणात् ॥ ६७॥
अभुक्तमूलजनितो यदि जीवति मानवः ।
निजवंशकरः श्रीमान् बहुसेनाधिपोऽथवा ॥ ६८॥
अथ तिथिदोषः ।
कृष्णपक्षे चतुर्दश्यां षडण्शे प्रथमे शुभम् ।
द्वितीये पितरं हन्ति तृतीये मातरं तथा ॥ ६९॥
चतुर्थे मातुलं हन्ति पङ्चमे भ्रातृनाशनम् ।
षष्ठे यदि शिशुं हन्ति गण्डदोष इतीरितः ॥ ७०॥
अमायां तु प्रजातानां गजानां वाजिनां तथा ।
गवां च महिषादीनां मनुष्यानां विशेषतः ॥ ७१॥
सिनीवालीप्रजातानां त्याग एव हि सर्वदा ।
विशेषाञ्च कुहूत्थानां शान्तिं कुर्याद्विधानतः ।
नारी विनाऽवशेषाणां परित्यागो विधीयते ॥ ७२॥
अथ योगदोषः ।
पितृजन्मर्क्षकर्मर्क्षजातः पितृविनाशकः ॥ ७३॥
जन्मर्क्षशकतक्कग्नजातः सद्यो मृतिप्रदः ।
मुसले मुद्गरे योगे जातः शोभननाशकृत् ॥ ७४॥
विष्टयां दरिद्रमाचष्टे गुलिकेऽङ्गविहीनवान् ।
रिक्ताय पिण्ढतां यानि पहुः स्याद्यमकण्टके ॥ ७५॥
ग्रहपीडितनक्षत्रे जातो रोगनिपीदितः ।
ग्रहमुक्ते कान्क्षितर्क्षे दत्तपुत्रो भवेत्सुतः ॥ ७६॥
व्यतीपातेऽङ्गहीनः स्यात् परिधे मृत्युमाप्नुयात् ।
धैधृतौ पितरं हन्ति विष्कम्भे चार्थहानिकृत् ।
शूले तु शूलरोगी स्याद् गण्डे गण्डमवाप्नुयात् ॥ ७७॥
अथ दन्तोद्रमफलम् ।
सदन्तजातः कुलनाशकरी द्वितीयमासादिचतुष्टयान्ते ।
दन्तोद्भवो मृत्युकरः पितुः स्यात् षष्ठे शिशोस्तत्परतः शुभं स्यात् ॥ ७८॥
अथ जन्मतारादयः ।
जन्मर्क्षमाद्यं दशमन्तु कर्म सांज्ञतिकं षोडशभं वदन्ति ।
अष्टादश स्यात् समुदायसंज्ञमाधानमेकोनितविंशतिः स्यात् ॥ ७९॥
त्रयोविंशतिनक्षत्रं वैनाशिकमिनि न्मृतम् ।
जातिदेशाभिकात्व्याः पङ्चविशादिनारकाः ॥ ८०॥
ज्न्मतारादयो यन्य विद्धः पापवियञ्चरैः ।
सद्यो मृत्युकरास्तस्य शुभैः शुभफलप्रदाः ॥ ८१॥
अथ गण्डदोषापवादः ।
वैशाखे श्रावणे माधे फाल्गुन्यां व्योमसम्भवम् ।
आषाढपुज्यसौम्येषु ज्योष्ठे मासि च मानुषम् ॥ ८२॥
अश्वयुक्चैत्रकार्तिक्यां भाद्रे च विलसम्भवम् ।
मर्त्ये मृत्युर्गण्डदोषः पाताले नास्ति पुष्करे ॥ ८३॥
जातमात्रे कुमारस्य सुखमालोकयेत्पिता ।
पितृणात्स विभुच्येत पुत्रस्य मुखदर्शनात् ॥ ८४॥
अथ नक्षत्रफलम् ।
अश्विन्यामतिबुद्धिवित्तविनयप्रज्ञायशस्वी सुखी
याम्यर्क्षे विकलोऽन्यदारनिरतः क्रूरः कृतघ्नो धनी ।
तजस्वी बहुलोद्भवः प्रभुसमोऽमुर्खश्च विद्याधनी
रोहिण्यां पर्रन्ध्र्वित्कृशतनुर्वोधी परस्त्रीरतः ॥ ८५॥
चान्द्रे सौम्यमनोऽटनः कुटिलद्रक् कामातुरो रोगवान्
आर्द्रायामधनश्चलोऽधिकबलः क्षुद्रक्रियाशीलवान्
मूढात्मा च पुनर्व्सौ धनबलख्यातः कविः कामुक-
स्तिष्ष्ये विप्रसुरप्रियः सधनधी राजप्रियो बन्धुमान् ॥ ८६॥
सार्पे मूढमतिः कृतघ्नवचनः कोपी दुराचारवान्
गर्वी पुण्यरतः कलत्रवशगो मानी मघायां धनी ।
फल्गुन्यां चपलः कुकर्मचरितस्त्यागी द्रिढः कामुको
भोगी चोत्तरफल्गुनीभजनितो मानी कृतज्ञः सुधीः ॥ ८७॥
हस्तर्क्षे यदि कामर्धमनिरतः प्राज्ञोपरर्ता धनी
चित्रायामतिगुप्तशीलनिरतो मानी परस्त्रीरतः ।
स्वात्यां देवमहीसुरप्रियकरो भोगी धनी मन्दधी-
र्गर्वी दारवशो जितारिरधिकक्रोधी विशाखोद्भवः ॥ ८८॥
मैत्रे सुप्रियवाग् धनी सुखरतः पूज्यो यशस्वी विभु-
र्ज्येष्ठायामतिकोपवान् परवधूसक्तो विभुधार्मिकः ।
मूलर्क्षे पटुवाग्विधूतकुशलो धूर्तः कृतघ्नो धनी
पूर्वापाढभवो विकारचरितो मानी सुखी शान्तधीः ॥ ८९॥
मान्यः शान्तगुणः सुखी च धनवान् विश्वर्क्षजः पण्डितः
श्रोणायां द्विजदेवभक्तिनिरतो राजा धनी धर्मवान् ।
आशालुर्वसुमान् वसूडुजनितः पीनोरुकण्ठः सुखी
कालज्ञः शाततारकोद्भवनरः शान्तोऽल्पभुक् साहसी ॥ ९०॥
पूर्वप्रोष्ठपदि प्रगल्भवचनो धूर्तो भयार्तो मृदु-
श्चाहिर्बुघ्न्यजमानवो मृदुगुणस्त्यागी धनी पण्डितः ।
रेवत्यामुरुलाङ्छनोपगतनुः कामातुरः सुन्दरो
मन्त्री पुत्रकलत्रमित्रसहितो जातः स्थिरः श्रीरतः ॥ ९१॥
अथ राशिफलम् ।
मेषस्थे यदि शीतगौ च लघुभुक् कामी महोत्थाघ्नजो
दाता कान्तयशोधनोरुचरणः कन्याप्रजो गोगते ।
दिर्घयुः सुरतोपचारकुशलो हास्यप्रियो युग्मके
कामासक्तमनोऽटनः सुवचनश्चन्द्रे कुलीरस्थिते ॥ ९२॥
सिंहस्थे पृथुलोचनः सुवदनो गम्भीरदृष्टिः सुखी
कन्यास्थे विषयातुरो ललितवाग्विद्याधिको भोगवान् ।
तौलिस्थेऽम्रविप्रभक्तिनिरतो बन्धुप्रियो वित्तवान्
कीटस्थे शशिनि प्रमत्तह्वदयो रोगी च लुब्धोऽटनः ॥ ९३॥
सौम्याङ्गो रुचिरेक्षणः कुलवरः शिल्पी धनुःस्थे विधौ
गीतज्ञः पृथुमस्तको मृगगते शास्त्री परस्त्रीरतः ।
कुम्भस्थे गतशीलवान् बुधजनद्वेषी च विद्याधिको
मीनस्थे मृगलाङ्छने वरतनुर्विद्वान् बहुस्त्रीपतिः ॥ ९४॥
अथ राश्यंशकफलम् ।
सेनानीर्घनवान् पिशङ्गनयनश्चोरश्च मेषांशके
पीनस्कन्धमुखांसकोऽसितवपुर्जातो वृपांशे विधौ ।
चार्वङ्गः प्रभुसेवको लिपिकरो युग्मांशके पण्डितः
श्यामाङ्गः पितृपुत्रसौख्यरहितश्चन्द्रे कुलीरांशके ॥ ९५॥
पीनाङ्गोन्नत्नासिको धनबलख्यातश्च सिंहांशके
कन्यांशे मृदुभाषणः कृशतनुध्य तक्रियाकोविदः ।
कामी भूपतिसेवकः सुनयनश्चन्द्रे तुलांशे स्थिते
कीतांशे विकलोऽधनः कृशतनुः सेवाऽटनो रोगवान् ॥ ९६॥
चापांशे कृशदीर्घबाहुद्दुतनुगस्त्यागी तपस्वी धनी
लुब्धः कृष्णतनुः सदारतनयश्चन्द्रे मृगांशे यदि ।
मिध्यावादरतः स्वदारववशगः कुम्भांशगे शीतगौ
मीनांशे मृदुवाग्दीनवचनस्तीर्थाटनः पुत्रवान् ॥ ९७॥
अथ योगफलम् ।
विष्कम्भे जितशत्रुरथपशुमान् प्रीतौ परस्त्रीवश-
ज्वार्युष्मन्प्रभवश्रिरायुरगदः सौभाग्यजातः सुखी ।
भोगी शोभनयोगजो वधरुचिर्जातोऽतिगण्डे धनी
धर्माचाररतः सुकर्मजनितो धृत्यां परस्त्रीधनः ॥ ९८॥
शूले कोपवशानुगः कलहकृद्गण्डे दुराचारवान्
वृद्धौ पण्डितवाग् ध्रुवेऽसिधनवान् व्याधातजो घातकः ।
ज्ञानी इर्षणयोगजः पृथुयशा विज्ञे धनी कामुकः
सिद्धौ सर्वजनाश्रितः प्रभुसमो भायी व्यतीपातजः ॥ ९९॥
दुष्कामी च वरीयजस्तु परिधे विद्वेषको वित्तवान्
शास्त्रज्ञः शिवयोगजश्च धनवान् शान्तोऽवनीशप्रियः ।
सिद्धे धर्मपरायणः क्रतुपरः साध्ये शुभाचारवान्
चार्वङ्गः शुभयोगजश्च धनवान् कामातुरः श्लेष्ंअकः ॥ १००॥
शुक्ले धर्मरतः पटूत्ववचनः कोपी चलः पण्डितो
मानी ब्रह्मभवोऽतिगुप्तधनिकस्त्यागी विवेकप्रभुः ।
ऐन्द्रे सर्वजनोपकारचरितः सर्वज्ञधीवित्तवान्
मायावी परदूषकश्च बलवान् त्यागी धनी वैकृतौ ॥ १०१॥
अथ करणफलम् ।
भवकरणभवः त्याद्वालकृत्यः प्रतापी-विनयचरितवेषो बालवे राजपूज्यः ।
गजतुरगसमेतः कौलवे चारुकर्मा-मृदुपटुवचनः स्यात्तैतिले पुण्यशीलः ॥ १०२॥
गरजकरणजातो वीतशत्रुः प्रतापी-वणिजि निपुणवक्ता जारकान्ताविलोलः ।
निखिलजनविरोधी पापकर्माऽपवादी-परिजनपरिपूज्यो विष्टिजातः स्वतन्त्रः ॥ १०३॥
कालज्ञः शकुनीभवः स्थिरसुखी जातस्त्वनिष्टाकरः
सर्वज्ञश्च चतुष्पदे तु ललितप्रज्ञायशोवित्तवान् ।
तेजस्वी वसुमानतीव बलवान् वाचालको नागके
किंस्तुध्रेपरकार्यकृच्चपलधीर्हास्यप्रियो जायते ॥ १०४॥
अथ लग्नफलम् ।
बन्धुद्वेषकरोऽटनः कृशतनुः क्रोधी विवाद्प्रियो
मानी दुर्बलजानुरस्थिरधनः शूरश्च मेषोदये ।
गोमान् देवगुरुद्विजार्च्चनरतः स्वल्पात्मजः शान्तधी-
विद्यावादरतोऽटनश्च सुभगो गोलग्नजः कामुकः ॥ १०५॥
भोगी बन्धुरतो दयालुरधिकः श्रीमान् गुणि तत्त्वविद्
योगात्मा सुजनप्रियोऽतिसुभगो रोगी च युग्मोदये ।
मिष्टान्नाम्बरभूषणो ललितवाक्कापट्यधीर्धर्मवान्
जातः स्थूलकलेवरोऽन्यभवनप्रीतः कुलीरोदये ॥ १०६॥
जातः सिंहविलग्नकेऽल्पतनयः सन्तुष्टधीहिंसकः
यूरो राजवयीकरो जितरिपुः कामी विदेयं गतः ।
कन्शालग्नभवः क्रिशासुनिपुणः श्रीमान् सुधीः पण्डितः
मेधावी वनिताविलासरसिको बन्धुप्रियः सात्त्विकः ॥ १०७॥
ललितवदननेत्रो राजपूज्यश्च विद्वान्-मदनरतिविलोलः स्त्रीधनक्षेत्रशाली ।
विरलदशनमुख्यः शान्तबुद्धिर्विषादी-चलमतिरतिभीरुर्जायते तौलिलग्ने ॥ १०८॥
मूर्खः क्रूरविलोचनोऽतिचपलो मानी चिरायुर्धनी
विद्वान् वृश्चिकलग्नजश्च सुजनद्वेषी विवादप्रियः ।
प्राज्ञस्चापविलग्नजः कुलवरः श्रीमान् यशोवित्तवा-
न्ना कुम्भीरसमुद्भवश्च रमणीलोलः शठो दीनवाक् ॥ १०९॥
अन्तःशठः परवधूरतिकेलिलोलः-कार्पण्यशीलधनवान् घटल ग्रजातः
मीनोदयेऽल्परतिरिष्टजनानुकूल०स्तेजोबलप्रचुरधान्यधनश्च विद्वान् ॥ ११०॥
अथ होराफलम् ।
ओजे राशौ भानुहोराप्रजातः-क्रूरः कामी वित्तवान् राजपूज्यः
वाग्मी दाता चारुदेहो दयालु-र्जारस्त्रीकश्चन्द्रहोरा यदि स्यात् ॥ १११॥
मार्तण्डहोराजनितः सभर्क्षे-मन्त्री कृतज्ञचपलोऽतिभीरुः ।
चन्द्रस्य होराप्रभवः प्रगल्भ-वाक्योऽलसः पुण्यवधूरतः स्यात् ॥ ११२॥
अथ द्रेष्काणफलम् ।
कण्ठीरवाजघटकीटमृगाननाद्या मीनालिसिंहवणिगन्त्यगता दृकाणाः ।
क्रूरा भवन्ति कटकस्य सरीसृपस्य-मध्यस्थितश्च बहुशः प्रवदन्ति सन्तः ॥ ११३॥
कुलीरमीनादिगतौ दृकाणौ-मीनाङ्गनामन्दिरमध्यगौ च ।
मोयुग्मयोरन्त्यगतत्रिभागौ-भवन्ति षट् तोयचरा दृकाणाः ॥ ११४॥
मेषास्विगोकुम्भगद्वितीय-स्तुलाधरस्त्रीयुगपूर्वभागः ।
चापाङ्गनातोयधरान्त्याता-दृकाण्संज्ञाः प्रभवन्ति सौम्याः ॥ ११५॥
मृगाजकर्क्यन्त्यगता दृकाणा-वृषस्य चापस्य च पूर्वयातौ ।
नृयुग्मतौलीहरिमध्यगास्ते/विमिश्रसंज्ञा इति संवदन्ति ॥ ११६॥
क्रूरद्रेष्काणजातः स्वलमतिरटनः पापकर्माऽपवादी
दाता भोगी दयालुः कृषिसलिलधनस्तोयभागे विशीलः ।
सौम्यद्रेष्कणजो यः सुखधनतनयश्चारुरूपो दयालु-
जार्तो मिश्रे कुशीलः परयुवतिरतः क्रुरदृष्टिश्चलात्मा ॥ ११७॥
अथ बवांशफलम् ।
मार्तण्डांशे खलात्मा बलसुतधनवान् पिङ्गाक्षश्च कामी
चन्द्रांशे भोगशाली परयुवतिरतः पण्डितो गोधनाढ्यः ।
भौमांशे क्रूरकर्मा चलमतिरटनः पित्तरोगी च लुब्ध-
स्त्यागी रोगी बुधांशे ललिततनुरतिख्यातविद्यायशस्वी ॥ ११८॥
जीवांशे यदि हेमकेशतनुगः श्रेष्ठः सुधी रूपवान्
मन्त्री पण्डितवाक् प्रसन्नवदनो राजाधिराजप्रियः ।
शुक्रांशे परकामिनीजनरतस्त्यागी सुखी पण्डितो
मन्दांशे यदि पापबुद्धिरधनः स्थूलदिजो रोगवान् ॥ ११९॥
अथ द्वादशांशफलम् ।
जाती मेषद्वादशांशे खलात्मा-चोरः पापाचारधर्मानुरक्तः ।
स्त्रीवित्ताढ्यो रोगवानुक्षभाम्शे-युग्मांशे तु द्यूतकृत्यः सुशीलः ॥ १२०॥
दुष्टाचारः क्र्कटांशे तपस्वी-सिंहे भागे राजकृत्यः सुशूरः ।
द्यूताचारः स्त्रीरतः कन्यकांशे-व्यापारी स्यात् तौलिभांशे धनाढ्यः ॥ १२१॥
कीतांशके धनरुचिर्विटचारनाथ-श्रापांशके पितृमहीसुरदेवभक्तः ।
सस्याधिपो मृगमुखांशभवः सभृत्यः-कुम्भे खलस्त्वनिमिषे धनिकश्च विद्वान् ॥ १२२॥
अथ त्रिंशांशफलम् ।
त्रिंशांशे धरणिसुतस्य चपलः काठिन्यवाक् क्रूरधी-
र्मन्दस्याटनतत्परो मलिनधीर्जीवांशके वित्तवान् ।
सौम्यांशे गुरुदेवभाक्तिनिरतः साधुप्रियो बन्धुमान्
कामी कान्तवपुः सुल्ही च भृगुजत्रिंशांशके जायते ॥ १२३॥
अथ वेलाफलम् ।
वाग्मी शिष्टाचारधर्मस्तपस्वी नित्योत्साही निर्मलो दानशीलः ।
तेजोविद्यारूपवान् सत्यवादी वीतारातिः सत्त्ववेलाप्रजातः ॥ १२४॥
रजोवेलाजातः सुखधनयशोरूपबलवान्
जितारातिः कामातुरमतिरबन्धुप्रियमनाः ।
तमोवेलाजातः परधनवधूको गतसुखः
शठस्वामी बन्धुद्विजगुरुविरोधी चपलधीः ॥ १२५॥
तमः सत्त्वरजोवेलास्तमः सत्त्वं रजस्तमः ।
भवन्त्यर्कदिनादीनामर्धयामैरनुक्रमात् ॥ १२६॥
अथ कालहोराफलम् ।
मन्त्रिमङ्गलमार्तण्डशुल्क्रज्ञेन्दुशनैश्चराः ।
आरभ्य वारतो होरा रात्रौ पङ्चमवारतः ॥ १२७॥
क्लेशायासः सम्पदः शोकरोगं विद्यावित्तं सर्वसम्पत् प्रभुत्वम् ।
जायासौख्यं वित्तनाशं दिनेशाज्जातस्यैतत्कालहोराफलं स्यात् ॥ १२८॥
मार्तण्डसूनुतनयाश्रयभावजानि संवत्सरायनमुखप्रभवाखिलानि ।
होरादिवर्गजनितानि फलानि यानि संकीर्तितानिर्विमुख्यवरप्रसादात् ॥ १२९॥
इति नवमोऽध्यायः ॥ ९॥
अथाष्टकवर्गाध्यायः ॥ १०॥
चक्रं विलिव्य मह लग्नदिवाकराद्यैः सूर्यादिलग्नभवनान्तवियच्चराणाम् ।
वाक्याष्टकोपगनवर्णनियोजिनाश्चेद्भिन्नाष्टवर्गजनिनाग्विलबिन्धवः स्युः ॥ १॥
देवो धवो धीगवशस्तमो रमा धूलिः क्रमाडुणकादिबिन्दवः ।
सालोलमंख्याः भमुदायांबन्दवः भवाष्टवर्ग गमुदायसंज्ञकः ॥ २॥
मेषादियद्गृहगता वसुसङ्ख्ययातास्तद्भावपुष्टिबलवृद्धिकरा भवन्ति ।
षद्पङ्चसप्तसंहितानि शुभ्रप्रदानि त्रिद्व्येकबिन्दुयुतभानि न शोभनानि ॥ ३॥
मिश्रं फलं भवति सागरबिन्दुयोगे रोगापवादभयदा यदि शून्यभावाः ।
एकादिबिन्दुयुतभानुमुखग्रहाणां भिन्नाष्टवर्गजनि सर्वफलं प्रवचिम् ॥ ४॥
करोति नानाविधरोगदुःखभयाटनादीनि च सैकबिन्दुः ।
द्विको मनस्तापनृपालचोरकुताण्वादाशननाशनानि ॥ ५॥
त्रिकस्त्वसङ्चारकृशावलम्बकतेञ्रव्यकुलमानसानि ।
सुखासुखार्थव्ययवित्तलाभफलदः सागरबिन्दुकः स्यात् ॥ ६॥
सद्वस्त्रलाभसुतलालनसाधुसङ्गविद्याधननि कुरुते च सपङ्चबिन्दुः ।
षड्बिन्दुकस्तु नवमोहनरूपशीलसङ्ग्रामजिद्धनयशोबलवाहनानि ॥ ७॥
ससप्नबिन्दुस्तुरगादियानसेनाधनप्राभवशोभनानि ।
बिन्द्वष्टकः सप्तगुणाभिरामराजप्रतापं प्रकटीकरोति ॥ ८॥
शरादिबिन्दुस्थितराशियातः स्वकीयवर्गे शुभदस्तु नित्यम् ।
अतोऽन्यथा चेदफलप्रदाता गोचारतः शुन्यफले प्रमादी ॥ ९॥
स्वोच्चमित्रादिवर्गस्थाः केन्द्रादिबलसंयुताः ।
अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥ १०॥
दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः ।
ते सर्वे शुभदा नित्यमधिबिन्दुयुता यदि ॥ ११॥
दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः ।
करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥ १२॥
लग्नं गते दिनकरे रिपुनीचभागे जातः कृशानुयुगबिन्दुयुते च रोगी ।
वाणादिबिन्दुसहितोदगे दिनेशे स्वोच्चेऽथवा निजगृहे नृपतिश्चिरायुः ॥ १३॥
केन्द्रत्रिकोणोपगते दिनेशे षट्पङ्चसप्ताष्टकबिन्दुवर्गे ।
रुद्रामलानीचलाब्दकेषु जातस्य् वा तज्जनकस्य मृत्युः ॥ १४॥
शोध्यावशिष्टद्वयबिन्दुयाते केन्द्रस्थिते सेन्दुशनीन्दुसूनौ ।
भानौ दशाब्दात्परतः समृद्धां तातस्य राज्यश्रियमाहुरार्याः ॥ १५॥
अथ चन्द्रफलम् ।
शून्यागारं तरणिशशिनोरष्टवर्गे तदीयो
मासो राशिः सकलशुभदे कर्मणि त्याज्य आहुः ।
यक्ष्मालस्यं शशिनि तनुगे सौकलोकाक्षिबिन्दौ
सप्तत्रिंशच्छरदि मरणं वित्र्खेटान्विते च ॥ १६॥
केन्द्रत्रिकोणायगते शशाङ्के निचारिगे वृद्धिकलाविहीने ।
बिन्दुद्विके वा यदि सत्रिबिन्दौ तद्भावनाशं कथयन्ति तज्ज्ञाः ॥ १७॥
देवादिबिन्दुयुतकोणचतुष्टये वा लाभे विधौ बलयुते यदि भाववृद्धिः ।
बिन्दुद्वष्टके शशिनि केन्द्रगते तु जाता विद्यायशोधनबलप्रबला नरेन्द्राः ॥ १८॥
अथ भौमफलम् ।
स्वोच्चस्वके गुरुसुखोदयमानयाते बुन्द्वष्टके च यदि कोटिघनप्रभुः स्यात् ।
चापाजसिंहमृगकीटविलग्नसंस्थे भौमे चतुष्टयफलोपगते च राजा ॥ १९॥
बिन्द्वष्टके धरणिजेऽतिलघुक्षितीशो मानेऽथवा तनुगते च महीपतिः स्यात् ।
जातोऽवनीशकुलजो यदि देशनाथः स्वोच्चस्वराशिसहिते नृपचक्र्वर्ती ॥ २०॥
अथ बुधफलम् ।
केन्द्रत्रिकोणे वसुबिन्दुके ज्ञे जातीयविद्याधिकभोगशाली ।
स्वोच्चादिकैकद्वितयत्रिबिन्दौ तद्भाववृद्धिर्नच भावहानिः ॥ २१॥
बिन्द्वाधिक्यं यत्तदागारमासे विद्यारम्भः सर्वविद्याकरः स्यात् ।
गोचारेण ज्ञस्यं शुन्यालयस्थे मन्दे बन्धुज्ञातिसम्पद्विनाशः ॥ २२॥
अथ गुरुफलम् ।
जीवाष्टवर्गाधिकबिन्दुराशौ लग्ने निषेकं कुरुते सुतार्थी ।
तद्राशिदिग्भागगृहस्थितानि गोवित्तयानानि बहूनि च स्युः ॥ २३॥
जीवाष्टवर्गलघुबिन्दुगृहोपयाते भानौ कृताखिलशुभानि विनाशितानि ।
पङ्चादिबिन्दिन्करिपुव्ययरन्ध्रगेज्ये जातश्चिरायुरतिवित्तजितारिकः स्यात् ॥ २४॥
स्वोच्चेऽथवा निजगृहे वसुबन्धुयुक्ते केन्द्रस्थिते सुरगुरौ गुरुभावगे वा ।
नीचारिभावमपहाय विमूढराशौ जातः स्वकीययशसा पृथिवीपतिः स्यात् ॥ २५॥
यदा महीदेवकुलप्रजाता तदीययोगे नरपालतुल्याः ।
कृतानि पुण्यप्रभवप्रसिद्धबुद्धिप्रतापानि गुणाभिरामाः ॥ २६॥
ससप्तबिन्दौ सह लक्ष्मणेन जीवे बहुस्त्रीधनपुत्रवन्तः ।
षड्बिन्दुके वाहनवित्तवन्तः सपङ्चबिन्दौ जयशीलवन्तः ॥ २७॥
अथ शुक्रफलम् ।
साष्टबिन्दुफलकोणकेन्द्रगे भार्गवे तु बलवाहनाधिपः ।
आयुरन्तमविनाशभोगवान् वित्तरव्नविभुरद्रिबिन्दुके ॥ २८॥
नीचास्तरिष्फनिधनोपगते तु काव्ये पूर्वोदितक्षितिपयोगविनाशनं स्यात् ।
शुक्रोऽल्पबिन्दुयुतमन्दिरदिग्वभागे स्त्रीवश्यहेतुशयनीयगृहं प्रशस्तम् ॥ २९॥
अथ शनिफलम् ।
कोणस्य शून्यतरराशिगते तु मने जातस्य मृत्युफलमाशुधनक्षयो वा ।
एकद्विलोकयुगबिन्दुयुते च केन्द्रे मुक्ते स्वतुङ्गभवने रविजेऽल्पमायुः ॥ ३०॥
षट्पङ्चनिदुसहिते तनुगे बलाढ्ये जन्मादिदुःखबहुलं धननाशमेति ।
मन्दे शरादिफलनीचसपत्नभावे जातश्चिरायुरतिभनवर्गकेन्द्रौ ॥ ३१॥
मूढारिनीचगृहगे शरवेदबिन्दौ दास्युष्ट्रवित्तहितास्तनये तनुस्थे ।
सौरेऽष्टबिन्दुगणिते परमन्त्रतन्त्रग्नामाधिपास्तु गिरिबिन्दुगृहे धनाढ्यः ॥ ३२॥
अथ प्रस्तारकम् ।
आलिख्य चक्रं नवपूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः ।
प्रस्तारकं षण्ण्वतिप्रकोष्टं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥ ३३॥
होराशशीबोधनशुक्रसूर्यभौमामरेन्द्राचिंतभानुपुत्राः ।
याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तद्विन्दुफलप्रदाः सुय्ः ॥ ३४॥
सबिन्दुगः सर्वफलप्रदः स्यादबिन्दुको यद्यफलप्रदः स्यात् ।
अरातिनीचास्त्गतो नभोगः सबिन्दुकोऽपि प्रविलोपकर्ता ॥ ३५॥
अथ त्रिकोणशोधनम् ।
पङ्च प्राचीरालिखे(स्वे)द्वाणरंख्यास्तिर्यघेखा वर्जितान्तश्चतुष्काः ।
प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूबराद्याः ॥ ३६॥
अजहरितुरगाङ्गैरुक्षकन्यामृगस्थैर्युगधटघटरूपैः कर्किकीटावसानैः ।
दिनकरसुखवर्गे तत्त्रिकोणोपयाता लघुतरसमशून्या बिन्दवः शोधिताः स्युः ॥ ३७॥
त्रिकोणभावेषु यदल्पबिन्दवस्तदीयबिन्दु भवतस्तु तावुभौ ।
न बिन्दुको यस्तु न शोधितेतरौ समानसंख्या यदि सर्वमुस्सृजेत् ॥ ३८॥
अथैकाधिपत्यशोधनम् ।
कण्ठीरवं कटक्भं च विना कुजादिकावासराशियुगलोपगबिन्दुसङ्घ्याः ॥
तत्तुल्यशून्यविघमाग्नसहग्रहाद्यास्त्वेकाधिपत्यपरिशोधितशेषिताः स्युः ॥ ३९॥
राशिद्वयं सद्युचरं न शोधयेदेकं द्वयोः शून्यममप्यशोधयेत् ।
कलाधिके खेटयुते परं त्यजेत् तुल्यानभोगद्वितयं परित्यजेत् ॥ ४०॥
सखेचराखेचरबिन्दुसाम्ये विशोधयेदग्रहबिन्दुसङ्ख्याम् ।
विखेटराशिद्वयबिन्दवो ये न्यूनाधिका न्यूनसमा विधेयाः ॥ ४१॥
खेटोपयाते लघुबिन्दुराशौ तत्तुल्यमायान्ति तदन्यसंख्याः ।
पूर्वं त्रिकोणं परिशोध्य पश्चादेकाधिपत्यस्य ततः प्रकल्प्याः ॥ ४२॥
शोध्यावशिष्टानि गुणीकृतानि मेषादिमानैर्गुणकं हि भानाम् ।
सूर्यादिकास्ते गुणिताः स्वमानैरेषाम् ग्रहाणां गुणकं वदन्ति ॥ ४३॥
शैलाशावसुसागराम्बरशरैः शैलाहिगोसायकै-
रीशद्वादशमिश्र राशिगुणकैर्मेषादिभानां क्रमात् ।
बाणैः पङ्चभिरष्ट्कैः शरनभःशैलेषुभिर्भिस्वरा-
देवं व्योमतलाधिवासगुणकैरायुर्विधानोदितैः ॥ ४४॥
तद्राशिखेटगुणकैक्यफलानि हृत्वा त्रिशद्भिरब्दचयमासदिनादिकाः स्युः ।
तद्द्वादशाधिकसमा यदि राशिमानैराहृत्य तत्समतयाऽनुहरेत्तदायुः ॥ ४५॥
उच्चं गतस्य द्विगुणं तदीयं नीचं गतस्यास्तगतस्य चार्द्धम् ।
अतोऽन्तराले त्वनुपात्यमायुरारस्य वक्रे द्विगुणिकृतं स्यात् ॥ ४६॥
मूलत्रिकोणनिजमित्रगृहोपगानां तुङ्गादिवर्गशुभयोगनिरीक्षितानाम् ।
उक्तप्रकारगणितागममायुरेव पापारिवर्गसहितस्य विपादमायुः ॥ ४७॥
रविमुख्यनभोगदत्तसंख्याः परमायुः शरदस्तु मानवानाम् ।
सविलग्नसमाश्च केचिदाहुर्गुरुमूलात्समुपैति तुल्यमायुः ॥ ४८॥
केन्द्रादन्यगते चन्द्रे सखेटे चाष्टवर्गजम् ।
आयुरेव नभःस्थाने शुभपापयुतेऽथवा ॥ ४९॥
रव्यादिखेटस्थितराशियाताः स्वकीयवर्गोपगबिनुसंख्याः ।
वेधाष्टवर्गप्रभवायुरब्दा भवन्ति सर्वे हरणक्रियाश्च ॥ ५०॥
तत्तत्कारकभावबिन्दुगुणितं शोध्यावशिष्टं फलं
विम्शत्या सह सप्तभिश्च विहृतं तच्च्जेषताराशनौ ।
तातस्तज्जननी सहोदरजनो बन्धुः सुतः स्त्रीस्वयं
तत्तुल्या विलयं प्रयान्ति विपुलश्रीनाशहेतुश्च वा ॥ ५१॥
इति भिन्नाष्टवर्गः ।
अथ समुदायाष्टकवर्गः ।
ततः समालिख्य भगोलचक्रं समस्तबिन्दुस्थितराशिकोष्ठम् ।
रव्यादिकानामजपूर्वकाणां बिन्दूपगस्थानफ्लं वदामि ॥ ५२॥
आपङ्चविंशति फलान्यफलान्यसत्यमात्रिंशदक्षसहितानि समध्यमानि ।
त्रिंशत्पराणि सुखवित्तयशस्कराणि तद्भाववृद्धिफलदानि च सामुदाये ॥ ५३॥
ये तुङ्गराशिस्वसुहृद्गृहत्वा ये कोणकेन्द्रोपचयस्थितश्चः
ये सौम्यवर्गादिबलोपयातास्ते नाशदाः लाघवबिन्दुकाश्चेत् ॥ ५४॥
ये मान्दिराशिपतिना सह बोधकाश्च
ते सर्वमुख्यफलदास्त्वदिबिन्दुकाश्चेत् ॥ ५५॥
मानस्थिताल्लाभगृहे बहुत्वे लाभाल्लघुत्वे यदि रिष्फराशौ ।
रिष्फोपयातादधिके विलग्ने जातः सुखी वित्तयशोबलाढ्यः ॥ ५६॥
खण्डत्रयं शफरकर्कटकीटकाद्यं तत्तच्चतुष्टयगृहोपगबिन्दुयुक्तम् ।
आद्यं च मध्यमवसानभिति प्रयुक्तं केचिद्व्ययादिकमिति प्रवदन्ति लोके ॥ ५७॥
बिन्दुं स्यक्त्वा रिष्फरन्ध्रोपयातं शिष्टं खण्डं केचिदिच्छन्ति सन्तः ।
तुल्यवल्पाधिक्यबिन्दुक्रमेण मिश्रं दुःखं सम्पदः स्यूर्नराणाम् ॥ ५८॥
सौम्याक्रान्तं यदि सुखकरं मिश्रदं मिश्रयोगम् ।
खण्डं पापद्युचरसहितं क्लेशयोगाकरं स्यात् ।
बिन्दुस्वल्पे यदि निजमनस्तापवान् पापवादी
बिन्द्वाधिक्ये वयसि विपुलः श्रीसमेतः प्रजातः ॥ ५९॥
यावद्विन्दुर्लग्नगस्तावदीयसङ्ख्यातीते वत्सरे राजयानम् ।
वित्तं पुत्रं चातिविद्यामुपैति जातः सपद्योगशाली नरश्चेत् ॥ ६०॥
रिःफाधीशे मन्दगेहोदयस्थे होरारन्ध्रस्वामिनौ दुर्बलौ च ।
लग्ने यावदिबिन्दुसंख्यास्तदीया जातस्यायुर्वत्सराः सम्भवन्ति ॥ ६१॥
यानाधीशे लग्नगे वाहनस्थे लग्नाधीशे तद्ग्रहोपेतराश्योः ।
त्रिशत्संख्या बिन्दुवः सत्रयश्चेज्जाता राजश्रीनिदाना नरेशाः ॥ ६२॥
होराबन्धुप्राप्तिभावत्रयेषु त्रिंशन्मानाधिक्यबिन्दूपगेषु ।
जातस्तेजःश्रीबहुत्वं च राज्यं चत्वारिशद्वत्सरादूर्घ्वमेति ॥ ६३॥
यत्यङ्चविंशतिमुखास्त्रिदशान्तसंख्या बन्धुस्थिता नवमराशिकबिन्दवश्च ।
यद्यष्टकेन सह विशतिवत्सराणामन्ते परे शरदि वा नरवाहनाढ्यः ॥ ६४॥
देवाचार्ये वहनस्थे स्वतुङ्गे चत्वारिंशद्बिन्दुसङ्ख्यवत्सरेशे ।
मेषगते लग्नगे वासरेशे जातो राज लक्षसंख्याश्चनायः ॥ ६५॥
चत्वारिंशद्बिन्दुयुक्ते विलग्ने चापे जीवे भार्गवे मीनराशौ ।
स्वोच्चे भौमे कुम्भगे भानुपुत्रे जातः सर्वश्रीधरः सार्वभौमः ॥ ६६॥
क्रियादिराशित्रितयोपयाता भवन्ति पूर्वादिचतुर्दशश्च ।
फलाधिकं यदिशी तत्प्रदेशे धनादिवृद्धि समुपैति जातः ॥ ६७॥
लग्नादिशन्यन्तगतं तुरङ्गैः सङ्गुण्य ताराहृतलब्धयाते ।
रव्यादिपापे यदि कोणगे वा रोगादिपीडाविपुलं नराणाम् ॥ ६८॥
मन्दाइलग्नान्तफलं च तद्वल्लग्नान्तमारादुदयात्कुजान्तम् ।
शुभैक्यसंख्यागततारकायां शुभग्रहे सौख्यफलं वदन्ति ॥ ६९॥
शोध्यं राशिद्युचरणगुणकैः संगुणय्यैतदैक्यं
हत्वा शैलैरुडुगणहृतं लब्धमब्दादिकं स्यात् ।
मानाधिक्ये विशतमशते तारकायुर्वराङ्गैः
सगुण्याप्तं दिवसनिचयैमार्तुलैः शुद्धमायुः ॥ ७०॥
स्वल्पमध्यबहुमानव्त्सरा मण्डलोनयुतकर्मकल्पिताः ।
तुल्यकालमुपयान्ति सर्वतः सद्गुणोदयकटाक्षवीक्षणात् ॥ ७१॥
श्रीवैद्यनाथकृतजातकपारिजाते पराशरादिफलसाररसोपयाते ।
प्रस्तारभिन्नसमुदायकबिन्दुशीलः संकीर्तितस्तु सकलद्युचरप्रसादात् ॥ ७२॥
इति दशमोऽध्यायः ।
अथ प्रथमद्वितीयभावफलाध्यायः ॥ ११॥
होरलग्नात्मुख्यप्रभवशुभफलादीनि सर्वाणि पुंसां
चत्तद्भावोद्भवानि ह्यचरबलवशाद्यार्न नानि प्रवचिम् ।
ये ये भावाः सितज्ञामर्गुरुपतिभिः संयुता वीक्षिता वा
नान्यैर्दष्टा ज युक्ता यादि शुभफलदा मूर्तियावादिदेषु ॥ १॥
तन्वादिभावेषु शुभोदयेषु तद्भावनाथोपगतेक्षितेषु ।
तदुक्तभाबस्य समृद्धिरुक्ता नपापखेटेक्षितसंयुतेषु ॥ २॥
नीचस्थो रिपुराशिस्थः खेटो भावविनाशकः ।
मूलस्वतुङ्गमित्रस्थो भाववृद्धिकरो भवेत् ॥ ३॥
यद्भावनाथो रिपुरिष्फरन्ध्रे दुःस्थानपो तद्भवनस्थित॥।
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभग्रहेण ॥॥॥॥॥॥। ॥ ४॥
यद्भावपे केन्द्रगते विलग्नात्त्रिकोणगे वा यदि सौम्यदृष्टे ।
तुङ्गादिवर्गोपगते बलाढ्ये तद्भावपुष्टिं फलमाहुरार्याः ॥ ५॥
तत्तद्भावत्रिकोणे सुखमदनगृहे वाऽस्पदे सौम्ययुक्ते
पापानां दृष्टेहीने भवनपसहिते पापखेटैरयुक्ते ।
भावानां पुष्टिमाहुः सकलशुभकरं चान्यथा चेत्प्रणाशं
मिश्रं मिश्रग्रहेन्दैरखिलमापि तथा मूर्तिभावादिकानाम् ॥ ६॥
नाशस्थानगतो दिवाकरकरच्छग्रस्तु यद्राशिपो
नीचारातिगतोऽथवा यदि शुभैः खेटैर्युक्तेक्षितः ।
तद्रावस्य विनाशनं मुनिगणाः शंसन्ति खेटैर्युतो
यद्यत्रापि फलप्रदो नहि तथा मूत्यार्दीभानां क्रमात् ॥ ७॥
दुःस्थाने वारिगे मूढे दुर्बले भावनायके ।
भावस्य सम्पदं कर्तुं न शक्ता भावमाश्रिताः ॥ ८॥
दुष्टस्थितो वापि यदा नभोगः पापोऽरिनीचांशकसंयुतो यः ।
स्वतुङ्गमित्रांशकराइयुक्तः शुभेक्षितो वा यदि शोभनः स्यात् ॥ ९॥
भवेशाक्रन्तराशीशे दुःस्थे भावस्य दुर्बलम् ।
स्वोव्च्चमित्रस्वराशिस्थे भावपुष्टिं वदेद् बुधः ॥ १०॥
वद्भावलाभधनविक्रमराशियाता यद्भावनाथसुहृदश्च तदुच्चनाथाः ।
तद्रभावपुष्टिबलमम्बरचारिणस्ते कुर्वन्ति मूढरिपुनीचविवर्जिताश्चेत् ॥ ११॥
भाविंशतुल्यः स्वलु वर्तमानो भावोद्भवं पूर्णफलं विघत्ते ।
भावोनके चाप्यधिके च खेटे त्रैराशिकेनात्र फलं विचार्यम् ॥ १२॥
अथ तनुभावफलम् ।
शरीरवर्णाकृतिलक्षणानि यशोगुणस्थानसुखासुखानि ।
प्रवासतिजोबलदुर्बलानि फलानि लग्नस्य वदन्ति सन्तः ॥ १३॥
नरश्विरायुर्नृपपूजितः सुखी लग्ने भवेत्सौम्यगृहं यया तथा ।
लग्ने यदा स्वामिनिरीक्षिते धनी कुशाग्रबुद्धिः कुलकीर्तिंवर्द्धनः ॥ १४॥
लग्नांशपाद्वीर्ययुतग्रहाद्वा तनुस्वरूपाकृतिलक्षणानि ।
वर्ण वदेच्चान्द्रनवांशनाथाद्विलग्नभात्सर्वशुभाशुभानि ॥ १५॥
त्रिकोणकेन्द्रे यादि लग्ननाथे शुभान्विते शोभनवीक्षिते वा ।
शुभग्रहागारगते बलाढ्ये चतुःसमुद्रान्तयशः समेति ॥ १६॥
होराधिनाथे रिपुरन्ध्ररिष्फे पापान्विते पापनिरीक्षिते वा ।
पापग्रहाणां भवनोपयते जातोऽप्रकाशो भवतीह भर्त्यः ॥ १७॥
कीर्तिस्थानपतौ विलग्नभवने जातः स्वयं कीर्तिमान् ।
वित्तस्थे तु विशेषकीतिसहितः स्वोच्चादिवर्गान्विते ।
दुःस्थे चङ्चलयात्रया हततनुर्जातोऽथवा दुर्जनः
केन्द्रे कोणगते शुभग्रहयुते यात्रासुखं जायते ॥ १८॥
होरास्वामिनि पङ्चमे यदि सुतस्थानेशयुक्तेऽथवा
भाग्ये वा यादि भाग्यपेन सहिते लग्ने यशस्वी पिता ।
भ्रात्रृस्थानपतौ विलग्नगृहगे तत्कारकभ्रातृपा-
वेकस्थौ कलशालिनौ च यदि वा तत्सोदरः कीर्तिसान् ॥ १९॥
विद्याधिपे वा यदि चन्द्रसूर्ना लग्ने सुखे लग्नपासंयुते वा ।
बलान्विते पापदृशा विहीने विद्यायशस्वी भवति प्रजातः ॥ २०॥
धर्मोदयेशौ नवमोदयस्थौ धर्मोदयेशौ तनुधर्मगौ वा ।
सुरेन्द्रवन्द्येक्षितसंयुतौ चेत् समेति जातश्चिरकालभाग्यम् ॥ २१॥
लग्नाधिपस्य व्ययगे तदुच्चमित्रे सुहृत्तङ्गस्वगेक्षिते वा ।
तद्राशिगे वा यदि मित्रखेटे तस्य स्थितिर्जन्मवसुन्धरायाम् ॥ २२॥
लग्नेशाद्व्ययपे विलग्नपरिपौ नीचेऽथवा दुर्बले
जातो याति विदेशमिष्टदनुजाचार्येण दृष्टे यदि ।
तत्रैव स्थितिरन्त्यपे राविकरच्छन्ने विलग्नाधिपा-
दल्पग्नामचरो बलिन्यापि धनप्रामाधिवासो भवेत् ॥ २३॥
होरेशाद्वययपे विलग्नभवनात् केन्द्रत्रिकोणस्थिते
मित्रस्योषगृहोपगे शुभयुते पार्श्वद्वये मानवः ।
चेतोरम्यमहीचरो दिवचराचार्येन्दुशुक्रेक्षिते
दिव्यक्षेत्रमुपैति जन्मधरणीवासस्तदर्थे रिपौ ॥ २४॥
विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे ।
स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरहैर्भूरिधनान्वितः स्यात् ॥ २५॥
होराधीशे पापस्वेटे रिपुस्थे पापक्षेत्रे भानुपुत्रेण युक्ते ।
शूद्रप्रायो राहुणा केतुना वा जातश्चाण्डालोऽथवा नीचतुल्यः ॥ २६॥
लग्नाधिपे शोभनराशियुक्ते बलोपयते तनुपुष्टिमेति ।
लग्नस्थखेटे रिपुणिचभागे दुःस्थानपे देहसुखं न याति ॥ २७॥
विलग्नदर्शी तनुपो विलग्नगस्त्रयोऽपि षष्ठाष्टमरिष्फराशिपाः ।
सपत्ननीचोपगताश्च दुर्बला यदि स्वपाके न फलं प्रकुर्युः ॥ २८॥
लग्ने जलर्क्षे शुभखेचरेन्दैर्युक्ते तनोः स्थौल्यमुदाहरन्ति ।
लग्नाधिपे तोयरव(स्व)गे बलाढ्ये सौम्यान्विते तत्तनुपुष्टिमाहुः ॥ २९॥
लग्नाधिपे नाशगते तु शुष्कराशौ तनोः कष्टमतीव कृच्छ्रम् ।
लग्नांशपस्थांशपराशिनाथः शुष्कग्रहः स्यात्तनुशुष्कमाहुः ॥ ३०॥
मध्यस्थे रिपुस्वेटयोस्तनुपतौ जातोऽरिभीतो भवेत्
केतौ लग्नगतेऽथवा फणिपतौ दुःस्थे विलग्नाधिपे ।
तत्पाके तदरीशभुक्तिसमये वैकल्यमङ्गे वदेत्
लग्ने शत्रुपतौ फाणिघ्वजयुते देहव्रणं देहिनाम् ॥ ३१॥
बलाइर्विहीने यदि लग्ननाथे केन्द्रत्रिकोणे सति लग्नभाक् स्यात् ।
लग्नेश्वराधिष्ठितराशिनाये दुःस्थानगे दुर्बलदेहवान् स्यात् ॥ ३२॥
सक्रूरो देहपोइ देहसौख्यहाऽन्त्यारिरन्ध्रगः ।
सारीशे देहपे दुःस्थे लग्नस्थे वाऽथ रोगवान् ॥ ३३॥
लग्ने सपापे लग्नेशे बलहीनोऽपि रोगवान् ।
लग्नेशे दुर्बले कोपी निर्व्याधिः केन्द्रकोणगे ॥ ३४॥
देहेशस्थितराशीशे नाशगे दुर्बलो भवेत् ।
भावेशाक्रान्तराशईशैदुःस्थैर्भार्वाश्च दुर्बलाः ॥ ३५॥
सर्पारयोर्बृहद्वीजो योगो वा सर्पमन्दयोः ।
लग्ने कुजे नाभिगुल्फव्रणस्थौल्यं समादिशेत् ॥ ३६॥
लग्नेशे यदि रिष्फगे दिनकरस्थारातिनाथान्विते
जायावान् बहुरोगवान् कृशतनुः संरक्तगौरद्युतिः ।
लग्नर्क्षादरिनाथपेन च युते जातोऽसिताङ्गो यदा
साहौ लग्नपतौ तु वञ्चनविषाद्भीतिं समेति ध्रवम् ॥ ३७॥
लग्ने शुभे शोभनदृष्तेयुक्ते बाल्यात् सुखं तन्नहि पापयोगात् ।
दुःखी भवेत्पापबहुत्वयोगे लग्ने तु बाल्यान्मरणान्तमाहुः ॥ ३८॥
देवलोकांशके शुक्रे लग्नेशे गोपुरांशके ।
लग्ने शुभग्रहैर्दृष्टे मध्येऽन्ते सौख्यभाप्नुयात् ॥ ३९॥
लग्ने शुभे धने पापे केन्द्रे पापसमन्विते ।
लग्नेश्वरोत्तमांशस्थे चादौ दुःखमतः सुखम् ॥ ४०॥
लग्नेशे शुभराशिस्थे शुभग्रहनिरीक्षिते ।
गोपुरांशगते वापि षोडशाब्दात्परं सुखम् ॥ ४१॥
लग्नेशस्थानाथे तु केन्द्रकोणोच्चसंयुते ।
लाभे वा बलसंयुक्ते त्रिंशद्वर्षात्परं सुखम् ॥ ४२॥
लग्ने रव्यादिसंदृष्टे पादशः फलमुच्यते ।
राजसेवी पितृधनो जलपण्यो महाधनः ॥ ४३॥
धार्मिकः स्थूलशिश्नः स्याद्विद्याशिल्पयशोऽन्वितः ।
राजपूज्यो व्रतयुतो वेश्यासक्तो धनी सुखी ॥ ४४॥
मन्ददृष्टे विलग्ने तु वृद्धस्त्रीको मली खलः ।
केनाप्यदृष्टम् लग्नं चेद्राशिग्रहवशाद्वदेत् ॥ ४५॥
लग्ने स्वामीक्षिते राजा तात्प्रियो वा धनी सुखी ।
सौम्येक्षितेऽखिलं सौम्यं पापदृष्टे त्वशोभनम् ॥ ४६॥
सुखी लग्ने द्व्यादिदृष्टे सर्वदृष्टे नृपो भवेत् ।
लग्ने त्रयः शुभा राजा दुःखी पापग्रहत्रयम् ॥ ४७॥
लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभकगौरवलोक्यमानः ।
मृत्युं विधूय विदघाति सुदीर्घमायुः सार्द्ध गुणैर्बहुभिरुजितया च लक्ष्म्या ॥ ४८॥
अथ द्वितीयभावफलम् ।
तत्रादौ धनाविचारः ।
वित्तं नेत्रं मुखं विद्या वाक्कुदुम्बाशनानि च ।
द्वितीयस्थानजन्यानि क्रमाज्ज्योतिविदो विदुः ॥ ४९॥
वित्तायेदयराशयः पातियुता वित्ताधिको जायते
लाभस्थौ धनलाभपौ निजसुहृत्तुङ्गादिगौ चेत्तथा ।
तद्वन्ताभधनाधिपौ तनुगतावन्योन्यमिष्टग्रहौ
लग्नेशे धनलाभराशिपयुते लग्ने बहुद्रव्यवान् ॥ ५०॥
धनोपयातः प्रथमोऽथ दर्शी ग्रहो द्वितीयो धनपत्तृतीयः ।
तत्पाकभुक्तौ धनलाभमेति क्रमेण तत्कारकवर्गमूलात् ॥ ५१॥
धनस्थे यदि लग्नेशे निधिमान् बलसंयुते ।
दुर्बले पापसंयुक्ते वङ्चनादिफलं वदेत् ॥ ५२॥
धनस्थितः पापदृशा समेतः सपत्ननीचार्ककराभितप्तः ।
तत्पाकभुक्तौ धननाशमाहुः स गोचरे दुष्टबलान्विते वा ॥ ५३॥
कुतुम्बभावे बहुखेटयुक्ते धनप्रदव्योमचरे बलाढये ।
स्वतुङ्गमित्रस्वगृहोपगे वा धनं समेत्यामरणन्तमाहुः ॥ ५४॥
वित्ताधीशे सोदरेशेन युक्ते लग्नस्थे च भ्रातृवित्तं समेति ।
मातृस्थानस्वामिना मातृवित्तं यद्भावेशेनान्वितस्तद्भनं स्यात् ॥ ५५॥
वित्ताधीशे लग्नगे लग्ननाथे वित्तस्थानेऽयत्नतो वित्तमेव ।
यद्भावस्थौ लग्नवित्तेश्वरौ चेत्तन्मूला तु द्रव्यवृत्तिर्नरणाम् ॥ ५६॥
चन्द्रः कुटुम्बभवने शुक्रेण निरीक्षितः प्रदाता च ।
सौम्ये शुभसंदृष्टे स एव धनवान् सदा ज्ञेयः ॥ ५७॥
अर्थाधीशो यत्र संस्थो नराणां तस्मिन् काले तत्र वृद्धिर्विशेषात् ।
तद्भागे च द्रव्यलाभं करोति वक्रोऽसौ चेदृभु सर्धार्थसिद्धिः ॥ ५८॥
धनेशे लाभसंयुक्ते लाभेशे धनलाभगे ।
तावुभौ केन्द्रगौ वापि धनवान् ख्यातिभान् भवेत् ॥ ५९॥
धनेशे व्ययषष्ठस्थे व्ययेशे वित्तगेऽथवा ।
लाभेशे रिपुरन्ध्रस्थे व्यये वा धननाशनम् ॥ ६०॥
व्ययभावगते जीवे वित्तेशे बलवर्जिते ।
शुभैरनीक्षिते लग्ने वित्तनाशं वदेद् बुधः ॥ ६१॥
लग्नेशे धनराशिस्थे धनेशे लाभराशिगे ।
लाभेशे वा विलग्नस्थे निध्यादिधनमाप्नुयात् ॥ ६२॥
लग्नायधनभाग्येशाः परमोच्चांशसंयुताः ।
वैशेषिकांशगा वापि तदा कोटीश्वरो भवेत् ॥ ६३॥
दिनेश्वरकरच्छन्ने धनेशे नीचराशिगे ।
पापषष्थ्यंशसंयुक्ते शुणग्नस्ते भवेन्नरः ॥ ६४॥
अथ नेत्रविचारः ।
शुक्रेन्दुनयनाधिशैरिकस्थैस्तु निशान्धकः ।
सूर्युअशुक्रविलग्नेशैरदृश्यैर्मध्यलोचनः ॥ ६५॥
विलग्नवित्तास्ततपः सुतेशा रिपुव्ययच्छिद्रगृहोपयाताः ।
विलग्नसम्बन्धकरः सितश्वेद्विलोचनाभावमुपैति जातः ॥ ६६॥
सितः सुतारीशयुतो विलग्ने निरेशकोपान्नयनप्रमादः ।
धनेशभौमौ यदि लग्नयातौ कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥
शन्यारयोगे गुलिकेन युक्ते नेत्रेश्वरे तत्र तु नेत्ररोगः ।
नेत्र् यदा पापबहुत्वयोगे यमेन दृष्टे सति रुग्णनेत्रः ॥ ६८॥
नेत्रेश्वरे शुभयुते शुभदृष्टियुतेऽथवा ।
शुभांशकस्थिते वाऽपि शुभदृक स नरो भवेत् ॥ ६९॥
अथ मुखविचारः
जातोऽसौ सुमुखः शुभे धनगते तुङ्गदिवर्गन्विते
तद्भावे यदि सौम्यवर्गसहिते वाल्सिद्धिमेति ध्रुवम् ।
आज्यस्पर्शमुपैति वित्तगृहगे भौमे च पापेक्षिते
जातः किद्रवमुख्यभुग् धनगते रहौ च पापेक्षिते ॥ ७०॥
लग्नास्तार्थाष्टमस्थेऽर्के भौमे वाऽन्यतरेक्षिते ।
आव्यस्पर्शोऽग्निभीतिर्षा सम्भवन्ति मसूरिकाः ॥ ७१॥
पापैर्युते मुखस्थाने दुर्मुखः पापवीक्षिते ।
कोधाननो नरः पापी तदीशे गुलिकान्विते ॥ ७२॥
प्रफुल्लवदनः श्रीमान् केन्द्रे मुखपतौ यदा ।
स्वोच्चस्वमित्रवर्गस्थे सुमुखः शुभवीक्षिते ॥ ७३॥
वाग्भावेशे राहुयुक्ते च दुःस्थे राहुक्रान्तस्थाननाथान्विते च ।
पाके भुक्तौ तस्य दन्ताभयः स्याद् जिह्वारोगं तारकामूनुभुक्तौ ॥ ७४॥
राहुद्वितीयगृहपौ सहजेशयुक्तौ जातः समेति गलरोगमतीव कष्टम् ।
दारिद्रयदौ शशिरवी धनराशियातौ भौमार्कजौ सकलरोगकरौ भवेताम् ॥ ७५॥
अथ विद्या-वग्विचारः ।
वाग्भावेशे गुरुयुते नाशस्ये मूकता भवेत् ।
देषकृन्नतु सर्वत्र स्वोच्चस्वर्क्षगतो ग्रहः ॥ ७६॥
वागीशबुधजीवेषु निर्विद्यो नाशगेषु च ।
केन्द्रेषु ते त्रिकोणे वा स्वर्क्षे वा विद्ययाऽन्वितः ॥ ७७॥
द्वितीये दुर्बले सौम्ये द्वन्द्वयुद्धहतो भवेत् ।
जीवार्थेशौ दुर्बलौ वा पवनव्याधिभान्नरः ॥ ७८॥
वाक्स्थानपे देवपुरोहितेन युक्ते यदा नाशगते तु मूकः ।
वाक्स्थानपे सौम्ययुते त्रिकोणे केन्द्रस्थिते वा शुभदे च वाग्मी ॥ ७९॥
वागीशस्थांशपे औम्ये स्वोच्चे वा शुभवीक्षिते ।
पारावतांशके वाऽपि वाग्मी पटुतरो भवेत् ॥ ८०॥
केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि ।
वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः ॥ ८१॥
गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने ।
ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने ॥ ८२॥
वाग्भवपे रवौ भौमे गुरुशुक्रानिरीक्षिते ।
पारावतांशके वापि तर्कयुक्तिपरायणः ॥ ८३॥
सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे ।
दिनेशभृगुसन्दृष्टे शाब्दिकोऽयं भवेश्वरः ॥ ८४॥
वेदान्तपरीशीली स्यात्केन्द्रकोणे गुरौ यदि ।
बुधेन भृगुणा दृष्टे शनौ पारावतांशके ॥ ८५॥
षट्शास्त्रवल्लभः केद्न्रे जीवे दानवपूजिते ।
सिंहासने गोपुराम्शे वाग्भावस्यांशपे बुधे ॥ ८६॥
अथ कुटुम्बविचारः ।
उपजीव्य नरं सर्वे तदीशे गोपुरांशके ।
वर्द्धन्ते मुदितास्तस्य भृगौ पातावतांशके ॥ ८७॥
जायाकुटिम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेतम् ।
वित्ताधिपे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम् ॥ ८८॥
अथ पात्राशनयोविंचारः ।
भिक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते
रौप्यं पात्रमुपैति कालश्चनमयं जीवेन्दुशुक्रान्विते ।
भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद्
भौमे पापनिरीक्षिते धनगते जातः कदग्नादिभुक् ॥ ८९॥
वह्नाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे ।
नीचांशके पापनिरीक्षिते च शुभैर्न दोषः सहितेक्षिते वा ॥ ९०॥
भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते ।
शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् ।
पराग्नभुक् तदीशेऽपि नीचशत्रुसमन्विते ।
नीचखेचरसन्दृष्टे तद्दूषणपरायणः ॥ ९२॥
कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते ।
पापग्रहेण सन्दृष्टे नीचांशादियुते न तु ॥ ९३॥
स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे ।
स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमविते ॥ ९४॥
भुक्तिस्थानाधिपे मन्दे तदीशे वाऽर्किसंयुते ।
नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः ॥ ९५॥
इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विभला हिन्दी टिका समाप्ता ॥ ११॥
अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२॥
तत्र तृतियभावफलम् ।
ज्योष्ठानुजस्थितिपराक्रमसाहसानि कण्ठ्खरज़्रुतिवराभरणांज़ुकानि ।
धैर्य च वीर्यबलमूलफलाज़नानि वक्ष्ये तृतीयभवनात् क्रमज़ोऽखिलानि ॥ १॥
अथ भ्रातृविचार ।
भ्रातृस्थानं तृतीयं च नवैकदशसप्तमम् ।
तत्तदीशादशायां च भ्रतृलाभो भवेन्नृणाम् ॥ २॥
भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् ।
मध्ये बलसमेतस्य दशा सोदरकृद्धिदा ॥ ३॥
भौमो बलविहीनश्चेदीर्घायुर्भ्रातृगो भवेत् ।
विलग्नगो बली यस्य कारकः स प्रभुः त्मृतः ॥ ४॥
जन्मकाले गुणी प्राणी कारको यः समृदकृत् ।
क्षयकारी विपर्याते भावपो विपकोऽहिकः ॥ ५॥
सोदरेशेकुजौ नाशं गतौ चेत्मोदरक्षयः
पापर्क्षगौ सपापौ वा भ्रातृनुत्पाद्य नाशदौ ॥ ६॥
नीचास्तगौ सोदरनायकाख्यौ(सोदरनायकारव्यौ)नीचंशगौ पापसमगतौ वा ।
क्रूरादिषष्टर्यंशगतौ तदानीं भ्रातृन्समुत्पाद्य विनाशहेतुः ॥ ७॥
अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा ।
तद्भावनायके वाऽपि बल्ये सोदरनाशनम् ॥ ८॥
धनेश्वरे नग्शगते बलाढ्ये पापान्विते सोदरकारकाख्ये ।
तन्मातृकारमहसंयुते च सापत्नमातुः सहजा वदन्ति ॥ ९॥
भ्रातृस्थाने यदि शुभयुते सोदराणं चिरायुः
पापाक्रन्ते सहजभवने पापदृष्टे विनाशम् ।
ज्येष्टं हन्ति द्युमणिरनुजस्थानगः पापदृष्टः
सौरस्तस्यानुजमवनिजो हन्ति सर्वन् कनिष्टान् ॥ १०॥
त्रिकोणकेन्द्रे यदि पापखेटे तृतीयभावादनुजस्य नाशम् ।
शुभोपयाते सहजाभिवृधिः शुभाशुभं मिश्रफलं वदन्ति ॥ ११॥
दुःस्थे चन्द्रे सोदरस्वायुक्ते जातस्यान्यस्तन्यपानं वदन्ति ।
मातृभ्रातृस्थानपौ बन्धुयातौ नास्ति भ्रातृस्थानवृद्धिर्नराणाम् ॥ १२॥
भौमान्वितौ सोदरदौ भवेतामन्यैः समेतौ यदि नानुजः स्यात् ।
सौरस्तृतीयेऽनुजनाशकर्ता विधुन्तुदः सोदरवृद्धिकृत्स्यात् ॥ १३॥
अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे ।
जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥ १४॥
भ्रातृस्थानपतौ तु पुंभवनगे तस्यानुजो जायते
युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते ।
सौम्यर्क्षे शुभखेचरेक्षितयुते केन्द्रत्रिकोणस्थिते
पश्चाज्जातसहोदरिश्वरसुखी दीर्घायुरारोग्यभाक् ॥ १५॥
सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा ।
गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयराशौ सपतौ तथैव ॥ १६॥
अथ सोदरसङ्ख्याशानम् ।
लाभावसानभवनोपगतग्रहेन्द्रसङ्ख्यास्तदग्रजजनाः सहजा भवन्ति ।
लग्नात्तृतीयधनयातवियच्चरेन्द्रैः संख्याजनाः स्युरनुजाः कथयन्ति तज्ज्ञाः ॥ १७॥
भ्राटृस्थानपकारकेक्षितयुता वीर्याधिका यद्यदा
तद्युक्तप्रहसंख्ययाऽनुजजनिं जातः समेति ध्रवम् ॥
चत्वारो यदि नीचमुढरिपुगा निघ्नन्ति जातानुजां
स्ते कुर्वन्ति चिरायुरिष्टबलिनः सर्वानुजानां ग्रहाः ॥ १८॥
भ्रात्रृस्थानपमुख्यखेचरगणे द्वौ वीर्यवन्तौ यदा
नाशानाशफलप्रदौ समतया वीर्याधिकाश्चेत्त्रयः ।
खेटः स्त्रल्पसहोदरक्षयकरा दुःस्थानगाः स्त्रीग्रहाः
यद्यल्पानुजवृद्धिदास्तदनुजस्वाम्यंशसंख्यानुजाः ॥ १९॥
भूमिजे सहजस्थाने यवतां विद्यते बलम् ।
शत्रुनीचग्रहं स्यक्त्वा तावन्तः सहजाः स्मृताः ॥ २०॥
भ्रात्रीदौ खीग्रहर्क्षस्थौ भ्रातृदौ पुंग्रहर्क्षगौ ।
सोदरेशकुजौ स्यातां भ्रातृभ्रात्रिसुखप्रदौ ॥ २१॥
स्वीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृहे विलग्नात् ।
सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥ २२॥
कारकः सहजाधिशस्तदृर्शे(तद्दर्शे)तत्र संस्थितः ।
इष्टानिष्टकरास्तेषां स्वदशान्तर्दशासु च ॥ २३॥
कारकादिचतुःखेटफुटयोगांशकानुजाः ।
वर्ज्या नीचारिमूढांशाः स्वोच्चांशा द्वीगुणिकृताः ॥ २४॥
तृतीयात्सप्तमर्क्षेण भ्रातृभार्याफलं वदेत् ।
लग्नेशकुजसोत्थेशा भ्रात्रनिष्टशुभप्रदाः ॥ २५॥
अन्योन्यामिष्टविपुलं तु सहोदराणां लग्नाधिपेन साहिते यदि सोदरेशे ।
अन्योन्यामिष्टस्वचरां यदि तौ बलाढ्यौ लग्नेऽथवा सहजभे न विभागमाहुः ॥ २६॥
अथभ्रात्ररिष्टम् ।
लग्नेशानुजनायकौ विबलिनावन्योन्यशत्रुग्रहौ
दुश्चिक्यस्थितकारकौ च यदि वा दुःस्थानगौ दुर्बलौ ।
तत्पाके सहजप्रमादकलहं तन्नाशभर्थक्षयं
तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥ २७॥
गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः ।
रविदृष्टे बुधे सोत्थे सुहृन्नाशकरो भवेत् ॥ २८॥
भ्रातृस्थातन्नायककारकाणां नीचरिदुःस्थानसमन्वितानाम् ।
भुक्तौ दशायां भनसत्त्वनाशं पराजयं भ्रातृविनाशमाहः ॥ २९॥
लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटम्
तन्वक्षत्रगते शनौ तु मरणं तस्मोदराणां वदेत् ।
तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते
राशौ भानुसुते तथैव च चतुर्थोगस्फुतांशेऽथवा ॥ ३०॥
चतुःस्फुटाक्रान्तदृकाणराशिं गते गुरौ सोदरनाशमाहुः ।
तत्तारकानाथदशाऽनुजानामतीव सम्पत्सुखदायिनी स्यान् ॥ ३१॥
भूसूनुस्फुटतो विशोध्य फणिनं शेषत्रिकोणे गुरौ
जातस्यानुजनाशनं क्षितिसुतं राहुस्फुटाच्छोधयेत् ।
तद्राशिस्थनवांशकेऽमरगुरौ तज्ज्येष्ठनाशं वदेद्
जन्माधानपकर्मपस्फुटगृहे जीवेऽनुजो जायते ॥ ३२॥
पराक्रमविचारः
विक्रमाधिपतौ स्वोच्चे नाशस्थे पापसंयुते ।
चरराशौ चरांशस्थे युद्धात्पूर्व दृढो भवेत् ॥ ३३॥
कारके बलहीने वा क्रूरषष्टयंशसंयुते ।
शुभदृग्योगसम्बन्धे विजयी विक्रमेश्वरे ॥ ३४॥
सौम्यार्धिपे भानुयुतेऽत्र वीरश्वन्द्रान्विते भानस्तधैर्यजातः ।
दुष्टो जहो भौमयुते प्रकोपी सौम्यन्विते सात्त्विकषुद्धियुक्तः ॥ ३५॥
जीवान्वते धीरगुणाभिरामः समस्तशास्त्रार्थविशारदः स्यात् ।
कामातुरः शुक्रसमन्विते तु तन्मूलकोपत् कलहप्रवीणः ॥ ३६॥
जडो भवेद्वासरनाथस्तूनुयुक्तेऽतिभीतो फाणिसंयुते स्यात् ।
बाहिर्गदो हृद्रदजाड्ययुक्तः केत्वन्विते मान्दियुते तथैव ॥ ३७॥
लग्ने गुरौ विक्रमनाथयुक्ते चतुष्पदानां प्रवदन्ति भीतिम् ।
गवां भयं जलराशिलग्ने जलप्रमादं समुपैति जातः ॥ ३८॥
कुजेन युक्ते स्वचरे विलष्ठे सत्त्वं बलं गानौखं समेति ।
कुजानुजस्यानुजराइनाथास्त्रयो बलीष्ठा रणरङ्गशूराः ॥ ३९॥
तेषां त्रयाणामपहारकाले पाकेऽथवा मूलफलार्दसौख्यम् ।
श्रोत्रद्वयं भूषणसत्कथादिसम्पत्करं भ्रातृसुतादिलामम् ॥ ४०॥
सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते ।
नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥ ४१॥
अथ कण्ठविचारः
शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥ ४२॥
पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् ।
भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्तुरोगम् ॥ ४३॥
विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ ।
राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥ ४४॥
सुबुधो विक्रमपतिर्गलरोगकरो भवेत् ।
सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥ ४५
बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च ।
तत्क्न्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥ ४६ ॥
अथ श्रुतिभूषाणाविचारः
तृतीये सौम्यसंयुते सौम्यखेचरवीक्षिते ।
तदिशे शुभसंयुक्ते कर्णयोर्भूषणं वदेत् ॥ ४७॥
शुक्रे तृतीये यदि मौक्तिकं तु जीवे तुलस्याभरणं वदन्ति ।
सरक्तमानीलमयं दिनेशे चन्द्रे बहु त्वाभरणं बलाढ्ये ॥ ४८॥
सौम्ये श्यामं कुजक्षेत्रे विचित्राभरणं वदेत् ।
तत्पतौ स्वोच्चवर्गस्थे दिव्यभाभरणम् ॥ ४९॥
अथ वस्त्रविचारः
मानस्थे गुरगेऽथवाऽनुजपतौ सौम्यर्क्षगे तद्यते
दिव्यं वस्त्रमपूर्वमेति सहजे सौम्ये सुवस्त्रं लभेत् ।
वीर्याथौ बहुवस्त्रभूषणक्रौ शुक्रानुजस्थानपौ
स्यातां धर्मकथारसश्रवणदौ जीवज्ञायुक्तेक्षितौ ॥ ५०॥
अथ धैर्यविचारः ।
धैर्यान्वितो विक्रमेशे सौम्यग्रहनवांशके ।
शुभेक्षिते शुभयुते वैशेषिकसमन्विते ॥ ५१॥
धैर्याधिपे पातयुतेक्षिते वा दुःस्थानगे धैर्यविनाशमेति ।
केन्द्रत्रिकोणे शुभखेटयुक्ते शुभेक्षिते वा यदि धैर्यशाली ॥ ५२॥
अथ बलविचारः
वीर्याधिपे भूमुसुतेन युक्ते पापर्क्षगे वीर्याविनाशहेतुः ।
केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥ ५३॥
अथ अशनंविचारः
शुक्रं निशाकरं स्यात्वा लग्नात्सोदरभे शुभे ।
शुभराश्यांशगे जातः समेति सुखभोजनम् ॥ ५४॥
जीवस्य राशिनवभाग़ाडॄख़नाषाम्स्थे वीर्याधिपे यदि सुराचिंतवीक्षिते वा ।
तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥ ५५॥
सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात्पुरतो यदि भारकरात् ॥ ५६॥
गुरुशुक्रयुते भुक्तौ नाथे सौम्ययुतेक्षिते ।
बलवच्छुभदृष्टे वा त्वन्नदाता भवेन्नरः ॥ ५७॥
सौम्ये स्वोच्चं गते भुक्तौ सौम्यग्रहनिरीक्षिते ।
नाथे वैशेषिकांश वा सुखभुक्तिप्रदो भवेत् ॥ ५८॥
इति तृतीयभावफलानि ।
अथ चतुर्थभावफलम् ।
वदन्ति विद्याजननीसुखानि सुगन्धगोबन्धुमनोगुणानि ।
महीपयानक्षितिमन्दिराणि चतुर्थभावप्रभवानि तज्ज्ञाः ॥ ५९॥
अथ विद्याधिचारः ।
विद्याराशौ निजपतियुते सौम्ययुक्तेक्षिते वा
जातो विद्याविनयचतुरश्चन्द्रसूनौ बलिष्ठे ।
दुःस्थे पापद्युचरसहिते पापदृष्टे तदीशे
विद्याहीनो भवति मनुजः पापराशिस्थिते वा ॥ ६०॥
विद्यास्थानपजीवचन्द्रत्नयाः षट्त्रिव्ययायुःस्तिता
विद्याबुद्धिविवेकहीनफलदा नीचारिगा वा यदि ।
स्वोच्चस्वर्क्षगतास्त्रिकोणगृहगाः केन्द्रस्थिता वा यदि
शीविद्याविनयादियुक्तिनिपुणो राजाधिराजप्रियः ॥ ६१॥
अथ मातृविचारः ।
शुक्रे बलिष्ठे यदि वा शशाङ्के सौम्येक्षिते शोभनभागयुक्ते ।
चतुष्टये मातृगृहे बलाढ्ये मातुश्विरायुष्टमुदाहरन्ति ॥ ६२॥
मातृस्थानाधिपे षष्ठे व्यये वा वलवर्जिते ।
लग्ने पापे पापदृष्टे मातृनाशं वदेद् बुधः ॥ ६३॥
क्षीणे चन्द्रेऽष्टभे षष्ठे व्यये वा पापसंयुते ।
पाताले पापसंयुक्ते मातृहानिर्न संशयः ॥ ६४॥
मातृस्थानगते मन्दे पापग्रहनिरीक्षिते ।
रन्ध्रनाथेऽरिनीचस्थे मातृनाशं विनिर्दिशेत् ॥ ६५॥
भ्रातृपुत्रगते पापे पातालेशेऽरिनीचगे ।
चन्द्रे पापसमायुक्ते मातृरोगं विनिर्दिशेत् ॥ ६६॥
षष्ठेश्वरेण सहितः सुखराशिनाथो धर्मस्थितो जनकमत्र विटं करोति ।
भाग्यधिपेन सहितो यदि मातृनाथः सौख्यस्थितो जन्कमत्र विटं करोति ॥ ६७॥
षण्मातृपौ पितृस्थने पितुश्व व्यभिचारदौ ।
मातृतातारिदेहेशैरेकस्थैः परजातकः ॥ ६८॥
पापेक्षिते पापशुते शशाङ्के दिवाकरे वा यदि केन्द्रराशौ ।
क्रूरे सुखे वा यदि पापदृष्टे जातो नरः स्याद्यदि मातृगमी ॥ ६९॥
चन्द्रे भृगौ वा केन्द्रस्थे पापदृष्टेऽथवा द्वयोः ।
क्रूरे सुखे मातृगामी यदि वा गुरुदारभाक् ॥ ७०॥
सुखस्थे सारषष्थेशे चन्द्रे माताऽन्यमैथुनी ।
व्यभिचरप्रदो मातुः सरादुदिननायकः ॥ ७१॥
शीतांशौ राहुकेतुभ्यां युक्ते नीचेन सङ्गमः ।
मन्दयुक्ते च शूद्रेण वैश्येन बुधयोगतः ॥ ७२॥
रवियुक्ते क्षेत्रियेन्ण मन्त्रिभ्यां द्विजसङ्गमः ।
एवं चन्द्रः कुजारीशयुक्तस्तत्फलदो भवेत् ॥ ७३॥
चन्द्रोऽनिष्टस्थानगः सानुजेशो जातस्यास्तन्यपानं करोति ।
दुःस्थानस्थौ मातृपितृक्षनाथौ पित्रोर्मृत्युर्लग्ननाथे बलाढ्ये ॥ ७४॥
पितृकर्माधिपे दुःस्थे लग्नेशे बलसंयुते ।
पित्रोरनिष्टकारी स्यात् सीमन्तरहितोऽथवा ॥ ७५॥
मातृस्थानेशलग्नेशौ तत्र कोणगतौ यदि ।
तदीशो लग्नगो माता पित्रा सह मृता भवेत् ॥ ७६॥
मातृलग्नेशपितृपाः केन्द्रकोणस्थिता यदि ।
तदृशान्तर्दशकाले जन्न्यास्त्वनुमृत्युदाः ॥ ७७॥
रवीन्दू पितृमातृस्थौ यदि तावनुमृत्युदौ ।
तदीशोक्षितयुक्ता वा रविसम्बन्धिनस्तथा ॥ ७८॥
ये मातृभावमतिकारकतत्समेता-स्तन्मातृराशिगतवीक्षितखेचरेन्द्राः ।
तेषामनिष्टकरखेटदशापहारे-जातस्य मातृमरणं प्रवदन्ति सन्तः ॥ ७९॥
मार्तण्डस्फुटतो विशोध्य शशिणं तच्छेषराश्यंशके
जीवे भानुसुते च मातृमरणं तत्कोनगे वा नृणाम् ।
संशोध्यं यमकरुटकं हिमकराद्रन्ध्राधिपस्य स्फुटं
तद्राशौ रविनन्दने मृतिमुपैत्यम्बा तदंशे रवौ ॥ ८०॥
अथ सुखविचारः ।
गोपुराद्यंशके जीवे सुखस्थानगतेऽपि वा ।
धनायवृद्धिभावेषु खेटेषु च सुखी भवेत् ॥ ८१॥
बुधदृष्टियुते सौख्ये सौम्यमध्यगतेऽथवा ।
जीवराश्यंशके वाऽपि पुण्यकर्मरतः सदा ॥ ८२॥
सुखस्थितः शोभनराशिगो बली विलग्नसम्बन्धगुणाधिको यदि ।
तज्जातिवर्गेण सुखं तदीयधातुश्रियमेति मानवः ॥ ८३॥
चतुर्थगो नीचसपलयातस्त्वनिष्टभावाधिपतिर्विलग्नात् ।
लग्नेशशत्रुर्यदि तत्प्रकोपान् शरीरसौख्यादिविनाशमाहुः ॥ ८४॥
चतुर्थभावस्थितदर्शिकारका बलान्विता यद्यतिसौख्यद्रेतुकाः ।
अनिष्टदा नीचसपत्नमुढगाः सुखं शुभेनाशुभमन्यखेचरैः ॥ ८५॥
चतुर्थगे भाग्शपतौ सयुक्रे बलाधिके स्याच्चिरकालभोगी ।
शुभान्विते रन्ध्ररिपुव्ययस्थे जातोऽल्पकालं समुपैति सौख्यम् ॥ ८६॥
अथ सुखादिविचारनिर्णयः ।
सुखाचिन्ता गृहेज्याभ्याण् मातृचिन्ता सुखेन्दुतः ।
सुगन्धं गृहशुक्राभ्यां वस्त्रवहानभूषणम् ॥ ८७॥
अथ सुगन्धविचारः ।
सुखेश्वरे शोभनराशियुक्ते शुक्रेण दृष्टे सति संयुते वा ।
अरातिनीचग्रहदृष्तिहीने सुगन्धमाल्यादिसुखं समेति ॥ ८८॥
अथ वस्त्रविचारः ।
वीर्यान्विते शीतकरे सुवस्त्रं साहिध्वजे जीर्णतरं समेति ।
कौशेयकं जीवयुते च रत्नचित्रं सशुक्रे सशनौ तु कृष्णम् ॥ ८९॥
शुक्रेन्दुवर्गसहिते सुखराशिनाथे शुक्रेण शीतरुचिना सहितेक्षिते या ।
नीचारिपापगगनाटनडृष्टिमुक्ते पङ्चादिवित्तमखिलं लभते मनुष्यः ॥ ९०॥
अथ बन्धुविचारः ।
बन्धुस्थानेश्वरे सौम्ये सौम्यग्रहनिरीक्षिते ।
कारके बलसम्पूर्णे बन्धुपूज्यो भवेन्नरः ॥ ९१॥
बन्धूपकर्ता तन्नाथे केन्द्रकोणायसंयुते ।
वैशेषिकांशसंयुक्ते पापदृग्योगवर्जिते ॥ ९२॥
बन्धुद्वेषी भवेन्नित्यं पापाक्रान्ते रसातले ।
नीचास्तखेटसंयुक्ते शुभदृग्योगवर्जिते ॥ ९३॥
अथ यनोविचारः ।
सपापे रन्ध्रपे सौख्ये कपटी पापसंयुते ।
स्वोच्चमित्रस्वर्गस्थे निष्कानव्यं शुभेक्षिते ॥ ९४॥
विशुद्धह्वदयः शान्तो हृदयंशे बलान्विते ।
गोपुराद्यंशके वाऽपि मृद्वंशादिसमन्विते ॥ ९५॥
अथ वाहनविचारः ।
वाहनेशे बलयुते यानराशौ बलान्विते ।
शुभग्रहेण संदृष्ते वाहनादि फलं वदेत् ॥ ९६॥
वाहनेशे वाहनस्थे सेन्दुजे शुभवीक्षिते ।
शुभखेचरराश्यंशे वाहनादि फलं वदेत् ॥ ९७॥
चन्द्रो विलग्नसम्बन्धी वाहनेशसमन्वितः ॥
तुरङ्गवाहनं तस्य वदन्ति मुनिपुङ्गवाः ॥ ९८॥
द्वितीये वा चतुर्थे वा चन्द्रे शोभनराशिगे ।
शुभखेचरसंयुक्ते समुपैत्यश्ववाहनम् ॥ ९९॥
सेन्दौ चतुर्थाधिपतौ विलग्नेलग्नेश्वरेणापि युतेऽश्वलाभम् ।
शुक्रेण युक्ते यदि वाहनेशे देहान्यते वा नरवाहनं स्यात् ॥ १००॥
आन्दोलिकाभरणदौ सितपूर्णचन्द्रौ केन्द्रत्रिकोणगृहगौ बलिनौ भवेताम् ।
रक्ताम्बराभरणदः सुरपूजितर्क्षे चन्द्रे सुरेन्द्रसचिवेक्षितसंयुते वा ॥ १०१॥
आन्दोलिकातुरगलाभभुपैति जातः शुक्रेन्दुयानपतयस्तनुनाथयुक्ताः ।
एकत्र देवगुरुयानपचन्द्रशुक्राः केन्द्रत्रिकोणगृहगाश्वतुरङ्गयानम् ॥ १०२॥
वाहनेशे गुरुयुते चतुरङ्गाख्यवाहनम् ।
यानेशे सशुभे माने चामरच्छत्रसंयुतः ॥ १०३॥
सुखेश्वरे केन्द्रगते तदीशे लग्नस्थिते वाहनयोगवन्तः ।
कर्मेश्वरे लाभगते तदीशे कर्मस्थिते भूषणयानवन्तः ॥ १०४॥
अथ राज्यविचारः ।
यानेशे लाभराशिस्थे सुखे वा लाभगे कुजे ।
अथवा भौमराशिस्थे राज्यप्राप्तिर्न संशयः ॥ १०५॥
लग्नाद्वाहनराशिगस्तदधिपस्तद्वीक्षकश्च त्रयः
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः केन्द्रत्रिकोणायगाः ।
दीर्घायुः शायनासनाम्वरबबन्धुक्षेत्राणी सन्मन्दिरं
बन्धुस्नेहमनोज्ञवाहनयशह्सौख्यानि कुर्वन्ति ते ॥ १०६॥
स्वोच्चराशिगतश्चान्द्रिः केन्द्रकोणसमन्वितः ।
विद्यावाहनसम्पतिं करोति विपुलं धनम् ॥ १०७॥
लग्नेशात्सुखनाथतद्भवनगौ भाग्येशभाग्यस्थितौ
चत्वार्ः शुभवर्गगाः सुबलिनस्ते लग्नसम्बन्धिनः ।
अन्योन्याश्रितवीक्षिता यदि महीपालिश्वरायुः सुखी
तेजस्वी चतुरङ्गयानविपुलश्रीराजचिहाङ्कितः ॥ १०८॥
ग्रहत्रयं स्थानबलाधिकं चेद्विचित्रत्नाभरणादि यानम् ।
खेटद्वये वीर्ययुते विलग्ने रदीयपाके समुपैति सौख्यम् ॥ १०९॥
उक्तस्थानत्र्येष्वेको बली वाहनराशिपः ।
लग्नलग्नेशसम्बन्धी तद्दशा वाहनप्रदा ॥ ११०॥
चतुर्थधर्मायधनाधिनाथा विलग्नसम्बन्धिबलाधिकाश्वेत् ।
तदीयपाके समुपैति राश्ज्यं क्रमेण भाग्यं धनलाभमर्थम् ॥ १११॥
ते चत्वारोऽधिकबलयुता देहसम्बन्धिनश्चे-
देतत्सर्वं भवति विपुलं दुर्बला दुःखदाः स्युः ।
मिश्रं मिश्रैस्तनुपरिभवः कारको भावनाथो
भावाक्रान्तो विगतबलिनश्वेदतिक्लेशदास्ते ॥। ११२॥
वाहनेशेऽरिनीचस्थे दुःस्थे धर्माधिपेक्षिते ।
सुदुर्वाहनसम्प्राप्तिश्वलवाहनताऽपि वा ॥ ११३॥
धर्मकर्मविलग्नस्थास्तुङ्गोपगशुभग्रहाः ।
लग्नाधिपेन संदृष्ता यानान्ते दुःखमाप्नुयात् ॥ ११४॥
जीवे वा सुखपे शुभग्रहयुते लग्नात्तपःस्थानगे
सौम्यर्क्षे नरवहानं चिरतरं राजप्रतापान्वितम् ।
दुःस्ते पापयुतेऽस्तनीचरिपुगे यानादिभाग्यं नहि
स्वर्क्षे सर्वबलाधिके चिरसुखं चान्दोलिकारोहणम् ॥ ११५॥
बन्धुकर्मगृहाधीशौ लाभस्थानगतेक्षकौ ।
बलवन्तौ यदि स्यातां सर्वभाग्यफलग्नदौ ॥ ११६॥
लाभस्थौ सुखभाग्येशौ पश्यन्तौ वा सुखस्थलम् ।
वाहिनीसर्वभाग्याढ्यो राजप्रीतिकरो भवेत् ॥ ११७॥
धर्मवाहनराशीशौ लग्नसम्बान्धुनौ यदि ।
जीवदृष्तियुतौ तस्य राजवश्यादिभूषणम् ॥ ११८॥
शुभवाहनराशीशौ शुभखेचरसंयुतौ ।
बहुसेनाधिपः श्रीमान् बलिनौ यदि जायते ॥ ११९॥
भाग्यस्थिते वाहनराशिनाथे सशुक्रजीवे शुभखेटराशौ ।
भाग्याधिपे कोणचतुष्टये बहुत्वदेशाभरणार्थयानम् ॥ १२०॥
कामारियानसहजतपोलग्नव्ययेश्वराः ।
सुखाधिपेन संयुक्तारत्वसंख्याकरदेशभाक् ॥ १२१॥
सुखाधिपो देवगुरुः सितो वा बली विलग्नान्नवमोपयातः ।
त्रिकोणकेन्द्रेपगतः शुभेशः समेति जातो बहुवाहनानि ॥ १२२॥
सशुक्रजीवो गेहेशो भाग्यस्थो भाग्यपे सुखे ।
केन्द्रत्रिकोणयोर्वाऽपि बहुवाहनदेशभाक् ॥ १२३॥
अथ राजयोगाः ।
लग्नकेन्द्रस्थिते सौम्ये धर्मे तुङ्गगृहाश्रिते ।
धनेशे केन्द्रभावस्थे योगः सिंहासनप्रदः ॥ १२४॥
भाग्ये शुभेक्षिते केन्द्रे शुभैः सह धनाधिपे ।
उच्चग्रहे द्वितीयस्थे जन्म सिम्हासनप्रदम् ॥ १२५॥
लग्नवाहनभाग्येशाः कर्मस्थाः कर्मपस्तनौ ।
लग्नं पश्यति वा खेटः सिंहासनफलप्रदः ॥ १२६॥
कर्मलग्नसुखाधीशाः कर्मस्थानगता यदि ।
कर्मपो लग्नसम्बन्धी सिंहासनपतिर्भवेत् ॥ १२७॥
गुरुशुक्रशुभाधीशाः केन्द्रकोणयगा यदि ।
अनेकयानसम्पन्नो मण्डलाधिपतिर्भवेत् ॥ १२८॥
थानेशकर्मोपगतौ बलिष्टौ धर्मेशदृष्टौ यदि तद्युतौ वा ।
परस्परक्षेत्रसमागतौ वा सिंहासनप्राप्तिकरौ भवेताम् ॥ १२९॥
तद्दशान्तर्द्दशाकाले तद्राशिपदशागमे ।
तदीशभुक्तिसम्प्रासौ सिंहासनपतिर्भवेत् ॥ १३०॥
अथ भाग्यविचारः ।
शुभोदयेशौ सुखरावातौ सुखाधिपो लग्नगतः शुभर्क्षे ।
अतीव सौख्यं समुपैति नित्यं सपत्नयातू यदि शत्रुभाग्यम् ॥ १३१॥
सपत्नभावाधिपतौ तपःस्थे शुभैरदृष्टे बलसंयुते वा ।
स्वकीयभाग्यादिकमल्पकालं ददाति शत्रौ उखनाथदाये ॥ १३२॥
सुखाधिपे शोभनखेटयुक्ते तदीयपाकान्तमरातिगं तत् ।
पापान्विते तस्य दशावसाने पुनः स्वभाग्यं समुपैति सर्वम् ॥ १३३॥
अथ क्षेत्रविचारः ।
चेत्रस्थाने शुभक्षेत्रे तदीशे शुभसंयुते ।
तत्कारके तथा प्राप्ते बहुक्षेत्रधनान्वितः ॥ १३४॥
क्षेत्रेश्वरे नीचसम्पन्नभागे कालाग्निशूलान्तकषष्टिभागे ।
पापान्विते पापमीक्षिते वा क्षेत्रादिनाशं कथयन्ति तज्ज्ञाः ॥ १३५॥
लग्नाधिपस्य गृहपो शत्रुखेटस्तत्पाकभुक्तिसमये गृहभूमिनाशम् ।
यनेशभुक्तिसमये निजबन्धुहानिः शान्यारमान्दियुतभुक्तिरनर्थहेतुः ॥ १३६॥
वित्तेशः ससुखाधिपो नवमगः सौम्यान्वितः सौम्यभे
निक्षेपं समुपैति लाभवनपौ पापालराशिस्थितौ ।
तन्नाथः शुभराशिगः शुभयुतो निक्षेपसिद्धिर्भवे-
लत्वाभेशः सुखराशिगः शुभयुतो निक्षेपवित्तप्रदः ॥ १३७॥
अथ गृहविचारः ।
अर्थव्ययगृहाधीशा नाशगाः पापसंयुताः ।
यावाद्भिरशुभैर्युक्तास्तावद्गेहालसत्वदाः ॥ १३८॥
पापेऽरौ वा पाप्दृष्टे सुखे गेहसुखार्तिभाक् ।
नीचेऽरातौ वा पापदृष्टे सुखे स्याद्गृहो नरः ॥ १३९॥
नीचेऽस्तगे वा गेहस्थे दुःखाम्भोधौ पतिष्यति ।
सुखे पापे पापभाक् स्यात् सुखे मन्दे सुखक्षयः ॥ १४०॥
गृहेशे व्ययगे लग्नादेन्यगेहेऽन्यदेसगः ।
रन्ध्रे गृहाद्यभावो वा षष्ठे ज्ञात्यदिसंग्रहः ॥ १४१ ॥
अयत्नतो मन्दिरलाभदः स्यत् चतुर्थपस्तत्र बलाधिको वा ।
दुःस्थानगो दुष्टबलान्वितश्चेदालस्यगेहं ग्रहपीडितं वा ॥ १४२॥
घट्त्रिव्ययाष्टमोपेता व्ययवित्तगृहाधिपाः ।
यावत्पापसमोपेतास्तावद्गृहविनाशदाः ॥ १४३॥
लग्नत्रिकोनकेन्द्रस्था यावद्बलसमन्विताः ।
तावत्संख्य्कगेहानां सामीचीन्यं वदेद् बुधः ॥ १४४॥
चतुर्थभावाधिपतौ विलग्नाद्वययस्थिते जिर्णगृहं समेति ।
त्रिकोणकेन्द्रेपगते बलाढ्ये विचित्रगेहं रुचिरं तदाहुः ॥ १४५॥
तृतीये सौम्यसम्युक्ते गेहेशे बलसंयुते ।
गोपुराद्यांशगे वाऽपि समेति दृढमन्दिरम् ॥ १४६॥
आज्ञाक्रियाक्षेत्रविनाशमाहुराज्ञेश्वरे गेहगते सपापे ।
क्रूरांशके मृत्युकरादिभाग् रन्ध्रेश्वरेणापि युते तथैव ॥ १४७॥
तृतीये सय्म्यसंयुक्ते ग्षेशे स्वबलान्विते ।
लग्नेशे बलसम्पूर्णे हम्ये प्राकाररसंयुतम् ॥ १४८॥
पारावतांशके गेहनाथे गुविन्दुवीक्षिते ।
गोपुराद्यंशके वाऽपि दैविकं गृहमादिशेत् ॥ १४९॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजात द्वादशोऽध्यायः ॥ १२॥
अथ पङ्चमषष्ठभावफलाध्यायः ॥ १३॥
अथ पङ्चमभावफलम्
पुत्रादेवमहीपपुत्रपितृधीपुण्यानि सज्चिन्तये-
द्यात्रामस्तौतखर्कमभवनैर्दूराटनं रिष्फतः ।
लग्नाद्वन्धुदिनेशतः पितृसुखं जीवात्मजस्थानतः
पुत्रप्राप्तिरङ्गवित्तपसितैः स्त्रीसम्पदश्चिन्तयेत् ॥ १॥
अथ देवताविचारः ।
लग्नादात्मनि पुंग्रहेक्षितयुते पुंदेवताराधनं
युग्मे शुक्रेनिशाकरेक्षितयुते स्त्रीदेवतामिच्छति ।
भानौ भास्करमुख्यमिन्दुसितयोगौरी कुमारं कुजे
विष्णुं चन्द्रसुते गुरौ शशिघरं रान्यादियोगे परान् ॥ २॥
लग्नाधिपस्यात्मपतौ सपत्ने तद्देवभक्तिः सुतनाशहेतुः ।
समानता साम्यतरे सुहृत्त्वे तद्देवताऽपारकृपामुपैति ॥ ३॥
अथ राज्यविचारः ।
राजस्थाने गुरुबुधसितैरीक्षिते संयुते वा
तद्राशीशे बलवति नृपप्रीतिसम्पतिमेति ।
पापाक्रान्ते विगतबलिनि स्वामिनि क्रूरभागे
जातो विद्याविनयगुणधीराजसन्मानहीनः ॥ ४॥
अथ जन्मविचारः
लग्न यानपतौ सुखे तनुपतौ दृष्टेऽथवा खेचरैः
संयुक्ते तु चतुष्पदस्य जननं राहुध्वजाभ्यामजः ।
गोजन्मार्यसितेन्दुभिश्च महिषी मन्देन दृष्टे युते
जातः पादपुरःसरं तनुपतिमनि तनौ भोगिराट् ॥ ५॥
वित्तास्तगौ पङ्चमयाननाथौ पापेक्षितौ पापसमन्वितौ वा ।
पुंसस्त्रिभागे पुरुषग्रहेन्द्रे जाताः कपिक्रोडबिडालकाद्याः ॥ ६॥
तस्मिन्दबुधेक्षिते तु जननं पिण्डाकृतिर्वाक्पतिः ।
साहिर्दुर्बलवीक्षितो यदि महीदेवान्वयो नीचकृत् ।
एकस्था गुरुराहुभानुतनयाः शुक्रेन्दुपुत्रेक्षिताः
शूद्रोऽपि द्विजतौल्यमेति निखिलां विद्यामुपैति द्विजः ॥ ७॥
अथ पुत्रविचारः ।
लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथवाऽलोकिते
चन्द्राद्वा यदि सम्पदस्ति हि तयोर्ज्ञेयोऽन्यथा।सम्भवः ।
पाथोनोदयगे रवौ रविसुते मीनस्थिते दारहा
पुत्रस्थानगतश्व पुत्रमरणं पुत्रोऽवनेर्यच्छति ॥ ८॥
पुत्रस्यानपतौ तु वा नवमपे लग्नात्कलत्रेऽथवा
युग्मक्षिरे शशिशुक्रवीक्षितयुते पुत्रीजनो जायते ।
पुंवर्गे पुरुषग्रहेक्षितयुते जातस्तु पुत्राधिको
जीवात्पङ्चमराशितश्व तनयप्राप्तिं वदेद् दैरिकः ॥ ९॥
शुक्रेन्दुवर्गे सुतभे विलग्नाच्चुक्रेण चन्द्रेण युतेऽथ दृष्टे ।
पापैरयुक्ते बहुपुत्रशाली शान्यारदृष्टे सति पुत्रहीनः ॥ १०॥
पौत्रप्राप्तिरङ्गभे सुतगृहात्सौम्यस्य राश्यंशके
तन्नाथे शुभखेटवीक्षितयुते केन्द्रत्रिकोणेऽथवा ।
स्वक्षेत्रोपगते तु पुत्रगृहपे जातोऽल्पपुत्रो भवेत्
पुत्रेशांशपतिः स्वभाम्शकगतो यद्येकपुत्रं वदेत् ॥ ११॥
केन्द्रत्रिकोणगृहगः सुतपः शुभर्क्षे सौम्यान्वितो यदि सुतं समुपैति बाल्ये ।
भोगीशयुक्तसुतराशिपभुक्तिजातः स्वल्पायुरति फणिभुक्तिभवश्विरायुः ॥ १४॥
पुत्रस्थानपवित्तपौ ग्तबलौ पापेक्षिते पुत्रभे
जातोऽनेककलत्रवानपि सुताभावं समेति ध्रुवम् ।
तज्जाया यदि पुत्रयोगजनिता सौम्येन वा पङ्चमात्
षष्ठेशेन निरीक्षिते सुतवती जारेण सञ्ज्ञायते ॥ १५॥
पुत्रस्थाने तदीशे वा गुरौ वा शुभवीक्षिते ।
शुभग्रहेण संयुक्ते पुत्रप्राप्तिर्न संशयः ॥ १६॥
लग्नेशे पुत्रभावस्थे पुत्रेशे बलसंयुते ।
परिपूर्णबले जीवे पुत्रप्राप्तिर्न संशयः ॥ १७॥
पुत्रस्थानगते जीवे परिपूर्णबलान्विते ।
लग्नाधिपेन संदृष्टे पुत्रप्राप्तिर्न संशयः ॥ १८॥
वैशेषिकांशके जीवे पुत्रेशे च तथास्थिते ।
शुभनाथेन संदृष्टे पुत्रे तत्प्राप्तिमादिशेत् ॥ १९॥
दशमे शीतगुर्द्युने भृगुजः पापिनः सुखे ।
तस्य सन्ततिविच्छेदो भवेष्यति न संशयः ॥ २०॥
षष्ठाष्टमस्थो लग्नेशः पापयुक्तः सुताधिपः ।
दृष्टो वा शत्रुनीचस्थैः पुत्रहानि वदेद् बुधः ॥ २१॥
लग्नसप्तमधर्मान्त्यराशिगाः पापखेचराः ।
सपत्नराशिवर्गस्था वंशविच्छेदकारिणः ॥ २२॥
बन्ध्या वृद्धा कृशा बाला रोगिणी पुष्पवर्जिता ।
कर्कशा स्थूलदेहा च नायोर्ऽष्टौ परिवर्जिताः ॥ २३॥
गुरुलग्नेशदारेशपुत्रस्थानाधिपेषु च ।
सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ २४॥
पुत्रस्थानं गते पापे तदीशे नीचराशिगे ।
शुभदृष्तिविहीने तु वक्तव्या त्वनपत्यता ॥ २५॥
गुरुलग्नहिमांशूनां पङ्चमस्थैरशोभनैः ।
शुभदृम्योगरहितैर्वक्तव्या त्वानपत्यता ॥ २६॥
पुत्रस्थानगते पापे तदीशे पापमध्यगे ।
सौम्यदृग्योगरहिते वक्तव्या त्वनपत्क्ता ॥ २७॥
पापमध्यगते जीवे पुत्रेशे बलवर्जिते ।
सौम्यदृम्योगरहिते वक्तव्यम् त्वनपत्कता ॥ २८॥
पुत्रस्थाने बुधक्षेत्रे मन्दक्षेत्रेऽथवा यदि ।
मान्दिमन्दयुते दृष्टे तदा दत्तादयः सुताः ॥ २९॥
मीनस्थोऽत्यल्पसन्तानश्वापस्थः कृच्छ्रसन्ततिः ।
असन्ततिः कुलीरस्थो जीवः कुम्भे न सन्तति॥ ३०॥
पुत्रस्थाने कुलिरे वा मीने कुम्भे शरसने ।
स्थितो यदि सुराचार्थस्तत्फलं कुरुते नृणाम् ॥ ३१॥
पापग्रहेन संदृष्टे देवशापत्सुतक्षयः ।
षष्टाधिपयुते दृष्टे विप्रशापत्मतक्षयः ॥ ३२॥
सुतेशे कुजसंयुक्ते रिपुनाधेन वीक्षिते ।
शुभदृष्टिविहीने च रिपुदोषत्सुतक्षयः ॥ ३३॥
नवमे पापसंयुक्ते मन्दयुक्ते सुतधिपे ।
त्रिकोणे मान्दिसंयुक्ते पितृदोषात्सुतक्षयः ॥ ३४॥
मातृस्थानगते पापे सुतेशे मन्दसंयुते ।
व्ययनाशगते पापे मातृदोशात्सुतक्षयः ॥ ३५॥
राहु केतुयुते दृष्टे पङ्चमे बलवर्जिते ।
तदीशे वा तथा प्राप्ते सर्पदोषात्सुतक्षयः ॥ ३६॥
गुरुपुत्रेशदारेशभूमिजाः संयुता यदि ।
दुर्देवपीडया पुत्रीपुत्रनाशं वदेद् बुधः ॥ ३७॥
पुत्रस्थानगतः कश्चित्परिपूर्णबलान्वितः ।
अदृष्टः पुत्रनाथेन तदा दत्तादयः सुताः ॥ ३८॥
पापक्षेत्रेगते चन्द्रे पुत्रेशे धर्मराशिगे ।
दत्तपुत्रस्य सम्प्राप्तिर्लग्नेशस्तु त्रिकोनगः ॥ ३९॥
युग्मोदये पुत्रनाथश्चतुर्थस्थानगोऽपि वा ।
मन्दाशकसमारूढो दत्तपुत्रो भविष्यति ॥ ४०॥
युग्मांशे भानुजांशे वा पुतेशोऽर्केन्दुजान्वितः ।
दत्तपुत्रस्य सम्प्राप्तिस्तस्मिन्योगे भविष्यति ॥ ४१॥
मन्दांशे पुत्रराशीशः स्वराशौ गुरुभार्गवौ ।
पूर्वं दत्तसुतप्राप्तिः पुनर्नार्याः पुनः सुतः ॥ ४२॥
मन्दांशकस्थिताः खेटाः शुक्लपक्षबलाधिकाः ।
गुरुर्यदि सुखस्थाने दत्तपुत्रेण सन्ततिः ॥ ४३॥
विलग्नस्थे धरासूनौ निधनस्थे दिवाकरे ।
सुखे वा शुभसंदृष्टे पुत्र कालान्तरे भवेत् ॥ ४४॥
लग्ने दिनेशतनये रन्ध्रस्थानगते गुरौ ।
पङ्चमे दुर्बले रिष्फे भौमे कालान्तरे सुतः ॥ ४५॥
पुत्रान् पङ्चमभातृतीयभवनाद् भ्रातृन् कलत्रात् स्नियो
दासीश्च क्षितिराशितः स्वभवनाद्दसांअश्च मित्राणि च ।
यातांश्चैव नवांशकाज्ञ्च्छुभदृशा हत्वा तथा रोपयेद् ।
व्योमव्योमकरैर्विभज्य तु भृताश्व पुत्रादयः ॥ ४६॥
पुत्रं सोदरभं कलत्रमुदयं यानं च राशि विना
तल्लिप्ताः शुभखेटदृग्बलहताः षष्ट्या विभक्ताः क्रमात् ।
व्योमाकाशकराप्तपुत्रसहजस्त्रीदासदासीउहृत्-
सङ्ख्याः पापनभोगदृग्बलभवाः पुत्रादिनाशप्रदाः ॥ ४७॥
पुत्रस्थानपलग्नपस्फुटयुते राश्यंशकोणे गुरौ
पुत्रातिः सचिवेन्द्रनस्फुटयुते राश्यंशसंख्याः सुताः ।
धीधर्मावनिनायकस्फुटचयप्राप्रांशसंख्याऽथवः
धीर्घमक्षितिगस्फुटैक्यभवने यातांशतुल्याः नुताः ॥ ४८॥
जीवाच्चन्द्रमसो विलग्नभवनात्पुत्रप्रदं पश्चमं
तस्माद्धर्मगृहं च तत्पतिदशाभुक्तौ मुताप्तिं वदेत् ।
पुत्रस्थानपकामपस्फुटयुते यत्तारका तद्दशा
तत्खेटान्वितविक्षकग्रहदशाभुक्तिश्च पुत्रप्रदा ॥ ४९॥
पुत्रस्थानपकारकेक्षकयुता दुःस्थानपा दुर्बला
दुःस्थास्तत्परिपालभूक्तिसमये पुत्रस्य नाशं वदेत् ।
चत्वारो बलशालिनो यदि शुभास्तत्पाकभ्क्त्यन्तरे
पुत्राप्तिं सुतसम्पदः प्रभुजनप्रीतिं च कुर्वन्ति ते ॥ ५०॥
पुत्रेशकारकयुतेक्षकखेचराणां तत्कालजस्फुटयुतांशकराशियातौ ।
वागीशभानुतनयौ यदि गोचरेण जातस्य पुत्रजनिमृत्युकरौ भवेताम् ॥ ५१॥
अथ पितृविचारः ।
पितृस्थानेश्वरे सौम्ये कारके शुभसंयुते ।
भावे वा शुभसंयुक्ते पितृसौख्यं विनिर्दिशेत् ॥ ५२॥
पारावतादौ तन्नाथे कारके च तथा स्थिते ।
स्वोच्चमित्रांशके वाऽपि पितृदीर्घयुरादिशेत् ॥ ५३॥
क्रूरनीचांशकस्थे वा भावनाथे च कारके ।
मन्दमान्द्यगुसंयुक्ते पितृदुःखं विनिर्दिशेत् ॥ ५४॥
सौम्ये तदीश्वरे वाऽपि नीचमूढारिराशिगे ।
क्रूरषष्ट्यंशके वाऽपि पितृदुःखं विनिर्दिशेत् ॥ ५५॥
पित्रिकर्मगृहे जातः पितृतुल्यगुणान्वितः ।
पितृजन्मतृतीयर्क्षे जातः पितृवशानुगः ॥ ५६॥
पितृषष्ठाष्टमे जातः पितृशत्रुर्भविश्यति ।
तद्भावपे विलग्नस्थे पितृश्रेष्ठो भवेत्सुतः ॥ ५७॥
लग्नादायतपःस्थनाः शनिमहीपुत्रागवो मृत्युदा-
स्तातस्यार्कजभूसुतौ निधनदौ बलस्य रन्ध्रास्थगौ ।
माने वा यदि पञ्चमे कुजरविच्छायाकुमारेन्दवः
सद्यो मातुलतातबालजननीनाशं प्रकुर्वन्ति ते ॥ ५८॥
सबले पितृभावेशे लग्नेशेन्दुचतुर्थपाः ।
दुर्बला यदि तन्मार्गर्भतो मरणं विदुः ॥ ५९॥
नवमादष्टमाधीशो नवमात्खरपोऽथवा ।
शनिर्वेधेषु यः क्रूरः संभवेत् पितृमृत्युदः ॥ ६०॥
दिनेशस्थितराश्यंशप्राणितः कोणगे रवौ ।
पितृमृत्युर्मातृमृत्युरिन्दुस्थांशर्क्षयोर्बलाट् ॥ ६१॥
भानुस्थितांशपारूढनवांशद्वादशांशभम् ।
गते चन्द्रे भवेन्मृत्युर्मातापित्रोर्यथाक्रमम् ॥ ६२॥
दुष्टस्थानगते भानौ सिंहान्त्यद्वादशांशके ।
जातश्वेज्जननात्पूर्वं पितृमृत्युं प्रयच्छति ॥ ६३॥
मार्तण्डे गुलिकस्फुटादपहृते राशित्रिकोणे शनौ
रागं तज्जनकस्य देवसचिवे मृत्युस्तदंशोपगे ।
आदित्ये यमकण्टकस्फुटयुते तद्राशिकोणे गुरौ
रागं तद्भावनांशकेऽमरगुरौ तातस्य नाशं वदेत् ॥ ६४॥
केन्द्रे चरेऽर्के चन्द्रे वा पितरौ न दहेत्सुतः ।
केन्द्रे द्विदेहगौ तौ चेन्मृत्युदाहौ द्विकालगौ ॥ ६५॥
अदृश्ययातौ पितृमातृनाथौ पित्रोर्मुखादर्शनदौ भवेताम् ।
पुत्राधिपोऽडृशुअगृहोपगस्चेत्पुत्राननादर्शनदोऽन्त्यकाले ॥ ६६॥
अथ बुद्धिविचारः ।
दुःस्थे बुद्धिस्थानपेऽदृश्यगे वा जातो मन्दप्रायबुद्धि समेति ।
केन्द्रे कोणे सौम्यवागिशयुक्ते वीर्योपेते बुद्धिमानिङ्गितज्ञः ॥ ६७॥
त्रिकालज्ञो भवेज्जीवे स्वाम्शे मृद्वंशसंयुते ।
गोपुराद्यंशके वाऽपि शुभंशे शुभवीक्षिते ॥ ६८॥
हृद्रोगी पङ्चमे पापे सपपे च रसातले ।
क्रूरषष्त्यंशसंयुक्ते शुभदृग्योगवर्जिते ॥ ६९॥
अथ पुण्यविचारः ।
अन्नदानपरो नित्यं पङ्चमेशे शुभांशके ।
शुभखेचरसंयुक्ते भूमिजे केन्द्रमाश्रिते ॥ ७०॥
इति पङ्चमभावफलानि ।
अथ षष्थभावफलम् ।
तत्रादौ रोगविचारः ।
रोगारिव्यसनक्षतानि वसुधापुत्रारितश्चिन्तये-
दुक्तं रोगकरं तदेव रिपुगे जीवे जितारिभवेत् ।
धण्ढोऽरीशबुधौ विधुन्तुदयुतौ लग्नेशसम्बधिनौ
लिङ्गस्यामयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः ॥ ७१॥
पत्नी षण्ढत्त्रमेति क्षतभवन्गते कामपे सासुरेज्ये
भौमे मन्देन दृष्टे रिपिभवनगते शत्रुभार्यमुपैति ।
सौम्यैर्दृष्टे युते वा न भयमरिजनाच्छत्रुभे जन्मलग्नात्
पापैः शत्रुक्षतादिव्रणभयविपुलं जायते लाङ्छनं वा ॥ ७२॥
षष्थे भास्वति लग्ननायकरिपौ नीचारिगे दुर्बले
जातस्तन्पितृवर्गशसहितो लग्नेशामित्रग्रहे ।
इष्टस्थानगते निजोच्चसुहृदां वर्गोपयाते सति
ज्ञातीनां बहुलं वदन्ति मुनयः शत्रुव्रणाभावभाक् ॥ ७३॥
शत्रस्थानगतोऽरिनीचगृहगो वक्रं गतो वाऽस्तगो।-
अनेकारातिजनो बहुक्षततदुः षष्थाधिपो वा तथा ।
षष्ठस्थानगतेषु भात्करमुखध्योमातनेषु क्रमात्
तत्तकारकखेटवर्गरिपुणा सम्पीढितः सन्ततम् ॥ ७४॥
पापव्योमचरास्त्रयोऽरिपतितत्प्राप्तेक्षका दुर्बला-
गोवित्तक्षयमामयं रिपुभयं कुर्वन्ति जन्मादितः ।
ते सर्वे बलशालिने यदि शुभा गोवित्तमश्वदिकं
राजान्नं सकलोपदंशसहितं रोगारिनाशं वदेत् ॥ ७५॥
तेषामम्बरचारिणामतिशुभौ केन्द्रत्रिकोणायगौ
द्वावेतौ बलशालिनौ यदि लघुव्याध्यादिनाशं नृणाम् ।
एकोऽपि प्रबलो यदि व्रणरिपुक्लेशादि किङ्चित् फलं
यत्तत्कारकवर्गमूलमखिलं भोदं प्रमादं तु वा ॥ ७६॥
पापे लग्नगते सपत्नपयुते देहव्रणं देहिनां
पुत्रस्थे पितृपुत्रयोः सुखगते मातुः कलत्रे स्नियाः ।
धर्मस्थे सति मातुलस्य सहजे तस्यानुजस्य व्रणं
लाभस्थे तु तदग्रजस्य निधने जातो गुदार्तो भवेत् ॥ ७७॥
भानुर्मूध्रि शशी मुखेऽवनिसुतः कण्ठे तु नाभेरध-
श्चन्द्रः सूरिरनामयं प्रकुरुते नेत्राभयं भार्गवः ।
मन्दो वातम्हिश्च केतुरुदरव्याधि बुधक्षेत्रगो
लग्नेशः शशिजेन वीक्षितयुतो गुह्यव्रणं यच्छति ॥ ७८॥
लग्नाइयद्राशिगते फणीशे शुक्रेक्षिते तत्तनुचिह्नमेति ।
मन्दाहियुक्ते रिपुराशिनाथे तुरङ्गपश्वादिभयं वदन्ति ॥ ७९॥
पापग्रहेण संदृष्टे बलहीनेऽरिनायके ।
पापान्तरगते वाऽपि शत्रुपीडा भविष्यति ।
शत्रुस्थानाधिपे दुःस्थे नीचमूढारिराशिगे ।
लग्नेशे बलसंयुक्ते शत्रुनाशं व्देद्बुधः ॥ ८०॥
षष्ठेशे गोपुरांशादौ दिवाकरनिरीक्षिते ।
लग्नेशे बलसम्पूर्णे ज्ञातीनामुपकारकृत् ।
इति श्रीनवग्रहपवा वैद्यनाथविरचिते
जातकपारिजाते त्रयोदशोऽध्यायः ॥ १३॥
अथ सप्तमाष्टमनवमभावफलध्यायः ॥ १४॥
तत्र सप्तमभावफलम् ।
यात्रापुत्रकलत्रसौख्यमखिलं सङ्चिन्तयेत्सप्तमा-
दुक्तं पुत्रसुखासुखागमफलं सर्वं च यत्तद्वदेत् ॥ १/२॥
जारः कामगते सिते मदनपे साहिध्वजे वा तवा
कामे जीवय्गीक्षिते शुभगृहे जातो न जारो भवेत् ॥ १॥
दुःस्थे कामपतौ तु पापगृहगे पापेक्षिते तद्युते
तज्जायाभवनस्य मध्यफलं सर्व शुभं चान्यथा ।
कामस्थानपतौ सितेन सहिते पापर्क्षगे कामधीः
सौम्यर्क्षे शुभखेटवीक्षितयुते जातः सितच्छत्रवान् ॥ २॥
वित्तास्तारिपभार्गवास्तनुगताः पापान्विताः कामुकः
पापव्योमचरान्वितौ तनुरिपुस्थानधिपौ चेत्तथा ।
कामस्थे रिपुवित्तलग्नपयुते पापे परस्त्रीरतः
पापारातिकलत्रपा नवमगाः कामातुरो जायते ॥ ३॥
जारः कर्मधनास्तपा दशमगाः पुत्रादिकारग्रहा-
दुःस्था धीगुरुकामपाः सुतगृहे पापेक्षितेऽनात्मजः
जीवज्ञौ यदिवा निशाकरसितौ कामे बहुस्त्रीरतः
शुक्रे मन्मथराशिगे बलवति स्त्रीणां बहुनां पतिः ॥ ४॥
शुक्रारौ मदगौ कलत्ररहितो धर्मात्मजस्थौ तथा
शत्रुस्थानगतौ निशाकरसितौ यद्येकपुत्रो भवेत् ।
लग्नास्तव्ययगेषु पापखेचरेष्विन्दौ सुते दुर्बले
वन्ध्यास्त्रीपतिरेव जातमनुजो जायविहीनोऽथवा ॥ ५॥
बन्ध्यापतिः सितरवी मदनोदयस्थौ चन्द्रेदये समगृहे लल्लनाकृतिः स्यात् ।
पुंराशिगे पुरुषभावयुतं कलत्रं स्त्रीपुंग्रहेक्षितयुते सति मिश्ररूपम् ॥ ६॥
भौमांशे वा भौमराशौ विलग्नात् कामस्थाने जन्मभे वा वधूनाम् ।
जाया दासी नीचमूढग्रहांशे दुष्टा वा स्याद्यैवने भर्तृहीना ॥ ७॥
शुभाम्शराशौ यदि सद्गुणाढ्या शुभेक्षिते चारुतरं कलत्रम् ।
चन्द्रांशके दुर्बलचन्द्रराशौ जाता पतिग्नी सबले तु साध्वी ॥ ८॥
अर्काशे कुलटा निजोच्चगृहगे साध्वी शुभालोकिते
लग्ने शीतकरेऽथवा मदनभे नीचारिमूढान्विते ।
पापव्यालविहङ्गपाशनिगलद्रेक्काणभागान्विते
सन्ध्यंशे विगतब्रता च विधवा जातस्य जाया भवेत् ॥ ९॥
कामस्थे तनुपे शुभग्रहयुते सद्वंशजामिच्छति
क्रूरर्क्षे मदगे विलग्नरमणे दुर्वशजाताङ्गनाम् ।
वर्णं रूपगुणाकृतिं च सकलं यतद्गृहोक्तं वदेत्
दुङ्यार्पारकरग्रहाकृतिनरप्रीतिं प्रयात्यङ्गना ॥ १०॥
पापाप्रकाशसंयुक्ते कलत्रे दुष्टचारिणी ।
रवौ बन्ध्या तु शीतांशौ क्षीणे तु व्यभिचारिणी ॥ ११॥
कुजे तु भ्रियते मन्दे दुर्भगाराहुसंयुते ।
परदारोऽरतिः स्वीयां निषेकाभावकोऽसुतः ॥ १२॥
धूमे विवाहहीनः स्यान्भ्रयते कार्मुके सति ।
परिवेषे तु दुःशीला केतौ बन्ध्या सती भवेत् ॥ १३॥
काले विदारः पापे तु गर्भस्त्रावेण संयुता ।
सुशीला स्त्री प्रसूता च पूर्यमाणे सुधाकरे ॥ १४॥
बुधे सुपुत्रा वागीशे गुणयुक्ता सुपुत्रिणी ।
शुक्रे सौभाग्यसंयुक्ता श्रीमती च बलान्विते ॥ १५॥
स्त्रीपुत्रपे बलिनिशोभनखेटदृष्टे षष्ठाधिपेन सहिते सति विक्षिते वा ।
जारेण पुत्रनिलाभमुपैति जाया तस्या धवो वहुकलत्रयुतोऽप्यपुत्रः ॥ १६॥
नीचे गुरौ मदनगे सति नष्ट्दारो मीने कलत्रभवने रविजे तथैव ।
मन्दारराशिनवभागगते सुरेज्ये जारो भवेदिनसुतारसमन्विते वा ॥ १७॥
सुवंशजातं प्रथमं कलत्रं लग्नेश्वरो दारपसंयुतश्चेत् ।
दिनेशकान्त्याभिहतस्तदानी स्वरूपहीनां सुतरां वदन्ति ॥ १९॥
वित्ते पापबहुत्वे च कलत्रेशे तथास्थिते ।
अशत्रुस्वानगते केतौ कलत्रत्रयभाग्भवेत् ॥ २०॥
केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे ।
कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत् ॥ २१॥
कलत्राधिपतौ केन्द्रे शुभग्रहनिरीक्षिते ।
शुभाम्शे सुभराशौ वा पत्नी व्रतपरायणा ॥ २२॥
दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे ।
पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात् ॥ २३॥
शुभांशे शुभ्संदृष्टे नाथे जाया सुवंशजा ।
पापारूढे पापवर्गे तस्य जाया कुवंशजा ॥ २४॥
कामस्थाने सखेटे सितयुतस्वचरैर्दरसंस्व्यां - वदन्ति
स्वोच्चस्वङ्षोमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा ।
जायाधीशे सितर्क्षे सति धनभवने शुक्रसंयुक्तसंख्या
शुक्रानङ्गेशयुक्तद्युचरनववधूवल्लभो जायते वा ॥ २५॥
दारेशेन कुटुम्बपेन सहिता यावद्ग्रहा दुर्बला-
स्तत्संख्याककलत्रनाशनकरा दुःस्थानाथा यदि ।
यावन्तो बलशालिनः शुभकरास्तत्तुल्यजायासुखं
कुर्वन्त्येकवियच्चरो बलयुतो यद्येकदारो भवेत् ॥ २६॥
अथ विवाहकाज्ञः ।
लग्नानङ्गपतिस्फुटैव्यगृहगे जीवे विवाहं वदे-
च्चन्द्राधिष्ठिततारकावधुपयोरैक्यांशके वा तथा ॥
जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः
स्वांशे द्वित्रिकलत्रवान् बहुवधुनाथः स्वतुङ्गांशके ॥ २७॥
कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः ।
दशागमे द्यूनयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥ २८॥
शुक्रोपेतकलत्रराशिपदशामुक्तोविवाहप्रदा
लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः ।
कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात्
कामेशेन यूतः कलत्रगृहगस्तत्पाकमुक्तौ तु वा ॥ २९॥
सौम्यवुओमचरः स्थितः शुभगृहे चादौ ददाति श्रियं
पापर्क्षे शुभखेचरो यदि दशामध्ये विवाहादिकम् ।
क्रूरः पापगृहोपगो यदि फलं पाकावसाने तथा
सौम्य्र्क्षे यदि सर्वकालफलदः सौम्यान्वितः शोभनः ॥ ३०॥
लग्नेश्वरस्थितनवांशपतिः स्वराशौ चन्द्रे पुरन्दरगुरौ च कलत्रलाभम् ।
कामेशसुक्रगृहगेऽमरमन्त्रिणिन्दौ केन्द्रेऽथवा गुरुयुते सति गोचरेण ॥ ३१॥
यसंख्याकमजादि कामभवनं तद्वत्सरे वा नृणां
साष्टाब्दे कृतभौङ्जिकर्मपरतः कन्यानकालो भवेत् ।
लग्नादस्तविलग्ननायकयुतक्षेत्रांशके सभवा
या सा भर्तृमनःप्रसादकरणि भर्ता तथैव स्त्रियाः ॥ ३२॥
कामान्वितेक्षकवियणरराशिजाता चन्द्रादतीव सुभगा च पतिप्रिया स्यात् ।
स्त्रीजातके च पतिरिष्टकरो वधूनां दिग्देशजा भृगुसुतादबलाधिपय ॥ ३३॥
अथ वरवधूजातकसंयोगः ।
धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा ।
तथिव कन्याजनजन्मलग्नपो यदि क्षमासूनुरनिष्टदः पतेः ॥ ३४॥
क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः ।
नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ ३५॥
द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुस्वकरौ तौ ।
ताद्राशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च ॥ ३६॥
कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे ।
कलत्रराशिर्यदि पुत्रशाली तदान्यराशिर्यदि पुत्रहीनः ॥ ३७॥
अथ स्त्रियाः स्तनविचारः ।
काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे
जीवेन्दुज्ञसितान्विते गुरुकुचा शुष्कस्तना भूमिजे ।
लम्बापीनपयोधरा सगुलिकच्छायासुताहिग़्ह्वजे
धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे ॥ ३८॥
अथ गम्यस्त्रीविचारणम् ।
बन्ध्यासङ्गमिनेऽस्तगे समवधूकेलि निशानायके
भूपुत्रे तु रजस्वलाजनरति बन्ध्यावधूमेति वा ।
वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणी
नीचस्त्रीरतिमर्कजोरगशिस्विप्राप्तेऽथवा पुष्पनीम् ॥ ३९॥
अथ स्त्रीसङ्गमे स्थानविचारः ।
क्रीडागरमिने वनं सुखगते चारु स्वगेहं विधौ
भूपुत्रे सति कुङ्यमिच्छति बुधे जातो विहारस्थलम् ।
जीवे देवगृअं सिते तु सलिलं मन्देऽथवा पत्नगे
केतौ भाधवशक्करप्रियसुतस्थानं वधूसङ्गमे ॥ ४०॥
शुक्रांशे मदनस्थितेऽवनिसुते कामाधिपे पङ्चमे
जायारिष्टमुपैति सप्तमगते भानौ कलत्रार्थवाण् ।
दुःस्थौ कामकुतुम्बपौ सभृगुजौ दुश्चिक्ययात् तु वा
तस्मद्ख्याककलत्रहा बलयुतौ वित्तास्तपौ दारवाण् ॥ ४१॥
अथ भगचुम्बनयोगः ।
जातः समेति भगचुम्बनसन्तनाथे शुक्रेण वीक्षितयुते भृगुमन्दिरे वा ।
एवं कुतुम्बभववाधिपतौ तथा स्याद् दारर्क्षगे दशमपे ससिते तथैव ॥ ४२॥
अथ स्त्रिया भगविचारः ।
कामेश्वरे देवगुरुः सितो वा समं भगं चारुतरं तरुण्याः ।
हस्वं भगं सप्तमराशिनाथे शनीन्दुतारासुतमध्याते ॥ ४३॥
दीर्घ समेति भगमस्तपतौ जलर्क्षे तत्कारके जलगृहोपगते तथैव ।
सार्द्रं भगं मदनगे भृगुवीक्षितेऽब्जे गुह्यं त्वनार्द्रमुपयाति वधूः सपापे ॥ ४४॥
लग्नेशस्थनवांशनाथगृहगे जीवे समेति स्त्रियं
नीचारातिनवांशके सति मृतस्त्रीको विदारेऽथवा ।
लग्ने कामपतिस्फुटादपह्वते राशित्रिकोणे गुरौ
लग्ने सप्तमराशिपस्फुटह्वते जीवे मृतिं योषितः ॥ ४५॥
लग्नात्कामपकारकौ शुभकरौ वीर्याधिके सप्तमे
पत्या साकमुपैति भृत्युमबला षापैर्युक्तेक्षिते ।
कामच्छिद्रदशापहारसमये शुक्राष्टवर्ग्र्दिते
राशौ भानुसुते कलत्र करणं जीवे तदाम्शान्विते ॥ ४६॥
मदनभवननाथे परिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते ।
दधिमधुधृतसूपक्षीरपकोपदंशैः सह शुचि रुचिरात्नं चारुकान्तामुपैति ॥ ४७॥
इति सप्तमभावविचारः ।
अथाष्टमभावफलम् ।
आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै-
रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः ।
चल्पायुर्व्ययगेऽथवा रिपुगते पापान्विते रन्ध्रपे
लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः ॥ ४८॥
स्वस्थे रन्ध्रपतौ चिरायुरुदयाच्छिद्राधिपौ षष्ठगौ
रिष्फस्थौ यदि वा समेति मनुजो जातश्विरायुर्बलम् ।
ज्यापारोदयरन्ध्रराशिपतयः केन्द्रत्रिकोणायगा
दीर्घायुविबलाः सभानुतनया यद्यल्पमायुर्वदेत् ॥ ४९॥
कर्मेशरन्ध्रतनुपा बलशालिनश्चेज्जातश्विरायु रिननन्दनयोगहीनाः ।
द्वावप्यतीव बलिनौ यदि मध्यमायुरेको बली तधुतरायुरनायुरन्यः ॥ ५०॥
रन्ध्राधिपे पापगृहोपयाते दुःस्थानगे पापयुतेऽल्पमायुः ।
शुभान्विते शोभनराशियुक्ते शुभेक्षिते रन्ध्रगते चिरायुः ॥ ५१॥
नाशस्थे तनुपेऽथवा निधनपे पापेन युक्तेक्षिते
मूढेऽदृश्यगतेऽथवा रिपुगृहे जातो गतायुर्भवेत् ।
जीर्घायुर्निजतुङ्गगे शुभयुते केन्द्रत्रिकोणेऽथवा
रन्ध्रे रन्ध्रपतौ चिरायुरुदयं यातो विलग्नाधिपे ॥ ५२॥
लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी
लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा ।
आधानोदयराशिऽष्ट्मगृहान्मेषुरणं जन्मभं
शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक् ॥ ५३॥
अथ मृत्युविचारः
रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं
मन्दाकान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा ।
पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा
खेटानां बलदुर्बलेन सकलं संचिन्त्य यत्तद्वदेत् ॥ ५४॥
लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा
होरारन्ध्रपसंयुतग्रहदशा जातस्य मृत्युप्रदा ।
तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां
खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात् ॥ ५५॥
व्यापाररन्ध्रतनुनाथशनैश्चराणां मध्ये विधुन्तुदयुतो विबलग्रहो यः ।
तत्पाकभुक्तिसमये मरणं नराणां तद्युक्तवीक्षकनभोगदशान्तरे वा ॥ ५६॥
नाशे नाशपतौ तु तद्ग्रहदशाभुक्तौ समेत्यामयं
लग्ने लग्नपतौ तु लग्नपदशाभुक्तौ शरीरातिभाक् ।
पश्चादामयनाशनं तनुसुखं मोदश्च सञ्जायते
रन्ध्रेशे बलसंयुते तनुपतेर्दाये मृतिर्देहिनाम् ॥ ५७॥
जातस्य जन्मसमये विबले विलग्ने लग्नेशरन्ध्रपतिपाकलतिव कष्टम् ।
पश्चादतीव सुखमेति विलग्ननाथे वीर्यान्विते निधनपस्य मृतिं दशायाम् ॥ ५८॥
देहेशे च विनाशपे बलयुते केन्द्रत्रिकोणस्थिते
तद्युक्तग्रहपाकभुक्तौसमये रोगापवादः फलम् ।
रन्ध्रेशस्तनुपश्च खेचरयुतौ केन्द्रत्रिकोणस्थितौ
रन्ध्रस्थानगतस्य पाकसमये मृत्युं समेति ध्रुवम् ॥ ५९॥
नो चेदष्टमखेचरौ यदि तनुप्राप्तेन सङ्चिन्तये-
न्मन्दे लग्नगतेऽथवाष्टभगते तत्पाकभुक्तौ मृतिः ।
रन्ध्रेशोदयनायकौ सखचरौ युक्तग्रहो दुर्बलो
यस्तस्य द्युचरस्य पाकसमये भुक्तौ च मृत्युं वदेत् ॥ ६०॥
लग्नात्पङ्चमराशिपेन सहितव्योमाटनानां दशा-
संख्याभानुह्वतावशेषगृहगे मृत्युं दनेशे सति ।
पुत्रेशो न वियच्चरेण सहितः स्वाब्देन सङ्चिन्तये-
ल्लग्नेशेन युताब्दमङ्गविहृतः संक्रान्तिपूर्वं दिनम् ॥ ६१॥
त्रिकोणे केन्द्रे वा यदि पितृतनुक्षेत्रपतयो
दशाभुक्तौ तेषामनुमरणमाहुर्मुनिगणाः ।
सभौमे मन्दाढ्ये फणियुजि तु वेन्दुअ निधनगे
त्वपस्मारस्तस्मान्मरणमथवेन्दौ कृशतनौ ॥ ६२॥
चन्द्रे वित्तगतेऽथवा निधनगे जातो बहुस्वेदवाम्
कर्मस्थानगते कुजे बुधयुते दुर्गन्धदेहो भवेत् ।
पापे रन्ध्रगते तु पापसहिते रोगप्रभादाकरः
सौम्यव्योमगृहेऽतिशोभनयुते जातः समोदः सुखी ॥ ६३॥
शीर्षोदयेषु चरभादिषु वित्तपस्य लग्नाधिपस्य भुजगस्य दशापहारे ।
पृष्ठोदये सति तदीयदृगाणपस्य तद्वीक्षितादिसहितस्य मृतिं वदेद्वा ॥ ६४॥
इति अष्टमभावफलविचारः
अथ नवमभावफलम् ।
भाग्यप्रमावगुरुधर्मतपःशुभानि संचिन्त्येन्नवमदेवपुरोहिताभ्याम् ।
भाग्येशदेवसचिवौ शुभवर्गयातौ भाग्ये शुभग्रहयुते समुपैति भाग्यम् ॥ ६५॥
पापारिनीचरविलुप्तकरा नभोगा भाग्यस्थिता यदि यशोधनधर्महीनाः ।
पापेऽपि तुङ्गजमित्रगृहोपगश्चेद्भाग्ये तु भाग्यफलदः सतत्ं नराणाम् ॥ ६६॥
सौम्यस्वामियुतेक्षितं नवमभं भाग्यप्रदं प्राणिनां
तद्राशीशसमेतराशिरमणो भाग्यस्य कर्त्ता भवेत् ।
भाग्येशाः परिपाचको भवति तत्पुत्रेश्वरो बोधक
स्तुङ्गस्वर्क्षगृहोपगो यदि चिरं भाग्ये प्रकुर्वन्ति ते ॥ ६७॥
भाग्यस्थे दशवर्गजोच्चभवनस्वांशस्थिते पङ्चके
भाग्यं श्रीविपुलं समेति नृपतिस्तत्स्वामियुक्तेक्षिते ।
चत्वारे बलशालिनो नवमगा भाग्यं प्रयच्छन्ति ते
तुङ्गस्वांशगताः स्वदेशविभवं त्वन्यत्र चान्याम्शगाः ॥ ६८॥
अथ नवमे गुरौ ग्रहदृष्टिफलानि ।
भाग्ये तत्पतोशोभनेक्षितयुते भाग्यं समेति ध्रुवं
धर्मे पापयुते भृगौ शशिनि वा जातो गुरुस्त्रीरतः ।
दृष्टेऽर्केण गुरौ नृपः क्षितिभुवां मन्त्री बुधेनार्थवान्
शुक्रेणाश्वपतिः सुखी तु शशिना मन्देन चोष्टादिभाख़् ॥ ६९॥
विद्वान् वारणगोतुङ्गधनवानिन्द्वर्कदृष्टे गुरौ
सेनावाहनरत्नवान्नवमगे जीवेकुजार्केक्षिते ।
विद्यावादविनोदवित्तविपुलः सूर्येन्दुजालोकिते
शुक्रादित्यनिरीक्षिते विनयवाग् जीवे तपःस्थानगे ॥ ७०॥
मन्ददित्यनिरीक्षिते गुणनिधिः प्राज्ञो बहुग्रामवान्
जीवे चन्द्रकुजेक्षिते पृथुयशाः सेनासुखश्रीयुतः ।
तारेशेन्दुप्रविलोकिते गृहसुखश्रेष्ठार्थशय्यासनः
शुक्रेन्दुप्रविलोकिते वितनयः शूरो धनी कर्मकृत् ॥ ७१॥
चन्द्रादित्यसुतेक्षिते तु गुणवान् वादी विदेशं गतो-
जीवे शुक्रबुधेक्षिते नवमगे विद्याधिको जायते ।
सर्वव्योमचरेक्षिते नरवरो राजा बहुद्रव्यवान्
सौभाग्याचरराज्यवित्तफलदाः सर्वे तपःस्थानगाः ॥ ७२॥
नवमे द्विग्रहयोगफलानि
भाग्यस्थे शशिनि प्रभाकरसुतज्ञारेक्षिते भूपति-
स्तुङ्गव्योमचरे तपःस्थलगते भूपः शुभालोकिते ।
सेन्दौ तिग्मकरे तु तत्र धनिको नेत्रामयार्त्तो भवेद्
दुःखी वादरतः कुजेन सहिते भानौ नृपालप्रियः ॥ ७३॥
भानौ सेन्दुसुते सपत्नबद्दुलो दुःस्वी रुगार्तः सदा
वागीशेन युते पितृप्रियकरो जातः स्वयं वित्तवान् ।
रोगी शुक्रयुते रवौ शनियुतेर्ग्णः पिता कुक्षिरुक्
चन्द्रे सावनिनन्दने तु जननीहन्ता धनत्यागवान् ॥ ७४॥
वाग्मी शास्त्रकलापवान् नवमगे चन्द्रे सतारसुते
सेन्दौ मन्त्रिणि धीरधीर्नरवरः श्रीमान् गुरुस्थानगे ।
तारेशे कुलतापतिः सभृगुजे सापत्नमातृप्रिय-
श्चन्द्रे मन्दयुते विधर्मगुणवान् माता कुलप्रच्युता ॥ ७५॥
शास्त्री भोगसुखी कुजे बुधयुते सेव्ये धनी पूजितः
शुक्रेण द्विवधूपतिः सहकुजे वादी विदेशं गतः ।
भौमे भानुसुतान्विते नवमगे पापी परास्त्रीरतः
सौम्ये सामरवन्दिते पटुमतिविद्वान् धनी पण्डितः ॥ ७६॥
प्राज्ञो गीतरतिप्रियः सभृगुजे चन्द्रात्मजे पण्डितः
सौम्ये मन्दयुते तु रोगितनुको वित्ताधिकोऽसत्यवाक् ।
जीवे शुक्रयुते चिरायुरधिकश्रीमान् समन्दे गुरौ
रोगीरत्नधनः सितेऽसितयुते भूपालतुल्यो भवेत् ॥ ७७॥
अथ नवमे त्रिग्रहयोगफलानि ।
रवीन्दुभौमा नवमोपयाता यदि क्षताङ्गः पितृमातृनः ।
हिंसी विकर्मा राविचन्द्रसौम्या रविन्दुजीवाः सुखवाहनाढ्यः ॥ ७८॥
चन्द्रार्कौससितौ वधूकलहकृद् राजप्रियो वित्तहा
भाग्यस्थौ रविशीतगू शनियुतौ भृत्यो विरोधि सताम् ।
रव्यारौ सबुधौ तु तत्र सुभगः क्रुद्धो विवादप्रियः
सेज्यौ देवपितृप्रियः सुतवधूवित्तान्वितो जायते ॥ ७९॥
सूर्यारौ ससितौ विवादनिरतः कोपी वधुदुषक-
श्छायासूनुयुतौ विबन्धुरधनोसाधुः पितुमारकः ।
धर्मस्थौ रविचन्द्रजौ गुरुयुतौ राजप्रियो वित्तवान्
साच्छ्यौ राजसम्ः सभानुतनयौ पापी परस्त्रीपतिः ॥ ८०॥
जीवार्कौ सितसंयुतौ परवधूसक्तो धनी पण्डितः ।
सार्की जीवदिवाकरौ यदि विटस्वामी तपःस्थानगौ ।
आदित्याप्तितभार्गवा नवमगा हीनो नृपैर्दण्डतो
बाल्ये तप्तमनाः सुखी च परतश्चन्द्रारशीतांशुजाः ॥ ८१॥
देवाराधनतत्परो नवमगैश्चन्द्रारवागीश्वरै-
र्जातो नष्टकलत्रवान् क्षततनुः शुक्रेन्दुभूनन्दनैः ।
क्षुद्रो मातृहरो महीपतिसमश्चन्द्रारसूर्याम्तजै-
राचार्यो धनवान् विभुश्च रजनीनाथज्ञदेवाचिंचतैः ॥ ८२॥
मातुः सपत्नीजनको विभुः स्यात् चन्द्रज्ञशुक्रा नवमोपयाताः ।
पापी विवादप्रियबुद्धियुक्तो जातः सुधारशिमबुधार्कपुत्राः ॥ ८३॥
चन्द्रामरेज्यौ ससितौ महीपः सार्कात्मजौ सद्गुणकर्मशीलः ।
मन्दज्ञशुक्रा नरपालतुल्यः कृषिक्रियावित्तपरो गुरुत्थाः ॥ ८४॥
राजप्रियो माण्डलिकः सजीवीभावस्थितौ भुसुतचन्द्रपुत्राम् ।
शास्त्री सशुक्रौ चपलश्च भीरुः सभनुजौ वाद समर्थः ॥ ८५॥
ख्यातो विद्वान् धर्मवान् जीवसौर्यौ धर्मस्थाने ॥। ।
विद्यावान्मी सासितौ धर्मरतो रा ॥॥॥॥॥॥॥॥॥। ॥ ८६॥
जातः साहसविक्रमार्जितधनः सूर्यरजीवार्कजैः
शूरः सर्वगुणप्रप[न्चरसिकः युक्रारजीवेन्दुभिः ।
षट्पङ्चत्रिचतुर्विशच्चरयुते भाग्ये समेति य्रियं
राजत्यं सबुधे विबोधनगुरौ जातः समेत्यश्रियम् ॥ ८७॥
जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहा पुरुषम् ।
व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥ ८८॥
भाग्याधिपे विनाशस्थे नीचसत्रुस्वगेक्षिते ।
क्रूरांशे नीचराश्यादौ भाग्यहीनो भवेन्नरः ॥ ८९॥
भाग्याधिपे शुभयुते शुभग्रहनिरिक्षिते ।
तद्भावे शुभसम्बन्धे तत्कीर्तिधनभाग्यवान् ॥ ९०॥
सिंहासनांशे तन्नाथे लग्नेशेन निरीक्षिते ।
कर्माधिपेन संदृष्टे ॥॥॥ऽकरो भवेत् ॥ ९१॥
जातः पुरोहितो ॥॥॥॥॥॥॥॥॥॥॥॥॥। ।
दानाध्यक्षोपकारी ॥। वर्णमेदविकल्पना ॥ ९२॥
गुरौ तद्भावसंयुक्ते नवांशाधिपतौ तथा ।
शुभग्रहेक्षिते वाऽपि गुरुभक्तियुतो भवेत् ॥ ९३॥
गुरुस्थाने सौम्ययुते गुरुवर्गसमन्विते ।
तदीशे गुरुभागस्थे गुरुभक्तिरतः सुखी ॥ ९४॥
गुरुशुक्रबुधांशस्थे धर्मनाथेन वीक्षिते ।
शुभग्रहाणां मध्यस्थे धर्मकृत्स नरो भवेत् ॥ ९५॥
धर्मे पापे पापभाक् स्यात् तदीशे पापसंयुते ।
क्रूरषष्ट्यंशके वाऽपि धर्महीनो भवेन्नरः ॥ ९६॥
बलवति शुभनाथे केन्द्रकोणोपयाते शुभशतमुपैआति स्वामिदृष्टे विलग्ने ।
सुरगुनवभागस्त्रीम्शदंशत्रिभागे दशमभवनपे वा वीतभोगस्तपस्वी ॥ ९७॥
सकलगगनवासाः स्वोच्चगा भाग्यराशौ धनकनकसमृद्धिं श्रेष्ठमुत्पादयन्ति ।
यदि शुभस्वचरेन्दैस्तत्र दृष्टा नभोगा विनिहातरिपुपक्षौ दिव्यदेहः सुकीर्तिः ॥ ९८॥
तातेशतत्कारकखेचरेन्द्रौ दुःस्थौ तयोः पुत्रमुखं न दृश्यम् ।
केन्द्रत्रिकोणे यदि तौ नभोगौ वदेतयोः पुत्रमुखं हि दृश्यम् ॥ ९९॥
इदनीं जातस्य पितुर्मरणं दिने रावौ स स्यादित्याह ।
पितुर्नशायां मरणं सुखेशशुक्रेन्दवः षष्ठगता बलाध्याः ।
नारीश्वरास्तन्भरणं तथैव चन्द्रेण हीनास्तु दिवा मृतः स्यात् ॥ १००॥
सौम्ये चराद्यभागस्थे भाग्येशे बलसंयुते ।
गुरुशुक्रयुते दृष्टे जपध्यानसमाधिमान् ॥ १०१॥
देवलोकदिभागस्थे कर्मेशे भाग्यपेऽपि वा ।
पारावतांशके सौम्ये ब्रह्मनिष्टापरो भवेत् ॥ १०२॥
पारावतादिभागस्थे धर्मेशे गुरुसंयुते ।
लग्नेशे गुरुसंदृष्टे महादाकरो भवेत् ॥ १०३॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते चतुर्दशोऽध्यायः ॥ १४॥
अथ दशमैकादशद्वादशभावफलाध्यायः ॥ १५॥
तत्र दशमभावफलम् ।
आज्ञामानविभूषणानि वसनव्यापारनिद्राकृषि-
प्रव्रज्यागमकर्मजीवनयशो।विज्ञानविद्याः क्रमात् ।
लर्मस्वामिदिनेशबोधनगुरुच्छायासुतैश्विन्तये-
दुक्तानि प्रविहाय पूर्वशुभे मानी विमानो भवेत् ॥ १॥
अथ कर्मविचारः ।
कर्मेशे बलवर्जिते चपलधीर्जतो दुराचारवान्
जीवज्ञासितभानवो विबलिनो दुःस्था विकर्मप्रदाः ।
गङ्गात्नानफलं समेति दशमे राहौ दिनेशेऽथवा
मीने कर्मणि चन्द्रजारसहिते जातः स भुक्तो भवेत् ॥ २॥
भानेश्वरे शुक्रयुते च केन्द्रे तुङ्गस्थिते ताद्दशतोयपूतः ।
व्यये बुधे तद्भवनाधिपे वा स्वोच्चान्विते ताद्दशपुण्यभाक् स्याट् ॥ ३॥
चन्द्रे कर्मणि जाह्नवीसलिलतः पूतो हि पूतद्युतौ
पापो यच्छति कर्मगो विबलवान् द्युतक्रियासाहसम् ।
सौम्या दुर्बलशालिनो दशम्गाः सत्कर्मविघ्वंसकाः
कर्मेशज्ञसुराचितैः क्रतुफलं सङ्चिन्त्य सम्यग्वदेत् ॥ ४॥
एकस्थौ तनुकर्मपौ यदि तयोरेकाधिपत्यं तु वा
जातः स्वार्जितसद्भनेन कुरुते यज्ञादिकर्मोत्सषम् ।
सार्कौ शूद्रधनेन साहिशिखिनि क्षुद्रैः सजीवे नृप-
स्तत्तत्कारकवित्ततो यदि युते रव्यादिभिः कर्मपे ॥ ५॥
बहुशुभयुजि नाने वाजपेयादिसिद्धिः सितवुधयुतराशिस्त्रामिनौ दुर्बलाध्यौ ।
यदि कृतसवनोऽपि प्राप्रकर्मप्रनष्टो भवति परमकर्मा दानवाचारशीलः ॥ ६॥
चन्द्रात् कर्मणि सोभने बलयुते तुङ्गादिवर्गस्थिते
वागीशेन युतेक्षिते नरवरो यज्वा यशस्वी भवेत् ।
जीवज्ञासुरपूजितस्थितगृहाधीशा विनाशं गता
जातः सत्फलकर्मवानपि कृतां कर्मश्रियं नाप्नुयात् ॥ ७॥
कर्मेशज्ञसुराचिंता बलयुत यज्ञादिसत्कर्मदाः
सौम्यव्योमचरेण वीक्षितयुतास्ते वाजपेयादिभाक् ।
जीर्णोद्भारणसुख्यगोपुरतटाकारामपुण्यप्रदा
यज्वा कर्मपतौ शुभे शशियुते माने विराहुव्यजे ॥ ८॥
उच्चस्थे ययिजेऽहिकेतुविशुते भाग्शोपशातेऽथवा
कर्मस्वामिनि भाग्शगे च मनुजो शागादिसत्कर्मवान् ।
कर्मेये निजतुङ्गे बुधयुते तारासुते चास्तगे
तुङ्गस्थानगते सति क्रतुफलं जातः समेति ध्रुवम् ॥ ९॥
कर्मस्थे शशिनिन्दने सवनकृत्साहिध्वजे कर्महा
कर्मेशे रिपुरन्ध्ररिष्फगृहगे कर्मावरोधी भवेत् ।
कर्मेशस्य बुधस्य कर्मभवने राहौ मस्वध्वसक-
स्तुङ्गस्थानगतोऽपि कर्मगृहपो दुःस्थानगः कर्महा ॥ १०॥
व्यापारधर्मभवते शुभखेटयुक्ते तन्नाथजीवतनुपा बलशालिनश्रेत् ।
आचारधर्मगुणकर्मविधिप्रयुक्तश्रद्धपरो भवति विप्रकुलाग्नगण्यः ॥ ११॥
ज्ञानव्योमाधिवासास्तनुगुरुदशमस्थानपाः षड्बलाढ्या
जातः षट्शास्त्रवेत्ता निखिलनिगमविज्ज्ञानदीक्षामुपैति ।
धर्मव्यापारलग्नाधिपबुधाचार्यपाकापहारे
सत्कर्माचारसर्वक्रतुफलनिगमज्ञानविद्याकरः स्यात् ॥ १३॥
चन्द्रे तृतीये जलराशियुक्ते करोति जीर्णोद्भरणादि पुण्यम् ।
तटाककूपादिकमत्र लग्नात् कर्मेश्वरे गोपुरभागयुक्ते ॥ १४॥
अथ प्रव्रज्यायोगः ।
जातः पङ्चचतुर्वियच्चरवरैः केन्द्रत्रिकोणस्थितै-
रेकस्थैर्बलिभिः प्रधानबलवत्खेटास्रमस्थो भवेत् ।
आदित्यासितजीवशुक्रधरणीपुत्रेन्दुताराहुतै-
र्वानप्रस्थविवासभिक्षुचरकाः शाक्त्यो गुरुर्जीवकः ॥ १५॥
वानप्रस्थस्तपस्वी वनगिरिनिलयो नग्नशिलो विवासा
भिक्षुः स्यादेकदण्डी सततमुपनिषत्तत्त्वनिष्टो महात्मा ।
नानादेशप्रवासी च्रकपतिवरः शाक्ययोगी कुशीलो
राजश्रीमान् यशस्वी गुरुरशनपरो जल्पको जीवकः स्यात् ॥ १६॥
कर्मस्था बलिनस्त्रयो गगनगाः खोच्चादिवर्गस्थिताः
कर्मेशश्व बलाधिको यदि यतिस्तत्तल्यशीलोऽथवा ।
कर्मेशे बलवर्जिते गृहगृहप्राप्ते दुराचारवान्
तद्योगप्रदमध्यगौ धनदस्थानाधिपौ कामधीः ॥ १७॥
तद्योगप्रदखेचरैरिनशनिक्षिओनीकुमारान्वितैः
सन्यास समुपैति वित्ततनयस्त्रीवर्जितो मानवः ।
सौम्यांशोपगतः सहस्रकिरणस्तुङ्गातभागस्थितं
खेटं पश्यति यौवने वयसि वा बाल्ये यतीशो भवेत् ॥ १८॥
शुक्रेन्दुप्रविलोकिते गतबले लग्नाधिपे निर्द्धनो
भिक्षुः स्याद्यदि तुङ्गभांशकयुतस्तारापति पश्यति ।
एकर्स्थैरविलोकिते तु बहुभिर्लग्नेश्वरे दीक्षित-
स्तद्योगप्रदभावकारकदशाभुक्तौ तदीयं फलम् ॥ १९॥
शीतांशुराशीशमिनात्मजो वा लग्नेश्वरः पश्यति दीक्षितः स्यात् ।
भौमर्क्षगे मन्ददृगाणभागे मन्देक्षिते शीतकरे यदिः स्यात् ॥ २०॥
जीवारमन्दलग्नेषु मन्ददृष्तियुतेषु च।
लग्नाद्धर्मगते जीवे नृपयोगेऽपि तीर्थकृत् ॥ २१॥
नवमस्थानगे चन्द्रे नभोगैर्नावलोकिते ।
नृपयोगेऽपि सङ्जातो दीक्षितो नृपतिर्भवेत् ॥ २२॥
सुरगुरुशशिहोरास्वाकिदृष्टासु धर्मे गुरुरथ नृपतीनां योगजस्तीर्थकृत् ।
नवमभव्नसंख्ये मन्दगेऽन्यैरदृष्टे भवति नरपयोगे दीक्षितः पार्थिवेन्द्रः ॥ २३॥
सितार्कभौमार्कसुता महाबलाः सुरेज्यभूनन्दनभानुभानुजाः ।
कुजेन्दुवागीशशनैश्वरा इमे समं गताश्चेज्जनयन्ति तापसम् ॥ २४॥
ग्रहैश्चतुर्भिः सहिते तदीशे केन्द्रत्रिकोणोपगतैस्तु मुक्तः ।
चतुर्ग्रहः कर्मगतैः प्रव्रज्यां प्राप्नोति जातः कथितो मुनीन्द्रैः ॥ २५॥
कुजार्कसोमार्कजदेवव्न्दितैः कुजार्कचन्द्रार्मजमन्दभार्गवैः ।
रवीन्दुभौमासितदानवप्रियैर्भवन्ति जाता व्रतसंयुता नराः ॥ २६॥
सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेज्यबुधार्कनन्दनैः ।
सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥ २७॥
चन्द्रेन्दुपुत्रारसुरेज्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभुमिजैः ।
एकर्क्षगैरेभिरिह प्रजाता भवन्ति विद्यामुनयोऽस्त्रदूषकाः ॥ २८॥
रवीन्दुभौमेन्दुजजीवभार्गवैः सुधाकराराकिंगुरुज्ञभास्करैः ।
कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्व्रती नरः ॥ २९॥
सितेन्दिजीवार्कजभानुलोहितैः सितार्किजीवार्कभृगाक्कसोमजैः ।
एकत्र शातैर्गगनाटनैः सदा भवन्ति जाता मुनशस्तपस्वनिः ॥ ३०॥
कुहज्ञवागीशसितासितारुणैः सितार्किजीन्दुजचन्द्रभूमिजैः ।
बलप्रधानैर्गनाटनैय्दा यदि प्रजातः पुरुषस्त्पस्विनाम् ॥ ३१॥
स्वीन्दुवाशदिनेशपुत्रैः शनैश्चरेन्द्वर्कसितैरवश्यम् ।
रवीन्दुपुत्रक्षितिजामरेज्यैस्तपस्विनो मूलफलाशनाः स्युः ॥ ३२॥
वक्रार्कसोमात्मजदानवेज्या भौमेन्दुवागीशशशाङ्कपुत्रा ।
एकर्क्षगा ज्न्मनि यस्य जन्तोर्भवेद्यती वल्कलभूतिधारी ॥ ३३॥
शशीन्दुसुनुक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेज्यसौराः ।
एकत्रगा यस्य नरस्य जातं कुर्वन्ति ते तापसमेव शान्तम् ॥ ३४॥
चन्द्रार्कभार्गवशशाङ्कसुत बलिष्ठा भौमेन्दुपुत्रसितभास्करनन्दनाश्च ।
मन्देन्दुधाक्पतिसिता नियतं यतीनां कुर्वन्ति जन्म कृतवल्कफलाशनानाम् ॥ ३५॥
रविशशिकुजशुक्रैश्चन्द्रभौमड्यसूर्यैर्गुरुसितरविमन्दैः शुक्रमन्देन्दुजीवैः ।
कुजबुधसितचन्द्रैरेभिरेकर्क्षयातैर्भवति गिरिवनैकास्तापसः सर्वयन्द्यः ॥ ३६॥
सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमगुरुशुक्रैः ।
रविकुजशनिबुधजीवैर्भवति यती दुःखितो दीनः ॥ ३७॥
कुजार्किदे ज्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः ।
नभश्चरैरेकगृहोपयातैर्जटाधरा वल्कलधारिणः स्युः ॥ ३८॥
भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः सूरेन्दुभौमगुरुशुक्रदिनेशपुत्रैः ।
प्राप्नोत्यवश्यमिह तापसरूपमेभिरेकर्क्षगैर्गगनचारिभिरायताक्षः ॥ ३९॥
न वीक्षितश्चेदितरग्रहेन्दैर्लग्नाधिपः पश्यति भानुपुत्रम् ।
लग्नाधिपं वा यदि भानुपुत्रः संन्यासयोगो हि बलेन हीनम् ॥ ४०॥
चन्द्रे भानुसुतेक्षिते रविसुतद्रेक्कणयाते तथा
भिक्षुर्मन्दनिरीक्षिते रविसुतक्षोणिसुतांशे विधौ ।
सन्यासप्रदखेचरः सगुलिकः साहिघ्वजो वा यदि
क्रूराम्शोपगतः करोति विगताचारं यतीनां ध्रुवम् ॥ ४१॥
रविलुप्तकरैरदीक्षिता बलिभिस्तद्गतभक्तयो नराः ।
अभियाचितमात्रदीक्षिता निहतैरन्यनिरीक्षितैरपि ॥ ४२॥
अथ जीविकायोगाः ।
अर्थाप्तिः पितृजननीसपत्नमित्रभ्रातृतकजनाहिवाकराद्यैः ।
होरेन्द्वोर्दशमगतैविकल्पनीया भेन्द्वर्कास्पदपतिगांशनाथवृत्त्या ॥ ४३॥
अर्थाप्तिं कथयेद्विलग्नशशिनोर्मध्ये बली यस्ततः ।
कर्मेशस्थनवांशराशिपवशाद् वृत्तिं जगुस्तद्विदः ॥ ४३ १/२॥
अथ ग्रहाणां वृत्तयः ।
भैषज्योर्णतृणाम्बुधान्यकनकव्यापारमुक्तादिकै-
रन्योन्यागमदूतवृत्तिभिरिनस्यांशो तु जीवत्यसौ ॥ ४४॥
जलोद्भवानां क्रयविक्रेण कृषेश्व मृद्वाद्यार्वनोदमार्गात् ।
राजाङ्गनासंश्रयवित्तरूपान्निशाकरांशे वसनक्रयाद्वा ॥ ४५॥
धातोविवादेन रणप्रकारात् स्तब्धाग्निवादात् कलहप्रवृत्त्या ।
जीवस्यसौ साहसमार्गरूपाद् धरासुतांशे यदि चौरवृत्त्या ॥ ४६॥
शिल्पादिकाव्यागमशास्त्रमार्गाज्ज्योतिर्गणज्ञानवशाद् बुधांशे ।
परार्थवेदाध्ययनाज्जपाच्च पुरोहिताद्याज्यवशात् प्रवृत्तिः ॥ ४७॥
जीवांशके भृसुरद्वतानामुपासनाध्यापकरूपमार्गात् ।
पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशैरकुसीदमाहुः ॥ ४८॥
सुवर्णमाणिक्यगजाश्वमूलाद् गवां क्रयाज्जीवनमाहुरार्याः ।
गुडौदनक्षारदधिक्रयेण स्त्रियाः प्रलोभेन भृगोः सुतांशे ॥ ४॥
शन्याम्शके कुत्सितमार्गवृत्त्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ।
विन्यस्तभाराज्जनविप्रलम्भादन्योन्यवैरागममार्गमूलात् ॥ ५०॥
सौम्यैश्चतुष्केन्द्रगृहोपयातैः कुलोत्तमा वंशकरा नृपालाः ।
सर्वज्ञधीवित्तयशोगुणाढ्या नरा नृपप्रीतिकराश्च वा स्युः ॥ ५१॥
कर्मकर्माशगाः सौम्या जातः पुण्यरतः सदा ।
पापिनः पापकर्मात्मा चन्द्राद्वा यदि जायते ॥ ५२॥
कर्मराश्यंशपो यत्र तदीशः पापखेचरः ।
भूमादिग्रहसम्बन्धी यदि पापरतो भवेत् ॥ ५३॥
सिद्धारम्भः कर्मगे चन्द्रलग्नाद्भानौ भौमे साहसी पापबुद्धिः ।
विद्वान् सौम्ये वाक्पतौ राजतुल्यः शुक्रे भोगी भानुजे शोकतप्नः ॥ ५४॥
चन्द्रात्कर्मगते रवौ सरुधिरे मत्तः परस्त्रीरतो-
ज्योतिर्विञ्च सचन्द्रजे जलधनस्त्रीपूषणादिप्रियः ।
सिद्धार्थो नृपसंमतश्च सगुरौ शुक्रेण युक्ते नृप-
प्रीतिस्त्रीधनवृद्धिभाक् शनियुते दीनो दरिद्रो भवेत् ॥ ५५॥
चन्द्रात्कर्मणि भूसुते बुधयुते शाश्त्रोपजीवी भवेत्
सेज्ये नीचजनाधिपः सभृगुजे वैदेशिकः स्याद्वणिक् ।
सार्कौ साहसिकोऽसुतश्च शशिनः कर्मस्थिते बोधने
सेज्ये षण्डतनुश्च दीनवष्टनः ख्यातो नृपाल्प्रियः ॥ ५६॥
मान्दे चन्द्रमओ बुधे सभृगुजे विड्यावधूवित्तवान्
सार्कौ पुस्तफलैस्वकश्च विषमाचारप्रवृत्तोऽधवा ।
जीवे शुक्रयुते तु विप्रजनपो भूपप्रियः पण्डितः
सार्कौ सर्वजनोपतापचतुरो जातः स्थिरारम्भधीः ॥ ५७॥
सुगन्धनीलचूर्णादिचित्रकारो भिषग्वणिक् ।
कर्मस्थानगते मन्दे सासुरेज्ये निशाकरात् ॥ ५८॥
अथ आज्ञविचारः ।
आज्ञास्थानाधिपे सौम्ये शुभयुक्तेक्षितेऽपि वा ।
शोभनांशगते वाऽपि जातस्त्वाज्ञधरो भवेत् ॥ ५९॥
आज्ञाधिपे मन्दयुते रन्ध्रनाथेन वीक्षिते ।
क्रूरांशे केन्द्रराशौ वा क्रराज्ञां प्रकरोति सः ॥ ६०॥
अथ किर्तिं-मान-कृषि-व्यापार-निद्राविचारः ।
कर्कटस्थे निशानाथे गुरुशुक्रनिरीक्षिते ।
पारावतादिभागस्थे सत्कीर्तिधनवान् भवेत् ॥ ६१॥
मानेशे शुभसंयुक्ते शुभमध्यगतेऽपि वा ।
शुभग्रहांशके वाऽपि कीर्तिमानभिमानवान् ॥ ६२॥
पापेक्षिते कर्मणि पापयुक्ते मानाधिपे हीनबलोपयाते ।
जातोऽपवदी विगताभिमानः स्वकर्मतेजोबलकीर्तिहीनः ॥ ६३॥
कर्मेशतग्नवांशेसौ सनिसम्बन्धसंयुतौ ।
षष्ठाधिपयुतौ दृष्तौ बहुदारान्वितो भवेत् ॥ ६४॥
भूसूनुक्षिदिटिराशिपौ च बलिनौ केन्द्रत्रिकोणायगौ
कर्मेशे भृउचन्द्रविक्षितयुते कृष्यादिगोवित्तवान् ।
सम्बन्धी यदि कर्मणीः शशिसुतो वाणिज्यशीलः सदा
सौम्यासौम्ययुते तु सात्त्विकतमोनिद्री विमिश्रेऽन्यथा ॥ ६५॥
अथ लाभभावफलम् ।
लाभस्थनेन लग्नादस्वि(खि)लधनचयङप्तिमिच्छन्ति सर्वे
लाभस्थानोपयातः सकलबलयुतः खेचरो वित्तदः स्यात् ।
भानुश्चेज्ज्ञातिवर्गादतिघनमुडुपो मातृवर्गेण भौमः
स्वोत्थाच्चान्द्रिर्यर्दीष्टप्रभुविबुधसुहृन्मातुलैर्वित्तमेति ॥ ६६॥
जीवो यच्छति वेदशास्त्रयजनाचारादिपुत्रैर्द्धनं
शुक्रः स्त्रीजनकाच्यनाटककलासङ्गितविद्यादिभिः ।
दासीदासकृयाजितधनं धन्यं समृद्धि शनि-
र्विग्नादिद्युचरेण वीक्षितयुते विप्रादयो वित्तदाः ॥ ६७॥
आयस्थः शुभखेचरः शुभधनं पापस्तु पापार्जितं
मित्रैश्रमिश्रधनं समेति भनुजस्तज्जातकोक्तं वदेत् ।
लाभस्थानगतः समस्तगुणवानिष्टाधिकश्चेद्बली
जातो यानविभूषणाम्बरवधूभोगादिविद्याधिकः ॥ ६८॥
वित्तेशायगृहाधिपौ तनुपतेरिष्टग्रहौ चेद्धनं
सत्कर्मामराविप्रपुण्यविषये दानादियोग्यं वदेत् ।
आयस्थो विबलः परार्जतबलो नीचारिदुःस्थानपो
रेकायोगकरो यदि प्रतिदिनं कुर्वीत भिक्षाटनम् ॥ ६९॥
लाभेशे दिनपेऽथवा शशधरे भूपालतुल्याश्रयाद्
भौमे मन्त्रिजनग्रजानुककृषिद्वारैर्धनं लभ्यते ।
विद्याबन्धुसुतैः सुधाकरसुते जीवे निजाचारतः
शुक्रे रत्नवधूगजादिपशुभिर्मन्दे कुवृत्त्या श्रियम् ॥ ७०॥
लाभस्थानपतौ विलग्नभवनात् केन्द्रत्रिकोणस्थिते
लाभे पापसमन्विते तु धनवान् तुङ्गादिराश्यंशके ।
तत्तत्कारकवर्गतो बलवशाद् योगानुसारं वदेत्
तत्तत्खेटदशापहारामये वित्तं वदेत्तद्दिशि ॥ ७१॥
इति लाभभावविचारः ।
अथ व्ययभवाफलम् ।
क्रूरग्रहे बलवति व्ययगेऽरिनाशस्थानाधिपे कृषिधनस्थितिनाशकः स्यात् ।
रिष्फे चतुर्द्विपदभे सह तत्पदेन खेटेन सर्वपशुंभृत्यविनाशमेति ॥ ७५॥
विप्रादिखेचरयुते सति विप्रमुख्यैः स्त्रीवर्गतस्तु तरुणिस्वचरेण युक्ते ।
रिष्फे नरग्रहयुते रिपुणा सुहृद्भे जातः सुहृज्जनवशाद्भननाशमेति ॥ ७६॥
अथ दानविचारः ।
त्यागी शुभग्रहयुते कृषकश्च धर्मी पापेऽवसानगृहगे तु विवादशीलः ।
नेत्रामयः पवनकृच्चपलोऽटनः स्यादुच्चस्वमित्रभवने तु परोपकारी ॥ ७७॥
भानुर्वा कृशशीतगुर्व्ययगतो वित्तस्य नाशं नृपै-
र्भौमो नाशयतीन्दुजेक्षितयुतो नानाप्रकारिर्द्धनम् ।
वागीशेन्दुसिता यदि व्ययगता वित्तस्य संरक्षकाः
सौम्यः शुक्रयुतेक्षितो यदि नृणां शव्यासुखं जायते ॥ ७८॥
अथ शयनविचारः ।
व्ययेशे स्वोच्चराशिस्थे शुभवर्गसमन्विते ।
शुभखेचरसंदृष्टे पर्यङ्कशयनं वदेत् ॥ ७९॥
विचिन्नमज़्न्चे शयनं व्ययेशे परमोच्चगे ।
भाग्यनाथेन वा दृष्टे मणिरत्नविभूषितम् ॥ ८०॥
शुक्रे वा रविनन्दने हिमकरे रन्ध्रत्रिकोणस्थिते
तद्गेहे शिथिलीभवेन्नृपतनं जातस्य केत्वन्विते ॥ ८१॥
अथ गतिधिचारः ।
मन्दाहिघ्वजसंयुते तु निघनस्थानाधिपेनान्विते
रिष्फे दुर्गतिमेति षष्ठपतिना दृष्टेऽथवा मानवः ।
जातो याति परं पदं सुरगुरौ लग्ने भृगौ कामगे
कन्यस्थे रजनीकरे यदि धनुर्लग्ने च मेषांशके ॥ ८२॥
दुस्थे दुष्तगृहाधिपे बलयुते तद्भावपुष्टीं वदे-
दायुःस्यानपतौ तु यत्र विषले तद्भावनाशं तथा ।
लग्नेषः शुभखेटवीक्षितयुतो यद्भावयातो वल्ली
तद्भावस्य शुभं करोति विपुलं नीचारिगस्त्वन्यथाम् ॥ ८३॥
इति श्रिनवग्रहकृपवा वैद्यनाथविरचिते जातकपारिजातेपञ्चदशो।आध्यायः ॥ १५॥
अथ स्त्रीजातकाध्यायः ॥ १६॥
स्त्रीबलारोग्यसन्तानविद्याकीतिविवर्द्धनम् ।
तिथिमग्रहसंयुक्तं जातकं ब्रमहे वयम् ॥ १॥
अर्थार्जने सहायः पुरुषाणमापदर्णवे पोतः ।
यात्राकाले मन्त्री जातकमपहाय नास्यपरः ॥ २॥
श्रीमज्जातलपत्रिका परहितं व्योमाधिवासस्फुटैः
पङ्चाङ्गद्युचराष्टवर्गसहितस्थानादिषड्वीर्यजैः ।
आयुर्गोचरयोगभावजफलैः सार्द्धं दशाचक्रज्ञै-
र्दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकीर्तिदा लिख्यते ॥ ३॥
स्त्रीणां जन्मफलं नृयोगमुदितं यत्तत्पतौ योजयेत्-
तासां देहशुभाशुभं हिमकराल्लग्नाच्च वीर्याधिकात् ।
भर्तृणामगुणं गुणं मदगृहाच्छिद्राच्च तेषां मृतिम्
सौम्यासौम्यबलाबलेन सकलं सङ्चिन्त्य सर्वं वदेत् ॥ ४॥
स्त्रीणां जन्मनि लग्नशीतकरयोर्मध्ये बली यस्ततः
सम्पद्रूपबलानि तन्नवमतः पुत्रायवृद्धिं वदेत् ।
सौमङ्गल्यप्रनिष्टमष्टमगृहाद् भर्तृश्रियं सप्तमात्
केचिद्भर्तृशुभाशुभं शुभगृहादिच्छन्ति होराविदः ॥ ५॥
वैधव्यं निधनेन लग्नभवनात्तेजो यशः सम्पदः
पुत्रं पङ्चमभावतः पतिसुखं कामेन केचिद्विदुः ।
प्रव्रज्यामपि योषितामतिसुखं धर्मोपयातग्रहैः
शेषं भावजयोगजन्यमखिलं नारीनराणां समम् ॥ ६॥
यमे लग्ननिशाकरौ यदि वरस्त्री रूपशिलान्विता
सौम्यालोकितसंयुतौ गुणवती साध्वी च सम्पद्युता ।
ओजर्क्षे पुरुषाकृतिश्च चपला पुंश्चेष्टित पापिनी
पापव्योमचरेण वीक्षितयुतौ जाता दुराचारिणी ॥ ७॥
लग्नेन्दू विपमर्क्षगौ शुभयुतौ सौम्यग्रहालोकितौ
नारी मिश्रगुणाकृतिः स्थितिगतिप्रक्षावती जायते ।
युग्मागारगतौ तु पापसहितौ पापेक्षितौ वा तथा
तद्राशीशयुतेक्षकग्रहबलादाहुः समस्तं विदः ॥ ८॥
ओजे विलग्ने पुरुषैर्बलिष्ठैर्बलान्वितैश्चन्द्रबुधासुरेज्यैः ।
सामान्यशक्तौ सति सूर्यपुत्रे जाता हि तस्था बहवो धवाः स्युः ॥ ९॥
युग्मे विलग्ने कुजसौम्यजीवशुक्रैर्बकिष्ठैः खलु जातकन्या ।
विख्यातनाम्नी सकलार्थतत्त्वबुद्धिप्रसिद्धा भवतीह साध्वी ॥ १०॥
सौरे मध्यबले बलेन अहितैः शीतांशुशुक्रेन्दुजैः
शेषैर्वीर्यसमन्वितैः पुरुषीणी यद्योजराश्युद्रमे ।
जीवारास्फुजिदैन्दवेषु बलिषु प्राग्लग्नराशौ समे
विख्याताखिलशास्त्रयुक्तिकुशला स्त्री ब्रह्मवादिन्यपि ॥ ११॥
अथ त्रिंशामशफलम् ।
लग्ने भौमगृहं गते शशिनि वा वीर्याधिके भूसुते
त्रिंशांशप्रभवाऽबला यदि दुराचारप्रयुक्ता भवेत् ।
प्रेष्या भानुसुतांशके गुणवती साध्वी च जीवांशके
सौम्यांशे मलिना सितांशजवधूर्जारव्रताचारिणी ॥ १२॥
लग्ने भार्गवराशिगे कलहकृद् दुष्टा कुजस्यांशके
साध्वी पुत्रवती पुरन्दरगुरोरंशे पुनर्भूः शनेः ।
सौम्यस्यांशसमुद्भवाऽखिलकलासङ्गीतवाद्यप्रिया
शुक्रांशे बुधवल्लभा च सुभगा लोकप्रिया जायते ॥ १३॥
त्रिंशांशेऽवनिजस्य बोधनगृहे लग्ने तु पुत्रान्विता
मन्दांशे विधवाऽथवा मृतसुता क्लीबाकृतिस्थाऽसनी ।
जैवे भर्तृपरा बुधस्य तरुणी विख्याततेजस्विनी
शौक्रे चारुतराम्बराभरणगोवित्तप्रसिद्धा भवेत् ॥ १४॥
लग्ने चन्द्रगृहं गते बलवति क्षोणिसुतस्यांशके
जाता जारविनोदशीलरसिका पापेक्षिते शीतगौ ।
विश्वस्ता रवीजस्य निर्जजरगुरोरल्पायुरल्पात्मजा
बौधे शिल्पकलावती भृगुसुतत्रिंशांशके कामुकी ॥ १५॥
भानुक्षेत्रगते तनौ शशिनि वा भूनन्दनस्यांशके
नारी पुम्प्रकृतिस्थिता च कुलटा मन्दांशके दुःखिता ।
जीवांशे नृपवल्लभा गुणवती सौम्यस्य पुंश्चेष्टिता
दुष्टा चासुरवन्दितस्य कुपतिस्नेहान्विता रोगिणी ॥ १६॥
वागीशस्य गृहोदये वसुमतीपुत्रस्य भागोद्भवा
विख्याता परिवारिणी रविसुतस्यांशे दरिद्रा भवेत् ।
जीवांशे धनवस्त्रभूषणवती सौम्यस्य सम्पूजिता
साध्वी दानवमन्त्रिणः सुतवती सद्वस्त्रभूषान्विता ॥ १७॥
लग्ने मन्दगृहे बलिन्यवनिजत्रिंशांशके शोकिनी
मन्दांशे सति दुर्भगा निजकुलाचारानुरक्ता गुरोः ।
सर्वज्ञा कुलटा बुधांशजनिता शुक्रस्य बन्ध्या सती
लग्नेन्दुस्फुटयोगतस्तु सकलत्रिंशांशजं वा वदेत् ॥ १८॥
आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भूर्भवेत्
क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रोज्भिता ।
अन्योन्यांशकयोः सितावनिजयोरन्यप्रसक्ताङ्गना
द्यूने वा यदि शीतरश्मिसहिते भर्तुस्तदाऽनुज्ञया ॥ १९॥
स्वैरिणी चा पति स्यक्त्वा सर्वणं कामतः श्रयेत् ।
अक्षतं च प्रजाद्वारं पुनर्भूः संस्कृता पुनः ॥ २०॥
सौरार्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं पुंश्चली पापदृष्टे ।
कौजे स्वांशे सौरिणा व्याधियोनिश्चारुश्रोणी वल्लभा सद्ग्रहांशे ॥ २१॥
बलहीनेऽस्तगे पापे सौम्यग्रहनिरीक्षिते ।
पत्या विसृजते नारी नीचारिस्थे च वैरिणी ॥ २२॥
उत्सृष्टा मदनस्थिते दिनकरे शत्रुग्रहालोकिते।
अविश्वस्ताऽवनिजे वधूरमणयोरन्योन्यवैरं तु वा ।
सौम्यासौम्ययुते कलत्रभवने जाता पुनर्भूः शनौ
कामस्थे रिपुवीक्षिते त्वविधवा जाता जरां गच्छति ॥ २३॥
पापर्क्षे मदनस्थिते शनियुते वैधव्यमेत्यङ्गना
जारासक्तविलासिनी सितकुजावन्योन्यराश्यंशगौ ।
चन्द्रे कामगृहं गते तु पतिना सार्द्धं दुराचारिणी
मन्दारर्क्षविलग्नौ शशिसितौ बन्ध्या सुतस्थे खले ॥ २४॥
कलत्रराश्यांशगते महीजे मन्देक्षिते दुर्भगमेति कन्या ।
कलत्रांशके सौम्यदृशा समेते कलत्रराशौ पतिवल्लभा स्यात् ॥ २५॥
भौमागारविलग्नगौ शशिसितौ नारी पतिद्वेषिणी
चन्द्रज्ञौ परतत्त्ववादचतुरा भौमेन्दुजौ भोगिनी ।
चन्द्रज्ञासुरवन्दिता यदि सुखद्रव्यान्विता लग्नगा
वागीशो यदि लग्नगः सुतनया प्रज्ञाविभूषान्विता ॥ २६॥
तुङ्गथा गगनाटनाः शुभकरा रन्ध्रे सपापे वधू-
र्वैधव्यं समुपैति पापभवने पापग्रहालोकिते ।
रन्ध्रेशांशपतौ खले च विधवा निसंशयो भामिनी
सौम्यै रन्ध्रगतैः समेति तरुणी प्रागेव मृत्यु पतेः ॥ २७॥
भग्यास्थाः शुभखेचराः स्मरगते पापेऽष्टमस्थेऽथवा
भर्तृश्रीबहुपुत्रसौख्यविभवैः सार्द्ध चिरं जीवति ।
क्रूरैर्बन्धुगृहोपगैर्बहुसुतप्राप्ता भवत्यङ्गना
चापे वा कटकोदये पतिसुतप्राप्ता दरिद्रान्विता ॥ २८॥
गोसिंहालिवधूदये सुतगते चन्द्रेऽल्पपुत्रान्विता
पापिरस्तशुभोदयाष्टमगतैर्दारिद्रयशोकाकुला ।
सौम्यासौम्ययुतैश्च मिश्रफलिनी सौम्यैः शुभश्रीयुता
पुत्रेशेऽरिगते लग्नौ रिपुपतौ शस्त्रेण मृत्युर्भवेत् ॥ २९॥
करग्रहैरस्तगतैः समस्तैर्विलग्नराशेर्विधवा भवेत्सा ।
मिश्रैः पुनर्भूरिह जातकन्या पत्युज्भिता हीनबलैरसद्भिः ॥ ३०॥
स्त्रीजन्मलग्नान्मदगे शशाङ्के शुक्रारयुक्ते यदि जातकन्या ।
सा पत्यनुज्ञापरगामिनी स्यात्सौरारभांशोपगते तथैव ॥ ३१॥
सौरारभांशोपगतग्रहेषु शुक्रेन्दुयुक्तेश्वशुभेक्षितेषु ।
जाता कुलाचारगुणैर्विहीना मात्रा च साकं व्यभिचारिणी स्यात् ॥ ३२॥
क्षितितनयनवांशे लग्नतः सप्तमस्थे दिनकरबुधदृष्टे व्याधियोनिः प्रजाता ।
शुभकरनवभागे सप्तमस्थानसंस्थे सुभगसुतवती सा चान्यथा दुर्भगा स्यात् ॥ ३३॥
कामासक्तमनस्विनी च विधवा पापद्वये सप्तमे
पश्चार्खामिवधं करोति कुलटा पापत्रये चास्तगे ।
राजामात्यवराङ्गना यदि शुभे कामं गते कन्यका
मारस्थे तु शुभत्रये गुणवती राज्ञी भवेद् भूपतेः ॥ ३४॥
अन्योन्यांशगतौ सितार्कतनयावन्योन्यदृष्टौ तु वा
कुम्भे चाष्टमभागजातवनिता कामाग्नितप्ता भवेत् ।
वैधव्यं समुपैति चन्द्रभवनात् क्रूरे मदस्थानगे
चन्द्रादस्तगृहोपगः शुभकरो राज्यापदं यच्छति ॥ ३५॥
स्त्रीजन्मलग्ने शशिशुक्रयुक्ते कोपान्विता सा सुखभागिनी स्यात् ।
सर्वत्र चन्द्रे सति तत्र जाता सुखान्विता वीतरतिप्रिया स्यात् ॥ ३६॥
शुक्रेन्दुभे रूपगुणाभिरामा कलावती जीवबुधोदये तु ।
लग्नस्थिता जीवबुधासुरेज्या जाताङ्गना सर्वगुणप्रसिद्धा ॥ ३७॥
वाचस्पतौ नवमपङ्चमकेन्द्रसंस्थे तुङ्गादिके भवति शीलसमन्विता च ।
साध्वी सुपुत्रजननी सुखिनी गुणाढ्यां नूनं कुलद्वययशत्करिणी भवेत्सा ॥ ३८॥
यदि शुभकरदृष्टा शिल्पिनी शुद्धचित्ता सततमिह सलज्जा चारुमूतिः सुपुत्रा ।
बहुधनशुभयुक्ता वल्लभे व्रजति शुभशतानां भाजनत्वं च होरा ॥ ३९॥
चन्द्रे कर्कटकोदये च बलिभिः शुक्रज्ञजीवेन्दुभि-
र्नानाशास्त्रकलारसज्ञचतुरा विख्याततेजखिनी ।
कामस्थैरथवा विलग्नभवनाद्धर्मस्थितैः खेचरैः
प्रव्रज्याभुपयाति जन्मसमये पाणिग्रहे चिन्तयेत् ॥ ४०॥
पापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन ।
उद्वाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतन् ॥ ४१॥
जन्मन्युद्धाहकाले च चिन्तायां वरणे तथा ।
स्त्रीणां चिन्ता बुधेनोक्ता घटते तत्पतिष्वपि ॥ ४२॥
क्रूरेऽष्टमे विधवता निधनेश्वरांशे यस्य स्थिते वयसि तस्य समे प्रदिष्टा ।
सत्स्वर्थगेषु मरणं स्वयमेव तस्याः कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ ॥ ४३॥
रन्ध्रे मिश्रबले शुभाशुभखगैरालोकिते वा युते
दम्पत्यो समकालमृत्युमखिलज्योतिर्विदः संविदुः ।
एकस्थौ मदलग्नपौ यदि वा लग्नस्थिते कामपे
कामस्थे तनुपे शुभग्रहयुते मृत्युस्तयेस्तुल्यतः ॥ ४४॥
सत्स्वर्थगेषु स्वयमेव सा स्त्री विपद्यते तत्परिपाककाले ।
रन्ध्रस्थतन्नाथतदंशपानां दशापहारे मृतिमाहुरार्याः ॥ ४५॥
सहजभवननाथे पुङ्ग्रहे पुङ्ग्रहर्क्षे पुरुषस्वचरयुक्ते पुङ्ग्रहालोकिते वा ।
नय्नभवनकेन्द्रे कोणगे वा बलिष्टे बहुधनसुखवन्तं सोद्रं याति जाता ॥ ४६॥
सहोदरस्थानपलाभनाथौ विलग्नतः पङ्चमराशियातौ ।
नृपालतेजोगुणरूपवन्तं सहोदरं जातवधूः समेति ॥ ४७॥
अथ् पतिलक्षणम् ।
यस्या मन्मथमन्दिरे गतबले शून्ये खलालोकिते
सौम्यव्योमनिवासदृष्टिरहिते भर्ता नरः को भवेत् ।
क्लीबः स्यान् पतिरस्तगे शशिसुते सार्कात्मजे दुर्भगा
बन्ध्या वा तरुणी चरे मदगृहे नित्यं प्रवासान्वितः ॥ ४८॥
स्वांशे भास्वति कामगे मृदुरतिक्रीडाविनोदी पति-
श्चन्द्रे सौख्यमुपैति भूमितनये जारे वधूतत्परः ।
विद्वान् चन्द्रसुते जितेन्द्रियवरो जीवे मदस्थानगे
शुक्रे कान्तवपुः सुखी च रविजे वृद्धोऽतिमूर्खो भवेत् ॥ ४९॥
स्थान्मार्दवाङ्गो गुणवान्प्रगल्भो जामित्रराश्य्ंशकजा तु थाऽस्याः ।
सौरेऽस्तगे स्वांशगृहोपयाते वृद्धोऽतिमूर्खः पतिरेव तस्याः ॥ ५०॥
दुःस्थौ धर्मगृहेशदेशदेसचिवौ भर्ता गतायुर्भवेद्
दीर्घायुर्धनवांस्त्रिकोणगृहगौ केन्द्रस्थितौ वा यदि ।
विद्वान् बोधनवाहनेशसहितौ सारार्कजौ कर्षकः
स्वर्भानुध्वजसंयुतौ यदि खलः सारीश्ररश्चोरराट् ॥ ५१॥
गौराङ्गः पतिरस्तगे दिनकरे कामी सरोषेक्षण-
श्चन्द्रे रूपगुणान्वितः कृशतनुर्भोगी रुगार्तो भवेत् ।
नम्रः क्रूररसोऽलसः पटुवचाः संरक्तकान्तिः कुजे
विद्यावित्तगुणप्रपङ्चरैकः सौम्ये मदस्थानगे ॥ ५२॥
दीर्घायुर्नृपतुल्यवित्तविभवः कामी च बाल्ये गुरौ
कान्तो नित्यविनोदकेलिचतुरः काव्ये कविः श्मापतिः ।
मन्दे वृद्धकलेवरोऽस्थिरतनुः पापी पतिः कामगे
राहौ वा शिखिनि स्थिते मलिनधीर्नीचोऽथवा तत्समः ॥ ५३॥
दिग्देशस्थितिधर्मकर्मजगुणाः पङ्चातके योषितां
ये नारीजनजातके निजपतौ संयोजितास्तत्वतः ।
द्युणांशोपगतग्रहेषु बलवत्खेटांशतुल्याः सुताः
केन्द्रे कामपतिः करोति विपुलं कल्याणकालोत्सवम् ॥ ५४॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते षोडशोऽध्यायः ॥ १६॥
अथ कालचक्रदशाध्यायः ॥ १७॥
प्रणम्य परमात्मानं शिवं परमकारणम् ।
खेचरं चक्रमध्यस्थं चतुःषष्टिकलात्मकम् ॥ १॥
पप्रच्छ देवदेवेशमीश्चरं सर्वमङ्गला ।
कालचक्रगतिं सर्वां विस्तराद्वद मे प्रभो ॥ २॥
इश्वर उवाच ।
अहमादित्यरूपोऽस्मि चन्द्रमास्त्वं प्रचक्षसे ।
संयोगेन वियोगेन जगत्स्थावरजङ्गमम् ॥ ३॥
पङ्च प्राचीरालिखेद्वाणसङ्गयास्तिर्यग्नेखा वर्जतान्तश्चतुष्काः ।
प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूबराद्याः ॥ ४॥
धराजशुक्रज्ञशशीनसौम्यसितारजीवार्कजमन्दजीवाः ।
क्रमेण मेषादिकराशिनाथास्तदंशपाश्चेति वदन्ति सन्तः ॥ ५॥
भूतैकविंशद्रिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ ६॥
अश्वीपुनर्वसूहस्तमूलप्रोष्ठपदादिषु ।
अंशकान् गणयेन्मेषात्प्रादक्षिण्यक्रमं वदेत् ॥ ७॥
रोहिणीमघवैशाखवैष्णवादिषु भेषु च ।
अंशकान् वृश्चिकादीनां गणयेदपसव्यतः ॥ ८॥
दक्षिणाभिकनक्षत्रं द्वादशांशकराशिषु ।
चक्रं प्रदक्षिणिकृत्य मीनान्ते विन्यसेत्पुनः ॥ ९॥
उत्तरात्रयनक्षत्रं वृश्चिकाद्यप्रदक्षिणम् ।
कृत्वा चापान्तकेऽन्यस्मिज्ज्ञातव्ये दक्षिणोत्तरे ॥ १०॥
सव्यापसव्यमार्गेण चाश्च्विन्यादि त्रिकं त्रिकम् ।
देहादि गणयेत्सव्ये वामे जीवादि गण्यते ॥ ११॥
मेषगोयमकुलीरमन्दीरेष्वंशकेषु परमायुच्यते ।
ज्ञानकं मदगजास्तदा क्रमात्तत्र कोणभवनेषु तद्वदेत् ॥ १२॥
एवमायुः परिज्ञानं देहजीवौ प्रकल्प्य च ।
सव्ये तु प्रथमांशस्तु देह इत्यभिधीयते ॥ १३॥
जीवः सर्वेष्वन्त्यपादौ विलोममपसव्यके ।
देहजीवे यदा राहुः केतुभौमो रविः स्थितः ॥ १४॥
तदा तस्मिन्भवेन्मृत्यु रोगः प्रवर्तते ।
देहजीवगृहं यातः सौम्यो जीवश्च भार्गवः ॥ १५॥
सुखसम्पत्करं सर्वं शोकरोगविनाशनम् ।
मिश्रखेचरसंयुक्ते मिश्रं फलमवाप्नुयात् ॥ १६॥
सिंहावलोकसमये मण्डुकगतिसम्भवे ।
अपमृत्युभयं तस्मिन् प्रायश्चित्ताद्विमुच्यते ॥ १७॥
मीनात्त वृश्चिके यते ज्वरं भवति देहिनाम् ।
पाथोनात्कर्कटे याते मातृबन्धुवधूमृतिः ॥ १८॥
कर्कटात्तु हरौ याते व्रणरोगं वदेद् बुधः ।
सिंहात्तु मिथुनं याते स्वस्त्रीव्याधिर्मृतिर्भवेत् ॥ १९॥
पुत्रबन्धुमृं विद्याच्चापान्मेषं गते पुनः ।
शुभग्रहेऽस्त्मिन्नभयं पापग्रहयुते भयम् ॥ २०॥
कन्यायाः कर्कटे याते पूर्वभागे महान्भवेत् ।
उत्तरां दिशमाश्रित्य शुभयात्रां गमिष्यति ॥ २१॥
सिंहात्तु मिथुनं याते पूर्वभागं विवर्जयेत् ।
कार्यारम्भे तु नैर्कृत्यां सुखयात्रां गमिष्यति ॥ २२॥
कर्कटादक्षिणे सिंहे कार्यहानिश्च रोगकृत् ।
दक्षिणां दिशमाश्रित्य पञ्चदागमनं भवेत् ॥ २३॥
मीनास्तुवृश्चिके क्रान्ते उदग्गच्छति सङ्कटम् ।
चापान्मेषे भयं यात्रा व्याधिर्बन्धुमृतिर्भवेत् ॥ २४॥
तत्र सम्पद्विवाहादि शुभं भवति पश्चिमे ।
शुभारूढे नृपप्रीतिं सर्वसम्पत्करं नृणाम् ॥ २५॥
देहो मेषश्चापसिंहाजभानां जीवश्चापी गोवधूनक्रमानाम् ।
आकोकेरो देहसंज्ञो नृयुग्मम् जीवः सव्ये चापसव्ये विलोमात् ॥ २६॥
उक्षा देहो युग्मकोणं गतानां जीवं युग्मागारमाहुर्मुनीन्द्राः ।
मीनो जीवः कर्कटो देहराशिः सव्ये चक्रे कर्किकीतान्त्यभानाम् ॥ २७॥
देहजीवसमायुक्तैर्भौमार्किरविभोगिभिः ।
एकैकयोगे मरणं बहुयोगे न संशयः ॥ २८॥
देहयुक्ते महारोगं जीवयुक्ते महद्भयम् ।
द्वाम्यां संयोगमात्रेण इन्यते नात्र संशयः ॥ २९॥
अदिरोगो भवेद् द्वाम्यामपमृत्युस्त्रिभिर्भवेत् ।
चतुर्भिमृतिरापन्ना देहजीवे भवेद्यदि ॥ ३०॥
युगपदेहजीवौ तु पापग्रहयुतौ तथा ।
राजचोरादिभीतिश्च द्वाभ्यां मृत्युर्न संशयः ॥ ३१॥
अग्निबाघां रवौ विद्याच्चन्द्रे ज्वलनबाघनम्
भौमे शस्त्रकृता पीडा वायुबाधाकरं बुधे ॥ ३२॥
गुरौ चोदरबाघा स्यात् शुक्रेऽग्निभयमाप्नुयात् ।
शनौ गुल्मेन बाधा स्याद् राहौ विषकृतां रुजम् ॥ ३३॥
भ्रातृस्थानगतो जीवो दारस्थानगतः कुजः ।
तथा जन्मगतो मन्दो राहुर्नवमराशिगः ॥ ३४॥
चन्द्रोऽष्टमगृहं यातः सूर्यो रिष्फगृहं गतः ।
बुधः सप्तमभावस्थो भार्गवः शत्रुराशिगः ॥ ३५॥
इत्येवं मरणस्थानं तस्मिन्पापयुतेऽथवा ।
पापदृष्टेऽरिनीचस्थे दुर्बले दुःखमाप्नुयात् ॥ ३६॥
अथ देहजीवफलम् ।
भानुः करोति विविधापदमर्थनाशमातिज्वरारिजनभीतिपदच्युतिं च ।
पित्तारिगुल्मग्रहणीक्षयकर्णरोगं पश्चादिबन्धुमरणं सह्जादिनाशम् ॥ ३७॥
इति सूर्यफलम् ।
चन्द्रः स्वबन्धुनजसङ्गमकन्यकाप्तिमारोग्यभूषणसुखाम्बरराजपूज्यम् ।
दानक्रियादिसुरभूसुरपुण्यतीर्थस्नानार्चनं मृदुसुखान्नसुखं करोति ॥ ३८॥
इति चन्द्रफलम् ।
भौमः करोति तनुतापरुगग्निचोरभीतिं स्वबन्धुकलं सहजादिनाशम् ।
क्षेत्रार्थनाशपदविच्युतियुद्धनीतिं गुल्मार्शकुष्ठविषशत्रुभयं कुवृत्तिम् ॥ ३९॥
स्वरमासुरिकापैत्त्यं ग्रन्थिस्फोटं कुजस्य च ।
विषाग्निनशस्त्रचोरारिनृपभीतिं वदेद् बुधः ॥ ४०॥
इति भौमफलम् ।
सौम्यः करोति सुहृदाप्तमहत्प्रसादविज्ञानशीलनिगमागमशास्त्रबोघम् ।
स्त्रीपुत्रदारनृपभूषणगोगजाश्चलाभं विवेकधनबुद्धियशोऽभिवृद्धिम् ॥ ४१॥
इति बुधफलम् ।
जीवः विविधार्थसुखं महत्त्वं राज्याभिषेकमवनिप्रभुपूजनाद्यम् ।
स्त्रीपुत्रलाभसुखभूषणभोजनार्थमारोग्यकीर्तिविजयं च परोपकारम् ॥ ४२॥
इति गुरुफलम् ।
शुक्रः करोति रतिलाभसुखाङ्गनादिचित्राम्बरार्थपशुवाहनरत्नजालम् ।
गानक्रियानटनगोष्ठिमहत्प्रतापं सत्कीर्तिदानविभवं सुजनैः समाजम् ॥ ४३॥
इति शुक्रफलम् ।
मन्दः करोति कलहं तनुकृच्छ्नमृत्युबन्ध्वातिमग्निरिपुभूतभयं विघातिम् ।
मानार्थहानिमभिमानकलत्रपुत्रनाशं गृहार्थकृषिवाणिजगोविनाशम् ॥ ४४॥
इति शशिफलम् ।
राहौ देहेऽरिपीडाऽत्मबन्धुकष्टपरिभ्रमम् ।
पक्षाघातादिपीडां च राजभीतिं वदेन्नृणाम् ॥ ४५॥
इति राहुफलम् ।
केतौ चोराग्निपीडादिरक्तस्त्रावादिपीडनम् ।
दारिद्रयं बन्धुनाशं च स्थाननाशं धनक्षयम् ॥ ४६॥
इति केतुफलम् ।
अथ चक्रदशाफलम् ।
लग्नचक्रदशाकाले देहारोग्यं महत्सुखम् ।
कीतिभूषणराज्यार्थसुतदाराम्बरायतिम् ॥ ४७॥
शुभक्षेत्रे शुभं सर्वं पापर्क्षे फलमन्यथा ।
तद्वत्पापसमायुक्ते शुभयुक्ते शुभादिकम् ॥ ४८॥
स्वक्षेत्रतुङ्गमित्रस्थखेचरेण सम्न्विते ।
विलग्नचक्रपाके तु राज्यार्थनृपपूजनम् ॥ ४९॥
नीचमूढारिराशिस्थखेचरेण समन्विते ।
पुत्रदारादिनाशं च मिश्रे मिश्रफलं वदेत् ॥ ५०॥
इति लग्नफलम् ।
द्वितीयराशिचक्रे तु धनधान्यविवर्धनम् ।
भोजनं सुतदाराप्तिं क्षेत्रगोनृपपूजनम् ॥ ५१॥
विद्याप्तिं वक्पटुत्वं च सद्गोष्ठया कालयापनम् ।
शुभर्क्षे फलमेवं स्यात्पापर्क्षे फलमन्यथा ॥ ५२॥
इति द्वितीयफलम् ।
तृतीयराशिचक्रस्य परिपाके महत्सुखम् ।
भक्ष्यभोज्यफलाप्तिं च शौर्यं धैर्य मनोजयम् ॥ ५३॥
कर्णाभणरवस्त्राप्तिं कण्ठभूषणमायतिम् ।
अन्नपानादिसम्पत्तिं शुभराशौ शुभं वदेत् ॥ ५४॥
इति तृतीयफलम् ।
वतुर्थराशिचक्रस्य पाके वाहनभूषणम् ।
सीमाप्ति तीर्थयात्रादिमहज्जननिषेवणम् ॥ ५५॥
चित्तशुद्धिं महोत्साहं स्त्रीसुनाप्तिं कृषिक्रियाम् ।
बन्धुक्षेत्राभिवृद्धिं च गृहलाभं महत्सुखम् ॥ ५६॥
आरोग्यमर्थलाभं च सुगन्धाम्बरभूषणम् ।
शुभर्क्षे शोभनं विद्यात्पापर्क्षे सर्वनाशनम् ॥ ५७॥
इति चतुर्थफलम् ।
सौतिराश्यत्मके चक्रे राज्याप्तिं राजपूजनम् ।
स्त्रीसुताप्तिं महाधैर्यमारोग्यं बन्धुपोषणम् ॥ ५८॥
अग्नदानं यशोलाभमानन्दाब्धिमहोदयम् ।
उपकर्तृत्वमर्थाप्तिं वाहनाम्बरभूषणम् ॥ ५९॥
शुभपापर्क्षजं सर्वं ग्रहयोगादिसम्भवम् ।
पूर्ववद्योजयोत्तत्र चरराशौ वदेद् द्युतिम् ॥ ६०॥
इति सुतफलम् ।
चक्रस्य षष्ठ्राशेस्तु पारिपाकेऽग्निजं भयम् ।
चोरारिविषभूपार्तिस्थाननाशं महद्भयम् ॥ ६१॥
प्रमेहगुल्मपाण्ड्वादिग्रहणिक्षयसम्भवम् ।
अपकीर्तिः कलत्रार्थे सुतब्न्धुविनाशनम् ॥ ६२॥
बन्धनानि गरप्राप्तिमृणदारिद्रयपीडनम् ।
पापर्क्षे फलमेवं स्यान्मिश्रं शुभगृहे सति ॥ ६३॥
इति षष्ठफलम् ।
कलत्रराशिचक्रस्य परिपाके करग्रहः ।
स्त्रीसुखं पुत्रलाभं च घतसूपगुडादिकम् ॥ ६४॥
कृषिगोगजभूषाप्तिं राजपूजां महद्यशः ।
शुभराशौ फलं सत्यं शुभखेचरसंयुते ॥ ६५॥
इति सप्तमफलम् ।
मृत्युर्चक्रदशाकाले महद् दुःखं धनक्षयम् ।
स्थाननाशं बन्धुनाशं गुह्योदरनिपीडनम् ॥ ६६॥
दारिद्रयमग्नविद्वेषमन्नाभावमरेर्भयम् ।
पापर्क्षे पापसंयोगे फलमेवं विनिर्दिशेत् ॥ ६७॥
इत्यष्टमफलम् ।
शुभचक्रदशाकाले शोभनं भवति ध्रुवम् ।
पुत्रमित्रकलत्रार्थकृषिगोगृहभूषणम् ॥ ६८॥
सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।
शुभराशौ शुभं सर्वं पापराशौ विपर्ययः ॥ ६९॥
इति नवमफलम् ।
कर्मचक्रदशाकाले राज्याप्तिं नृपपूजनम् ।
सत्कीतिदारपुत्रात्मबन्धुसङ्गं महोत्सवम् ॥ ७०॥
आज्ञाधरत्वमारोग्यं सद्गोष्ठया कालयापनम् ।
सत्कर्मफलमैश्वयर्यं शुभराशौ वदेद् बुधः ॥ ७१॥
इति दशमफलम् ।
लाभचक्रदशाकाले धनाप्यारोग्यभूषणम् ।
विचित्रवस्त्वागमनं गृहोपकरणं लभेत् ॥ ७२॥
स्त्रीपुत्रबन्धुसौख्याप्तिमृणद्रव्यायति शुभम् ।
राजप्रिति महत्सङ्गं परवदन्ति शुभोदये ॥ ७३॥
इति लाभफलम् ।
व्ययच्क्रदशाकाले देहातिं स्वपदच्युतिम् ।
चोराग्निनृपकोपादिबन्धुत्रीनृपपीडनम् ॥ ७४॥
उद्योगभङ्गमालस्यं कृषिगोभूमिनाशनम् ।
दारिद्र्यं कर्मवैकल्यं पापर्क्षे तु न संशयः ॥ ७५॥
इति व्ययफलम् ।
अथ चक्रदशाफलेषु विशेषः ।
लग्नादिद्वादशान्तानां भावानां फलमीदृशम् ।
प्रोक्तमत्र विशेषोऽस्ति विशेषात्कथ्यतेऽधुना ॥ ७६॥
तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ।
राशीश्वरे बलयुते स्वोच्चमित्रस्ववर्गके ॥ ७७॥
मित्रान्विते शुभैर्दृष्टे यत्प्रोक्तं तच्छुभं वदेत् ।
बलहीनेऽरिनीचस्थे दिनेशकरपीडिते ॥ ७८॥
षष्ठाष्टम्व्ययस्थाने पापशत्रुनिरीक्षिते ।
तद्राशिपे तु जनने कष्टं राश्युद्भवं फलम् ॥ ७९॥
फलं तद्विगुणं कष्टं शुभं राश्युद्भवं फलम् ।
अधिपस्य बलं हीनं यदि चानर्थमाप्नुयात् ॥ ८०॥
अधिपस्य बलाधिक्यं राश्युद्भवफलं शुभम् ।
यदि चेद् द्विगुणं सौम्यं फलत्येव न संशयः ॥ ८१॥
अधिपे चरराशिस्थे चरराश्यंशकेऽपि वा ।
चररायुद्भवं चक्रं विदेशगमनप्रदम् ॥ ८२॥
यावच्चक्रं तदा ज्ञेयं यद्येकस्मिन् चरे सति ।
विदेशगमनं वाऽपि स्वस्थानाप्तिं विनिर्दिशेत् ॥ ८३॥
संग्याव्याये च यत्प्रोक्तं कर्माजीवे च यत्फलम् ।
फलमाश्रयजं यद्यस्त्गनजन्यं च यत्फलम् ॥ ८४॥
यत्प्रोक्तं राजयोगादौ चान्द्रयोगे च यत्फलम् ।
नाभसादिषु यत्प्रोक्तं शुभपापेक्षणादपि ॥ ८५॥
द्विग्रहादिषु यत्प्रोक्तं ग्रहाणां पूर्वसूरिभिः ।
तद्राशिचक्रकाले तु स्वधिया योगयेद् बुधः ॥ ८६॥
मेषादिराशिचक्रं तु भूभागे न्यस्य दक्षिणम् ।
अल्यादि ह्यैत्तरं यश्च तच्चक्रं तत्र निर्दिशेत् ॥ ८७॥
फलं वा विफलं वाऽपि प्रागादिद्युचरादधः ।
राशिदिग्भागतो वाऽपि तदिग्भागे विनिर्दिशेत् ॥ ८८॥
यथोपदेशमार्गेण सर्वेषां फलमीदृशम् ॥ १/२॥
अथ त्रिविधकालचक्रगतिः ।
कालचक्रगतिस्त्रेधा निश्चिता पूर्वसूरिभिः ॥ ८९॥
मण्डूकगमनं चैव पृष्ट्ःअतो गमनं तथा ।
सिंहावलोकनं नाम पुनङ्गमनं भवेत् ॥ ९०॥
पृष्ठतो गमनं चैव कर्किकेसरिणोरपि ।
मीनवृश्चिकयोश्चाप्मेषयोः केसरी गतिः ॥ ९१॥
कन्याकर्कटयोः सिंहयुग्मयोर्मण्डुकी गतिः ॥ १/२॥
सिंहावलोकसमये त्वरातिस्थाननाशनम् ॥ ९२॥
बन्धुस्नेहादिनाशं च समानजनपीडनम् ।
जले वा पतनं कूपे पिषशस्त्राग्निजं भयम् ॥ ९३॥
बाहनात्पतनं वाऽपि दशाच्छिद्रान्विते सति ।
क्रूरास्तनीचापचयखेचरस्य दशा यदि ॥ ९४॥
दशाच्छिद्रमिति ज्ञेयं प्रवदन्ति विपश्चितः ॥ १/२॥
मण्डूकगतिसम्भुतसमये मरणं गुरोः ॥ ९५॥
पित्रोर्वा विषशस्त्राग्निज्वरचोराग्निभिभयम् ।
मण्डूकसमये सव्ये समानजनपीडनम् ॥ ९६॥
केसरीयुग्ममण्डूके मातुर्मरणमादिशेत्
मरणं राजभीतिं च सन्निपातमरेर्भयम् ॥ ९७॥
सव्ये सिंहावलोके तु चतुष्पाद्भयमग्निजम् ।
पृष्ठतो गमतो सव्ये धनधान्यपशुक्षयः ॥ ९८॥
पितुर्मरणमास्यं तत्समानेषु वा मृतिः ।
मण्डूकगमने वामे श्रीसुतातिपरिश्रमम् ॥ ९९॥
पापज्वरं मृगाद् भीतिं पदच्युतिमरेर्भयम् ।
सिंहावलोकने वामे स्थानभ्रंशः पितुर्मृतिः ॥ १००॥
पृष्ठतो गमने वाऽपि जलभीतिं पदच्युतिम् ।
पितुर्नाशं नृपक्रोधं दुर्गारण्याटमं वदेत् ॥ १०१॥
अथ कालचक्रदशाप्रकारः ।
दस्त्रानलादितिभुजङ्गदिनेशभानां पूषासुंराजपदविश्वसमीरणानाम् ।
वाक्यानि सव्यगतिचक्रभवादिकानि चत्वारि सर्वमुनयः प्रवदन्ति तज्ज्ञाः ॥ १०२॥
चित्राहिर्बुघ्न्यभरणीपूर्वाषादेन्द्रमन्त्रिणाम् ।
सव्यचक्रान्त्यवाक्यानि चत्वारि क्रमशो विदुः ॥ १०३॥
द्विदैवकमलागारपितृदानववैरिणाम् ।
अप्सव्यस्य चक्रस्य वाक्यं चादिचतुष्टयम् ॥ १०४॥
जलेशमित्रेन्द्रमृगश्रविष्ठाभगार्यमाशङ्करतारकाणाम् ।
अन्त्यानि वाक्यान्यपसव्यजानि चत्वारि चक्रो॥।तनि चाहुः ॥ १०५॥
अथ सव्यचक्रवाक्यानि ।
पौरङ्गावोमातासहोधी ॥ १॥ नक्षत्रदासीचर्वणगः ॥ २॥
रूपोत्रक्षुनिघायरङ्गम् ॥ ३॥ वाणी चस्थन्दधिनक्षत्रम् ॥ ४॥
हंसश्चवशांबरपत्रम् ॥ ५॥ क्षन्नाधीकरगोभीमाच ॥ ६॥
सुदधिनक्षत्रजः सितः ॥ ७॥ वामाङ्गारकोत्रक्षु नधिः ॥ ८॥
अथापसव्यचक्रवाक्यानि ।
धनक्षेत्रपराङ्गमिव ॥ १॥ तासादत्रक्षुर्निधिर्हासा ॥ २॥
चर्मीभोगीरायधनर्क्षम् ॥ ३॥ त्रयोरागीमाभेतासह ॥ ४॥
त्रक्षुनिदिर्हासस्तमेव ॥ ५॥ गिरायुधनक्षत्रपरः ॥ ६॥
गोमावाचीसदात्रिक्षुन्ने ॥ ६॥ धीजः सितोभिवाङ्गारिका ॥ *॥
अथ कालचक्रदशावर्षाणि ।
भूतैकविंशद्रिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ १०६॥
अथान्तर्दशाप्रकारः ।
दशां दशान्दैः सङ्गण्य सर्वायुः संख्यया हरेत् ।
लब्धमन्तर्दशा ज्ञेया वर्षमासदिनार्दकाः ॥ १०७॥
चक्रेशाब्दा भुक्तिराशीश्वराब्दैर्हत्वा तत्तद्राशिमानायुराप्ताः ।
अब्दा मासा वासरा नाडिकाद्या दुःस्थानेशा दुःखरोगाकरा स्युः ॥ १०८॥
इत्थं महादायदिनं महाब्दैः सङ्गण्य तत्रान्तरदास्तु दाये ।
पुनस्तदा तत् परमायुरब्दह्वतं दशास्वन्तरगा दशा स्यात् ॥ १०९॥
विनाडीकृत्य नक्षत्रं स्वैः संवत्सरैः पृथक् ।
दायैः सङ्गण्य सर्वायुराप्तं सूक्ष्मदशाफलम् ॥ ११०॥
ग्रहवत्सरवासरा हृताः परमायुष्यसमाभितध्रुवैः ।
निजवर्षगुणाः स्वपाकदा इति पाकेष्वखिलेषु चिन्तयेत् ॥ १११॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते सप्तदशोऽध्यायः ॥ १७॥
अथ दशापहलाध्यायः ॥ १८॥
दशानुसारेण फलं वदन्ति मुनीश्वरा जातशुभाशुभं यत् ।
सारं समुद्रधृत्य तथैव वक्ष्ये भेदं यथाविस्तरतो दशायाम् ॥ १॥
बलानुसारेण यथा हि योगो योगानुसरेण दशाभुपैति ।
दशाफलः सर्वफलं नराणां वर्णानुसरेण यथा विभागः ॥ २॥
अथ विंशोत्तरी महादशा ।
आदित्यचन्द्रकुजराहुसुरेशमन्त्रिमन्दज्ञकेतुभृगुजा नव कृतिकाद्याः ।
तेनो नयः सिनदयातटघन्यसेव्यसेनानरा दिनकरादिदशाब्दसंख्याः ॥ ३॥
अथ दशापतेः शुभाशुभस्वम् ।
आरोहवीर्याधिकभावतुल्यबिन्वाधिकाः कर्मभवोदययाः ।
तुन्गादीवर्गोपगता लभोगाः षड्वीर्यवन्तश्च शुभप्रदाः स्युः ॥ ४॥
मान्दिराशिपतिमान्दिभावगाः स्वल्पबिदुरिपुनीचमूढगाः ।
पापखेटयुतभावसन्धिगा राशिसन्धिलवगास्त्वनिष्टकाः ॥ ५॥
दशापतिर्लग्नगतो यदि स्यात् त्रिंषड्दशैकादशगश्च लग्नात् ।
तसप्तवर्गोऽपिअथ तत् सुहृदा लग्ने शुभो वा शुभदा दशा स्यात् ॥ ६॥
दशादिनाथस्य सुहृद्गृहस्थतदुच्चगो वाऽथ् दशाधिनायात् ।
स्मरत्रिकोणोपचयोपगश्च ददति चन्द्रः खलु सत्फलानि ॥ ७॥
उक्तेषु राशीसू गतस्य विघोः स भावः स्याज्जन्मकालभवमूर्तिघनादिभावः ।
तत्तत्प्रवृद्धिकृदसौ केथितो नराणां तद्रावहानिकृदयेतरराशिसंस्थः ॥ ८॥
दशाप्रवेशे स्वगृहदिसंस्थे हिमद्युतौ यत्फलमुक्तमाइः ।
तद्वाच्यमिन्दुहि शुभाशुभाश्च्य फलम् मनोरूपतया ददाति ॥ ९॥
उत्पादितं हि द्युचरस्य पूर्व शुभादिकं कष्टफलं हि यत्तत् ।
तेनानुसरेण दासु कल्प्यं शरीरभाजामशुभं शुभं वा ॥ १०॥
इष्टोत्कटत्वे हि शुभानि पुंसां फलान्यनिष्टान्यशुभोत्कटत्वे ।
साम्ये तु मिश्राणि फलानि नृनं सर्वत्र चैवं परिकल्पनीयम् ॥ ११॥
संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्माजीवो यस्य यश्चोपदिष्टः ।
भावस्थानलोकयोगोद्भवं च तत्तत्सर्व तस्य योज्यं दशायाम् ॥ १२॥
शुभफलदशायं ताद्दगेवान्तरात्मा बहु जनयति पुंसां सौख्यमर्थागमं च ।
कर्यतफलविपाइकस्तर्कयेर्द्वतमानां परिणमति फलोक्तिः स्वप्रचिन्तास्ववीर्यैः ॥ १३॥
पाकस्वामिनी लग्नगे सुहृदि वा वर्गेऽस्य वा सौम्येऽपि वा
प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे ।
मीत्रिचोपचयत्रिकोणमदने पाकेश्वरस्य स्थित-
चन्द्रः सत्फलषोधनाणी कुरुते पापानि चातोऽन्यथा ॥ १४॥
लग्नादिष्टगृहोपगः स्वभवने तुङ्गे सुहृद्भेऽथवा
पाकेशः शुभमित्रवीक्षणयुतस्तत्पाकभुक्तौ शुभम् ।
केन्द्रे वा यदि कोणगोऽतीशुभदा पापास्त्रीषष्ठायगा-
स्तुङ्गायोपचयेषु ये बलयुवास्तेषां दशायां शुभम् ॥ १५॥
अन्योन्यमिष्टप्रहयोर्दशायां भुक्तौ शुभं षड्बलशालिनोरतु ।
शत्रुप्रहौ दुर्बलशालिनौ चेत् पाकापहारे तु तयोरनर्थः ॥ १६॥
करोति यभावगतः स्वपाके तद्भावजन्यं त्वशुभं शुभं वा ।
शुभं शुभव्योमचरस्य दाये पापस्य दाये स्वशुभं वदन्ति ॥ १७॥
सम्यान्वितप्रहदशाऽतिशुभप्रदा स्यात् पापान्वितस्य विफलं परिपाककाले ।
मिश्रप्रहेण सहितस्य दशापहरे मिश्रं फलं भवति मिश्रबलान्वितस्य ॥ १८॥
यद्भातुखेटस्य दशापहारे तद्भातुवित्तायतिभाहुरार्यः ।
धातुक्षयं पापवियचरस्य पाकेऽभिवृद्धिं शुभदस्य धातोः ॥ १९॥
सपन्नखेटोपगतस्य पाके सपन्नवृद्धिं सकलार्थनाशम् ।
यत्कर्मकर्तृप्रहपाककाले तत्क्र्मसिद्धि प्रवदन्ति सन्तः ॥ २०॥
यत्कार्यकारिद्युचरस्य दये तत्कर्यसिद्धिं प्रवदेन्नराणाम् ।
शुभग्रहोऽसौ यदि कर्यसिद्धिं पापस्तु तत्कार्यविनाशनेव ॥ २१॥
राज्यस्थानपराज्यकारकदशा राजप्रसादप्रदा
देवव्योमचरस्य पाकसमये तद्देवताराधनम् ।
धर्माधीशदशागते लति तपोधर्मादिसिधिं वदेत्
कर्मेशस्य दशापाकसमये यज्ञदिकर्मोत्सवम् ॥ २२॥
सत्त्वादिग्रहपाकभुक्तिसमये तत्तद्गुणो जायते
जन्मर्क्षादिनवर्क्षग्ग्र्हदशा कुर्वीत भूतं फलम् ।
कर्मर्क्षादिनवर्क्षगस्य बलिनः पाके भविष्यत्फलं
चाधानादिगतस्य सर्वमफलं पाके फलं वा वदेत् ॥ २३॥
शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते चोभयोदयगः सदा ॥ २४॥
षष्ठेशस्य दशा विलापकरणी मृत्युविनाशप्रभो-
रस्तव्योमचरस्य बन्धुमरणं पाकेऽपहारेऽथवा ।
सम्पत्साधकमैत्रपाः परममैत्रक्षेमताराधिपा-
वेतेषामपहारभुक्तिसमये सम्पत्समृधिं वदेत् ॥ २५॥
त्रिमण्डलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः ।
तद्रशायां मृतिं विड्यात् ससौम्यो यदि शोभनम् ॥ २६॥
राशिसन्धिगदाये तु शोकरोगादिपीडनम् ।
त्रिंशद्भागमनुक्रान्तदशा मृत्युफलप्रदा ॥ २७॥
नीचस्थितो जन्मनि यो ग्रहः स्यात् स चापि तद्युक्तखगो न शक्तः ।
दातुं शुभं राहुयुतस्त्वनिष्टं तत्क्षेत्रगस्तद्युतराशिपश्च ॥ २८॥
तत्तद्भावाधीश्चरस्याधिशत्रुर्यो वा खेटो बिन्दुशून्यर्क्षयुक्तः ।
तत्तत्पाके मूर्तिभावादिकानां नाशं ब्रूयादेवमाद्दुर्मुनीन्द्राः ॥ २९॥
बाधास्थानपतद्युतग्रहदशा शोकादिरोगप्रदा
तत्केन्द्रस्थदशापहारसमये उःखं विदेशाटनम् ।
अन्योन्याष्टमषष्ठगद्युचरयोः पाकापहारे भयं
देशत्यागमनर्थमिष्टशुभयोः सर्वं विमिश्रं वदेत् ॥ ३०॥
पाके दीप्तस्य राजा भवति धनयशोदानविद्याविनोदी
स्वस्थस्याचारधर्मश्रवणबहुसुखारोग्यवित्तान्वितः स्यात् ।
राजप्रीतिं विभूतिं सुखमिह मुदितव्योमवासस्य दाये
शान्तस्यारोग्यसौख्यश्रियमवार्नपतिप्रीतिमुत्साहमेति ॥ ३१॥
पाके शक्तस्य विद्यानिवयधनतपःसिद्धिधर्मप्रवृत्ति-
श्चोरारातिक्षितीशैर्भयमनुजमृतिः पीडितस्य ग्रहस्य ।
दाये दीनस्य दैन्यं विकलखगदशा शोकरोगप्रदा स्यात्
चित्तक्लेशः खलस्य प्रतिदिनमरिभिर्भीतखेटस्य भीतिः ॥ ३२॥
विलग्नतारेन्दुभनामताराप्रश्नेन्दुनक्षत्रगणेषु मध्ये ।
बलाधिलर्क्षेशदशाक्रमेण फलं शुभं वाऽशुभमाहुरार्याः ॥ ३३॥
उतपन्ननक्षत्रविलग्नतो वा भूयात् क्रमेणैव दशाफलानि ।
दशावसानेष्वशुभं च सर्वे कुर्वन्ति सामान्यफलं नराणाम् ॥ ३४॥
जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यथाष्टमभवात् क्षेमान्महाख्या दशा ।
आसां चैव दशावसानसमये मृत्युं वदेत्प्राणितां
दीर्घस्वल्पसमायुषां वधाविपत्प्रत्यग्-दशासु क्रमात् ॥ ३५॥
अथ निर्याणदशा ।
जातोऽह्नि चेदर्कसनिस्फुटैक्यतारादिनेर्याणदशा प्रकल्प्या ।
तारेशराहुस्फुटयोगतारापूर्वा दशारिष्टकरा रजन्याम् ॥ ३६॥
अथ गुलिकदशा
गुलिकस्थितनक्षत्रादशा तस्य प्रकल्पिता ।
तद्युक्तभवनांशेशौ सहकारी च मृत्युदाः ॥ ३७॥
अथ शूलदशा ।
दिनेशाविनशुक्रौ च राजारौ कारकाः स्मृताः ।
कारकस्य त्रिशूलर्क्षे यदा चरति या दशा ॥ ३८॥
तत्कारलस्थित्तगृहादिषु सर्वभेषु चक्रप्रमाणदलवत्सरसंयुतेषु ।
वीर्यान्वितेषु शुभदृष्टियुतेषु सौख्यं नीचारिपापयुतभेषु वदन्त्यनिष्टम् ॥ ३९॥
अथ महादशविशेषः ।
यत्तारांशगतः शशी तदधिपेनालोकितो वा युत-
स्तेषां चक्रदशा विशेषफलदा वक्षयामि तचक्रजम्
देहे पापयुते तु रोगमाधिकं जीवे तु जीवभ्रमं
दद्याद्यनयोः सहाबलयुतिर्मृत्युं दशायां नृणाम् ॥ ४०॥
अथान्तर्दशाविशेषफलम् ।
पापो विलग्नगृहगो यदि तद्दशायं पापापहतसमये बहुशोकरोगम् ।
वित्तक्षयं नृसपत्नभयं नराणं सौम्यस्य मिश्रमखिलं प्रवदन्ति सन्तः ॥ ४१॥
लग्नाधिपद्शाकाले मन्दभुक्तौ धनक्षयम् ।
इष्टबन्धुविरोधश्च भविश्यति न संशयः ॥ ४२॥
धनाधिपः पापखगो(पापस्वगो)यदि स्याच्छन्यारभोगीशदिनेष्वराणाम् ।
अन्तर्दशायां धननाशमाहुः पापान्विते तद्भवने तथैव ॥ ४३॥
धनान्वितः पापखगस्तदीशः स्यात्तदशायां क्षितिपालकोपात् ।
मानार्थनाशं निगलं नराणां स्थानच्युतिं मित्रविरोधमेति ॥ ४४॥
पापग्रहे विक्रमभावनाथे पापवियच्चराणाम् ।
अन्तर्दशायामरिशत्रुचोरैर्दुःखं समायाति शुभान्विते वा ॥ ४५॥
दुश्चिक्यह्भावाधिपदायकाले मन्दारभोगिध्वजभानुभुक्तौ ।
नाशं वदेत्तत्र सहोदराणां भवेद्विशेषात्सहजैर्विरोधः ॥ ४६॥
क्षेत्राधिनाथस्य शुभेतरस्य पाके तु पापग्रहभुक्तिकाले ।
स्थानच्युतिं बन्हुजनैर्विरोधं कृष्यादिगोवित्तविनाशमाहुः ॥ ४७॥
पापापहारसमये सुतराशिपस्य पाके नृपालभयमिष्तसुतार्तिमाहुः ।
सौम्यापहारसमये सुतवित्तलाभमुर्विशबन्धुजनलालनमिष्टसिद्धिम् ॥ ४८॥
षष्ठेशपाकसमये तु शुभेतराणां भुक्तौ नृपानलभयं व्यसनं च रोगम् ।
पाके कलत्रगृहपस्य खलापहरे पलीविनाशमटनं च विदो वदन्ति ॥ ४९॥
रन्ध्रस्वामिदशागमे रिपुभयं पापापहरे नृणा-
भायुर्वित्तयशोविनाशमटनं स्थानच्युतिं वा वदेत् ।
पाके धर्मगृहाधिपस्य भरणं पित्रोरधर्मायतिं
भुक्तौ पापवियचरस्य निगलप्राप्तिं च वित्तक्षयम् ॥ ५०॥
कर्मेशस्य खलस्य पाकसमये भुक्तौ यदा पापीना-
मिष्टातिं पदविच्युतिं सुखयशोहानिं च वित्तक्षयम् ॥
मन्दारार्कफणिशभुक्तिसमये लाभेशदाये सुखं
कृष्यादिप्रविनायनं नृपभयं वित्तस्य नाशं विदुः ॥ ५१॥
व्ययेशदाये रविमन्दभौमभुक्तौ कलत्रात्मजबन्धुवैरम् ।
बलक्षयं मानधनक्षयं च फणीशभुक्तौ विषभीतिमाहुः ॥ ५२॥
अन्योन्यषष्ठाष्तमपाकभुक्तौ पदच्युतिं वा मरनं नराणाम् ।
एकस्थयोरन्तरदायकाले मृत्युं वदेद् दुर्बलशालिनोस्तु ॥ ५३॥
क्रूरग्रहदशाकले क्रूरस्यान्तर्दशागमे ।
मरणं तस्य जातस्य भविश्यति न संशयः ॥ ५४॥
क्रूरराशिगताः पापाः शत्रुखेटनिरीक्षिताः ।
शत्रुखेचरसंयुक्तास्तदशायां मृतिर्भवेत् ॥ ५५॥
दशाधिपस्य यः शत्रुस्तस्य भुक्त्यन्तरान्तरे ।
मृत्युकालो भवेन्नूनं पापखेटस्य नीश्चयः ॥ ५६॥
स्वोचादिजन्यमशुभस्य दशाप्रवेशे भावादिजं फलमशोभनपाकमध्ये ।
इष्टयुद्भवं सकलपापवियचराणां पाकावसानसभये फलमाहुरार्याः ॥ ५७॥
पाकस्यादौ भावजन्यं शुभानां तत्तद्राशिस्थानजं पाकमध्ये ।
दायस्यान्ते दृष्टसजातमेवं सर्वे तारापाकभेदं वदन्ति ॥ ५८॥
अथान्तर्दशाफलाणि ।
अथ तरणिदशायां चौर्यमुचाटनाद्यैर्धनमनलचतुष्पात्पीडनं नेत्रतापम् ।
उदरदशनरोगः पुत्रदारैर्वियोगो गुरुजनपितृनाशो भृत्यगोवित्तहानिः ॥ ५९॥
दशा दशाहता मासाश्वैकस्थानं विना परे ।
एकस्थानं त्रिगुणितं दिनान्यन्तर्दशाक्रमः ॥ ६०॥
अथ रविदाशायांअन्तर्दशाफलानि ।
द्विजभूपतिशास्त्राद्यैर्धनप्राप्तिं मनोरुजम् ।
विदेशवनसङ्चारं भानोरन्तर्गते स्वौ ॥ ६१॥
बन्धुमित्रजनैरर्थं प्रमादं मित्रसज्जनैः ।
पाण्डुरोगादिसन्तापं चन्द्रे भानुदशान्तरे ॥ ६२॥
रत्नकाङ्चनवित्ताप्तिं राजस्नेहं शुभावहम् ।
पैत्यरोगादिसङ्चारं कुजे भानुदशान्तरे ॥ ६३॥
अकाले मृत्युसन्तापं बन्धुगर्गारिपीडनम् ।
पदच्युतिं मनोदुःखं रवेरन्तर्गतेऽप्यहौ ॥ ६४॥
सर्वपूज्यं सुताद्वित्तं देवब्राह्मणपूजनम् ।
सत्कर्माचारसद्रोष्टी रवेरन्तर्गते गुरौ ॥ ६५॥
सर्वशत्रुत्वमालस्यं हीनवृत्तिं भनोरुजम् ।
राजचोरभयप्राप्तिं रवेरन्तर्गते शनौ ॥ ६६॥
बन्धुपीडां मनोदुःखं सन्नोस्साहं धनक्षयम् ।
किङ्चित्सुखमवानोति रवेरन्तर्गते बुधे ॥ ६७॥
कण्ठरोगं मनस्तापं नेत्ररोगमथापि वा ।
अकालमृत्युमाप्नोति रवेरन्तर्गते ध्वजे ॥ ६८॥
जले द्रव्याप्तिमायासं कुस्त्रीजननिषेवणम् ।
शुष्कसंवादमाप्नोति रवेरन्तर्गते भृगौ ॥ ६९॥
दशादौ दिननाथस्य पितृरोगं धनक्षयम् ।
सर्ववाधाधरं मध्ये दशान्ते सुखमाप्नुयात् ॥ ७०॥
स्वोच्चे नीचनवांशगस्य तरणेर्दयेऽपवादं भयं
पुत्रस्त्रीपितृवर्गबन्धुमरणं कृष्यादिवित्तक्षयम् ।
नीचे तुङ्गनवांशगस्य च रवेः पाके नृपालश्रुयं
सौख्यं याति दशावसानसमये वित्तक्षयं वा मृतिम् ॥ ७१॥
अथ चन्द्रदशाफलम् ।
हिमकिरणदशायां मन्त्रदिवद्विजाप्तिर्युवतिजनविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।
कुसुमवसनभूषागनानाधनाढ्यो भवति बलविरोधे चार्थहा वातरोगी ॥ ७२॥
अथ चन्द्रदशायामन्तर्दशाफलानि ।
विद्यास्त्रीगीतवाद्येष्वभिरतिशमनं पटुवस्त्रादिसिद्धिं
सत्सङ्गं देहसौख्यं नृपसचिवचमूनायकैः पूज्यमानम्
सत्कीर्तिं तीर्थयात्रां वितरति हिमगुः पुत्रामित्रैः प्रियं च ।
क्षोणीगोवाजिलाभं बहुजनविभवं स्वे दशान्तर्विपाके ॥ ७३॥
रोगं विरोधबुद्धि च स्थाननाशं धनक्षयम् ।
मित्रभ्रातृवशात् क्लेशं चन्द्रस्यान्तर्गते कुजे ॥ ७४।
रिपुरोगभयात् क्लेशं बन्धुनाशं धनक्षयवम् ।
न किंचित्सुखमाप्नोति राहौ चन्द्रदशान्तरे ॥ ७५॥
यानादिविविधार्थाप्तिं वस्त्राभरणसम्पदः ।
यत्नात् कार्यमवाप्नोति जीवे चन्द्रदशान्तरे ॥ ७६॥
मातृपीडा मनोदुःखं वातपैत्त्यादिपीडनम् ।
स्तब्धवागरिसंवादं शनौ चन्द्रदशान्तरे ॥ ७७॥
मातृवर्गाद्धनप्राप्तिं विद्वज्जनसमाश्रयम् ।
वस्त्रभूषणसप्राप्तिं बुधे चन्द्रदशान्तरे ॥ ७८॥
स्त्रीरोगं बन्धुनाशं च कुक्षिरोगादिपीडनम् ।
द्रव्यनाशमवाप्नोति केतौ चन्द्रदशान्तरे ॥ ७९॥
स्त्रीधन कृषिपश्वादिजलवस्त्रागमं सुखम् ।
मातृरोगभवाप्नोति भृगौ चन्द्रदशान्तरे ॥ ८०॥
नृपप्रायकमैश्च्वर्यं व्याधिनाशं रिपुक्षयम् ।
सौख्यं शुभमवाप्नोति रवौ चन्द्रदशान्तरे ॥ ८१॥
आदौ भावफलं मध्ये राशिस्थानफलं विदुः ।
पाकावसानसमये चाङ्गजं दृष्तिजं फलम् ॥ ८२॥
अथ कुजदशाफलम् ।
पाके भूमिसुतस्य शस्त्रहुतभूवाहनाद्यैर्घनं
भैषज्यान्नपङ्चनैश्च विविधैः क्रौर्यैर्धनस्थानगमम् ।
पित्तासृग्ज्वरपीडनं तु सततं नीचाङ्गनासेवनं
विद्वेषं सुतदारबन्धुगुरुभिर्दुष्टान्नभोगं विदुः ॥ ८३॥
अथ कुजदशायामन्तर्दशाफलानि ।
उष्णाधिक्यं सुहृद्द्वेषं मातृपीडां नृपाद्भयम् ।
सर्वकार्यर्थनाशं च कुजे कुजदशान्तरे ॥ ८४॥
नृपचोरादिभीतिञ्च धनधान्या दनाशनम् ।
दुष्टकर्मादिसंसिद्धि राहौ कुजदशान्तरे ॥ ८५॥
द्विजमूलाद्धनपाप्तिं भूलाभं च निरामयम् ।
सम्पूजनंजयं सौख्यं गुरौ कुजदशान्तरे ॥ ८६॥
बहुदुःखाकरव्याधिमरिचोरनृपैर्भयम् ।
धनक्षयमवाप्नोति शनौ भौमदशान्तरे ॥ ८७॥
वैश्यवर्गाद्धनप्राप्तिं गृहगोधान्यसम्पदः ।
शत्रुबाधां मनक्लेशं बुधे कुजदशान्तरे ॥ ८८॥
कुक्षिरोगेण सन्तापं बन्धुसोदरपीडनम् ।
दुष्टमानषशत्रुत्वं केतौ कुजदशान्तरे ॥ ८९॥
कलत्रभूषणं वस्त्रं बन्धुवर्गाद्धनागमम् ।
स्त्रीजन्द्वेष्यतद्रोष्ठी शुक्रे बौमदशान्तरे ॥ ९०॥
अपवादं गुरुद्वेषं कलहं व्याधिपीडनम् ।
आत्मवर्गान्मनोदुःखं रवौ भौमदशान्तरे ॥ ९१॥
नामावित्तसुखं वस्त्रमुक्तामणिविभूषणम् ।
निद्रालस्यमथोद्वेगं चन्द्रे भौमदशान्तरे ॥ ९२॥
भूनन्दनस्य पाकादौ मानहानिर्धनक्षयः ।
मध्ये नृपाग्निचोरद्यैर्भीतिश्चान्ते तथ भवेत् ॥ ९३॥
उच्चस्थितस्य धरणीतनयस्य पाके नीचांशगस्य मरणं सुतसोदराणाम् ।
नीचे तु तुङ्गभवनांशगतस्य दाये कृष्यादिभिधनधान्यसुखं वदन्ति ॥ ९४॥
राहुदशाफलम् ।
सौख्यादिवित्तस्थितिनाशनं च कलत्रपुत्रादिवियोगदुःखम् ।
अतीव रोगं परदेशवासं विवादबुद्धि कुरुते फणिशः ॥ ९५॥
अथ राहुदशायामन्तर्दशाफलानि ।
जायारोगं विवादं च बुद्धिनाशं धनक्षयम् ।
दूरदेशाटनं दुःखं राहौ राहुदशान्तरे ॥ ९६॥
व्याधिशत्रुविनाशं च राजप्रीतिं धनागमम् ।
पुत्रलाभं तथोत्साहं गुरौ राहुदशान्तरे ॥ ९७॥
वातपित्तकृतं रोगं बन्धुमित्रादिपीडनम् ।
दूरदेशनिवासं च शनौ राहुदशान्तरे ॥ ९८॥
मित्रबन्धुकलत्रादिसंयोगं च धनागमम् ।
राजप्रीतिभवाप्नोति बुधे राहुदशान्तरे ॥ ९९॥
चौर्यं च मानहानि च पुत्रनाशं पशुक्षयम् ।
सर्वोपद्रवभाप्नोति केतौ राहुदशान्तरे ॥ १००॥
विदेशाद्वाहनप्राप्निश्छात्रचामरसम्पदः ।
रोगारिबन्धुभीतिः स्यात् शुक्रे राहुदशान्तरे ॥ १०१॥
दानधर्मरतिः प्रीतिः सर्वोपद्रवनाशनम् ।
संसाररोगसङ्चारो रवौ राहुदशान्तरे ॥ १०२॥
भोगसम्पद्भवेन्नित्यं सस्यवृद्धिधर्नागमः ।
स्वबन्धुजनसंवादश्चन्द्रे राहुदशान्तरे ॥ १०३॥
सर्वोपद्रवसंयोगः सर्वकार्येषु मूढता ।
वित्तविस्मृतिदोषः स्यात् कुजे राहुदशान्तरे ॥ १०४॥
कुलीरगोमेषयुतस्य राहोर्दशाविपाके धनधान्यलाभम् ।
विद्याविनोदं नृपमाननं च कलत्रनृत्यादिसुखं वदन्ति ॥ १०५॥
पाथोनमीनाश्वयुतस्य राहिर्दशाविपके सुतदारलाभम् ।
देशाधिपत्यं नरवाहनं च दशावसाने सकलं विनाशम् ॥ १०६॥
मृगपतिवृषकन्याकर्कटस्थस्य राहोर्र्भवति च परिपाके राजतुल्यो नृपो वा ।
गजतुरगचमूपः सर्वजीवोपकारी बहुधनसुखशीलः पुत्रदारानुरक्तः ॥ १०७॥
दशादौ दुःखमाप्नोति दशाम्ध्ये महत्सुखम् ।
द्शान्ते फणिनाथस्य पितृनाशं पदच्युतिम् ॥ १०८॥
अथ गुरुदशाफलम् ।
स्थानप्राप्तिं वित्तयानाम्बराप्तिं राजस्नेहं चित्तशुद्धि विभूक्तिम् ।
ज्ञानाचारं पुत्रदारादिलाभं देवाचार्यः स्वे विपाके करोति ॥ १०९॥
अथ गुरुदशायामन्तर्दशाफलानि ।
नृपप्रीति तथोत्साहं सर्वकार्यार्थसाधनम् ।
विद्याविज्ञानमाप्नोति गुरौ गुरुदशान्तरे ॥ ११०॥
द्वेषबुद्धिं मनस्तापं पुत्रमूलाद्धनव्ययम् ।
कर्मनाशभवाप्नोति शनौ जीवदशान्तरे ॥ १११॥
वैश्यवर्गेण वित्ताप्तिं राजस्नेहं सुखावहम् ।
सत्कर्माचरसिद्धिं च बुधे जीवदशान्तरे ॥ ११२॥
मुक्ताप्रवालभूषाप्तिस्तीर्थयात्रा धनायतिः ।
गुरुभूपवशादाप्तिः केतौ जीवदशान्तरे ॥ ११३॥
वाहनादिधनप्राप्तिः छत्रचामरवैभवम् ।
स्त्रीपीडा जनविद्वेषो भृगौ जीवदशान्तरे ॥ ११४॥
शत्रुनाशं जयं सौख्यं चित्तोत्साहं धनागमम् ।
राजप्रसादमारोग्यं रवौ जीवदशान्तरे ॥ ११५॥
स्त्रीकृतोत्साहमैश्चर्य राजप्रीतिः सुखावहम् ।
दिव्यवस्त्रविभूषाप्तिं चन्द्रे जीवदशान्तरे ॥ ११६॥
कर्मनाशं च सङ्चारं ज्वरतापं महद्भयम् ।
वननाशं निरुत्साहं कुजे जीवदशान्तरे ॥ ११७॥
सर्वक्लेशभयं रोगं सर्वोपद्रवकारणम् ।
धनच्छेदभवाप्नोति राहौ जीवदशान्तरे ॥ ११८॥
नीचांशोपगतः स्वतुङ्गभवने जीवस्य पाके भयं
चोरारातिनृपैः कलत्रतनयद्वेषं करोत्यश्रियम् ।
नीचे तुङ्गनवांशको यदि महाराजप्रसादं सुखं
विद्याबुद्धियशोधनादिविभवं देशाधिपत्यं तु वा ॥ ११९॥
अथ शनिदशाफलम् ।
शनेर्दशायामजगर्दभोष्द्रवृद्धाङ्गनापक्षिकुधान्यलाभम् ।
क्षेणीपुरग्रामजनाधिकाराद्धनं वदेन्निचकुलाधिपत्यम् ॥ १२०॥
अथ शनेर्दशायामन्तर्दशाफलानि ।
क्लेशादिभिर्व्याधिनिपीडनं च मार्सर्यमानैर्बहुशोकतापम् ।
भूपालचोरैर्धनधान्यनाशं करोति मन्दः स्वदशापहारे ॥ १२१॥
रवितनयदशायां स्वापहारे विरोधं नरपति जनकिपं प्रेष्यवृद्धाङ्गनाप्तिम् ।
पशुगणविषभीतिं पुत्रदारादिपीडां ज्वरपवनकफातिं शूलरोगं वदन्ति ॥ १२२॥
सुखवित्तयशोवृद्धिं सत्कर्माचारसम्पदः ।
कृषिवाणिज्यमाप्नोति बुधे मन्ददशान्तरे ॥ १२३॥
वातपित्तकृतं रोगं कलहं नीचदुर्जनैः ।
दुःस्वप्नभयमाप्नोति केतौ मन्दद्शान्तरे ॥ १२४॥
बन्धुस्नेहं जनप्रीतिं जायावित्तधनायतिम् ।
कृष्यादिसुखमाप्नोति भृगौ मन्ददशान्तरे ॥ १२५॥
पुत्रदारविनाशं च् नृपचोरादिपीडनम् ।
मनोभयमवाप्नोति भानौ मन्ददशान्तरे ॥ १२६॥
गुरुस्त्रीमरणं दुःखं बन्धुद्वेषं धनागमम् ।
वातरोगमवाप्नोति चन्द्रे मन्ददशान्तरे ॥ १२७॥
स्थानच्युतिं महारोगं नानाविघमनोभयम् ।
सहोदरसुहृत्पीडां भौमे मन्दद्शान्तरे ॥ १२८॥
स्र्वाङ्गरोगसन्तापं चोरारिनृपपीडनम् ।
धनच्छेदमवाप्नोति राहौ मन्ददशान्तरे ॥ १२९॥
देवभूदेवभक्तिं च राजप्रीतिं महत्सुखम् ।
स्थानलाभमवाप्नोति गुरौ मन्ददशान्तरे ॥ १३०॥
स्वोच्चे नीचनवांशगो रविसुतः कुर्वीत सौख्यं फलं
पाकादौ तु दशावसानसमये कष्टं फलं प्राणिनाम् ।
तुङ्गांशोपगते स्वनीचभवने पाकावसाने सुखं
दायादौ रिपुचोरभीतिमधिकं दुःखं विदेशाटनम् ॥ १३१॥
अथ बुधदशाफलम् ।
स्वकीयदाये गुरुबन्धुमित्रैरर्थार्जनं कीर्तिसुखं करोति ।
दैत्यं च सत्कर्महिरण्यपुण्यैर्धनायतिं वातरुजं कुमारः ॥ १३२॥
अथ बुधदशायामन्तर्दशाफलानि ।
विचित्रगृहवित्ताप्तिं राजप्रीतिं महत्सुखम् ।
सर्वकार्यार्थसंसिद्धिं बुद्धे सौम्यदशान्तरे ॥ १३३॥
बन्धुपीडां मनस्तापं सौख्यहानिमरेर्भयम् ।
कार्यनाशभवाप्नोति केतौ सौम्यदशान्तरे ॥ १३४॥
गुरुदेवाग्निविप्रेषु दानं धर्मप्रियं तपः ।
धनवस्त्रविभूषाप्तिं शुक्रे सौम्यदशान्तरे ॥ १३५॥
वस्त्रभूषणवित्ताप्तिं राजप्रीतिं महत्सुखम् ।
धर्मश्रवणमाप्नोति रवौ बुधदशान्तरे ॥ १३६॥
रोगारातिजनद्वेषं सर्वकार्यार्थनाशनम् ।
चतुष्पाद्भयमाप्नोति चन्द्रे सौम्यदशान्तरे ॥ १३७॥
रोगारेभयनाशं च पुण्यकर्मफलं यशः ।
राजप्रीतिमवाप्नोति कुजे सौम्यदशान्तरे ॥ १३८॥
मित्रबन्धुधनप्राप्नोति सुखविद्याविभुषणम् ।
राजप्रीतिमवाप्नोति राहौ सौम्यदशान्तरे ॥ १३९॥
इष्टबन्धुगुरुद्वेषं धनलाभं सुतायतिम् ।
रोगादिभयमाप्नोति गुरौ सुअम्यदशान्तरे ॥ १४०॥
धर्मसत्कर्मवित्ताप्तिं सुखमल्पजनाधिपैः
कृष्यादिनाशमाप्नोति शनौ सौम्यदशान्तरे ॥ १४१॥
उच्चराशिगतः सौम्यो नीचांशकसमन्वितः ।
करोति कर्मवैकल्यं निजदाये च वर्धनम् ॥ १४२॥
नीचस्थानगतश्चान्द्रिस्तुङ्गांशकसमन्वितः ।
पाकादौ विफलं सर्वं शुभमन्ते प्रयच्छति ॥ १४३॥
अथ केतुदशाफलम् ।
दीनो नरे भवति बुद्धिविवेकनष्टो
नानाऽमयाकुलविवर्ज्द्धितदेहतापः ।
पापादिवृद्धिरतिकष्टचरित्रयुक्तः
किङ्चित्सुखी च शिखिनः परिपाककाले ॥ १४४॥
अथ केतुदशायामन्तर्दशाफलानि ।
कलत्रपुत्रमरणं सुखवित्तविनाशनम् ।
रिपुभीतिमबाप्नोति केतौ केतुदशान्तरे ॥ १४५॥
स्त्रीपुत्ररोगकलहं बन्धुमित्रादिनाशनम् ।
स्वरातिसारमाप्नोति शुक्रे केतुदशान्तरे ॥ १४६॥
मनोभङ्गं शरीरर्ति विदेशगमनं भयम् ।
सर्वकार्यविरोधं च रवौ केतुदशान्तरे ॥ १४७॥
दारपुत्रजनालस्यं धानधान्यविनाशनम् ।
मन्स्तापमवाप्नोति चन्द्रे केतुदशान्तरे ॥ १४८॥
पुत्रदारानुजद्वेषं रोगारिनृपपीडनम् ।
बन्धुनाशमवाप्नोति कुजे केतुदशान्तरे ॥ १४९॥
राजचोरभयं दुःखं सर्वकार्यविनाशनम् ।
दुष्टमानवसंवादं राहौ केतुदशान्तरे ॥ १५०॥
देवद्विजगुरुप्रीतिं राजस्नेहं निराम्यम् ।
भूपुत्रलाभमाप्नोति गुरौ केतुदशान्तरे ॥ १५१॥
मनोभयं मनस्तापं स्वबन्धुजनविग्रहम् ।
देशत्यागमवाप्नोति शनौ केतुदशान्तरे ॥ १५२॥
बन्धुमित्रादिसंयोगं पुत्रदारधनागमम् ।
विद्यासुखमवाप्नोति बुधे केतुदशान्तरे ॥ १५३॥
शुभग्रहयुतः केतुः स्वदशायां सुखप्रदः ।
यदि शोभनसन्दृष्तः करोति विपुलं धनम् ॥ १५४॥
सपापः कुरुते केतुः स्वपाके दुष्टमानवैः ।
भीतिं कृतिमरोगाध्यैर्व्यसनं धननाशनम् ॥ १५५॥
दशादौ गुरुबन्ध्वार्ति दशामध्ये धनायतिम् ।
दशान्ते सुखमाप्नोति केतोर्दयफलं त्रिधा ॥ १५६॥
अथ शुक्रदशाफलम् ।
स्त्रीपुत्रवित्ताप्तिमतीव सौख्यं युगन्धमाल्याम्बरभूषणाप्तिम् ।
यानादिभाग्यं नरपालतुल्यं यशः स्वपाके भृगुजः करोति ॥ १५७॥
अथ शुक्रदशायामन्तर्दशाफलानि ।
शव्यास्त्रीधनवस्त्राप्तिं धर्मादिसुखसम्पदः ।
रिपुनाशं यशोलाभं शुक्रे शुक्रदशान्तरे ॥ १५८॥
मुर्धोदराक्षिरागं च कृषिगोवित्तनाशनम् ।
नृपक्रोधमवाप्नोति रवौ शुक्रदशान्तरे ॥ १५९॥
शीर्षोष्णरोगसन्तापं कामादिरिपुपीडनम् ।
किङ्चिर् सुखमवाप्नोति चन्द्रे शुक्रदशान्तरे ॥ १६०॥
पित्तासृगक्षिरोगं च चित्तोत्साहं धनागमम् ।
दारमूलाभमाप्नोति कुजे शुक्रदशान्तरे ॥ १६१॥
नीलवस्तुधनप्राप्नोति बन्धुद्वेषं सुहृद्भयम् ।
अग्निबाधामवाप्नोति रहौ शुक्रदशान्तरे ॥ १६२॥
धनवस्त्रविभूषाप्तिं धर्मचारं सुखावहम् ।
स्त्रीसुतार्ति च वैषम्य गुरौ शुक्रदशान्तरे ॥ १६३॥
वृद्धस्त्रीजनसम्भोगं गृहक्षेत्रधनागमम् ।
शत्रुनाशमवाप्नोति मन्दे शुक्रदशान्तरे ॥ १६४॥
सुतमित्रसुखार्थाप्ति नृपप्रीतिं महत्सुखम् ।
सुभमारेज्यमाप्नोति बुधे शुक्रदशान्तरे ॥ १६५॥
कलहं बन्धुनाशं च शत्रुपीडां मनोभयम् ।
धनच्छेदमवाप्नोति केतौ शुक्रदशान्तरे ॥ १६६॥
उच्चराशिं गतः शुक्रो नीचांशकसमन्वितः ।
स्वपाके धन्ननाशं च कुर्वीत पदविच्युतिम् ॥ १६७॥
भार्गवो नीचराशिस्थः स्वोच्चांशकसमन्वितः ।
स्वदाये कृषिवाणिज्यं धनलाभं प्र्यच्छति ॥ १६८॥
दशाफले विशेषता ।
सम्यग्बलिनः स्वतुङ्गभागे सम्पूर्णा बलवर्जितस्य रिक्ता ।
नीचाम्शगतस्य शत्रुभगो ज्ञेयाऽनिष्टफला दशा प्रसूतौ ॥ १६९॥
तत्तद्भावार्थलामेशदशास्वन्तर्दशासु च ।
तत्तद्भावविनाशः स्यात् तद्युतेइतकारकैः ॥ १७०॥
त्रिकोणधनलाभस्था बलिनो यदि शोभनाः ।
स्वदशान्तर्दशाकाले कुर्वन्ति विपुल्कं सुखम् ॥ १७१॥
अस्टादशाध्यायिनि सर्वहोरासमुद्धृते जातकपरिजाते ।
राशिस्वरूपादि दशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥ १७२॥
इति श्रीनव्ग्रहकृपया वैद्यनाथविरचिते जातकपारिजातेऽष्टादशोऽध्यायः ॥ १८॥
अथ ग्रन्थोपसंहारः ।
शाखाभिरष्टादशसंख्यकाभिरध्यायरूपाभिरतिप्रकाशः ।
ज्योतिर्मयः सर्वफलप्रधानः सङ्किर्तितो जातकपारिजातः ॥ १॥
उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति-
राधानादिसमस्तजीवजननं बालाद्यनिष्टाकरम् ।
आयुर्ज्जातकभङ्गयोगजविधिः श्रीराजयोगादिजो
द्विव्यादिग्रहयोगजः शुभकरि मान्द्यब्दजं च क्रमात् ॥ २॥
पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजं
दुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् ।
कन्दर्पाष्टमधर्मराशिजनितं व्यापारलाभान्त्यजं
नारीजातकलक्षणं निगदितं चक्रं दशान्तर्दशा ॥ ३॥
श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी-
रादित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये ।
होरासिन्धुसमुद्धृतामृतमयीमष्टादशाव्यायिनी
चक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम् ॥ ४॥
इति जातकपारिजातः समाप्तः ।
समाप्तोऽथं ग्रन्थः ।
Encoded and proofread by Radu Canahai clradu at yahoo.com