॥ मनुस्मृति अथवा मानवधर्मशास्त्रम् ॥

अध्याय १

ं१।०१अ/ मनुमेकाग्रमासीनमभिगम्य महर्षयः । ं१।०१च्/ प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ Bछ्.Sछ्॥ ं१।०२अ/ भगवन् सर्ववर्णानां यथावदनुपूर्वशः । ं१।०२च्/ अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ Bछ्.Sछ्॥ ं१।०३अ/ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । ं१।०३च्/ अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥ Bछ्.Sछ्॥ ं१।०४अ/ स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः । ं१।०४च्/ प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥ Bछ्.Sछ्॥ ं१।०५अ/ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । ं१।०५च्/ अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ Bछ्.Sछ्॥ ं१।०६अ/ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । ं१।०६च्/ महाभूतादि वृत्तोजाः प्रादुरासीत् तमोनुदः ॥ Bछ्.Sछ्॥ ं१।०७अ/ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । ं१।०७च्/ सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥ Bछ्.Sछ्॥। %[ं। स एष] ं१।०८अ/ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः । ं१।०८च्/ अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ Bछ्.Sछ्॥ ं१।०९अ/ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । ं१।०९च्/ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ Bछ्.Sछ्॥ ं१।१०अ/ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ं१।१०च्/ ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ Bछ्.Sछ्॥ ं१।११अ/ यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् । ं१।११च्/ तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ॥ Bछ्.Sछ्॥ ं१।१२अ/ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । ं१।१२च्/ स्वयमेवात्मनो ध्यानात् तदण्डमकरोद् द्विधा ॥ Bछ्.Sछ्॥ ं१।१३अ/ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । ं१।१३च्/ मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ Bछ्.Sछ्॥ ं१।१४अ/ उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । ं१।१४च्/ मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ Bछ्.Sछ्॥ %[ं। अहङ्कारम्] ं१।१५अ/ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । ं१।१५च्/ विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ॥ Bछ्.Sछ्॥ ं१।१६अ/ तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् । ं१।१६च्/ संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ Bछ्.Sछ्॥ %[ं। सन्निवेश्य] ं१।१७अ/ यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । ं१।१७च्/ तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ Bछ्.Sछ्॥ ं१।१८अ/ तदाविशन्ति भूतानि महान्ति सह कर्मभिः । ं१।१८च्/ मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ Bछ्.Sछ्॥ ं१।१९अ/ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । ं१।१९च्/ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम् ॥ Bछ्.Sछ्॥ ं१।२०अ/ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः । ं१।२०च्/ यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः ॥ Bछ्.Sछ्॥ ं१।२१अ/ सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । ं१।२१च्/ वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ Bछ्.Sछ्॥ ं१।२२अ/ कर्मात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः । ं१।२२च्/ साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ Bछ्.Sछ्॥ ं१।२३अ/ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । ं१।२३च्/ दुदोह यज्ञसिद्ध्यर्थं ऋच्।यजुस्।सामलक्षणम् ॥ Bछ्.Sछ्॥ ं१।२४अ/ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । ं१।२४च्/ सरितः सागरान् शैलान् समानि विषमानि च ॥ Bछ्.Sछ्॥ ं१।२५अ/ तपो वाचं रतिं चैव कामं च क्रोधमेव च । ं१।२५च्/ सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ Bछ्.Sछ्॥ ं१।२६अ/ कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । %[क्:विवेकाय ] ं१।२६च्/ द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ॥ Bछ्.Sछ्॥ ं१।२७अ/ अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ं१।२७च्/ ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥ Bछ्.Sछ्॥ ं१।२८अ/ यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः । ं१।२८च्/ स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ Bछ्.Sछ्॥ ं१।२९अ/ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । ं१।२९च्/ यद् यस्य सोऽदधात् सर्गे तत् तस्य स्वयमाविशत् ॥ Bछ्.Sछ्॥% **** ं१।३०अ/ यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये । ं१।३०च्/ स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ Bछ्.Sछ्॥ ं१।३१अ/ लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ं१।३१च्/ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ Bछ्.Sछ्॥ ं१।३२अ/ द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् । ं१।३२च्/ अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ Bछ्.Sछ्॥ ं१।३३अ/ तपस्तप्त्वाऽसृजद् यं तु स स्वयं पुरुषो विराट् । ं१।३३च्/ तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ Bछ्.Sछ्॥ ं१।३४अ/ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । ं१।३४च्/ पतीन् प्रजानामसृजं महर्षीनादितो दश ॥Bछ्.Sछ्॥ ं१।३५अ/ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । ं१।३५च्/ प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ Bछ्.Sछ्॥ ं१।३६अ/ एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः । ं१।३६च्/ देवान् देवनिकायांश्च महर्षींश्चामितोजसः ॥ Bछ्.Sछ्॥ ं१।३७अ/ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । ं१।३७च्/ नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ॥ Bछ्.Sछ्॥ %[ं। पितॄणां] ं१।३८अ/ विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च । ं१।३८च्/ उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ Bछ्.Sछ्॥ ं१।३९अ/ किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् । ं१।३९च्/ पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ Bछ्.Sछ्॥ ं१।४०अ/ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । ं१।४०च्/ सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ Bछ्.Sछ्॥ ं१।४१अ/ एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः । ं१।४१च्/ यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ Bछ्.Sछ्॥ ं१।४२अ/ येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । ं१।४२च्/ तत् तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ Bछ्.Sछ्॥ ं१।४३अ/ पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । ं१।४३च्/ रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ Bछ्.Sछ्॥ %[ंंअनुषाश्च ] ं१।४४अ/ अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । ं१।४४च्/ यानि चैवं।प्रकाराणि स्थलजान्यौदकानि च ॥ Bछ्.Sछ्॥ ं१।४५अ/ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ं१।४५च्/ ऊष्मणश्चोपजायन्ते यच्चान्यत् किं चिदीदृशम् ॥ Bछ्.Sछ्॥ ं१।४६अ/ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ं१।४६च्/ ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ Bछ्.Sछ्॥ ं१।४७अ/ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । ं१।४७च्/ पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ Bछ्.Sछ्॥ ं१।४८अ/ गुच्छगुल्मं तु विविधं तथैव तृणजातयः । ं१।४८च्/ बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ Bछ्.Sछ्॥ ं१।४९अ/ तमसा बहुरूपेण वेष्टिताः कर्महेतुना । ं१।४९च्/ अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ Bछ्.Sछ्॥ ं१।५०अ/ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । ं१।५०च्/ घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ Bछ्.Sछ्॥ ं१।५१अ/ एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः । ं१।५१च्/ आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ Bछ्.Sछ्॥ ं१।५२अ/ यदा स देवो जागर्ति तदेवं चेष्टते जगत् । ं१।५२च्/ यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ Bछ्.Sछ्॥ ं१।५३अ/ तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः । %[ं।स्वपति ] ं१।५३च्/ स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ Bछ्.Sछ्॥ ं१।५४अ/ युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि । ं१।५४च्/ तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ Bछ्.Sछ्॥ ं१।५५अ/ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः । ं१।५५च्/ न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ Bछ्.Sछ्॥ ं१।५६अ/ यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च । ं१।५६च्/ समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ Bछ्.Sछ्॥ ं१।५७अ/ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । ं१।५७च्/ सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥ Bछ्.Sछ्॥ ं१।५८अ/ इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः । ं१।५८च्/ विधिवद् ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ Bछ्.Sछ्॥ ं१।५९अ/ एतद् वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः । ं१।५९च्/ एतद् हि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ Bछ्.Sछ्॥ ं१।६०अ/ ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः । ं१।६०च्/ तानब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥ Bछ्.Sछ्॥ ं१।६१अ/ स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । ं१।६१च्/ सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ Bछ्.Sछ्॥ ं१।६२अ/ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । ं१।६२च्/ चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ Bछ्.Sछ्॥ ं१।६३अ/ स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः । ं१।६३च्/ स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ Bछ्.Sछ्॥ ं१।६४अ/ निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला । ं१।६४च्/ त्रिंशत् कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ Bछ्.Sछ्॥ ं१।६५अ/ अहोरात्रे विभजते सूर्यो मानुषदैविके । ं१।६५च्/ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ Bछ्.Sछ्॥ ं१।६६अ/ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । ं१।६६च्/ कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ Bछ्.Sछ्॥ ं१।६७अ/ दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । ं१।६७च्/ अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥ Bछ्.Sछ्॥ ं१।६८अ/ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः । ं१।६८च्/ एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ Bछ्.Sछ्॥ ं१।६९अ/ चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् । ं१।६९च्/ तस्य तावत्शती संध्या संध्यांशश्च तथाविधः ॥ Bछ्.Sछ्॥ ं१।७०अ/ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । ं१।७०च्/ एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ Bछ्.Sछ्॥ ं१।७१अ/ यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम् । ं१।७१च्/ एतद् द्वादशसाहस्रं देवानां युगमुच्यते ॥ Bछ्.Sछ्॥ ं१।७२अ/ दैविकानां युगानां तु सहस्रं परिसङ्ख्यया । ं१।७२च्/ ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥ Bछ्.Sछ्॥ %[ं।तावती रात्रिरेव च ] ं१।७३अ/ तद् वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । ं१।७३च्/ रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ Bछ्.Sछ्॥ ं१।७४अ/ तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते । ं१।७४च्/ प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ Bछ्.Sछ्॥ ं१।७५अ/ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । ं१।७५च्/ आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥ Bछ्.Sछ्॥ ं१।७६अ/ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः । ं१।७६च्/ बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ Bछ्.Sछ्॥ ं१।७७अ/ वायोरपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् । ं१।७७च्/ ज्योतिरुत्पद्यते भास्वत् तद् रूपगुणमुच्यते ॥ Bछ्.Sछ्॥ ं१।७८अ/ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । ं१।७८च्/ अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ Bछ्.Sछ्॥ ं१।७९अ/ यद् प्राग् द्वादशसाहस्रमुदितं दैविकं युगम् । ं१।७९च्/ तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ Bछ्.Sछ्॥ ं१।८०अ/ मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च । ं१।८०च्/ क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥ Bछ्.Sछ्॥ ं१।८१अ/ चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे । ं१।८१च्/ नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥ Bछ्.Sछ्॥ %[ं। उपवर्तते ] ं१।८२अ/ इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः । ं१।८२च्/ चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ Bछ्.Sछ्॥ ं१।८३अ/ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । ं१।८३च्/ कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥ Bछ्.Sछ्॥ %[V। वयो ह्रसति ] ं१।८४अ/ वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् । ं१।८४च्/ फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ Bछ्.Sछ्॥ ं१।८५अ/ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । %[ं।परे ] ं१।८५च्/ अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ Bछ्.Sछ्॥ ं१।८६अ/ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । ं१।८६च्/ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ Bछ्.Sछ्॥ ं१।८७अ/ सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । ं१।८७च्/ मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥ Bछ्.Sछ्॥ ं१।८८अ/ अध्यापनमध्ययनं यजनं याजनं तथा । ं१।८८च्/ दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ Bछ्.Sछ्॥ ं१।८९अ/ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च । ं१।८९च्/ विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ Bछ्.Sछ्॥ %[ं।समादिशत्] ं१।९०अ/ पशूनां रक्षणं दानमिज्याऽध्ययनमेव च । ं१।९०च्/ वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ Bछ्.Sछ्॥ ं१।९१अ/ एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । ं१।९१च्/ एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ Bछ्.Sछ्॥ ं१।९२अ/ ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । ं१।९२च्/ तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ Bछ्.Sछ्॥ ं१।९३अ/ उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश्चैव धारणात् । %[ं।ज्यैष्ठ्याद्] ं१।९३च्/ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ Bछ्.Sछ्॥ ं१।९४अ/ तं हि स्वयंभूः स्वादास्यात् तपस्तप्त्वाऽदितोऽसृजत् । ं१।९४च्/ हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ Bछ्.Sछ्॥ ं१।९५अ/ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः । ं१।९५च्/ कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ Bछ्.Sछ्॥ ं१।९६अ/ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । ं१।९६च्/ बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ Bछ्.Sछ्॥ ं१।९७अ/ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । ं१।९७च्/ कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ Bछ्.Sछ्॥ ं१।९८अ/ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । ं१।९८च्/ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ Bछ्.Sछ्॥ ं१।९९अ/ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ं१।९९च्/ ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ Bछ्.Sछ्॥ ं१।१००अ/ सर्वं स्वं ब्राह्मणस्येदं यत् किं चित्जगतीगतम् । ं१।१००च्/ श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥ Bछ्.Sछ्॥ ं१।१०१अ/ स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । ं१।१०१च्/ आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ Bछ्.Sछ्॥ ं१।१०२अ/ तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः । ं१।१०२च्/ स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ Bछ्.Sछ्॥ ं१।१०३अ/ विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः । ं१।१०३च्/ शिश्येभ्यश्च प्रवक्तव्यं सम्यग़् नान्येन केन चित् ॥ Bछ्.Sछ्॥ ं१।१०४अ/ इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः । ं१।१०४च्/ मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥ Bछ्.Sछ्॥ ं१।१०५अ/ पुनाति पङ्क्तिं वंश्यांश्च ?? सप्तसप्त परावरान् । ं१।१०५च्/ पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ Bछ्.Sछ्॥ ं१।१०६अ/ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । ं१।१०६च्/ इदं यशस्यमायुष्यं इदं निःश्रेयसं परम् ॥ Bछ्.Sछ्॥ %[ं। इदं यशस्यं सततम्] ं१।१०७अ/ अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् । ं१।१०७च्/ चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ Bछ्.Sछ्॥ ं१।१०८अ/ आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च । ं१।१०८च्/ तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ Bछ्.Sछ्॥ ं१।१०९अ/ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते । ं१।१०९च्/ आचारेण तु संयुक्तः सम्पूर्णफलभाग् भवेत् ॥ Bछ्.Sछ्॥ %[ं। सम्पूर्णफलभाक् स्मृतः] ं१।११०अ/ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । ं१।११०च्/ सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ Bछ्.Sछ्॥ ं१।१११अ/ जगतश्च समुत्पत्तिं संस्कारविधिमेव च । ं१।१११च्/ व्रतचर्यौपचारं च स्नानस्य च परं विधिम् ॥ Bछ्.Sछ्॥ ं१।११२अ/ दाराधिगमनं चैव विवाहानां च लक्षणम् । ं१।११२च्/ महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ Bछ्.Sछ्॥ ं१।११३अ/ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । ं१।११३च्/ भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ Bछ्.Sछ्॥ ं१।११४अ/ स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च । ं१।११४च्/ राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ Bछ्.Sछ्॥ ं१।११५अ/ साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि । ं१।११५च्/ विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ Bछ्.Sछ्॥ ं१।११६अ/ वैश्यशूद्रोपचारं च सङ्कीर्णानां च संभवम् । ं१।११६च्/ आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ Bछ्.Sछ्॥ ं१।११७अ/ संसारगमनं चैव त्रिविधं कर्मसंभवम् । ं१।११७च्/ निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ Bछ्.Sछ्॥ ं१।११८अ/ देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् । ं१।११८च्/ पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥ Bछ्.Sछ्॥ ं१।११९अ/ यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया । ं१।११९च्/ तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ Bछ्.Sछ्॥

अध्याय २

ं२।०१अ/ विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । ं२।०१च्/ हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ Bछ्.Sछ्॥ ं२।०२अ/ कामात्मता न प्रशस्ता न चैवैहास्त्यकामता । ं२।०२च्/ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ Bछ्.Sछ्॥ ं२।०३अ/ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसंभवाः । ं२।०३च्/ व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ Bछ्.Sछ्॥ ं२।०४अ/ अकामस्य क्रिया का चिद् दृश्यते नैह कर्हि चित् । ं२।०४च्/ यद् यद् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ॥ Bछ्.Sछ्॥ ं२।०५अ/ तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् । ं२।०५च्/ यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ॥ Bछ्.Sछ्॥ ं२।०६अ/ वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । ं२।०६च्/ आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ Bछ्.Sछ्॥ ं२।०७अ/ यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः । ं२।०७च्/ स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ Bछ्.Sछ्॥ ं२।०८अ/ सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा । ं२।०८च्/ श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ Bछ्.Sछ्॥ ं२।०९अ/ श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः । ं२।०९च्/ इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ Bछ्.Sछ्॥ ं२।१०अ/ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ं२।१०च्/ ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ Bछ्.Sछ्॥ ं२।११अ/ योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः । ं२।११च्/ स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ Bछ्.Sछ्॥ ं२।१२अ/ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । ं२।१२च्/ एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ Bछ्.Sछ्॥ ं२।१३अ/ अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । ं२।१३च्/ धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ Bछ्.Sछ्॥ ं२।१४अ/ श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ । ं२।१४च्/ उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ Bछ्.Sछ्॥ ं२।१५अ/ उदितेऽनुदिते चैव समयाध्युषिते तथा । ं२।१५च्/ सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ Bछ्.Sछ्॥ ं२।१६अ/ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । ं२।१६च्/ तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥ Bछ्.Sछ्॥ ं२।१७अ/ सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । ं२।१७च्/ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ Bछ्.Sछ्॥ ं२।१८अ/ तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । ं२।१८च्/ वर्णानां सान्तरालानां स सदाचार उच्यते ॥ Bछ्.Sछ्॥ ं२।१९अ/ कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । ं२।१९च्/ एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ Bछ्.Sछ्॥ ं२।२०अ/ एतद् देशप्रसूतस्य सकाशादग्रजन्मनः । ं२।२०च्/ स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ Bछ्.Sछ्॥ ं२।२१अ/ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । ं२।२१च्/ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ Bछ्.Sछ्॥ ं२।२२अ/ आ समुद्रात् तु वै पूर्वादा समुद्राच्च पश्चिमात् । ं२।२२च्/ तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ Bछ्.Sछ्॥ ं२।२३अ/ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । ं२।२३च्/ स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ Bछ्.Sछ्॥ ं२।२४अ/ एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः । ं२।२४च्/ शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ॥Bछ्.Sछ्॥ %[ं।यस्मिंस्तस्मिन् वा ] ं२।२५अ/ एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । ं२।२५च्/ संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ Bछ्.Sछ्॥ ं२।२६अ/ वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । ं२।२६च्/ कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ॥ Bछ्.Sछ्॥ ं२।२७अ/ गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः । ं२।२७च्/ बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ॥ Bछ्.Sछ्॥ ं२।२८अ/ स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । ं२।२८च्/ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ Bछ्.Sछ्॥ ं२।२९अ/ प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते । ं२।२९च्/ मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ Bछ्.Sछ्॥ ं२।३०अ/ नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् । ं२।३०च्/ पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ Bछ्.Sछ्॥ ं२।३१अ/ मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् । ं२।३१च्/ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ Bछ्.Sछ्॥ ं२।३२अ/ शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् । %[ं राज्ञा ?] ं२।३२च्/ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ Bछ्.Sछ्॥ ं२।३३अ/ स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् । ं२।३३च्/ मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ Bछ्.Sछ्॥ ं२।३४अ/ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । ं२।३४च्/ षष्ठेऽन्नप्राशनं मासि यद् वैष्टं मङ्गलं कुले ॥ Bछ्.Sछ्॥ ं२।३५अ/ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । ं२।३५च्/ प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ Bछ्.Sछ्॥ %[ं।श्रुतिनोदनात्] ं२।३६अ/ गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् । ं२।३६च्/ गर्भादेकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ Bछ्.Sछ्॥ ं२।३७अ/ ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे । ं२।३७च्/ राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ॥ Bछ्.Sछ्॥ ं२।३८अ/ आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते । ं२।३८च्/ आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ Bछ्.Sछ्॥ ं२।३९अ/ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । ं२।३९च्/ सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ Bछ्.Sछ्॥ ं२।४०अ/ नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् । ं२।४०च्/ ब्राह्मान् यौनांश्च संबन्धान्नाचरेद् ब्राह्मणः सह ॥ Bछ्.Sछ्॥ %[ं।ब्राह्मणैः सह ] ं२।४१अ/ कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः । ं२।४१च्/ वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ Bछ्.Sछ्॥ ं२।४२अ/ मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला । ं२।४२च्/ क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ Bछ्.Sछ्॥ ं२।४३अ/ मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । ं२।४३च्/ त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ Bछ्.Sछ्॥ ं२।४४अ/ कार्पासमुपवीतं स्याद् विप्रस्यौर्ध्ववृतं त्रिवृत् । ं२।४४च्/ शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ Bछ्.Sछ्॥ ं२।४५अ/ ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ । ं२।४५च्/ पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ Bछ्.Sछ्॥ ं२।४६अ/ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ं२।४६च्/ ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥ Bछ्.Sछ्॥ ं२।४७अ/ ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । ं२।४७च्/ अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ Bछ्.Sछ्॥ ं२।४८अ/ प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । ं२।४८च्/ प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ Bछ्.Sछ्॥ ं२।४९अ/ भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः । ं२।४९च्/ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥Bछ्.Sछ्॥ ं२।५०अ/ मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । ं२।५०च्/ भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ Bछ्.Sछ्॥ ं२।५१अ/ समाहृत्य तु तद् भैक्षं यावदन्नममायया । %[ं।यावदर्थं ] ं२।५१च्/ निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ Bछ्.Sछ्॥ ं२।५२अ/ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । ं२।५२च्/ श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ Bछ्.Sछ्॥ ं२।५३अ/ उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः । ं२।५३च्/ भुक्त्वा चौपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥ Bछ्.Sछ्॥ ं२।५४अ/ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । ं२।५४च्/ दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ Bछ्.Sछ्॥ ं२।५५अ/ पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति । ं२।५५च्/ अपूजितं तु तद् भुक्तमुभयं नाशयेदिदम् ॥ Bछ्.Sछ्॥ ं२।५६अ/ नौच्छिष्टं कस्य चिद् दद्यान्नाद्यादेतत् तथाऽन्तरा । ं२।५६च्/ न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद् व्रजेत् ॥ Bछ्.Sछ्॥ ं२।५७अ/ अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । ं२।५७च्/ अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं२।५८अ/ ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । ं२।५८च्/ कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ Bछ्.Sछ्॥ ं२।५९अ/ अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । ं२।५९च्/ कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ Bछ्.Sछ्॥ ं२।६०अ/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । ं२।६०च्/ खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ Bछ्.Sछ्॥ ं२।६१अ/ अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । ं२।६१च्/ शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ॥ Bछ्.Sछ्॥ ं२।६२अ/ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । ं२।६२च्/ वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ Bछ्.Sछ्॥ ं२।६३अ/ उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः । ं२।६३च्/ सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ Bछ्.Sछ्॥ ं२।६४अ/ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । ं२।६४च्/ अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ Bछ्.Sछ्॥ ं२।६५अ/ केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । ं२।६५च्/ राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥ Bछ्.Sछ्॥ ं२।६६अ/ अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः । ं२।६६च्/ संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ Bछ्.Sछ्॥ ं२।६७अ/ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । ं२।६७च्/ पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ Bछ्.Sछ्॥ ं२।६८अ/ एष प्रोक्तो द्विजातीनामौपनायनिको विधिः । ं२।६८च्/ उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ Bछ्.Sछ्॥ ं२।६९अ/ उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः । ं२।६९च्/ आचारमग्निकार्यं च संध्यौपासनमेव च ॥ Bछ्.Sछ्॥ ं२।७०अ/ अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । ं२।७०च्/ ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ॥ Bछ्.Sछ्॥ ं२।७१अ/ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । ं२।७१च्/ संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ Bछ्.Sछ्॥ ं२।७२अ/ व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । ं२।७२च्/ सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ Bछ्.Sछ्॥ ं२।७३अ/ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः । ं२।७३च्/ अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति चारमेत् ॥ Bछ्.Sछ्॥ ं२।७४अ/ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । ं२।७४च्/ स्रवत्यनोङ्कृतं ?? पूर्वं परस्ताच्च विशीर्यति ॥ Bछ्.Sछ्॥ ं२।७५अ/ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । ं२।७५च्/ प्राणायामैस्त्रिभिः पूतस्तत ओं।कारमर्हति ॥ Bछ्.Sछ्॥ ं२।७६अ/ अकारं चाप्युकारं च मकारं च प्रजापतिः । ं२।७६च्/ वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ॥ Bछ्.Sछ्॥ ं२।७७अ/ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । ं२।७७च्/ तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ Bछ्.Sछ्॥ ं२।७८अ/ एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् । ं२।७८च्/ संध्ययोर्वेदविद् विप्रो वेदपुण्येन युज्यते ॥ Bछ्.Sछ्॥ ं२।७९अ/ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः । ं२।७९च्/ महतोऽप्येनसो मासात् त्वचैवाहिर्विमुच्यते ॥ Bछ्.Sछ्॥ ं२।८०अ/ एतयाऋचा विसंयुक्तः काले च क्रियया स्वया । ं२।८०च्/ ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ॥ Bछ्.Sछ्॥ ं२।८१अ/ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । %[ंओङ्कार] ं२।८१च्/ त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ Bछ्.Sछ्॥ ं२।८२अ/ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । ं२।८२च्/ स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ Bछ्.Sछ्॥ ं२।८३अ/ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । ं२।८३च्/ सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ Bछ्.Sछ्॥ ं२।८४अ/ क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः । ं२।८४च्/ अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ Bछ्.Sछ्॥ %[ं। अक्षरं त्वक्षरं ज्ञेयं] ं२।८५अ/ विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर्गुणैः । ं२।८५च्/ उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ॥ Bछ्.Sछ्॥ ं२।८६अ/ ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः । ं२।८६च्/ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ Bछ्.Sछ्॥ ं२।८७अ/ जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । ं२।८७च्/ कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ Bछ्.Sछ्॥ ं२।८८अ/ इन्द्रियाणां विचरतां विषयेष्वपहारिषु । ं२।८८च्/ संयमे यत्नमातिष्ठेद् विद्वान् यन्तैव वाजिनाम् ॥ Bछ्.Sछ्॥ ं२।८९अ/ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । ं२।८९च्/ तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः ॥ Bछ्.Sछ्॥ ं२।९०अ/ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । ं२।९०च्/ पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता । ं२।९१अ/ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः । ं२।९१च्/ कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ Bछ्.Sछ्॥ ं२।९२अ/ एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् । ं२।९२च्/ यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ Bछ्.Sछ्॥ ं२।९३अ/ इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् । ं२।९३च्/ संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ Bछ्.Sछ्॥ ं२।९४अ/ न जातु कामः कामानामुपभोगेन शाम्यति । ं२।९४च्/ हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ Bछ्.Sछ्॥ ं२।९५अ/ यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् ॥ Bछ्.Sछ्॥ ं२।९५च्/ प्रापणात् सर्वकामानां परित्यागो विशिष्यते । ं२।९६अ/ न तथैतानि शक्यन्ते संनियन्तुमसेवया ॥ Bछ्.Sछ्॥ ं२।९६च्/ विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ Bछ्.Sछ्॥ ं२।९७अ/ वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । ं२।९७च्/ न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥ Bछ्.Sछ्॥ ं२।९८अ/ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । ं२।९८च्/ न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥ Bछ्.Sछ्॥ ं२।९९अ/ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । ं२।९९च्/ तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ Bछ्.Sछ्॥ ं२।१००अ/ वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । ं२।१००च्/ सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ Bछ्.Sछ्॥ ं२।१०१अ/ पूर्वां संध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् । ं२।१०१च्/ पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ॥ Bछ्.Sछ्॥ %[ं। पश्चिमां तु सदासीत] ं२।१०२अ/ पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति । ं२।१०२च्/ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ Bछ्.Sछ्॥ ं२।१०३अ/ न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् । ं२।१०३च्/ स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ Bछ्.Sछ्॥ ं२।१०४अ/ अपां समीपे नियतो नैत्यकं विधिमास्थितः । ं२।१०४च्/ सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ Bछ्.Sछ्॥ ं२।१०५अ/ वेदौपकरणे चैव स्वाध्याये चैव नैत्यके । ं२।१०५च्/ नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ Bछ्.Sछ्॥ ं२।१०६अ/ नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ॥ Bछ्.Sछ्॥ ं२।१०६च्/ ब्रह्माहुतिहुतं पुण्यमनध्यायवषट् कृतम् ??॥ Bछ्.Sछ्॥ ं२।१०७अ/ यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः । ं२।१०७च्/ तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ Bछ्.Sछ्॥ ं२।१०८अ/ अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् । ं२।१०८च्/ आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ Bछ्.Sछ्॥ ं२।१०९अ/ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । ं२।१०९च्/ आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ?? ॥ Bछ्.Sछ्॥ ं२।११०अ/ नापृष्टः कस्य चिद् ब्रूयान्न चान्यायेन पृच्छतः । ं२।११०च्/ जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ Bछ्.Sछ्॥ ं२।१११अ/ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । ं२।१११च्/ तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥ Bछ्.Sछ्॥ ं२।११२अ/ धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । ं२।११२च्/ तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ॥ Bछ्.Sछ्॥ ं२।११३अ/ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । ं२।११३च्/ आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ Bछ्.Sछ्॥ ं२।११४अ/ विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् । %[ं।शेवधिष् टे] ं२।११४च्/ असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ Bछ्.Sछ्॥ ं२।११५अ/ यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् । %[ं। विद्या नियतं ब्रह्मचारिणम्] ं२।११५च्/ तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । ं२।११६अ/ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । ं२।११६च्/ स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते । ं२।११७अ/ लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा । ं२।११७च्/ आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ Bछ्.Sछ्॥ ं२।११८अ/ सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । ं२।११८च्/ नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ Bछ्.Sछ्॥ ं२।११९अ/ शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् । ं२।११९च्/ शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥ Bछ्.Sछ्॥ ं२।१२०अ/ ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति । ं२।१२०च्/ प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ Bछ्.Sछ्॥ ं२।१२१अ/ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । ं२।१२१च्/ चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ॥ Bछ्.Sछ्॥ %[ं। चत्वारि सम्प्रवर्धन्ते] ं२।१२२अ/ अभिवादात् परं विप्रो ज्यायांसमभिवादयन् । ं२।१२२च्/ असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ Bछ्.Sछ्॥ ं२।१२३अ/ नामधेयस्य ये के चिदभिवादं न जानते । ं२।१२३च्/ तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥ Bछ्.Sछ्॥ ं२।१२४अ/ भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । ं२।१२४च्/ नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ Bछ्.Sछ्॥ ं२।१२५अ/ आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने । ं२।१२५च्/ अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ Bछ्.Sछ्॥ ं२।१२६अ/ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । ं२।१२६च्/ नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ Bछ्.Sछ्॥ ं२।१२७अ/ ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । ं२।१२७च्/ वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ Bछ्.Sछ्॥ ं२।१२८अ/ अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । ं२।१२८च्/ भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ Bछ्.Sछ्॥ ं२।१२९अ/ परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः । ं२।१२९च्/ तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च ॥ Bछ्.Sछ्॥ ं२।१३०अ/ मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् । ं२।१३०च्/ असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ Bछ्.Sछ्॥ ं२।१३१अ/ मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा । ं२।१३१च्/ सम्पूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥ Bछ्.Sछ्॥ ं२।१३२अ/ भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि । ं२।१३२च्/ विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसंबन्धियोषितः ॥ Bछ्.Sछ्॥ ं२।१३३अ/ पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । ं२।१३३च्/ मातृवद् वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ॥ Bछ्.Sछ्॥ ं२।१३४अ/ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । ं२।१३४च्/ त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ Bछ्.Sछ्॥ ं२।१३५अ/ ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । ं२।१३५च्/ पितापुत्रौ विजानीयाद् ब्राह्मणस्तु तयोः पिता ॥ Bछ्.Sछ्॥ ं२।१३६अ/ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । ं२।१३६च्/ एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥ Bछ्.Sछ्॥ %[ंंआनस्थानानि ] ं२।१३७अ/ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । ं२।१३७च्/ यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ Bछ्.Sछ्॥ ं२।१३८अ/ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । ं२।१३८च्/ स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ Bछ्.Sछ्॥ ं२।१३९अ/ तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ । ं२।१३९च्/ राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ Bछ्.Sछ्॥ ं२।१४०अ/ उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । ं२।१४०च्/ सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ Bछ्.Sछ्॥ ं२।१४१अ/ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । ं२।१४१च्/ योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ Bछ्.Sछ्॥ ं२।१४२अ/ निषेकादीनि कर्माणि यः करोति यथाविधि । ं२।१४२च्/ संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ Bछ्.Sछ्॥ ं२।१४३अ/ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् । ं२।१४३च्/ यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ Bछ्.Sछ्॥ ं२।१४४अ/ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । ं२।१४४च्/ स माता स पिता ज्ञेयस्तं न द्रुह्येत् कदा चन ॥ Bछ्.Sछ्॥ ं२।१४५अ/ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । ं२।१४५च्/ सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ Bछ्.Sछ्॥ ं२।१४६अ/ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ं२।१४६च्/ ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ॥ Bछ्.Sछ्॥ ं२।१४७अ/ कामान् माता पिता चैनं यदुत्पादयतो मिथः । ं२।१४७च्/ संभूतिं तस्य तां विद्याद् यद् योनावभिजायते ॥ Bछ्.Sछ्॥ ं२।१४८अ/ आचार्यस्त्वस्य यां जातिं विधिवद् वेदपारगः । ं२।१४८च्/ उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥ Bछ्.Sछ्॥ ं२।१४९अ/ अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः । ं२।१४९च्/ तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ॥ Bछ्.Sछ्॥ ं२।१५०अ/ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । ं२।१५०च्/ बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ Bछ्.Sछ्॥ ं२।१५१अ/ अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । ं२।१५१च्/ पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ॥ Bछ्.Sछ्॥ ं२।१५२अ/ ते तमर्थमपृच्छन्त देवानागतमन्यवः । ं२।१५२च्/ देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ॥ Bछ्.Sछ्॥ ं२।१५३अ/ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । ं२।१५३च्/ अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ Bछ्.Sछ्॥ ं२।१५४अ/ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ं२।१५४च्/ ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ Bछ्.Sछ्॥ ं२।१५५अ/ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । ं२।१५५च्/ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ Bछ्.Sछ्॥ ं२।१५६अ/ न तेन वृद्धो भवति येनास्य पलितं शिरः । ं२।१५६च्/ यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ Bछ्.Sछ्॥ ं२।१५७अ/ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । ं२।१५७च्/ यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ Bछ्.Sछ्॥ ं२।१५८अ/ यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । ं२।१५८च्/ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ Bछ्.Sछ्॥ ं२।१५९अ/ अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । ं२।१५९च्/ वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ Bछ्.Sछ्॥ ं२।१६०अ/ यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सर्वदा । ं२।१६०च्/ स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ Bछ्.Sछ्॥ ं२।१६१अ/ नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । ं२।१६१च्/ ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ Bछ्.Sछ्॥ ं२।१६२अ/ सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । ं२।१६२च्/ अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ Bछ्.Sछ्॥ ं२।१६३अ/ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ॥ Bछ्.Sछ्॥ ं२।१६३च्/ सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ Bछ्.Sछ्॥ ं२।१६४अ/ अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । ं२।१६४च्/ गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥ Bछ्.Sछ्॥ ं२।१६५अ/ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । ं२।१६५च्/ वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ Bछ्.Sछ्॥ ं२।१६६अ/ वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः । ं२।१६६च्/ वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ॥ Bछ्.Sछ्॥ ं२।१६७अ/ आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । ं२।१६७च्/ यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ Bछ्.Sछ्॥ ं२।१६८अ/ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । ं२।१६८च्/ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ Bछ्.Sछ्॥ ं२।१६९अ/ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने । ं२।१६९च्/ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ Bछ्.Sछ्॥ ं२।१७०अ/ तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । ं२।१७०च्/ तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ Bछ्.Sछ्॥ ं२।१७१अ/ वेदप्रदानादाचार्यं पितरं परिचक्षते । ं२।१७१च्/ न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ Bछ्.Sछ्॥ ं२।१७२अ/ नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते । ं२।१७२च्/ शूद्रेण हि समस्तावद् यावद् वेदे न जायते ॥ Bछ्.Sछ्॥ ं२।१७३अ/ कृतौपनयनस्यास्य व्रतादेशनमिष्यते । ं२।१७३च्/ ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ Bछ्.Sछ्॥ ं२।१७४अ/ यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला । ं२।१७४च्/ यो दण्डो यत्च वसनं तत् तदस्य व्रतेष्वपि ॥ Bछ्.Sछ्॥ ं२।१७५अ/ सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । ं२।१७५च्/ सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ Bछ्.Sछ्॥ ं२।१७६अ/ नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् । ं२।१७६च्/ देवताभ्यर्चनं चैव समिदाधानमेव च ॥ Bछ्.Sछ्॥ ं२।१७७अ/ वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः । ं२।१७७च्/ शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ Bछ्.Sछ्॥ ं२।१७८अ/ अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । ं२।१७८च्/ कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ Bछ्.Sछ्॥ ं२।१७९अ/ द्यूतं च जनवादं च परिवादं तथाऽनृतम् । ं२।१७९च्/ स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ Bछ्.Sछ्॥%(ं।आलम्भाऽव्) ं२।१८०अ/ एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् । ं२।१८०च्/ कामाद् हि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ Bछ्.Sछ्॥ ं२।१८१अ/ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । ं२।१८१च्/ स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ Bछ्.Sछ्॥ ं२।१८२अ/ उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् । ं२।१८२च्/ आहरेद् यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ Bछ्.Sछ्॥ ं२।१८३अ/ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ं२।१८३च्/ ब्रह्मचार्याहरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ Bछ्.Sछ्॥ ं२।१८४अ/ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । ं२।१८४च्/ अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ Bछ्.Sछ्॥ ं२।१८५अ/ सर्वं वापि चरेद् ग्रामं पूर्वौक्तानामसंभवे । ं२।१८५च्/ नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ Bछ्.Sछ्॥ ं२।१८६अ/ दूरादाहृत्य समिधः सन्निदध्याद् विहायसि । ं२।१८६च्/ सायं।प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ॥ Bछ्.Sछ्॥ ं२।१८७अ/ अकृत्वा भैक्षचरणमसमिध्य च पावकम् । ं२।१८७च्/ अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ Bछ्.Sछ्॥ ं२।१८८अ/ भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती । ं२।१८८च्/ भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ Bछ्.Sछ्॥ ं२।१८९अ/ व्रतवद् देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् । ं२।१८९च्/ काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते ॥ Bछ्.Sछ्॥ ं२।१९०अ/ ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । ं२।१९०च्/ राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते ॥ Bछ्.Sछ्॥ ं२।१९१अ/ चोदितो गुरुणा नित्यमप्रचोदित एव वा । ं२।१९१च्/ कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ Bछ्.Sछ्॥ %[ंऽध्ययने योगम्] ं२।१९२अ/ शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । ं२।१९२च्/ नियम्य प्राञ्जलिस्तिष्ठेद् वीक्षमाणो गुरोर्मुखम् ॥ Bछ्.Sछ्॥ ं२।१९३अ/ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः । ं२।१९३च्/ आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ॥ Bछ्.Sछ्॥ ं२।१९४अ/ हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ । ं२।१९४च्/ उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ Bछ्.Sछ्॥ ं२।१९५अ/ प्रतिश्रावणसंभाषे शयानो न समाचरेत् । ं२।१९५च्/ नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ Bछ्.Sछ्॥ ं२।१९६अ/ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः । ं२।१९६च्/ प्रत्युद्गम्य त्वाव्रजतः पश्चाद् धावंस्तु धावतः ॥ Bछ्.Sछ्॥ ं२।१९७अ/ पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् । ं२।१९७च्/ प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ Bछ्.Sछ्॥ ं२।१९८अ/ नीचं शय्याऽऽसनं चास्य नित्यं स्याद् गुरुसन्निधौ । ं२।१९८च्/ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ Bछ्.Sछ्॥ ं२।१९९अ/ नौदाहरेदस्य नाम परोक्षमपि केवलम् । ं२।१९९च्/ न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ Bछ्.Sछ्॥ ं२।२००अ/ गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते । ं२।२००च्/ कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ Bछ्.Sछ्॥ ं२।२०१अ/ परीवादात् खरो भवति श्वा वै भवति निन्दकः । ं२।२०१च्/ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ Bछ्.Sछ्॥ ं२।२०२अ/ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । ं२।२०२च्/ यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ Bछ्.Sछ्॥ ं२।२०३अ/ प्रतिवातेऽनुवाते च नासीत गुरुणा सह । %[ं।प्रतिवातानुवाते] ं२।२०३च्/ असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ Bछ्.Sछ्॥ ं२।२०४अ/ गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । ं२।२०४च्/ आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ Bछ्.Sछ्॥ ं२।२०५अ/ गुरोर्गुरौ सन्निहिते गुरुवद् वृत्तिमाचरेत् । ं२।२०५च्/ न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ Bछ्.Sछ्॥ ं२।२०६अ/ विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु । ं२।२०६च्/ प्रतिषेधत्सु चाधर्माद् हितं चोपदिशत्स्वपि ॥ Bछ्.Sछ्॥ ं२।२०७अ/ श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् । ं२।२०७च्/ गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ Bछ्.Sछ्॥ %[ं।गुरुपुत्रे तथाचार्ये] ं२।२०८अ/ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । ं२।२०८च्/ अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ॥ Bछ्.Sछ्॥ ं२।२०९अ/ उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने । ं२।२०९च्/ न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ Bछ्.Sछ्॥ ं२।२१०अ/ गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । ं२।२१०च्/ असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ Bछ्.Sछ्॥ ं२।२११अ/ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । ं२।२११च्/ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ Bछ्.Sछ्॥ ं२।२१२अ/ गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः । ं२।२१२च्/ पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ Bछ्.Sछ्॥ ं२।२१३अ/ स्वभाव एष नारीणां नराणामिह दूषणम् । ं२।२१३च्/ अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ Bछ्.Sछ्॥ ं२।२१४अ/ अविद्वांसमलं लोके विद्वांसमपि वा पुनः । ं२।२१४च्/ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ Bछ्.Sछ्॥ ं२।२१५अ/ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । ं२।२१५च्/ बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ Bछ्.Sछ्॥ ं२।२१६अ/ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । ं२।२१६च्/ विधिवद् वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ Bछ्.Sछ्॥ ं२।२१७अ/ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । ं२।२१७च्/ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥ ं२।२१८अ/ यथा खनन् खनित्रेण नरो वार्यधिगच्छति । ं२।२१८च्/ तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ Bछ्.Sछ्॥ ं२।२१९अ/ मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः । ं२।२१९च्/ नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् ॥ Bछ्.Sछ्॥ ं२।२२०अ/ तं चेदभ्युदियात् सूर्यः शयानं कामचारतः । ं२।२२०च्/ निम्लोचेद् वाऽप्यविज्ञानाज् जपन्नुपवसेद् दिनम् ॥ Bछ्.Sछ्॥ ं२।२२१अ/ सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । %[ंऽभिनिम्लुक्तः] ं२।२२१च्/ प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ॥ Bछ्.Sछ्॥ ं२।२२२अ/ आचम्य प्रयतो नित्यमुभे संध्ये समाहितः । ं२।२२२च्/ शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ Bछ्.Sछ्॥ ं२।२२३अ/ यदि स्त्री यद्यवरजः श्रेयः किं चित् समाचरेत् । ं२।२२३च्/ तत् सर्वमाचरेद् युक्तो यत्र चास्य रमेन् मनः ॥ Bछ्.Sछ्॥ ं२।२२४अ/ धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च । ं२।२२४च्/ अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ Bछ्.Sछ्॥ ं२।२२५अ/ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । ं२।२२५च्/ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ Bछ्.Sछ्॥ ं२।२२६अ/ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । ं२।२२६च्/ माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ Bछ्.Sछ्॥ ं२।२२७अ/ यं मातापितरौ क्लेशं सहेते संभवे नृणाम् । ं२।२२७च्/ न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ Bछ्.Sछ्॥ ं२।२२८अ/ तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । ं२।२२८च्/ तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ Bछ्.Sछ्॥ ं२।२२९अ/ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । ं२।२२९च्/ न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ Bछ्.Sछ्॥ ं२।२३०अ/ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । ं२।२३०च्/ त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ॥ Bछ्.Sछ्॥ ं२।२३१अ/ पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः । ं२।२३१च्/ गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ Bछ्.Sछ्॥ ं२।२३२अ/ त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही । ं२।२३२च्/ दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥ Bछ्.Sछ्॥ ं२।२३३अ/ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । ं२।२३३च्/ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ Bछ्.Sछ्॥ ं२।२३४अ/ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । ं२।२३४च्/ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ Bछ्.Sछ्॥ ं२।२३५अ/ यावत् त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् । ं२।२३५च्/ तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ Bछ्.Sछ्॥ ं२।२३६अ/ तेषामनुपरोधेन पारत्र्यं यद् यदाचरेत् । ं२।२३६च्/ तत् तन्निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥ Bछ्.Sछ्॥ ं२।२३७अ/ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । ं२।२३७च्/ एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ Bछ्.Sछ्॥ ं२।२३८अ/ श्रद्दधानः शुभां विद्यामाददीतावरादपि । ं२।२३८च्/ अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ Bछ्.Sछ्॥ ं२।२३९अ/ विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । ं२।२३९च्/ अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ Bछ्.Sछ्॥ ं२।२४०अ/ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । ं२।२४०च्/ विविधानि च शिल्पानि समादेयानि सर्वतः ॥ Bछ्.Sछ्॥ ं२।२४१अ/ अब्राह्मणादध्यायनमापत्काले विधीयते । ं२।२४१च्/ अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥ Bछ्.Sछ्॥ ं२।२४२अ/ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । ं२।२४२च्/ ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ Bछ्.Sछ्॥ ं२।२४३अ/ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । ं२।२४३च्/ युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ Bछ्.Sछ्॥ ं२।२४४अ/ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । ं२।२४४च्/ स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ Bछ्.Sछ्॥ ं२।२४५अ/ न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् । ं२।२४५च्/ स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ॥ Bछ्.Sछ्॥ ं२।२४६अ/ क्षेत्रं हिरण्यं गामश्वं छत्रौपानहमासनम् । %[ं।छत्रोपानहमन्ततः] ं२।२४६च्/ धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ Bछ्.Sछ्॥ %[ं।धान्यं वासांसि शाकं वा गुरवे प्रीतिमाहरन्)] ं२।२४७अ/ आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । ं२।२४७च्/ गुरुदारे सपिण्डे वा गुरुवद् वृत्तिमाचरेत् ॥ Bछ्.Sछ्॥ ं२।२४८अ/ एतेष्वविद्यमानेषु स्थानासनविहारवान् । ं२।२४८च्/ प्रयुञ्जानोऽग्निशुश्रूषां साधयेद् देहमात्मनः ॥ Bछ्.Sछ्॥ ं२।२४९अ/ एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः । ं२।२४९च्/ स गच्छत्युत्तमस्थानं न चैह जायते पुनः ॥ Bछ्.Sछ्॥

अध्याय ३

ं३।०१अ/ षट् त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । ं३।०१च्/ तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ Bछ्.Sछ्॥ ं३।०२अ/ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । ं३।०२च्/ अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ Bछ्.Sछ्॥ ं३।०३अ/ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । ं३।०३च्/ स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥ Bछ्.Sछ्॥ ं३।०४अ/ गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । ं३।०४च्/ उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ Bछ्.Sछ्॥ ं३।०५अ/ असपिण्डा च या मातुरसगोत्रा च या पितुः । ं३।०५च्/ सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ Bछ्.Sछ्॥ %[ंऽमैथिनी] ं३।०६अ/ महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । ं३।०६च्/ स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं३।०७अ/ हीनक्रियं निश्पुरुषं निश्छन्दो रोमशार्शसम् ??। ं३।०७च्/ क्षयामयाव्य्ऽपस्मारिश्वित्रिकुष्ठिकुलानि च ??॥ Bछ्.Sछ्॥ ं३।०८अ/ नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । ं३।०८च्/ नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥ Bछ्.Sछ्॥ %[ं।वाचालां ] ं३।०९अ/ नऋक्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । ं३।०९च्/ न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ Bछ्.Sछ्॥ ं३।१०अ/ अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । ं३।१०च्/ तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥ Bछ्.Sछ्॥ ं३।११अ/ यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । %[ं।वै(वा पिता] ं३।११च्/ नौपयच्छेत तां प्राज्ञः पुत्रिकाऽधर्मशङ्कया ॥ Bछ्.Sछ्॥ ं३।१२अ/ सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि । ं३।१२च्/ कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ Bछ्.Sछ्॥ ं३।१३अ/ शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । ं३।१३च्/ ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ Bछ्.Sछ्॥ ं३।१४अ/ न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः । ं३।१४च्/ कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्यौपदिश्यते ॥ Bछ्.Sछ्॥ ं३।१५अ/ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । ं३।१५च्/ कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥ Bछ्.Sछ्॥ ं३।१६अ/ शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च । ं३।१६च्/ शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ Bछ्.Sछ्॥ ं३।१७अ/ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । ं३।१७च्/ जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ Bछ्.Sछ्॥ ं३।१८अ/ दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । ं३।१८च्/ नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥ Bछ्.Sछ्॥ ं३।१९अ/ वृषलीफेनपीतस्य निःश्वासोपहतस्य च । ं३।१९च्/ तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ Bछ्.Sछ्॥ ं३।२०अ/ चतुर्णामपि वर्णानं प्रेत्य चैह हिताहितान् । ं३।२०च्/ अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥ Bछ्.Sछ्॥ ं३।२१अ/ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽसुरः । ं३।२१च्/ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ Bछ्.Sछ्॥ ं३।२२अ/ यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ । ं३।२२च्/ तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ Bछ्.Sछ्॥ ं३।२३अ/ षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् । ं३।२३च्/ विश्।शूद्रयोस्तु तानेव विद्याद् धर्म्यानराक्षसान् ॥ Bछ्.Sछ्॥ %[ं।धर्म्यान्न राक्षसान्] ं३।२४अ/ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । ं३।२४च्/ राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ Bछ्.Sछ्॥ ं३।२५अ/ पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह । ं३।२५च्/ पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन ॥ Bछ्.Sछ्॥ ं३।२६अ/ पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ । ं३।२६च्/ गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ Bछ्.Sछ्॥ ं३।२७अ/ आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् । ं३।२७च्/ आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ Bछ्.Sछ्॥ ं३।२८अ/ यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते । ं३।२८च्/ अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ Bछ्.Sछ्॥ ं३।२९अ/ एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । ं३।२९च्/ कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ Bछ्.Sछ्॥ ं३।३०अ/ सहौभौ चरतां धर्ममिति वाचाऽनुभाष्य च । ं३।३०च्/ कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ Bछ्.Sछ्॥ ं३।३१अ/ ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । ं३।३१च्/ कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ Bछ्.Sछ्॥ ं३।३२अ/ इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । ं३।३२च्/ गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ Bछ्.Sछ्॥ ं३।३३अ/ हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । ं३।३३च्/ प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ Bछ्.Sछ्॥ ं३।३४अ/ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । ं३।३४च्/ स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ॥ Bछ्.Sछ्॥ %[ं।पैशाचः प्रथितोऽधमः] ं३।३५अ/ अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते । ं३।३५च्/ इतरेषां तु वर्णानामितरेतरकाम्यया ॥ Bछ्.Sछ्॥ ं३।३६अ/ यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः । ं३।३६च्/ सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥ Bछ्.Sछ्॥ %[ं।सम्यक् कीर्तयतो] ं३।३७अ/ दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । ं३।३७च्/ ब्राह्मीपुत्रः सुकृतकृत्मोचयत्येनसः पितॄन् ॥ Bछ्.Sछ्॥ ं३।३८अ/ दैवौढाजः सुतश्चैव सप्त सप्त परावरान् । ं३।३८च्/ आर्षौढाजः सुतस्त्रींस्त्रीन् षट् षट् कायौढजः सुतः ॥ Bछ्.Sछ्॥ ं३।३९अ/ ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः । ं३।३९च्/ ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥ Bछ्.Sछ्॥ %[ं।ब्रह्मवर्चसिनः] ं३।४०अ/ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । ं३।४०च्/ पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ Bछ्.Sछ्॥ ं३।४१अ/ इतरेषु तु शिष्टेषु नृशंसाऽनृतवादिनः । ं३।४१च्/ जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ Bछ्.Sछ्॥ ं३।४२अ/ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । ं३।४२च्/ निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ॥ Bछ्.Sछ्॥ ं३।४३अ/ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । ं३।४३च्/ असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥ Bछ्.Sछ्॥ ं३।४४अ/ शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । ं३।४४च्/ वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ Bछ्.Sछ्॥ ं३।४५अ/ ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा । ं३।४५च्/ पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ Bछ्.Sछ्॥ ं३।४६अ/ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । ं३।४६च्/ चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥ Bछ्.Sछ्॥ ं३।४७अ/ तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या । ं३।४७च्/ त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ Bछ्.Sछ्॥ ं३।४८अ/ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । ं३।४८च्/ तस्माद् युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥ Bछ्.Sछ्॥ ं३।४९अ/ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । ं३।४९च्/ समेऽपुमान् पुं।स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ॥ Bछ्.Sछ्॥ ं३।५०अ/ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । ं३।५०च्/ ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ Bछ्.Sछ्॥ ं३।५१अ/ न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कमण्वपि । ं३।५१च्/ गृह्णंशुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ??॥ Bछ्.Sछ्॥ ं३।५२अ/ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । ं३।५२च्/ नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ Bछ्.Sछ्॥ ं३।५३अ/ आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् । ं३।५३च्/ अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः ॥ Bछ्.Sछ्॥ %[ं।तावानेव स विक्रयः] ं३।५४अ/ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । ं३।५४च्/ अर्हणं तत् कुमारीणामानृशंस्यं च केवलम् ॥ Bछ्.Sछ्॥ %[ंंअ केवलम्] ं३।५५अ/ पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा । ं३।५५च्/ पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ Bछ्.Sछ्॥ ं३।५६अ/ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । ं३।५६च्/ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ Bछ्.Sछ्॥ %[ Fओल्लोविन्ग् तेन् वेर्सेसरे मिस्सिन्गिन् ं।] ं३।५७अ/ शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् । %[नोतिन् ं] ं३।५७च्/ न शोचन्ति तु यत्रैता वर्धते तद् हि सर्वदा ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।५८अ/ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।५८च्/ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।५९अ/ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । %[नोतिन् ं] ं३।५९च्/ भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च । %[नोतिन् ं] । ं३।६०अ/ संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । %[नोतिन् ं] ं३।६०च्/ यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।६१अ/ यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । %[नोतिन् ं] ं३।६१च्/ अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।६२अ/ स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् । %[नोतिन् ं] ं३।६२च्/ तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।६३अ/ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । %[नोतिन् ं] ं३।६३च्/ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।६४अ/ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । %[नोतिन् ं] ं३।६४च्/ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।६५अ/ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । %[नोतिन् ं] ं३।६५च्/ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं३।६६अ/ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । %[नोतिन् ं] ं३।६६च्/ कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥ Bछ्.Sछ्॥ %[नोतिन् ं] %[ःएरेऽफ़्तेर्ं'ः नुम्बेरिः ᳚१०᳚] ं३।६७अ[५७ंअ]/ वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । ं३।६७च्[५७ंच्]/ पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ Bछ्.Sछ्॥ ं३।६८अ[५८ंअ]/ पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । ं३।६८च्[५८ंच्]/ कण्डनी चौदकुम्भश्च बध्यते यास्तु वाहयन् ॥ Bछ्.Sछ्॥ %[ं।वध्यते] ं३।६९अ[५९ंअ]/ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । ं३।६९च्[५९ंच्]/ पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ Bछ्.Sछ्॥ ं३।७०अ[६०ंअ]/ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । ं३।७०च्[६०ंच्]/ होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ Bछ्.Sछ्॥ ं३।७१अ[६१ंअ]/ पञ्चैतान् यो महाऽयज्ञान्न हापयति शक्तितः । ं३।७१च्[६१ंच्]/ स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥ Bछ्.Sछ्॥ ं३।७२अ[६२ंअ]/ देवताऽतिथिभृत्यानां पितॄणामात्मनश्च यः । ं३।७२च्[६२ंच्]/ न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ Bछ्.Sछ्॥ ं३।७३अ[६३ंअ]/ अहुतं च हुतं चैव तथा प्रहुतमेव च । ं३।७३च्[६३ंच्]/ ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ? ॥ Bछ्.Sछ्॥ ं३।७४अ[६४ंअ]/ जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः । ं३।७४च्[६४ंच्]/ ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ? ॥ Bछ्.Sछ्॥ ं३।७५अ[६५ंअ]/ स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवैह कर्मणि । ं३।७५च्[६५ंच्]/ दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ Bछ्.Sछ्॥ ं३।७६अ[६६ंअ]/ अग्नौ प्रास्ताऽहुतिः सम्यगादित्यमुपतिष्ठते । ं३।७६च्[६६ंच्]/ आदित्याज् जायते वृष्तिर्वृष्टेरन्नं ततः प्रजाः ॥ Bछ्.Sछ्॥ ं३।७७अ[६७ंअ]/ यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । %[ं।सर्वे जीवन्ति जन्तवः] ं३।७७च्[६७ंच्]/ तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ Bछ्.Sछ्॥ %[ं।वर्तन्त इतराश्रमः] ं३।७८अ[६८ंअ]/ यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् । ं३।७८च्[६८ंच्]/ गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही ॥ Bछ्.Sछ्॥ %[क्:गृहं ] ं३।७९अ[६९ंअ]/ स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता । ं३।७९च्[६९ंच्]/ सुखं चेहेच्छताऽत्यन्तं योऽधार्यो दुर्बलेन्द्रियैः ॥ Bछ्.Sछ्॥ ं३।८०अ[७०ंअ]/ ऋषयः पितरो देवा भूतान्यतिथयस्तथा । ं३।८०च्[७०ंच्]/ आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ Bछ्.Sछ्॥ ं३।८१अ[७१ंअ]/ स्वाध्यायेनार्चयेतऋषीन् होमैर्देवान् यथाविधि । ं३।८१च्[७१ंच्]/ पितॄंश्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा ॥ Bछ्.Sछ्॥ ं३।८२अ[७२ंअ]/ कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । %[ं।दद्यादहरहः ] ं३।८२च्[७२ंच्]/ पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ Bछ्.Sछ्॥ ं३।८३अ[७३ंअ]/ एकमप्याशयेद् विप्रं पित्र्यर्थे पाञ्चयज्ञिके । %[ं।पित्र्यर्थं] ं३।८३च्[७३ंच्]/ न चैवात्राशयेत् किं चिद् वैश्वदेवं प्रति द्विजम् ॥ Bछ्.Sछ्॥ ं३।८४अ[७४ंअ]/ वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । ं३।८४च्[७४ंच्]/ आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होममन्वहम् ॥ Bछ्.Sछ्॥ ं३।८५अ[७५ंअ]/ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । ं३।८५च्[७५ंच्]/ विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ Bछ्.Sछ्॥ ं३।८६अ[७६ंअ]/ कुह्वै चैवानुमत्यै च प्रजापतय एव च । ं३।८६च्[७६ंच्]/ सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥ Bछ्.Sछ्॥ ं३।८७अ[७७ंअ]/ एवं सम्यग् हविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् । ं३।८७च्[७७ंच्]/ इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ??॥ Bछ्.Sछ्॥ ं३।८८अ[७८ंअ]/ मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ??। ं३।८८च्[७८ंच्]/ वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ Bछ्.Sछ्॥ ं३।८९अ[७९ंअ]/ उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः । ं३।८९च्[७९ंच्]/ ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ Bछ्.Sछ्॥ ं३।९०अ[८०ंअ]/ विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् । ं३।९०च्[८०ंच्]/ दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ॥ Bछ्.Sछ्॥ ं३।९१अ[८१ंअ]/ पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । %[ं।सर्वान्नभूतये ] ं३।९१च्[८१ंच्]/ पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ Bछ्.Sछ्॥ ं३।९२अ[८२ंअ]/ शूनां च पतितानां च श्वपचां पापरोगिणाम् । ं३।९२च्[८२ंच्]/ वयसानां कृमीणां च शनकैर्निर्वपेद् भुवि ॥ Bछ्.Sछ्॥ %[ं।वयसां च] ं३।९३अ[८३ंअ]/ एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति । ं३।९३च्[८३ंच्]/ स गच्छति परं स्थानं तेजोमूर्तिः पथार्जुना ॥ Bछ्.Sछ्॥ ं३।९४अ[८४ंअ]/ कृत्वैतद् बलिकर्मैवमतिथिं पूर्वमाशयेत् । ं३।९४च्[८४ंच्]/ भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ Bछ्.Sछ्॥ ं३।९५अ[८५ंअ]/ यत् पुण्यफलमाप्नोति गां दत्त्वा विधिवद् गुरोः । ं३।९५च्[८५ंच्]/ तत् पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ Bछ्.Sछ्॥ ं३।९६अ[८६ंअ]/ भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । ं३।९६च्[८६ंच्]/ वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ Bछ्.Sछ्॥ ं३।९७अ[८७ंअ]/ नश्यन्ति हव्यकव्यानि नराणामविजानताम् । ं३।९७च्[८७ंच्]/ भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥ Bछ्.Sछ्॥ %[ं।भस्मभूतेषु ] ं३।९८अ[८८ंअ]/ विद्यातपस्समृद्धेषु हुतं विप्रमुखाग्निषु । ं३।९८च्[८८ंच्]/ निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ Bछ्.Sछ्॥ ं३।९९अ[८९ंअ]/ सम्प्राप्ताय त्वतिथये प्रदद्यादासनौदके । ं३।९९च्[८९ंच्]/ अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ Bछ्.Sछ्॥ %[क्:संस्कृत्य)] ं३।१००अ[९०ंअ]/ शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः । ं३।१००च्[९०ंच्]/ सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ Bछ्.Sछ्॥ ं३।१०१अ[९१ंअ]/ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । ं३।१०१च्[९१ंच्]/ एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन ॥ Bछ्.Sछ्॥ ं३।१०२अ[९२ंअ]/ एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः । ं३।१०२च्[९२ंच्]/ अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥ Bछ्.Sछ्॥ ं३।१०३अ[९३ंअ]/ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा । ं३।१०३च्[९३ंच्]/ उपस्थितं गृहे विद्याद् भार्या यत्राग्नयोऽपि वा ॥ Bछ्.Sछ्॥ ं३।१०४अ[९४ंअ]/ उपासते ये गृहस्थाः परपाकमबुद्धयः । ं३।१०४च्[९४ंच्]/ तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः ॥ Bछ्.Sछ्॥ ं३।१०५अ[९५ंअ]/ अप्रणोद्योऽतिथिः सायं सूर्यौढो गृहमेधिना । ं३।१०५च्[९५ंच्]/ काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ Bछ्.Sछ्॥ ं३।१०६अ[९६ंअ]/ न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । ं३।१०६च्[९६ंच्]/ धन्यं यशस्यमायुष्यं स्वर्ग्यं वाऽतिथिपूजनम् ॥ Bछ्.Sछ्॥ ं३।१०७अ[९७ंअ]/ आसनावसथौ शय्यामनुव्रज्यामुपासनाम् । ं३।१०७च्[९७ंच्]/ उत्तमेषूत्तमं कुर्याद् हीने हीनं समे समम् ॥ Bछ्.Sछ्॥ ं३।१०८अ[९८ंअ]/ वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । ं३।१०८च्[९८ंच्]/ तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ Bछ्.Sछ्॥ ं३।१०९अ[९९ंअ]/ न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । ं३।१०९च्[९९ंच्]/ भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ॥ Bछ्.Sछ्॥ ं३।११०अ[१००ंअ]/ न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते । ं३।११०च्[१००ंच्]/ वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ Bछ्.Sछ्॥ ं३।१११अ[१०१ंअ]/ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् । ं३।१११च्[१०१ंच्]/ भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ Bछ्.Sछ्॥ ं३।११२अ[१०२ंअ]/ वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । ं३।११२च्[१०२ंच्]/ भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ Bछ्.Sछ्॥ ं३।११३अ[१०३ंअ]/ इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् । ं३।११३च्[१०३ंच्]/ प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ Bछ्.Sछ्॥ ं३।११४अ[१०४ंअ]/ सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः । ं३।११४च्[१०४ंच्]/ अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ Bछ्.Sछ्॥ %[ंऽतिथिभ्योऽन्वगेवैतान्] ं३।११५अ[१०५ंअ]/ अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । ं३।११५च्[१०५ंच्]/ स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ Bछ्.Sछ्॥ ं३।११६अ[१०६ंअ]/ भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । ं३।११६च्[१०६ंच्]/ भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ Bछ्.Sछ्॥ ं३।११७अ[१०७ंअ]/ देवान् ऋषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः । ं३।११७च्[१०७ंच्]/ पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ Bछ्.Sछ्॥ ं३।११८अ[१०८ंअ]/ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । ं३।११८च्[१०८ंच्]/ यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ॥ Bछ्.Sछ्॥ ं३।११९अ[१०९ंअ]/ राजर्त्विग्स्नातकगुरून् प्रियश्वशुरमातुलान् । ं३।११९च्[१०९ंच्]/ अर्हयेन् मधुपर्केण परिसंवत्सरात् पुनः ॥ Bछ्.Sछ्॥ ं३।१२०अ[११०ंअ]/ राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ । %[ंउपस्थिते ] ं३।१२०च्[११०ंच्]/ मधुपर्केण सम्पूज्यौ न त्वयज्ञ इति स्थितिः ॥ Bछ्.Sछ्॥ ं३।१२१अ[१११ंअ]/ सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । ं३।१२१च्[१११ंच्]/ वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते ॥ Bछ्.Sछ्॥ ं३।१२२अ[११२ंअ]/ पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । %[क्:चैन्दुक्षये ] ं३।१२२च्[११२ंच्]/ पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ Bछ्.Sछ्॥ ं३।१२३अ[११३ंअ]/ पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः । ं३।१२३च्[११३ंच्]/ तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः ??॥ Bछ्.Sछ्॥ ं३।१२४अ[११४ंअ]/ तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । ं३।१२४च्[११४ंच्]/ यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ ं३।१२५अ[११५ंअ]/ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । %[ं।पितृकृत्ये] ं३।१२५च्[११५ंच्]/ भोजयेत् सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ Bछ्.Sछ्॥ %[ंंअ प्रवर्तेत] ं३।१२६अ[११६ंअ]/ सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः । ं३।१२६च्[११६ंच्]/ पञ्चैतान् विस्तरो हन्ति तस्मान्नैहेत विस्तरम् ॥ Bछ्.Sछ्॥ ं३।१२७अ[११७ंअ]/ प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । ं३।१२७च्[११७ंच्]/ तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ Bछ्.Sछ्॥ ं३।१२८अ[११८ंअ]/ श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । ं३।१२८च्[११८ंच्]/ अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ Bछ्.Sछ्॥ ं३।१२९अ[११९ंअ]/ एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् । %[ं।भोजयन्] ं३।१२९च्[११९ंच्]/ पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि ॥ Bछ्.Sछ्॥ ं३।१३०अ[१२०ंअ]/ दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् । ं३।१३०च्[१२०ंच्]/ तीर्थं तद् हव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ Bछ्.Sछ्॥ ं३।१३१अ[१२१ंअ]/ सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते । ं३।१३१च्[१२१ंच्]/ एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ॥ Bछ्.Sछ्॥ ं३।१३२अ[१२२ंअ]/ ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । ं३।१३२च्[१२२ंच्]/ न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ Bछ्.Sछ्॥ ं३।१३३अ[१२३ंअ]/ यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् । ं३।१३३च्[१२३ंच्]/ तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥ Bछ्.Sछ्॥ ं३।१३४अ[१२४ंअ]/ ज्ञाननिष्ठा द्विजाः के चित् तपोनिष्ठास्तथाऽपरे । ं३।१३४च्[१२४ंच्]/ तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथाऽपरे ॥ Bछ्.Sछ्॥ ं३।१३५अ[१२५ंअ]/ ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । ं३।१३५च्[१२५ंच्]/ हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ॥ Bछ्.Sछ्॥ ं३।१३६अ[१२६ंअ]/ अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः । ं३।१३६च्[१२६ंच्]/ अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ Bछ्.Sछ्॥ ं३।१३७अ[१२७ंअ]/ ज्यायांसमनयोर्विद्याद् यस्य स्यात्श्रोत्रियः पिता । ं३।१३७च्[१२७ंच्]/ मन्त्रसम्पूजनार्थं तु सत्कारमितरोऽर्हति ॥ Bछ्.Sछ्॥ ं३।१३८अ[१२८ंअ]/ न श्राद्धे भोजयेन् मित्रं धनैः कार्योऽस्य सङ्ग्रहः । ं३।१३८च्[१२८ंच्]/ नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ Bछ्.Sछ्॥ ं३।१३९अ[१२९ंअ]/ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । ं३।१३९च्[१२९ंच्]/ तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ Bछ्.Sछ्॥ ं३।१४०अ[१३०ंअ]/ यः सङ्गतानि कुरुते मोहात्श्राद्धेन मानवः । ं३।१४०च्[१३०ंच्]/ स स्वर्गाच्च्यवते लोकात्श्राद्धमित्रो द्विजाधमः ॥ Bछ्.Sछ्॥ ं३।१४१अ[१३१ंअ]/ संभोजानि साऽभिहिता पैशाची दक्षिणा द्विजैः । ं३।१४१च्[१३१ंच्]/ इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ Bछ्.Sछ्॥ ं३।१४२अ[१३२ंअ]/ यथैरिणे बीजमुप्त्वा न वप्ता लभते फलम् । ं३।१४२च्[१३२ंच्]/ तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ Bछ्.Sछ्॥ ं३।१४३अ[१३३ंअ]/ दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः । ं३।१४३च्[१३३ंच्]/ विदुषे दक्षिणां दत्त्वा विधिवत् प्रेत्य चैह च ॥ Bछ्.Sछ्॥ ं३।१४४अ[१३४ंअ]/ कामं श्राद्धेऽर्चयेन् मित्रं नाभिरूपमपि त्वरिम् । ं३।१४४च्[१३४ंच्]/ द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ Bछ्.Sछ्॥ ं३।१४५अ[१३५ंअ]/ यत्नेन भोजयेत्श्राद्धे बह्वृचं वेदपारगम् । ं३।१४५च्[१३५ंच्]/ शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ Bछ्.Sछ्॥ ं३।१४६अ[१३६ंअ]/ एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः । ं३।१४६च्[१३६ंच्]/ पितॄणां तस्य तृप्तिः स्यात्शाश्वती साप्तपौरुषी ॥ Bछ्.Sछ्॥ ं३।१४७अ[१३७ंअ]/ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । ं३।१४७च्[१३७ंच्]/ अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ Bछ्.Sछ्॥ ं३।१४८अ[१३८ंअ]/ मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । ं३।१४८च्[१३८ंच्]/ दौहित्रं विट्पतिं बन्धुं ऋत्विग् याज्यौ च भोजयेत् ॥ Bछ्.Sछ्॥ ं३।१४९अ[१३९ंअ]/ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । ं३।१४९च्[१३९ंच्]/ पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ Bछ्.Sछ्॥ ं३।१५०अ[१४०ंअ]/ ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः । ं३।१५०च्[१४०ंच्]/ तान् हव्यकव्ययोर्विप्राननर्हान् मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं३।१५१अ[१४१ंअ]/ जटिलं चानधीयानं दुर्बालं कितवं तथा । ं३।१५१च्[१४१ंच्]/ याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ Bछ्.Sछ्॥ ं३।१५२अ[१४२ंअ]/ चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । %[ंॅहिकित्सकादेवलकामांसविक्रयिणस्तथा] ं३।१५२च्[१४२ंच्]/ विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥ Bछ्.Sछ्॥ ं३।१५३अ[१४३ंअ]/ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः । ं३।१५३च्[१४३ंच्]/ प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥ Bछ्.Sछ्॥ ं३।१५४अ[१४४ंअ]/ यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः । ं३।१५४च्[१४४ंच्]/ ब्रह्मद्विष्परिवित्तिश्च गणाभ्यन्तर एव च ॥ Bछ्.Sछ्॥ ं३।१५५अ[१४५ंअ]/ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च । ं३।१५५च्[१४५ंच्]/ पौनर्भवश्च काणश्च यस्य चौपपतिर्गृहे ॥ Bछ्.Sछ्॥ ं३।१५६अ[१४६ंअ]/ भृतकाध्यापको यश्च भृतकाध्यापितस्तथा । ं३।१५६च्[१४६ंच्]/ शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥ Bछ्.Sछ्॥ ं३।१५७अ[१४७ंअ]/ अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा । %[क्:अकारणपरित्यक्ता ] ं३।१५७च्[१४७ंच्]/ ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः ॥ Bछ्.Sछ्॥ ं३।१५८अ[१४८ंअ]/ अगारदाही गरदः कुण्डाशी सोमविक्रयी । ं३।१५८च्[१४८ंच्]/ समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ Bछ्.Sछ्॥ ं३।१५९अ[१४९ंअ]/ पित्रा विवदमानश्च कितवो मद्यपस्तथा । ं३।१५९च्[१४९ंच्]/ पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ Bछ्.Sछ्॥ ं३।१६०अ[१५०ंअ]/ धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः । ं३।१६०च्[१५०ंच्]/ मित्रध्रुग् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ Bछ्.Sछ्॥ ं३।१६१अ[१५१ंअ]/ भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा । ं३।१६१च्[१५१ंच्]/ उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥ Bछ्.Sछ्॥ ं३।१६२अ[१५२ंअ]/ हस्तिगोऽश्वौष्ट्रदमको नक्षत्रैर्यश्च जीवति । ं३।१६२च्[१५२ंच्]/ पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ Bछ्.Sछ्॥ ं३।१६३अ[१५३ंअ]/ स्रोतसां भेदको यश्च तेषां चावरणे रतः । ं३।१६३च्[१५३ंच्]/ गृहसंवेशको दूतो वृक्षारोपक एव च ॥ Bछ्.Sछ्॥ ं३।१६४अ[१५४ंअ]/ श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । ं३।१६४च्[१५४ंच्]/ हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ Bछ्.Sछ्॥ ं३।१६५अ[१५५ंअ]/ आचारहीनः क्लीबश्च नित्यं याचनकस्तथा । ं३।१६५च्[१५५ंच्]/ कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ Bछ्.Sछ्॥ ं३।१६६अ[१५६ंअ]/ औरभ्रिको माहिषिकः परपूर्वापतिस्तथा । ं३।१६६च्[१५६ंच्]/ प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ॥ Bछ्.Sछ्॥ ं३।१६७अ[१५७ंअ]/ एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् । ं३।१६७च्[१५७ंच्]/ द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ Bछ्.Sछ्॥ ं३।१६८अ[१५८ंअ]/ ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति । %[ं।ब्राह्मणः ह्यनधीयानः ] ं३।१६८च्[१५८ंच्]/ तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ Bछ्.Sछ्॥ ं३।१६९अ[१५९ंअ]/ अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलौदयः । %[ंऽपङ्क्त्यदाने] ं३।१६९च्[१५९ंच्]/ दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ %[ं।दैवे कर्मणि] ं३।१७०अ[१६०ंअ]/ अव्रतैर्यद् द्विजैर्भुक्तं परिवेत्र्यादिभिस्तथा । ं३।१७०च्[१६०ंच्]/ अपाङ्क्तेयैर्यदन्यैश्च तद् वै रक्षांसि भुञ्जते ॥ Bछ्.Sछ्॥ ं३।१७१अ[१६१ंअ]/ दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । ं३।१७१च्[१६१ंच्]/ परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ Bछ्.Sछ्॥ ं३।१७२अ[१६२ंअ]/ परिवित्तिः परिवेत्ता यया च परिविद्यते । ं३।१७२च्[१६२ंच्]/ सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ Bछ्.Sछ्॥ ं३।१७३अ[१६३ंअ]/ भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः । ं३।१७३च्[१६३ंच्]/ धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ Bछ्.Sछ्॥ ं३।१७४अ[१६४ंअ]/ परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ । ं३।१७४च्[१६४ंच्]/ पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ Bछ्.Sछ्॥ ं३।१७५अ[१६५ंअ]/ तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चैह च । %[ं।ते तु जाताः परक्षेत्रे प्राणिनः] ं३।१७५च्[१६५ंच्]/ दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ Bछ्.Sछ्॥ ं३।१७६अ[१६६ंअ]/ अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानाननुपश्यति । %[ंऽपङ्क्त्यो यावतः] ं३।१७६च्[१६६ंच्]/ तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ Bछ्.Sछ्॥ ं३।१७७अ[१६७ंअ]/ वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । %[ं।शतस्य च ] ं३।१७७च्[१६७ंच्]/ पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ Bछ्.Sछ्॥ ं३।१७८अ[१६८ंअ]/ यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः । ं३।१६८च्[१६८ंच्]/ तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥ Bछ्.Sछ्॥ ं३।१७९अ[१६९ंअ]/ वेदविद्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम् । ं३।१७९च्[१६९ंच्]/ विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ Bछ्.Sछ्॥ ं३।१८०अ[१७०ंअ]/ सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । ं३।१८०च्[१७०ंच्]/ नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ॥ Bछ्.Sछ्॥ ं३।१८१अ[१७१ंअ]/ यत् तु वाणिजके दत्तं नैह नामुत्र तद् भवेत् । ं३।१८१च्[१७१ंच्]/ भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ Bछ्.Sछ्॥ ं३।१८२अ[१७२ंअ]/ इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु । %[ ं३।१८२च्[१७२ंच्]/ मेदोऽसृङ्मांसमज्जाऽस्थि वदन्त्यन्नं मनीषिणः ॥ Bछ्.Sछ्॥ ं३।१८३अ[१७३ंअ]/ अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः । %[ं:अपङ्क्त्यौपहता पङ्क्तिः] ं३।१८३च्[१७३ंच्]/ तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ Bछ्.Sछ्॥ ं३।१८४अ[१७४ंअ]/ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । ं३।१८४च्[१७४ंच्]/ श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥ Bछ्.Sछ्॥ ं३।१८५अ[१७५ंअ]/ त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ं३।१८५च्[१७५ंच्]/ ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥ Bछ्.Sछ्॥ %[ं।ब्रह्मदेयानुसन्तानो ] ं३।१८६अ[१७६ंअ]/ वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः । ं३।१८६च्[१७६ंच्]/ शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ Bछ्.Sछ्॥ ं३।१८७अ[१७७ंअ]/ पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । ं३।१८७च्[१७७ंच्]/ निमन्त्रयेत त्र्य्ऽवरान् सम्यग् विप्रान् यथौदितान् ॥ Bछ्.Sछ्॥ %[ंंइमन्त्रयीत ] ं३।१८८अ[१७८ंअ]/ निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा । ं३।१८८च्[१७८ंच्]/ न च छन्दांस्यधीयीत यस्य श्राद्धं च तद् भवेत् ॥ Bछ्.Sछ्॥ ं३।१८९अ[१७९ंअ]/ निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् । ं३।१८९च्[१७९ंच्]/ वायुवत्चानुगच्छन्ति तथाऽसीनानुपासते ॥ Bछ्.Sछ्॥ ं३।१९०अ[१८०ंअ]/ केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः । ं३।१९०च्[१८०ंच्]/ कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ Bछ्.Sछ्॥ ं३।१९१अ[१८१ंअ]/ आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । ं३।१९१च्[१८१ंच्]/ दातुर्यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥ Bछ्.Sछ्॥ ं३।१९२अ[१८२ंअ]/ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । ं३।१९२च्[१८२ंच्]/ न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ Bछ्.Sछ्॥ ं३।१९३अ[१८३ंअ]/ यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः । ं३।१९३च्[१८३ंच्]/ ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ Bछ्.Sछ्॥ ं३।१९४अ[१८४ंअ]/ मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः । ं३।१९४च्[१८४ंच्]/ तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ Bछ्.Sछ्॥ ं३।१९५अ[१८५ंअ]/ विराज्सुताः सोमसदः साध्यानां पितरः स्मृताः ?। ं३।१९५च्[१८५ंच्]/ अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ Bछ्.Sछ्॥ ं३।१९६अ[१८६ंअ]/ दैत्यदानवयक्षाणां गन्धर्वौरगरक्षसाम् । ं३।१९६च्[१८६ंच्]/ सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ॥ Bछ्.Sछ्॥ ं३।१९७अ[१८७ंअ]/ सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । ं३।१९७च्[१८७ंच्]/ वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ Bछ्.Sछ्॥ ं३।१९८अ[१८८ंअ]/ सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । ं३।१९८च्[१८८ंच्]/ पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ Bछ्.Sछ्॥ ं३।१९९अ[१८९ंअ]/ अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा । %[ंऽनग्निदग्धानग्निदग्धान्] ं३।१९९च्[१८९ंच्]/ अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ Bछ्.Sछ्॥ ं३।२००अ[१९०ंअ]/ य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । ं३।२००च्[१९०ंच्]/ तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ Bछ्.Sछ्॥ ं३।२०१अ[१९१ंअ]/ ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । ं३।२०१च्[१९१ंच्]/ देवेभ्यस्तु जगत् सर्वं चरं स्थाण्वनुपूर्वशः ॥ Bछ्.Sछ्॥ ं३।२०२अ[१९२ंअ]/ राजतैर्भाजनैरेषामथो वा रजतान्वितैः । ं३।२०२च्[१९२ंच्]/ वार्यपि श्रद्धया दत्तमक्षयायौपकल्पते ॥ Bछ्.Sछ्॥ ं३।२०३अ[१९३ंअ]/ दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते । ं३।२०३च्[१९३ंच्]/ दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥ Bछ्.Sछ्॥ ं३।२०४अ[१९४ंअ]/ तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् । ं३।२०४च्[१९४ंच्]/ रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ Bछ्.Sछ्॥ ं३।२०५अ[१९५ंअ]/ दैवाद्यन्तं तदीहेत पित्र्याद्यन्तं न तद् भवेत् । ं३।२०५च्[१९५ंच्]/ पित्र्याद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ॥ Bछ्.Sछ्॥ ं३।२०६अ[१९६ंअ]/ शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । ं३।२०६च्[१९६ंच्]/ दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ Bछ्.Sछ्॥ ं३।२०७अ[१९७ंअ]/ अवकाशेषु चोक्षेषु जलतीरेषु चैव हि । ं३।२०७च्[१९७ंच्]/ विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ Bछ्.Sछ्॥ ं३।२०८अ[१९८ंअ]/ आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् । ं३।२०८च्[१९८ंच्]/ उपस्पृष्टौदकान् सम्यग् विप्रांस्तानुपवेशयेत् ॥ Bछ्.Sछ्॥ ं३।२०९अ[१९९ंअ]/ उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् । ं३।२०९च्[१९९ंच्]/ गन्धमाल्यैः सुरभिभिरर्चयेद् दैवपूर्वकम् ॥ Bछ्.Sछ्॥ ं३।२१०अ[२००ंअ]/ तेषामुदकमानीय सपवित्रांस्तिलानपि । ं३।२१०च्[२००ंच्]/ अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ Bछ्.Sछ्॥ ं३।२११अ[२०१ंअ]/ अग्नेः सोमयमाभ्यां च कृत्वाऽप्यायनमादितः । ं३।२११च्[२०१ंच्]/ हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥ Bछ्.Sछ्॥ ं३।२१२अ[२०२ंअ]/ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । ं३।२१२च्[२०२ंच्]/ यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ Bछ्.Sछ्॥ ं३।२१३अ[२०३ंअ]/ अक्रोधनान् सुप्रसादान् वदन्त्येतान् पुरातनान् । ं३।२१३च्[२०३ंच्]/ लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ Bछ्.Sछ्॥ %[ं।श्राद्धे देवान् द्विजोत्तमान्] ं३।२१४अ[२०४ंअ]/ अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् । %[ं।आवृत्परिक्रमं ] ं३।२१४च्[२०४ंच्]/ अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ Bछ्.Sछ्॥ ं३।२१५अ[२०५ंअ]/ त्रींस्तु तस्माद् हविःशेषात् पिण्डान् कृत्वा समाहितः । ं३।२१५च्[२०५ंच्]/ औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥ Bछ्.Sछ्॥ ं३।२१६अ[२०६ंअ]/ न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । ं३।२१६च्[२०६ंच्]/ तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥ Bछ्.Sछ्॥ ं३।२१७अ[२०७ंअ]/ आचम्यौदक्परावृत्य त्रिरायम्य शनैरसून् । ं३।२१७च्[२०७ंच्]/ षड् ऋतूंश्च नमस्कुर्यात् पितॄनेव च मन्त्रवत् ॥ Bछ्.Sछ्॥ ं३।२१८अ[२०८ंअ]/ उदकं निनयेत्शेषं शनैः पिण्डान्तिके पुनः । ं३।२१८च्[२०८ंच्]/ अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ Bछ्.Sछ्॥ ं३।२१९अ[२०९ंअ]/ पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः । %[ं।पिण्डेभ्यः स्वल्पिकां] ं३।२१९च्[२०९ंच्]/ तानेव विप्रानासीनान् विधिवत् पूर्वमाशयेत् ॥ Bछ्.Sछ्॥ ं३।२२०अ[२१०ंअ]/ ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । ं३।२२०च्[२१०ंच्]/ विप्रवद् वाऽपि तं श्राद्धे स्वकं पितरमाशयेत् ॥ Bछ्.Sछ्॥ %[ं।श्राद्धं ] ं३।२२१अ[२११ंअ]/ पिता यस्य निवृत्तः स्याज् जीवेच्चापि पितामहः । %[ं।पिता यस्य तु वृत्तः स्याज्] ं३।२२१च्[२११ंच्]/ पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ॥ Bछ्.Sछ्॥ ं३।२२२अ[२१२ंअ]/ पितामहो वा तत्श्राद्धं भुञ्जीतैत्यब्रवीन् मनुः । ं३।२२२च्[२१२ंच्]/ कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ Bछ्.Sछ्॥ ं३।२२३अ[२१३ंअ]/ तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलौदकम् । ं३।२२३च्[२१३ंच्]/ तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ Bछ्.Sछ्॥ %[ं।प्रयच्छेत् तु ] ं३।२२४अ[२१४ंअ]/ पाणिभ्यां तूपसङ्गृह्य स्वयमन्नस्य वर्धितम् । %[ं।वर्द्धितम्] ं३।२२४च्[२१४ंच्]/ विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥ Bछ्.Sछ्॥ ं३।२२५अ[२१५ंअ]/ उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते । ं३।२२५च्[२१५ंच्]/ तद् विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ॥ Bछ्.Sछ्॥ ं३।२२६अ[२१६ंअ]/ गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु । ं३।२२६च्[२१६ंच्]/ विन्यसेत् प्रयतः पूर्वं भूमावेव समाहितः ॥ Bछ्.Sछ्॥ ं३।२२७अ[२१७ंअ]/ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । ं३।२२७च्[२१७ंच्]/ हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ Bछ्.Sछ्॥ ं३।२२८अ[२१८ंअ]/ उपनीय तु तत् सर्वं शनकैः सुसमाहितः । ं३।२२८च्[२१८ंच्]/ परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ Bछ्.Sछ्॥ ं३।२२९अ[२१९ंअ]/ नास्रमापातयेज् जातु न कुप्येन्नानृतं वदेत् । ं३।२२९च्[२१९ंच्]/ न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ Bछ्.Sछ्॥ ं३।२३०अ[२२०ंअ]/ अस्रं गमयति प्रेतान् कोपोऽरीननृतं शुनः । ं३।२३०च्[२२०ंच्]/ पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥ Bछ्.Sछ्॥ ं३।२३१अ[२२१ंअ]/ यद् यद् रोचेत विप्रेभ्यस्तत् तद् दद्यादमत्सरः । ं३।२३१च्[२२१ंच्]/ ब्रह्मोद्याश्च कथाः कुर्यात् पितॄणामेतदीप्सितम् ॥ Bछ्.Sछ्॥ ं३।२३२अ[२२२ंअ]/ स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि । ं३।२३२च्[२२२ंच्]/ आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ Bछ्.Sछ्॥ ं३।२३३अ[२२३ंअ]/ हर्षयेद् ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः । ं३।२३३च्[२२३ंच्]/ अन्नाद्येनासकृच्चैतान् गुणैश्च परिचोदयेत् ॥ Bछ्.Sछ्॥ ं३।२३४अ[२२४ंअ]/ व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । ं३।२३४च्[२२४ंच्]/ कुतपं चासनं दद्यात् तिलैश्च विकिरेन् महीम् ॥ Bछ्.Sछ्॥ ं३।२३५अ[२२५ंअ]/ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । ं३।२३५च्[२२५ंच्]/ त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ Bछ्.Sछ्॥ ं३।२३६अ[२२६ंअ]/ अत्युष्णं सर्वमन्नं स्याद् भुञ्जीरंस्ते च वाग्यताः । ं३।२३६च्[२२६ंच्]/ न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥ Bछ्.Sछ्॥ ं३।२३७अ[२२७ंअ]/ यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः । ं३।२३७च्[२२७ंच्]/ पितरस्तावदश्नन्ति यावन्नओक्ता हविर्गुणाः ॥ Bछ्.Sछ्॥ ं३।२३८अ[२२८ंअ]/ यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः । ं३।२३८च्[२२८ंच्]/ सौपानत्कश्च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ Bछ्.Sछ्॥ ं३।२३९अ[२२९ंअ]/ चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च । ं३।२३९च्[२२९ंच्]/ रजस्वला च षण्ढश्च नैक्षेरन्नश्नतो द्विजान् ॥ Bछ्.Sछ्॥ ं३।२४०अ[२३०ंअ]/ होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते । ं३।२४०च्[२३०ंच्]/ दैवे हविषि पित्र्ये वा तद् गच्छत्ययथातथम् ॥ Bछ्.Sछ्॥ ं३।२४१अ[२३१ंअ]/ घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः । %[ं।शूकरो ] ं३।२४१च्[२३१ंच्]/ श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥ Bछ्.Sछ्॥ ं३।२४२अ[२३२ंअ]/ खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् । ं३।२४२च्[२३२ंच्]/ हीनातिरिक्तगात्रो वा तमप्यपनयेत् पुनः ॥ Bछ्.Sछ्॥ ं३।२४३अ[२३३ंअ]/ ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् । ं३।२४३च्[२३३ंच्]/ ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ Bछ्.Sछ्॥ ं३।२४४अ[२३४ंअ]/ सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । ं३।२४४च्[२३४ंच्]/ समुत्सृजेद् भुक्तवतामग्रतो विकिरन् भुवि ॥ Bछ्.Sछ्॥ ं३।२४५अ[२३५ंअ]/ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । ं३।२४५च्[२३५ंच्]/ उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश्च यः ॥ Bछ्.Sछ्॥ ं३।२४६अ[२३६ंअ]/ उच्छेषणां भूमिगतमजिह्मस्याशठस्य च । ं३।२४६च्[२३६ंच्]/ दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ Bछ्.Sछ्॥ ं३।२४७अ[२३७ंअ]/ आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । ं३।२४७च्[२३७ंच्]/ अदैवं भोजयेत्श्राद्धं पिण्डमेकं च निर्वपेत् ॥ Bछ्.Sछ्॥ ं३।२४८अ[२३८ंअ]/ सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । ं३।२४८च्[२३८ंच्]/ अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः ॥ Bछ्.Sछ्॥ ं३।२४९अ[२३९ंअ]/ श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति । ं३।२४९च्[२३९ंच्]/ स मूढो नरकं याति कालसूत्रमवाक्षिराः ॥ Bछ्.Sछ्॥ ं३।२५०अ[२४०ंअ]/ श्राद्धभुग् वृषलीतल्पं तदहर्योऽधिगच्छति । ं३।२५०च्[२४०ंच्]/ तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ॥ Bछ्.Sछ्॥ ं३।२५१अ[२४१ंअ]/ पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत् ततः । ं३।२५१च्[२४१ंच्]/ आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥ Bछ्.Sछ्॥ ं३।२५२अ[२४२ंअ]/ स्वधाऽस्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् । ं३।२५२च्[२४२ंच्]/ स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु ॥ Bछ्.Sछ्॥ ं३।२५३अ[२४३ंअ]/ ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । ं३।२५३च्[२४३ंच्]/ यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ Bछ्.Sछ्॥ ं३।२५४अ[२४४ंअ]/ पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम् । ं३।२५४च्[२४४ंच्]/ सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ Bछ्.Sछ्॥ %[ं।सम्पन्नम्] ं३।२५५अ[२४५ंअ]/ अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः । %[ं।सम्पादनं] ं३।२५५च्[२४५ंच्]/ सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ Bछ्.Sछ्॥ ं३।२५६अ[२४६ंअ]/ दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः । ं३।२५६च्[२४६ंच्]/ पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ Bछ्.Sछ्॥ ं३।२५७अ[२४७ंअ]/ मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । ं३।२५७च्[२४७ंच्]/ अक्सारलवणं चैव प्रकृत्या हविरुच्यते ॥ Bछ्.Sछ्॥ ं३।२५८अ[२४८ंअ]/ विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । %[ं।विसर्ज्य ब्राह्मनांस्तांस्तु प्रयतो विधिपूर्वकम्] ं३।२५८च्[२४८ंच्]/ दक्षिणां दिशमाकाङ्क्षन् याचेतैमान् वरान् पितॄन् ॥ Bछ्.Sछ्॥ ं३।२५९अ[२४९ंअ]/ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । ं३।२५९च्[२४९ंच्]/ श्रद्धा च नो मा व्यगमद् बहुदेयं च नोऽस्त्विति ॥ Bछ्.Sछ्॥ ं३।२६०अ[२५०ंअ]/ एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । ं३।२६०च्[२५०ंच्]/ गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ Bछ्.Sछ्॥ ं३।२६१अ[२५१ंअ]/ पिण्डनिर्वपणं के चित् परस्तादेव कुर्वते । ं३।२६१च्[२५१ंच्]/ वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ Bछ्.Sछ्॥ ं३।२६२अ[२५२ंअ]/ पतिव्रता धर्मपत्नी पितृपूजनतत्परा । ं३।२६२च्[२५२ंच्]/ मध्यमं तु ततः पिण्डमद्यात् सम्यक् सुतार्थिनी ॥ Bछ्.Sछ्॥ ं३।२६३अ[२५३ंअ]/ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् । ं३।२६३च्[२५३ंच्]/ धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ Bछ्.Sछ्॥ ं३।२६४अ[२५४ंअ]/ प्रक्षाल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् । ं३।२६४च्[२५४ंच्]/ ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ Bछ्.Sछ्॥ %[ं।दत्वा] ं३।२६५अ[२५५ंअ]/ उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः । %[क्:यत् तिष्ठेद् ] ं३।२६५च्[२५५ंच्]/ ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥ ं३।२६६अ[२५६ंअ]/ हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । ं३।२६६च्[२५६ंच्]/ पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ ं३।२६७अ[२५७ंअ]/ तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा । ं३।२६७च्[२५७ंच्]/ दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ॥ Bछ्.Sछ्॥ ं३।२६८अ[२५८ंअ]/ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । ं३।२६८च्[२५८ंच्]/ औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ Bछ्.Sछ्॥ ं३।२६९अ[२५९ंअ]/ षण्मासांश्छागमांसेन पार्षतेन च सप्त वै । ं३।२६९च्[२५९ंच्]/ अष्टावेनस्य मांसेन रौरवेण नवैव तु ॥ Bछ्.Sछ्॥ %[ंऽइणेयमांसेन ] ं३।२७०अ[२६०ंअ]/ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । ं३।२७०च्[२६०ंच्]/ शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ Bछ्.Sछ्॥ ं३।२७१अ[२६१ंअ]/ संवत्सरं तु गव्येन पयसा पायसेन च । %[ं।संवत्सरे ] ं३।२७१च्[२६१ंच्]/ वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ Bछ्.Sछ्॥ ं३।२७२अ[२६२ंअ]/ कालशाकं महाशल्काः खङ्गलोहामिषं मधु । ं३।२७२च्[२६२ंच्]/ आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ Bछ्.Sछ्॥ ं३।२७३अ[२६३ंअ]/ यत् किं चिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् । ं३।२७३च्[२६३ंच्]/ तदप्यक्षयमेव स्याद् वर्षासु च मघासु च ॥ Bछ्.Sछ्॥ ं३।२७४अ[२६४ंअ]/ अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् । ं३।२७४च्[२६४ंच्]/ पायसं मधुसर्पिर्भ्यां प्राक् छाये कुञ्जरस्य च ॥ Bछ्.Sछ्॥ ं३।२७५अ[२६५ंअ]/ यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः । ं३।२७५च्[२६५ंच्]/ तत् तत् पितॄणां भवति परत्रानन्तमक्षयम् ॥ Bछ्.Sछ्॥ ं३।२७६अ[२६६ंअ]/ कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । ं३।२७६च्[२६६ंच्]/ श्राद्धे प्रशस्तास्तिथयो यथैता न तथैतराः ॥ Bछ्.Sछ्॥ ं३।२७७अ[२६७ंअ]/ युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते । ं३।२७७च्[२६७ंच्]/ अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ Bछ्.Sछ्॥ ं३।२७८अ[२६८ंअ]/ यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते । ं३।२७८च्[२६८ंच्]/ तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ Bछ्.Sछ्॥ ं३।२७९अ[२६९ंअ]/ प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । ं३।२७९च्[२६९ंच्]/ पित्र्यमानिधनात् कार्यं विधिवद् दर्भपाणिना ॥ Bछ्.Sछ्॥ ं३।२८०अ[२७०ंअ]/ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । ं३।२८०च्[२७०ंच्]/ संध्ययोरुभयोश्चैव सूर्ये चैवाचिरौदिते ॥ Bछ्.Sछ्॥ ं३।२८१अ[२७१ंअ]/ अनेन विधिना श्राद्धं त्रिरब्दस्यैह निर्वपेत् । ं३।२८१च्[२७१ंच्]/ हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥ Bछ्.Sछ्॥ ं३।२८२अ[२७२ंअ]/ न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते । ं३।२८२च्[२७२ंच्]/ न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ Bछ्.Sछ्॥ ं३।२८३अ[२७३ंअ]/ यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः । ं३।२८३च्[२७३ंच्]/ तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥ Bछ्.Sछ्॥ ं३।२८४अ[२७४ंअ]/ वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान् । ं३।२८४च्[२७४ंच्]/ प्रपितामहांस्तथाऽदित्यान् श्रुतिरेषा सनातनी ॥ Bछ्.Sछ्॥ ं३।२८५अ[२७५ंअ]/ विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः । ं३।२८५च्[२७५ंच्]/ विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ Bछ्.Sछ्॥ ं३।२८६अ[२७६ंअ]/ एतद् वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् । ं३।२८६च्[२७६ंच्]/ द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ Bछ्.Sछ्॥

अध्याय ४

ं४।०१अ/ चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः । ं४।०१च्/ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ Bछ्.Sछ्॥ ं४।०२अ/ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । ं४।०२च्/ या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ Bछ्.Sछ्॥ ं४।०३अ/ यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । ं४।०३च्/ अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥ Bछ्.Sछ्॥ ं४।०४अ/ ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन वा । ं४।०४च्/ सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥ Bछ्.Sछ्॥ ं४।०५अ/ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । ं४।०५च्/ मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ Bछ्.Sछ्॥ ं४।०६अ/ सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । ं४।०६च्/ सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं४।०७अ/ कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । ं४।०७च्/ त्र्यहेहिको वाऽपि भवेदश्वस्तनिक एव वा ॥ Bछ्.Sछ्॥ ं४।०८अ/ चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । ं४।०८च्/ ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ Bछ्.Sछ्॥ ं४।०९अ/ षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । ं४।०९च्/ द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति ॥ Bछ्.Sछ्॥ ं४।१०अ/ वर्तयंश्च शिलौञ्छाभ्यामग्निहोत्रपरायणः । ं४।१०च्/ इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ Bछ्.Sछ्॥ ं४।११अ/ न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । ं४।११च्/ अजिह्मामशथां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ Bछ्.Sछ्॥ ं४।१२अ/ संतोषं परमास्थाय सुखार्थी संयतो भवेत् । ं४।१२च्/ संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ Bछ्.Sछ्॥ ं४।१३अ/ अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । ं४।१३च्/ स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ॥ Bछ्.Sछ्॥ %[ं।स्वर्ग्यायुष्य ] ं४।१४अ/ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । ं४।१४च्/ तद् हि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ Bछ्.Sछ्॥ ं४।१५अ/ नैहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । ं४।१५च्/ न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥ Bछ्.Sछ्॥ %[ंंअ कल्पमानेष्वर्थेषु ] ं४।१६अ/ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । ं४।१६च्/ अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ Bछ्.Sछ्॥ ं४।१७अ/ सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः । ं४।१७च्/ यथा तथाऽध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ Bछ्.Sछ्॥ ं४।१८अ/ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । ं४।१८च्/ वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥ Bछ्.Sछ्॥ ं४।१९अ/ बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च । ं४।१९च्/ नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ Bछ्.Sछ्॥ ं४।२०अ/ यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । ं४।२०च्/ तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ Bछ्.Sछ्॥ ं४।२१अ/ ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । ं४।२१च्/ नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ Bछ्.Sछ्॥ ं४।२२अ/ एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः । ं४।२२च्/ अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ Bछ्.Sछ्॥ ं४।२३अ/ वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा । ं४।२३च्/ वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ Bछ्.Sछ्॥ ं४।२४अ/ ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा । %[ं। यजन्ते तैर्मखैः सदा] ं४।२४च्/ ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ Bछ्.Sछ्॥ ं४।२५अ/ अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा । ं४।२५च्/ दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ Bछ्.Sछ्॥ ं४।२६अ/ सस्यान्ते नवसस्येष्ट्या तथार्तुअन्ते द्विजोऽध्वरैः । ं४।२६च्/ पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः ॥ Bछ्.Sछ्॥ %[ंऽयनान्ते तु समांते] ं४।२७अ/ नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । ं४।२७च्/ नवान्नमद्यात्मांसं वा दीर्घमायुर्जिजीविषुः ॥ Bछ्.Sछ्॥ ं४।२८अ/ नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः । ं४।२८च्/ प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ Bछ्.Sछ्॥ ं४।२९अ/ आसनाशनशय्याभिरद्भिर्मूलफलेन वा । ं४।२९च्/ नास्य कश्चिद् वसेद् गेहे शक्तितोऽनर्चितोऽतिथिः ॥ Bछ्.Sछ्॥ ं४।३०अ/ पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् । ं४।३०च्/ हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ Bछ्.Sछ्॥ ं४।३१अ/ वेदविद्याव्रतस्नातांश्रोत्रियान् गृहमेधिनः । ं४।३१च्/ पूजयेद् हव्यकव्येन विपरीतांश्च वर्जयेत् ॥ Bछ्.Sछ्॥ ं४।३२अ/ शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना । ं४।३२च्/ संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ Bछ्.Sछ्॥ ं४।३३अ/ राजतो धनमन्विच्छेत् संसीदन् स्नातकः क्षुधा । ं४।३३च्/ याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ Bछ्.Sछ्॥ ं४।३४अ/ न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन । ं४।३४च्/ न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ Bछ्.Sछ्॥ ं४।३५अ/ कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः । ं४।३५च्/ स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ Bछ्.Sछ्॥ ं४।३६अ/ वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् । ं४।३६च्/ यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ Bछ्.Sछ्॥ ं४।३७अ/ नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन । ं४।३७च्/ नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ Bछ्.Sछ्॥ ं४।३८अ/ न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच्च वर्षति । ं४।३८च्/ न चोदके निरीक्षेत स्वरूपमिति धारणा ॥ Bछ्.Sछ्॥ ं४।३९अ/ मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । ं४।३९च्/ प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ Bछ्.Sछ्॥ ं४।४०अ/ नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्तवदर्शने । ं४।४०च्/ समानशयने चैव न शयीत तया सह ॥ Bछ्.Sछ्॥ ं४।४१अ/ रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः । ं४।४१च्/ प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ Bछ्.Sछ्॥ ं४।४२अ/ तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । ं४।४२च्/ प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ Bछ्.Sछ्॥ ं४।४३अ/ नाश्नीयाद् भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । ं४।४३च्/ क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ Bछ्.Sछ्॥ ं४।४४अ/ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । ं४।४४च्/ न पश्येत् प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥ Bछ्.Sछ्॥ ं४।४५अ/ नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् । ं४।४५च्/ न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ Bछ्.Sछ्॥ ं४।४६अ/ न फालकृष्टे न जले न चित्यां न च पर्वते । ं४।४६च्/ न जीर्णदेवायतने न वल्मीके कदा चन ॥ Bछ्.Sछ्॥ ं४।४७अ/ न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः । ं४।४७च्/ न नदीतीरमासाद्य न च पर्वतमस्तके ॥ Bछ्.Sछ्॥ ं४।४८अ/ वायुअग्निविप्रमादित्यमपः पश्यंस्तथैव गाः । ं४।४८च्/ न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ Bछ्.Sछ्॥ ंख़्४।४९अ[५०ंअ]/ तिरस्कृत्योच्चरेत् काष्ठलोष्ठपत्रतृणादिना । %[ं।तृणादि च] ंख़्४।४९च्[५०ंच्]/ नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ Bछ्.Sछ्॥ ंख़्४।५०अ[५१ंअ]/ मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः । ंख़्४।५०च्[५१ंच्]/ दक्षिणाऽभिमुखो रात्रौ संध्यायोश्च यथा दिवा ॥ Bछ्.Sछ्॥ ंख़्४।५१अ[५२ंअ]/ छायायामन्धकारे वा रात्रावहनि वा द्विजः । ंख़्४।५१च्[५२ंच्]/ यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥ Bछ्.Sछ्॥ ंख़्४।५२अ[४९ंअ]/ प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् । ंख़्४।५२च्[४९ंच्]/ प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ Bछ्.Sछ्॥ %[क्:प्रतिगां प्रतिवातं] ं४।५३अ/ नाग्निं मुखेनोपधमेन्नग्नां नैक्षेत च स्त्रियम् । ं४।५३च्/ नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ Bछ्.Sछ्॥ ं४।५४अ/ अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् । ं४।५४च्/ न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ Bछ्.Sछ्॥ ं४।५५अ/ नाश्नीयात् संधिवेलायां न गच्छेन्नापि संविशेत् । %[ ं४।५५च्/ न चैव प्रलिखेद् भूमिं नात्मनोऽपहरेत् स्रजम् ॥ Bछ्.Sछ्॥ ं४।५६अ/ नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । ं४।५६च्/ अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा । ं४।५७अ/ नैकः सुप्यात्शून्यगेहे न श्रेयांसं प्रबोधयेत् । %[शून्यगृहे स्वप्यान्] ं४।५७च्/ नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चावृतः ॥ Bछ्.Sछ्॥ ं४।५८अ/ अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । ं४।५८च्/ स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ Bछ्.Sछ्॥ ं४।५९अ/ न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित् । ं४।५९च्/ न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ॥ Bछ्.Sछ्॥ ं४।६०अ/ नाधर्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् । ं४।६०च्/ नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ Bछ्.Sछ्॥ ं४।६१अ/ न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । ं४।६१च्/ न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ॥ Bछ्.Sछ्॥ ं४।६२अ/ न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ॥ ं४।६२च्/ नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ Bछ्.Sछ्॥ ं४।६३अ/ न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् । ं४।६३च्/ नोत्सङ्गे भक्षयेद् भक्ष्यान्न जातु स्यात् कुतूहली ॥ Bछ्.Sछ्॥ ं४।६४अ/ न नृत्येदथ वा गायेन्न वादित्राणि वादयेत् । %[ंंअ नृत्येन्नैव गायेच्च न वादित्राणि वादयेत्)] ं४।६४च्/ नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥ Bछ्.Sछ्॥ %[ंंअ च रक्तो विरोधयेत्] ं४।६५अ/ न पादौ धावयेत् कांस्ये कदा चिदपि भाजने । ं४।६५च्/ न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ Bछ्.Sछ्॥ ं४।६६अ/ उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । ं४।६६च्/ उपवीतमलङ्कारं स्रजं करकमेव च ॥ Bछ्.Sछ्॥ ं४।६७अ/ नाविनीतैर्भजेद् धुर्यैर्न च क्षुध्व्याधिपीडितैः । %[ंंआविनीतैर्व्रजेद्)] ं४।६७च्/ न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥ Bछ्.Sछ्॥ ं४।६८अ/ विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः । ं४।६८च्/ वर्णरूपोपसम्पन्नैः प्रतोदेनातुदन् भृशम् ॥ Bछ्.Sछ्॥ %[ं।प्रतोदेनाक्षिपन्] ं४।६९अ/ बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथाऽसनम् । ं४।६९च्/ न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ Bछ्.Sछ्॥ %[ंंअ च्छिन्द्यान्] ं४।७०अ/ न मृत्लोष्ठं च मृद्नीयान्न छिन्द्यात् करजैस्तृणम् । %[ंॅह्छिन्द्यात्] ं४।७०च्/ न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ Bछ्.Sछ्॥ ं४।७१अ/ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । ं४।७१च्/ स विनाशं व्रजत्याशु सूचकाऽशुचिरेव च ॥ Bछ्.Sछ्॥ %[ं।सूचकोऽशुचिरेव च] ं४।७२अ/ न विगर्ह्य कथां कुर्याद् बहिर्माल्यं न धारयेत् । %[ं। न विगृह्य कथां कुर्याद्] ं४।७२च्/ गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ Bछ्.Sछ्॥ ं४।७३अ/ अद्वारेण च नातीयाद् ग्रामं वा वेश्म वाऽवृतम् । ं४।७३च्/ रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं४।७४अ/ नाक्षैर्दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत् । ं४।७४च्/ शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ Bछ्.Sछ्॥ ं४।७५अ/ सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ । ं४।७५च्/ न च नग्नः शयीतैह न चोच्छिष्टः क्व चिद् व्रजेत् ॥ Bछ्.Sछ्॥ ं४।७६अ/ आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । ं४।७६च्/ आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ Bछ्.Sछ्॥ ं४।७७अ/ अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित् । ं४।७७च्/ न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ Bछ्.Sछ्॥ ं४।७८अ/ अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः । ं४।७८च्/ न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः ॥ Bछ्.Sछ्॥ ं४।७९अ/ न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः । ं४।७९च्/ न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ Bछ्.Sछ्॥ ं४।८०अ/ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । ं४।८०च्/ न चास्योपदिशेद् धर्मं न चास्य व्रतमादिशेत् ॥ Bछ्.Sछ्॥ ं४।८१अ/ यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् । ं४।८१च्/ सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ Bछ्.Sछ्॥ ं४।८२अ/ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । ं४।८२च्/ न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद् विना ततः ॥ Bछ्.Sछ्॥ ं४।८३अ/ केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् । ं४।८३च्/ शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ॥ Bछ्.Sछ्॥ ं४।८४अ/ न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । ं४।८४च्/ सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ Bछ्.Sछ्॥ ं४।८५अ/ दशसूनासमं चक्रं दशचक्रसमो ध्वजः । ं४।८५च्/ दशध्वजसमो वेशो दशवेशसमो नृपः ॥ Bछ्.Sछ्॥ ं४।८६अ/ दश सूणासहस्राणि यो वाहयति सौनिकः । ं४।८६च्/ तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ Bछ्.Sछ्॥ ं४।८७अ/ यो राज्ञः प्रतिगृह्णाति लुब्धस्यौच्छास्त्रवर्तिनः । ं४।८७च्/ स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ Bछ्.Sछ्॥ ं४।८८अ/ तामिस्रमन्धतामिस्रं महारौरवरौरवौ । ं४।८८च्/ नरकं कालसूत्रं च महानरकमेव च ॥ Bछ्.Sछ्॥ ं४।८९अ/ सञ्जीवनं महावीचिं तपनं सम्प्रतापनम् । ं४।८९च्/ संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥ Bछ्.Sछ्॥ %[ं।पूतिमृत्तिकं ] ं४।९०अ/ लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् । ं४।९०च्/ असिपत्रवनं चैव लोहदारकमेव च ॥ Bछ्.Sछ्॥ ं४।९१अ/ एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । ं४।९१च्/ न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ Bछ्.Sछ्॥ ं४।९२अ/ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । ं४।९२च्/ कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ Bछ्.Sछ्॥ ं४।९३अ/ उत्थायावश्यकं कृत्वा कृतशौचः समाहितः । ं४।९३च्/ पूर्वां संध्यां जपंस्तिष्ठेत् स्वकाले चापरां चिरम् ॥ Bछ्.Sछ्॥ %[ ं४।९४अ/ ऋषयो दीर्घसंध्यत्वाद् दीर्घमायुरवाप्नुयुः । ं४।९४च्/ प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ Bछ्.Sछ्॥ ं४।९५अ/ श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । ं४।९५च्/ युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥ Bछ्.Sछ्॥ ं४।९६अ/ पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः । ं४।९६च्/ माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ Bछ्.Sछ्॥ ं४।९७अ/ यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । ं४।९७च्/ विरमेत् पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥ Bछ्.Sछ्॥ ं४।९८अ/ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । ं४।९८च्/ वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु सम्पठेत् ॥ Bछ्.Sछ्॥ ं४।९९अ/ नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ । ं४।९९च्/ न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ Bछ्.Sछ्॥ ं४।१००अ/ यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । ं४।१००च्/ ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥Bछ्.Sछ्॥ ं४।१०१अ/ इमान्नित्यमनध्यायानधीयानो विवर्जयेत् । ं४।१०१च्/ अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ Bछ्.Sछ्॥ ं४।१०२अ/ कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने । ं४।१०२च्/ एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ Bछ्.Sछ्॥ ं४।१०३अ/ विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे । ं४।१०३च्/ आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं४।१०४अ/ एतांस्त्वभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । ं४।१०४च्/ तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ Bछ्.Sछ्॥ ं४।१०५अ/ निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । ं४।१०४च्/ एतानाकालिकान् विद्यादनध्यायान् ऋतावपि ॥ Bछ्.Sछ्॥ ं४।१०६अ/ प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने । ं४।१०६च्/ सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥ Bछ्.Sछ्॥ ं४।१०७अ/ नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । ं४।१०७च्/ धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ Bछ्.Sछ्॥ %[ं।सर्वशः ] ं४।१०८अ/ अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । ं४।१०८च्/ अनध्यायो रुद्यमाने समवाये जनस्य च ॥ Bछ्.Sछ्॥ ं४।१०९अ/ उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने । ं४।१०९च्/ उच्छिष्टः श्राद्धभुक् चैव मनसाऽपि न चिन्तयेत् ॥ Bछ्.Sछ्॥ ं४।११०अ/ प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । %[ंएकोद्दिष्टनिकेतनम्] ं४।११०च्/ त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥ Bछ्.Sछ्॥ ं४।१११अ/ यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । ं४।१११च्/ विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ Bछ्.Sछ्॥ ं४।११२अ/ शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । ं४।११२च्/ नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ Bछ्.Sछ्॥ ं४।११३अ/ नीहारे बाणशब्दे च संध्ययोरेव चोभयोः । ं४।११३च्/ अमावास्याचतुर्दश्योः पौर्णमास्य्ऽष्टकासु च ॥ Bछ्.Sछ्॥ ं४।११४अ/ अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ं४।११४च्/ ब्रह्माष्टकपौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं४।११५अ/ पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । ं४।११५च्/ श्वखरोष्ट्रे च रुवति पङ्क्तो च न पठेद् द्विजः ॥ Bछ्.Sछ्॥ ं४।११६अ/ नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा । ं४।११६च्/ वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ Bछ्.Sछ्॥ ं४।११७अ/ प्राणि वा यदि वाऽप्राणि यत् किं चित्श्राद्धिकं भवेत् । ं४।११७च्/ तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ??॥ Bछ्.Sछ्॥ ं४।११८अ/ चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते । % ][ंॅहोरैरुपप्लुते, संभ्रमे] ं४।११८च्/ आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ Bछ्.Sछ्॥ ं४।११९अ/ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । ं४।११९च्/ अष्टकासु त्वहोरात्रं ऋत्वन्तासु च रात्रिषु ॥ Bछ्.Sछ्॥ ं४।१२०अ/ नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् । ं४।१२०च्/ न नावं न खरं नोष्ट्रं नैरिणस्थो न यानगः ॥ Bछ्.Sछ्॥ ं४।१२१अ/ न विवादे न कलहे न सेनायां न सङ्गरे । ं४।१२१च्/ न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ Bछ्.Sछ्॥ ं४।१२२अ/ अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् । ं४।१२२च्/ रुधिरे च स्रुते गात्रात्शस्त्रेण च परिक्षते ॥ Bछ्.Sछ्॥ ं४।१२३अ/ सामध्वनावृग्यजुषी नाधीयीत कदा चन । ं४।१२३च्/ वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ॥ Bछ्.Sछ्॥ ं४।१२४अ/ ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । ं४।१२४च्/ सामवेदः स्मृतः पित्र्यस्तस्मात् तस्याशुचिर्ध्वनिः ॥ Bछ्.Sछ्॥ ं४।१२५अ/ एतद् विद्वन्तो ??विद्वांसस्त्रयीनिष्कर्षमन्वहम् । ं४।१२५च्/ क्रमतः पूर्वमभ्यस्य पश्चाद् वेदमधीयते ॥ Bछ्.Sछ्॥ ं४।१२६अ/ पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः । ं४।१२६च्/ अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ Bछ्.Sछ्॥ ं४।१२७अ/ द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः । ं४।१२७च्/ स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः ॥ Bछ्.Sछ्॥ ं४।१२८अ/ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । ं४।१२८च्/ ब्रह्मचारी भवेन्नित्यमप्यर्तौ स्नातको द्विजः ॥ Bछ्.Sछ्॥ ं४।१२९अ/ न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि । ं४।१२९च्/ न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ Bछ्.Sछ्॥ ं४।१३०अ/ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । ं४।१३०च्/ नाक्रामेत् कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ Bछ्.Sछ्॥ ं४।१३१अ/ मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । ं४।१३१च्/ संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ Bछ्.Sछ्॥ ं४।१३२अ/ उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । ं४।१३२च्/ श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥ Bछ्.Sछ्॥ ं४।१३३अ/ वैरिणं नोपसेवेत सहायं चैव वैरिणः । ं४।१३३च्/ अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ Bछ्.Sछ्॥ ं४।१३४अ/ न हीदृशमनायुष्यं लोके किं चन विद्यते । ं४।१३४च्/ यादृशं पुरुषस्येह परदारोपसेवनम् ॥ Bछ्.Sछ्॥ ं४।१३५अ/ क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । ं४।१३५च्/ नावमन्येत वै भूष्णुः कृशानपि कदा चन ॥ Bछ्.Sछ्॥ ं४।१३६अ/ एतत् त्रयं हि पुरुषं निर्दहेदवमानितम् । ं४।१३६च्/ तस्मादेतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ Bछ्.Sछ्॥ ं४।१३७अ/ नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः । ं४।१३७च्/ आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ Bछ्.Sछ्॥ ं४।१३८अ/ सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् । ं४।१३८च्/ प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ Bछ्.Sछ्॥ ं४।१३९अ/ भद्रं भद्रमिति ब्रूयाद् भद्रमित्येव वा वदेत् । ं४।१३९च्/ शुष्कवैरं विवादं च न कुर्यात् केन चित् सह ॥ Bछ्.Sछ्॥ ं४।१४०अ/ नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते । ं४।१४०च्/ नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ Bछ्.Sछ्॥ ं४।१४१अ/ हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ।% Bछ्.Sछ्॥ %[ं।वयो'अतिगान्] ं४।१४१च्/ रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ Bछ्.Sछ्॥ %[ं रूपद्रव्यहीनांश्च] ं४।१४२अ/ न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् । ं४।१४२च्/ न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥ Bछ्.Sछ्॥ %[ं।स्वस्थो ज्योतिर्गणान् दिवि] ं४।१४३अ/ स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । ं४।१४३च्/ गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ Bछ्.Sछ्॥ ं४।१४४अ/ अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः । ं४।१४४च्/ रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ Bछ्.Sछ्॥ ं४।१४५अ/ मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः । ं४।१४५च्/ जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ Bछ्.Sछ्॥ ं४।१४६अ/ मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । ं४।१४६च्/ जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ Bछ्.Sछ्॥ ं४।१४७अ/ वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः । %[ं।वेदमेव जपेन्] ं४।१४७च्/ तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥ Bछ्.Sछ्॥ ं४।१४८अ/ वेदाभ्यासेन सततं शौचेन तपसैव च । ं४।१४८च्/ अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ Bछ्.Sछ्॥ ं४।१४९अ/ पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । %[ं।द्विजः] ं४।१४९च्/ ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥ Bछ्.Sछ्॥ ं४।१५०अ/ सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः । %[ं।सावित्रान् शान्तिहोमांश्] ं४।१५०च्/ पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ॥ Bछ्.Sछ्॥ ं४।१५१अ/ दूरादावसथान् मूत्रं दूरात् पादावसेचनम् । ं४।१५१च्/ उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ Bछ्.Sछ्॥ ं४।१५२अ/ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । ं४।१५२च्/ पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ Bछ्.Sछ्॥ ं४।१५३अ/ दैवतान्यभिगच्छेत् तु धार्मिकांश्च द्विजोत्तमान् । ं४।१५३च्/ ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु । ं४।१५४अ/ अभिवादयेद् वृद्धांश्च दद्याच्चैवासनं स्वकम् । ं४।१५४च्/ कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ Bछ्.Sछ्॥ ं४।१५५अ/ श्रुतिस्मृत्योदितं सम्यग़् निबद्धं स्वेषु कर्मसु । ं४।१५५च्/ धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ Bछ्.Sछ्॥ ं४।१५६अ/ आचारात्लभते ह्यायुराचारादीप्सिताः प्रजाः । ं४।१५६च्/ आचाराद् धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ Bछ्.Sछ्॥ ं४।१५७अ/ दुराचारो हि पुरुषो लोके भवति निन्दितः । ं४।१५७च्/ दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ Bछ्.Sछ्॥ ं४।१५८अ/ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । ं४।१५८च्/ श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ Bछ्.Sछ्॥ ं४।१५९अ/ यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ॥ Bछ्.Sछ्॥ ं४।१५९च्/ यद् यदात्मवशं तु स्यात् तत् तत् सेवेत यत्नतः । ं४।१६०अ/ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । ं४।१६०च्/ एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ Bछ्.Sछ्॥ ं४।१६१अ/ यत् कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः । ं४।१६१च्/ तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ Bछ्.Sछ्॥ ं४।१६२अ/ आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । ं४।१६२च्/ न हिंस्याद् ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥ Bछ्.Sछ्॥ ं४।१६३अ/ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । ं४।१६३च्/ द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ह्ण्यं च वर्जयेत् ॥ Bछ्.Sछ्॥ %[ं।द्वेषं स्तम्भं च] ं४।१६४अ/ परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् । ं४।१६४च्/ अन्यत्र पुत्रात्शिष्याद् वा शिष्ट्यर्थं ताडयेत् तु तौ ॥ Bछ्.Sछ्॥ ं४।१६५अ/ ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ??। ं४।१६५च्/ शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ Bछ्.Sछ्॥ ं४।१६६अ/ ताडयित्वा तृणेनापि संरम्भात्मतिपूर्वकम् । ं४।१६६च्/ एकविंशतीमाजातीः पापयोनिषु जायते ॥ Bछ्.Sछ्॥ ं४।१६७अ/ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । ं४।१६७च्/ दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ Bछ्.Sछ्॥ ं४।१६८अ/ शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात् । ं४।१६८च्/ तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ Bछ्.Sछ्॥ ं४।१६९अ/ न कदा चिद् द्विजे तस्माद् विद्वानवगुरेदपि । ं४।१६९च्/ न ताडयेत् तृणेनापि न गात्रात् स्रावयेदसृक् ॥ Bछ्.Sछ्॥ ं४।१७०अ/ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । ं४।१७०च्/ हिंसारतश्च यो नित्यं नैहासौ सुखमेधते ॥ Bछ्.Sछ्॥ %[ं। हिंसारतिश्] ं४।१७१अ/ न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् । ं४।१७१च्/ अधार्मिकानां पापानामाशु पश्यन् विपर्ययम् ॥ Bछ्.Sछ्॥ ं४।१७२अ/ नाधर्मश्चरितो लोके सद्यः फलति गौरिव । ं४।१७२च्/ शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ॥ Bछ्.Sछ्॥ ं४।१७३अ/ यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु । ं४।१७३च्/ न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ Bछ्.Sछ्॥ %[ं।कृतो धर्मः?] ं४।१७४अ/ अधर्मेणैधते तावत् ततो भद्राणि पश्यति । ं४।१७४च्/ ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ Bछ्.Sछ्॥ ं४।१७५अ/ सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा । ं४।१७५च्/ शिष्यांश्च शिष्याद् धर्मेण वाच्।बाहूदरसंयतः ॥ Bछ्.Sछ्॥ ं४।१७६अ/ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । ं४।१७६च्/ धर्मं चाप्यसुखोदर्कं लोकसङ्क्रुष्टमेव च ॥ Bछ्.Sछ्॥ ं४।१७७अ/ न पाणिपादचपलो न नेत्रचपलोऽनृजुः । ं४।१७७च्/ न स्याद् वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ Bछ्.Sछ्॥ ं४।१७८अ/ येनास्य पितरो याता येन याताः पितामहाः । ं४।१७८च्/ तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति ॥ Bछ्.Sछ्॥ ं४।१७९अ/ ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः । ं४।१७९च्/ बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥ Bछ्.Sछ्॥ ं४।१८०अ/ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया । ं४।१८०च्/ दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ Bछ्.Sछ्॥ ं४।१८१अ/ एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । ं४।१८१च्/ एतैर्जितैश्च जयति सर्वान्लोकानिमान् गृही ॥ Bछ्.Sछ्॥ ं४।१८२अ/ आचार्यो ब्रह्मलोकैशः प्राजापत्ये पिता प्रभुः । ं४।१८२च्/ अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ Bछ्.Sछ्॥ ं४।१८३अ/ जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । ं४।१८३च्/ संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ Bछ्.Sछ्॥ ं४।१८४अ/ आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः । ं४।१८४च्/ भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ Bछ्.Sछ्॥ ं४।१८५अ/ छाया स्वो दासवर्गश्च दुहिता कृपणं परम् । ं४।१८५च्/ तस्मादेतैरधिक्षिप्तः सहेतासञ्ज्वरः सदा ॥ Bछ्.Sछ्॥ ं४।१८६अ/ प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् । ं४।१८६च्/ प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ Bछ्.Sछ्॥ ं४।१८७अ/ न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे । ं४।१८७च्/ प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ Bछ्.Sछ्॥ ं४।१८८अ/ हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् । ं४।१८८च्/ प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ Bछ्.Sछ्॥ ं४।१८९अ/ हिरण्यमायुरन्नं च भूर्गोश्चाप्योषतस्तनुम् । ं४।१८९च्/ अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥ Bछ्.Sछ्॥ ं४।१९०अ/ अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः । ं४।१९०च्/ अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ॥ Bछ्.Sछ्॥ ं४।१९१अ/ तस्मादविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् । ं४।१९१च्/ स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति ॥ Bछ्.Sछ्॥ ं४।१९२अ/ न वार्यपि प्रयच्छेत् तु बैडालव्रतिके द्विजे । ं४।१९२च्/ न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ Bछ्.Sछ्॥ ं४।१९३अ/ त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् । ं४।१९३च्/ दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ Bछ्.Sछ्॥ ं४।१९४अ/ यथा प्लवेनोपलेन निमज्जत्युदके तरन् । ं४।१९४च्/ तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥ Bछ्.Sछ्॥ ं४।१९५अ/ धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः ॥ Bछ्.Sछ्॥ ं४।१९५च्/ बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ Bछ्.Sछ्॥ %[ईन् थे फ़ोल्लोविन्ग् नुम्बेरिन्गोफ़् ं, ञ्ह'सेद् हवे थे समे ओने वित्ः क्] ं४।१९६अ[१९७ंअ]/ अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः । ं४।१९६च्[१९७ंच्]/ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ Bछ्.Sछ्॥ ं४।१९७अ[१९८ंअ]/ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ं४।१९७च्[१९८ंच्]/ ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ Bछ्.Sछ्॥ ं४।१९८अ[१९९ंअ]/ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । ं४।१९८च्[१९९ंच्]/ व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ Bछ्.Sछ्॥ ं४।१९९अ[२००ंअ]/ प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । ं४।१९९च्[२००ंच्]/ छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ Bछ्.Sछ्॥ ं४।२००अ[२०१ंअ]/ अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । ं४।२००च्[२०१ंच्]/ स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ Bछ्.Sछ्॥ ं४।२०१अ[२०२ंअ]/ परकीयनिपानेषु न स्नायाद् हि कदा चन । %[क्:स्नायाच्च कदा चन ] ं४।२०१च्[२०२ंच्]/ निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ Bछ्.Sछ्॥ ं४।२०२अ[२०३ंअ]/ यानशय्याऽऽसनान्यस्य कूपोद्यानगृहाणि च । ं४।२०२च्[२०३ंच्]/ अदत्तान्युपयुञ्जान एनसः स्यात् तुरीयभाक् ॥ Bछ्.Sछ्॥ ं४।२०३अ[२०४ंअ]/ नदीषु देवखातेषु तडागेषु सरःसु च । ं४।२०३च्[२०४ंच्]/ स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ Bछ्.Sछ्॥ ं४।२०४अ[२०५ंअ]/ यमान् सेवेत सततं न नित्यं नियमान् बुधः । ं४।२०४च्[२०५ंच्]/ यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ॥ Bछ्.Sछ्॥ ं४।२०५अ[२०६ंअ]/ नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । ं४।२०५च्[२०६ंच्]/ स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥ Bछ्.Sछ्॥ ं४।२०६अ[२०७ंअ]/ अश्लीकमेतत् साधूनां यत्र जुह्वत्यमी हविः । %[ंऽश्लीलम्] ं४।२०६च्[२०७ंच्]/ प्रतीपमेतद् देवानां तस्मात् तत् परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं४।२०७अ[२०८ंअ]/ मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन । ं४।२०७च्[२०८ंच्]/ केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ Bछ्.Sछ्॥ ं४।२०८अ[२०९ंअ]/ भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया । ं४।२०८च्[२०९ंच्]/ पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ Bछ्.Sछ्॥ ं४।२०९अ[२१०ंअ]/ गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः । ं४।२०९च्[२१०ंच्]/ गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ Bछ्.Sछ्॥ ं४।२१०अ[२११ंअ]/ स्तेनगायनयोश्चान्नं तक्ष्ह्णो वार्धुषिकस्य च । ं४।२१०च्[२११ंच्]/ दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ Bछ्.Sछ्॥ ं४।२११अ[२१२ंअ]/ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । ं४।२११च्[२१२ंच्]/ शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥ Bछ्.Sछ्॥ ं४।२१२अ[२१३ंअ]/ चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः । ं४।२१२च्[२१३ंच्]/ उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ॥ Bछ्.Sछ्॥ ं४।२१३अ[२१४ंअ]/ अनर्चितं वृथामांसमवीरायाश्च योषितः । ं४।२१३च्[२१४ंच्]/ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥ Bछ्.Sछ्॥ ं४।२१४अ[२१५ंअ]/ पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा ॥ Bछ्.Sछ्॥ । %[ं।क्रतुविक्रयकस्य च] ं४।२१४च्[२१५ंच्]/ शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥ Bछ्.Sछ्॥ ं४।२१५अ[२१६ंअ]/ कर्मारस्य निषादस्य रङ्गावतारकस्य च । ं४।२१५च्[२१६ंच्]/ सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ Bछ्.Sछ्॥ ं४।२१६अ[२१७ंअ]/ श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । ं४।२१६च्[२१७ंच्]/ रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥ Bछ्.Sछ्॥ %[ं रजकस्य] ं४।२१७अ[२१८ंअ]/ मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । ं४।२१७च्[२१८ंच्]/ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ Bछ्.Sछ्॥ ं४।२१८अ[२१९ंअ]/ राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । ं४।२१८च्[२१९ंच्]/ आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ Bछ्.Sछ्॥ ं४।२१९अ[२२०ंअ]/ कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । ं४।२१९च्[२२०ंच्]/ गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ Bछ्.Sछ्॥ ं४।२२०अ[२२१ंअ]/ पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । ं४।२२०च्[२२१ंच्]/ विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ Bछ्.Sछ्॥ ं४।२२१अ[२२२ंअ]/ य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । ं४।२२१च्[२२२ंच्]/ तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ Bछ्.Sछ्॥ ं४।२२२अ[२२३ंअ]/ भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । ं४।२२२च्[२२३ंच्]/ मत्या भुक्त्वाऽचरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ॥ Bछ्.Sछ्॥ ं४।२२३अ[२२४ंअ]/ नाद्यात्शूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः । ं४।२२३च्[२२४ंच्]/ आददीताममेवास्मादवृत्तावेकरात्रिकम् । ं४।२२४अ[२२५ंअ]/ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । ं४।२२४च्[२२५ंच्]/ मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ Bछ्.Sछ्॥ ं४।२२५अ[२२६ंअ]/ तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् । ं४।२२५च्[२२६ंच्]/ श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ Bछ्.Sछ्॥ ं४।२२६अ[२२७ंअ]/ श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः । ं४।२२६च्[२२७ंच्]/ श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ Bछ्.Sछ्॥ ं४।२२७अ[२२८ंअ]/ दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् । ं४।२२७च्[२२८ंच्]/ परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ Bछ्.Sछ्॥ ं४।२२८अ[२२९ंअ]/ यत् किं चिदपि दातव्यं याचितेनानसूयया । %[ंऽनसूयता?] ं४।२२८च्[२२९ंच्]/ उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ Bछ्.Sछ्॥ ं४।२२९अ[२३०ंअ]/ वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । %[ंऽक्षयम्] ं४।२२९च्[२३०ंच्]/ तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ Bछ्.Sछ्॥ ं४।२३०अ[२३१ंअ]/ भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः । ं४।२३०च्[२३१ंच्]/ गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ Bछ्.Sछ्॥ ं४।२३१अ[२३२ंअ]/ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । ं४।२३१च्[२३२ंच्]/ अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ Bछ्.Sछ्॥ ं४।२३२अ[२३३ंअ]/ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । ं४।२३२च्[२३३ंच्]/ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ Bछ्.Sछ्॥ ं४।२३३अ[२३४ंअ]/ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । ं४।२३३च्[२३४ंच्]/ वार्यन्नगोमहीवासस्।तिलकाञ्चनसर्पिषाम् ॥ Bछ्.Sछ्॥ ं४।२३४अ[२३५ंअ]/ येन येन तु भावेन यद् यद् दानं प्रयच्छति । ं४।२३४च्[२३५ंच्]/ तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ Bछ्.Sछ्॥ ं४।२३५अ[२३६ंअ]/ योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा । ं४।२३५च्[२३६ंच्]/ तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ Bछ्.Sछ्॥ ं४।२३६अ[२३७ंअ]/ न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् । ं४।२३६च्[२३७ंच्]/ नार्तोऽप्यपवदेद् विप्रान्न दत्त्वा परिकीर्तयेत् ॥ Bछ्.Sछ्॥ %[ं।दत्वा] ं४।२३७अ[२३८ंअ]/ यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । ं४।२३७च्[२३८ंच्]/ आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ Bछ्.Sछ्॥ ं४।२३८अ[२३९ंअ]/ धर्मं शनैः सञ्चिनुयाद् वल्मीकमिव पुत्तिकाः । %[ं।सञ्चिनुयाद्] ं४।२३८च्[२३९ंच्]/ परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ Bछ्.Sछ्॥ ं४।२३९अ[२४०ंअ]/ नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । ं४।२३९च्[२४०ंच्]/ न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ Bछ्.Sछ्॥ ं४।२४०अ[२४१ंअ]/ एकः प्रजायते जन्तुरेक एव प्रलीयते । ं४।२४०च्[२४१ंच्]/ एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ Bछ्.Sछ्॥ ं४।२४१अ[२४२ंअ]/ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ । ं४।२४१च्[२४२ंच्]/ विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ Bछ्.Sछ्॥ ं४।२४२अ[२४३ंअ]/ तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयात्शनैः । ं४।२४२च्[२४३ंच्]/ धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ Bछ्.Sछ्॥ ं४।२४३अ[२४४ंअ]/ धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । ं४।२४३च्[२४४ंच्]/ परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥ Bछ्.Sछ्॥ ं४।२४४अ[२४५ंअ]/ उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह । %[ं।संभन्धान्] ं४।२४४च्[२४५ंच्]/ निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ Bछ्.Sछ्॥ ं४।२४५अ[२४६ंअ]/ उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् । ं४।२४५च्[२४६ंच्]/ ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ Bछ्.Sछ्॥ ं४।२४६अ[२४७ंअ]/ दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् । ं४।२४६च्[२४७ंच्]/ अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥ Bछ्.Sछ्॥ ं४।२४७अ[२४८ंअ]/ एधौदकं मूलफलमन्नमभ्युद्यतं च यत् । ं४।२४७च्[२४८ंच्]/ सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ Bछ्.Sछ्॥ ं४।२४८अ[२४९ंअ]/ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । ं४।२४८च्[२४९ंच्]/ मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ Bछ्.Sछ्॥ ं४।२४९अ[२५०ंअ]/ नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥ Bछ्.Sछ्॥ ं४।२४९च्[२५०ंच्]/ न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ Bछ्.Sछ्॥ ं४।२५०अ[२५१ंअ]/ शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि । ं४।२५०च्[२५१ंच्]/ धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ Bछ्.Sछ्॥ ं४।२५१अ[२५२ंअ]/ गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन् । ं४।२५१च्[२५२ंच्]/ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ॥ Bछ्.Sछ्॥ ं४।२५२अ[२५३ंअ]/ गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । ं४।२५२च्[२५३ंच्]/ आत्मनो वृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा ॥ Bछ्.Sछ्॥ ं४।२५३अ[२५४ंअ]/ आर्धिकः कुलमित्रं च गोपालो दासनापितौ । ं४।२५३च्[२५४ंच्]/ एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥ Bछ्.Sछ्॥ ं४।२५४अ[२५५ंअ]/ यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । ं४।२५४च्[२५५ंच्]/ यथा चौपचरेदेनं तथाऽत्मानं निवेदयेत् ॥ Bछ्.Sछ्॥ ं४।२५५अ[२५६ंअ]/ योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । ं४।२५५च्[२५६ंच्]/ स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ Bछ्.Sछ्॥ ं४।२५६अ[२५७ंअ]/ वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः । ं४।२५६च्[२५७ंच्]/ तांस्तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन्नरः ॥ Bछ्.Sछ्॥ %[ं।तान् तु?] ं४।२५७अ[२५८ंअ]/ महर्षिपितृदेवानां गत्वाऽनृण्यं यथाविधि । ं४।२५७च्[२५८ंच्]/ पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यमाश्रितः ॥ Bछ्.Sछ्॥ %[ं।आस्थितः] ं४।२५८अ[२५९ंअ]/ एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । %[ं। हितमात्मनि ] ं४।२५८च्[२५९ंच्]/ एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ Bछ्.Sछ्॥ ं४।२५९अ[२६०ंअ]/ एषौदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती । ं४।२५९च्[२६०ंच्]/ स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥ Bछ्.Sछ्॥ ं४।२६०अ[२६१ंअ]/ अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् । ं४।२६०च्[२६१ंच्]/ व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ Bछ्.Sछ्॥

अध्याय ५

ं५।०१अ/ श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् । ं५।०१च्/ इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ Bछ्.Sछ्॥ ं५।०२अ/ एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् । ं५।०२च्/ कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ Bछ्.Sछ्॥ ं५।०३अ/ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः । ं५।०३च्/ श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति ॥ Bछ्.Sछ्॥ ं५।०४अ/ अनभ्यासेन वेदानामाचारस्य च वर्जनात् । ं५।०४च्/ आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ Bछ्.Sछ्॥ %[ं।विप्रान्] ं५।०५अ/ लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । ं५।०५च्/ अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ Bछ्.Sछ्॥ ं५।०६अ/ लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस्तथा । %[ं।व्रश्चनप्रभवांः ] ं५।०६च्/ शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ Bछ्.Sछ्॥ %[ं।पीयूषं ] ं५।०७अ/ वृथा कृसरसंयावं पायसापूपमेव च । ं५।०७च्/ अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ Bछ्.Sछ्॥ ं५।०८अ/ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । ं५।०८च्/ आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ Bछ्.Sछ्॥ %[ं।सन्धिनीक्षीरं] ं५।०९अ/ आरण्यानां च सर्वेषां मृगाणां माहिषं विना । ं५।०९च्/ स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ Bछ्.Sछ्॥ ं५।१०अ/ दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् । %[ं।दधिसंभवम्] ं५।१०च्/ यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ Bछ्.Sछ्॥ ं५।११अ/ क्रव्यादान् शकुनान् सर्वान्तथा ग्रामनिवासिनः । %[ं।क्रव्यादः शकुनीन्] ं५।११च्/ अनिर्दिष्टांश्चेकशफान् टिट्टिभं च विवर्जयेत् ॥ Bछ्.Sछ्॥ ं५।१२अ/ कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् । ं५।१२च्/ सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ Bछ्.Sछ्॥ %[ं रज्जुदालं] ं५।१३अ/ प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् । %[ं।प्रतुदान्] ं५।१३च्/ निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥ Bछ्.Sछ्॥ ं५।१४अ/ बकं चैव बलाकां च काकोलं खञ्जरीटकम् । ं५।१४च्/ मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ Bछ्.Sछ्॥ ं५।१५अ/ यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । ं५।१५च्/ मत्स्यादः सर्वमांसादस्तस्मान् मत्स्यान् विवर्जयेत् ॥ Bछ्.Sछ्॥ ं५।१६अ/ पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । ं५।१६च्/ राजीवान् सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ Bछ्.Sछ्॥ %[ं राजीवाः ] ं५।१७अ/ न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् । ं५।१७च्/ भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ॥ Bछ्.Sछ्॥ ं५।१८अ/ श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा । ं५।१८च्/ भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ Bछ्.Sछ्॥ ं५।१९अ/ छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । ं५।१९च्/ पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ Bछ्.Sछ्॥ ं५।२०अ/ अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । ं५।२०च्/ यतिचान्द्रायाणं वाऽपि शेषेषूपवसेदहः ॥ Bछ्.Sछ्॥ ं५।२१अ/ संवत्सरस्यैकमपि चरेत् कृच्छ्रं द्विजोत्तमः । ं५।२१च्/ अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ Bछ्.Sछ्॥ ं५।२२अ/ यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । ं५।२२च्/ भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ॥ Bछ्.Sछ्॥ ं५।२३अ/ बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । ं५।२३च्/ पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ Bछ्.Sछ्॥ %[[ं।पुराणेष्वृषियज्ञेषु] ं५।२४अ/ यत् किं चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । ं५।२४च्/ तत् पर्युषितमप्याद्यं हविःशेषं च यद् भवेत् ॥ Bछ्.Sछ्॥ ं५।२५अ/ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः । ं५।२५च्/ यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥ Bछ्.Sछ्॥ ं५।२६अ/ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः । ं५।२६च्/ मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ Bछ्.Sछ्॥ ं५।२७अ/ प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया । ं५।२७च्/ यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ Bछ्.Sछ्॥ ं५।२८अ/ प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् । ं५।२८च्/ स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ Bछ्.Sछ्॥ ं५।२९अ/ चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः । ं५।२९च्/ अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ Bछ्.Sछ्॥ ं५।३०अ/ नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्य्ऽहन्यपि । ं५।३०च्/ धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥ Bछ्.Sछ्॥ ं५।३१अ/ यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः । ं५।३१च्/ अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥ Bछ्.Sछ्॥ ं५।३२अ/ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा । ं५।३२च्/ देवान् पितॄंश्चार्चयित्वा खादन् मांसं न दुष्यति ॥ Bछ्.Sछ्॥ ं५।३३अ/ नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः । ं५।३३च्/ जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ॥ Bछ्.Sछ्॥ ं५।३४अ/ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । ं५।३४च्/ यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ Bछ्.Sछ्॥ ं५।३५अ/ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । ं५।३५च्/ स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ Bछ्.Sछ्॥ ं५।३६अ/ असंस्कृतान् पशून् मन्त्रैर्नाद्याद् विप्रः कदा चन । ं५।३६च्/ मन्त्रैस्तु संस्कृतानद्यात्शाश्वतं विधिमास्थितः ॥ Bछ्.Sछ्॥ ं५।३७अ/ कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा । ं५।३७च्/ न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदा चन ॥ Bछ्.Sछ्॥ ं५।३८अ/ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । ं५।३८च्/ वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ Bछ्.Sछ्॥ ं५।३९अ/ यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । ं५।३९च्/ यज्ञोऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ॥ Bछ्.Sछ्॥ ं५।४०अ/ ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । ं५।४०च्/ यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ॥ Bछ्.Sछ्॥ %[ंउच्छ्रितीः] ं५।४१अ/ मधुपर्के च यज्ञे च पितृदैवतकर्मणि । ं५।४१च्/ अत्रैव पशवो हिंस्या नान्यत्रैत्यब्रवीन् मनुः ॥ Bछ्.Sछ्॥ ं५।४२अ/ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः । ं५।४२च्/ आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् ॥ Bछ्.Sछ्॥ ं५।४३अ/ गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः । ं५।४३च्/ नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ Bछ्.Sछ्॥ ं५।४४अ/ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । ं५।४४च्/ अहिंसामेव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ Bछ्.Sछ्॥ ं५।४५अ/ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखैच्छया । ं५।४५च्/ स जीवांश्च मृतश्चैव न क्व चित् सुखमेधते ॥ Bछ्.Sछ्॥ ं५।४६अ/ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । ं५।४६च्/ स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ Bछ्.Sछ्॥ ं५।४७अ/ यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च । ं५।४७च्/ तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन ॥ Bछ्.Sछ्॥ ं५।४८अ/ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् । ं५।४८च्/ न च प्राणिवधः स्वर्ग्यस्तस्मान् मांसं विवर्जयेत् ॥ Bछ्.Sछ्॥ ं५।४९अ/ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । ं५।४९च्/ प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ Bछ्.Sछ्॥ ं५।५०अ/ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । ं५।५०च्/ न लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ Bछ्.Sछ्॥ ं५।५१अ/ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । ं५।५१च्/ संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ Bछ्.Sछ्॥ ं५।५२अ/ स्वमांसं परमांसेन यो वर्धयितुमिच्छति । ं५।५२च्/ अनभ्यर्च्य पितॄन् देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ Bछ्.Sछ्॥ ं५।५३अ/ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । ं५।५३च्/ मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ॥ Bछ्.Sछ्॥ ं५।५४अ/ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः । ं५।५४च्/ न तत् फलमवाप्नोति यत्मांसपरिवर्जनात् ॥ Bछ्.Sछ्॥ ं५।५५अ/ मां स भक्षयिताऽमुत्र यस्य मांसमिहाद् म्यहम् । ं५।५५च्/ एतत्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ Bछ्.Sछ्॥ ं५।५६अ/ न मांसभक्षणे दोषो न मद्ये न च मैथुने । ं५।५६च्/ प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ Bछ्.Sछ्॥ ं५।५७अ/ प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । ं५।५७च्/ चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ Bछ्.Sछ्॥ ं५।५८अ/ दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । ं५।५८च्/ अशुद्धा बान्धवाः सर्वे सूतके च तथौच्यते ॥ Bछ्.Sछ्॥ ं५।५९अ/ दशाहं शावमाशौचं सपिण्डेषु विधीयते । ं५।५९च्/ अर्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव वा ॥ Bछ्.Sछ्॥ ं५।६०अ/ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । ं५।६०च्/ समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ Bछ्.Sछ्॥ ं५।६१अ/ यथैदं शावमाशौचं सपिण्डेषु विधीयते । %[नोतिन् ं] ं५।६१च्/ जननेऽप्येवमेव स्यात्निपुणं शुद्धिमिच्छताम् ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं५।६२अ[६१ंअ]/ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । %[ं: जननेऽप्येवमेव स्यान् मातापित्रोस्तु सूतकं ।] ं५।६२च्[६१ंच्]/ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ Bछ्.Sछ्॥ ं५।६३अ[६२ंअ]/ निरस्य तु पुमांशुक्रमुपस्पृस्यैव शुध्यति । ं५।६३च्[६२ंच्]/ बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ॥ Bछ्.Sछ्॥ ं५।६४अ[६३ंअ]/ अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः । ं५।६४च्[६३ंच्]/ शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥ Bछ्.Sछ्॥ ं५।६५अ[६४ंअ]/ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । ं५।६५च्[६४ंच्]/ प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ Bछ्.Sछ्॥ %[ं।प्रेताहारैः ] ं५।६६अ[६५ंअ]/ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । ं५।६६च्[६५ंच्]/ रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ Bछ्.Sछ्॥ ं५।६७अ[६६ंअ]/ नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता । ं५।६७च्[६६ंच्]/ निर्वृत्तचूडकानां तु त्रिरात्रात्शुद्धिरिष्यते ॥ Bछ्.Sछ्॥ %[ं। निर्वृत्तमुण्डकानां ] ं५।६८अ[६७ंअ]/ ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः । ं५।६८च्[६७ंच्]/ अलङ्कृत्य शुचौ भूमावस्थिसञ्चयनाद् ऋते ॥ Bछ्.Sछ्॥ ं५।६९अ[६८ंअ]/ नास्य कार्योऽग्निसंस्कारो न च कार्यौदकक्रिया । ं५।६९च्[६८ंच्]/ अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस्त्र्यहमेव तु ॥ Bछ्.Sछ्॥ %[ं। क्षपेत त्र्यहमेव च] ं५।७०अ[६९ंअ]/ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । ं५।७०च्[६९ंच्]/ जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ॥ Bछ्.Sछ्॥ ं५।७१अ[७०ंअ]/ सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । ं५।७१च्[७०ंच्]/ जन्मन्येकौदकानां तु त्रिरात्रात्शुद्धिरिष्यते ॥ Bछ्.Sछ्॥ ं५।७२अ[७१ंअ]/ स्त्रीणामसंस्कृतानां तु त्र्यहात्शुध्यन्ति बान्धवाः । ं५।७२च्[७१ंच्]/ यथौक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ Bछ्.Sछ्॥ ं५।७३अ[७२ंअ]/ अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । ं५।७३च्[७२ंच्]/ मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥ Bछ्.Sछ्॥ ं५।७४अ[७३ंअ]/ संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः । ं५।७४च्[७३ंच्]/ असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः ॥ Bछ्.Sछ्॥ ं५।७५अ[७४ंअ]/ विगतं तु विदेशस्थं शृणुयाद् यो ह्यनिर्दशम् । ं५।७५च्[७४ंच्]/ यत्शेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ Bछ्.Sछ्॥ ं५।७६अ[७५ंअ]/ अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् । ं५।७६च्[७५ंच्]/ संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ Bछ्.Sछ्॥ ं५।७७अ[७६ंअ]/ निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । ं५।७७च्[७६ंच्]/ सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ Bछ्.Sछ्॥ ं५।७८अ[७७ंअ]/ बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । ं५।७८च्[७७ंच्]/ सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥ Bछ्.Sछ्॥ ं५।७९अ[७८ंअ]/ अन्तर्दशाहे स्यातां चेत् पुनर्मरणजन्मनी । %[ं। चेत् स्यातां] ं५।७९च्[७८ंच्]/ तावत् स्यादशुचिर्विप्रो यावत् तत् स्यादनिर्दशम् ॥ Bछ्.Sछ्॥ ं५।८०अ[७९ंअ]/ त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति । ं५।८०च्[७९ंच्]/ तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ॥ Bछ्.Sछ्॥ ं५।८१अ[८०ंअ]/ श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत् । ं५।८१च्[८०ंच्]/ मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ Bछ्.Sछ्॥ ं५।८२अ[८१ंअ]/ प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितः । ं५।८२च्[८१ंच्]/ अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ Bछ्.Sछ्॥ %[ं।कृत्स्नां ] ं५।८३अ[८२ंअ]/ शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । ं५।८३च्[८२ंच्]/ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ Bछ्.Sछ्॥ ं५।८४अ[८३ंअ]/ न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः । ं५।८४च्[८३ंच्]/ न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ Bछ्.Sछ्॥ ं५।८५अ[८४ंअ]/ दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । ं५।८५च्[८४ंच्]/ शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ Bछ्.Sछ्॥ ं५।८६अ[८५ंअ]/ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । ं५।८६च्[८५ंच्]/ सौरान् मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ॥ Bछ्.Sछ्॥ ं५।८७अ[८६ंअ]/ नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । ं५।८७च्[८६ंच्]/ आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ Bछ्.Sछ्॥ ं५।८८अ[८७ंअ]/ आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । ं५।८८च्[८७ंच्]/ समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ Bछ्.Sछ्॥ ं५।८९अ[८८ंअ]/ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ॥ Bछ्.Sछ्॥ ं५।८९च्[८८ंच्]/ आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥ Bछ्.Sछ्॥ ं५।९०अ[८९ंअ]/ पाषण्डमाश्रितानां च चरन्तीनां च कामतः । ं५।९०च्[८९ंच्]/ गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ Bछ्.Sछ्॥ ं५।९१अ[९०ंअ]/ आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । ं५।९१च्[९०ंच्]/ निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ Bछ्.Sछ्॥ ं५।९२अ[९१ंअ]/ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । ं५।९२च्[९१ंच्]/ पश्चिमौत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥ Bछ्.Sछ्॥ ं५।९३अ[९२ंअ]/ न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् । ं५।९३च्[९२ंच्]/ ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ Bछ्.Sछ्॥ ं५।९४अ[९३ंअ]/ राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । ं५।९४च्[९३ंच्]/ प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ Bछ्.Sछ्॥ ं५।९५अ[९४ंअ]/ डिम्भाहवहतानां च विद्युता पार्थिवेन च । %[ंड़िम्बाहवहतानां] ं५।९५च्[९४ंच्]/ गोब्राह्मणस्य चेवार्थे यस्य चैच्छति पार्थिवः ॥ Bछ्.Sछ्॥ ं५।९६अ[९५ंअ]/ सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च । ं५।९६च्[९५ंच्]/ अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ Bछ्.Sछ्॥ ं५।९७अ[९६ंअ]/ लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । ं५।९७च्[९६ंच्]/ शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥ Bछ्.Sछ्॥ ं५।९८अ[९७ंअ]/ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । ं५।९८च्[९७ंच्]/ सद्यः संतिष्ठते यज्ञस्तथाऽशौचमिति स्थितिः ॥ Bछ्.Sछ्॥ ं५।९९च्[९८ंअ]/ विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । ं५।९९च्[९८ंच्]/ वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ Bछ्.Sछ्॥ ं५।१००अ[९९ंअ]/ एतद् वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । ं५।१००च्[९९ंच्]/ असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ Bछ्.Sछ्॥ ं५।१०१अ[१००ंअ]/ असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । ं५।१०१च्[१००ंच्]/ विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ Bछ्.Sछ्॥ ं५।१०२अ[१०१ंअ]/ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । ं५।१०२च्[१०१ंच्]/ अनदन्नन्नमह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ Bछ्.Sछ्॥ ं५।१०३अ[१०२ंअ]/ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । %Bछ्.Sछ्॥ %[ं। अज्ञातिमेव वा] ं५।१०३च्[१०२ंच्]/ स्नात्वा सचैलः स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ Bछ्.Sछ्॥ %[ं।सचैलं, विशुद्ध्यति ] ं५।१०४अ[१०३ंअ]/ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । ं५।१०४च्[१०३ंच्]/ अस्वर्ग्या ह्याहुतिः सा स्यात्शूद्रसंस्पर्शदूषिता ॥ Bछ्.Sछ्॥ ं५।१०५अ[१०४ंअ]/ ज्ञानं तपोऽग्निराहारो मृत्मनो वार्युपाञ्जनम् । ं५।१०५च्[१०४ंच्]/ वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ Bछ्.Sछ्॥ ं५।१०६अ[१०५ंअ]/ सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । ं५।१०६च्[१०५ंच्]/ योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ Bछ्.Sछ्॥ ं५।१०७अ[१०६ंअ]/ क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः । %[ं।शुद्ध्यन्ति] ं५।१०७च्[१०६ंच्]/ प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ Bछ्.Sछ्॥ ं५।१०८अ[१०७ंअ]/ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति । ं५।१०८च्[१०७ंच्]/ रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ Bछ्.Sछ्॥ ं५।१०९अ[१०८ंअ]/ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । ं५।१०९च्[१०८ंच्]/ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ Bछ्.Sछ्॥ %[ं।शुद्ध्यति] ं५।११०अ[१०९ंअ]/ एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । ं५।११०च्[१०९ंच्]/ नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ Bछ्.Sछ्॥ ं५।१११अ[११०ंअ]/ तैजसानां मणीनां च सर्वस्याश्ममयस्य च । ं५।१११च्[११०ंच्]/ भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥ Bछ्.Sछ्॥ ं५।११२अ[१११ंअ]/ निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति । %[ं।विशुद्ध्यति] ं५।११२च्[१११ंच्]/ अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ Bछ्.Sछ्॥ ं५।११३अ[११२ंअ]/ अपामग्नेश्च संयोगाद् हैमं रौप्यं च निर्बभौ । ं५।११३च्[११२ंच्]/ तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ Bछ्.Sछ्॥ ं५।११४अ[११३ंअ]/ ताम्रायस्कांस्यरैत्यानां त्रपुणः सीसकस्य च । ं५।११४च्[११३ंच्]/ शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ Bछ्.Sछ्॥ ं५।११५अ[११४ंअ]/ द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् । ं५।११५च्[११४ंच्]/ प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ Bछ्.Sछ्॥ ं५।११६अ[११५ंअ]/ मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । ं५।११६च्[११५ंच्]/ चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ Bछ्.Sछ्॥ ं५।११७अ[११६ंअ]/ चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा । ं५।११७च्[११६ंच्]/ स्फ्यशूर्पशकटानां च मुसलौलूखलस्य च ॥ Bछ्.Sछ्॥ ं५।११८अ[११७ंअ]/ अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । ं५।११८च्[११७ंच्]/ प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ Bछ्.Sछ्॥ ं५।११९अ[११८ंअ]/ चैलवत्चर्मणां शुद्धिर्वैदलानां तथैव च । ं५।११९च्[११८ंच्]/ शाकमूलफलानां च धान्यवत्शुद्धिरिष्यते ॥ Bछ्.Sछ्॥ %[ं। तु] ं५।१२०अ[११९ंअ]/ कौशेयाविकयोरूषैः कुतपानामरिष्टकैः । ं५।१२०च्[११९ंच्]/ श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ Bछ्.Sछ्॥ ं५।१२१अ[१२०ंअ]/ क्षौमवत्शङ्खशृङ्गाणामस्थिदन्तमयस्य च । ं५।१२१च्[१२०ंच्]/ शुद्धिर्विजानता कार्या गोमूत्रेणौदकेन वा ॥ Bछ्.Sछ्॥ ं५।१२२अ[१२१ंअ]/ प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति । ं५।१२२च्[१२१ंच्]/ मार्जनौपाञ्जनैर्वेश्म पुनःपाकेन मृण्मयम् ॥ Bछ्.Sछ्॥ %[ं५।१२३क/ मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । %[नोतिन् ं] %[ं५।१२३क्ब्/ संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृत्मयम् ॥ Bछ्.Sछ्॥ नोतिन् ं] ं५।१२४अ[१२२ंअ]/ संमार्जनौपाञ्जनेन सेकेनौल्लेखनेन च । ं५।१२४च्[१२२ंच्]/ गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ Bछ्.Sछ्॥ %[ं।शुद्ध्यति] ं५।१२५अ[१२३ंअ]/ पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् । ं५।१२५च्[१२३ंच्]/ दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ Bछ्.Sछ्॥ ं५।१२६अ[१२४ंअ]/ यावन्नापेत्यमेध्याक्ताद् गन्धो लेपश्च तत्कृतः । ं५।१२६च्[१२४ंच्]/ तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ Bछ्.Sछ्॥ ं५।१२७अ[१२५ंअ]/ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । ं५।१२७च्[१२५ंच्]/ अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ Bछ्.Sछ्॥ ं५।१२८अ[१२६ंअ]/ आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । ं५।१२८च्[१२६ंच्]/ अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ Bछ्.Sछ्॥ ं५।१२९अ[१२७ंअ]/ नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् । %[ं।पण्यं] ं५।१२९च्[१२७ंच्]/ ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥ Bछ्.Sछ्॥ ं५।१३०अ[१२८ंअ]/ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । ं५।१३०च्[१२८ंच्]/ प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ Bछ्.Sछ्॥ ं५।१३१अ[१२९ंअ]/ श्वभिर्हतस्य यन् मांसं शुचि तन् मनुरब्रवीत् । ं५।१३१च्[१२९ंच्]/ क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ Bछ्.Sछ्॥ ं५।१३२अ[१३०ंअ]/ ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः । ं५।१३२च्[१३०ंच्]/ यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ Bछ्.Sछ्॥ ं५।१३३अ[१३१ंअ]/ मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः । ं५।१३३च्[१३१ंच्]/ रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ Bछ्.Sछ्॥ ं५।१३४अ[१३२ंअ]/ विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् । ं५।१३४च्[१३२ंच्]/ दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ Bछ्.Sछ्॥ ं५।१३५अ[१३३ंअ]/ वसा शुक्रमसृग्मज्जा मूत्रविड्घ्राणकर्णविट् । ं५।१३५च्[१३३ंच्]/ श्लेश्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ Bछ्.Sछ्॥ ं५।१३६अ[१३४ंअ]/ एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । ं५।१३६च्[१३४ंच्]/ उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ Bछ्.Sछ्॥ ं५।१३७अ[१३५ंअ]/ एतत्शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । ं५।१३७च्[१३५ंच्]/ त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ Bछ्.Sछ्॥ ं५।१३८अ[१३६ंअ]/ कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् । ं५।१३८च्[१३६ंच्]/ वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ Bछ्.Sछ्॥ ं५।१३९अ[१३७ंअ]/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । ं५।१३९च्[१३७ंच्]/ शरीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत् सकृत् ॥ Bछ्.Sछ्॥ ं५।१४०अ[१३८ंअ]/ शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । ं५।१४०च्[१३८ंच्]/ वैश्यवत्शौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ Bछ्.Sछ्॥ ं५।१४१अ[१३९ंअ]/ नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः । ं५।१४१च्[१३९ंच्]/ न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥ Bछ्.Sछ्॥ ं५।१४२अ[१४०ंअ]/ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । ं५।१४२च्[१४०ंच्]/ भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥ Bछ्.Sछ्॥ %[ं। अप्रयतो] ं५।१४३अ[१४१ंअ]/ उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन । ं५।१४३च्[१४१ंच्]/ अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥ Bछ्.Sछ्॥ ं५।१४४अ[१४२ंअ]/ वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । ं५।१४४च्[१४२ंच्]/ आचामेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ॥ Bछ्.Sछ्॥ ं५।१४५अ[१४३ंअ]/ सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्यौक्त्वाऽनृतानि च । ं५।१४५च्[१४३ंच्]/ पीत्वाऽपोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन् ॥ Bछ्.Sछ्॥ ं५।१४६अ[१४४ंअ]/ एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च । %[ंएष] ं५।१४६च्[१४४ंच्]/ उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ Bछ्.Sछ्॥ ं५।१४७अ[१४५ंअ]/ बालया वा युवत्या वा वृद्धया वाऽपि योषिता । ं५।१४७च्[१४५ंच्]/ न स्वातन्त्र्येण कर्तव्यं किं चिद् कार्यं गृहेष्वपि ॥ Bछ्.Sछ्॥ ं५।१४८अ[१४६ंअ]/ बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने । ं५।१४८च्[१४६ंच्]/ पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ Bछ्.Sछ्॥ ं५।१४९अ[१४७ंअ]/ पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेद् विरहमात्मनः । ं५।१४९च्[१४७ंच्]/ एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ Bछ्.Sछ्॥ ं५।१५०अ[१४८ंअ]/ सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया । ं५।१५०च्[१४८ंच्]/ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ Bछ्.Sछ्॥ ं५।१५१अ[१४९ंअ]/ यस्मै दद्यात् पिता त्वेनां भ्राता वाऽनुमते पितुः । ं५।१५१च्[१४९ंच्]/ तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ Bछ्.Sछ्॥ ं५।१५२अ[१५०ंअ]/ मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः । ं५।१५२च्[१५०ंच्]/ प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥ Bछ्.Sछ्॥ ं५।१५३अ[१५१ंअ]/ अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः । ं५।१५३च्[१५१ंच्]/ सुखस्य नित्यं दातैह परलोके च योषितः ॥ Bछ्.Sछ्॥ ं५।१५४अ[१५२ंअ]/ विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । ं५।१५४च्[१५२ंच्]/ उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ Bछ्.Sछ्॥ ं५।१५५अ[१५३ंअ]/ नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् । %[ंउपोषितम्] ं५।१५५च्[१५३ंच्]/ पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ Bछ्.Sछ्॥ ं५।१५६अ[१५४ंअ]/ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । ं५।१५६च्[१५४ंच्]/ पतिलोकमभीप्सन्ती नाचरेत् किं चिदप्रियम् ॥ Bछ्.Sछ्॥ ं५।१५७अ[१५५ंअ]/ कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः । ं५।१५७च्[१५५ंच्]/ न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ Bछ्.Sछ्॥ ं५।१५८अ[१५६ंअ]/ आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी । ं५।१५८च्[१५६ंच्]/ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ Bछ्.Sछ्॥ ं५।१५९अ[१५७ंअ]/ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । ं५।१५९च्[१५७ंच्]/ दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ Bछ्.Sछ्॥ ं५।१६०अ[१५८ंअ]/ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । ं५।१६०च्[१५८ंच्]/ स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ॥ Bछ्.Sछ्॥ ं५।१६१अ[१५९ंअ]/ अपत्यलोभाद् या तु स्त्री भर्तारमतिवर्तते । ं५।१६१च्[१५९ंच्]/ सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ Bछ्.Sछ्॥ ं५।१६२अ[१६०ंअ]/ नान्योत्पन्ना प्रजाऽस्तीह न चाप्यन्यपरिग्रहे । %[ंंअ चान्यस्य परिग्रहे] ं५।१६२च्[१६०ंच्]/ न द्वितीयश्च साध्वीनां क्व चिद् भर्तोपदिश्यते ॥ Bछ्.Sछ्॥ ं५।१६३अ[१६१ंअ]/ पतिं हित्वाऽपकृष्टं स्वमुत्कृष्टं या निषेवते । %[ं। हित्वाऽवकृष्टं] ं५।१६३च्[१६१ंच्]/ निन्द्यैव सा भवेल्लोके परपूर्वैति चौच्यते ॥ Bछ्.Sछ्॥ ं५।१६४अ[१६२ंअ]/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । %[ं।व्यभिचारे तु] ं५।१६४च्[१६२ंच्]/ शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥ Bछ्.Sछ्॥ ं५।१६५अ[१६३ंअ]/ पतिं या नाभिचरति मनोवाग्देहसंयुता । %[ं। देहसंयता] ं५।१६५च्[१६३ंच्]/ सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ Bछ्.Sछ्॥ ं५।१६६अ[१६४ंअ]/ अनेन नारी वृत्तेन मनोवाग्देहसंयता । ं५।१६६च्[१६४ंच्]/ इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ Bछ्.Sछ्॥ ं५।१६७अ[१६५ंअ]/ एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् । ं५।१६७च्[१६५ंच्]/ दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ Bछ्.Sछ्॥ ं५।१६८अ[१६६ंअ]/ भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि । ं५।१६८च्[१६६ंच्]/ पुनर्दारक्रियां कुर्यात् पुनराधानमेव च ॥ Bछ्.Sछ्॥ ं५।१६९अ[१६७ंअ]/ अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् । ं५।१६९च्[१६७ंच्]/ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ Bछ्.Sछ्॥

अध्याय ६

ं६।०१अ/ एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । ं६।०१च्/ वने वसेत् तु नियतो यथावद् विजितैन्द्रियः ॥ Bछ्.Sछ्॥ ं६।०२अ/ गृहस्थस्तु यथा पश्येद् वलीपलितमात्मनः । ं६।०२च्/ अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ Bछ्.Sछ्॥ ं६।०३अ/ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् । ं६।०३च्/ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ Bछ्.Sछ्॥ ं६।०४अ/ अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ं६।०४च्/ ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ॥ Bछ्.Sछ्॥ %[ंंइष्क्रम्य] ं६।०५अ/ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । ं६।०५च्/ एतानेव महायज्ञान्निर्वपेद् विधिपूर्वकम् ॥ Bछ्.Sछ्॥ ं६।०६अ/ वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा । ं६।०६च्/ जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥ Bछ्.Sछ्॥ ं६।०७अ/ यद्भक्ष्यं स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः । %[ं।यद्भक्षः ] ं६।०७च्/ अब्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥ Bछ्.Sछ्॥ %[ं:आश्रमागतं ] ं६।०८अ/ स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः । ं६।०८च्/ दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ Bछ्.Sछ्॥ ं६।०९अ/ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । ं६।०९च्/ दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ Bछ्.Sछ्॥ ं६।१०अ/ ऋक्षेष्ट्य्।आग्रयणं चैव चातुर्मास्यानि चाहरेत् । %[ं।दर्शेष्ट्य्।आग्रयणं] ं६।१०च्/ तुरायणं च क्रमशो दक्षस्यायनमेव च ॥ Bछ्.Sछ्॥ %[क्ं।दाक्षस्यायनं ] ं६।११अ/ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । ं६।११च्/ पुरोडाशांश्चरूंश्चैव विधिवत्निर्वपेत् पृथक् ॥ Bछ्.Sछ्॥ ं६।१२अ/ देवताभ्यस्तु तद् हुत्वा वन्यं मेध्यतरं हविः । ं६।१२च्/ शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ Bछ्.Sछ्॥ ं६।१३अ/ स्थलजौदकशाकानि पुष्पमूलफलानि च । ं६।१३च्/ मेध्यवृक्षोद्भवान्यद्यात् स्नेहांश्च फलसंभवान् ॥Bछ्.Sछ्॥ ं६।१४अ/ वर्जयेन् मधु मांसं च भौमानि कवकानि च । ं६।१४च्/ भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ॥ Bछ्.Sछ्॥ ं६।१५अ/ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । ं६।१५च्/ जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ Bछ्.Sछ्॥ ं६।१६अ/ न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् । ं६।१६च्/ न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च ॥ Bछ्.Sछ्॥ %[ं।पुष्पानि च फलानि च ] ं६।१७अ/ अग्निपक्वाशनो वा स्यात् कालपक्वभुजेव वा । ं६।१७च्/ अश्मकुट्टो भवेद् वाऽपि दन्तोलूखलिकोऽपि वा ॥ Bछ्.Sछ्॥ ं६।१८अ/ सद्यः प्रक्षालको वा स्यान् माससञ्चयिकोऽपि वा । ं६।१८च्/ षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ Bछ्.Sछ्॥ ं६।१९अ/ नक्तं चान्नं समश्नीयाद् दिवा वाऽहृत्य शक्तितः । ं६।१९च्/ चतुर्थकालिको वा स्यात् स्याद् वाऽप्यष्टमकालिकः ॥ Bछ्.Sछ्॥ ं६।२०अ/ चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । ं६।२०च्/ पक्षान्तयोर्वाऽप्यश्नीयाद् यवागूं क्वथितां सकृत् ॥ Bछ्.Sछ्॥ ं६।२१अ/ पुष्पमूलफलैर्वाऽपि केवलैर्वर्तयेत् सदा । ं६।२१च्/ कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ Bछ्.Sछ्॥ ं६।२२अ/ भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् । ं६।२२च्/ स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥ Bछ्.Sछ्॥ ं६।२३अ/ ग्रीष्मे पञ्चतपास्तु स्याद् वर्षास्वभ्रावकाशिकः । ं६।२३च्/ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ Bछ्.Sछ्॥ ं६।२४अ/ उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् । ं६।२४च्/ तपस्चरंश्चोग्रतरं शोषयेद् देहमात्मनः ॥ Bछ्.Sछ्॥ ं६।२५अ/ अग्नीनात्मनि वैतानान् समारोप्य यथाविधि । ं६।२५च्/ अनग्निरनिकेतः स्यान् मुनिर्मूलफलाशनः ॥ Bछ्.Sछ्॥ ं६।२६अ/ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराऽऽशयः । ं६।२६च्/ शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ Bछ्.Sछ्॥ ं६।२७अ/ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । ं६।२७च्/ गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ Bछ्.Sछ्॥ ं६।२८अ/ ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान् वने वसन् । ं६।२८च्/ प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ Bछ्.Sछ्॥ ं६।२९अ/ एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । ं६।२९च्/ विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ Bछ्.Sछ्॥ ं६।३०अ/ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । ं६।३०च्/ विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ Bछ्.Sछ्॥ ं६।३१अ/ अपराजितां वाऽस्थाय व्रजेद् दिशमजिह्मगः । ं६।३१च्/ आ निपातात्शरीरस्य युक्तो वार्यनिलाशनः ॥ Bछ्.Sछ्॥ ं६।३२अ/ आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । ं६।३२च्/ वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ Bछ्.Sछ्॥ ं६।३३अ/ वनेषु च विहृत्यैवं तृतीयं भागमायुषः । ं६।३३च्/ चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ Bछ्.Sछ्॥ ं६।३४अ/ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । ं६।३४च्/ भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ Bछ्.Sछ्॥ ं६।३५अ/ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । ं६।३५च्/ अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ Bछ्.Sछ्॥ ं६।३६अ/ अधीत्य विधिवद् वेदान् पुत्रांश्चोत्पाद्य धर्मतः । ं६।३६च्/ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ Bछ्.Sछ्॥ ं६।३७अ/ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । %[ं।तथा प्रजां ] ं६।३७च्/ अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥ Bछ्.Sछ्॥ ं६।३८अ/ प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् । %[ं।सार्ववेदसदक्षिणाम्] ं६।३८च्/ आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ Bछ्.Sछ्॥ ं६।३९अ/ यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । ं६।३९च्/ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ Bछ्.Sछ्॥ ं६।४०अ/ यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् । ं६।४०च्/ तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ Bछ्.Sछ्॥ ं६।४१अ/ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः । ं६।४१च्/ समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ Bछ्.Sछ्॥ ं६।४२अ/ एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् । ं६।४२च्/ सिद्धिमेकस्य सम्पश्यन्न जहाति न हीयते ॥ Bछ्.Sछ्॥ %[ं।सिद्धम्] ं६।४३अ/ अनग्निरनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् । ं६।४३च्/ उपेक्षकोऽसङ्कुसुको मुनिर्भावसमाहितः ॥Bछ्.Sछ्॥ %[ंऽसाङ्कुसुको ] ं६।४४अ/ कपालं वृक्षमूलानि कुचेलमसहायता । %[ं।कुचैलं ] ं६।४४च्/ समता चैव सर्वस्मिन्नेतत्मुक्तस्य लक्षणम् ॥ Bछ्.Sछ्॥ ं६।४५अ/ नाभिनन्देत मरणं नाभिनन्देत जीवितम् । ं६।४५च्/ कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ Bछ्.Sछ्॥ ं६।४६अ/ दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । ं६।४६च्/ सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ Bछ्.Sछ्॥ ं६।४७अ/ अतिवादांस्तितिक्षेत नावमन्येत कं चन । ं६।४७च्/ न चैमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ Bछ्.Sछ्॥ ं६।४८अ/ क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । ं६।४८च्/ सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ Bछ्.Sछ्॥ ं६।४९अ/ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । ं६।४९च्/ आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ Bछ्.Sछ्॥ ं६।५०अ/ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । ं६।५०च्/ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ Bछ्.Sछ्॥ ं६।५१अ/ न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । ं६।५१च्/ आकीर्णं भिक्षुकैर्वाऽन्यैरगारमुपसंव्रजेत् ॥ Bछ्.Sछ्॥ ं६।५२अ/ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । ं६।५२च्/ विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ Bछ्.Sछ्॥ ं६।५३अ/ अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । ं६।५३च्/ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ Bछ्.Sछ्॥ ं६।५४अ/ अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । ं६।५४च्/ एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ॥ Bछ्.Sछ्॥ ं६।५५अ/ एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे । ं६।५५च्/ भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ Bछ्.Sछ्॥ ं६।५६अ/ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । ं६।५६च्/ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ Bछ्.Sछ्॥ ं६।५७अ/ अलाभे न विषदी स्यात्लाभे चैव न हर्षयेत् । ं६।५७च्/ प्राणयात्रिकमात्रः स्यात्मात्रासङ्गाद् विनिर्गतः ॥ Bछ्.Sछ्॥ ं६।५८अ/ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः । ं६।५८च्/ अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥ Bछ्.Sछ्॥ ं६।५९अ/ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ं६।५९च्/ ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ Bछ्.Sछ्॥ ं६।६०अ/ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । ं६।६०च्/ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ Bछ्.Sछ्॥ ं६।६१अ/ अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः । ं६।६१च्/ निरये चैव पतनं यातनाश्च यमक्षये ॥ Bछ्.Sछ्॥ ं६।६२अ/ विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः । ं६।६२च्/ जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ Bछ्.Sछ्॥ ं६।६३अ/ देहादुत्क्रमणं चास्मात् पुनर्गर्भे च संभवम् । ं६।६३च्/ योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ Bछ्.Sछ्॥ ं६।६४अ/ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । ं६।६४च्/ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ Bछ्.Sछ्॥ ं६।६५अ/ सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । ं६।६५च्/ देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥ Bछ्.Sछ्॥ %[ं।देहेषु चैवोपपत्तिम्] ं६।६६अ/ दूषितोऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः । %[ं।भूषितोऽपि ] ं६।६६च्/ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ Bछ्.Sछ्॥ ं६।६७अ/ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । ं६।६७च्/ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ Bछ्.Sछ्॥ ं६।६८अ/ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । ं६।६८च्/ शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ Bछ्.Sछ्॥ ं६।६९अ/ अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः । ं६।६९च्/ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ Bछ्.Sछ्॥ ं६।७०अ/ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः । ं६।७०च्/ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ Bछ्.Sछ्॥ ं६।७१अ/ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । ं६।७१च्/ तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ Bछ्.Sछ्॥ ं६।७२अ/ प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्बिषम् । ं६।७२च्/ प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ Bछ्.Sछ्॥ ं६।७३अ/ उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः । ं६।७३च्/ ध्यानयोगेन सम्पश्येद् गतिमस्यान्तरात्मनः ॥ Bछ्.Sछ्॥ ं६।७४अ/ सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । ं६।७४च्/ दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ Bछ्.Sछ्॥ ं६।७५अ/ अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः । ं६।७५च्/ तपसश्चरणैश्चौग्रैः साधयन्तीह तत्पदम् ॥ Bछ्.Sछ्॥ ं६।७६अ/ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । ं६।७६च्/ चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ Bछ्.Sछ्॥ ं६।७७अ/ जराशोकसमाविष्टं रोगायतनमातुरम् । ं६।७७च्/ रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ Bछ्.Sछ्॥ ं६।७८अ/ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । ं६।७८च्/ तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ Bछ्.Sछ्॥ ं६।७९अ/ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । ं६।७९च्/ विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ Bछ्.Sछ्॥ ं६।८०अ/ यदा भावेन भवति सर्वभावेषु निःस्पृहः । ं६।८०च्/ तदा सुखमवाप्नोति प्रेत्य चैह च शाश्वतम् ॥ Bछ्.Sछ्॥ ं६।८१अ/ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान् शनैः शनैः । ं६।८१च्/ सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ Bछ्.Sछ्॥ ं६।८२अ/ ध्यानिकं सर्वमेवैतद् यदेतदभिशब्दितम् । ं६।८२च्/ न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥ Bछ्.Sछ्॥ ं६।८३अ/ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । ं६।८३च्/ आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ Bछ्.Sछ्॥ ं६।८४अ/ इदं शरणमज्ञानामिदमेव विजानताम् । ं६।८४च्/ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ Bछ्.Sछ्॥ ं६।८५अ/ अनेन क्रमयोगेन परिव्रजति यो द्विजः । ं६।८५च्/ स विधूयैह पाप्मानं परं ब्रह्माधिगच्छति ॥ Bछ्.Sछ्॥ ं६।८६अ/ एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । ं६।८६च्/ वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ Bछ्.Sछ्॥ ं६।८७अ/ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । ं६।८७च्/ एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ Bछ्.Sछ्॥ ं६।८८अ/ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः । ं६।८८च्/ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ Bछ्.Sछ्॥ ं६।८९अ/ सर्वेषामपि चैतेषां वेदस्मृतिविधानतः । %[ं।वेदश्रुतिविधानतः ] ं६।८९च्/ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥ Bछ्.Sछ्॥ ं६।९०अ/ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । ं६।९०च्/ तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ Bछ्.Sछ्॥ ं६।९१अ/ चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः । ं६।९१च्/ दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ Bछ्.Sछ्॥ ं६।९२अ/ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । ं६।९२च्/ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ Bछ्.Sछ्॥ ं६।९३अ/ दश लक्षणानि धर्मस्य ये विप्राः समधीयते । ं६।९३च्/ अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ Bछ्.Sछ्॥ ं६।९४अ/ दशलक्षणकं धर्ममनुतिष्ठन् समाहितः । ं६।९४च्/ वेदान्तं विधिवत्श्रुत्वा संन्यसेदनृणो द्विजः ॥ Bछ्.Sछ्॥ ं६।९५अ/ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । ं६।९५च्/ नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ Bछ्.Sछ्॥ ं६।९६अ/ एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । ं६।९६च्/ संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ॥ Bछ्.Sछ्॥ ं६।९७अ/ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । ं६।९७च्/ पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ Bछ्.Sछ्॥

अध्याय ७

ं७।०१अ/ राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । ं७।०१च्/ संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ Bछ्.Sछ्॥ ं७।०२अ/ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । ं७।०२च्/ सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ Bछ्.Sछ्॥ ं७।०३अ/ अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् । ं७।०३च्/ रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ Bछ्.Sछ्॥ ं७।०४अ/ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । ं७।०४च्/ चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ Bछ्.Sछ्॥ ं७।०५अ/ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । ं७।०५च्/ तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ Bछ्.Sछ्॥ ं७।०६अ/ तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च । ं७।०६च्/ न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ Bछ्.Sछ्॥ ं७।०७अ/ सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । ं७।०७च्/ स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ Bछ्.Sछ्॥ %[ं।स चैन्द्रः स्वप्रभावतः] ॥ Bछ्.Sछ्॥ %[क्: ] ं७।०८अ/ बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः । ं७।०८च्/ महती देवता ह्येषा नररूपेण तिष्ठति ॥ Bछ्.Sछ्॥ ं७।०९अ/ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । ं७।०९च्/ कुलं दहति राजाऽग्निः सपशुद्रव्यसञ्चयम् ॥ Bछ्.Sछ्॥ ं७।१०अ/ कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । ं७।१०च्/ कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ Bछ्.Sछ्॥ ं७।११अ/ यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । ं७।११च्/ मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ Bछ्.Sछ्॥ ं७।१२अ/ तं यस्तु द्वेष्टि संमोहात् स विनश्यत्यसंशयम् । ं७।१२च्/ तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ Bछ्.Sछ्॥ ं७।१३अ/ तस्माद् धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः । ं७।१३च्/ अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ Bछ्.Sछ्॥ ं७।१४अ/ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । %[ं।तदर्थं] ं७।१४च्/ ब्रह्मतेजोमयं दण्डमसृजत् पूर्वमीश्वरः ॥ Bछ्.Sछ्॥ ं७।१५अ/ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । ं७।१५च्/ भयाद् भोगाय कल्पन्ते स्वधर्मात्न चलन्ति च ॥ Bछ्.Sछ्॥ ं७।१६अ/ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । ं७।१६च्/ यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥ Bछ्.Sछ्॥ ं७।१७अ/ स राजा पुरुषो दण्डः स नेता शासिता च सः । ं७।१७च्/ चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ Bछ्.Sछ्॥ ं७।१८अ/ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । ं७।१८च्/ दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ Bछ्.Sछ्॥ ं७।१९अ/ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । ं७।१९च्/ असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ Bछ्.Sछ्॥ ं७।२०अ/ यदि न प्रणयेद् राजा दण्डं दण्ड्येष्वतन्द्रितः । ं७।२०च्/ शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ Bछ्.Sछ्॥ ं७।२१अ/ अद्यात् काकः पुरोडाशं श्वा च लिह्याद्द् हविस्तथा । %[ं।श्वाऽवलिह्याद्द्] ं७।२१च्/ स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ Bछ्.Sछ्॥ ं७।२२अ/ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । ं७।२२च्/ दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ Bछ्.Sछ्॥ ं७।२३अ/ देवदानवगन्धर्वा रक्षांसि पतगोरगाः । ं७।२३च्/ तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ Bछ्.Sछ्॥ ं७।२४अ/ दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः । ं७।२४च्/ सर्वलोकप्रकोपश्च भवेद् दण्डस्य विभ्रमात् ॥ Bछ्.Sछ्॥ ं७।२५अ/ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । ं७।२५च्/ प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ Bछ्.Sछ्॥ ं७।२६अ/ तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् । ं७।२६च्/ समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ Bछ्.Sछ्॥ ं७।२७अ/ तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते । ं७।२७च्/ कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ Bछ्.Sछ्॥ %[ं।कामान्धो ] ं७।२८अ/ दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । ं७।२८च्/ धर्माद् विचलितं हन्ति नृपमेव सबान्धवम् ॥ Bछ्.Sछ्॥ ं७।२९अ/ ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । ं७।२९च्/ अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ Bछ्.Sछ्॥ ं७।३०अ/ सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । ं७।३०च्/ न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ Bछ्.Sछ्॥ ं७।३१अ/ शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । ं७।३१च्/ प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ Bछ्.Sछ्॥ ं७।३२अ/ स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु । ं७।३२च्/ सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ Bछ्.Sछ्॥ ं७।३३अ/ एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । ं७।३३च्/ विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ Bछ्.Sछ्॥ ं७।३४अ/ अतस्तु विपरीतस्य नृपतेरजितात्मनः । ं७।३४च्/ सङ्क्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ Bछ्.Sछ्॥ ं७।३५अ/ स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः । ं७।३५च्/ वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ Bछ्.Sछ्॥ ं७।३६अ/ तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः । ं७।३६च्/ तत् तद् वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ Bछ्.Sछ्॥ ं७।३७अ/ ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः । ं७।३७च्/ त्रैविद्यवृद्धान् विदुषस्तिष्ठेत् तेषां च शासने ॥ Bछ्.Sछ्॥ ं७।३८अ/ वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । ं७।३८च्/ वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ Bछ्.Sछ्॥ ं७।३९अ/ तेभ्योऽधिगच्छेद् विनयं विनीतात्माऽपि नित्यशः । ं७।३९च्/ विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ Bछ्.Sछ्॥ ं७।४०अ/ बहवोऽविनयात्नष्टा राजानः सपरिच्छदाः । %[ं।सपरिग्रहाः] ं७।४०च्/ वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ Bछ्.Sछ्॥ ं७।४१अ/ वेनो विनष्टोऽविनयात्नहुषश्चैव पार्थिवः । ं७।४१च्/ सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ Bछ्.Sछ्॥ ं७।४२अ/ पृथुस्तु विनयाद् राज्यं प्राप्तवान् मनुरेव च । ं७।४२च्/ कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ Bछ्.Sछ्॥ ं७।४३अ/ त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । %[ं।त्रयीं विद्यात् ] ं७।४३च्/ आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ Bछ्.Sछ्॥ ं७।४४अ/ इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् । ं७।४४च्/ जितैन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ Bछ्.Sछ्॥ ं७।४५अ/ दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च । ं७।४५च्/ व्यसनानि दुर्ऽन्तानि प्रयत्नेन विवर्जयेत् ॥ Bछ्.Sछ्॥ ं७।४६अ/ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । ं७।४६च्/ वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ Bछ्.Sछ्॥ ं७।४७अ/ मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । ं७।४७च्/ तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ Bछ्.Sछ्॥ ं७।४८अ/ पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् । ं७।४८च्/ वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ Bछ्.Sछ्॥ ं७।४९अ/ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । ं७।४९च्/ तं यत्नेन जयेत्लोभं तज्जावेतावुभौ गणौ ॥ Bछ्.Sछ्॥ ं७।५०अ/ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । ं७।५०च्/ एतत् कष्टतमं विद्यात्चतुष्कं कामजे गणे ॥ Bछ्.Sछ्॥ ं७।५१अ/ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । ं७।५१च्/ क्रोधजेऽपि गणे विद्यात् कष्टमेतत् त्रिकं सदा ॥ Bछ्.Sछ्॥ ं७।५२अ/ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । ं७।५२च्/ पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनमात्मवान् ॥ Bछ्.Sछ्॥ ं७।५३अ/ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । ं७।५३च्/ व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ Bछ्.Sछ्॥ ं७।५४अ/ मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् । %[ं।कुलोद्गतान् ] ं७।५४च्/ सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ Bछ्.Sछ्॥ %[ं।कुर्वीत सुपरीक्षितान्] ं७।५५अ/ अपि यत् सुकरं कर्म तदप्येकेन दुष्करम् । ं७।५५च्/ विशेषतोऽसहायेन किं तु राज्यं महोदयम् ॥ Bछ्.Sछ्॥ %[ं।किं नु ] ं७।५६अ/ तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् । ं७।५६च्/ स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ Bछ्.Sछ्॥ ं७।५७अ/ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । ं७।५७च्/ समस्तानां च कार्येषु विदध्याद्द् हितमात्मनः ॥ Bछ्.Sछ्॥ ं७।५८अ/ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । ं७।५८च्/ मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ Bछ्.Sछ्॥ ं७।५९अ/ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । %[ंंइक्षिपेत्] ं७।५९च्/ तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ Bछ्.Sछ्॥ ं७।६०अ/ अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् । ं७।६०च्/ सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥ Bछ्.Sछ्॥ ं७।६१अ/ निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । ं७।६१च्/ तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ Bछ्.Sछ्॥ ं७।६२अ/ तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । ं७।६२च्/ शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥ Bछ्.Sछ्॥ ं७।६३अ/ दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । ं७।६३च्/ इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ Bछ्.Sछ्॥ ं७।६४अ/ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । ं७।६४च्/ वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ Bछ्.Sछ्॥ ं७।६५अ/ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । ं७।६५च्/ नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ Bछ्.Sछ्॥ ं७।६६अ/ दूत एव हि संधत्ते भिनत्त्येव च संहतान् । ं७।६६च्/ दूतस्तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥ Bछ्.Sछ्॥ ं७।६७अ/ स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः । ं७।६७च्/ आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ Bछ्.Sछ्॥ ं७।६८अ/ बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । ं७।६८च्/ तथा प्रयत्नमातिष्ठेद् यथाऽत्मानं न पीडयेत् ॥ Bछ्.Sछ्॥ ं७।६९अ/ जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् । ं७।६९च्/ रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ Bछ्.Sछ्॥ ं७।७०अ/ धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । ं७।७०च्/ नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ Bछ्.Sछ्॥ ं७।७१अ/ सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । ं७।७१च्/ एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ Bछ्.Sछ्॥ ं७।७२अ/ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः । ं७।७२च्/ त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ Bछ्.Sछ्॥ ं७।७३अ/ यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । ं७।७३च्/ तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ Bछ्.Sछ्॥ ं७।७४अ/ एकः शतं योधयति प्राकारस्थो धनुर्धरः । ं७।७४च्/ शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ Bछ्.Sछ्॥ ं७।७५अ/ तत् स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ं७।७५च्/ ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ Bछ्.Sछ्॥ ं७।७६अ/ तस्य मध्ये सुपर्याप्तं कारयेद् गृहमात्मनः । ं७।७६च्/ गुप्तं सर्वऋतुकं शुभ्रं जलवृक्षसमन्वितम् ॥ Bछ्.Sछ्॥ ं७।७७अ/ तदध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् । ं७।७७च्/ कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥ Bछ्.Sछ्॥ ं७।७८अ/ पुरोहितं च कुर्वीत वृणुयादेव चर्त्विजः । ं७।७८च्/ तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ Bछ्.Sछ्॥ ं७।७९अ/ यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । ं७।७९च्/ धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ Bछ्.Sछ्॥ ं७।८०अ/ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद् बलिम् । ं७।८०च्/ स्याच्चाम्नायपरो लोके वर्तेत पितृवत्नृषु ॥ Bछ्.Sछ्॥ ं७।८१अ/ अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः । ं७।८१च्/ तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ Bछ्.Sछ्॥ ं७।८२अ/ आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् । ं७।८२च्/ नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ Bछ्.Sछ्॥ ं७।८३अ/ न तं स्तेना न चामित्रा हरन्ति न च नश्यति । ं७।८३च्/ तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ Bछ्.Sछ्॥ ं७।८४अ/ न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । %[ं। न स्कन्दति न च्यवते] ं७।८४च्/ वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ Bछ्.Sछ्॥ ं७।८५अ/ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । ं७।८५च्/ प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ Bछ्.Sछ्॥ %[ं।आचार्ये शतसाहस्रम्]] [ञ्: सहस्रगुणमाचार्ये] ं७।८६अ/ पात्रस्य हि विशेषेण श्रद्दधानतयैव च । ं७।८६च्/ अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ Bछ्.Sछ्॥ %[ं७।८७ंअ/ देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् । %[नोतिन् क्] %[ं७।८७ंच्/ पात्रे प्रदीयते यत् तु तद् धर्मस्य प्रसाधनम् ॥ Bछ्.Sछ्॥ %[नोतिन् क्] %(आल्थोउग्ः ंएधातिथि चोम्मेन्त्स् ओन् थे अबोवे श्लोक, ज़्ह'स् एदितिओन् दोएः नोत् चोउन्तितिन् हिः नुम्बेरिन्गोफ़् थे तेक्ष्त् ठेरेफ़ोरे, ञ्ह एद्'ः नुम्बेरिन्गिस्थे समे वित्ः किन् थे फ़ोल्लोविन्ग्) ं७।८७अ[८८ंअ]/ समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः । ं७।८७च्[८८ंच्]/ न निवर्तेत सङ्ग्रामात् क्षात्रं धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥ ं७।८८अ[८९ंअ]/ सङ्ग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । ं७।८८च्[८९ंच्]/ शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ Bछ्.Sछ्॥ ं७।८९अ[९०ंअ]/ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । ं७।८९च्[९०ंच्]/ युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ Bछ्.Sछ्॥ ं७।९०अ[९१ंअ]/ न कूटैरायुधैर्हन्याद् युध्यमानो रणे रिपून् । ं७।९०च्[९१ंच्]/ न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ Bछ्.Sछ्॥ ं७।९१अ[९२ंअ]/ न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् । ं७।९१च्[९२ंच्]/ न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ Bछ्.Sछ्॥ ं७।९२अ[९३ंअ]/ न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । ं७।९२च्[९३ंच्]/ नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ Bछ्.Sछ्॥ ं७।९३अ[९४ंअ]/ नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् । ं७।९३च्[९४ंच्]/ न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥ ं७।९४अ[९५ंअ]/ यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । ं७।९४च्[९५ंच्]/ भर्तुर्यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥ Bछ्.Sछ्॥ ं७।९५अ[९६ंअ]/ यत्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम् । ं७।९५च्[९६ंच्]/ भर्ता तत् सर्वमादत्ते परावृत्तहतस्य तु ॥ Bछ्.Sछ्॥ ं७।९६अ[९७ंअ]/ रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः । ं७।९६च्[९७ंच्]/ सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ Bछ्.Sछ्॥ ं७।९७अ[९८ंअ]/ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । ं७।९७च्[९८ंच्]/ राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ Bछ्.Sछ्॥ ं७।९८अ[९९ंअ]/ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । ं७।९८च्[९९ंच्]/ अस्माद् धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ Bछ्.Sछ्॥ ं७।९९अ[१००ंअ]/ अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । ं७।९९च्[१००ंच्]/ रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ Bछ्.Sछ्॥ ं७।१००अ[१०१ंअ]/ एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् । ं७।१००च्[१०१ंच्]/ अस्य नित्यमनुष्ठानं सम्यक् कुर्यादतन्द्रितः ॥ Bछ्.Sछ्॥ ं७।१०१अ[१०२ंअ]/ अलब्धमिच्छेद् दण्डेन लब्धं रक्षेदवेक्षया । ं७।१०१च्[१०२ंच्]/ रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ Bछ्.Sछ्॥ ं७।१०२अ[१०३ंअ]/ नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । ं७।१०२च्[१०३ंच्]/ नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥ Bछ्.Sछ्॥ ं७।१०३अ[१०४ंअ]/ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । ं७।१०३च्[१०४ंच्]/ तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ Bछ्.Sछ्॥ ं७।१०४अ[१०५ंअ]/ अमाययैव वर्तेत न कथं चन मायया । ं७।१०४च्[१०५ंच्]/ बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ Bछ्.Sछ्॥ ं७।१०५अ[१०६ंअ]/ नास्य छिद्रं परो विद्याद् विद्यात्छिद्रं परस्य च । ं७।१०५च्[१०६ंच्]/ गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः ॥ Bछ्.Sछ्॥ ं७।१०६अ[१०७ंअ]/ बकवत्चिन्तयेदर्थान् सिंहवत्च पराक्रमे । ं७।१०६च्[१०७ंच्]/ वृकवत्चावलुम्पेत शशवत्च विनिष्पतेत् ॥ Bछ्.Sछ्॥ ं७।१०७अ[१०८ंअ]/ एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । ं७।१०७च्[१०८ंच्]/ तानानयेद् वशं सर्वान् सामादिभिरुपक्रमैः ॥ Bछ्.Sछ्॥ ं७।१०८अ[१०९ंअ]/ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । ं७।१०८च्[१०९ंच्]/ दण्डेनैव प्रसह्यैतांशनकैर्वशमानयेत् ॥ Bछ्.Sछ्॥ ं७।१०९अ[११०ंअ]/ सामादीनामुपायानां चतुर्णामपि पण्डिताः । ं७।१०९च्[११०ंच्]/ सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ Bछ्.Sछ्॥ ं७।११०[१११ंअ]/ यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । ं७।११०च्[१११ंच्]/ तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ Bछ्.Sछ्॥ ं७।१११अ[११२ंअ]/ मोहाद् राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । ं७।१११च्[११२ंच्]/ सोऽचिराद् भ्रश्यते राज्यात्जीवितात्च सबान्धवः ॥ Bछ्.Sछ्॥ ं७।११२अ[११३ंअ]/ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । ं७।११२च्[११३ंच्]/ तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ Bछ्.Sछ्॥ ं७।११३अ[११४ंअ]/ राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् । ं७।११३च्[११४ंच्]/ सुसङ्गृहीतराष्ट्रे हि पार्थिवः सुखमेधते ॥ Bछ्.Sछ्॥ ं७।११४अ[११५ंअ]/ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । ं७।११४च्[११५ंच्]/ तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य सङ्ग्रहम् ॥ Bछ्.Sछ्॥ ं७।११५अ[११६ंअ]/ ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा । ं७।११५च्[११६ंच्]/ विंशतीशं शतेशं च सहस्रपतिमेव च ॥ Bछ्.Sछ्॥ ं७।११६अ[११७ंअ]/ ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । ं७।११६च्[११७ंच्]/ शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ Bछ्.Sछ्॥ ं७।११७अ[११८ंअ]/ विंशतीशस्तु तत् सर्वं शतेशाय निवेदयेत् । ं७।११७च्[११८ंच्]/ शंसेद् ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ Bछ्.Sछ्॥ ं७।११८अ[११९ंअ]/ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । ं७।११८च्[११९ंच्]/ अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ Bछ्.Sछ्॥ ं७।११९अ[१२०ंअ]/ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ं७।११९च्[१२०ंच्]/ ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ Bछ्.Sछ्॥ ं७।१२०अ[१२१ंअ]/ तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि । ं७।१२०च्[१२१ंच्]/ राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ Bछ्.Sछ्॥ ं७।१२१अ[१२२ंअ]/ नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् । ं७।१२१च्[१२२ंच्]/ उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥ Bछ्.Sछ्॥ ं७।१२२अ[१२३ंअ]/ स ताननुपरिक्रामेत् सर्वानेव सदा स्वयम् । ं७।१२२च्[१२३ंच्]/ तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तत्चरैः ॥ Bछ्.Sछ्॥ ं७।१२३अ[१२४ंअ]/ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । ं७।१२३च्[१२४ंच्]/ भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ Bछ्.Sछ्॥ ं७।१२४अ[१२५ंअ]/ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । ं७।१२४च्[१२५ंच्]/ तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनम् ॥ Bछ्.Sछ्॥ ं७।१२५अ[१२६ंअ]/ राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । %[ं राजकर्मसु] ं७।१२५च्[१२६ंच्]/ प्रत्यहं कल्पयेद् वृत्तिं स्थानं कर्मानुरूपतः ॥ Bछ्.Sछ्॥ %[ं।स्थानकर्मानुरूपतः] ं७।१२६अ[१२७ंअ]/ पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । ं७।१२६च्[१२७ंच्]/ षाण्मासिकस्तथाऽच्छादो धान्यद्रोणस्तु मासिकः ॥ Bछ्.Sछ्॥ ं७।१२७अ[१२८ंअ]/ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् । ं७।१२७च्[१२८ंच्]/ योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत् करान् ॥ Bछ्.Sछ्॥ ं७।१२८अ[१२९ंअ]/ यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । ं७।१२८च्[१२९ंच्]/ तथाऽवेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ Bछ्.Sछ्॥ ं७।१२९अ[१३०ंअ]/ यथाऽल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः । ं७।१२९च्[१३०ंच्]/ तथाऽल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ Bछ्.Sछ्॥ ं७।१३०अ[१३१ंअ]/ पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । ं७।१३०च्[१३१ंच्]/ धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ Bछ्.Sछ्॥ ं७।१३१अ[१३२ंअ]/ आददीताथ षड्भागं द्रुमान् समधुसर्पिषाम् । ं७।१३१च्[१३२ंच्]/ गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ Bछ्.Sछ्॥ ं७।१३२अ[१३३ंअ]/ पत्रशाकतृणानां च चर्मणां वैदलस्य च । ं७।१३२च्[१३३ंच्]/ मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ Bछ्.Sछ्॥ ं७।१३३अ[१३४ंअ]/ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् । ं७।१३३च्[१३४ंच्]/ न च क्षुधाऽस्य संसीदेत्श्रोत्रियो विषये वसन् ॥ Bछ्.Sछ्॥ ं७।१३४अ[१३५ंअ]/ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । ं७।१३४च्[१३५ंच्]/ तस्यापि तत् क्षुधा राष्ट्रमचिरेणैव सीदति ॥ Bछ्.Sछ्॥ ं७।१३५अ[१३६ंअ]/ श्रुतवृत्ते विदित्वाऽस्य वृत्तिं धर्म्यां प्रकल्पयेत् । ं७।१३५च्[१३६ंच्]/ संरक्षेत् सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ Bछ्.Sछ्॥ ं७।१३६अ[१३७ंअ]/ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । %[ं राज्ञाऽयं] ं७।१३६च्[१३७ंच्]/ तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ Bछ्.Sछ्॥ ं७।१३७अ[१३८ंअ]/ यत् किं चिदपि वर्षस्य दापयेत् करसंज्ञितम् । ं७।१३७च्[१३८ंच्]/ व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ Bछ्.Sछ्॥ ं७।१३८अ[१३९ंअ]/ कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । ं७।१३८च्[१३९ंच्]/ एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ Bछ्.Sछ्॥ ं७।१३९अ[१४०ंअ]/ नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । ं७।१३९च्[१४०ंच्]/ उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥ Bछ्.Sछ्॥ ं७।१४०अ[१४१ंअ]/ तीक्ष्णश्चैव मृदुश्च स्यात् कार्यं वीक्ष्य महीपतिः । ं७।१४०च्[१४१ंच्]/ तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः ॥ Bछ्.Sछ्॥ ं७।१४१अ[१४२ंअ]/ अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । ं७।१४१च्[१४२ंच्]/ स्थापयेदासने तस्मिन् खिन्नः कार्यैक्षणे नृणाम् ॥ Bछ्.Sछ्॥ ं७।१४२अ[१४३ंअ]/ एवं सर्वं विधायैदमितिकर्तव्यमात्मनः । ं७।१४२च्[१४३ंच्]/ युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ Bछ्.Sछ्॥ ं७।१४३अ[१४४ंअ]/ विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः । ं७।१४३च्[१४४ंच्]/ सम्पश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ Bछ्.Sछ्॥ ं७।१४४अ[१४५ंअ]/ क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । ं७।१४४च्[१४५ंच्]/ निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ Bछ्.Sछ्॥ ं७।१४५अ[१४६ंअ]/ उत्थाय पश्चिमे यामे कृतशौचः समाहितः । ं७।१४५च्[१४६ंच्]/ हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत् स शुभां सभाम् ॥ Bछ्.Sछ्॥ ं७।१४६अ[१४७ंअ]/ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । ं७।१४६च्[१४७ंच्]/ विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ Bछ्.Sछ्॥ ं७।१४७अ[१४८ंअ]/ गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः । ं७।१४७च्[१४८ंच्]/ अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ Bछ्.Sछ्॥ ं७।१४८अ[१४९ंअ]/ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । ं७।१४८च्[१४९ंच्]/ स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ Bछ्.Sछ्॥ ं७।१४९अ[१५०ंअ]/ जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् । ं७।१४९च्[१५०ंच्]/ स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥ Bछ्.Sछ्॥ ं७।१५०अ[१५१ंअ]/ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । ं७।१५०च्[१५१ंच्]/ स्त्रियश्चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ Bछ्.Sछ्॥ ं७।१५१अ[१५२ंअ]/ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । ं७।१५१च्[१५२ंच्]/ चिन्तयेद् धर्मकामार्थान् सार्धं तैरेक एव वा ॥ Bछ्.Sछ्॥ %[ं।सार्थं ] ं७।१५२अ[१५३ंअ]/ परस्परविरुद्धानां तेषां च समुपार्जनम् । ं७।१५२च्[१५३ंच्]/ कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ Bछ्.Sछ्॥ ं७।१५३अ[१५४ंअ]/ दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । ं७।१५३च्[१५४ंच्]/ अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ Bछ्.Sछ्॥ ं७।१५४अ[१५५ंअ]/ कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः । ं७।१५४च्[१५५ंच्]/ अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ Bछ्.Sछ्॥ ं७।१५५अ[१५६ंअ]/ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । ं७।१५५च्[१५६ंच्]/ उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ Bछ्.Sछ्॥ ं७।१५६अ[१५७ंअ]/ एताः प्रकृतयो मूलं मण्डलस्य समासतः । ं७।१५६च्[१५७ंच्]/ अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ Bछ्.Sछ्॥ ं७।१५७अ[१५८ंअ]/ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । ं७।१५७च्[१५८ंच्]/ प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः ॥ Bछ्.Sछ्॥ ं७।१५८अ[१५९ंअ]/ अनन्तरमरिं विद्यादरिसेविनमेव च । ं७।१५८च्[१५९ंच्]/ अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ Bछ्.Sछ्॥ ं७।१५९अ[१६०ंअ]/ तान् सर्वानभिसंदध्यात् सामादिभिरुपक्रमैः । ं७।१५९च्[१६०ंच्]/ व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ Bछ्.Sछ्॥ ं७।१६०अ[१६१ंअ]/ संधिं च विग्रहं चैव यानमासनमेव च । ं७।१६०च्[१६१ंच्]/ द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत् सदा ॥ Bछ्.Sछ्॥ ं७।१६१अ[१६२ंअ]/ आसनं चैव यानं च संधिं विग्रहमेव च । ं७।१६१च्[१६२ंच्]/ कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ Bछ्.Sछ्॥ ं७।१६२अ[१६३ंअ]/ संधिं तु द्विविधं विद्याद् राजा विग्रहमेव च । ं७।१६२च्[१६३ंच्]/ उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ Bछ्.Sछ्॥ ं७।१६३अ[१६४ंअ]/ समानयानकर्मा च विपरीतस्तथैव च । ं७।१६३च्[१६४ंच्]/ तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः ॥ Bछ्.Sछ्॥ ं७।१६४अ[१६५ंअ]/ स्वयङ्कृतश्च कार्यार्थमकाले काल एव वा । ं७।१६४च्[१६५ंच्]/ मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ Bछ्.Sछ्॥ ं७।१६५अ[१६६ंअ]/ एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया । ं७।१६५च्[१६६ंच्]/ संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ Bछ्.Sछ्॥ ं७।१६६अ[१६७ंअ]/ क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा । ं७।१६६च्[१६७ंच्]/ मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ Bछ्.Sछ्॥ ं७।१६७अ[१६८ंअ]/ बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । ं७।१६७च्[१६८ंच्]/ द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ Bछ्.Sछ्॥ ं७।१६८अ[१६९ंअ]/ अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः । ं७।१६८च्[१६९ंच्]/ साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः ॥ Bछ्.Sछ्॥ ं७।१६९अ[१७०ंअ]/ यदाऽवगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । ं७।१६९च्[१७०ंच्]/ तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ Bछ्.Sछ्॥ ं७।१७०अ[१७१ंअ]/ यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् । ं७।१७०च्[१७१ंच्]/ अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ Bछ्.Sछ्॥ ं७।१७१अ[१७२ंअ]/ यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । ं७।१७१च्[१७२ंच्]/ परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ Bछ्.Sछ्॥ ं७।१७२अ[१७३ंअ]/ यदा तु स्यात् परिक्षीणो वाहनेन बलेन च । ं७।१७२च्[१७३ंच्]/ तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥ Bछ्.Sछ्॥ ं७।१७३अ[१७४ंअ]/ मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । ं७।१७३च्[१७४ंच्]/ तदा द्विधा बलं कृत्वा साधयेत् कार्यमात्मनः ॥ Bछ्.Sछ्॥ ं७।१७४अ[१७५ंअ]/ यदा परबलानां तु गमनीयतमो भवेत् । ं७।१७४च्[१७५ंच्]/ तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥ Bछ्.Sछ्॥ ं७।१७५अ[१७६ंअ]/ निग्रहं प्रकृतीनां च कुर्याद् योऽरिबलस्य च । ं७।१७५च्[१७६ंच्]/ उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ Bछ्.Sछ्॥ ं७।१७६अ[१७७ंअ]/ यदि तत्रापि सम्पश्येद् दोषं संश्रयकारितम् । ं७।१७६च्[१७७ंच्]/ सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ Bछ्.Sछ्॥ ं७।१७७अ[१७८ंअ]/ सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । ं७।१७७च्[१७८ंच्]/ यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ Bछ्.Sछ्॥ ं७।१७८अ[१७९ंअ]/ आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । ं७।१७८च्[१७९ंच्]/ अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ Bछ्.Sछ्॥ ं७।१७९अ[१८०ंअ]/ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । ं७।१७९च्[१८०ंच्]/ अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ Bछ्.Sछ्॥ ं७।१८०अ[१८१ंअ]/ यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः । ं७।१८०च्[१८१ंच्]/ तथा सर्वं संविदध्यादेष सामासिको नयः ॥ Bछ्.Sछ्॥ ं७।१८१अ[१८२ंअ]/ तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः । ं७।१८१च्[१८२ंच्]/ तदानेन विधानेन यायादरिपुरं शनैः ॥ Bछ्.Sछ्॥ ं७।१८२अ[१८३ंअ]/ मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः । ं७।१८२च्[१८३ंच्]/ फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ Bछ्.Sछ्॥ ं७।१८३अ[१८४ंअ]/ अन्येष्वपि तु कालेषु यदा पश्येद् ध्रुवं जयम् । ं७।१८३च्[१८४ंच्]/ तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥ Bछ्.Sछ्॥ ं७।१८४अ[१८५ंअ]/ कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । ं७।१८४च्[१८५ंच्]/ उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥ Bछ्.Sछ्॥ ं७।१८५अ[१८६ंअ]/ संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् । ं७।१८५च्[१८६ंच्]/ सांपरायिककल्पेन यायादरिपुरं प्रति ॥ Bछ्.Sछ्॥ ं७।१८६अ[१८७ंअ]/ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । ं७।१८६च्[१८७ंच्]/ गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ Bछ्.Sछ्॥ ं७।१८७अ[१८८ंअ]/ दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा । ं७।१८७च्[१८८ंच्]/ वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ Bछ्.Sछ्॥ ं७।१८८अ[१८९ंअ]/ यतश्च भयमाशङ्केत् ततो विस्तारयेद् बलम् । ं७।१८८च्[१८९ंच्]/ पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ Bछ्.Sछ्॥ ं७।१८९अ[१९०ंअ]/ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । ं७।१८९च्[१९०ंच्]/ यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥ Bछ्.Sछ्॥ ं७।१९०अ[१९१ंअ]/ गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः । ं७।१९०च्[१९१ंच्]/ स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ Bछ्.Sछ्॥ ं७।१९१अ[१९२ंअ]/ संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून् । ं७।१९१च्[१९२ंच्]/ सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ Bछ्.Sछ्॥ ं७।१९२अ[१९३ंअ]/ स्यन्दनाश्वैः समे युध्येदनूपेनोद्विपैस्तथा । ं७।१९२च्[१९३ंच्]/ वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ Bछ्.Sछ्॥ ं७।१९३अ[१९४ंअ]/ कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालांशूरसेनजान् । %[ं:कौरक्षेत्रांश्च ] ं७।१९३च्[१९४ंच्]/ दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ Bछ्.Sछ्॥ ं७।१९४अ[१९५ंअ]/ प्रहर्षयेद् बलं व्यूह्य तांश्च सम्यक् परीक्षयेत् । %[ं।भृशं परीक्षयेत्)] ं७।१९४च्[१९५ंच्]/ चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥ Bछ्.Sछ्॥ ं७।१९५अ[१९६ंअ]/ उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । ं७।१९५च्[१९६ंच्]/ दूषयेच्चास्य सततं यवसान्नोदकैन्धनम् ॥ Bछ्.Sछ्॥ ं७।१९६अ[१९७ंअ]/ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । ं७।१९६च्[१९७ंच्]/ समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत् तथा ॥ Bछ्.Sछ्॥ ं७।१९७अ[१९८ंअ]/ उपजप्यानुपजपेद् बुध्येतैव च तत्कृतम् । ं७।१९७च्[१९८ंच्]/ युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ Bछ्.Sछ्॥ ं७।१९८अ[१९९ंअ]/ साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । ं७।१९८च्[१९९ंच्]/ विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥ Bछ्.Sछ्॥ %[ंअरिं] ं७।१९९अ[२००ंअ]/ अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः । ं७।१९९च्[२००ंच्]/ पराजयश्च सङ्ग्रामे तस्माद् युद्धं विवर्जयेत् ॥ Bछ्.Sछ्॥ ं७।२००अ[२०१ंअ]/ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे । ं७।२००च्[२०१ंच्]/ तथा युध्येत सम्पन्नो विजयेत रिपून् यथा ॥ Bछ्.Sछ्॥ ं७।२०१अ[२०२ंअ]/ जित्वा सम्पूजयेद् देवान् ब्राह्मणांश्चैव धार्मिकान् । ं७।२०१च्[२०२ंच्]/ प्रदद्यात् परिहारार्थं ख्यापयेदभयानि च ॥ Bछ्.Sछ्॥ ं७।२०२अ[२०३ंअ]/ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । ं७।२०२च्[२०३ंच्]/ स्थापयेत् तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ Bछ्.Sछ्॥ ं७।२०३अ[२०४ंअ]/ प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् । ं७।२०३च्[२०४ंच्]/ रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ Bछ्.Sछ्॥ ं७।२०४अ[२०५ंअ]/ आदानमप्रियकरं दानं च प्रियकारकम् । ं७।२०४च्[२०५ंच्]/ अभीप्सितानामर्थानां काले युक्तम् ??॥ Bछ्.Sछ्॥ %[ं।कालयुक्तं प्रशस्यते)] ं७।२०५अ[२०६ंअ]/ सर्वं कर्मैदमायत्तं विधाने दैवमानुषे । ं७।२०५च्[२०६ंच्]/ तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ Bछ्.Sछ्॥ %ठे फ़ोल्लोविन्ग् थ्री श्लोकसरे फ़ोउन्दोन्ल्यिन् ं। (ञ्ह'सेदितिओन् दोएः नोत् चोउन्त् थेमिनित्ः नुम्बेरिन्गोफ़् थे तेक्ष्त्, अल्थोउग्ः ंएधातिथि गिवेस्थेइर्चोम्मेन्तर्य्।) %[ं७।२०७ंअ/ दैवेन विधिना युक्तं मानुष्यं यत् प्रवर्तते ।][नोतिन् क्] [ञ्हायुक्तं] %[ं७।२०७ंच्/ परिक्लेशेन महता तदर्थस्य समाधकम् ॥ Bछ्.Sछ्॥][नोतिन् क्] %[ं७।२०८ंअ/ संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।][नोतिन् क्] %[ं७।२०८ंच्/ विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥ Bछ्.Sछ्॥ ][नोतिन् क्] %[ं७।२०९ंअ/ चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च ।][नोतिन् क्] %[ं७।२०९ंच्/ इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ Bछ्.Sछ्॥ ][नोतिन् क्] ं७।२०६अ[२१०ंअ]/ सह वाऽपि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः । ं७।२०६च्[२१०ंच्]/ मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥ Bछ्.Sछ्॥ ं७।२०७अ[२११ंअ]/ पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले । ं७।२०७च्[२११ंच्]/ मित्रादथाप्यमित्राद् वा यात्राफलमवाप्नुयात् ॥ Bछ्.Sछ्॥ ं७।२०८अ[२१२ंअ]/ हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । ं७।२०८च्[२१२ंच्]/ यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ Bछ्.Sछ्॥ ं७।२०९अ[२१३ंअ]/ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । ं७।२०९च्[२१३ंच्]/ अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ Bछ्.Sछ्॥ ं७।२१०अ[२१४ंअ]/ प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च । ं७।२१०च्[२१४ंच्]/ कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ Bछ्.Sछ्॥ ं७।२११अ[२१५ंअ]/ आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । ं७।२११च्[२१५ंच्]/ स्थौललक्ष्यं च सततमुदासीनगुणौदयः ॥ Bछ्.Sछ्॥ ं७।२१२अ[२१६ंअ]/ क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि । ं७।२१२च्[२१६ंच्]/ परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ Bछ्.Sछ्॥ ं७।२१३अ[२१७ंअ]/ आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैरपि । %[ं।आपदर्थे ] ं७।२१३च्[२१७ंच्]/ आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ Bछ्.Sछ्॥ ं७।२१४अ[२१८ंअ]/ सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । ं७।२१४च्[२१८ंच्]/ संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद् बुधः ॥ Bछ्.Sछ्॥ ं७।२१५अ[२१९ंअ]/ उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः । ं७।२१५च्[२१९ंच्]/ एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ Bछ्.Sछ्॥ ं७।२१६अ[२२०ंअ]/ एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः । ं७।२१६च्[२२०ंच्]/ व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ Bछ्.Sछ्॥ ं७।२१७अ[२२१ंअ]/ तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः । ं७।२१७च्[२२१ंच्]/ सुपरीक्षितमन्नाद्यमद्यान् मन्त्रैर्विषापहैः ॥ Bछ्.Sछ्॥ ं७।२१८अ[२२२ंअ]/ विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । %[ं।विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि शोधयेत् ] ं७।२१८च्[२२२ंच्]/ विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ Bछ्.Sछ्॥ ं७।२१९अ[२२३ंअ]/ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । ं७।२१९च्[२२३ंच्]/ वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ Bछ्.Sछ्॥ ं७।२२०अ[२२४ंअ]/ एवं प्रयत्नं कुर्वीत यानशय्याऽऽसनाशने । ं७।२२०च्[२२४ंच्]/ स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ Bछ्.Sछ्॥ ं७।२२१अ[२२५ंअ]/ भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । ं७।२२१च्[२२५ंच्]/ विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ Bछ्.Sछ्॥ ं७।२२२अ[२२६ंअ]/ अलङ्कृतश्च सम्पश्येदायुधीयं पुनर्जनम् । ं७।२२२च्[२२६ंच्]/ वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ Bछ्.Sछ्॥ ं७।२२३अ[२२७ंअ]/ संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । ं७।२२३च्[२२७ंच्]/ रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ Bछ्.Sछ्॥ ं७।२२४अ[२२८ंअ]/ गत्वा कक्षान्तरं त्वन्यत् समनुज्ञाप्य तं जनम् । ं७।२२४च्[२२८ंच्]/ प्रविशेद् भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥ Bछ्.Sछ्॥ ं७।२२५अ[२२९ंअ]/ तत्र भुक्त्वा पुनः किं चित् तूर्यघोषैः प्रहर्षितः । ं७।२५५च्[२२९ंच्]/ संविशेत् तं यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ Bछ्.Sछ्॥ ं७।२२६अ[२३०ंअ]/ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । ं७।२२६च्[२३०ंच्]/ अस्वस्थः सर्वमेतत् तु भृत्येषु विनियोजयेत् ॥ Bछ्.Sछ्॥

अध्याय ८

ं८।०१अ/ व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । ं८।०१च्/ मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् ॥ Bछ्.Sछ्॥ ं८।०२अ/ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । ं८।०२च्/ विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ Bछ्.Sछ्॥ ं८।०३अ/ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । ं८।०३च्/ अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ Bछ्.Sछ्॥ ं८।०४अ/ तेषामाद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः । ं८।०४च्/ संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ Bछ्.Sछ्॥ ं८।०५अ/ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । ं८।०५च्/ क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ Bछ्.Sछ्॥ ं८।०६अ/ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । ं८।०६च्/ स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ॥ Bछ्.Sछ्॥ ं८।०७अ/ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । ं८।०७च्/ पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ Bछ्.Sछ्॥ ं८।०८अ/ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । ं८।०८च्/ धर्मं शाश्वतमाश्रित्य कुर्यात् कार्यविनिर्णयम् ॥ Bछ्.Sछ्॥ ं८।०९अ/ यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् । ं८।०९च्/ तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥ Bछ्.Sछ्॥ ं८।१०अ/ सोऽस्य कार्याणि सम्पश्येत् सभ्यैरेव त्रिभिर्वृतः । ं८।१०च्/ सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ Bछ्.Sछ्॥ ं८।११अ/ यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । ं८।११च्/ राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ॥ Bछ्.Sछ्॥ ं८।१२अ/ धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । ं८।१२च्/ शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ Bछ्.Sछ्॥ ं८।१३अ/ सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । %[ं।सभा वा न प्रवेष्टव्या ] ं८।१३च्/ अब्रुवन् विब्रुवन् वाऽपि नरो भवति किल्बिषी ॥ Bछ्.Sछ्॥ ं८।१४अ/ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । ं८।१४च्/ हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ Bछ्.Sछ्॥ ं८।१५अ/ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । ं८।१५च्/ तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ Bछ्.Sछ्॥ %[ं।वधीत्] ं८।१६अ/ वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम् । %[ं।त्वलम्] ं८।१६च्/ वृषलं तं विदुर्देवास्तस्माद् धर्मं न लोपयेत् ॥ Bछ्.Sछ्॥ ं८।१७अ/ एक एव सुहृद् धर्मो निधानेऽप्यनुयाति यः । ं८।१७च्/ शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥ Bछ्.Sछ्॥ ं८।१८अ/ पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति । ं८।१८च्/ पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ Bछ्.Sछ्॥ ं८।१९अ/ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । ं८।१९च्/ एनो गच्छति कर्तारं निन्दाऽर्हो यत्र निन्द्यते ॥ Bछ्.Sछ्॥ ं८।२०अ/ जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः । ं८।२०च्/ धर्मप्रवक्ता नृपतेर्न शूद्रः कथं चन ??॥ Bछ्.Sछ्॥ ं८।२१अ/ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । ं८।२१च्/ तस्य सीदति तद् राष्ट्रं पङ्के गौरिव पश्यतः ॥ Bछ्.Sछ्॥ ं८।२२अ/ यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । ं८।२२च्/ विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ Bछ्.Sछ्॥ ं८।२३अ/ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । ं८।२३च्/ प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ Bछ्.Sछ्॥ ं८।२४अ/ अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ । ं८।२४च्/ वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ Bछ्.Sछ्॥ ं८।२५अ/ बाह्यैर्विभावयेत्लिङ्गैर्भावमन्तर्गतं नृणाम् । ं८।२५च्/ स्वरवर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ Bछ्.Sछ्॥ ं८।२६अ/ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । ं८।२६च्/ नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ Bछ्.Sछ्॥ ं८।२७अ/ बालदायादिकं रिक्थं तावद् राजाऽनुपालयेत् । ं८।२७च्/ यावत् स स्यात् समावृत्तो यावत्चातीतशैशवः ॥ Bछ्.Sछ्॥ %[ं।यावद् वाऽतीतशैशवः] ं८।२८अ/ वशाऽपुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च । ं८।२८च्/ पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ Bछ्.Sछ्॥ ं८।२९अ/ जीवन्तीनां तु तासां ये तद् हरेयुः स्वबान्धवाः । ं८।२९च्/ तांशिष्यात्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ Bछ्.Sछ्॥ ं८।३०अ/ प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । ं८।३०च्/ अर्वाक् त्र्यब्दाद्द् हरेत् स्वामी परेण नृपतिर्हरेत् ॥ Bछ्.Sछ्॥ ं८।३१अ/ ममैदमिति यो ब्रूयात् सोऽनुयोज्यो यथाविधि । ं८।३१च्/ संवाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति ॥ Bछ्.Sछ्॥ ं८।३२अ/ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । ं८।३२च्/ वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ Bछ्.Sछ्॥ ं८।३३अ/ आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । ं८।३३च्/ दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥ ं८।३४अ/ प्रणष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैरधिष्ठितम् । ं८।३४च्/ यांस्तत्र चौरान् गृह्णीयात् तान् राजैभेन घातयेत् ॥ Bछ्.Sछ्॥ ं८।३५अ/ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । ं८।३५च्/ तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ Bछ्.Sछ्॥ ं८।३६अ/ अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । ं८।३६च्/ तस्यैव वा निधानस्य सङ्ख्ययाऽल्पीयसीं कलाम् ॥ Bछ्.Sछ्॥ ं८।३७अ/ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । ं८।३८च्/ अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥ Bछ्.Sछ्॥ ं८।३८अ/ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । ं८।३८च्/ तस्माद् द्विजेभ्यो दत्त्वाऽर्धमर्धं कोशे प्रवेशयेत् ॥ Bछ्.Sछ्॥ ं८।३९अ/ निधीनां तु पुराणानां धातूनामेव च क्षितौ । ं८।३९च्/ अर्धभाग् रक्षणाद् राजा भूमेरधिपतिर्हि सः ॥ Bछ्.Sछ्॥ ं८।४०अ/ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । ं८।४०च्/ राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥ Bछ्.Sछ्॥ ं८।४१अ/ जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् । ं८।४१च्/ समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ Bछ्.Sछ्॥ ं८।४२अ/ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । ं८।४२च्/ प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥ Bछ्.Sछ्॥ ं८।४३अ/ नोत्पादयेत् स्वयं कार्यं राजा नाप्यस्य पूरुषः ??। ं८।४३च्/ न च प्रापितमन्येन ग्रसेदर्थं कथं चन ॥ Bछ्.Sछ्॥ %[ं।ग्रसेतार्थं] ं८।४४अ/ यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । ं८।४४च्/ नयेत् तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥ Bछ्.Sछ्॥ ं८।४५अ/ सत्यमर्थं च सम्पश्येदात्मानमथ साक्षिणः । %[ं।साक्षिणम्] ं८।४५च्/ देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ Bछ्.Sछ्॥ ं८।४६अ/ सद्भिराचरितं यत् स्याद् धार्मिकैश्च द्विजातिभिः । ं८।४६च्/ तद् देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं८।४७अ/ अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । ं८।४७च्/ दापयेद् धनिकस्यार्थमधमर्णाद् विभावितम् ॥ Bछ्.Sछ्॥ ं८।४८अ/ यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । ं८।४८च्/ तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम् ॥ Bछ्.Sछ्॥ ं८।४९अ/ धर्मेण व्यवहारेण छलेनाचरितेन च । ं८।४९च्/ प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ Bछ्.Sछ्॥ ं८।५०अ/ यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । ं८।५०च्/ न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ Bछ्.Sछ्॥ ं८।५१अ/ अर्थेऽपव्ययमानं तु करणेन विभावितम् । ं८।५१च्/ दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ Bछ्.Sछ्॥ ं८।५२अ/ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । ं८।५२च्/ अभियोक्ता दिशेद् देश्यं करणं वाऽन्यदुद्दिशेत् ॥ Bछ्.Sछ्॥ ं८।५३अ/ अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः । ं८।५३च्/ यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते ॥ Bछ्.Sछ्॥ ं८।५४अ/ अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । %[ंऽपदिश्यापदेशं] ं८।५४च्/ सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ॥ Bछ्.Sछ्॥ ं८।५५अ/ असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः । ं८।५५च्/ निरुच्यमानं प्रश्नं च नेच्छेद् यश्चापि निष्पतेत् ॥ Bछ्.Sछ्॥ ं८।५६अ/ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । ं८।५६च्/ न च पूर्वापरं विद्यात् तस्मादर्थात् स हीयते ॥ Bछ्.Sछ्॥ ं८।५७अ/ साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । %[ं।ज्ञातारः सन्ति मेत्य्*] *मेत्य् < म इत्य् ? ं८।५७च्/ धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ Bछ्.Sछ्॥ %[ं।तमिति निर्दिशेत्) ं८।५८अ/ अभियोक्ता न चेद् ब्रूयाद् बध्यो दण्ड्यश्च धर्मतः । %[ं।बन्ध्यो दण्ड्यश्च] ं८।५८च्/ न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥ Bछ्.Sछ्॥ ं८।५९अ/ यो यावद् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ??। ं८।५९च्/ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ??॥ Bछ्.Sछ्॥ ं८।६०अ/ पृष्टोऽपव्ययमानस्तु कृतावस्थो धनेषिणा । ं८।६०च्/ त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ Bछ्.Sछ्॥ ं८।६१अ/ यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । ं८।६१च्/ तादृशान् सम्प्रवक्ष्यामि यथा वाच्यं ऋतं च तैः ॥ Bछ्.Sछ्॥ ं८।६२अ/ गृहिणः पुत्रिणो मौलाः क्षत्रविद् शूद्रयोनयः । ं८।६२च्/ अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि ॥ Bछ्.Sछ्॥ ं८।६३अ/ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । ं८।६३च्/ सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ Bछ्.Sछ्॥ ं८।६४अ/ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । ं८।६४च्/ न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ Bछ्.Sछ्॥ ं८।६५अ/ न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । ं८।६५च्/ न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ Bछ्.Sछ्॥ ं८।६६अ/ नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । ं८।६६च्/ न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥ Bछ्.Sछ्॥ ं८।६७अ/ नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । ं८।६७च्/ न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ Bछ्.Sछ्॥ ं८।६८अ/ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । ं८।६८च्/ शूद्राश्च सन्तः शूद्राणां अन्त्यानामन्त्ययोनयः ॥ Bछ्.Sछ्॥ ं८।६९अ/ अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् । ं८।६९च्/ अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ Bछ्.Sछ्॥ ं८।७०अ/ स्त्रियाऽप्यसंभावे कार्यं बालेन स्थविरेण वा । ं८।७०च्/ शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ Bछ्.Sछ्॥ ं८।७१अ/ बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । ं८।७१च्/ जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ Bछ्.Sछ्॥ ं८।७२अ/ साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च । ं८।७२च्/ वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ Bछ्.Sछ्॥ ं८।७३अ/ बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । ं८।७३च्/ समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ Bछ्.Sछ्॥ ं८।७४अ/ समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति । ं८।७४च्/ तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ Bछ्.Sछ्॥ ं८।७५अ/ साक्षी दृष्टश्रुतादन्यद् विब्रुवन्नार्यसंसदि । ं८।७५च्/ अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥ Bछ्.Sछ्॥ ं८।७६अ/ यत्रानिबद्धोऽपीक्षेत शृणुयाद् वाऽपि किं चन । ं८।७६च्/ पृष्टस्तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ Bछ्.Sछ्॥ ं८।७७अ/ एकोऽलुब्धस्तु साक्षी स्याद् बह्व्यः शुच्योऽपि न स्त्रियः । %[ं। त्वसाक्षी] ं८।७७च्/ स्त्रीबुद्धेरस्थिरत्वात् तु दोषैश्चान्येऽपि ये वृताः ॥ Bछ्.Sछ्॥ ं८।७८अ/ स्वभावेनैव यद् ब्रूयुस्तद् ग्राह्यं व्यावहारिकम् । ं८।७८च्/ अतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ Bछ्.Sछ्॥ ं८।७९अ/ सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ । ं८।७९च्/ प्राड् विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ??॥ Bछ्.Sछ्॥ ं८।८०अ/ यद् द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । ं८।८०च्/ तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥ Bछ्.Sछ्॥ ं८।८१अ/ सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्यपुष्कलान् । %[ं।आप्नोत्यनिन्दितान्] ं८।८१च्/ इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥ Bछ्.Sछ्॥ ं८।८२अ/ साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् । ं८।८२च्/ विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेद् ऋतम् ॥ Bछ्.Sछ्॥ ं८।८३अ/ सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । ं८।८३च्/ तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ Bछ्.Sछ्॥ ं८।८४अ/ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽत्मनः । ं८।८४च्/ माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ Bछ्.Sछ्॥ ं८।८५अ/ मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः । ं८।८५च्/ तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ Bछ्.Sछ्॥ ं८।८६अ/ द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । ं८।८६च्/ रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ Bछ्.Sछ्॥ ं८।८७अ/ देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् । ं८।८७च्/ उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ Bछ्.Sछ्॥ ं८।८८अ/ ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् । ं८।८८च्/ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ Bछ्.Sछ्॥ ं८।८९अ/ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः । ं८।८९च्/ मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ॥ Bछ्.Sछ्॥ ं८।९०अ/ जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम् । ं८।९०च्/ तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास्त्वमन्यथा ॥ Bछ्.Sछ्॥ ं८।९१अ/ एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । ं८।९१च्/ नित्यं स्थितस्ते हृद्येष पुण्यपापैक्षिता मुनिः ॥ Bछ्.Sछ्॥ ं८।९२अ/ यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । ं८।९२च्/ तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ Bछ्.Sछ्॥ ं८।९३अ/ नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः । %[ं।कपाली ] ं८।९३च्/ अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यमनृतं वदेत् ॥ Bछ्.Sछ्॥ ं८।९४अ/ अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । ं८।९४च्/ यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ Bछ्.Sछ्॥ ं८।९५अ/ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । ं८।९५च्/ यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ Bछ्.Sछ्॥ ं८।९६अ/ यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते । %[ंंआतिशङ्कते) ं८।९६च्/ तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ Bछ्.Sछ्॥ ं८।९७अ/ यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् । ं८।९७च्/ तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ Bछ्.Sछ्॥ ं८।९८अ/ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । ं८।९८च्/ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ Bछ्.Sछ्॥ ं८।९९अ/ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । ं८।९९च्/ सर्वं भूमिअनृते हन्ति मा स्म भूमिअनृतं वदीः ॥ Bछ्.Sछ्॥ ं८।१००अ/ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । ं८।१००च्/ अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ Bछ्.Sछ्॥ ं८।१०१अ/ एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । ं८।१०१च्/ यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ Bछ्.Sछ्॥ ं८।१०२अ/ गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान् । %[ं।वाणिजकांस्] ं८।१०२च्/ प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ Bछ्.Sछ्॥ ं८।१०३अ/ तद् वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः । ं८।१०३च्/ न स्वर्गाच्च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥ Bछ्.Sछ्॥ ं८।१०४अ/ शूद्रविड् क्षत्रविप्राणां यत्रऋतोक्तौ भवेद् वधः । ं८।१०४च्/ तत्र वक्तव्यमनृतं तद् हि सत्याद् विशिष्यते ॥ Bछ्.Sछ्॥ ं८।१०५अ/ वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । ं८।१०५च्/ अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ Bछ्.Sछ्॥ ं८।१०६अ/ कूष्माण्डैर्वाऽपि जुहुयाद् घृतमग्नौ यथाविधि । %[टा१०।३५; Vष्२०।१४] ं८।१०६च्/ उदित्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ Bछ्.Sछ्॥ %[ऋष्१।२४।१५; १०।९।१३; Vष्१२।२;Vष्१२।५०] ं८।१०७अ/ त्रिपक्षादब्रुवन् साक्ष्यं ऋणादिषु नरोऽगदः । ं८।१०७च्/ तदृणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥ Bछ्.Sछ्॥ ं८।१०८अ/ यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । ं८।१०८च्/ रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥ Bछ्.Sछ्॥ ं८।१०९अ/ असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः । ं८।१०९च्/ अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ Bछ्.Sछ्॥ ं८।११०अ/ महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः । ं८।११०च्/ वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ Bछ्.Sछ्॥ ं८।१११अ/ न वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः । ं८।१११च्/ वृथा हि शपथं कुर्वन् प्रेत्य चैह च नश्यति ॥ Bछ्.Sछ्॥ ं८।११२अ/ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ं८।११२च्/ ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ Bछ्.Sछ्॥ ं८।११३अ/ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । ं८।११३च्/ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ Bछ्.Sछ्॥ ं८।११४अ/ अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् । ं८।११४च्/ पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् ॥ Bछ्.Sछ्॥ ं८।११५अ/ यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च । ं८।११५च्/ न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ Bछ्.Sछ्॥ ं८।११६अ/ वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । ं८।११६च्/ नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ Bछ्.Sछ्॥ ं८।११७अ/ यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । ं८।११७च्/ तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ Bछ्.Sछ्॥ ं८।११८अ/ लोभान्मोहाद् भयात्मैत्रात् कामात् क्रोधात् तथैव च । ं८।११८च्/ अज्ञानाद् बालभावात्च साक्ष्यं वितथमुच्यते ॥ Bछ्.Sछ्॥ ं८।११९अ/ एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । ं८।११९च्/ तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ Bछ्.Sछ्॥ ं८।१२०अ/ लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वं तु साहसम् । ं८।१२०च्/ भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ Bछ्.Sछ्॥ ं८।१२१अ/ कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् । ं८।१२१च्/ अज्ञानाद् द्वे शते पूर्णे बालिश्यात्शतमेव तु ॥ Bछ्.Sछ्॥ ं८।१२२अ/ एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः । ं८।१२२च्/ धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ Bछ्.Sछ्॥ ं८।१२३अ/ कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः । ं८।१२३च्/ प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ Bछ्.Sछ्॥ ं८।१२४अ/ दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् । ं८।१२४च्/ त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ Bछ्.Sछ्॥ ं८।१२५अ/ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । ं८।१२५च्/ चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ Bछ्.Sछ्॥ ं८।१२६अ/ अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । ं८।१२६च्/ सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ Bछ्.Sछ्॥ ं८।१२७अ/ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । ं८।१२७च्/ अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥ Bछ्.Sछ्॥ ं८।१२८अ/ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । ं८।१२८च्/ अयशो महदाप्नोति नरकं चैव गच्छति ॥ Bछ्.Sछ्॥ ं८।१२९अ/ वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् । ं८।१२९च्/ तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ Bछ्.Sछ्॥ ं८।१३०अ/ वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । ं८।१३०च्/ तदेषु सर्वमप्येतत् प्रयुञ्जीत चतुष्टयम् ॥ Bछ्.Sछ्॥ ं८।१३१अ/ लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ं८।१३१च्/ ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ ं८।१३२अ/ जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । ं८।१३२च्/ प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥ Bछ्.Sछ्॥ ं८।१३३अ/ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ं८।१३३च्/ ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ Bछ्.Sछ्॥ ं८।१३४अ/ सर्षपाः षड् यवो मध्यस्त्रियवं त्वेककृष्णलम् । ं८।१३४च्/ पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ Bछ्.Sछ्॥ ं८।१३५अ/ पलं सुवर्णाश्चत्वारः पलानि धरणं दश । ं८।१३५च्/ द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ Bछ्.Sछ्॥ %[ं रूप्यमाषकः ] ं८।१३६अ/ ते षोडश स्याद् धरणं पुराणश्चैव राजतः । ं८।१३६च्/ कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ Bछ्.Sछ्॥ ं८।१३७अ/ धरणानि दश ज्ञेयः शतमानस्तु राजतः । ं८।१३७च्/ चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ Bछ्.Sछ्॥ ं८।१३८अ/ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । ं८।१३८च्/ मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ Bछ्.Sछ्॥ ं८।१३९अ/ ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । ं८।१३९च्/ अपह्नवे तद् द्विगुणं तन् मनोरनुशासनम् ॥ Bछ्.Sछ्॥ ं८।१४०अ/ वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् । ं८।१४०च्/ अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥ Bछ्.Sछ्॥ ं८।१४१अ/ द्विकं शतं वा गृह्णीयात् सतां धर्ममनुस्मरन् । ं८।१४१च्/ द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥ Bछ्.Sछ्॥ ं८।१४२अ/ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । ं८।१४२च्/ मासस्य वृद्धिं गृह्णीयाद् वर्णानामनुपूर्वशः ॥ Bछ्.Sछ्॥ ं८।१४३अ/ न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । ं८।१४३च्/ न चाधेः कालसंरोधात्निसर्गोऽस्ति न विक्रयः ॥ Bछ्.Sछ्॥ ं८।१४४अ/ न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । ं८।१४४च्/ मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ Bछ्.Sछ्॥ ं८।१४५अ/ आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः । ं८।१४५च्/ अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥ Bछ्.Sछ्॥ ं८।१४६अ/ सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । ं८।१४६च्/ धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ Bछ्.Sछ्॥ ं८।१४७अ/ यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते धनी । ं८।१४७च्/ भुज्यमानं परैस्तूष्णीं न स तत्लब्धुमर्हति ॥ Bछ्.Sछ्॥ ं८।१४८अ/ अजडश्चेदपोगण्डो विषये चास्य भुज्यते । ं८।१४८च्/ भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यमर्हति ॥ Bछ्.Sछ्॥ %[ं।तद् धनमर्हति)] ं८।१४९अ/ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । %[ंंइक्षेपौपनिधी] ं८।१४९च्/ राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ Bछ्.Sछ्॥ ं८।१५०अ/ यः स्वामिनाऽननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः । ं८।१५०च्/ तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ Bछ्.Sछ्॥ ं८।१५१अ/ कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । %[ं।सकृदाहिता)] ं८।१५१च्/ धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ Bछ्.Sछ्॥ ं८।१५२अ/ कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । ं८।१५२च्/ कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ Bछ्.Sछ्॥ ं८।१५३अ/ नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । %[ं।विनिर्हरेत्)] ं८।१५३च्/ चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ Bछ्.Sछ्॥ ं८।१५४अ/ ऋणं दातुमशक्तो यः कर्तुमिच्छेत् पुनः क्रियाम् । ं८।१५४च्/ स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ Bछ्.Sछ्॥ ं८।१५५अ/ अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । ं८।१५५च्/ यावती संभवेद् वृद्धिस्तावतीं दातुमर्हति ॥ Bछ्.Sछ्॥ ं८।१५६अ/ चक्रवृद्धिं समारूढो देशकालव्यवस्थितः । ं८।१५६च्/ अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ Bछ्.Sछ्॥ ं८।१५७अ/ समुद्रयानकुशला देशकालार्थदर्शिनः । ं८।१५७च्/ स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ Bछ्.Sछ्॥ ं८।१५८अ/ यो यस्य प्रतिभूस्तिष्ठेद् दर्शनायैह मानवः । ं८।१५८च्/ अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥ Bछ्.Sछ्॥ %[ं।तस्य यतेत)] ं८।१५९अ/ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् । ं८।१५९च्/ दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ Bछ्.Sछ्॥ ं८।१६०अ/ दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः । ं८।१६०च्/ दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ Bछ्.Sछ्॥ ं८।१६१अ/ अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । ं८।१६१च्/ पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ Bछ्.Sछ्॥ ं८।१६२अ/ निरादिष्टधनश्चेत् तु प्रतिभूः स्यादलंधनः । ं८।१६२च्/ स्वधनादेव तद् दद्यान्निरादिष्ट इति स्थितिः ॥ Bछ्.Sछ्॥ ं८।१६३अ/ मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा । ं८।१६३च्/ असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥ Bछ्.Sछ्॥ ं८।१६४अ/ सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता । ं८।१६४च्/ बहिश्चेद् भाष्यते धर्मात्नियताद् व्यवहारिकात् ॥ Bछ्.Sछ्॥ ं८।१६५अ/ योगाधमनविक्रीतं योगदानप्रतिग्रहम् । ं८।१६५च्/ यत्र वाऽप्युपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ Bछ्.Sछ्॥ ं८।१६६अ/ ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः । %[ं।कुटुम्बे च ] ं८।१६६च्/ दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः ॥ Bछ्.Sछ्॥ ं८।१६७अ/ कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । ं८।१६७च्/ स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ Bछ्.Sछ्॥ ं८।१६८अ/ बलाद् दत्तं बलाद् भुक्तं बलाद् यच्चापि लेखितम् । ं८।१६८च्/ सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं८।१६९अ/ त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । ं८।१६९च्/ चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ॥ Bछ्.Sछ्॥ ं८।१७०अ/ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । ं८।१७०च्/ न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ Bछ्.Sछ्॥ ं८।१७१अ/ अनादेयस्य चादानादादेयस्य च वर्जनात् । ं८।१७१च्/ दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्यैह च नश्यति ॥ Bछ्.Sछ्॥ ं८।१७२अ/ स्वादानाद् वर्णसंसर्गात् त्वबलानां च रक्षणात् । ं८।१७२च्/ बलं सञ्जायते राज्ञः स प्रेत्यैह च वर्धते ॥ Bछ्.Sछ्॥ ं८।१७३अ/ तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । ं८।१७३च्/ वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ Bछ्.Sछ्॥ ं८।१७४अ/ यस्त्वधर्मेण कार्याणि मोहात् कुर्यान्नराधिपः । ं८।१७४च्/ अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ Bछ्.Sछ्॥ ं८।१७५अ/ कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति । ं८।१७५च्/ प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ Bछ्.Sछ्॥ ं८।१७६अ/ यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे । ं८।१७६च्/ स राज्ञा तत्चतुर्भागं दाप्यस्तस्य च तद् धनम् ॥ Bछ्.Sछ्॥ ं८।१७७अ/ कर्मणाऽपि समं कुर्याद् धनिकायाधमर्णिकः । ं८।१७७च्/ समोऽवकृष्टजातिस्तु दद्यात्श्रेयांस्तु तत्शनैः ॥ Bछ्.Sछ्॥ ं८।१७८अ/ अनेन विधिना राजा मिथो विवदतां नृणाम् । ं८।१७८च्/ साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ Bछ्.Sछ्॥ ं८।१७९अ/ कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि । ं८।१७९च्/ महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद् बुधः ॥ Bछ्.Sछ्॥ ं८।१८०अ/ यो यथा निक्षिपेद्द् हस्ते यमर्थं यस्य मानवः । ं८।१८०च्/ स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ Bछ्.Sछ्॥ ं८।१८१अ/ यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । ं८।१८१च्/ स याच्यः प्राड्विवाकेन तत्निक्षेप्तुरसंनिधौ ॥ Bछ्.Sछ्॥ ं८।१८२अ/ साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । ं८।१८२च्/ अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ Bछ्.Sछ्॥ ं८।१८३अ/ स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् । ं८।१८३च्/ न तत्र विद्यते किं चिद् यत् परैरभियुज्यते ॥ Bछ्.Sछ्॥ ं८।१८४अ/ तेषां न दद्याद् यदि तु तद् हिरण्यं यथाविधि । ं८।१८४च्/ उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥ Bछ्.Sछ्॥ %[ं।स निगृह्यौभयं दाप्य इति धर्मस्य धारणा] ं८।१८५अ/ निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । ं८।१८५च्/ नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ Bछ्.Sछ्॥ ं८।१८६अ/ स्वयमेव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे । ं८।१८६च्/ न स राज्ञाऽभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ Bछ्.Sछ्॥ ं८।१८७अ/ अच्छलेनैव चान्विच्छेत् तमर्थं प्रीतिपूर्वकम् । ं८।१८७च्/ विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ Bछ्.Sछ्॥ ं८।१८८अ/ निक्षेपेष्वेषु सर्वेषु विधिः स्यात् परिसाधने । ं८।१८८च्/ समुद्रे नाप्नुयात् किं चिद् यदि तस्मान्न संहरेत् ॥ Bछ्.Sछ्॥ ं८।१८९अ/ चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा । ं८।१८९च्/ न दद्याद् यदि तस्मात् स न संहरति किं चन ॥ Bछ्.Sछ्॥ ं८।१९०अ/ निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च । ं८।१९०च्/ सर्वैरुपायैरन्विच्छेत्शपथैश्चैव वैदिकैः ॥ Bछ्.Sछ्॥ ं८।१९१अ/ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । ं८।१९१च्/ तावुभौ चौरवत्शास्यौ दाप्यौ वा तत्समं दमम् ॥ Bछ्.Sछ्॥ ं८।१९२अ/ निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् । ं८।१९२च्/ तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥ Bछ्.Sछ्॥ ं८।१९३अ/ उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः । ं८।१९३च्/ ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ Bछ्.Sछ्॥ ं८।१९४अ/ निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । ं८।१९४च्/ तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ॥ Bछ्.Sछ्॥ ं८।१९५अ/ मिथो दायः कृतो येन गृहीतो मिथ एव वा । ं८।१९५च्/ मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ Bछ्.Sछ्॥ ं८।१९६अ/ निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । ं८।१९६च्/ राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ??॥ Bछ्.Sछ्॥ ं८।१९७अ/ विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसंमतः । ं८।१९७च्/ न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ Bछ्.Sछ्॥ ं८।१९८अ/ अवहार्यो भवेत्चैव सान्वयः षट्शतं दमम् । ं८।१९८च्/ निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ॥ Bछ्.Sछ्॥ ं८।१९९अ/ अस्वामिना कृतो यस्तु दायो विक्रय एव वा । ं८।१९९च्/ अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ Bछ्.Sछ्॥ ं८।२००अ/ संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । ं८।२००च्/ आगमः कारणं तत्र न संभोग इति स्थितिः ॥ Bछ्.Sछ्॥ ं८।२०१अ/ विक्रयाद् यो धनं किं चिद् गृह्णीयात् कुलसंनिधौ । ं८।२०१च्/ क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ Bछ्.Sछ्॥ ं८।२०२अ/ अथ मूलमनाहार्यं प्रकाशक्रयशोधितः । ं८।२०२च्/ अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ Bछ्.Sछ्॥ ं८।२०३अ/ नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । ं८।२०३च्/ न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥ Bछ्.Sछ्॥ %[ं। न सावद्यं न च न्यूनं न दूरे न तिरोहितं ] ं८।२०४अ/ अन्यां चेद् दर्शयित्वाऽन्या वोढुः कन्या प्रदीयते । ं८।२०४च्/ उभे त एकशुल्केन वहेदित्यब्रवीन् मनुः ॥ Bछ्.Sछ्॥ ं८।२०५अ/ नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना । ं८।२०५च्/ पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥ Bछ्.Sछ्॥ ं८।२०६अ/ ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् । ं८।२०६च्/ तस्य कर्मानुरूपेण देयोंशः सहकर्तृभिः ॥ Bछ्.Sछ्॥ ं८।२०७अ/ दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । ं८।२०७च्/ कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ Bछ्.Sछ्॥ ं८।२०८अ/ यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । ं८।२०८च्/ स एव ता आददीत भजेरन् सर्व एव वा ॥ Bछ्.Sछ्॥ ं८।२०९अ/ रथं हरेत् चाध्वर्युर्ब्रह्माऽधाने च वाजिनम् । ं८।२०९च्/ होता वाऽपि हरेदश्वमुद्गाता चाप्यनः क्रये ॥ Bछ्.Sछ्॥ ं८।२१०अ/ सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे । ं८।२१०च्/ तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥ Bछ्.Sछ्॥ ं८।२११अ/ संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । ं८।२११च्/ अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ Bछ्.Sछ्॥ ं८।२१२अ/ धर्मार्थं येन दत्तं स्यात् कस्मै चिद् याचते धनम् । ं८।२१२च्/ पश्चाच्च न तथा तत् स्यान्न देयं तस्य तद् भवेत् ॥ Bछ्.Sछ्॥ ं८।२१३अ/ यदि संसाधयेत् तत् तु दर्पात्लोभेन वा पुनः । ं८।२१३च्/ राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥ Bछ्.Sछ्॥ ं८।२१४अ/ दत्तस्यैषौदिता धर्म्या यथावदनपक्रिया । ं८।२१४च्/ अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ Bछ्.Sछ्॥ ं८।२१५अ/ भृतो नार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् । %[ंऽनार्तो ] ं८।२१५च्/ स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ Bछ्.Sछ्॥ ं८।२१६अ/ आर्तस्तु कुर्यात् स्वस्थः सन् यथाभाषितमादितः । ं८।२१६च्/ स दीर्घस्यापि कालस्य तत्लभेतेव वेतनम् ॥ Bछ्.Sछ्॥ ं८।२१७अ/ यथोक्तमार्तः सुस्थो वा यस्तत् कर्म न कारयेत् । ं८।२१७च्/ न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ Bछ्.Sछ्॥ ं८।२१८अ/ एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । ं८।२१८च्/ अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ Bछ्.Sछ्॥ ं८।२१९अ/ यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । ं८।२१९च्/ विसंवदेन्नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥ Bछ्.Sछ्॥ ं८।२२०अ/ निगृह्य दापयेच्चैनं समयव्यभिचारिणम् । ं८।२२०च्/ चतुःसुवर्णान् षण्निष्कांश्शतमानं च राजकम् ॥ Bछ्.Sछ्॥ ं८।२२१अ/ एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः । ं८।२२१च्/ ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ Bछ्.Sछ्॥ ं८।२२२अ/ क्रीत्वा विक्रीय वा किं चिद् यस्यैहानुशयो भवेत् । ं८।२२२च्/ सोऽन्तर्दशाहात् तद् द्रव्यं दद्याच्चैवाददीत वा ॥ Bछ्.Sछ्॥ ं८।२२३अ/ परेण तु दशाहस्य न दद्यान्नापि दापयेत् । ं८।२२३च्/ आददानो ददत् चैव राज्ञा दण्ड्यौ शतानि षट् ॥ Bछ्.Sछ्॥ ं८।२२४अ/ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । ं८।२२४च्/ तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ Bछ्.Sछ्॥ ं८।२२५अ/ अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । ं८।२२५च्/ स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ॥ Bछ्.Sछ्॥ ं८।२२६अ/ पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । ं८।२२६च्/ नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥ Bछ्.Sछ्॥ ं८।२२७अ/ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । ं८।२२७च्/ तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ Bछ्.Sछ्॥ ं८।२२८अ/ यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् । ं८।२२८च्/ तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ Bछ्.Sछ्॥ ं८।२२९अ/ पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । ं८।२२९च्/ विवादं सम्प्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ Bछ्.Sछ्॥ ं८।२३०अ/ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । ं८।२३०च्/ योगक्षेमेऽन्यथा चेत् तु पालो वक्तव्यतामियात् ॥ Bछ्.Sछ्॥ ं८।२३१अ/ गोपः क्षीरभृतो यस्तु स दुह्याद् दशतो वराम् । ं८।२३१च्/ गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः ॥ Bछ्.Sछ्॥ ं८।२३२अ/ नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । ं८।२३२च्/ हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ Bछ्.Sछ्॥ ं८।२३३अ/ विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति । ं८।२३३च्/ यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ Bछ्.Sछ्॥ ं८।२३४अ/ कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् । ं८।२३४च्/ पशुषु स्वामिनां दद्यान् मृतेष्वङ्कानि दर्शयेत् ॥ Bछ्.Sछ्॥ %[ंऽङ्कांश्च दर्शयेत्)] ं८।२३५अ/ अजाविके तु संरुद्धे वृकैः पाले त्वनायति । ं८।२३५च्/ यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥ Bछ्.Sछ्॥ ं८।२३६अ/ तासां चेदवरुद्धानां चरन्तीनां मिथो वने । ं८।२३६च्/ यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥ Bछ्.Sछ्॥ ं८।२३७अ/ धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः । ं८।२३७च्/ शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ॥ Bछ्.Sछ्॥ ं८।२३८अ/ तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । ं८।२३८च्/ न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ Bछ्.Sछ्॥ । ं८।२३९अ/ वृतिं तत्र प्रकुर्वीत यामुष्त्रो न विलोकयेत् । ं८।२३९च्/ छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥ Bछ्.Sछ्॥ ं८।२४०अ/ पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः । ं८।२४०च्/ सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥ Bछ्.Sछ्॥ ं८।२४१अ/ क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति । ं८।२४१च्/ सर्वत्र तु सदो देयः क्षेत्रिकस्यैति धारणा ॥ Bछ्.Sछ्॥ ं८।२४२अ/ अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा । ं८।२४२च्/ सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं८।२४३अ/ क्षेत्रियस्यात्यये दण्डो भागाद् दशगुणो भवेत् । %[ं।क्षेत्रिकस्यात्यये] ं८।२४३च्/ ततोऽर्धदण्डो भृत्यानामज्ञानात् क्षेत्रिकस्य तु ॥ Bछ्.Sछ्॥ ं८।२४४अ/ एतद् विधानमातिष्ठेद् धार्मिकः पृथिवीपतिः । ं८।२४४च्/ स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ Bछ्.Sछ्॥ ं८।२४५अ/ सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः । ं८।२४५च्/ ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥ Bछ्.Sछ्॥ ं८।२४६अ/ सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । ं८।२४६च्/ शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान् ॥ Bछ्.Sछ्॥ ं८।२४७अ/ गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च । ं८।२४७च्/ शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥ Bछ्.Sछ्॥ ं८।२४८अ[ं२५०अ]/ तडागान्युदपानानि वाप्यः प्रस्रवणानि च । ं८।२४८च्[ं२५०च्]/ सीमासंधिषु कार्याणि देवतायतनानि च ॥ Bछ्.Sछ्॥ ं८।२४९अ/ उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । ं८।२४९च्/ सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ Bछ्.Sछ्॥ ं८।२५०अ[ं२४८अ]/ अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः । ं८।२५०च्[ं२४८च्]/ करीषमिष्टकाऽङ्गारां शर्करा वालुकास्तथा ??॥ Bछ्.Sछ्॥ ं८।२५१अ/ यानि चैवंप्रकाराणि कालाद् भूमिर्न भक्षयेत् । ं८।२५१च्/ तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ Bछ्.Sछ्॥ %[ं।सीमाया] ं८।२५२अ/ एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः । ं८।२५२च्/ पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ Bछ्.Sछ्॥ ं८।२५३अ/ यदि स्ंशय एव स्यात्लिङ्गानामपि दर्शने । ं८।२५३च्/ साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥ Bछ्.Sछ्॥ %[ं।सीमावादविनिश्चयः ] ं८।२५४अ/ ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः । %[ं। ग्रामेयक] ं८।२५४च्/ प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ Bछ्.Sछ्॥ %[ं।सीमालिङ्गानि ] ं८।२५५अ/ ते पृष्तास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । ं८।२५५च्/ निबध्नीयात् तथा सीमां सर्वांस्तांश्चैव नामतः ॥ Bछ्.Sछ्॥ ं८।२५६अ/ शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । ं८।२५६च्/ सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥ Bछ्.Sछ्॥ ं८।२५७अ/ यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । ं८।२५७च्/ विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥ Bछ्.Sछ्॥ ं८।२५८अ/ साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । %[ं।ग्रामसीमान्तवासिनः] ं८।२५८च्/ सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ Bछ्.Sछ्॥ ं८।२५९अ/ सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् । ं८।२५९च्/ इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥ Bछ्.Sछ्॥ ं८।२६०अ/ व्याधांशाकुनिकान् गोपान् कैवर्तान् मूलखानकान् । ं८।२६०च्/ व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥ Bछ्.Sछ्॥ ं८।२६१अ/ ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । ं८।२६१च्/ तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर्द्वयोः ॥ Bछ्.Sछ्॥ ं८।२६२अ/ क्षेत्रकूपतडागानामारामस्य गृहस्य च । ं८।२६२च्/ सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ Bछ्.Sछ्॥ ं८।२६३अ/ सामन्ताश्चेत्मृषा ब्रूयुः सेतौ विवादतां नृणाम् । ं८।२६३च्/ सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ Bछ्.Sछ्॥ ं८।२६४अ/ गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । ं८।२६४च्/ शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतो दमः ॥ Bछ्.Sछ्॥ ं८।२६५अ/ सीमायामविषह्यायां स्वयं राजैव धर्मवित् । ं८।२६५च्/ प्रदिशेद् भूमिमेकेषामुपकारादिति स्थितिः ॥ Bछ्.Sछ्॥ ं८।२६६अ/ एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । ं८।२६६च्/ अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ Bछ्.Sछ्॥ ं८।२६७अ/ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । ं८।२६७च्/ वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ Bछ्.Sछ्॥ ं८।२६८अ/ पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । ं८।२६८च्/ वैश्ये स्यादर्धपञ्चाशत्शूद्रे द्वादशको दमः ॥ Bछ्.Sछ्॥ ं८।२६९अ/ समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । ं८।२६९च्/ वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ Bछ्.Sछ्॥ ं८।२७०अ/ एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । ं८।२७०च्/ जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ Bछ्.Sछ्॥ ं८।२७१अ/ नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः । ं८।२७१च्/ निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ Bछ्.Sछ्॥ ं८।२७२अ/ धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः । ं८।२७२च्/ तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ Bछ्.Sछ्॥ %[ं।श्रौत्रे ] ं८।२७३अ/ श्रुतं देशं च जातिं च कर्म शरीरमेव च ??। ं८।२७३च्/ वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥ Bछ्.Sछ्॥ ं८।२७४अ/ काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम् । ं८।२७४च्/ तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ Bछ्.Sछ्॥ ं८।२७५अ/ मातरं पितरं जायां भ्रातरं तनयं गुरुम् । ं८।२७५च्/ आक्षारयंशतं दाप्यः पन्थानं चाददद् गुरोः ॥ Bछ्.Sछ्॥ ं८।२७६अ/ ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता । ं८।२७६च्/ ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ Bछ्.Sछ्॥ ं८।२७७अ/ विट् शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । ं८।२७७च्/ छेदवर्जं प्रणयनं दण्डस्यैति विनिश्चयः ॥ Bछ्.Sछ्॥ ं८।२७८अ/ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । ं८।२७८च्/ अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ Bछ्.Sछ्॥ ं८।२७९अ/ येन केन चिदङ्गेन हिंस्याच्चेत्श्रेष्ठमन्त्यजः । ं८।२७९च्/ छेत्तव्यं तद् तदेवास्य तन् मनोरनुशासनम् ॥ Bछ्.Sछ्॥ ं८।२८०अ/ पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति । ं८।२८०च्/ पादेन प्रहरन् कोपात् पादच्छेदनमर्हति ॥ Bछ्.Sछ्॥ ं८।२८१अ/ सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । ं८।२८१च्/ कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥ Bछ्.Sछ्॥ ं८।२८२अ/ अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः । ं८।२८२च्/ अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ॥ Bछ्.Sछ्॥ ं८।२८३अ/ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । ं८।२८३च्/ पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥ Bछ्.Sछ्॥ ं८।२८४अ/ त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । ं८।२८४च्/ मांसभेत्ता तु षट् निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥ Bछ्.Sछ्॥ ं८।२८५अ/ वनस्पतीनां सर्वेषामुपभोगो यथा यथा । ं८।२८५च्/ यथा तथा दमः कार्यो हिंसायामिति धारणा ॥ Bछ्.Sछ्॥ ं८।२८६अ/ मनुष्याणां पशूनां च दुःखाय प्रहृते सति । ं८।२८६च्/ यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥ Bछ्.Sछ्॥ ं८।२८७अ/ अङ्गावपीडनायां च व्रणशोणितयोस्तथा । %[ं।प्राणशोनितयोः ] ं८।२८७च्/ समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ Bछ्.Sछ्॥ ं८।२८८अ/ द्रव्याणि हिंस्याद् यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । ं८।२८८च्/ स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ Bछ्.Sछ्॥ ं८।२८९अ/ चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु । ं८।२८९च्/ मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ Bछ्.Sछ्॥ ं८।२९०अ/ यानस्य चैव यातुश्च यानस्वामिन एव च । ं८।२९०च्/ दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ Bछ्.Sछ्॥ ं८।२९१अ/ छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते । ं८।२९१च्/ अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ Bछ्.Sछ्॥ ं८।२९२अ/ छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । ं८।२९२च्/ आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं८।२९३अ/ यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु । ं८।२९३च्/ तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ Bछ्.Sछ्॥ ं८।२९४अ/ प्राजकश्चेद् भवेदाप्तः प्राजको दण्डमर्हति । ं८।२९४च्/ युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ Bछ्.Sछ्॥ ं८।२९५अ/ स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा । ं८।२९५च्/ प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारितः ॥ Bछ्.Sछ्॥ ं८।२९६अ/ मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् । ं८।२९६च्/ प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ Bछ्.Sछ्॥ ं८।२९७अ/ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । ं८।२९७च्/ पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥ Bछ्.Sछ्॥ ं८।२९८अ/ गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः । %[ं।पाञ्चमाषिकः] ं८।२९८च्/ माषिकस्तु भवेद् दण्डः श्वसूकरनिपातने ॥ Bछ्.Sछ्॥ ं८।२९९अ/ भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सौदरः । ं८।२९९च्/ प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ Bछ्.Sछ्॥ ं८।३००अ/ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन । ं८।३००च्/ अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥ Bछ्.Sछ्॥ ं८।३०१अ/ एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । ं८।३०१च्/ स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ Bछ्.Sछ्॥ ं८।३०२अ/ परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः । ं८।३०२च्/ स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ Bछ्.Sछ्॥ ं८।३०३अ/ अभयस्य हि यो दाता स पूज्यः सततं नृपः । ं८।३०३च्/ सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ Bछ्.Sछ्॥ ं८।३०४अ/ सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । ं८।३०४च्/ अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ Bछ्.Sछ्॥ ं८।३०५अ/ यदधीते यद् यजते यद् ददाति यदर्चति । ं८।३०५च्/ तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥ Bछ्.Sछ्॥ ं८।३०६अ/ रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् । ं८।३०६च्/ यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ Bछ्.Sछ्॥ ं८।३०७अ/ योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः । ं८।३०७च्/ प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ Bछ्.Sछ्॥ ं८।३०८अ/ अरक्षितारं राजानं बलिषड्भागहारिणम् । %[क्: अरक्षितारमत्तारं] ं८।३०८च्/ तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ Bछ्.Sछ्॥ ं८।३०९अ/ अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् । %[ंऽनवेक्षितमर्यादं ] ं८।३०९च्/ अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ Bछ्.Sछ्॥ ं८।३१०अ/ अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः । ं८।३१०च्/ निरोधनेन बन्धेन विविधेन वधेन च ॥ Bछ्.Sछ्॥ ं८।३११अ/ निग्रहेण हि पापानां साधूनां सङ्ग्रहेण च । ं८।३११च्/ द्विजातय इवैज्याभिः पूयन्ते सततं नृपाः ॥ Bछ्.Sछ्॥ ं८।३१२अ/ क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । ं८।३१२च्/ बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ Bछ्.Sछ्॥ ं८।३१३अ/ यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते । ं८।३१३च्/ यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ Bछ्.Sछ्॥ ं८।३१४अ/ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । %[ं। धीमता ] ं८।३१४च्/ आचक्षाणेन तत् स्तेयमेवङ्कर्माऽस्मि शाधि माम् ॥ Bछ्.Sछ्॥ ं८।३१५अ/ स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरम् । %[ंंउशलं ] ं८।३१५च्/ शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ Bछ्.Sछ्॥ ं८।३१६अ/ शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते । ं८।३१६च्/ अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ Bछ्.Sछ्॥ ं८।३१७अ/ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । ं८।३१७च्/ गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ Bछ्.Sछ्॥ ं८।३१८अ/ राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । %[ं राजभिर्धृतदण्डास्तु] ं८।३१८च्/ निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ Bछ्.Sछ्॥ ं८।३१९अ/ यस्तु रज्जुं घटं कूपाद्द् हरेद् भिन्द्याच्च यः प्रपाम् । ं८।३१९च्/ स दण्डं प्राप्नुयान् माषं तच्च तस्मिन् समाहरेत् ॥ Bछ्.Sछ्॥ ं८।३२०अ/ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । ं८।३२०च्/ शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद् धनम् ॥ Bछ्.Sछ्॥ ं८।३२१अ/ तथा धरिममेयानां शतादभ्यधिके वधः । ं८।३२१च्/ सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ Bछ्.Sछ्॥ ं८।३२२अ/ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । ं८।३२२च्/ शेषे त्वेकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं८।३२३अ/ पुरुषाणां कुलीनानां नारीणां च विशेषतः । ं८।३२३च्/ मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥ Bछ्.Sछ्॥ ं८।३२४अ/ महापशूनां हरणे शस्त्राणामौषधस्य च । ं८।३२४च्/ कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं८।३२५अ/ गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने । %[ं।खरिकायाश्च] ं८।३२५च्/ पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ Bछ्.Sछ्॥ ं८।३२६अ/ सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च । ं८।३२६च्/ दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ Bछ्.Sछ्॥ ं८।३२७अ/ वेणुवैदलभाण्डानां लवणानां तथैव च । ं८।३२७च्/ मृण्मयानां च हरणे मृदो भस्मन एव च ॥ Bछ्.Sछ्॥ ं८।३२८अ/ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । ं८।३२८च्/ मांसस्य मधुनश्चैव यच्चान्यत् पशुसंभवम् ॥ Bछ्.Sछ्॥ ं८।३२९अ/ अन्येषां चैवमादीनां मद्यानामोदनस्य च । %[ंॅहैवमादीनामद्यानाम्] ं८।३२९च्/ पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ॥ Bछ्.Sछ्॥ ं८।३३०अ/ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । ं८।३३०च्/ अन्येष्वपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ Bछ्.Sछ्॥ ं८।३३१अ/ परिपूतेषु धान्येषु शाकमूलफलेषु च । ं८।३३१च्/ निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ Bछ्.Sछ्॥ ं८।३३२अ/ स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत् कृतम् । ं८।३३२च्/ निरन्वयं भवेत् स्तेयं हृत्वाऽपव्ययते च यत् ॥ Bछ्.Sछ्॥ ं८।३३३अ/ यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः । ं८।३३३च्/ तमाद्यं दण्डयेद् राजा यश्चाग्निं चोरयेद् गृहात् ॥ Bछ्.Sछ्॥ %[ं।तं शतं] ं८।३३४अ/ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । ं८।३३४च्/ तत् तदेव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥ Bछ्.Sछ्॥ ं८।३३५अ/ पिताऽचार्यः सुहृत्माता भार्या पुत्रः पुरोहितः । ं८।३३५च्/ नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ Bछ्.Sछ्॥ ं८।३३६अ/ कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः । ं८।३३६च्/ तत्र राजा भवेद् दण्ड्यः सहस्रमिति धारणा ॥ Bछ्.Sछ्॥ ं८।३३७अ/ अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । ं८।३३७च्/ षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ Bछ्.Sछ्॥ ं८।३३८अ/ ब्राह्मणस्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत् । ं८।३३८च्/ द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्द् हि सः ॥ Bछ्.Sछ्॥ ं८।३३९अ/ वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च । ं८।३३९च्/ तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं८।३४०अ/ योऽदत्तादायिनो हस्तात्लिप्सेत ब्राह्मणो धनम् । ं८।३४०च्/ याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ Bछ्.Sछ्॥ ं८।३४१अ/ द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । ं८।३४१च्/ आददानः परक्षेत्रात्न दण्डं दातुमर्हति ॥ Bछ्.Sछ्॥ ं८।३४२अ/ असंदितानां संदाता संदितानां च मोक्षकः । ं८।३४२च्/ दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ॥ Bछ्.Sछ्॥ ं८।३४३अ/ अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । ं८।३४३च्/ यशोऽस्मिन् प्राप्नुयात्लोके प्रेत्य चानुत्तमं सुखम् ॥ Bछ्.Sछ्॥ ं८।३४४अ/ ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् । ं८।३४४च्/ नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ Bछ्.Sछ्॥ ं८।३४५अ/ वाग्दुष्टात् तस्कराच्चैव दण्डेनैव च हिंसतः । ं८।३४५च्/ साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ Bछ्.Sछ्॥ ं८।३४६अ/ साहसे वर्तमानं तु यो मर्षयति पार्थिवः । ं८।३४६च्/ स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ Bछ्.Sछ्॥ ं८।३४७अ/ न मित्रकारणाद् राजा विपुलाद् वा धनागमात् । ं८।३४७च्/ समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥ Bछ्.Sछ्॥ ं८।३४८अ/ शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । ं८।३४८च्/ द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ Bछ्.Sछ्॥ ं८।३४९अ/ आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे । ं८।३४९च्/ स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ Bछ्.Sछ्॥ ं८।३५०अ/ गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । ं८।३५०च्/ आततायिनमायान्तं हन्यादेवाविचारयन् ॥ Bछ्.Sछ्॥ ं८।३५१अ/ नाततायिवधे दोषो हन्तुर्भवति कश्चन । ं८।३५१च्/ प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ Bछ्.Sछ्॥ ं८।३५२अ/ परदाराभिमर्शेषु प्रवृत्तान्नॄन् महीपतिः । ं८।३५२च्/ उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥ Bछ्.Sछ्॥ %[ंॅहिह्नयित्वा)] ं८।३५३अ/ तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः । ं८।३५३च्/ येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥ Bछ्.Sछ्॥ ं८।३५४अ/ परस्य पत्न्या पुरुषः संभाषां योजयन् रहः । ं८।३५४च्/ पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ Bछ्.Sछ्॥ ं८।३५५अ/ यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् ??। ं८।३५५च्/ न दोषं प्राप्नुयात् किं चिन्न हि तस्य व्यतिक्रमः ॥ Bछ्.Sछ्॥ ं८।३५६अ/ परस्त्रियं योऽभिवदेत् तीर्थेऽरण्ये वनेऽपि वा । ं८।३५६च्/ नदीनां वाऽपि संभेदे स सङ्ग्रहणमाप्नुयात् ॥ Bछ्.Sछ्॥ ं८।३५७अ/ उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । %[ंउपकारक्रिया] ं८।३५७च्/ सह खट्वाऽसनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥ Bछ्.Sछ्॥ ं८।३५८अ/ स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया । ं८।३५८च्/ परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥ Bछ्.Sछ्॥ ं८।३५९अ/ अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डमर्हति । ं८।३५९च्/ चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ Bछ्.Sछ्॥ ं८।३६०अ/ भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । ं८।३६०च्/ संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ Bछ्.Sछ्॥ ं८।३६१अ/ न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । ं८।३६१च्/ निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥ Bछ्.Sछ्॥ ं८।३६२अ/ नैष चारणदारेषु विधिर्नात्मोपजीविषु । ं८।३६२च्/ सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ Bछ्.Sछ्॥ ं८।३६३अ/ किं चिदेव तु दाप्यः स्यात् संभाषां ताभिराचरन् । ं८।३६३च्/ प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ Bछ्.Sछ्॥ %[ं।प्रेष्यासु ] ं८।३६४अ/ योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति । ं८।३६४च्/ सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ Bछ्.Sछ्॥ ं८।३६५अ/ कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् । ं८।३६५च्/ जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥ Bछ्.Sछ्॥ ं८।३६६अ/ उत्तमां सेवमानस्तु जघन्यो वधमर्हति । ं८।३६६च्/ शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि ॥ Bछ्.Sछ्॥ ं८।३६७अ/ अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः । ं८।३६७च्/ तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ Bछ्.Sछ्॥ %[ं।कर्त्या अङ्गुल्यो ] ं८।३६८अ/ सकामां दूषयंस्तुल्यो नाङ्गुलिछेदमाप्नुयात् । ं८।३६८च्/ द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ Bछ्.Sछ्॥ ं८।३६९अ/ कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः । ं८।३६९च्/ शुल्कं च द्विगुणं दद्यात्शिफाश्चैवाप्नुयाद् दश ॥ Bछ्.Sछ्॥ ं८।३७०अ/ या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यमर्हति । ं८।३७०च्/ अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ Bछ्.Sछ्॥ ं८।३७१अ/ भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता । ं८।३७१च्/ तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ Bछ्.Sछ्॥ ं८।३७२अ/ पुमांसं दाहयेत् पापं शयने तप्त आयसे । ं८।३७२च्/ अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ Bछ्.Sछ्॥ ं८।३७३अ/ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । %[ं।संवत्सरेऽभिशस्तस्य] ं८।३७३च्/ व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ Bछ्.Sछ्॥ ं८।३७४अ/ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । ं८।३७४च्/ अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥ Bछ्.Sछ्॥ %[ंऽङ्गसर्वस्वी] ं८।३७५अ/ वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः । ं८।३७५च्/ सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ Bछ्.Sछ्॥ ं८।३७६अ/ ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । ं८।३७६च्/ वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ Bछ्.Sछ्॥ ं८।३७७अ/ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । ं८।३७७च्/ विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ Bछ्.Sछ्॥ ं८।३७८अ/ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । ं८।३७८च्/ शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ Bछ्.Sछ्॥ ं८।३७९अ/ मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते । %[ं।प्राणान्तको][ं'ः चों रेफ़ेर्स्तो थे रेऽदिन्गोफ़् ᳚प्राणान्तिक᳚।] ं८।३७९च्/ इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ Bछ्.Sछ्॥ %[ं।प्राणान्तको ] ं८।३८०अ/ न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् । ं८।३८०च्/ राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् ॥ Bछ्.Sछ्॥ ं८।३८१अ/ न ब्राह्मणवधाद् भूयानधर्मो विद्यते भुवि । ं८।३८१च्/ तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ Bछ्.Sछ्॥ ं८।३८२अ/ वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । ं८।३८२च्/ यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ Bछ्.Sछ्॥ ं८।३८३अ/ सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । ं८।३८३च्/ शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥ Bछ्.Sछ्॥ %[ं।शूद्राया] ं८।३८४अ/ क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः । ं८।३८४च्/ मूत्रेण मौण्ड्यमिच्छेत् तु क्षत्रियो दण्डमेव वा ॥ Bछ्.Sछ्॥ %[ं।ऋच्छेत् तु] ं८।३८५अ/ अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । ं८।३८५च्/ शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्वन्त्यजस्त्रियम् ॥ Bछ्.Sछ्॥ ं८।३८६अ/ यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । ं८।३८६च्/ न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ Bछ्.Sछ्॥ ं८।३८७अ/ एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । ं८।३८७च्/ सांराज्यकृत् सजात्येषु लोके चैव यशस्करः ??॥ Bछ्.Sछ्॥ ं८।३८८अ/ ऋत्विजं यस्त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि । ं८।३८८च्/ शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ Bछ्.Sछ्॥ ं८।३८९अ/ न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । ं८।३८९च्/ त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ Bछ्.Sछ्॥ ं८।३९०अ/ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । ं८।३९०च्/ न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ॥ Bछ्.Sछ्॥ ं८।३९१अ/ यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । ं८।३९१च्/ सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ Bछ्.Sछ्॥ ं८।३९२अ/ प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । ं८।३९२च्/ अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ॥ Bछ्.Sछ्॥ ं८।३९३अ/ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । ं८।३९३च्/ तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ Bछ्.Sछ्॥ %[ं। हैरण्यं ] ं८।३९४अ/ अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । ं८।३९४च्/ श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित् करम् ॥ Bछ्.Sछ्॥ ं८।३९५अ/ श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् । ं८।३९५च्/ महाकुलीनमार्यं च राजा सम्पूजयेत् सदा ॥ Bछ्.Sछ्॥ ं८।३९६अ/ शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः । ं८।३९६च्/ न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ Bछ्.Sछ्॥ ं८।३९७अ/ तन्तुवायो दशपलं दद्यादेकपलाधिकम् । ं८।३९७च्/ अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ Bछ्.Sछ्॥ ं८।३९८अ/ शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । ं८।३९८च्/ कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ Bछ्.Sछ्॥ ं८।३९९अ/ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । ं८।३९९च्/ ताणि निर्हरतो लोभात् सर्वहारं हरेन्नृपः ॥ Bछ्.Sछ्॥ ं८।४००अ/ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । ं८।४००च्/ मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ Bछ्.Sछ्॥ ं८।४०१अ/ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । ं८।४०१च्/ विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ Bछ्.Sछ्॥ ं८।४०२अ/ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते । ं८।४०२च्/ कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ Bछ्.Sछ्॥ ं८।४०३अ/ तुलामानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् । ं८।४०३च्/ षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ Bछ्.Sछ्॥ ं८।४०४अ/ पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । ं८।४०४च्/ पादं पशुश्च योषित्च पादार्धं रिक्तकः पुमान् ॥ Bछ्.Sछ्॥ %[ं।पादे] ं८।४०५अ/ भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । ं८।४०५च्/ रिक्तभाण्डानि यत् किं चित् पुमांसश्चपरिच्छदाः ॥ Bछ्.Sछ्॥ ं८।४०६अ/ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । ं८।४०६च्/ नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥ Bछ्.Sछ्॥ ं८।४०७अ/ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ं८।४०७च्/ ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ Bछ्.Sछ्॥ ं८।४०८अ/ यन्नावि किं चिद् दाशानां विशीर्येतापराधतः । ं८।४०८च्/ तद् दाशैरेव दातव्यं समागम्य स्वतोऽंशतः ॥ Bछ्.Sछ्॥ ं८।४०९अ/ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः । ं८।४०९च्/ दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ Bछ्.Sछ्॥ ं८।४१०अ/ वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिमेव च । ं८।४१०च्/ पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ Bछ्.Sछ्॥ ं८।४११अ/ क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । ं८।४११च्/ बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ Bछ्.Sछ्॥ ं८।४१२अ/ दास्यं तु कारयन्लोभाद् ब्राह्मणः संस्कृतान् द्विजान् । ं८।४१२च्/ अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥ Bछ्.Sछ्॥ ं८।४१३अ/ शूद्रं तु कारयेद् दास्यं क्रीतमक्रीतमेव वा । ं८।४१३च्/ दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ॥ Bछ्.Sछ्॥ ं८।४१४अ/ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद् विमुच्यते । ं८।४१४च्/ निसर्गजं हि तत् तस्य कस्तस्मात् तदपोहति ॥ Bछ्.Sछ्॥ ं८।४१५अ/ ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । ं८।४१५च्/ पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥ Bछ्.Sछ्॥ ं८।४१६अ/ भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । ं८।४१६च्/ यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ Bछ्.Sछ्॥ ं८।४१७अ/ विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानमाचरेत् । ं८।४१७च्/ न हि तस्यास्ति किं चित् स्वं भर्तृहार्यधनो हि सः ॥ Bछ्.Sछ्॥ ं८।४१८अ/ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । ं८।४१८च्/ तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ Bछ्.Sछ्॥ ं८।४१९अ/ अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । ं८।४१९च्/ आयव्ययौ च नियतावाकरान् कोशमेव च ॥ Bछ्.Sछ्॥ ं८।४२०अ/ एवं सर्वानिमान् राजा व्यवहारान् समापयन् । ं८।४२०च्/ व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ Bछ्.Sछ्॥

अध्याय ९

ं९।०१अ/ पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः । %[ं।धर्म्ये ] ं९।०१च्/ संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ Bछ्.Sछ्॥ ं९।०२अ/ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । ं९।०२च्/ विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ Bछ्.Sछ्॥ ं९।०३अ/ पिता रक्षति कौमारे भर्ता रक्षति यौवने । ं९।०३च्/ रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ Bछ्.Sछ्॥ ं९।०४अ/ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः । ं९।०४च्/ मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ Bछ्.Sछ्॥ ं९।०५अ/ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । %[ं।स्त्रिया] ं९।०५च्/ द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ Bछ्.Sछ्॥ ं९।०६अ/ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । ं९।०६च्/ यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ Bछ्.Sछ्॥ ं९।०७अ/ स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च । ं९।०७च्/ स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ Bछ्.Sछ्॥ ं९।०८अ/ पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वैह जायते । ं९।०८च्/ जायायास्तद् हि जायात्वं यदस्यां जायते पुनः ॥ Bछ्.Sछ्॥ ं९।०९अ/ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । ं९।०९च्/ तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥ Bछ्.Sछ्॥ ं९।१०अ/ न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् । ं९।१०च्/ एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ Bछ्.Sछ्॥ ं९।११अ/ अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् । ं९।११च्/ शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ Bछ्.Sछ्॥ ं९।१२अ/ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । ं९।१२च्/ आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ Bछ्.Sछ्॥ ं९।१३अ/ पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । ं९।१३च्/ स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ Bछ्.Sछ्॥ ं९।१४अ/ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । ं९।१४च्/ सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ Bछ्.Sछ्॥ ं९।१५अ/ पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । %[ंंऐःस्नेह्याच्] ं९।१५च्/ रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ Bछ्.Sछ्॥ ं९।१६अ/ एवं स्वभावं ज्ञात्वाऽसां प्रजापतिनिसर्गजम् । ं९।१६च्/ परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥ Bछ्.Sछ्॥ ं९।१७अ/ शय्याऽऽसनमलङ्कारं कामं क्रोधमनार्जवम् । ं:अनार्यतां ] ं९।१७च्/ द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥ Bछ्.Sछ्॥ %[ं।द्रोग्धृभावं] ं९।१८अ/ नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः । ं९।१८च्/ निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्यो अनृतमिति स्थितिः ॥ Bछ्.Sछ्॥ %[ं।स्त्रियो] ं९।१९अ/ तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि । ं९।१९च्/ स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ Bछ्.Sछ्॥ ं९।२०अ/ यन् मे माता प्रलुलुभे विचरन्त्यपतिव्रता । ं९।२०च्/ तन् मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ॥ Bछ्.Sछ्॥ ं९।२१अ/ ध्यायत्यनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा । ं९।२१च्/ तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ Bछ्.Sछ्॥ ं९।२२अ/ यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । ं९।२२च्/ तादृग्गुणा सा भवति समुद्रेणैव निम्नगा ॥ Bछ्.Sछ्॥ ं९।२३अ/ अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा । ं९।२३च्/ शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ Bछ्.Sछ्॥ ं९।२४अ/ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः । %[ंऽवकृष्टप्रसूतयः] ं९।२४च्/ उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ॥ Bछ्.Sछ्॥ ं९।२५अ/ एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा । ं९।२५च्/ प्रेत्यैह च सुखोदर्कान् प्रजाधर्मान्निबोधत ॥ Bछ्.Sछ्॥ ं९।२६अ/ प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । ं९।२६च्/ स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ Bछ्.Sछ्॥ ं९।२७अ/ उत्पादनमपत्यस्य जातस्य परिपालनम् । ं९।२७च्/ प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ Bछ्.Sछ्॥ %[ं।प्रत्यर्थं ] ं९।२८अ/ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । ं९।२८च्/ दाराऽधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ Bछ्.Sछ्॥ ं९।२९अ/ पतिं या नाभिचरति मनोवाग्देहसंयता । ं९।२९च्/ सा भर्तृलोकानाप्नोति सद्भिः साध्वीइति चोच्यते ॥ Bछ्.Sछ्॥ ं९।३०अ/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । ं९।३०च्/ सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥ Bछ्.Sछ्॥ %[ं।शृगालयोनिं] ं९।३१अ/ पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः । ं९।३१च्/ विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ Bछ्.Sछ्॥ ं९।३२अ/ भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि । %[ं। भर्तुः ] ं९।३२च्/ आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः ॥ Bछ्.Sछ्॥ ं९।३३अ/ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । ं९।३३च्/ क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ॥ Bछ्.Sछ्॥ ं९।३४अ/ विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस्त्वेव कुत्र चित् । ं९।३४च्/ उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ Bछ्.Sछ्॥ ं९।३५अ/ बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते । ं९।३५च्/ सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ Bछ्.Sछ्॥ ं९।३६अ/ यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । ं९।३६च्/ तादृग् रोहति तत् तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ॥ Bछ्.Sछ्॥ ं९।३७अ/ इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते । ं९।३७च्/ न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ॥ Bछ्.Sछ्॥ ं९।३८अ/ भूमावप्येककेदारे कालोप्तानि कृषीवलैः । ं९।३८च्/ नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥ Bछ्.Sछ्॥ ं९।३९अ/ व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः । ं९।३९च्/ यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥ Bछ्.Sछ्॥ ं९।४०अ/ अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते । ं९।४०च्/ उप्यते यद् हि यद् बीजं तत् तदेव प्ररोहति ॥ Bछ्.Sछ्॥ ं९।४१अ/ तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । ं९।४१च्/ आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ Bछ्.Sछ्॥ ं९।४२अ/ अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । ं९।४२च्/ यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ Bछ्.Sछ्॥ ं९।४३अ/ नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः । ं९।४३च्/ तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥ Bछ्.Sछ्॥ %[ं।क्षिप्तं] ं९।४४अ/ पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः । ं९।४४च्/ स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम् ॥ Bछ्.Sछ्॥ ं९।४५अ/ एतावानेव पुरुषो यत्जायाऽत्मा प्रजैति ह । ं९।४५च्/ विप्राः प्राहुस्तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥ Bछ्.Sछ्॥ ं९।४६अ/ न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते । ं९।४६च्/ एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥ Bछ्.Sछ्॥ ं९।४७अ/ सकृदंशो निपतति सकृत् कन्या प्रदीयते । ं९।४७च्/ सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ Bछ्.Sछ्॥ %[ं।ददामीति] ं९।४८अ/ यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च । ं९।४८च्/ नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥ Bछ्.Sछ्॥ ं९।४९अ/ येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ं९।४९च्/ ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥ Bछ्.Sछ्॥ ं९।५०अ/ यदन्यगोषु वृषभो वत्सानां जनयेत्शतम् । ं९।५०च्/ गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥ Bछ्.Sछ्॥ ं९।५१अ/ तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । ं९।५१च्/ कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥ Bछ्.Sछ्॥ ं९।५२अ/ फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । ं९।५२च्/ प्रत्यक्षं क्षेत्रिणामर्थो बीजाद् योनिर्गलीयसी ??॥ Bछ्.Sछ्॥ %[ं।बरीयसी ] ं९।५३अ/ क्रियाभ्युपगमात् त्वेतद् बीजार्थं यत् प्रदीयते । ं९।५३च्/ तस्यैह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ Bछ्.Sछ्॥ ं९।५४अ/ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । ं९।५४च्/ क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ॥ Bछ्.Sछ्॥ %[ंंअ बीजी लभते फलम्] ं९।५५अ/ एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च । ं९।५५च्/ विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ Bछ्.Sछ्॥ ं९।५६अ/ एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । ं९।५६च्/ अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ Bछ्.Sछ्॥ ं९।५७अ/ भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा । ं९।५७च्/ यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ Bछ्.Sछ्॥ ं९।५८अ/ ज्येष्ठो यवीयसो भार्यां यवीयान् वाऽग्रजस्त्रियम् । ं९।५८च्/ पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ Bछ्.Sछ्॥ ं९।५९अ/ देवराद् वा सपिण्डाद् वा स्त्रिया सम्यक्नियुक्तया । ं९।५९च्/ प्रजेप्सिताऽऽधिगन्तव्या संतानस्य परिक्षये ॥ Bछ्.Sछ्॥ ं९।६०अ/ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । ं९।६०च्/ एकमुत्पादयेत् पुत्रं न द्वितीयं कथं चन ॥ Bछ्.Sछ्॥ ं९।६१अ/ द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । ं९।६१च्/ अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ Bछ्.Sछ्॥ %[ंऽनिर्वृत्तं] ं९।६२अ/ विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । %[ंंइवृत्ते ] ं९।६२च्/ गुरुवत्च स्नुषावत्च वर्तेयातां परस्परम् ॥ Bछ्.Sछ्॥ ं९।६३अ/ नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः । ं९।६३च्/ तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ Bछ्.Sछ्॥ ं९।६४अ/ नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । ं९।६४च्/ अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ Bछ्.Sछ्॥ ं९।६५अ/ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् । ं९।६५च्/ न विवाहविधावुक्तं विधवावेदनं पुनः ॥ Bछ्.Sछ्॥ ं९।६६अ/ अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । ं९।६६च्/ मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ Bछ्.Sछ्॥ ं९।६७अ/ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा । ं९।६७च्/ वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥ Bछ्.Sछ्॥ ं९।६८अ/ ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् । ं९।६८च्/ नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ Bछ्.Sछ्॥ ं९।६९अ/ यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । ं९।६९च्/ तामनेन विधानेन निजो विन्देत देवरः ॥ Bछ्.Sछ्॥ ं९।७०अ/ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । ं९।७०च्/ मिथो भजेता प्रसवात् सकृत्सकृद् ऋतावृतौ ॥ Bछ्.Sछ्॥ ं९।७१अ/ न दत्त्वा कस्य चित् कन्यां पुनर्दद्याद् विचक्षणः । ं९।७१च्/ दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ Bछ्.Sछ्॥ ं९।७२अ/ विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् । ं९।७२च्/ व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ Bछ्.Sछ्॥ ं९।७३अ/ यस्तु दोषवतीं कन्यामनाख्यायौपपादयेत् । ं९।७३च्/ तस्य तद् वितथं कुर्यात् कन्यादातुर्दुरात्मनः ॥ Bछ्.Sछ्॥ ं९।७४अ/ विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान्नरः । ं९।७४च्/ अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि ॥ Bछ्.Sछ्॥ ं९।७५अ/ विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता । ं९।७५च्/ प्रोषिते त्वविधायैव जीवेत्शिल्पैरगर्हितैः ॥ Bछ्.Sछ्॥ ं९।७६अ/ प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः । ं९।७६च्/ विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ॥ Bछ्.Sछ्॥ ं९।७७अ/ संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । %[ं।द्विषाणां] ं९।७७च्/ ऊर्ध्वं संवत्सरात् त्वेनां दायं हृत्वा न संवसेत् ॥ Bछ्.Sछ्॥ ं९।७८अ/ अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तमेव वा । ं९।७८च्/ सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥ Bछ्.Sछ्॥ ं९।७९अ/ उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् । ं९।७९च्/ न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ॥ Bछ्.Sछ्॥ ं९।८०अ/ मद्यपाऽसाधुवृत्ता च प्रतिकूला च या भवेत् । %[ंंअद्यपासत्यवृत्ता ] ं९।८०च्/ व्याधिता वाऽधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ॥ Bछ्.Sछ्॥ ं९।८१अ/ वन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा । ं९।८१च्/ एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ Bछ्.Sछ्॥ ं९।८२अ/ या रोगिणी स्यात् तु हिता सम्पन्ना चैव शीलतः । ं९।८२च्/ साऽनुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥ Bछ्.Sछ्॥ ं९।८३अ/ अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् । ं९।८३च्/ सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ Bछ्.Sछ्॥ ं९।८४अ/ प्रतिषिद्धाऽपि चेद् या तु मद्यमभ्युदयेष्वपि । %[ ं।प्रतिषेधे पिबेद् या तु] ं९।८४च्/ प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥ Bछ्.Sछ्॥ ं९।८५अ/ यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः । ं९।८५च्/ तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ॥ Bछ्.Sछ्॥ ं९।८६अ/ भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । ं९।८६च्/ स्वा चैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ॥ Bछ्.Sछ्॥ %[ं।स्वा स्वैव] ं९।८७अ/ यस्तु तत् कारयेन् मोहात् सजात्या स्थितयाऽन्यया । ं९।८७च्/ यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ Bछ्.Sछ्॥ ं९।८८अ/ उत्कृष्टायाभिरूपाय वराय सदृशाय च । ं९।८८च्/ अप्राप्तामपि तां तस्मै कन्यां दद्याद् यथाविधि ॥ Bछ्.Sछ्॥ ं९।८९अ/ काममामरणात् तिष्ठेद् गृहे कन्यार्तुमत्यपि । ं९।८९च्/ न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हि चित् ॥ Bछ्.Sछ्॥ ं९।९०अ/ त्रीणि वर्षाण्युदीक्षेत कुमार्यर्तुमती सती । ं९।९०च्/ ऊर्ध्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् ॥ Bछ्.Sछ्॥ ं९।९१अ/ अदीयमाना भर्तारमधिगच्छेद् यदि स्वयम् । ं९।९१च्/ नैनः किं चिदवाप्नोति न च यं साऽधिगच्छति ॥ Bछ्.Sछ्॥ ं९।९२अ/ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । ं९।९२च्/ मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ॥ Bछ्.Sछ्॥ ं९।९३अ/ पित्रे न दद्यात्शुल्कं तु कन्यां ऋतुमतीं हरन् । ं९।९३च्/ स च स्वाम्यादतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥ Bछ्.Sछ्॥ ं९।९४अ/ त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् । ं९।९४च्/ त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ Bछ्.Sछ्॥ ं९।९५अ/ देवदत्तां पतिर्भार्यां विन्दते नेच्छयाऽत्मनः । ं९।९५च्/ तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥ Bछ्.Sछ्॥ ं९।९६अ/ प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः । ं९।९६च्/ तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ Bछ्.Sछ्॥ ं९।९७अ/ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । ं९।९७च्/ देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥ Bछ्.Sछ्॥ ं९।९८अ/ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । ं९।९८च्/ शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ Bछ्.Sछ्॥ ं९।९९अ/ एतत् तु न परे चक्रुर्नापरे जातु साधवः । ं९।९९च्/ यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ Bछ्.Sछ्॥ ं९।१००अ/ नानुशुश्रुम जात्वेतत् पूर्वेष्वपि हि जन्मसु । ं९।१००च्/ शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ Bछ्.Sछ्॥ ं९।१०१अ/ अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः । ं९।१०१च्/ एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ Bछ्.Sछ्॥ ं९।१०२अ/ तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । ं९।१०२च्/ यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ Bछ्.Sछ्॥ %[ंंआतिचरेतां ] ं९।१०३अ/ एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः । ं९।१०३च्/ आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ॥ Bछ्.Sछ्॥ ं९।१०४अ/ ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । ं९।१०४च्/ भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ Bछ्.Sछ्॥ ं९।१०५अ/ ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः । ं९।१०५च्/ शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ Bछ्.Sछ्॥ ं९।१०६अ/ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । ं९।१०६च्/ पितॄणामनृणश्चैव स तस्मात् सर्वमर्हति ॥ Bछ्.Sछ्॥ ं९।१०७अ/ यस्मिनृणं संनयति येन चानन्त्यमश्नुते । ं९।१०७च्/ स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥ Bछ्.Sछ्॥ ं९।१०८अ/ पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रातॄन् यवीयसः । ं९।१०८च्/ पुत्रवत्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ Bछ्.Sछ्॥ ं९।१०९अ/ ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । ं९।१०९च्/ ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ॥ Bछ्.Sछ्॥ ं९।११०अ/ यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातैव स पितैव सः । ं९।११०च्/ अज्येष्ठवृत्तिर्यस्तु स्यात् स सम्पूज्यस्तु बन्धुवत् ॥ Bछ्.Sछ्॥ ं९।१११अ/ एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया । ं९।१११च्/ पृथग् विवर्धते धर्मस्तस्माद् धर्म्या पृथक्क्रिया ॥ Bछ्.Sछ्॥ ं९।११२अ/ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद् वरम् । ं९।११२च्/ ततोऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ Bछ्.Sछ्॥ ं९।११३अ/ ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । ं९।११३च्/ येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यमं धनम् ॥ Bछ्.Sछ्॥ ं९।११४अ/ सर्वेषां धनजातानामाददीताग्र्यमग्रजः । ं९।११४च्/ यच्च सातिशयं किं चिद् दशतश्चाप्नुयाद् वरम् ॥ Bछ्.Sछ्॥ ं९।११५अ/ उद्धारो न दशस्वस्ति सम्पन्नानां स्वकर्मसु । ं९।११५च्/ यत् किं चिदेव देयं तु ज्यायसे मानवर्धनम् ॥ Bछ्.Sछ्॥ ं९।११६अ/ एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् । ं९।११६च्/ उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ॥ Bछ्.Sछ्॥ ं९।११७अ/ एकाधिकं हरेज् ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः । ं९।११७च्/ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥ ं९।११८अ/ स्वेभ्योंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । %[ं।स्वाभ्यः स्वाभ्यस्तु] ं९।११८च्/ स्वात् स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥ Bछ्.Sछ्॥ ं९।११९अ/ अजाविकं सेकशफं न जातु विषमं भजेत् । %[ंऽजाविकं चैकशफं] ं९।११९च्/ अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ Bछ्.Sछ्॥ ं९।१२०अ/ यवीयान्ज्येष्ठभार्यायां पुत्रमुत्पादयेद् यदि । ं९।१२०च्/ समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥ ं९।१२१अ/ उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते । ं९।१२१च्/ पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ॥ Bछ्.Sछ्॥ ं९।१२२अ/ पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । ं९।१२२च्/ कथं तत्र विभागः स्यादिति चेत् संशयो भवेत् ॥ Bछ्.Sछ्॥ ं९।१२३अ/ एकं वृषभमुद्धारं संहरेत स पूर्वजः । ं९।१२३च्/ ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥ Bछ्.Sछ्॥ ं९।१२४अ/ ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः । ं९।१२४च्/ ततः स्वमातृतः शेषा भजेरन्निति धारणा ॥ Bछ्.Sछ्॥ ं९।१२५अ/ सदृशस्त्रीषु जातानां पुत्राणामविशेषतः । ं९।१२५च्/ न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते ॥ Bछ्.Sछ्॥ ं९।१२६अ/ जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् । ं९।१२६च्/ यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ Bछ्.Sछ्॥ ं९।१२७अ/ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । ं९।१२७च्/ यदपत्यं भवेदस्यां तन् मम स्यात् स्वधाकरम् ॥ Bछ्.Sछ्॥ ं९।१२८अ/ अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः । ं९।१२८च्/ विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ Bछ्.Sछ्॥ ं९।१२९अ/ ददौ स दश धर्माय कश्यपाय त्रयोदश । ं९।१२९च्/ सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ Bछ्.Sछ्॥ ं९।१३०अ/ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । ं९।१३०च्/ तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ Bछ्.Sछ्॥ ं९।१३१अ/ मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः । ं९।१३१च्/ दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥ Bछ्.Sछ्॥ ं९।१३२अ/ दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । ं९।१३२च्/ स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥ Bछ्.Sछ्॥ ं९।१३३अ/ पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । ं९।१३३च्/ तयोर्हि मातापितरौ संभूतौ तस्य देहतः ॥ Bछ्.Sछ्॥ ं९।१३४अ/ पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । ं९।१३४च्/ समस्तत्र विभागः स्यात्ज्येष्ठता नास्ति हि स्त्रियाः ॥ Bछ्.Sछ्॥ ं९।१३५अ/ अपुत्रायां मृतायां तु पुत्रिकायां कथं चन । ं९।१३५च्/ धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ Bछ्.Sछ्॥ ं९।१३६अ/ अकृता वा कृता वाऽपि यं विन्देत् सदृशात् सुतम् । ं९।१३६च्/ पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद् धनम् ॥ Bछ्.Sछ्॥ ं९।१३७अ/ पुत्रेण लोकान्जयति पौत्रेणानन्त्यमश्नुते । ं९।१३७च्/ अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ Bछ्.Sछ्॥ ं९।१३८अ/ पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । ं९।१३८च्/ तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ Bछ्.Sछ्॥ ं९।१३९अ/ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । ं९।१३९च्/ दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ Bछ्.Sछ्॥ ं९।१४०अ/ मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः । ं९।१४०च्/ द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ Bछ्.Sछ्॥ ं९।१४१अ/ उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः । ं९।१४१च्/ स हरेतैव तद्रिक्थं सम्प्राप्तोऽप्यन्यगोत्रतः ॥ Bछ्.Sछ्॥ ं९।१४२अ/ गोत्ररिक्थे जनयितुर्न हरेद् दत्त्रिमः क्व चित् । ं९।१४२च्/ गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ Bछ्.Sछ्॥ ं९।१४३अ/ अनियुक्तासुतश्चैव पुत्रिण्याऽप्तश्च देवरात् । ं९।१४३च्/ उभौ तौ नार्हतो भागं जारजातककामजौ ॥ Bछ्.Sछ्॥ ं९।१४४अ/ नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः । ं९।१४४च्/ नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ Bछ्.Sछ्॥ ं९।१४५अ/ हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः । ं९।१४५च्/ क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश्च सः ॥ Bछ्.Sछ्॥ ं९।१४६अ/ धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव च ??। ं९।१४६च्/ सोऽपत्यं भ्रातुरुत्पाद्य दद्यात् तस्यैव तद्धनम् ॥ Bछ्.Sछ्॥ ं९।१४७अ/ या नियुक्ताऽन्यतः पुत्रं देवराद् वाऽप्यवाप्नुयात् । ं९।१४७च्/ तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥ Bछ्.Sछ्॥ %[ंंइथ्यौत्पन्नं ] ं९।१४८अ/ एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु । ं९।१४८च्/ बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ Bछ्.Sछ्॥ ं९।१४९अ/ ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः । ं९।१४९च्/ तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ Bछ्.Sछ्॥ ं९।१५०अ/ कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । ं९।१५०च्/ विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ Bछ्.Sछ्॥ ं९।१५१अ/ त्र्यंशं दायाद् हरेद् विप्रो द्वावंशौ क्षत्रियासुतः । ं९।१५१च्/ वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ Bछ्.Sछ्॥ ं९।१५२अ/ सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च । ं९।१५२च्/ धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ Bछ्.Sछ्॥ ं९।१५३अ/ चतुरानंशान् हरेद् विप्रस्त्रीनंशान् क्षत्रियासुतः । ं९।१५३च्/ वैश्यापुत्रो हरेद् द्व्यंशमंशं शूद्रासुतो हरेत् ॥ Bछ्.Sछ्॥ ं९।१५४अ/ यद्यपि स्यात् तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् । %[ं।यद्यपि स्यात् तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् ।] ं९।१५४च्/ नाधिकं दशमाद् दद्यात्शूद्रापुत्राय धर्मतः ॥ Bछ्.Sछ्॥ ं९।१५५अ/ ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । ं९।१५५च्/ यदेवास्य पिता दद्यात् तदेवास्य धनं भवेत् ॥ Bछ्.Sछ्॥ ं९।१५६अ/ समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् । ं९।१५६च्/ उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥ Bछ्.Sछ्॥ ं९।१५७अ/ शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । ं९।१५७च्/ तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ Bछ्.Sछ्॥ ं९।१५८अ/ पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः । ं९।१५८च्/ तेषां षड् बन्धुदायादाः षडदायादबान्धवाः ॥ Bछ्.Sछ्॥ ं९।१५९अ/ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । ं९।१५९च्/ गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ Bछ्.Sछ्॥ ं९।१६०अ/ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । ं९।१६०च्/ स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥ Bछ्.Sछ्॥ ं९।१६१अ/ यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम् । ं९।१६१च्/ तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥ Bछ्.Sछ्॥ ं९।१६२अ/ यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । ं९।१६२च्/ यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नैतरः ॥ Bछ्.Sछ्॥ ं९।१६३अ/ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । ं९।१६३च्/ शेषाणामानृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ Bछ्.Sछ्॥ ं९।१६४अ/ षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् । ं९।१६४च्/ औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥ Bछ्.Sछ्॥ ं९।१६५अ/ औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । ं९।१६५च्/ दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ Bछ्.Sछ्॥ ं९।१६६अ/ स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद् हि यम् । ं९।१६६च्/ तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥ Bछ्.Sछ्॥ ं९।१६७अ/ यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । ं९।१६७च्/ स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ Bछ्.Sछ्॥ ं९।१६८अ/ माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । ं९।१६८च्/ सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ Bछ्.Sछ्॥ ं९।१६९अ/ सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् । ं९।१६९च्/ पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ Bछ्.Sछ्॥ ं९।१७०अ/ उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः । ं९।१७०च्/ स गृहे गूढ उत्पन्नस्तस्य स्याद् यस्य तल्पजः ॥ Bछ्.Sछ्॥ ं९।१७१अ/ मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । ं९।१७१च्/ यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ Bछ्.Sछ्॥ ं९।१७२अ/ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः । ं९।१७२च्/ तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ Bछ्.Sछ्॥ ं९।१७३अ/ या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती । ं९।१७३च्/ वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ Bछ्.Sछ्॥ ं९।१७४अ/ क्रीणीयाद् यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । ं९।१७४च्/ स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ Bछ्.Sछ्॥ ं९।१७५अ/ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । ं९।१७५च्/ उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥ Bछ्.Sछ्॥ ं९।१७६अ/ सा चेदक्षतयोनिः स्याद् गतप्रत्यागताऽपि वा । ं९।१७६च्/ पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ॥ Bछ्.Sछ्॥ ं९।१७७अ/ मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । ं९।१७७च्/ आत्मानमर्पयेद् यस्मै स्वयंदत्तस्तु स स्मृतः ॥ Bछ्.Sछ्॥ ं९।१७८अ/ यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् । ं९।१७८च्/ स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥ Bछ्.Sछ्॥ ं९।१७९अ/ दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । ं९।१७९च्/ सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥ ं९।१८०अ/ क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । ं९।१८०च्/ पुत्रप्रतिनिधीनाहुः क्रियालोपान् मनीषिणः ॥ Bछ्.Sछ्॥ ं९।१८१अ/ य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः । ं९।१८१च्/ यस्य ते बीजतो जातास्तस्य ते नैतरस्य तु ॥ Bछ्.Sछ्॥ ं९।१८२अ/ भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेत् । ं९।१८२च्/ सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ Bछ्.Sछ्॥ ं९।१८३अ/ सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत् । ं९।१८३च्/ सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ Bछ्.Sछ्॥ ं९।१८४अ/ श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति । ं९।१८४च्/ बहवश्चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः ॥ Bछ्.Sछ्॥ ं९।१८५अ/ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । ं९।१८५च्/ पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥ Bछ्.Sछ्॥ ं९।१८६अ/ त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते । ं९।१८६च्/ चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते ॥ Bछ्.Sछ्॥ ं९।१८७अ/ अनन्तरः सपिण्डाद् यस्तस्य तस्य धनं भवेत् । ं९।१८७च्/ अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ Bछ्.Sछ्॥ ं९।१८८अ/ सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । ं९।१८८च्/ त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ Bछ्.Sछ्॥ ं९।१८९अ/ अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । ं९।१८९च्/ इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥ Bछ्.Sछ्॥ ं९।१९०अ/ संस्थितस्यानपत्यस्य सगोत्रात् पुत्रमाहरेत् ॥ Bछ्.Sछ्॥ ं९।१९०च्/ तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् । ं९।१९१अ/ द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । ं९।१९१च्/ तयोर्यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नैतरः ॥ Bछ्.Sछ्॥ ं९।१९२अ/ जनन्यां संस्थितायां तु समं सर्वे सहोदराः । ं९।१९२च्/ भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ Bछ्.Sछ्॥ ं९।१९३अ/ यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । %[ः।तस्यां] ं९।१९३च्/ मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ॥ Bछ्.Sछ्॥ ं९।१९४अ/ अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि । ं९।१९४च्/ भ्रातृमातृपितृप्राप्तं षड् विधं स्त्रीधनं स्मृतम् ॥ Bछ्.Sछ्॥ ं९।१९५अ/ अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् । ं९।१९५च्/ पत्यौ जीवति वृत्तायाः प्रजायास्तद् धनं भवेत् ॥ Bछ्.Sछ्॥ ं९।१९६अ/ ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् वसु । ं९।१९६च्/ अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ Bछ्.Sछ्॥ ं९।१९७अ/ यत् त्वस्याः स्याद् धनं दत्तं विवाहेष्वासुरादिषु । ं९।१९७च्/ अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥ Bछ्.Sछ्॥ ं९।१९८अ/ स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन । ं९।१९८च्/ ब्राह्मणी तद् हरेत् कन्या तदपत्यस्य वा भवेत् ॥ Bछ्.Sछ्॥ ं९।१९९अ/ न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् । ं९।१९९च्/ स्वकादपि च वित्ताद् हि स्वस्य भर्तुरनाज्ञया ॥ Bछ्.Sछ्॥ ं९।२००अ/ पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । ं९।२००च्/ न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ Bछ्.Sछ्॥ ं९।२०१अ/ अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । ं९।२०१च्/ उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः ॥ Bछ्.Sछ्॥ ं९।२०२अ/ सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ं९।२०२च्/ ग्रासाच्छादनमत्यन्तं पतितो ह्यददद् भवेत् ॥ Bछ्.Sछ्॥ ं९।२०३अ/ यद्यर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन । ं९।२०३च्/ तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ Bछ्.Sछ्॥ ं९।२०४अ/ यत् किं चित् पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । ं९।२०४च्/ भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ Bछ्.Sछ्॥ ं९।२०५अ/ अविद्यानां तु सर्वेषामीहातश्चेद् धनं भवेत् ??। ं९।२०५च्/ समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ Bछ्.Sछ्॥ ं९।२०६अ/ विद्याधनं तु यद्यस्य तत् तस्यैव धनं भवेत् । ं९।२०६च्/ मैत्र्यमोद्वाहिकं चैव माधुपर्किकमेव च ॥ Bछ्.Sछ्॥ ं९।२०७अ/ भ्रातॄणां यस्तु नैहेत धनं शक्तः स्वकर्मणा । ं९।२०७च्/ स निर्भाज्यः स्वकादंशात् किं चिद् दत्त्वोपजीवनम् ॥ Bछ्.Sछ्॥ ं९।२०८अ/ अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् । ं९।२०८च्/ स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ Bछ्.Sछ्॥ ं९।२०९अ/ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । ं९।२०९च्/ न तत् पुत्रैर्भजेत् सार्धमकामः स्वयमर्जितम् ॥ Bछ्.Sछ्॥ ं९।२१०अ/ विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि । ं९।२१०च्/ समस्तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥ Bछ्.Sछ्॥ ं९।२११अ/ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । ं९।२११च्/ म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥ Bछ्.Sछ्॥ ं९।२१२अ/ सोदर्या विभजेरंस्तं समेत्य सहिताः समम् । ं९।२१२च्/ भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ Bछ्.Sछ्॥ ं९।२१३अ/ यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः । ं९।२१३च्/ सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥ Bछ्.Sछ्॥ ं९।२१४अ/ सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । ं९।२१४च्/ न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत योतकम् ॥ Bछ्.Sछ्॥ ं९।२१५अ/ भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । ं९।२१५च्/ न पुत्रभागं विषमं पिता दद्यात् कथं चन ॥ Bछ्.Sछ्॥ ं९।२१६अ/ ऊर्ध्वं विभागात्जातस्तु पित्र्यमेव हरेद् धनम् । ं९।२१६च्/ संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ Bछ्.Sछ्॥ ं९।२१७अ/ अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । ं९।२१७च्/ मातर्यपि च वृत्तायां पितुर्माता हरेद् धनम् ॥ Bछ्.Sछ्॥ ं९।२१८अ/ ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । ं९।२१८च्/ पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ॥ Bछ्.Sछ्॥ ं९।२१९अ/ वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ??। ं९।२१९च्/ योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ Bछ्.Sछ्॥ ं९।२२०अ/ अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः । ं९।२२०च्/ क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ Bछ्.Sछ्॥ ं९।२२१अ/ द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् । ं९।२२१च्/ राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ Bछ्.Sछ्॥ ं९।२२२अ/ प्रकाशमेतत् तास्कर्यं यद् देवनसमाह्वयौ । ं९।२२२च्/ तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ Bछ्.Sछ्॥ ं९।२२३अ/ अप्राणिभिर्यत् क्रियते तत्लोके द्यूतमुच्यते । ं९।२२३च्/ प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ Bछ्.Sछ्॥ ं९।२२४अ/ द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । ं९।२२४च्/ तान् सर्वान् घातयेद् राजा शूद्रांश्च द्विजलिङ्गिनः ॥ Bछ्.Sछ्॥ ं९।२२५अ/ कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् । ं९।२२५च्/ विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत् पुरात् ॥ Bछ्.Sछ्॥ ं९।२२६अ/ एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः । ं९।२२६च्/ विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ Bछ्.Sछ्॥ ं९।२२७अ/ द्यूतमेतत् पुरा कल्पे दृष्टं वैरकरं महत् । ं९।२२७च्/ तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ Bछ्.Sछ्॥ ं९।२२८अ/ प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । ं९।२२८च्/ तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस्तथा ॥ Bछ्.Sछ्॥ ं९।२२९अ/ क्षत्रविद् शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । ं९।२२९च्/ आनृण्यं कर्मणा गच्छेद् विप्रो दद्यात्शनैः शनैः ॥ Bछ्.Sछ्॥ ं९।२३०अ/ स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । ं९।२३०च्/ शिफाविदलरज्ज्वाद्यैर्विदध्यात्नृपतिर्दमम् ॥ Bछ्.Sछ्॥ ं९।२३१अ/ ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् । ं९।२३१च्/ धनौष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः ॥ Bछ्.Sछ्॥ ं९।२३२अ/ कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् । ं९।२३२च्/ स्त्रीबालब्राह्मणघ्नांश्च हन्याद् द्विष् सेविनस्तथा ??॥ Bछ्.Sछ्॥ ं९।२३३अ/ तीरितं चानुशिष्टं च यत्र क्व चन यद् भवेत् । ं९।२३३च्/ कृतं तद् धर्मतो विद्यान्न तद् भूयो निवर्तयेत् ॥ Bछ्.Sछ्॥ ं९।२३४अ/ अमात्यः प्राग्विवाको वा यत् कुर्युः कार्यमन्यथा ??। ं९।२३४च्/ तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ॥ Bछ्.Sछ्॥ %[ं।तं ] ं९।२३५अ/ ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः । %[ं।तस्करो गुरुतल्पगः ] ं९।२३५च्/ एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ॥ Bछ्.Sछ्॥ ं९।२३६अ/ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । ं९।२३६च्/ शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं९।२३७अ/ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । ं९।२३७च्/ स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ Bछ्.Sछ्॥ %[ं।तस्करे श्वपदं कार्यं ] ं९।२३८अ/ असंभोज्या ह्यसंयाज्या असम्पाठ्याऽविवाहिनः । ं९।२३८च्/ चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ Bछ्.Sछ्॥ ं९।२३९अ/ ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः । ं९।२३९च्/ निर्दया निर्नमस्कारास्तन् मनोरनुशासनम् ॥ Bछ्.Sछ्॥ ं९।२४०अ/ प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । %[ं।पूर्वे वर्णा यथोदितम्] ं९।२४०च्/ नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ Bछ्.Sछ्॥ ं९।२४१अ/ आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । ं९।२४१च्/ विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥ Bछ्.Sछ्॥ ं९।२४२अ/ इतरे कृतवन्तस्तु पापान्येतान्यकामतः । ं९।२४२च्/ सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ Bछ्.Sछ्॥ ं९।२४३अ/ नाददीत नृपः साधुर्महापातकिनो धनम् । ं९।२४३च्/ आददानस्तु तत्लोभात् तेन दोषेण लिप्यते ॥ Bछ्.Sछ्॥ ं९।२४४अ/ अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । ं९।२४४च्/ श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ Bछ्.Sछ्॥ ं९।२४५अ/ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ं९।२४५च्/ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ Bछ्.Sछ्॥ ं९।२४६अ/ यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् । ं९।२४६च्/ तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ Bछ्.Sछ्॥ ं९।२४७अ/ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । ं९।२४७च्/ बालाश्च न प्रमीयन्ते विकृतं च न जायते ॥ Bछ्.Sछ्॥ ं९।२४८अ/ ब्राह्मणान् बाधमानं तु कामादवरवर्णजम् । ं९।२४८च्/ हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ Bछ्.Sछ्॥ ं९।२४९अ/ यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे । ं९।२४९च्/ अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥ Bछ्.Sछ्॥ ं९।२५०अ/ उदितोऽयं विस्तरशो मिथो विवदमानयोः । ं९।२५०च्/ अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ Bछ्.Sछ्॥ ं९।२५१अ/ एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः । ं९।२५१च्/ देशानलब्धान्लिप्सेत लब्धांश्च परिपालयेत् ॥ Bछ्.Sछ्॥ ं९।२५२अ/ सम्यग्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः । ं९।२५२च्/ कण्टकोद्धरणे नित्यमातिष्ठेद् यत्नमुत्तमम् ॥ Bछ्.Sछ्॥ ं९।२५३अ/ रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् । ं९।२५३च्/ नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ Bछ्.Sछ्॥ ं९।२५४अ/ अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । ं९।२५४च्/ तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ Bछ्.Sछ्॥ ं९।२५५अ/ निर्भयं तु भवेद् यस्य राष्ट्रं बाहुबलाश्रितम् । ं९।२५५च्/ तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥ Bछ्.Sछ्॥ ं९।२५६अ/ द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् । ं९।२५६च्/ प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥ Bछ्.Sछ्॥ ं९।२५७अ/ प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । ं९।२५७च्/ प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ??॥ Bछ्.Sछ्॥ ं९।२५८अ/ उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा । ं९।२५८च्/ मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह ॥ Bछ्.Sछ्॥ %[ं।भद्रप्रेक्षणिकैः सह ] ं९।२५९अ/ असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । ं९।२५९च्/ शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ Bछ्.Sछ्॥ ं९।२६०अ/ एवमादीन् विजानीयात् प्रकाशांल्लोककण्टकान् । %[ंएवमाद्यान् ] ं९।२६०च्/ निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ Bछ्.Sछ्॥ ं९।२६१अ/ तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः । ं९।२६१च्/ चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥ Bछ्.Sछ्॥ ं९।२६२अ/ तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । ं९।२६२च्/ कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥ Bछ्.Sछ्॥ ं९।२६३अ/ न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः । ं९।२६३च्/ स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ Bछ्.Sछ्॥ ं९।२६४अ/ सभाप्रपाऽपूपशालावेशमद्यान्नविक्रयाः । ं९।२६४च्/ चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ Bछ्.Sछ्॥ ं९।२६५अ/ जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । ं९।२६५च्/ शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ Bछ्.Sछ्॥ ं९।२६६अ/ एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः । ं९।२६६च्/ तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ Bछ्.Sछ्॥ ं९।२६७अ/ तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः । ं९।२६७च्/ विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥ Bछ्.Sछ्॥ ं९।२६८अ/ भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । ं९।२६८च्/ शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ Bछ्.Sछ्॥ ं९।२६९अ/ ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । ं९।२६९च्/ तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥ Bछ्.Sछ्॥ ं९।२७०अ/ न होढेन विना चौरं घातयेद् धार्मिको नृपः । ं९।२७०च्/ सहोढं सोपकरणं घातयेदविचारयन् ॥ Bछ्.Sछ्॥ ं९।२७१अ/ ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः । ं९।२७१च्/ भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ Bछ्.Sछ्॥ ं९।२७२अ/ राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । ं९।२७२च्/ अभ्याघातेषु मध्यस्थाञ् शिष्याच्चौरानिव द्रुतम् ॥ Bछ्.Sछ्॥ ं९।२७३अ/ यश्चापि धर्मसमयात् प्रच्युतो धर्मजीवनः । ं९।२७३च्/ दण्डेनैव तमप्योषेत् स्वकाद् धर्माद् हि विच्युतम् ॥ Bछ्.Sछ्॥ ं९।२७४अ/ ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । ं९।२७४च्/ शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ Bछ्.Sछ्॥ ं९।२७५अ/ राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् । %[ं।प्रातिकूल्येष्ववस्थितान् ] ं९।२७५च्/ घातयेद् विविधैर्दण्डैररीणां चोपजापकान् ॥ Bछ्.Sछ्॥ ं९।२७६अ/ संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । %[ं।संधिं भित्त्वा)] ं९।२७६च्/ तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ Bछ्.Sछ्॥ ं९।२७७अ/ अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । ं९।२७७च्/ द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ Bछ्.Sछ्॥ ं९।२७८अ/ अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् । ं९।२७८च्/ संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ Bछ्.Sछ्॥ ं९।२७९अ/ तडागभेदकं हन्यादप्सु शुद्धवधेन वा । ं९।२७९च्/ यद् वाऽपि प्रतिसंस्कुर्याद् दाप्यस्तूत्तमसाहसम् ॥ Bछ्.Sछ्॥ ं९।२८०अ/ कोष्ठागारायुधागारदेवतागारभेदकान् । ं९।२८०च्/ हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ॥ Bछ्.Sछ्॥ ं९।२८१अ/ यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । ं९।२८१च्/ आगमं वाऽप्यपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥ Bछ्.Sछ्॥ ं९।२८२अ/ समुत्सृजेद् राजमार्गे यस्त्वमेध्यमनापदि । ं९।२८२च्/ स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ Bछ्.Sछ्॥ ं९।२८३अ/ आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा । ं९।२८३च्/ परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥ Bछ्.Sछ्॥ ं९।२८४अ/ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । ं९।२८४च्/ अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ Bछ्.Sछ्॥ ं९।२८५अ/ सङ्क्रमध्वजयष्टीनां प्रतिमानां च भेदकः । ं९।२८५च्/ प्रतिकुर्याच्च तत् सर्वं पञ्च दद्यात्शतानि च ॥ Bछ्.Sछ्॥ ं९।२८६अ/ अदूषितानां द्रव्याणां दूषणे भेदने तथा । ं९।२८६च्/ मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ Bछ्.Sछ्॥ ं९।२८७अ/ समैर्हि विषमं यस्तु चरेद् वै मूल्यतोऽपि वा । ं९।२८७च्/ समाप्नुयाद् दमं पूर्वं नरो मध्यममेव वा ॥ Bछ्.Sछ्॥ ं९।२८८अ/ बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । %[ं राजमार्गे ] ं९।२८८च्/ दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥ Bछ्.Sछ्॥ ं९।२८९अ/ प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । ं९।२८९च्/ द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ Bछ्.Sछ्॥ ं९।२९०अ/ अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः । ं९।२९०च्/ मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ॥ Bछ्.Sछ्॥ %[ंॅहानाप्तैः] ं९।२९१अ/ अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च । ं९।२९१च्/ मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद् वधम् ॥ Bछ्.Sछ्॥ ं९।२९२अ/ सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । ं९।२९२च्/ प्रवर्तमानमन्याये छेदयेत्लवशः क्षुरैः ॥ Bछ्.Sछ्॥ %[ं।छेदयेत् खण्डशः क्षुरैः ] ं९।२९३अ/ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । ं९।२९३च्/ कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं९।२९४अ/ स्वाम्य्ऽमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा । ं९।२९४च्/ सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ Bछ्.Sछ्॥ ं९।२९५अ/ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । ं९।२९५च्/ पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ॥ Bछ्.Sछ्॥ ं९।२९६अ/ सप्ताङ्गस्यैह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । ं९।२९६च्/ अन्योन्यगुणवैशेष्यात्न किं चिदतिरिच्यते ॥ Bछ्.Sछ्॥ ं९।२९७अ/ तेषु तेषु तु कृत्येषु तत् तदङ्गं विशिष्यते । ं९।२९७च्/ येन यत् साध्यते कार्यं तत् तस्मिंश्रेष्ठमुच्यते ॥ Bछ्.Sछ्॥ ं९।२९८अ/ चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । ं९।२९८च्/ स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥ Bछ्.Sछ्॥ %[ं।विद्यात् परात्मनोः] ं९।२९९अ/ पीडनानि च सर्वाणि व्यसनानि तथैव च । ं९।२९९च्/ आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥ Bछ्.Sछ्॥ ं९।३००अ/ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । ं९।३००च्/ कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ Bछ्.Sछ्॥ ं९।३०१अ/ कृतं त्रेतायुगं चैव द्वापरं कलिरेव च । ं९।३०१च्/ राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ Bछ्.Sछ्॥ ं९।३०२अ/ कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् । ं९।३०२च्/ कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ Bछ्.Sछ्॥ ं९।३०३अ/ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । ं९।३०३च्/ चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ Bछ्.Sछ्॥ ं९।३०४अ/ वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति । ं९।३०४च्/ तथाऽभिवर्षेत् स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ Bछ्.Sछ्॥ ं९।३०५अ/ अष्टौ मासान् यथाऽदित्यस्तोयं हरति रश्मिभिः । ं९।३०५च्/ तथा हरेत् करं राष्ट्रात्नित्यमर्कव्रतं हि तत् ॥ Bछ्.Sछ्॥ ं९।३०६अ/ प्रविश्य सर्वभूतानि यथा चरति मारुतः । ं९।३०६च्/ तथा चारैः प्रवेष्टव्यं व्रतमेतद् हि मारुतम् ॥ Bछ्.Sछ्॥ ं९।३०७अ/ यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । ं९।३०७च्/ तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ॥ Bछ्.Sछ्॥ ं९।३०८अ/ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । ं९।३०८च्/ तथा पापान्निगृह्णीयाद् व्रतमेतद् हि वारुणम् ॥ Bछ्.Sछ्॥ ं९।३०९अ/ परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । ं९।३०९च्/ तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ Bछ्.Sछ्॥ ं९।३१०अ/ प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु । ं९।३१०च्/ दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ Bछ्.Sछ्॥ ं९।३११अ/ यथा सर्वाणि भूतानि धरा धारयते समम् । ं९।३११च्/ तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ Bछ्.Sछ्॥ ं९।३१२अ/ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । ं९।३१२च्/ स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ॥ Bछ्.Sछ्॥ ं९।३१३अ/ परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ं९।३१३च्/ ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ Bछ्.Sछ्॥ ं९।३१४अ/ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः । %[ं।सर्वभक्षो ] ं९।३१४च्/ क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥ Bछ्.Sछ्॥ ं९।३१५अ/ लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः । ं९।३१५च्/ देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ Bछ्.Sछ्॥ ं९।३१६अ/ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा । ं९।३१६च्/ ब्रह्म चैव धनं येषां को हिंस्यात् ताञ्जिजीविषुः ॥ Bछ्.Sछ्॥ ं९।३१७अ/ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । ं९।३१७च्/ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥ Bछ्.Sछ्॥ ं९।३१८अ/ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । ं९।३१८च्/ हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ Bछ्.Sछ्॥ ं९।३१९अ/ एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु । ं९।३१९च्/ सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ Bछ्.Sछ्॥ ं९।३२०अ/ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । ं९।३२०च्/ ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् ॥ Bछ्.Sछ्॥ ं९।३२१अ/ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । ं९।३२१च्/ तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ Bछ्.Sछ्॥ ं९।३२२अ/ नाब्रह्म क्षत्रं ऋध्नोति नाक्षत्रं ब्रह्म वर्धते । ं९।३२२च्/ ब्रह्म क्षत्रं च सम्पृक्तमिह चामुत्र वर्धते ॥ Bछ्.Sछ्॥ ं९।३२३अ/ दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । ं९।३२३च्/ पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ Bछ्.Sछ्॥ %[ं।समासाद्य ] ं९।३२४अ/ एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः । ं९।३२४च्/ हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ Bछ्.Sछ्॥ %[ं। हितेषु चैव लोकेभ्यः ] ं९।३२५अ/ एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः । ं९।३२५च्/ इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ॥ Bछ्.Sछ्॥ ं९।३२६अ/ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । ं९।३२६च्/ वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥ Bछ्.Sछ्॥ ं९।३२७अ/ प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् । ं९।३२७च्/ ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ Bछ्.Sछ्॥ ं९।३२८अ/ न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । ं९।३२८च्/ वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥ Bछ्.Sछ्॥ ं९।३२९अ/ मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च । ं९।३२९च्/ गन्धानां च रसानां च विद्यादर्घबलाबलम् ॥ Bछ्.Sछ्॥ ं९।३३०अ/ बीजानामुप्तिविद् च स्यात् क्षेत्रदोषगुणस्य च । ं९।३३०च्/ मानयोगं च जानीयात् तुलायोगांश्च सर्वशः ॥ Bछ्.Sछ्॥ ं९।३३१अ/ सारासारं च भाण्डानां देशानां च गुणागुणान् । ं९।३३१च्/ लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥ Bछ्.Sछ्॥ ं९।३३२अ/ भृत्यानां च भृतिं विद्याद् भाषाश्च विविधा नृणाम् । ं९।३३२च्/ द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ Bछ्.Sछ्॥ ं९।३३३अ/ धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम् । ं९।३३३च्/ दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥ Bछ्.Sछ्॥ ं९।३३४अ/ विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । ं९।३३४च्/ शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥ Bछ्.Sछ्॥ %[क्: परम्] ं९।३३५अ/ शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहङ्कृतः । ं९।३३५च्/ ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ Bछ्.Sछ्॥ %[ं।ब्राह्मणापाश्रयो] ं९।३३६अ/ एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः । ं९।३३६च्/ आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ Bछ्.Sछ्॥

अध्याय १०

ं१०।०१अ/ अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः । ं१०।०१च्/ प्रब्रूयाद् ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥ Bछ्.Sछ्॥ ं१०।०२अ/ सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि । ं१०।०२च्/ प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ Bछ्.Sछ्॥ ं१०।०३अ/ वैशेष्यात् प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । ं१०।०३च्/ संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ Bछ्.Sछ्॥ ं१०।०४अ/ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । ं१०।०४च्/ चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ Bछ्.Sछ्॥ ं१०।०५अ/ सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । ं१०।०५च्/ आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥ Bछ्.Sछ्॥ ं१०।०६अ/ स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् । ं१०।०६च्/ सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ Bछ्.Sछ्॥ ं१०।०७अ/ अनन्तरासु जातानां विधिरेष सनातनः । ं१०।०७च्/ द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ॥ Bछ्.Sछ्॥ ं१०।०८अ/ ब्राह्मणाद् वैश्यकन्यायामम्बष्ठो नाम जायते । ं१०।०८च्/ निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ Bछ्.Sछ्॥ ं१०।०९अ/ क्षत्रियात्शूद्रकन्यायां क्रूराचारविहारवान् । ं१०।०९च्/ क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥ Bछ्.Sछ्॥ ं१०।१०अ/ विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । ं१०।१०च्/ वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ Bछ्.Sछ्॥ ं१०।११अ/ क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः । ं१०।११च्/ वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ Bछ्.Sछ्॥ ं१०।१२अ/ शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । ं१०।१२च्/ वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥ Bछ्.Sछ्॥ ं१०।१३अ/ एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । ं१०।१३च्/ क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि ॥ Bछ्.Sछ्॥ ं१०।१४अ/ पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ं१०।१४च्/ ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते ॥ Bछ्.Sछ्॥ ं१०।१५अ/ ब्राह्मणादुग्रकन्यायामावृतो नाम जायते । ं१०।१५च्/ आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥ Bछ्.Sछ्॥ ं१०।१६अ/ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । ं१०।१६च्/ प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ Bछ्.Sछ्॥ ं१०।१७अ/ वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु । ं१०।१७च्/ प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ Bछ्.Sछ्॥ ं१०।१८अ/ जातो निषादात्शूद्रायां जात्या भवति पुक्कसः । ं१०।१८च्/ शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ Bछ्.Sछ्॥ ं१०।१९अ/ क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते । ं१०।१९च्/ वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥ Bछ्.Sछ्॥ ं१०।२०अ/ द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । ं१०।२०च्/ तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥ Bछ्.Sछ्॥ ं१०।२१अ/ व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । %[ं।भृज्जकण्टकः ] ं१०।२१च्/ आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ Bछ्.Sछ्॥ ं१०।२२अ/ झल्लो मल्लश्च राजन्याद् व्रात्यात्निच्छिविरेव च । %[ं।व्रात्यात्लिच्छविरेव च] ं१०।२२च्/ नटश्च करणश्चैव खसो द्रविड एव च ॥ Bछ्.Sछ्॥ ं१०।२३अ/ वैश्यात् तु जायते व्रात्यात् सुधन्वाऽचार्य एव च । ं१०।२३च्/ कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ Bछ्.Sछ्॥ ं१०।२४अ/ व्यभिचारेण वर्णानामवेद्यावेदनेन च । ं१०।२४च्/ स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥ Bछ्.Sछ्॥ ं१०।२५अ/ सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । ं१०।२५च्/ अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ ं१०।२६अ/ सूतो वैदेहकश्चैव चण्डालश्च नराधमः । ं१०।२६च्/ मागधः तथाऽयोगव एव च क्षत्रजातिश्च ??॥ Bछ्.Sछ्॥ %[ं।क्षत्तृजातिश्च] ं१०।२७अ/ एते षट् सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु । ं१०।२७च्/ मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ॥ Bछ्.Sछ्॥ %[ंंआतृजात्याः ] ं१०।२८अ/ यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते । ं१०।२८च्/ आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥ Bछ्.Sछ्॥ %[ं।क्रमः] ं१०।२९अ/ ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान् । ं१०।२९च्/ परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ Bछ्.Sछ्॥ ं१०।३०अ/ यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । ं१०।३०च्/ तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ॥ Bछ्.Sछ्॥ ं१०।३१अ/ प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः । ं१०।३१च्/ हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ Bछ्.Sछ्॥ ं१०।३२अ/ प्रसाधनोपचारज्ञमदासं दासजीवनम् । %[ं।दास्यजीविनं ] ं१०।३२च्/ सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥ Bछ्.Sछ्॥ %[ं। सैरन्ध्रं ] ं१०।३३अ/ मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते । ं१०।३३च्/ नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ Bछ्.Sछ्॥ ं१०।३४अ/ निषादो मार्गवं सूते दासं नौकर्मजीविनम् । ं१०।३४च्/ कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ Bछ्.Sछ्॥ ं१०।३५अ/ मृतवस्त्रभृत्स्वनारीषु गर्हितान्नाशनासु च । %[ंऽनार्याषु] ं१०।३५च्/ भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः ॥ Bछ्.Sछ्॥ ं१०।३६अ/ कारावरो निषादात् तु चर्मकारः प्रसूयते । %[ंॅहर्मकारं ] ं१०।३६च्/ वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ Bछ्.Sछ्॥ ं१०।३७अ/ चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । ं१०।३७च्/ आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ Bछ्.Sछ्॥ ं१०।३८अ/ चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । ं१०।३८च्/ पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ Bछ्.Sछ्॥ %[ं।पुल्कस्यां ] ं१०।३९अ/ निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसायिनम् । ं१०।३९च्/ श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ Bछ्.Sछ्॥ ं१०।४०अ/ सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः । ं१०।४०च्/ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ Bछ्.Sछ्॥ ं१०।४१अ/ स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । ं१०।४१च्/ शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥ Bछ्.Sछ्॥ ं१०।४२अ/ तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । ं१०।४२च्/ उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥ Bछ्.Sछ्॥ ं१०।४३अ/ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । ं१०।४३च्/ वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ Bछ्.Sछ्॥ %[ं।ब्राह्मणातिक्रमेण च] ं१०।४४अ/ पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः । %[ं।पुण्ड्रकाश्चोडद्रविडाः] ं१०।४४च्/ पारदापह्लवाश्चीनाः किराता दरदाः खशाः ॥ Bछ्.Sछ्॥ ं१०।४५अ/ मुखबाहूरुपद्जानां या लोके जातयो बहिः । ं१०।४५च्/ म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ Bछ्.Sछ्॥ ं१०।४६अ/ ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ं१०।४६च्/ ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥ Bछ्.Sछ्॥ ं१०।४७अ/ सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् । ं१०।४७च्/ वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ Bछ्.Sछ्॥ ं१०।४८अ/ मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । ं१०।४८च्/ मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥ Bछ्.Sछ्॥ ं१०।४९अ/ क्षत्त्र्युग्रपुक्कसानां तु बिलौकोवधबन्धनम् । ं१०।४९च्/ धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ Bछ्.Sछ्॥ ं१०।५०अ/ चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । ं१०।५०च्/ वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ Bछ्.Sछ्॥ ं१०।५१अ/ चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः । ं१०।५१च्/ अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥ Bछ्.Sछ्॥ ं१०।५२अ/ वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । ं१०।५२च्/ कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ Bछ्.Sछ्॥ ं१०।५३अ/ न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् । ं१०।५३च्/ व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ Bछ्.Sछ्॥ ं१०।५४अ/ अन्नमेषां पराधीनं देयं स्याद् भिन्नभाजने । ं१०।५४च्/ रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ Bछ्.Sछ्॥ ं१०।५५अ/ दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । ं१०।५५च्/ अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ॥ Bछ्.Sछ्॥ ं१०।५६अ/ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । ं१०।५६च्/ वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ Bछ्.Sछ्॥ ं१०।५७अ/ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । ं१०।५७च्/ आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ॥ Bछ्.Sछ्॥ ं१०।५८अ/ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । ं१०।५८च्/ पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ Bछ्.Sछ्॥ ं१०।५९अ/ पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा । ं१०।५९च्/ न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ Bछ्.Sछ्॥ ं१०।६०अ/ कुले मुख्येऽपि जातस्य यस्य स्याद् योनिसङ्करः । ं१०।६०च्/ संश्रयत्येव तत्शीलं नरोऽल्पमपि वा बहु ॥ Bछ्.Sछ्॥ ं१०।६१अ/ यत्र त्वेते परिध्वंसाज् जायन्ते वर्णदूषकाः । ं१०।६१च्/ राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रमेव विनश्यति ॥ Bछ्.Sछ्॥ %[ं राष्ट्रियैः ] ं१०।६२अ/ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । ं१०।६२च्/ स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ Bछ्.Sछ्॥ %[ं।स्त्रीबालाभ्यवपत्तौ च ] ं१०।६३अ/ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । ं१०।६३च्/ एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन् मनुः ॥ Bछ्.Sछ्॥ ं१०।६४अ/ शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते । ं१०।६४च्/ अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद् युगात् ॥ Bछ्.Sछ्॥ ं१०।६५अ/ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । ं१०।६५च्/ क्षत्रियाज् जातमेवं तु विद्याद् वैश्यात् तथैव च ॥ Bछ्.Sछ्॥ ं१०।६६अ/ अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया । ं१०।६६च्/ ब्राह्मण्यामप्यनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् ॥ Bछ्.Sछ्॥ %[ं।कस्य चिद् भवेत् ] ं१०।६७अ/ जातो नार्यामनार्यायामार्यादार्यो भवेद् गुणैः । ं१०।६७च्/ जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥ Bछ्.Sछ्॥ ं१०।६८अ/ तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः । ं१०।६८च्/ वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ Bछ्.Sछ्॥ %[ं।जन्मतः ] ं१०।६९अ/ सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा । ं१०।६९च्/ तथाऽर्याज् जात आर्यायां सर्वं संस्कारमर्हति ॥ Bछ्.Sछ्॥ ं१०।७०अ/ बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । ं१०।७०च्/ बीजक्षेत्रे तथैवान्ये तत्रैयं तु व्यवस्थितिः ॥ Bछ्.Sछ्॥ ं१०।७१अ/ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । ं१०।७१च्/ अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ Bछ्.Sछ्॥ ं१०।७२अ/ यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् । ं१०।७२च्/ पूजिताश्च प्रशस्ताश्च तस्माद् बीजं प्रशस्यते ॥ Bछ्.Sछ्॥ %[ं।विशिष्यते)] ं१०।७३अ/ अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम् । ं१०।७३च्/ सम्प्रधार्याब्रवीद् धाता न समौ नासमाविति ॥ Bछ्.Sछ्॥ ं१०।७४अ/ ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः । ं१०।७४च्/ ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् ॥ Bछ्.Sछ्॥ ं१०।७५अ/ अध्यापनमध्ययनं यजनं याजनं तथा । ं१०।७५च्/ दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ॥ Bछ्.Sछ्॥ ं१०।७६अ/ षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । ं१०।७६च्/ याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ Bछ्.Sछ्॥ ं१०।७७अ/ त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति । ं१०।७७च्/ अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ Bछ्.Sछ्॥ ं१०।७८अ/ वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः । ं१०।७८च्/ न तौ प्रति हि तान् धर्मान् मनुराह प्रजापतिः ॥ Bछ्.Sछ्॥ %[ं। प्रति हितान् धर्मान् ] ं१०।७९अ/ शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः । ं१०।७९च्/ आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥ Bछ्.Sछ्॥ ं१०।८०अ/ वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । ं१०।८०च्/ वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ Bछ्.Sछ्॥ ं१०।८१अ/ अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । ं१०।८१च्/ जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥ Bछ्.Sछ्॥ ं१०।८२अ/ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद् भवेत् । ं१०।८२च्/ कृषिगोरक्षमास्थाय जीवेद् वैश्यस्य जीविकाम् ॥ Bछ्.Sछ्॥ ं१०।८३अ/ वैश्यवृत्त्याऽपि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा । ं१०।८३च्/ हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ Bछ्.Sछ्॥ ं१०।८४अ/ कृषिं साधुइति मन्यन्ते सा वृत्तिः सद्विगर्हिताः । ं१०।८४च्/ भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ Bछ्.Sछ्॥ ं१०।८५अ/ इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् । ं१०।८५च्/ विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ Bछ्.Sछ्॥ ं१०।८६अ/ सर्वान् रसानपोहेत कृतान्नं च तिलैः सह । ं१०।८६च्/ अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ Bछ्.Sछ्॥ ं१०।८७अ/ सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । ं१०।८७च्/ अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥ Bछ्.Sछ्॥ ं१०।८८अ/ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । ं१०।८८च्/ क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ Bछ्.Sछ्॥ ं१०।८९अ/ आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च । ं१०।८९च्/ मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥ Bछ्.Sछ्॥ %[ंंईलीं ] ं१०।९०अ/ काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः । ं१०।९०च्/ विक्रीणीत तिलांशूद्रान् धर्मार्थमचिरस्थितान् ॥ Bछ्.Sछ्॥ %[ं।तिलांशुद्धान्] ं१०।९१अ/ भोजनाभ्यञ्जनाद् दानाद् यदन्यत् कुरुते तिलैः । ं१०।९१च्/ कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ Bछ्.Sछ्॥ ं१०।९२अ/ सद्यः पतति मांसेन लाक्षया लवणेन च । ं१०।९२च्/ त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ Bछ्.Sछ्॥ ं१०।९३अ/ इतरेषां तु पण्यानां विक्रयादिह कामतः । ं१०।९३च्/ ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ Bछ्.Sछ्॥ ं१०।९४अ/ रसा रसैर्निमातव्या न त्वेव लवणं रसैः । ं१०।९४च्/ कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ Bछ्.Sछ्॥ ं१०।९५अ/ जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः । ं१०।९५च्/ न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ॥ Bछ्.Sछ्॥ ं१०।९६अ/ यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः । ं१०।९६च्/ तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ Bछ्.Sछ्॥ ं१०।९७अ/ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । %[ं।विगुणः परधर्मात् स्वधिष्ठितात् ] ं१०।९७च्/ परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ Bछ्.Sछ्॥ ं१०।९८अ/ वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् । ं१०।९८च्/ अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥ Bछ्.Sछ्॥ ं१०।९९अ/ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् । ं१०।९९च्/ पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ Bछ्.Sछ्॥ ं१०।१००अ/ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । ं१०।१००च्/ तानि कारुककर्माणि शिल्पानि विविधानि च ॥ Bछ्.Sछ्॥ ं१०।१०१अ/ वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः । ं१०।१०१च्/ अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥ Bछ्.Sछ्॥ ं१०।१०२अ/ सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस्त्वनयं गतः । ं१०।१०२च्/ पवित्रं दुष्यतीत्येतद् धर्मतो नोपपद्यते ॥ Bछ्.Sछ्॥ ं१०।१०३अ/ नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् । ं१०।१०३च्/ दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ Bछ्.Sछ्॥ ं१०।१०४अ/ जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः । ं१०।१०४च्/ आकाशमिव पङ्केन न स पापेन लिप्यते ॥ Bछ्.Sछ्॥ ं१०।१०५अ/ अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः । ं१०।१०५च्/ न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ Bछ्.Sछ्॥ ं१०।१०६अ/ श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः । ं१०।१०६च्/ प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ Bछ्.Sछ्॥ ं१०।१०७अ/ भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । ं१०।१०७च्/ बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥ Bछ्.Sछ्॥ ं१०।१०८अ/ क्षुधार्तश्चात्तुमभ्यागाद् विश्वामित्रः श्वजाघनीम् । ं१०।१०८च्/ चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ Bछ्.Sछ्॥ ं१०।१०९अ/ प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनादपि । ं१०।१०९च्/ प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ Bछ्.Sछ्॥ ं१०।११०अ/ याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । ं१०।११०च्/ प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥ Bछ्.Sछ्॥ ं१०।१११अ/ जपहोमैरपेत्येनो याजनाध्यापनैः कृतम् । ं१०।१११च्/ प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ Bछ्.Sछ्॥ ं१०।११२अ/ शिलौञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः । ं१०।११२च्/ प्रतिग्रहात् शिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ Bछ्.Sछ्॥ ं१०।११३अ/ सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः । %[ं।धनं वा ] ं१०।११३च्/ याच्यः स्यात् स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ॥ Bछ्.Sछ्॥ ं१०।११४अ/ अकृतं च कृतात् क्षेत्राद् गौरजाविकमेव च । ं१०।११४च्/ हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ॥ Bछ्.Sछ्॥ ं१०।११५अ/ सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । ं१०।११५च्/ प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ Bछ्.Sछ्॥ ं१०।११६अ/ विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । ं१०।११६च्/ धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥ Bछ्.Sछ्॥ ं१०।११७अ/ ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् । ं१०।११७च्/ कामं तु खलु धर्मार्थं दद्यात् पापीयसेऽल्पिकाम् ॥ Bछ्.Sछ्॥ ं१०।११८अ/ चतुर्थमाददानोऽपि क्षत्रियो भागमापदि । ं१०।११८च्/ प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ Bछ्.Sछ्॥ ं१०।११९अ/ स्वधर्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः । ं१०।११९च्/ शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद् बलिम् ॥ Bछ्.Sछ्॥ %[ं।वैश्याद् रक्षित्वा ] ं१०।१२०अ/ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । ं१०।१२०च्/ कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ Bछ्.Sछ्॥ ं१०।१२१अ/ शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद् यदि । %[ं।आराधयेदिति ] ं१०।१२१च्/ धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ Bछ्.Sछ्॥ ं१०।१२२अ/ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत् तु सः । ं१०।१२२च्/ जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ Bछ्.Sछ्॥ ं१०।१२३अ/ विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । ं१०।१२३च्/ यदतोऽन्यद् हि कुरुते तद् भवत्यस्य निष्फलम् ॥ Bछ्.Sछ्॥ ं१०।१२४अ/ प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः । ं१०।१२४च्/ शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ Bछ्.Sछ्॥ ं१०।१२५अ/ उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । ं१०।१२५च्/ पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ Bछ्.Sछ्॥ ं१०।१२६अ/ न शूद्रे पातकं किं चिन्न च संस्कारमर्हति । ं१०।१२६च्/ नास्याधिकारो धर्मेऽस्ति न धर्मात् प्रतिषेधनम् ॥ Bछ्.Sछ्॥ ं१०।१२७अ/ धर्मैप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः । %[ं।सतां धर्मं ] ं१०।१२७च्/ मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ Bछ्.Sछ्॥ %[ंंअन्त्रवर्जं ] ं१०।१२८अ/ यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः । ं१०।१२८च्/ तथा तथैमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥ Bछ्.Sछ्॥ ं१०।१२९अ/ शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः । ं१०।१२९च्/ शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ Bछ्.Sछ्॥ ं१०।१३०अ/ एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः । ं१०।१३०च्/ यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ॥ Bछ्.Sछ्॥ ं१०।१३१अ/ एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः । ं१०।१३१च्/ अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ Bछ्.Sछ्॥

अध्याय ११

ं११।०१अ/ सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् । ं११।०१च्/ गुर्वर्थं पितृमात्र्यर्थं स्वाध्यायार्थ्युपतापिनः ॥ Bछ्.Sछ्॥ ं११।०२अ/ न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । ं११।०२च्/ निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ Bछ्.Sछ्॥ ं११।०३अ/ एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् । ं११।०३च्/ इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ॥ Bछ्.Sछ्॥ ं११।०४अ/ सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ं११।०४च्/ ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ Bछ्.Sछ्॥ ं११।०५अ/ कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति । ं११।०५च्/ रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः ॥ Bछ्.Sछ्॥ ं११।०६अ/ धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । %[नोतिन् ं] ं११।०६च्/ वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥ Bछ्.Sछ्॥ %[नोतिन् ं] ं११।०७अ[०६ंअ]/ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । ं११।०७च्[०६ंच्]/ अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ Bछ्.Sछ्॥ ं११।०८अ[०७ंअ]/ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । ं११।०८च्[०७ंच्]/ स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥ Bछ्.Sछ्॥ ं११।०९अ[०८ंअ]/ शक्तः परजने दाता स्वजने दुःखजीविनि । ं११।०९च्[०८ंच्]/ मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ Bछ्.Sछ्॥ ं११।१०अ[०९ंअ]/ भृत्यानामुपरोधेन यत् करोत्यौर्ध्वदेहिकम् । ं११।१०च्[०९ंच्]/ तद् भवत्यसुखौदर्कं जीवतश्च मृतस्य च ॥ Bछ्.Sछ्॥ ं११।११अ[१०ंअ]/ यज्ञश्चेत् प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । ं११।११च्[१०ंच्]/ ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥ Bछ्.Sछ्॥ ं११।१२अ[११ंअ]/ यो वैश्यः स्याद् बहुपशुर्हीनक्रतुरसोमपः । ं११।१२च्[११ंच्]/ कुटुम्बात् तस्य तद् द्रव्यमाहरेद् यज्ञसिद्धये ॥ Bछ्.Sछ्॥ ं११।१३अ[१२ंअ]/ आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । ं११।१३च्[१२ंच्]/ न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥ Bछ्.Sछ्॥ ं११।१४अ[१३ंअ]/ योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । %[क्:अयज्ञश्] ं११।१४च्[१३ंच्]/ तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ Bछ्.Sछ्॥ ं११।१५अ[१४ंअ]/ आदाननित्याच्चादातुराहरेदप्रयच्छतः । ं११।१५च्[१४ंच्]/ तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥ Bछ्.Sछ्॥ ं११।१६अ[१५ंअ]/ तथैव सप्तमे भक्ते भक्तानि षडनश्नता । ं११।१६च्[१५ंच्]/ अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ Bछ्.Sछ्॥ ं११।१७अ[१६ंअ]/ खलात् क्षेत्रादगाराद् वा यतो वाऽप्युपलभ्यते । ं११।१७च्[१६ंच्]/ आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ Bछ्.Sछ्॥ ं११।१८अ[१७ंअ]/ ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । ं११।१८च्[१७ंच्]/ दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति ॥ Bछ्.Sछ्॥ ं११।१९अ[१८ंअ]/ योऽसाधुभ्योऽर्थमादाय साधुभ्यः सम्प्रयच्छति । ं११।१९च्[१८ंच्]/ स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ Bछ्.Sछ्॥ ं११।२०अ[१९ंअ]/ यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः । ं११।२०च्[१९ंच्]/ अयज्वनां तु यद् वित्तमासुरस्वं तदुच्यते ॥ Bछ्.Sछ्॥ ं११।२१अ[२०ंअ]/ न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः । ं११।२१च्[२०ंच्]/ क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥ Bछ्.Sछ्॥ ं११।२२अ[२१ंअ]/ तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः । ं११।२२च्[२१ंच्]/ श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं११।२३अ[२२ंअ]/ कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समन्ततः । ं११।२३च्[२२ंच्]/ राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ॥ Bछ्.Sछ्॥ ं११।२४अ[२३ंअ]/ न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् । ं११।२४च्[२३ंच्]/ यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ Bछ्.Sछ्॥ ं११।२५अ[२४ंअ]/ यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । ं११।२५च्[२४ंच्]/ स याति भासतां विप्रः काकतां वा शतं समाः ॥ Bछ्.Sछ्॥ ं११।२६अ[२५ंअ]/ देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । ं११।२६च्[२५ंच्]/ स पापात्मा परे लोके गृध्रौच्छिष्टेन जीवति ॥ Bछ्.Sछ्॥ ं११।२७अ[२६ंअ]/ इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । ं११।२७च्[२६ंच्]/ कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥ Bछ्.Sछ्॥ ं११।२८अ[२७ंअ]/ आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः । ं११।२८च्[२७ंच्]/ स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ Bछ्.Sछ्॥ ं११।२९अ[२८ंअ]/ विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । ं११।२९च्[२८ंच्]/ आपत्सु मरणाद् भीतैर्विधेः प्रतिनिधिः कृतः ॥ Bछ्.Sछ्॥ ं११।३०अ[२९ंअ]/ प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । ं११।३०च्[२९ंच्]/ न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ Bछ्.Sछ्॥ ं११।३१अ[३०ंअ]/ न ब्राह्मणो वेदयेत किंचिद् राजनि धर्मवित् । ं११।३१च्[३०ंच्]/ स्ववीर्येणैव तांशिष्यान् मानवानपकारिणः ॥ Bछ्.Sछ्॥ ं११।३२अ[३१ंअ]/ स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम् । ं११।३२च्[३१ंच्]/ तस्मात् स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः ॥ Bछ्.Sछ्॥ ं११।३३अ[३२ंअ]/ श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् । ं११।३३च्[३२ंच्]/ वाक्षस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः ॥ Bछ्.Sछ्॥ ं११।३४अ[३३ंअ]/ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । ं११।३४च्[३३ंच्]/ धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥ Bछ्.Sछ्॥ ं११।३५अ[३४ंअ]/ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । ं११।३५च्[३४ंच्]/ तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥ Bछ्.Sछ्॥ ं११।३६अ[३५ंअ]/ न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः । ं११।३६च्[३५ंच्]/ होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥ Bछ्.Sछ्॥ ं११।३७अ[३६ंअ]/ नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । %[ं।जुह्वतः ] ं११।३७च्[३६ंच्]/ तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥ Bछ्.Sछ्॥ ं११।३८अ[३७ंअ]/ प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दक्षिणाम् । ं११।३८च्[३७ंच्]/ अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥ Bछ्.Sछ्॥ ं११।३९अ[३८ंअ]/ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । ं११।३९च्[३८ंच्]/ न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन ॥ Bछ्.Sछ्॥ ं११।४०अ[३९ंअ]/ इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् । ं११।४०च्[३९ंच्]/ हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ Bछ्.Sछ्॥ ं११।४१अ[४०ंअ]/ अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः । ं११।४१च्[४०ंच्]/ चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ Bछ्.Sछ्॥ ं११।४२अ[४१ंअ]/ ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते । ं११।४२च्[४१ंच्]/ ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ Bछ्.Sछ्॥ ं११।४३अ[४२ंअ]/ तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् । ं११।४३च्[४२ंच्]/ पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ Bछ्.Sछ्॥ ं११।४४अ[४३ंअ]/ अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । ं११।४४च्[४३ंच्]/ प्रसक्तश्चैन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ Bछ्.Sछ्॥ %[ं।प्रसज्जनिन्द्रियार्थेषु] ं११।४५अ[४४ंअ]/ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । ं११।४५च्[४४ंच्]/ कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ Bछ्.Sछ्॥ ं११।४६अ[४५ंअ]/ अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । ं११।४६च्[४५ंच्]/ कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ Bछ्.Sछ्॥ ं११।४७अ[४६ंअ]/ प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा । ं११।४७च्[४६ंच्]/ न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ Bछ्.Sछ्॥ ं११।४८अ[४७ंअ]/ इह दुश्चरितैः के चित् के चित् पूर्वकृतैस्तथा । ं११।४८च्[४७ंच्]/ प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ Bछ्.Sछ्॥ ं११।४९अ[४८ंअ]/ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ं११।४९च्[४८ंच्]/ ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ Bछ्.Sछ्॥ ं११।५०अ[४९ंअ]/ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । ं११।५०च्[४९ंच्]/ धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ॥ Bछ्.Sछ्॥ ं११।५१अ[५०ंअ]/ अन्नहर्ताऽमयावित्वं मौक्यं वागपहारकः । ं११।५१च्[५०ंच्]/ वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥ Bछ्.Sछ्॥ ं११।५२अ[५१ंअ]/ एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । ं११।५२च्[५१ंच्]/ जडमूकान्धबधिरा विकृताकृतयस्तथा ॥ Bछ्.Sछ्॥ ं११।५३अ[५२ंअ]/ चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । ं११।५३च्[५२ंच्]/ निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतेनसः ॥ Bछ्.Sछ्॥ ं११।५४अ[५३ंअ]/ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । ं११।५४च्[५३ंच्]/ महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ Bछ्.Sछ्॥ ं११।५५अ[५४ंअ]/ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । ं११।५५च्[५४ंच्]/ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ Bछ्.Sछ्॥ ं११।५६अ[५५ंअ]/ ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । ं११।५६च्[५५ंच्]/ गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ Bछ्.Sछ्॥ ं११।५७अ[५६ंअ]/ निक्षेपस्यापहरणं नराश्वरजतस्य च । ं११।५७च्[५६ंच्]/ भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।५८अ[५७ंअ]/ रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । ं११।५८च्[५७ंच्]/ सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ Bछ्.Sछ्॥ ं११।५९अ[५८ंअ]/ गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः । ं११।५९च्[५८ंच्]/ गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ Bछ्.Sछ्॥ ं११।६०अ[५९ंअ]/ परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च । ं११।६०च्[५९ंच्]/ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ Bछ्.Sछ्॥ ं११।६१अ[६०ंअ]/ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । ं११।६१च्[६०ंच्]/ तडागारामदाराणामपत्यस्य च विक्रयः ॥ Bछ्.Sछ्॥ ं११।६२अ[६१ंअ]/ व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च । ं११।६२च्[६१ंच्]/ भृत्या चाध्ययनादानमपण्यानां च विक्रयः ॥ Bछ्.Sछ्॥ %[ं।भृताच्चाध्ययनादानम्] ं११।६३अ[६२ंअ]/ सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् । ं११।६३च्[६२ंच्]/ हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥ Bछ्.Sछ्॥ ं११।६४अ[६३ंअ]/ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् । ं११।६४च्[६३ंच्]/ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ Bछ्.Sछ्॥ ं११।६५अ[६४ंअ]/ अनाहिताग्निता स्तेयं ऋणानामनपक्रिया । ं११।६५च्[६४ंच्]/ असत्शास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥ Bछ्.Sछ्॥ ं११।६६अ[६५ंअ]/ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । ं११।६६च्[६५ंच्]/ स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ Bछ्.Sछ्॥ ं११।६७अ[६६ंअ]/ ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः । %[ं रुजःकृत्यं] ं११।६७च्[६६ंच्]/ जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।६८अ[६७ंअ]/ खराश्वोष्ट्रमृगैभानामजाविकवधस्तथा । ं११।६८च्[६७ंच्]/ सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ Bछ्.Sछ्॥ ं११।६९अ[६८ंअ]/ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । ं११।६९च्[६८ंच्]/ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ Bछ्.Sछ्॥ ं११।७०अ[६९ंअ]/ कृमिकीटवयोहत्या मद्यानुगतभोजनम् । ं११।७०च्[६९ंच्]/ फलेधः।कुसुमस्तेयमधैर्यं च मलावहम् ॥ Bछ्.Sछ्॥ ं११।७१अ[७०ंअ]/ एतान्येनांसि सर्वाणि यथोक्तानि पृथक् पृथक् । ं११।७१च्[७०ंच्]/ यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यग् निबोधत ॥ Bछ्.Sछ्॥ ं११।७२अ[७१ंअ]/ ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । ं११।७२च्[७१ंच्]/ भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ॥ Bछ्.Sछ्॥ ं११।७३अ[७२ंअ]/ लक्ष्यं शस्त्रभृतां वा स्याद् विदुषामिच्छयाऽत्मनः । ं११।७३च्[७२ंच्]/ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्षिराः ॥ Bछ्.Sछ्॥ ं११।७४अ[७३ंअ]/ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा । ं११।७४च्[७३ंच्]/ अभिजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥ Bछ्.Sछ्॥ ं११।७५अ[७४ंअ]/ जपन् वाऽन्यतमं वेदं योजनानां शतं व्रजेत् । ं११।७५च्[७४ंच्]/ ब्रह्महत्यापनोदाय मितभुज्ञियतेन्द्रियः ॥ Bछ्.Sछ्॥ ं११।७६अ[७५ंअ]/ सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । ं११।७६च्[७५ंच्]/ धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥ Bछ्.Sछ्॥ ं११।७७अ[७६ंअ]/ हविष्यभुग् वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् । ं११।७७च्[७६ंच्]/ जपेद् वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ॥ Bछ्.Sछ्॥ ं११।७८अ[७७ंअ]/ कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा । ं११।७८च्[७७ंच्]/ आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ Bछ्.Sछ्॥ ं११।७९अ[७८ंअ]/ ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् । %[ं।संयक् प्राणान्] ं११।७९च्[७८ंच्]/ मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ Bछ्.Sछ्॥ ं११।८०अ[७९ंअ]/ त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । %[ं।त्र्यवरं] ं११।८०च्[७९ंच्]/ विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ Bछ्.Sछ्॥ %[ं।प्राणालाभेऽपि मुच्यते ] ं११।८१अ[८०ंअ]/ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । ं११।८१च्[८०ंच्]/ समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ Bछ्.Sछ्॥ ं११।८२अ[८१ंअ]/ शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । ं११।८२च्[८१ंच्]/ स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ Bछ्.Sछ्॥ ं११।८३अ[८२ंअ]/ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । ं११।८३च्[८२ंच्]/ तस्मात् समागमे तेषामेनो विख्याप्य शुध्यति ॥ Bछ्.Sछ्॥ ं११।८४अ[८३ंअ]/ ब्रह्मणः संभवेनैव देवानामपि दैवतम् । ं११।८४च्[८३ंच्]/ प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ Bछ्.Sछ्॥ ं११।८५अ[८४ंअ]/ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् । ं११।८५च्[८४ंच्]/ सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ॥ Bछ्.Sछ्॥ %[ं।पवित्रं ] ं११।८६अ[८५ंअ]/ अतोऽन्यतममास्थाय विधिं विप्रः समाहितः । ं११।८६च्[८५ंच्]/ ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥ Bछ्.Sछ्॥ ं११।८७अ[८६ंअ]/ हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् । ं११।८७च्[८६ंच्]/ राजन्यवैश्यौ चैजानावात्रेयीमेव च स्त्रियम् ॥ Bछ्.Sछ्॥ ं११।८८अ[८७ंअ]/ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । %[ं।प्रतिरभ्य ] ं११।८८च्[८७ंच्]/ अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृत्वधम् ॥ Bछ्.Sछ्॥ %[ंंइक्षेपं ] ं११।८९अ[८८ंअ]/ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । ं११।८९च्[८८ंच्]/ कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ Bछ्.Sछ्॥ ं११।९०अ[८९ंअ]/ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । ं११।९०च्[८९ंच्]/ तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥ Bछ्.Sछ्॥ ं११।९१अ[९०ंअ]/ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । ं११।९१च्[९०ंच्]/ पयो घृतं वाऽ मरणाद् गोशकृद्रसमेव वा ॥ Bछ्.Sछ्॥ ं११।९२अ[९१ंअ]/ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत्निशि । ं११।९२च्[९१ंच्]/ सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ Bछ्.Sछ्॥ ं११।९३अ[९२ंअ]/ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । ं११।९३च्[९२ंच्]/ तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ Bछ्.Sछ्॥ ं११।९४अ[९३ंअ]/ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । ं११।९४च्[९३ंच्]/ यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ Bछ्.Sछ्॥ ं११।९५अ[९४ंअ]/ यक्षरक्षः।पिशाचान्नं मद्यं मांसं सुरासवम् । ं११।९५च्[९४ंच्]/ तद् ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ Bछ्.Sछ्॥ ं११।९६अ[९५ंअ]/ अमेध्ये वा पतेन् मत्तो वैदिकं वाऽप्युदाहरेत् । ं११।९६च्[९५ंच्]/ अकार्यमन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥ Bछ्.Sछ्॥ ं११।९७अ[९६ंअ]/ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । ं११।९७च्[९६ंच्]/ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ Bछ्.Sछ्॥ ं११।९८अ[९७ंअ]/ एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । ं११।९८च्[९७ंच्]/ अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ Bछ्.Sछ्॥ ं११।९९अ[९८ंअ]/ सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु । ं११।९९च्[९८ंच्]/ स्वकर्म ख्यापयन् ब्रूयात्मां भवाननुशास्त्विति ॥ Bछ्.Sछ्॥ ं११।१००अ[९९ंअ]/ गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् । ं११।१००च्[९९ंच्]/ वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ Bछ्.Sछ्॥ ं११।१०१अ[१००ंअ]/ तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । ं११।१०१च्[१००ंच्]/ चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महनो व्रतम् ॥ Bछ्.Sछ्॥ ं११।१०२अ[१०१ंअ]/ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । ं११।१०२च्[१०१ंच्]/ गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ Bछ्.Sछ्॥ ं११।१०३अ[१०२ंअ]/ गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । %[ं।तल्पे स्वप्याद् ] ं११।१०३च्[१०२ंच्]/ सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥ Bछ्.Sछ्॥ %[ं।वाऽश्लिष्येन् ] ं११।१०४अ[१०३ंअ]/ स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ । ं११।१०४च्[१०३ंच्]/ नैर्ऋतीं दिशमातिष्ठेदा निपातादजिह्मगः ॥ Bछ्.Sछ्॥ ं११।१०५अ[१०४ंअ]/ खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । ं११।१०५च्[१०४ंच्]/ प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥ Bछ्.Sछ्॥ ं११।१०६अ[१०५ंअ]/ चान्द्रायणं वा त्रीन् मासानभ्यस्येन्नियतैन्द्रियः । ं११।१०६च्[१०५ंच्]/ हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ Bछ्.Sछ्॥ ं११।१०७अ[१०६ंअ]/ एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् । ं११।१०७च्[१०६ंच्]/ उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः ॥ Bछ्.Sछ्॥ ं११।१०८अ[१०७ंअ]/ उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । ं११।१०८च्[१०७ंच्]/ कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥ Bछ्.Sछ्॥ ं११।१०९अ[१०८ंअ]/ चतुर्थकालमश्नीयादक्षारलवणं मितम् । ं११।१०९च्[१०८ंच्]/ गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥ Bछ्.Sछ्॥ ं११।११०अ[१०९ंअ]/ दिवाऽनुगच्छेद् गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् । ं११।११०च्[१०९ंच्]/ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ Bछ्.Sछ्॥ %[ं।वीरासनो] ं११।१११अ[११०ंअ]/ तिष्ठन्तीष्वनुतिष्ठेत् तु व्रजन्तीष्वप्यनुव्रजेत् । ं११।१११च्[११०ंच्]/ आसीनासु तथाऽसीनो नियतो वीतमत्सरः ॥ Bछ्.Sछ्॥ ं११।११२अ[१११ंअ]/ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । ं११।११२च्[१११ंच्]/ पतितां पङ्कलग्नां वा सर्वौपायैर् विमोचयेत् ॥ Bछ्.Sछ्॥ %[क्:सर्वप्राणैर्] ं११।११३अ[११२ंअ]/ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । ं११।११३च्[११२ंच्]/ न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ Bछ्.Sछ्॥ ं११।११४अ[११३ंअ]/ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले । ं११।११४च्[११३ंच्]/ भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ Bछ्.Sछ्॥ ं११।११५अ[११४ंअ]/ अनेन विधिना यस्तु गोघ्नो गामनुगच्छति । ं११।११५च्[११४ंच्]/ स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ Bछ्.Sछ्॥ ं११।११६अ[११५ंअ]/ वृषभैकादशा गाश्च दद्यात् सुचरितव्रतः । ं११।११६च्[११५ंच्]/ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ Bछ्.Sछ्॥ ं११।११७अ[११६ंअ]/ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । ं११।११७च्[११६ंच्]/ अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥ Bछ्.Sछ्॥ %[ंऽवकीर्णिवर्जं ] ं११।११८अ[११७ंअ]/ अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । ं११।११८च्[११७ंच्]/ पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥ Bछ्.Sछ्॥ ं११।११९अ[११८ंअ]/ हुत्वाऽग्नौ विधिवद् होमानन्ततश्च समित्यृचा । ं११।११९च्[११८ंच्]/ वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाऽहुतीः ॥ Bछ्.Sछ्॥ ं११।१२०अ[११९ंअ]/ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । ं११।१२०च्[११९ंच्]/ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ Bछ्.Sछ्॥ ं११।१२१अ[१२०ंअ]/ मारुतं पुरुहूतं च गुरुं पावकमेव च । ं११।१२१च्[१२०ंच्]/ चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ Bछ्.Sछ्॥ ं११।१२२अ[१२१ंअ]/ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । ं११।१२२च्[१२१ंच्]/ सप्तागारांश्चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥ Bछ्.Sछ्॥ ं११।१२३अ[१२२ंअ]/ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । ं११।१२३च्[१२२ंच्]/ उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति ॥ Bछ्.Sछ्॥ %[ं।त्रिषवणं अब्देन ] ं११।१२४अ[१२३ंअ]/ जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । ं११।१२४च्[१२३ंच्]/ चरेत् सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ Bछ्.Sछ्॥ ं११।१२५अ[१२४ंअ]/ सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् । %[ंऽइन्दवः] ं११।१२५च्[१२४ंच्]/ मलिनीकरणीयेषु तप्तः स्याद् यावकैस्त्र्यहम् ॥ Bछ्.Sछ्॥ ं११।१२६अ[१२५ंअ]/ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । ं११।१२६च्[१२५ंच्]/ वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ Bछ्.Sछ्॥ ं११।१२७अ[१२६ंअ]/ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । ं११।१२७च्[१२६ंच्]/ वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ॥ Bछ्.Sछ्॥ ं११।१२८अ[१२७ंअ]/ त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महनो व्रतम् । ं११।१२८च्[१२७ंच्]/ वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ Bछ्.Sछ्॥ ं११।१२९अ[१२८ंअ]/ एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । ं११।१२९च्[१२८ंच्]/ प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ॥ Bछ्.Sछ्॥ %[ं।दद्याद् वैकशतं गवाम्] ं११।१३०अ[१२९ंअ]/ एतदेव व्रतं कृत्स्नं षण्मासांशूद्रहा चरेत् )। ं११।१३०च्[१२९ंच्]/ वृषभेकादशा वाऽपि दद्याद् विप्राय गाः सिताः ॥ Bछ्.Sछ्॥ ं११।१३१अ[१३०ंअ]/ मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च । ं११।१३१च्[१३०ंच्]/ श्वगोधौलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ Bछ्.Sछ्॥ ं११।१३२अ[१३१ंअ]/ पयः पिबेत् त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् । ं११।१३२च्[१३१ंच्]/ उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाऽब्।दैवतं जपेत् ॥ Bछ्.Sछ्॥ ं११।१३३अ[१३२ंअ]/ अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । ं११।१३३च्[१३२ंच्]/ पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ Bछ्.Sछ्॥ ं११।१३४अ[१३३ंअ]/ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । ं११।१३४च्[१३३ंच्]/ शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ Bछ्.Sछ्॥ ं११।१३५अ[१३४ंअ]/ हत्वा हंसं बलाकां च बकं बर्हिणमेव च । ं११।१३५च्[१३४ंच्]/ वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ Bछ्.Sछ्॥ ं११।१३६अ[१३५ंअ]/ वासो दद्याद् हयं हत्वा पञ्च नीलान् वृषान् गजम् । ं११।१३६च्[१३५ंच्]/ अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥ Bछ्.Sछ्॥ ं११।१३७अ[१३६ंअ]/ क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । ं११।१३७च्[१३६ंच्]/ अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ Bछ्.Sछ्॥ ं११।१३८अ[१३७ंअ]/ जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये । ं११।१३८च्[१३७ंच्]/ चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ॥ Bछ्.Sछ्॥ ं११।१३९अ[१३८ंअ]/ दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् । ं११।१३९च्[१३८ंच्]/ एकैकशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥ Bछ्.Sछ्॥ ं११।१४०अ[१३९ंअ]/ अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । ं११।१४०च्[१३९ंच्]/ पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ Bछ्.Sछ्॥ ं११।१४१अ[१४०ंअ]/ किं चिदेव तु विप्राय दद्यादस्थिमतां वधे । ं११।१४१च्[१४०ंच्]/ अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ Bछ्.Sछ्॥ ं११।१४२अ[१४१ंअ]/ फलदानां तु वृक्षाणां छेदने जप्यमृच्शतम् । ं११।१४२च्[१४१ंच्]/ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ Bछ्.Sछ्॥ ं११।१४३अ[१४२ंअ]/ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । ं११।१४३च्[१४२ंच्]/ फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ Bछ्.Sछ्॥ ं११।१४४अ[१४३ंअ]/ कृष्तजानामोषधीनां जातानां च स्वयं वने । ं११।१४४च्[१४३ंच्]/ वृथालम्भेऽनुगच्छेद् गां दिनमेकं पयोव्रतः ॥ Bछ्.Sछ्॥ ं११।१४५अ[१४४ंअ]/ एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् । ं११।१४५च्[१४४ंच्]/ ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ Bछ्.Sछ्॥ ं११।१४६अ[१४५ंअ]/ अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । ं११।१४६च्[१४५ंच्]/ मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ Bछ्.Sछ्॥ ं११।१४७अ[१४६ंअ]/ अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । ं११।१४७च्[१४६ंच्]/ पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥ Bछ्.Sछ्॥ ं११।१४८अ[१४७ंअ]/ स्पृष्ट्वा दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च । ं११।१४८च्[१४७ंच्]/ शूद्रोच्छिष्टाश्च पीत्वाऽपः कुशवारि पिबेत् त्र्यहम् ॥ Bछ्.Sछ्॥ ं११।१४९अ[१४८ंअ]/ ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । ं११।१४९च्[१४८ंच्]/ प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥ Bछ्.Sछ्॥ ं११।१५०अ[१४९ंअ]/ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । ं११।१५०च्[१४९ंच्]/ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ Bछ्.Sछ्॥ ं११।१५१अ[१५०ंअ]/ वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । %[ं।भैक्ष्यचर्या ] ं११।१५१च्[१५०ंच्]/ निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ Bछ्.Sछ्॥ ं११।१५२अ[१५१ंअ]/ अभोज्यानां तु भुक्त्वाऽन्नं स्त्रीशूद्रोच्छिष्टमेव च । ं११।१५२[१५१ंच्]/ जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ Bछ्.Sछ्॥ ं११।१५३अ[१५२ंअ]/ शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः । ं११।१५३च्[१५२ंच्]/ तावद् भवत्यप्रयतो यावत् तन्न व्रजत्यधः ॥ Bछ्.Sछ्॥ ं११।१५४अ[१५३ंअ]/ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । ं११।१५४च्[१५३ंच्]/ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ Bछ्.Sछ्॥ ं११।१५५अ[१५४ंअ]/ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । ं११।१५५च्[१५४ंच्]/ अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ॥ Bछ्.Sछ्॥ ं११।१५६अ[१५५ंअ]/ क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे । ं११।१५६च्[१५५ंच्]/ नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ Bछ्.Sछ्॥ ं११।१५७अ[१५६ंअ]/ मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः । ं११।१५७च्[१५६ंच्]/ स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ Bछ्.Sछ्॥ ं११।१५८अ[१५७ंअ]/ ब्रह्मचारी तु योऽश्नीयान् मधु मांसं कथं चन । %[ं।व्रतचारी तु ] ं११।१५८च्[१५७ंच्]/ स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ Bछ्.Sछ्॥ ं११।१५९अ[१५८ंअ]/ बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । ं११।१५९च्[१५८ंच्]/ केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ Bछ्.Sछ्॥ ं११।१६०अ[१५९ंअ]/ अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । ं११।१६०च्[१५९ंच्]/ अज्ञानभुक्तं तूत्तार्यं शोध्यं वाऽप्याशु शोधनैः ॥ Bछ्.Sछ्॥ ं११।१६१अ[१६०ंअ]/ एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः । ं११।१६१च्[१६०ंच्]/ स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ Bछ्.Sछ्॥ ं११।१६२अ[१६१ंअ]/ धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । ं११।१६२च्[१६१ंच्]/ स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥ Bछ्.Sछ्॥ ं११।१६३अ[१६२ंअ]/ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । ं११।१६३च्[१६२ंच्]/ कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।१६४अ[१६३ंअ]/ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः । %[ं।कृत्वाऽन्यवेश्मनि] ं११।१६४च्[१६३ंच्]/ चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ Bछ्.Sछ्॥ ं११।१६५अ[१६४ंअ]/ भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च । ं११।१६५च्[१६४ंच्]/ पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ Bछ्.Sछ्॥ ं११।१६६अ[१६५ंअ]/ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । ं११।१६६च्[१६५ंच्]/ चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ Bछ्.Sछ्॥ %[ंॅहैलचर्मामिक्षाणां ] ं११।१६७अ[१६६ंअ]/ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । ं११।१६७च्[१६६ंच्]/ अयः।कांस्यौपलानां च द्वादशाहं कणान्नता ॥ Bछ्.Sछ्॥ ं११।१६८अ[१६७ंअ]/ कार्पासकीटजोर्णानां द्विशफेकशफस्य च । %[ं।द्वेशफेकखुरस्य च] ं११।१६८च्[१६७ंच्]/ पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ Bछ्.Sछ्॥ ं११।१६९अ[१६८ंअ]/ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । ं११।१६९च्[१६८ंच्]/ अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ Bछ्.Sछ्॥ ं११।१७०अ[१६९ंअ]/ गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु । ं११।१७०च्[१६९ंच्]/ सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ Bछ्.Sछ्॥ ं११।१७१अ[१७०ंअ]/ पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च । ं११।१७१च्[१७०ंच्]/ मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ Bछ्.Sछ्॥ %[भ्रातुराप्तस्य गत्वा)] ं११।१७२अ[१७१ंअ]/ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् । ं११।१७२च्[१७१ंच्]/ ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥ Bछ्.Sछ्॥ ं११।१७३अ[१७२ंअ]/ अमानुषीषू पुरुष उदक्यायामयोनिषु । ं११।१७३च्[१७२ंच्]/ रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ Bछ्.Sछ्॥ ं११।१७४अ[१७३ंअ]/ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । ं११।१७४च्[१७३ंच्]/ गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ Bछ्.Sछ्॥ ं११।१७५अ[१७४ंअ]/ चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । ं११।१७५च्[१७४ंच्]/ पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ Bछ्.Sछ्॥ ं११।१७६अ[१७५ंअ]/ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । ं११।१७६च्[१७५ंच्]/ यत् पुंसः परदारेषु तच्चैनां चारयेद् व्रतम् ॥ Bछ्.Sछ्॥ ं११।१७७अ[१७६ंअ]/ सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता । %[क्:सदृशेनोपयन्त्रिता?] ं११।१७७च्[१७६ंच्]/ कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।१७८अ[१७७ंअ]/ यत् करोत्येकरात्रेण वृषलीसेवनाद् द्विजः । ं११।१७८च्[१७७ंच्]/ तद् भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ Bछ्.Sछ्॥ ं११।१७९अ[१७८ंअ]/ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । ं११।१७९च्[१७८ंच्]/ पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ Bछ्.Sछ्॥ ं११।१८०अ[१७९ंअ]/ संवत्सरेण पतति पतितेन सहाचरन् । ं११।१८०च्[१७९ंच्]/ याजनाध्यापनाद् यौनान्न तु यानासनाशनात् ॥ Bछ्.Sछ्॥ ं११।१८१अ[१८०ंअ]/ यो येन पतितेनैषां संसर्गं याति मानवः । ं११।१८१च्[१८०ंच्]/ स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ Bछ्.Sछ्॥ ं११।१८२अ[१८१ंअ]/ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । ं११।१८२च्[१८१ंच्]/ निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ॥ Bछ्.Sछ्॥ ं११।१८३अ[१८२ंअ]/ दासी घटमपां पूर्णं पर्यस्येत् प्रेतवत् पदा । ं११।१८३च्[१८२ंच्]/ अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ Bछ्.Sछ्॥ ं११।१८४अ[१८३ंअ]/ निवर्तेरंश्च तस्मात् तु संभाषणसहासने । ं११।१८४च्[१८३ंच्]/ दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ Bछ्.Sछ्॥ ं११।१८५अ[१८४ंअ]/ ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् । %[ं।यद् वसु ] ं११।१८५च्[१८४ंच्]/ ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ॥ Bछ्.Sछ्॥ ं११।१८६अ[१८५ंअ]/ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् । ं११।१८६च्[१८५ंच्]/ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ Bछ्.Sछ्॥ ं११।१८७अ[१८६ंअ]/ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् । ं११।१८७च्[१८६ंच्]/ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ Bछ्.Sछ्॥ ं११।१८८अ[१८७ंअ]/ एतदेव विधिं कुर्याद् योषित्सु पतितास्वपि । %[ंएतमेव विधिं] ं११।१८८च्[१८७ंच्]/ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ Bछ्.Sछ्॥ ं११।१८९अ[१८८ंअ]/ एनस्विभिरनिर्णिक्तैर्नार्थं किं चित् सहाचरेत् । ं११।१८९च्[१८८ंच्]/ कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ॥ Bछ्.Sछ्॥ %[ं।कृतनिर्णेजनांश्चैतान् ] ं११।१९०अ[१८९ंअ]/ बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । ं११।१९०च्[१८९ंच्]/ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ Bछ्.Sछ्॥ ं११।१९१अ[१९०ंअ]/ येषां द्विजानां सावित्री नानूच्येत यथाविधि । ं११।१९१च्[१९०ंच्]/ तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्योपनाययेत् ॥ Bछ्.Sछ्॥ ं११।१९२अ[१९१ंअ]/ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ं११।१९२च्[१९१ंच्]/ ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ Bछ्.Sछ्॥ ं११।१९३अ[१९२ंअ]/ यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । ं११।१९३च्[१९२ंच्]/ तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ Bछ्.Sछ्॥ ं११।१९४अ[१९३ंअ]/ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । ं११।१९४च्[१९३ंच्]/ मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ Bछ्.Sछ्॥ ं११।१९५अ[१९४ंअ]/ उपवासकृशं तं तु गोव्रजात् पुनरागतम् । ं११।१९५च्[१९४ंच्]/ प्रणतं प्रति पृच्छेयुः साम्यं सौम्यैच्छसीति किम् ॥ Bछ्.Sछ्॥ ं११।१९६अ[१९५ंअ]/ सत्यमुक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् । ं११।१९६च्[१९५ंच्]/ गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ Bछ्.Sछ्॥ ं११।१९७अ[१९६ंअ]/ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । ं११।१९७च्[१९६ंच्]/ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ Bछ्.Sछ्॥ ं११।१९८अ[१९७ंअ]/ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । ं११।१९८च्[१९७ंच्]/ संवत्सरं यवाहारस्तत् पापमपसेधति ॥ Bछ्.Sछ्॥ ं११।१९९अ[१९८ंअ]/ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । ं११।१९९च्[१९८ंच्]/ नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥ Bछ्.Sछ्॥ ं११।२००अ[१९९ंअ]/ षष्ठान्नकालता मासं संहिताजप एव वा । ं११।२००च्[१९९ंच्]/ होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ Bछ्.Sछ्॥ %[ं। होमाश्च शाकला ] ं११।२०१अ[२००ंअ]/ उष्ट्रयानं समारुह्य खरयानं तु कामतः । ं११।२०१च्[२००ंच्]/ स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ Bछ्.Sछ्॥ ं११।२०२अ[२०१ंअ]/ विनाऽद्भिरप्सु वाऽप्यार्तः शारीरं संनिषेव्य च । ं११।२०२च्[२०१ंच्]/ सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ Bछ्.Sछ्॥ ं११।२०३अ[२०२ंअ]/ वेदोदितानां नित्यानां कर्मणां समतिक्रमे । ं११।२०३च्[२०२ंच्]/ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ Bछ्.Sछ्॥ ं११।२०४अ[२०३ंअ]/ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । ं११।२०४च्[२०३ंच्]/ स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥ Bछ्.Sछ्॥ ं११।२०५अ[२०४ंअ]/ ताडयित्वा तृणेनापि कण्ठे वाऽबध्य वाससा । ं११।२०५च्[२०४ंच्]/ विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ Bछ्.Sछ्॥ ं११।२०६अ[२०५ंअ]/ अवगूर्य त्वब्दशतं सहस्रमभिहत्य च । ं११।२०६च्[२०५ंच्]/ जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ Bछ्.Sछ्॥ ं११।२०७अ[२०६ंअ]/ शोणितं यावतः पांसून् सङ्गृह्णाति महीतले । ं११।२०७च्[२०६ंच्]/ तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ Bछ्.Sछ्॥ %[ंंअरके व्रजेत् ] ं११।२०८अ[२०७ंअ]/ अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । ं११।२०८च्[२०७ंच्]/ कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ Bछ्.Sछ्॥ ं११।२०९अ[२०८ंअ]/ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । ं११।२०९च्[२०८ंच्]/ शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ Bछ्.Sछ्॥ ं११।२१०अ[२०९ंअ]/ यैरभ्युपायैरेनांसि मानवो व्यपकर्षति । ं११।२१०च्[२०९ंच्]/ तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ Bछ्.Sछ्॥ ं११।२११अ[२१०ंअ]/ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । ं११।२११च्[२१०ंच्]/ त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ Bछ्.Sछ्॥ ं११।२१२अ[२११ंअ]/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । ं११।२१२च्[२११ंच्]/ एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।२१३अ[२१२ंअ]/ एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । ं११।२१३च्[२१२ंच्]/ त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥ Bछ्.Sछ्॥ ं११।२१४अ[२१३ंअ]/ तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् । ं११।२१४च्[२१३ंच्]/ प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ Bछ्.Sछ्॥ ं११।२१५अ[२१४ंअ]/ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । ं११।२१५च्[२१४ंच्]/ पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥ Bछ्.Sछ्॥ ं११।२१६अ[२१५ंअ]/ एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् । ं११।२१६च्[२१५ंच्]/ उपस्पृशंस्त्रिषवणमेतत्चाण्ड्रायणं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।२१७अ[२१६ंअ]/ एतमेव विधिं कृत्स्नमाचरेद् यवमध्यमे । ं११।२१७च्[२१६ंच्]/ शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ Bछ्.Sछ्॥ ं११।२१८अ[२१७ंअ]/ अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । ं११।२१८च्[२१७ंच्]/ नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ Bछ्.Sछ्॥ ं११।२१९अ[२१८ंअ]/ चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । ं११।२१९च्[२१८ंच्]/ चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ Bछ्.Sछ्॥ ं११।२२०अ[२१९ंअ]/ यथा कथं चित् पिण्डानां तिस्रोऽशीतीः समाहितः । ं११।२२०च्[२१९ंच्]/ मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ Bछ्.Sछ्॥ ं११।२२१अ[२२०ंअ]/ एतद् रुद्रास्तथाऽदित्या वसवश्चाचरन् व्रतम् । ं११।२२१च्[२२०ंच्]/ सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥ Bछ्.Sछ्॥ ं११।२२२अ[२२१ंअ]/ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् । ं११।२२२च्[२२१ंच्]/ अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ Bछ्.Sछ्॥ ं११।२२३अ[२२२ंअ]/ त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् । ं११।२२३च्[२२२ंच्]/ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥ Bछ्.Sछ्॥ ं११।२२४अ[२२३ंअ]/ स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा । ं११।२२४च्[२२३ंच्]/ ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥ Bछ्.Sछ्॥ ं११।२२५अ[२२४ंअ]/ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः । ं११।२२५च्[२२४ंच्]/ सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥ Bछ्.Sछ्॥ ं११।२२६अ[२२५ंअ]/ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतेनसः । ं११।२२६च्[२२५ंच्]/ अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ Bछ्.Sछ्॥ ं११।२२७अ[२२६ंअ]/ ख्यापनेनानुतापेन तपसाऽध्ययनेन च । ं११।२२७च्[२२६ंच्]/ पापकृत्मुच्यते पापात् तथा दानेन चापदि ॥ Bछ्.Sछ्॥ ं११।२२८अ[२२७ंअ]/ यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते । ं११।२२८च्[२२७ंच्]/ तथा तथा त्वचैवाहिस्तेनाधर्मेण मुच्यते ॥ Bछ्.Sछ्॥ ं११।२२९अ[२२८ंअ]/ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । ं११।२२९च्[२२८ंच्]/ तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ॥ Bछ्.Sछ्॥ ं११।२३०अ[२२९ंअ]/ कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते । ं११।२३०च्[२२९ंच्]/ नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥ Bछ्.Sछ्॥ ं११।२३१अ[२३०ंअ]/ एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् । ं११।२३१च्[२३०ंच्]/ मनोवाङ्मूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ Bछ्.Sछ्॥ ं११।२३२अ[२३१ंअ]/ अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । ं११।२३२च्[२३१ंच्]/ तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ Bछ्.Sछ्॥ ं११।२३३अ[२३२ंअ]/ यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम् । ं११।२३३च्[२३२ंच्]/ तस्मिंस्तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ Bछ्.Sछ्॥ ं११।२३४अ[२३३ंअ]/ तपोमूलमिदं सर्वं दैवमानुषकं सुखम् । ं११।२३४च्[२३३ंच्]/ तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥ Bछ्.Sछ्॥ ं११।२३५अ[२३४ंअ]/ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । ं११।२३५च्[२३४ंच्]/ वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ Bछ्.Sछ्॥ ं११।२३६अ[२३५ंअ]/ ऋषयः संयतात्मानः फलमूलानिलाशनाः । ं११।२३६च्[२३५ंच्]/ तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ Bछ्.Sछ्॥ ं११।२३७अ[२३६ंअ]/ औषधान्यगदो विद्या दैवी च विविधा स्थितिः । ं११।२३७च्[२३६ंच्]/ तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ Bछ्.Sछ्॥ ं११।२३८अ[२३७ंअ]/ यद् दुस्तरं यद् दुरापं यद् दुर्गं यच्च दुष्करम् । ं११।२३८च्[२३७ंच्]/ सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ Bछ्.Sछ्॥ %[ं।सर्वं तत् तपसा ] ं११।२३९अ[२३८ंअ]/ महापातकिनश्चैव शेषाश्चाकार्यकारिणः । ं११।२३९च्[२३८ंच्]/ तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ Bछ्.Sछ्॥ ं११।२४०अ[२३९ंअ]/ कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च । ं११।२४०च्[२३९ंच्]/ स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ Bछ्.Sछ्॥ ं११।२४१अ[२४०ंअ]/ यत् किं चिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिर्जनाः । %[ंंअनोवाच्।कर्मभिर्] ं११।२४१च्[२४०ंच्]/ तत् सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ Bछ्.Sछ्॥ ं११।२४२अ[२४१ंअ]/ तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । ं११।२४२च्[२४१ंच्]/ इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ Bछ्.Sछ्॥ ं११।२४३अ[२४२ंअ]/ प्रजापतिरिदं शास्त्रं तपसैवासृजत् प्रभुः । ं११।२४३च्[२४२ंच्]/ तथैव वेदान् ऋषयस्तपसा प्रतिपेदिरे ॥ Bछ्.Sछ्॥ ं११।२४४अ[२४३ंअ]/ इत्येतत् तपसो देवा महाभाग्यं प्रचक्षते । %[ं।यदेतत् तपसो] ं११।२४४च्[२४३ंच्]/ सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ॥ Bछ्.Sछ्॥ %[ं।पुण्यमुद्भवं ] ं११।२४५अ[२४४ंअ]/ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । ं११।२४५च्[२४४ंच्]/ नाशयन्त्याशु पापानि महापातकजान्यपि ॥ Bछ्.Sछ्॥ ं११।२४६अ[२४५ंअ]/ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । ं११।२४६च्[२४५ंच्]/ तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ Bछ्.Sछ्॥ ं११।२४७अ[२४६ंअ]/ इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि । ं११।२४७च्[२४६ंच्]/ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ Bछ्.Sछ्॥ ं११।२४८अ[२४७ंअ]/ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । ं११।२४८च्[२४७ंच्]/ अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥ Bछ्.Sछ्॥ ं११।२४९अ[२४८ंअ]/ कौत्सं जप्त्वाऽप इत्येतद् वसिष्ठं च प्रतीत्य् ऋचम् । ं११।२४९च्[२४८ंच्]/ माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ Bछ्.Sछ्॥ ं११।२५०अ[२४९ंअ]/ सकृत्जप्त्वाऽस्यवामीयं शिवसङ्कल्पमेव च । ं११।२५०च्[२४९ंच्]/ अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥ Bछ्.Sछ्॥ ं११।२५१अ[२५०ंअ]/ हविष्पान्तीयमभ्यस्य न तमं ह इतीति च । ं११।२५१च्[२५०ंच्]/ जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः । ं११।२५२अ[२५१ंअ]/ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । ं११।२५२च्[२५१ंच्]/ अवेत्यर्चं जपेदब्दं यत् किं चेदमितीति वा ??॥ Bछ्.Sछ्॥ ं११।२५३अ[२५२ंअ]/ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । ं११।२५३च्[२५२ंच्]/ जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ Bछ्.Sछ्॥ ं११।२५४अ[२५३ंअ]/ सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति । %[ं।समामभ्यस्य)] ं११।२५४च्[२५३ंच्]/ स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम् ॥ Bछ्.Sछ्॥ ं११।२५५अ[२५४ंअ]/ अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् । ं११।२५५च्[२५४ंच्]/ अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ॥ Bछ्.Sछ्॥ ं११।२५६अ[२५५ंअ]/ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । ं११।२५६च्[२५५ंच्]/ सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥ Bछ्.Sछ्॥ ं११।२५७अ[२५६ंअ]/ महापातकसंयुक्तोऽनुगच्छेद् गाः समाहितः । ं११।२५७च्[२५६ंच्]/ अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति ॥ Bछ्.Sछ्॥ ं११।२५८अ[२५७ंअ]/ अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । ं११।२५८च्[२५७ंच्]/ मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ Bछ्.Sछ्॥ ं११।२५९अ[२५८ंअ]/ त्र्यहं तूपवसेद् युक्तस्त्रिरह्नोऽभ्युपयन्नपः । ं११।२५९च्[२५८ंच्]/ मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ॥ Bछ्.Sछ्॥ ं११।२६०अ[२५९ंअ]/ यथाऽश्वमेधः क्रतुराड् सर्वपापापनोदनः । ं११।२६०च्[२५९ंच्]/ तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ Bछ्.Sछ्॥ ं११।२६१अ[२६०ंअ]/ हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः । ं११।२६१च्[२६०ंच्]/ ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ॥ Bछ्.Sछ्॥ ं११।२६२अ[२६१ंअ]/ ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः । ं११।२६२च्[२६१ंच्]/ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ Bछ्.Sछ्॥ ं११।२६३अ[२६२ंअ]/ यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति । ं११।२६३च्[२६२ंच्]/ तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ Bछ्.Sछ्॥ ं११।२६४अ[२६३ंअ]/ ऋचो यजूंषि चान्यानि सामानि विविधानि च । ं११।२६४च्[२६३ंच्]/ एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ Bछ्.Sछ्॥ ं११।२६५अ[२६४ंअ]/ आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । ं११।२६५च्[२६४ंच्]/ स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ Bछ्.Sछ्॥

अध्याय १२

ं१२।०१अ/ चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघः । ं१२।०१च्/ कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ Bछ्.Sछ्॥ ं१२।०२अ/ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः । ं१२।०२च्/ अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ Bछ्.Sछ्॥ ं१२।०३अ/ शुभाशुभफलं कर्म मनोवाग्देहसंभवम् । ं१२।०३च्/ कर्मजा गतयो नॄणामुत्तमाधममध्यमः ॥ Bछ्.Sछ्॥ ं१२।०४अ/ तस्यैह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । ं१२।०४च्/ दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ Bछ्.Sछ्॥ ं१२।०५अ/ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । ं१२।०५च्/ वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ Bछ्.Sछ्॥ ं१२।०६अ/ पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः । ं१२।०६च्/ असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ Bछ्.Sछ्॥ ं१२।०७अ/ अदत्तानामुपादानं हिंसा चैवाविधानतः । ं१२।०७च्/ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ Bछ्.Sछ्॥ ं१२।०८अ/ मानसं मनसेवायमुपभुङ्क्ते शुभाशुभम् । ं१२।०८च्/ वाचा वाचा कृतं कर्म कायेनेव च कायिकम् ॥ Bछ्.Sछ्॥ ं१२।०९अ/ शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । ं१२।०९च्/ वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ Bछ्.Sछ्॥ ं१२।१०अ/ वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । ं१२।१०च्/ यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ Bछ्.Sछ्॥ ं१२।११अ/ त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः । ं१२।११च्/ कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥ Bछ्.Sछ्॥ %[ं।कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति] ं१२।१२अ/ योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । ं१२।१२च्/ यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ Bछ्.Sछ्॥ ं१२।१३अ/ जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम् । ं१२।१३च्/ येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ Bछ्.Sछ्॥ ं१२।१४अ/ तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च । ं१२।१४च्/ उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ Bछ्.Sछ्॥ ं१२।१५अ/ असङ्ख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः । ं१२।१५च्/ उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ Bछ्.Sछ्॥ ं१२।१६अ/ पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । %[ं।पञ्चभ्य एव भूतेभ्यः ] ं१२।१६च्/ शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥ Bछ्.Sछ्॥ ं१२।१७अ/ तेनानुभूय ता यामीः शरीरेणैह यातनाः । ं१२।१७च्/ तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥ Bछ्.Sछ्॥ ं१२।१८अ/ सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् । ं१२।१८च्/ व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥ Bछ्.Sछ्॥ ं१२।१९अ/ तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह । ं१२।१९च्/ याभ्यां प्राप्नोति सम्पृक्तः प्रेत्येह च सुखासुखम् ॥ Bछ्.Sछ्॥ ं१२।२०अ/ यद्याचरति धर्मं स प्रायशोऽधर्ममल्पशः । %[ं।यथाचरति)] ं१२।२०च्/ तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ Bछ्.Sछ्॥ ं१२।२१अ/ यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः । ं१२।२१च्/ तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ Bछ्.Sछ्॥ ं१२।२२अ/ यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः । ं१२।२२च्/ तान्येव पञ्च भूतानि पुनरप्येति भागशः ॥ Bछ्.Sछ्॥ ं१२।२३अ/ एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा । ं१२।२३च्/ धर्मतोऽधर्मतश्चैव धर्मे दध्यात् सदा मनः ॥ Bछ्.Sछ्॥ ं१२।२४अ/ सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् । ं१२।२४च्/ यैर्व्याप्यैमान् स्थितो भावान् महान् सर्वानशेषतः ॥ Bछ्.Sछ्॥ ं१२।२५अ/ यो यदेषां गुणो देहे साकल्येनातिरिच्यते । ं१२।२५च्/ स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ Bछ्.Sछ्॥ ं१२।२६अ/ सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् । ं१२।२६च्/ एतद् व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ Bछ्.Sछ्॥ ं१२।२७अ/ तत्र यत् प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् । ं१२।२७च्/ प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ Bछ्.Sछ्॥ ं१२।२८अ/ यत् तु दुःखसमायुक्तमप्रीतिकरमात्मनः । ं१२।२८च्/ तद् रजो प्रतीपं विद्यात् सततं हारि देहिनाम् ॥ Bछ्.Sछ्॥ %[ं। हर्तृ ] ं१२।२९अ/ यत् तु स्यान् मोहसंयुक्तमव्यक्तं विषयात्मकम् । ं१२।२९च्/ अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ Bछ्.Sछ्॥ ं१२।३०अ/ त्रयाणामपि चैतेषां गुणानां यः फलोदयः । ं१२।३०च्/ अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ ं१२।३१अ/ वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः । ं१२।३१च्/ धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ Bछ्.Sछ्॥ ं१२।३२अ/ आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः । ं१२।३२च्/ विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ Bछ्.Sछ्॥ ं१२।३३अ/ लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता । ं१२।३३च्/ याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥ Bछ्.Sछ्॥ ं१२।३४अ/ त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् । ं१२।३४च्/ इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ Bछ्.Sछ्॥ ं१२।३५अ/ यत् कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति । ं१२।३५च्/ तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ Bछ्.Sछ्॥ ं१२।३६अ/ येनास्मिन् कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् । ं१२।३६च्/ न च शोचत्यसम्पत्तौ तद् विज्ञेयं तु राजसम् ॥ Bछ्.Sछ्॥ ं१२।३७अ/ यत् सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् । ं१२।३७च्/ येन तुष्यति चात्माऽस्य तत् सत्त्वगुणलक्षणम् ॥ Bछ्.Sछ्॥ ं१२।३८अ/ तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते । ं१२।३८च्/ सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ Bछ्.Sछ्॥ ं१२।३९अ/ येन यस्तु गुणेनैषां संसरान् प्रतिपद्यते । %[ं।येन यांस्तु ] ं१२।३९च्/ तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ Bछ्.Sछ्॥ ं१२।४०अ/ देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः । ं१२।४०च्/ तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥ Bछ्.Sछ्॥ ं१२।४१अ/ त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः । ं१२।४१च्/ अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ Bछ्.Sछ्॥ ं१२।४२अ/ स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः । ं१२।४२च्/ पशवश्च मृगाश्चैव जघन्या तामसी गतिः ॥ Bछ्.Sछ्॥ ं१२।४३अ/ हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः । ं१२।४३च्/ सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥ Bछ्.Sछ्॥ ं१२।४४अ/ चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः । ं१२।४४च्/ रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥ Bछ्.Sछ्॥ ं१२।४५अ/ झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः । ं१२।४५च्/ द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ Bछ्.Sछ्॥ ं१२।४६अ/ राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः । ं१२।४६च्/ वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ Bछ्.Sछ्॥ ं१२।४७अ/ गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये । ं१२।४७च्/ तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ Bछ्.Sछ्॥ ं१२।४८अ/ तापसा यतयो विप्रा ये च वैमानिका गणाः । ं१२।४८च्/ नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥ Bछ्.Sछ्॥ ं१२।४९अ/ यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः । ं१२।४९च्/ पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥ Bछ्.Sछ्॥ ं१२।५०अ/ ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । ं१२।५०च्/ उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ Bछ्.Sछ्॥ ं१२।५१अ/ एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः । %[ं।त्रिः।प्रकारस्य] ं१२।५१च्/ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ Bछ्.Sछ्॥ ं१२।५२अ/ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । ं१२।५२च्/ पापान् संयान्ति संसारानविद्वांसो नराधमाः ॥ Bछ्.Sछ्॥ ं१२।५३अ/ यां यां योनिं तु जीवोऽयं येन येनैह कर्मणा । ं१२।५३च्/ क्रमशो याति लोकेऽस्मिंस्तत् तत् सर्वं निबोधत ॥ Bछ्.Sछ्॥ ं१२।५४अ/ बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् । ं१२।५४च्/ संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥ Bछ्.Sछ्॥ ं१२।५५अ/ श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । ं१२।५५च्/ चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ॥ Bछ्.Sछ्॥ ं१२।५६अ/ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । ं१२।५६च्/ हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ Bछ्.Sछ्॥ ं१२।५७अ/ लूताऽहिसरटानां च तिरश्चां चाम्बुचारिणाम् । ं१२।५७च्/ हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ Bछ्.Sछ्॥ ं१२।५८अ/ तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । ं१२।५८च्/ क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ Bछ्.Sछ्॥ ं१२।५९अ/ हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः । ं१२।५९च्/ परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ॥ Bछ्.Sछ्॥ ं१२।६०अ/ संयोगं पतितैर्गत्वा परस्यैव च योषितम् । ं१२।६०च्/ अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ Bछ्.Sछ्॥ ं१२।६१अ/ मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । ं१२।६१च्/ विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ Bछ्.Sछ्॥ ं१२।६२अ/ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । ं१२।६२च्/ मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ Bछ्.Sछ्॥ ं१२।६३अ/ मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः । ं१२।६३च्/ चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥ Bछ्.Sछ्॥ ं१२।६४अ/ कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः । ं१२।६४च्/ कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ Bछ्.Sछ्॥ ं१२।६५अ/ छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः । %[ं।छुच्छुन्दरीः ] ं१२।६५च्/ श्वावित् कृतान्नं विविधमकृतान्नं तु शल्यकः ॥ Bछ्.Sछ्॥ ं१२।६६अ/ बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम् । ं१२।६६च्/ रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ Bछ्.Sछ्॥ ं१२।६७अ/ वृको मृगैभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः । ं१२।६७च्/ स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ॥ Bछ्.Sछ्॥ ं१२।६८अ/ यद् वा तद् वा परद्रव्यमपहृत्य बलान्नरः । ं१२।६८च्/ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ Bछ्.Sछ्॥ ं१२।६९अ/ स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । ं१२।६९च्/ एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ Bछ्.Sछ्॥ ं१२।७०अ/ स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि । ं१२।७०च्/ पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु ॥ Bछ्.Sछ्॥ %[ं।यान्ति दस्युषु ] ं१२।७१अ/ वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच्च्युतः । ं१२।७१च्/ अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥ Bछ्.Sछ्॥ %[ं।कूटपूतनः ] ं१२।७२अ/ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । %[ंंऐत्राक्षिज्योतिकः ] ं१२।७२च्/ चैलाशकश्च भवति शूद्रो धर्मात् स्वकाच्च्युतः ॥ Bछ्.Sछ्॥ ं१२।७३अ/ यथा यथा निषेवन्ते विषयान् विषयात्मकाः । ं१२।७३च्/ तथा तथा कुशलता तेषां तेषूपजायते ॥ Bछ्.Sछ्॥ ं१२।७४अ/ तेऽभ्यासात् कर्मणां तेषां पापानामल्पबुद्धयः । ं१२।७४च्/ सम्प्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ॥ Bछ्.Sछ्॥ ं१२।७५अ/ तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् । ं१२।७५च्/ असिपत्रवनादीनि बन्धनछेदनानि च ॥ Bछ्.Sछ्॥ ं१२।७६अ/ विविधाश्चैव सम्पीडाः काकोलूकैश्च भक्षणम् । ं१२।७६च्/ करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् ॥ Bछ्.Sछ्॥ ं१२।७७अ/ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः । ं१२।७७च्/ शीतातपाभिघातांश्च विविधानि भयानि च ॥ Bछ्.Sछ्॥ ं१२।७८अ/ असकृद् गर्भवासेषु वासं जन्म च दारुणम् । ं१२।७८च्/ बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च ॥ Bछ्.Sछ्॥ %[ं।कष्टानि] ं१२।७९अ/ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः । ं१२।७९च्/ द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ Bछ्.Sछ्॥ ं१२।८०अ/ जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् । ं१२।८०च्/ क्लेशांश्च विविधांस्तांस्तान् मृत्युमेव च दुर्जयम् ॥ Bछ्.Sछ्॥ ं१२।८१अ/ यादृशेन तु भावेन यद् यत् कर्म निषेवते । ं१२।८१च्/ तादृशेन शरीरेण तत् तत् फलमुपाश्नुते ॥ Bछ्.Sछ्॥ ं१२।८२अ/ एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः । ं१२।८२च्/ नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ Bछ्.Sछ्॥ ं१२।८३अ/ वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः । ं१२।८३च्/ अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ Bछ्.Sछ्॥ ं१२।८४अ/ सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् । ं१२।८४च्/ किं चित्श्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ Bछ्.Sछ्॥ ं१२।८५अ/ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । ं१२।८५च्/ तद् ह्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ Bछ्.Sछ्॥ ं१२।८६अ/ षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चैह च । ं१२।८६च्/ श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ Bछ्.Sछ्॥ ं१२।८७अ/ वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः । ं१२।८७च्/ अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ ॥ Bछ्.Sछ्॥ ं१२।८८अ/ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च । ं१२।८८च्/ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ Bछ्.Sछ्॥ ं१२।८९अ/ इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । ं१२।८९च्/ निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ॥ Bछ्.Sछ्॥ ं१२।९०अ/ प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् । ं१२।९०च्/ निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥ Bछ्.Sछ्॥ ं१२।९१अ/ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ं१२।९१च्/ समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ Bछ्.Sछ्॥ ं१२।९२अ/ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । ं१२।९२च्/ आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ Bछ्.Sछ्॥ ं१२।९३अ/ एतद् हि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । ं१२।९३च्/ प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥ Bछ्.Sछ्॥ ं१२।९४अ/ पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । ं१२।९४च्/ अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥ Bछ्.Sछ्॥ ं१२।९५अ/ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । %[ं।श्रुतयो ] ं१२।९५च्/ सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ Bछ्.Sछ्॥ ं१२।९६अ/ उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् । %[ंउत्पद्यन्ते विनश्यन्ति ] ं१२।९६च्/ तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च ॥ Bछ्.Sछ्॥ ं१२।९७अ/ चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । ं१२।९७च्/ भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ॥ Bछ्.Sछ्॥ %[ं।भूतं भवद् भविष्यं च ] ं१२।९८अ/ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । ं१२।९८च्/ वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥ Bछ्.Sछ्॥ ं१२।९९अ/ बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । ं१२।९९च्/ तस्मादेतत् परं मन्ये यत्जन्तोरस्य साधनम् ॥ Bछ्.Sछ्॥ ं१२।१००अ/ सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च । %[ं।सैनापत्यं ] ं१२।१००च्/ सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ Bछ्.Sछ्॥ ं१२।१०१अ/ यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् । ं१२।१०१च्/ तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ Bछ्.Sछ्॥ ं१२।१०२अ/ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । ं१२।१०२च्/ इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ Bछ्.Sछ्॥ ं१२।१०३अ/ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । ं१२।१०३च्/ धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ Bछ्.Sछ्॥ ं१२।१०४अ/ तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । ं१२।१०४च्/ तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ॥ Bछ्.Sछ्॥ ं१२।१०५अ/ प्रत्यक्षं चानुमानं च शास्त्रं च विविधाऽऽगमम् । ं१२।१०५च्/ त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ Bछ्.Sछ्॥ ं१२।१०६अ/ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । ं१२।१०६च्/ यस्तर्केणानुसंधत्ते स धर्मं वेद नैतरः ॥ Bछ्.Sछ्॥ ं१२।१०७अ/ नैःश्रेयसमिदं कर्म यथोदितमशेषतः । ं१२।१०७च्/ मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते ॥ Bछ्.Sछ्॥ %[ंउपदेक्ष्यते ] ं१२।१०८अ/ अनाम्नातेषु धर्मेषु कथं स्यादिति चेद् भवेत् । ं१२।१०८च्/ यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ Bछ्.Sछ्॥ ं१२।१०९अ/ धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः । ं१२।१०९च्/ ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ Bछ्.Sछ्॥ ं१२।११०अ/ दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । ं१२।११०च्/ त्र्य्ऽवरा वाऽपि वृत्तस्था तं धर्मं न विचालयेत् ॥ Bछ्.Sछ्॥ ं१२।१११अ/ त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः । ं१२।१११च्/ त्रयश्चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥ Bछ्.Sछ्॥ ं१२।११२अ/ ऋग्वेदविद् यजुर्विद्च सामवेदविदेव च । ं१२।११२च्/ त्र्य्ऽवरा परिषद्ज्ञेया धर्मसंशयनिर्णये ॥ Bछ्.Sछ्॥ ं१२।११३अ/ एकोऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः । ं१२।११३च्/ स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥ Bछ्.Sछ्॥ ं१२।११४अ/ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । ं१२।११४च्/ सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ Bछ्.Sछ्॥ ं१२।११५अ/ यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः । ं१२।११५च्/ तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति ॥ Bछ्.Sछ्॥ ं१२।११६अ/ एतद् वोऽभिहितं सर्वं निःश्रेयसकरं परम् । ं१२।११६च्/ अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ Bछ्.Sछ्॥ ं१२।११७अ/ एवं स भगवान् देवो लोकानां हितकाम्यया । ं१२।११७च्/ धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥ Bछ्.Sछ्॥ ं१२।११८अ/ सर्वमात्मनि सम्पश्येत् सत्चासत्च समाहितः । ं१२।११८च्/ सर्वं ह्यात्मनि सम्पश्यन्नाधर्मे कुरुते मनः ॥ Bछ्.Sछ्॥ %[ंंअतिं ] ं१२।११९अ/ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् । ं१२।११९च्/ आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ Bछ्.Sछ्॥ ं१२।१२०अ/ खं संनिवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् । ं१२।१२०च्/ पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ Bछ्.Sछ्॥ ं१२।१२१अ/ मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । ं१२।१२१च्/ वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥ Bछ्.Sछ्॥ ं१२।१२२अ/ प्रशासितारं सर्वेषामणीयांसमणोरपि । ं१२।१२२च्/ रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥ Bछ्.Sछ्॥ ं१२।१२३अ/ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । ं१२।१२३च्/ इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ Bछ्.Sछ्॥ ं१२।१२४अ/ एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । ं१२।१२४च्/ जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ Bछ्.Sछ्॥ ं१२।१२५अ/ एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना । ं१२।१२५च्/ स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् । ं१२।१२६अ/ इत्येतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः । ं१२।१२६च्/ भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद् गतिम् ॥ Bछ्.Sछ्॥ %[समाप्तं मानवं धर्मशास्त्रम्]

समाप्तं मानवं धर्मशास्त्रम्

% From: Originally typed, analyzed and proofread by M.YANO and Y.IKARI % From: yanom at cc2000.kyoto-su.ac.jp (Michio YANO) % Corrected from Devanagari by Avinash Sathaye sohum at ms.uky.edu %--------------------------------------------------------------------------- %ManusmRti %Originally typed, analyzed and proofread by M.YANO and Y.IKARI %(May-June 1991, January-April1992, March-April 1996) % % %K: ManusmRti with the Sanskrit Commentary Manvartha-MuktAvalI of KullUka %BhaTTa, ed. J.L.Shastri 1983. (Compared with the edition of %Kashi Skt Series 114 ed. Haragovinda Sastri.) %GOI 1932,1939 rep. 1992 % %Text is based upon K, and M's variant is given at each pada-end. %There are verses which are found only in K or M. The difference of %the zloka-numbering of chapter between K and M is noticed. %
Shloka ome sandhis have been dissolved and word division marks such as %᳚-᳚ and ᳚.᳚ are introduced in the text in order to have easy %identification of individual word form. %᳚-᳚ indicates resolve of the external sandhi. %᳚.᳚ indicates word division within a compound. % %[M:] variants of MedhAtithi's %Different numbering of verses between M and K is noted. %========================================================================= %. These files are copyrighted by the members of the Joint Seminar (see . %. below). They may be freely distributed and used for scholarly purposes,. %. but anyone wishing to use the files for commercial purposes must apply . %. to the copyright holders for permission to copy the file. . %========================================================================= %---------------------------------------------------------------------- % Many corrections were made from Devanagari output % by Avinash Sathaye sohum at ms.uky.edu % Conversion file from original .dhz to ITRANS format given here % excluding the manual corrections afterwards is available upon request %---------------------------------------------------------------------- The original file (manu.dhz) was Encoded and partly proofread by Prof. Michio YANO and Y.IKARI. Prof. Avinash Sathaye: sohum at ms.uky.edu

% Text title            : manusmRiti
% File name             : manu.itx
% itxtitle              : manusmRitiH athavA mAnavadharmashAstram
% engtitle              : ManusmRti
% Category              : samajashastra, sociology_astrology
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Michio Yano, Y.Ikari, Avinash Sathaye sohum at ms.uky.edu
% Proofread by          : Michio Yano, Y.Ikari, Avinash Sathaye sohum at ms.uky.edu
% Indexextra            : Sanskrit-Hindi, Text and meaning zip, doc
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP