फलदीपिका
प्रथमोऽध्यायः
राशि भेद
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये
सन्दर्शनं वितनुते पितृदेवनॄणां
मासाब्दवासरदलैरथ उर्ध्वगं यत् ।
सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं
ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः ॥ १॥
वाग्देवीं कुलदेवतां मम गुरून् कालतयज्ञानदान्
सूर्यदींश्च नवग्राहन् गणपातिं बक्त्या प्रणम्येश्वरम् ।
संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद्
वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीत्ये ॥ २॥
पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो
विशेषाद्विज्ञेयः सह विघटिकाभित्तवत तदा ।
गतैदृ क्तुल्यत्वं गणितकरणैः केचरर्गातिं
विदित्वा तद्भावं बलमपि फलं नैः कथयतु ॥ ३॥
शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन-
स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम् ।
विलनात्कालाङ्गान्यलिझषकुलीरान्तिममिदं
भसन्धिविख्याता सकलभवनान्तानपि परे ॥ ४॥
अरण्ये केदारे शयनभवने स्वभगलिले
गिरी पाथ सस्यान्वितमुवि विशां घोरिन सुविरे ।
जनाधीशस्थाने सजलविपिने धाम्नि विचरत्
कुलाले कीलाले वसतिरुदिता मेषभवनात् ॥ ५॥
भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः
मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः ।
सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकार्कमीनास्तुला
दिक्त्र्यंशैर्मनुयुक्तिथीषुभनकांशैस्तेऽस्तनीचाः क्रमात् ॥ ६॥
सिम्होक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवेः
ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः ।
चापाद्यर्धवधूनृयुस्घटतुला मर्त्याश्च कीटोऽलिभं
त्वाप्याः कर्कमृगापरार्धशफराः शेष्हश्चतुष्पादकाः ॥ ७॥
गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राश्यस्ते
पृष्ठोधयकोदयाः समिथुनाः पृहोदयाश्चैन्दवाः ।
सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः त्रमा-
दूध्वार्धःसमवक्रभाति तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् ॥ ८॥
मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं
धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः ।
मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा-
दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् ॥ ९॥
लग्नं होरा कल्यदेहोदयाख्यं रूपं शिर्षं वर्तमानं च जन्म ।
वित्तं विद्या स्वान्नपानाति भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् ॥ १०॥
दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रात्रं च
गेहं क्षेत्रं मातुल भागिनेयं बन्धुं मित्रं वाहनं मातरं च ॥ ११॥
राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः ।
राजाङ्कं सचिवकरात्मधीभविष्यज्जानासून् सुतजटरश्रुतिस्मृतीश्च ॥ १२॥
ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्याघभीत्यवज्ञाः ।
जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः ॥ १३॥
माङ्गल्यरन्ध्रमलिनाधिपराभवायुः
क्लेशापवादमरणाशुचिविघ्नदासान् ।
आचार्यदैवतपितॄन् शुभपूर्वभाग्य-
पूजातपःसुकृतपौत्रजपार्यवंशान् ॥ १४॥
व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं
व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् ।
लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाध्यतां
ज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् ॥ १५॥
दुःखांघ्रिवामनयनक्षयसूचकान्त्य-
दरिद्र्यपापशयनव्ययरिःफबन्धान् ।
भावाह्व्या निगदिताः क्रमशोऽथ लीन-
स्थानं त्रिषड्व्ययपराभवराशिनाम् ॥ १६॥
दुःस्थानमष्टमरिपुव्ययभावमाहुऊ सुस्थानमन्यभवनं शुभदं प्रदिष्टम् ।
प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्तकचतुष्टयनामयुक्तम् ॥ १७॥
पणकरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्-
परमथ चतुरस्त्रं नैधनं बन्धुभं च ।
अथ समुपचयानि व्योमशौर्यरिलाभा
नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् ॥ १८॥
द्वितीयोऽध्यायः
ग्रह भेद
ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं
धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम् ।
शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं
देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् ॥ १॥
मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं
छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् ।
कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो-
योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः ॥ २॥
सत्त्वं भूफलनं सहोदरगुणं क्रौर्यं रणं साहसं
विद्वेषं च महानसाग्निकज्ञात्यस्त्रचोरान्रिपून् ।
उत्साहं परकामिनीरतिमसत्योक्तिं महोजाद्वदे-
द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् ॥ ३॥
पाण्डित्यं सुवचः कलातिपुणतां विद्वत्स्तुतिं मातुलं
वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् ।
यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं
शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् ॥ ४॥
ज्ञानं सद्गुणमात्मजं च सचिवं स्वावारमाचार्यकं
माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नार्तं सद्गतिम् ।
देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं
वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् ॥ ५॥
सम्पद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं
भार्यसौख्यसुगन्धपुष्पमदनव्यापारशय्यालयाण् ।
श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं
साचिव्यं सरसोक्तिमाह भृगुजाद्वाहकर्मोत्सवम् ॥ ६॥
आयुष्यं मरणं भयं पतिततां दुःखावमानामयान्
दारिद्र्यं भृतकापवादकलुषाण्याशौचनिन्द्यापदः ।
स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं
दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनम् ॥ ७॥
पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः ।
कौसुभ्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः ॥ ८॥
स्थूलो युवा च स्थविरः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः ।
रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः ॥ ९॥
मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः ।
रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः ॥ १०॥
दूर्वलताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः ।
रक्तायताक्षो हरितंशुकस्त्वक्सारो बुधो हास्यरुचिः समङ्गः ॥ ११॥
पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः ।
कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः ॥ १२॥
चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेश्च कफानिलात्मा ।
दूर्वङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः ॥ १३॥
पङ्गुनिम्नविलोचनः कृशतनुदरीर्घः सीरालोअऽलसः
कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः ।
मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो
रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥ १४॥
शौवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक्
दुर्गास्थनचधूलौषधिमधुस्थानं विधोर्वायुदिक् ।
चोरम्लिच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता
विद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः ॥ १५॥
कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते-
वेर्श्यावीथ्यवरोघनृत्तशयनस्थानं भृगिरग्निदिक् ।
नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो
वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः ॥ १६॥
शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी
व्याध्रो मृगो दिनपतेः किल चक्रवाकः
शास्ताङ्गनारजकर्कषकतोयगाः स्यु-
रिन्दोः शशश्च हरिणश्च बकश्चकोरः ॥ १७॥
भौमो महानसगतायुधभृत्सुवर्ण-
काराजकुक्कुटशिवाकपिगृध्रचोराः ।
गोपज्ञशिल्पगणकोत्त मविष्णुदासा-
स्तार्क्ष्यः किकी दिवीशुकौ शशिजो बडालः ॥ १८॥
दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः
पारावतः सुरगुरोस्तुरगश्च हंसः ।
गानी धनी विटवणिङ्नटतन्तुवाय-
वेश्यामयूरमहिषाश्च भृगोः शुको गौः ॥ १९॥
तैलक्रयी भृतकनीचकिरातकाय-
स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः ।
बौद्धहितुण्डिकखराजवृकोष्ट्रसर्प-
ध्वान्तादयो मशकमत्कुणकृम्युलूकाः ॥ २०॥
सौम्यः समोऽर्कजसितावहितौ खरांशो-
रिन्दोहितौ रविबुधावपरे समाः स्युः ।
भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञः
सौम्यस्य शीतगुररिः सुहृदौ सितार्कौ ॥ २१॥
सूरेद्विषौ कविबुधौ रविजः समः स्या-
न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ ।
जीवः समः सितविदौ रविजस्य मित्रे
ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः ॥ २२॥
आन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमी
टन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् ।
शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाश्टमौ
पुर्णं पश्यति सप्तमं च सकलास्तेष्वंध्रिवृद्ध्या क्रमात् ॥ २३॥
सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर-
द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः ।
प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे
ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः ॥ २४॥
ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ
तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात् ।
वामाक्षिन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो
जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः सम्ज्ञितः ॥ २५॥
देहो देही हिमरुचिरिनस्त्विन्द्रियाष्यारपूर्वा
आदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः ।
गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ
रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः ॥ २६॥
क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित्
क्लीवाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः ।
रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः
सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः ॥ २७॥
गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गा
निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् ।
भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं
सौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च ॥ २८॥
माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो-
र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् ।
देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने-
र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके ॥ २९॥
ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः ।
वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदगधं कुजस्य ॥ ३०॥
भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य ।
मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः ॥ ३१॥
भास्वग्दीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं
शेषाणामितरत्र तिग्मकिरणात्कटयां शिरःपृष्ठयोः ।
कक्षेऽसे वदने च सविथचरणे चिह्नं वयांस्यर्कतो
नेमे नाथ तटं नखं नग सनि ज्ञानाड्य नग्नाटनम् ॥ ३२॥
नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः ।
असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धीनः ॥ ३३॥
रक्तोग्रदृष्टिविषवाग्रदेहः सशस्त्रः पतितश्च केतुः ।
धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशम्सः ॥ ३४॥
सीसं च जीर्णवसनं तमसस्तु केतो-
र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् ।
मित्राणि विच्छनिसितास्तास्तमसोर्द्व्योस्तु
भौमः समो निगदितो रिपवश्च शेषाः ॥ ३५॥
मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो
दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् ।
चन्द्रेव्ययायतनुषट्सुतकामसंस्थे
तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये ॥ ३६॥
अन्तः सारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मॄतौ
गुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ ।
वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौ
शुकेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः ॥ ३७॥
तृतीयोऽध्यायः
वर्ग-विभाग
क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः ।
ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ॥
दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः
षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् ॥ २॥
क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गे-
ष्वर्द्धं कलादशमषष्टिलवेषु पादम् ।
बालः कुमारतरुणौ प्रवया मृतः षड्
भागः क्रमाद्युजि विपर्ययमित्यवस्थाः ॥ ३॥
क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद्
द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् ।
भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्-
व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाः कर्कटाद्या नवांशाः ॥ ४॥
यज्ञं रत्न जनं धनं नय पटं रूपं शुकं चिटिना
नागं योग खगं बलं भग शिला धूलिर्नवं प्रस्वनम् ।
लाभं विश्व दिवं रम धमं षष्ट्यंशकाश्चौजभे
क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः ॥ ५॥
स्वात् सप्तांशदशांशकौ तु विषमे तु कामाच्छुभात्
स्वादीशाश्च कलांशपा विधिहरीशार्कः समर्क्षेऽन्यथा ।
ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै-
र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः ॥ ६॥
वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्-
द्विस्त्रिः पञ्च चतुर्नाद्रिवसुषट्संख्यासु वर्गैक्यतः ।
प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरं
चेत्यय्रावतदेवलोकसुरलोकांशांश्च पारावतम् ॥ ७॥
आर्यनिल्पगुणार्थसौख्यविभवान्यः पारिजातांशकः
स्वाचारं विनयान्वितं निपुणं यद्युत्तमांशे स्थितः ।
खेतो गोपुरभागगः शुभमतिं स्वक्षेत्रगो मन्दिरं
यः सिंहासनगो नृपेन्द्रदयितं भूपालपुल्यं नरम् ॥ ८॥
श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितः
सत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम् ।
वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशास्थितः
सद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद् ग्रहः ॥ ९॥
यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा-
न्नाशं दुःखमनर्थतां च विसुखं बन्धुप्रियं तद्वरम् ।
भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्ठेऽखिले
वधिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम् ॥ १०॥
षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवति
क्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः ।
तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरो
लग्नेशः क्रमशः सुखी नृपसमः क्षोणिपतिर्भग्यवान् ॥ ११॥
ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृत्तिर्धनाढ्यो
युग्मे चान्द्रींशुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः ।
व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौ
तन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी ॥ १२॥
सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाः
मध्यौ स्त्रीयमयोरिहायुधभृतः पाशोलिमध्यो भवेत् ।
नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मःध्यमो
गृध्रास्यो वृषभान्तिमश्च विहगः कर्क्यादि कोलाननम् ॥ १३॥
कौर्प्यद्यः कर्कटान्त्यो भूषचरममहिश्चाजगोमध्यसिंहा-
द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः ।
द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेण
प्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि ॥ १४॥
द्रेक्काणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वा
तद्व त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा
होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणो
दीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान्राजभोगः ॥ १५॥
मान्दिस्थराशिपतिसङ्गतसुत्रिकोणं
तस्यांशराशिपतिसंयुतमंशकोणम् ।
लग्नं वदन्ति गुलिकांशकराशिकोणं
तद्वद्विधौ बलयुते शशिनैव विद्यात् ॥ १६॥
कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणं
श्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान् ।
स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितं
तत्रैकोऽपि सुहृद्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम् ॥ १७॥
स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृभे ।
शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरशिमजालः ॥ १८॥
ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः ।
सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः ॥ १९॥
पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण ।
अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम् ॥ २०॥
चतुर्थोऽध्यायः
ग्रह बल
वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं
दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् ।
निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः
कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्घ्रिवृधद्ध्या क्रमात् ॥ १॥
राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां
युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे ।
दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ
चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् ॥ २॥
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा
प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् ।
मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात्
मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः ॥ ३॥
वक्रं गतो रुचिररश्मिमसमहपूर्णो
नीचारिभांशसहितोऽपि भवेत्स खेटः ।
वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र-
स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् ॥ ४॥
तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं
भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् ।
कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः
केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि ॥ ५॥
रूपं मानुषभेऽलिभेऽङ्घ्रेरपरेष्वर्द्धं बलं स्यात्तनोः
तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् ।
स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते
शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः ॥ ६॥
स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रऽर्द्धं मित्रभे पाद्दमव ।
द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् ॥ ७॥
केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने ।
उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति ॥ ८॥
श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः ।
योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता ॥ ९॥
नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् ।
तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव ॥ १०॥
निःशेषदोषहरणे शुभवर्द्धने च
वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः ।
तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ
चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् ॥ ११॥
चन्द्रक्रियादि
जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् ।
लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् ॥ १२॥
चन्द्रक्रिया फल
स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या-
रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च ।
निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो
राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता ॥ १३॥
सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा
रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः ।
अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज-
त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः ॥ १४॥
क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः
सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः ।
शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो
मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् ॥ १५॥
चन्द्र-अवस्था फल
आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि-
र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् ।
भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति
मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था ॥ १६॥
चन्द्रवेला-फल
मूर्द्धमयो मुदितता यजनं सुखस्थो
नेत्रमयः सुखितता वनिताविहरः ।
उग्रज्वरः कनकभूषणमश्रुमोक्षः
क्ष्वेला नं निधुवनं जठरस्य रोगः ॥ १७॥
क्रीडा जले हसनचित्रविलेखने च
क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे ।
दानक्रिया दशनरुक् कलहः प्रयाण-
मुन्मत्तता च सलिलाप्लवनं विरोधः ॥ १८॥
स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म ।
पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा ॥ १९॥
जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः ।
सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् ॥ २०॥
ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः
स्थानोद्भवं तु बलमप्यधिक्रं परेषाम् ।
तत्सम्प्रयुक्तमितरैरधिकाधिकं स्या-
दन्यानि तेन सदृशानि बहूनि ते स्युः ॥ २१॥
बलपिंड
सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराजः
सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् ॥ २२॥
मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः ।
एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि ॥ २३॥
लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः ।
गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या ॥ २४॥
पञ्चमोऽध्याय
कर्माजीव प्रकरण
अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः
कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात् ।
भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः
कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः ॥ १॥
फलद्रुमैर्मन्त्रजपश्च शाठ्याद्द्यूतानृतैः कंबलभेषजाद्यैः
द्यातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे ॥ २॥
जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः ।
तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा ॥ ३॥
भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात् ।
परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्या ॥ ४॥
काव्यागमैर्लेखकलिप्युपायैर्ज्योतिर्गणज्ञानवशाद्बुधांशे ।
परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः ॥ ५॥
जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात् ।
पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्या ॥ ६॥
स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः ।
क्षीराद्यलङ्कारपटीपटद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात् ॥ ७॥
शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैनीर्चधनैः कुधान्यैः ।
भारोद्वहात्कुत्सिरमार्गवृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ॥ ८॥
अंशेशे बलवत्ययत्नसम्प्राप्तिं बलोनेशपे
स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम् ।
अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं
सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे ॥ ९॥
षष्टोऽध्यायः
योगाध्याय
रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः ।
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् ॥ १॥
दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः ।
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः ॥ २॥
हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः ।
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः ॥ ३॥
शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् ।
लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः ॥ ४॥
विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय-
स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः ।
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः ॥ ५॥
स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा
भवति हि सुनफायां धीधनख्यातिमांश्च ।
प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-
र्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥ ६॥
उत्पन्नभोगसुखभाग्धनवाहनाढ्य-
स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः ।
केमद्रुमे मलिनदुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥ ७॥
हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः ।
सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः ॥ ८॥
जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः ।
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ ९॥
अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो-
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः ।
लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् ॥ १०॥
जैवातृको विभयरोगरिपुः उखी स्या-
दाढ्यः श्रिया च शुभकर्तरियोग जातः ।
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः
स्यात्पापकर्तरिभवोऽचिरमायुरेति ॥ ११॥
आचारवान् धर्मम्तिः प्रसन्नः
सौभाग्यवान् पार्थिवमाननीयः ।
मृदुस्वभावः स्मितभाषणश्च
धनी भवेच्चामलयोगजातः ॥ १२॥
सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् ।
शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः ॥ १३॥
ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति ।
जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः ॥ १४॥
महाभग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः ।
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता ॥ १५॥
केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः ।
दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे ॥ १६॥
क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् ।
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी ॥ १७॥
कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसम्पत् ।
ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् ॥ १८॥
चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि ।
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः ॥ १९॥
तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः सम्पद्युतो नीतिमान् ।
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः ॥ २०॥
सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः ।
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते ॥ २१॥
जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता ।
बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः ॥ २२॥
कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः ।
स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् ॥ २३॥
नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः ।
श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः ॥ २४॥
सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः ।
पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः ॥ २५॥
शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः ।
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता ॥ २६॥
धीम न्नाटकगद्यपद्यगणनालङ्कारशास्त्रेष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः ।
कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः सम्पूजितो भाग्यवान् ॥ २७॥
लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् ।
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः ॥ २८॥
रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः
साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः ॥ २९॥
लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काङ्कितः
तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः ।
तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः ॥ ३०॥
ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः ।
सौम्योक्तिर्बहुवित्तदारतनयः सद्ब्रह्मतेजोज्वलन्दी-
र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः ॥ ३१॥
अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं
भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः ।
त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः ॥ ३२॥
मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः ।
उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् ॥ ३३॥
श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च ।
पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये ॥ ३४॥
लग्नाधिपाप्तभपतिस्थितराशिनाथः
स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः
योगःस कहल इति प्रथितोऽथत्तद्वत्
लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः ॥ ३५॥
वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः ।
स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः ॥ ३६॥
धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ ।
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः ॥ ३७॥
भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः ।
नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा
स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः ॥ ३८॥
संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् ।
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय ॥ ३९॥
वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी ।
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः ॥ ४०॥
शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये ।
निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव ॥ ४१॥
सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः ।
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रीमान्दीर्घजीवी मनस्वी ॥ ४२॥
अधियोगभवो नरेश्वंरः स्थिरसम्पद्बहुबन्धुपोषकः ।
अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् ॥ ४३॥
भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश ।
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा-
भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः ॥ ४४॥
प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः ।
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः ॥ ४५॥
सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः ।
हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ ॥ ४६॥
कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥ ४७॥
गोसम्पद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर-
स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् ।
प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥ ४८॥
सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी ।
अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥ ४९॥
शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी ।
व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः ॥ ५०॥
परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः ।
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥ ५१॥
हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् ।
स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥ ५२॥
चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती
लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः ।
प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥ ५३॥
सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः ।
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः ॥ ५४॥
नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी ।
सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः ॥ ५५॥
कृच्छ्रलब्धधनवान् पिरभूतो लोलसम्पदुचितव्ययशीलः ।
स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च ॥ ५६॥
दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः ।
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः ॥ ५७॥
अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः ।
संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे ॥ ५८॥
सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः ।
मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे ॥ ५९॥
अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः ।
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥ ६०॥
मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः ।
स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे ॥ ६१॥
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः ।
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥ ६२॥
सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः ॥ ६३॥
स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः ।
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥ ६४॥
दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः ।
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥ ६५॥
पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः ।
प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥ ६६॥
शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु ।
जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः ॥ ६७॥
ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः ।
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे ॥ ६८॥
किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् ।
सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् ॥ ६९॥
छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः
निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः ॥ ७०॥
सप्तमोऽध्यायः
राजयोग
त्र्याद्यैह् खेटैः स्वोच्चगैः केन्द्रसंस्तहिः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धिः ।
पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वन्घयुक्तः ॥ १॥
भूपः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा
ह्यन्तार्धिर्नहि चेत्कराद्दिनकराज्जानाः स्फुरन्त्येव ते ।
त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः
मर्त्यस्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः ॥ २॥
यद्येकोऽपि विराजितंशुनिकरः सुस्थानगो वक्रगो
नीचस्थोऽपि करोति भूपसदृशं द्वौ व त्रयो वा ग्रहाः ।
एवं चेज्जनयन्ति भूपतिनमी शस्तांशराशिस्थिता
स्तद्वच्चेद्वहवो नृपं समकुटच्छत्रोल्लसच्चामरम् ॥ ३॥
द्वौ वा त्र्याद्या दिग्बलयुक्ता यदिजातः
क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः ।
हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता-
श्चत्वारो वा भूपतिरन्यान्वयजोऽपि ॥ ४॥
गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा ।
चतुर्ग्रहैश्चन्द्रविर्वनितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥ ५॥
विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः
स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा ।
गजस्खन्धे कार्तस्वरकृतविमानेऽतिसुषमे ।
सुखासीनं भूपं जनयति लसच्चामरयुगम् ॥ ६॥
निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभव-
स्थितग्रहनिरीक्षितो धवलकाम्तिजाल्लोज्ज्वलः ।
विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी
चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् ॥ ७॥
अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रै
र्दृष्टश्चेज्जनयति भूपतिं जितारिम् ।
नीचार्योर्गृहमहपहाय वित्तसंस्थो
लग्नेशः सह कविना बही च भूपम् ॥ ८॥
भौमश्चेदजहरिचापलग्नसंस्थः
पृथ्वीशं कलयति मित्रखेटदृष्टः ।
कर्मेशो नवमगतश्च भाग्यनाथो
मध्यस्थो भवति नृपो जनैः प्रशस्तः ॥ ९॥
चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः ।
यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात्
त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ १०॥
सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य
यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥ ११॥
नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु
स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः ।
गोक्षीरशङ्खधवलोमृगलाञ्ष्छनश्च
स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥ १२॥
कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं
यदि बलसमुपेतः पश्यति व्योमचारी ।
उदयभवनसंस्थः पापसंज्ञो न चैवं
भवति मनुजनाथः सर्वभौमः सुदेहः ॥ १३॥
जिवो बुधो भृगुसुतोऽथ निशाकरो वा
धर्मे विशुद्धतनवः स्फुटरश्मिजालाः ।
मित्रैर्निरीक्षितयुता यदि सूतिकाले
कुर्वन्ति देवसदृशं नृपातिं महान्तम् ॥ १४॥
शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी
दृष्टस्तीब्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः ।
सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा-
वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति ॥ १५॥
नीचारिस्थैर्भवभवनगैः पष्ठदुश्चिक्यगैर्वा
सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा ।
आज्ञां यते शिशिरकिरणे कर्कटस्थे विशाया
मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥ १६॥
वर्गोत्तमे हिमकरः सकलः स्थितोऽंशे
कुर्यान्महीपतिमपूर्वयशोऽभिरामम् ।
यस्याश्ववृन्दखुरघातरजोऽभिभूतो
भानु प्रभातशशिनोऽनुकरोति रूपम् ॥ १७॥
केन्द्रगौ यदि च जीवशशाङ्कौ
यस्य जन्मनि च भार्गवदृष्टौ ।
भूपतिर्भवति सोऽतुलकीर्ति
नीचगो यदि न कश्चिदिह स्यात् ॥ १८॥
जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे ।
अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥ १९॥
शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिं
देवेड्यो मृगभं विहाय तनुयो मत्तेभयुक्तं नृपम् ।
केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्यद्धरित्रीर्पतिं
दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् ॥ २०॥
एकोप्युच्चक्षेत्रगो मित्रदृष्टः
कूर्यद्भूपं मित्रयोगाद्भनाढ्यम् ।
स्वंशे सूर्ये स्वर्क्षगश्चन्द्रमा-
श्चेदेशाधीशं साश्वनागं विधत्ते ॥ २१॥
मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे
लोकानन्दकरः स्यान्नृपमुख्यः ।
पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु-
स्त्यागाधिक्यं सञ्जनशस्तं जगदीशम् ॥ २२॥
चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्याः ।
तथा स्थिते वासवमन्त्रिदृष्टे पूर्नां धरित्रीं परिपालयेत्सः ॥ २३॥
पापास्त्रिशत्रुभवगा यदि जन्मनाथा-
ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ ।
कर्मायलग्नसहिताः कुजमन्दजीवा-
स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् ॥ २४॥
लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती ।
स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥ २५॥
नीचभंग राजयोग
नीचस्थितो जन्मनि योग्रहः स्यात्त्द्राशिनाथोऽपि तदुच्चनाथः ।
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती ॥ २६॥
यद्येको नीचगतत्तद्राश्यधिपस्तदूच्चपः केन्द्रे ।
यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांध्रिः ॥ २७॥
यस्मिन्ग्रशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः ।
क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः ॥ २८॥
नीचे तिष्ठति यस्तदाश्रिगृहाधीशो विलग्नाद्यदा
चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथव ।
केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो
धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् ॥ २९॥
नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा
केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भुपवन्दितः ॥ ३०॥
अष्टमोऽध्यायः
भावाश्रय फल
लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो
मानी लोचनरूक्षचः कृशतनुः शूरोऽक्षमो निर्घृणः ।
स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमन्
दरिद्र्योपहतो विनष्टतनयो जांतस्तुलायं भवेत् ॥ १॥
विगतविद्या विनयवित्तं स्खलितवाचं धनगतः
सबलशौर्य श्रियमुदारं स्वजनशत्रुं सहजगः ।
जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद्
भवनसुक्तं नृपतिसेवा जनकसम्पद्व्ययकरम् ॥ २॥
सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं
प्रथितमुर्वीपतिमरिस्थः सुगुणसम्पद्विजयगम् ।
नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं
हतधनायुः सुहृदमर्को विगतदृष्टि निधनगः ॥ ३॥
विजनकोऽर्के सौतबन्धुस्तपसि देवद्विजमनाः
ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः ।
भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः
पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते ॥ ४॥
सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो
बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते ।
धनाढयोऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः
सहोत्ये सभ्रातृप्रमदबलशौर्योऽतिकृपणः ॥ ५॥
सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाः
सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते ।
क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी
स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः ॥ ६॥
मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान्
जयी सिद्दारम्भो नभसि शुभकृत्सत्प्रियकरः ।
मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे
व्यये द्वेष्यो दुह्खी शशिनि परिभूतोऽलसतमः ॥ ७॥
क्षततनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी
वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः ।
सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे
सुहृदि विसुहृन्मतृक्षोणीसुखालयवाहनः ॥ ८॥
विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः
प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः ।
अनुचितकरो रोगार्तोऽस्तेध्वगो नृतदारवान्
कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः ॥ ९॥
नृपसुहृदपि द्वेष्योऽतातः शुभ जनघतको
नभसि नृपति क्रूरो दाता प्रधानजनस्तुतः ।
धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे
नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः ॥ १०॥
दीर्घयुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः
स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्टान्नभोक्ता
शौर्ये शूरः समायुः सुसहजसहिनः सश्रमो दैन्ययुक्तः
संख्यावण् चाटुवाक्यः सुहृदि सुक्रसुहृत्क्षेत्रधान्यार्थभोगी ॥ ११॥
विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे
जातक्रोधो विवादिर्द्वीषि रिपुबलहन्तालसो निष्ठुरोक्तिः ।
प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तां
विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टम दण्डनेता ॥ १२॥
विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी
सिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे ।
बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो
दीनो विद्याविहीनः परिभव सहितोऽन्त्ये नृशंसोऽलसश्च ॥ १३॥
शोभावान् सुकृती चिरायुरभयो लग्ने सुरौ सात्मजो
वाग्मी भोजनसारवांश्च सुमुखो विते धनी कोविदः
सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी-
र्बन्धौ मतृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः ॥ १४॥
पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ
षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पदुः ।
सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको
दीनो जीवति सेवया कलुषभग्दीर्घयुरिज्येऽष्टमे ॥ १५॥
ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः
स्वाचारः सुयशा नभस्यतिधनी जिवे महीशप्रियः ।
आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगो
द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः ॥ १६॥
तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घयुषं
करोति कविरर्थगः कविमनेकवित्तान्वितम् ।
विदारसुखसम्पदं कृपणमप्रियं विक्रमे
सुवाहनसुमन्दिराभरण वस्त्रगन्धं सुखे ॥ १७॥
अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं
विशत्रुमधनं क्षेते युवतिदूषितं विक्लवम् ।
सुभार्यमसतीरतं नृतकलत्रमाढ्यं मदे
चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः ॥ १८॥
सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे
नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं प्रभुम्
धनाढ्यमितराङ्गनारतमनेकसौख्या भवे
भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम् ॥ १९॥
स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो
लग्नेऽर्कजे भवति देशपुराधिनाथः ।
शेषेषु दुखपरिपीडित एव बाल्ये
दारिद्र्यदुःखवशगो मलिनोऽलसश्च ॥ २०॥
विमुखमधनमर्थेऽन्यायवन्तं च पश्चा
दितरजनपदस्थं यानभोगार्थयुक्तम् ।
विपुलमतिमुदारं दारसौख्यं च शौर्ये
जनयति रविपुत्रश्चालसं विक्लवं च ॥ २१॥
दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे
भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शटो दुर्मतिः ।
बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपो
कामस्थे रविजे कुदारनिरतो निःस्बोऽध्वगो विह्वलः ॥ २२॥
श्रवैश्चरे मृतिस्थिते मलीमसोऽशंसोऽवसुः ।
करालधीर्बुभुक्षितः सुहृञ्जनवमानितः ॥ २३॥
भाग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो
मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे
बह्वायुः स्थिरसम्पदायसहितः शूरो विरोगो धनी
निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः ॥ २४॥
लग्नेऽहावचिरायुरर्थबलावानूर्ध्वङ्गरोगान्वित-
श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी ।
मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी
मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी ॥ २५॥
नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु-
ग्द्विट्क्रूरग्रहपीडितः सगुदरुपछ्रीमांश्चिरायुः क्षते ।
स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी-
रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः ॥ २६॥
धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान्
ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः ।
श्रीमान्नातिसुतश्चिरायुरसुरे लभे सकर्णामयः
प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः ॥ २७॥
लग्ने कृतघ्नमसुखं पिशुनं विवणं
स्थानच्युतं विकलदेहमसत्समाजम् ।
विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं
पातः परान्ननिरतं कुरुते धनस्थः ॥ २८॥
आयुर्बलं धनयशा प्रमदान्नसौख्यं
केतौ तृतियभवने सहजप्रणाशम्
भूक्षेत्रयानजननीसुखजन्मभूमि-
नाशं सुखे परगृहस्थितिमेव दत्ते ॥ २९॥
पुत्रक्षयं जठररोगपिशाचपीडां
दुर्बुद्धिमात्मनि खलप्रकृतिं च पातः ।
औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं
षष्ठे प्रभुत्वमरिमदर्नमिष्टसिद्धिम् ॥ ३०॥
द्यूनेऽवमानमसतीरतिमान्त्ररोगं
पातः स्वदारवियुतिं मदधातुहानिम्
स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे
शस्त्रक्षतं सकलकार्यविरोधमेव ॥ ३१॥
पापप्रवृत्तमशुभं पितृभाग्यहीनं
दारिद्र्यमार्यजनदूषणमाह धर्मे ।
सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं
तेजस्विनं नभसि शौर्यमतिप्रसिद्धिम् ॥ ३२॥
लाभेऽर्थसंचयमनेकगुणं सुभोगं
सद्द्रव्यसोपकरणं सकलार्थसिद्धिम् ।
प्रच्छन्नपापमधमव्ययमर्थनाशं
रिःफे विरुद्धगतिमक्षिरुजं च पातः ॥ ३३॥
उदयर्क्षशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते
शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह सम्प्रोक्तः ॥ ३४॥
भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति ।
न्यूनाधिकांशवशतः फलवृद्धिह्लसिता वाच्या ॥ ३५॥
नवमोऽध्यायः
राशिफल
वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी ।
संचारशीलश्चपलोऽनृतोक्तिव्रर्णाङ्किताङ्गः क्रियभे प्रजातः ॥ १॥
पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्-
मध्यान्तसौख्यः प्रमदाप्रियश्च ।
स्यागी क्षमी क्लेससहश्च गोमान्
पृष्ठास्यपश्वेर्ऽङ्कयुतो पृषोत्थः ॥ २॥
श्यमेक्षणः कुञ्चितमुर्द्धजः स्त्रीक्रीडानुरक्तश्च परेङ्गितज्ञः ।
उत्तुङ्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे ॥ ३॥
स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुङ्गकटिर्धनाढ्यः ।
ह्लस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः ॥ ४॥
पिङ्गोक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् ।
कुप्यत्यकार्ये वनशैलगामि मातुर्विधेयः स्थिरधीर्मृगेन्द्रे ॥ ५॥
स्रस्तांसबाहुः परवित्तगेहैः सम्पूजते सत्यरतः प्रियोक्तिः ।
व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थ्विच्चाल्पसुतोऽङ्गनायाम् ॥ ६॥
चलत्कृशाङ्गोऽल्पसुतोऽतोभक्तो देवद्विजानामटनो द्विनामा ।
प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी ॥ ७॥
वृत्तोरुजण्ढः पृथुनेत्रवक्षा
रोगी शिशुत्वे गुरुतातहीनः ।
क्रूरक्रियो राजकुलाभिमुख्यः
कीटेऽब्जरेखाङ्कितपाणिपादः ॥ ८॥
दीर्घास्यकण्ठः पृथुकर्णनासः
कर्मोद्यतः कुब्जतनुनृपेष्टः ।
प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता
साम्नैकसाध्योऽश्विभवो बलाधयः ॥ ९॥
अधः कृशः सत्त्वयुतो गृहीत-
वाक्योऽलसोऽगम्यजराङ्गनेष्टः
धर्मध्वजो भाग्ययुतोऽटनश्च
वातार्दितो नक्रभवो विलज्जः ॥ १०॥
प्रच्छन्नपापो घटतुल्यदेहो
विघातदक्षोऽध्वसहोऽल्पवित्तः ।
लुब्धः परार्थी क्षयवृद्धियुक्तो
घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥ ११॥
भ्रत्यम्बुपानः समचारुदेहः
स्वदारगस्तोयजवित्तभोक्ता ।
विद्वान्कृतज्ञोऽभिभवत्यमित्रान्
शुबेक्षणो भाग्ययुतोऽन्त्यराशौ ॥ १२॥
राशेः स्वभावाश्रयरूपर्वणान्
ज्ञत्वानुरूपाणि फलानि तस्य ।
युक्त्त्या वदेदत्र फलं विलग्ने
यच्चन्द्रलग्नेऽपि तदेव वाच्यम् ॥ १३॥
प्रहे सति निजोच्चगे भवति रत्नगर्भधिपो
महीपतिकृतस्तुतिर्महितसम्पदामालयः
उदारगुणसंयुतो जयति विक्रमार्को यथा
नये यशसि विक्रमे वितरणे धृतौ कौशले ॥ १४॥
स्वमिन्दरगते ग्रहे प्रभुपरिग्रहादार्यतिं
प्रभुत्वमपि वा गृहस्थतिमचञ्चलां प्राप्नुयात् ।
नवं भुवनमुर्वराक्षितिमुपैति काले स्वके
जने बहुमातिं पुनः सकलनष्टवस्तून्यपि ॥ १५॥
ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः
कार्यस्य सिर्द्धि नवसौहृदं च ।
सत्पुत्रजायाधनधान्यभाग्यं
ददात्ययं सर्वजनानुकूल्यम् ॥ १६॥
गते ग्रहे शत्रुगृहं निकृष्टतां
परान्नवृत्ति परमन्दिरस्थितिम् ।
अर्किचनत्वं रिपुपीडनं सदा
स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् ॥ १७॥
नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः ।
नीचाश्रयं कीकटदेशवासं मृत्यत्वमध्वानमनर्थकार्यम् ॥ १८॥
ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैः
प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम् ।
समर्क्षस्थः खेतो न कलयति वैशेषिकफलं
सुखम् वा दुःखं या जनयति यथापूर्वमचलम् ॥ १९॥
वक्रं गतः स्वोच्चफलं विदध्या
त्सपत्ननीचर्क्षगतोऽपि खेतः ।
वर्गोत्तमंशस्थिखेचरोऽपि
स्वक्षेत्रगस्योक्तफलानि तद्वत् ॥ २०॥
दशमोऽध्यायः
कलत्र भव
शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो
विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः ।
सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे
सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः ॥ १॥
दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो
द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् ।
क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः
स्त्रीसंगाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत् ॥ २॥
शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे
स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा ।
जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति-
श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना ॥ ३॥
अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे
नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् ।
कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ
शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥ ४॥
भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा
क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् ।
द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात्
ताम्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु ॥ ५॥
स्त्रीसंख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती
द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता ।
पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता
हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥ ६॥
भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ
तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् ।
एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः
सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ ॥ ७॥
चन्द्रे समन्दे मदगे पुन्रभूः
पतिर्भवेद्वाप्यसुतो विदारः ।
नीचारिभस्थैरशुभैर्मदे स्त्री-
पुंसोर्मृतिः स्यान्निधने धने वा ॥ ८॥
लग्नात्कलत्रभवने समराशिसंज्ञे
भावाधिपेऽपि च तथैव गतेऽसुरेड्ये ।
सूर्याभितप्तरहिते सुतदारनाथे
वीर्यन्विते तु जननं ससुतं कलत्रम् ॥ ९॥
कुटुम्बदारव्ययराशिनाथा
जीवेक्षिताः कोणचतुष्टयस्थाः ।
दारेश्चराद्वित्तकलत्रलाभे
सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥ १०॥
लग्नास्तनाथस्थितभांशकोणे
नीचोच्चभे स्त्रीजननं च पत्युः ।
चन्द्राष्टवर्गेधिककिन्दुराशौ
कलत्रजन्मेति तथा धवस्य ॥ ११॥
कामस्थकामाधिप्भार्गवाना
मृक्षं दिशं शंसति तस्य पत्न्याः ।
शुक्रोऽस्तपो वा नतुनाथभांश-
त्रिकोणमायाति तदा विवाहः ॥ १२॥
कलत्रसंस्थस्य कलत्रदृष्टे
दर्शागमेवाथ कलत्रपस्य ।
यदा विलग्नाधिपतिः प्रयाति
कलत्रभं तत्र कलत्रलाभः ॥ १३॥
कलत्रनाथस्थितभांशकेशयोः
सितक्षपानायकयोर्बलीयसः ।
दशागमे द्यूनपयुक्तभांशक-
लत्रिकोणगे देवगुरौ करग्रहः ॥ १४॥
कलत्रनाथे रिपुनीचसंस्थे
मूढेऽथवा पापनिरीक्षिते वा
कलत्रभे पापयुतेऽथ दृष्टे
कलत्रहानी प्रवदन्ति सन्तः ॥ १५॥
एकादशमोऽध्यायः
स्त्री जातक
यद्यट्पुंप्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्-
माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् ।
भर्तारं शुभगत्वमस्त भवनात्संगं स्तीत्वं सुखात्
सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशम् ॥ १॥
उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ
सुतनयपतिभूषासम्पदुत्कृष्टशीला ।
अशुभसहितदृष्टौ चोजगौ पुंस्वभावा
कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा ॥ २॥
सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति-
र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो ।
आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत्
क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥ ३॥
सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया
यमारार्कांशर्क्षे मदनसदने सामयभगा ।
सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो-
र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥ ४॥
शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती
विधाः सत्संबन्धेऽप्युदयुखयोः साध्वियतिगुणा ।
त्रिकोणे सौम्याश्चेत्सुखसुतमंपद्गुणवती
बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना ॥ ५॥
चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात्
दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी ।
शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता
ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥ ६॥
स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता
चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी ।
मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद्
दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता ॥ ७॥
शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् ।
बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥ ८॥
ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात्
ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः ।
चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा
वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥ ९॥
चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः
पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता
भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती
तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे ॥ १०॥
शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते
जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ।
दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान्
अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते ॥ ११॥
द्वादशोऽध्यायः
पुत्रभाव फल
सुस्था विलग्नशशिनोः सुतभेशजीवाः
सुस्थाननाथशुभदृष्टियुते सुतर्क्षे ।
लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ
क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः ॥ १॥
लग्नामरेड्यशशिनां सुतभेषु पापै-
र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु ।
पापोभयेषु सुतभेषु सुतेश्चरेषु
दुःस्थानगेषु न भवन्ति सुताः कर्थचित् ॥ २॥
पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः
पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह ।
संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः
तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति ॥ ३॥
सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे
लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते ।
चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे-
ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः ॥ ४॥
सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते
भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् ।
मन्दे वा बहुपुत्रवाञ्छशिनि वा सौम्येऽपि वाल्पात्मजो
देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते ॥ ५॥
सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्-
व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः ।
मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः
सुते शशिनि नैधनव्ययतनुस्थपापैरपि ॥ ६॥
पापे लग्ने लग्नपे पुत्रसंस्थे
धीशे वीर्ये वेश्मनीन्दावपुत्रः ।
ओजर्क्षेशे पुत्रगे सूर्यदृष्टे
चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः ॥ ७॥
मान्दं सुतर्क्षे यदि वाऽथबौधं
मान्द्यर्कपुत्रान्वितवीक्षितं चेत् ।
दत्तात्मजः स्यादुदयास्तनाथ-
संबन्धहीनो विबलः सुतेशः ॥ ८॥
नीचारिपूढोपगते सुतेशे
रिःफारिरन्ध्राधिपसंयुते वा ।
सुतस्य नाशः कथितोऽत्र तज्ज्ञैः
शुभैरदृष्टे सुतभे सुतेशे ॥ ९॥
सुतनाथजीवकुजभास्करेषु वै
पुरुषंशकेषु च गतेषु कुत्रचित् ।
मुनयो वदन्ति बहुपुत्रतं तदा
सुतनाथवीर्यवशतः सुपुत्रताम् ॥ १०॥
पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै-
र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः ।
स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे
स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे ॥ ११॥
बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् ।
स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः ॥ १२॥
अशत्रुनिचारिनवांशकैः सुते
सुतेशयुक्तैरपि तैस्तथाविधैः ।
सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते
फलैः पुत्रमितिर्विचिन्त्यते ॥ १३॥
जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके
स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम्
भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे
पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् ॥ १४॥
पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये-
न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि ।
कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः
दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः ॥ १५॥
विष्टिः स्थिरं वा करणं यदि स्यात्
कृष्णं जयेत् पौरुषसूक्तमन्त्रैः ।
पष्ठ्यां गुहार्धनमत्र कार्यं
यजेच्चतुर्थ्यां किल नागराजम् ॥ १६॥
रामायणस्य श्रवणं नवम्यं
यद्यष्टमी चेच्छ्रवणव्रतं च ।
चतुर्दशी चेद्यादि रुद्रपूजा
स्याद्द्वादशी चेत्समृतमन्नदानम् ॥ १७॥
तृप्ति पितॄणामिह पञ्चदश्यां
कृष्ंए दशम्याः परतोऽतियत्नात् ।
पक्षत्रिभागेष्वपि नागराजं
स्कन्दं च सेवेत हरी क्रमेण ॥ १८॥
पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित
स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् ।
पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ-
प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् ॥ १९॥
द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे
रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः ।
स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे
शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे ॥ २०॥
पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म-
च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् ।
साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा
मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः ॥ २१॥
स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा
केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् ।
शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते
जीवो वाथ शिखी समान्दिरिह चेद्भूदेवत्या।सुतः ॥ २२॥
एवं हि जन्मसमये बहुपूर्वजन्म-
कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः ।
तत्तद्ग्रहोक्तजपदानशुभक्रिया-
भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै ॥ २३॥
सेतुस्नानं कीर्तनं सत्कथायाः
पूजां शंभोः श्रीपतेः सद्व्रतानि ।
दानं श्चाद्धं कर्जनागप्रतिष्टां
कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः ॥ २४॥
लग्नास्तपुत्रपतिजीवदशापहारे
पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः
पुत्रेशराशिमथवा यमकण्टकर्क्षं
जीवेगते तनयसिद्धिरथांशभे वा ॥ २५॥
लग्नाधीशः पुत्रनाथेन योगं
स्वोच्चे स्वर्क्षेचारगत्या समेति ।
पुत्रप्राप्तिः स्यात्तदा लग्ननाथः
पुत्रर्क्षं वा याति धीशाप्तभं वा ॥ २६॥
विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् ।
सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् ॥ २७॥
सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा ।
बलसहितस्य दशायामपहारे वा सुतप्राप्तिः ॥ २८॥
जीवे तु जीवात्मजनाथभशक-
त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् ।
अथान्यशास्त्रेण च जन्मकालतो
निरूपयेत्सन्ततिलक्षणं बुधः ॥ २९॥
जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च
स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः ॥ ३०॥
निषेकलग्नाद्दिनपस्तृतीये
राशौ यदा चारवशादुपैति ।
आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् ॥ ३१॥
आधानल्ग्नात्सुतभेशजन्म
भाग्येऽपि वा पुण्यवशाच्च वाच्यम् ।
आधनलग्ने शुभदृष्टियोगे
दीर्घयुरैश्वर्ययुतो नरः स्यात् ॥ ३२॥
तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा ।
तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः ॥ ३३॥
प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु ।
आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च ॥ ३४॥
त्रयोदशोऽध्यायः
आयुर्भाव
जाते कुमारे सति पूर्वमार्यै
रायुर्विचिन्त्यं हि ततः फलानि ।
विचारणीया गुणिनि स्थितेतद्
गुणाः समस्थाः खलु लक्षणज्ञैः ॥ १॥
केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् ।
होराविदश्चितनकाययोन्योर्वियोगकालं कथयन्ति लग्नम् ॥ २॥
आद्वादशाब्दान्नरयोनिजन्मना-
मायुष्कला निश्चयितुं न शक्यते
मात्रा च पित्रा कृतपापकर्मण
बालग्रहैर्नशमुपैति बालकः ॥ ३॥
आद्ये चतुष्के जननीकृताघै-
र्मध्ये च पित्रार्जितपापसङ्घैः ।
बालस्तदन्त्यासु चतुःशरत्सु
स्वकीयदोषैः समुपैति नाशम् ॥ ४॥
तद्दोषशान्त्यै प्रतिजन्मतार-
माद्वदशाब्दं जपहोमपूर्वम् ।
आयुष्करं कर्म विधाय ताता
बालं चिकित्सादिभिरेव तक्षेत् ॥ ५॥
आष्टौ बालारिष्टमादौ नराणं
योगारिष्टं प्राहुरावींशति स्यात् ।
अल्पं चाद्वात्रिंशतं मध्यमायु-
श्चासप्तत्याः पूर्णमायुः शतान्तम् ॥ ६॥
नृणां वर्षशतं ह्यायुस्तास्मींस्त्रेधा विभज्यते ।
अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम् ॥ ७॥
मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे
ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा ।
मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियां
सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि ॥ ८॥
पापाप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं
गण्डान्ते पितृमतृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः ।
जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तेक्षिते स्यान्मृति-
र्मृर्त्योभार्गगते च सा साति विधौ केन्द्रोऽष्टमे वा मृतिः ॥ ९॥
चान्द्रं रूपं लोकशूरो वरज्ञः
कुड्ये चित्रं भाग्यलोके शुकानाम् ।
मेने राज्यं मृत्युभागाः प्रदिष्टा
मेषादिनां वर्णसम्ख्यैहीमांशोः ॥ १०॥
दानं धेनो रुद्र रौद्री मुखेन
भाग्या भानुर्गोत्र जाया नखेन ।
पुत्री नित्यं मृत्युभागाः क्रमेण
मेषादीनां तेषु जाता गतायुः ॥ ११॥
रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वथ लग्नास्तयोर्व
लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभनौ ।
क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै-
मृत्युः स्यादशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा ॥ १२॥
जन्मेशोऽथ विलग्नपो यदिभवेद्दुस्थोऽबलो वत्सरै-
स्तद्राशिप्रमितैश्च मारयति तन्मासैदृर्गाणाधिपः ।
अंशेशो दिवसैस्तथा यदि मृतिर्द्वित्र्यादियोगान्बहू-
नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः ॥ १३॥
लग्नेन्द्वोस्तदधीसयोरपि मिथो लग्नेशरन्ध्रेशयो-
र्द्रेक्काणास्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात् ।
आयुर्दीर्घसमाल्पतां चरनगव्द्यांगैश्चरेऽथ स्थिरे
ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः ॥ १४॥
लग्नाधीशशुभाः क्रमाद्बहुसमाल्पायुंषि केन्द्रादिगाः
रन्ध्रेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलम् ।
जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो
भास्वल्लग्नपयाश्चिरायुरहितेऽल्पायुः समे मध्यमः ॥ १५॥
लग्नाधिपो लग्ननवंशनायको
जन्मेश्वरो जन्मनवांशनायकः ।
स्वस्वाष्टमेशाद्यदि चेद्बलान्विता
दीर्घयुषः स्युविपरीतमन्यथ ॥ १६॥
लग्नेश्वरादतिबली निधनेस्वरोऽसौ
केन्द्रस्थितो निधनरिः फगतिश्च पापैः ।
तस्यायुरल्पमथवा यदि मध्यमायु-
रुत्साहसंकटवशात्परमायुरेति ॥ १७॥
नरोऽल्पायुयोर्गे प्रथमभगणे नश्यति शने-
र्द्वितीये मध्यायुर्यदि भवति दीर्घयुषि सति ।
तृतिये निर्याणं स्फुटजशनिगुर्वर्कहिमगून्
दशां भुक्ति कष्टमपि वदति निश्चित्य सुमतिः ॥ १८॥
सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो
यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात् ।
तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां
नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत् ॥ १९॥
शशी तदारूढगृहाधिपश्च
लग्नाधिनाथश्च यदा त्रयोऽमी ।
गुणाधिकाः सद्ग्रहदृष्टयुक्त
गुणधिकं तं कथयन्ति कालम् ॥ २०॥
लग्नाधिपोऽतिबलवानशुभैरदृष्टः
केन्द्रस्थितः शुभखगैरवलोक्यमानः ।
मृत्युं विहाय विदधाति स दीर्घमायुः
सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥ २१॥
सर्वतिशाय्यतिबलः स्फुरदंशुजालो
लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री
एको बहूनि दुरितानि सुदुस्तराणि
भक्त्या प्रयुक्त्या इव चक्रधरे प्रणमः ॥ २२॥
मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः ।
सुकर्मकृन्नत्यमशेषदोषान्मुष्णाति वद्धिष्णरनुष्णरश्मिः ॥ २३॥
केन्द्रत्रिकोणनिधनेषु न यस्य पापा
लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ ।
भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा
जीवेच्च वत्सरशतं स विमुक्तरोगः ॥ २४॥
श्चीपत्युदीरितदशाभिरथाष्टवर्गत्-
यत्कालचक्रदशयोडुदशाप्रकारात् ।
सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्या-
दायुर्बुधो वदतु भूरिपरीक्षया च ॥ २५॥
चतुर्दशोऽध्यायः
रोगनिर्णय
रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः ।
रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसंवादवशाद्वदन्तु ॥ १॥
पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज-
व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्त्रुतिम् ।
काष्ठाग्न्यस्त्रविषातिदारतनयव्यापच्चतुष्पाद्भयं
चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् ॥ २॥
निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाः
शृङ्गयब्जाहतिमग्निमान्द्यमरुचिं योषिव्द्यथाकामिलाः ।
चेतः शान्तिमसृग्विकारमुदकाद्भितिं च बालग्रहाद्
दुर्गकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् ॥ ३॥
तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रातिकुष्टाक्षिरोगान्
गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् ।
भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते
रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वङ्गरोगम् ॥ ४॥
भ्रान्तिं दुर्वचनं दृगामयगलध्राणोत्थरोगं ज्वरं
पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान्
दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान् ।
गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः ॥ ५॥
गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान्
देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् ।
रोगं किन्नरयक्षदेफण भृद्विद्याधराद्युद्भवं
जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् ॥ ६॥
पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान्
गुह्यस्त्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् ।
दारस्त्रीकृतदेहकान्तिविर्हति शोषामयं योगिनी-
यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् ॥ ७॥
वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान्
भ्रान्तीं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वहतिम् ।
भार्यापुत्रविपत्तिमङ्ग्विहर्तिं हृत्तापमर्कत्मजो
वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः ॥ ८॥
स्वर्भानुहृदी तापकुष्ठविमति व्यार्धं विषं कृत्रिमं
पादार्ति च पिशाच पन्नगभयं भार्यातनूजापदम् ।
ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत्
प्रेतोत्थं च भयं विषं च गुलिको देहार्तमाशौचजम् ॥ ९॥
मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक्
शौर्याङ्गिरसो यमार सहिता दृष्टा यदि श्रोत्ररुक् ।
सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते
तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः ॥ १०॥
षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं
शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् ।
राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजं
क्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् ॥ ११॥
जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं
रन्ध्रस्थैस्तदवेक्षर्कैर्बलवता तस्योक्तरोगैमृतिः ।
रन्धर्क्षोक्तरुजाथवा मृतपतिप्राप्तर्क्षदोषेण वा
रन्ध्रेशेन खरत्रिभागपतिना मृत्युं वदेन्निश्चितम् ॥ १२॥
ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाऽथ तदीक्षकस्य
ग्रहैर्वीमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता ॥ १३॥
अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्यम्बुरु-
ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः ।
पाण्ड्वादि भ्रमजं बुधो गुरुरनायासेन मृत्युं कफात्
स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा संनिपातैः शनि ॥ १४॥
कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्वीषाद्वाथ मसूरिकाद्यैः ।
कुर्याच्छिखी दुर्मरणं नराणं रिपोर्विरोधादपि कीटकाद्यैः ॥ १५॥
लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम् ।
निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा ॥ १६॥
पैत्त्यज्वरोष्णैर्जठराग्निनाजे
वृषे त्रिदोषैर्दनाच्च शस्त्रात् ।
युग्मे तु कालश्चसनोष्णशूलै-
रुन्मादवातारुचिभिः कुलीरे ॥ १७॥
मृगज्वरस्फोटजशत्रुजं हरौ
स्त्रियां स्त्रियागुह्यजा प्रपातनात् ।
तुलाधरे धीज्वरसंनिपातजं
प्लीहालिपाण्डुग्रहणीरुजालिनि ॥ १८॥
वृक्षाम्बुकाष्टायुधजं हयाङ्ग
मृगे तु शूलाचिधीभ्रमाद्यैः ।
कुम्भे तु कासज्वरयक्ष्मरोगै-
र्जले विपद्वा जलरोगतोऽन्त्ये ॥ १९॥
पापर्क्षयुक्ते निधने सपापे
शस्त्रानलव्याध्रभुजङ्गपीडा ।
अन्योन्यदृष्टौ व्द्यशुभौ सकेन्द्रौ
कोपात्प्रभोः शस्त्रविषाग्निजैर्वा ॥ २०॥
सौम्यांशके सौम्यगृहेऽथ सौम्य-
सम्बन्धगे वा क्षयभे क्षयेशे ।
अक्लेशजातं मरणं नराणां
व्यस्ते तदा क्रूरमृती वदन्ति ॥ २१॥
स्वोच्चे स्वमीत्रे सति सौम्यवर्गे
व्ययाधिपे चोर्ध्वगती ससौम्ये ।
विपर्ययेऽधोगतिमेव केचित्-
उर्ध्वस्यशीर्षोदयराशिभेदात् ॥ २२॥
केलासं रविशीतगू भृगुसुतः स्वर्ग महीजो महीं
वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः ।
द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत् प्राणिनः
सम्बन्धाव्द्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः ॥ २३॥
धर्मेश्वरेणैव हि पूर्वजन्म
वृत्तं भविष्यज्जननं सुतेशात् ।
तदीशजातीं तदधिष्ठितर्क्ष
दिशं हि तत्रैव तदीशदेशम् ॥ २४॥
स्वोच्चे तदीशे सति देवभूमी
द्वीपन्तरं नीचरिपुस्थ्नलस्थे ।
स्वर्क्षे सुहृद्भे समभे स्थिते वा
सम्प्राप्नुयाद्भारतवर्षमेव ॥ २५॥
आर्यवर्तं गीष्पतेः शुयनद्यः
काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि ।
पङ्गोनीन्द्या म्लेच्छभूस्तीक्ष्णभानोः
सौलारण्यं कीकटं भूमिजस्य ॥ २६॥
स्थिरे स्थिरांशाधिगतः सपापः
पृष्ठोदयेऽधोमुखभे च संस्थः ।
तदीश्वरो वृक्षलतादिजन्म
स्यादन्यथाजीवयुतः शरीरी ॥ २७॥
लग्नेशितुः स्वोच्चसुहृत्स्वगेहान्
तदीश्वरो याति मनुष्यजन्म ।
समे मृगाः स्युवीहगाः परस्मिन्
द्रेक्काणरूपैरपि चिन्तनीयम् ॥ २८ ॥
ताधेकराशौ जननं स्वदेशे
तौ तुल्यवीर्यौ यदि तुल्यजातौ ।
वर्णो गुणस्तस्य खगस्य तुल्यः
संज्ञोदितैरेव वदेत्समस्तम् ॥ २९॥
पञ्चदशोऽध्यायः
भावचिन्ता
भावाह् सर्वे शुभपतियुता वीक्षिता वा शुभेशै-
स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः ।
पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव
खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः ॥ १॥
तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते
पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते
भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशम् ।
मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् ॥ २॥
नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो
नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः ।
तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत्
तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः ॥ ३॥
लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् ।
सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः ॥ ४॥
यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा ।
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् ॥ ५॥
भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये
पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः ।
पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा
वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् ॥ ६॥
तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला
भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः ।
पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः
वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः ॥ ७॥
राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ
मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा
राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः
पापालोकितसंयुतो निजदशायां भावनाशावहाः ॥ ८॥
भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय-
स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् ।
दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले
दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता ॥ ९॥
यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे-
द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न ।
अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते
पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः ॥ १०॥
द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं
तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् ।
पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं
त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः ॥ ११॥
यद्भावेशस्याधिशत्रुग्रहो वा
यो वा खेटो बिन्दुशून्यर्क्षयुक्तः
तत्तत्पाके मूर्तिभावादिकानां
नाशं क्रूयादृऐववित्प्राश्रिकाय ॥ १२॥
स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः
षड्भिर्बलैर्मुख्यबलान्वितोऽपि ।
सन्धौ स्थितः सन्नफलप्रदः स्यत्
एवं विचिन्त्यात्र वदेद्विपाके ॥ १३॥
भावेषु भावस्फुटतुल्भागस्त-
द्भावजं पूर्णफलं विधत्ते ।
सन्धौ फलं नास्ति तदन्तराले
चिन्त्योऽनुपातः खलु खेचराणम् ॥ १४॥
सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ।
सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः ॥ १५॥
प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः ।
आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत्
सर्पेणैव पितामहंतु शिखिना मातामहं चिन्तयेत् ॥ १६॥
द्युमणिरमन्त्री भूसुतः सौमसौम्यौ
गुरुरिनतनयारौ भार्गवो भानुपुत्रः ।
दिनकरद्विजेजौ जीवभानुज्ञमन्दाः
सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् ॥ १७॥
सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां
फलमनुपरिचिन्त्यं लग्नदेहादिभावैः ।
समुपचयविपत्ती सौम्यपापेषु सत्यः
कथयति विपरीतं रिःफषष्टमेषु ॥ १८॥
पापग्रहाः षष्ठमृतिव्ययस्था-
स्तद्भाववृद्धिं कलयन्ति दोषैः ।
शुभास्तु तद्भावलयं हि
तस्माच्छत्रवादि भावोत्फलप्रणाशः ॥ १९॥
भावस्य यस्यैव फलं विचिन्त्यं
भावं च तं लग्नमिति प्रकल्प्य ।
तस्माद्वदेद्द्वादशभावजानि
फलानि तद्रूपधनादिकानि ॥ २०॥
एवं हि तत्कारकतो विचिन्त्यं
पितुश्च मातुश्च सहोदरस्य ।
तन्मातुलस्यापि सुतस्य पत्यु-
र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् ॥ २१॥
सूर्यास्थितर्क्षाज्जनकस्वरूपं
वृद्धिं द्वितीयेन तु तत्प्रकाशम् ।
तद्भ्रातरं तस्य गुणं तृतीयात्
तन्मातरं चापि सुखं चतुर्थात् ॥ २२॥
बुधिं प्रसादं सुतभाच्च षष्ठा-
त्पीडा पितुर्दोषर्मारं च रोगम् ।
कामं मदं तस्य तु सप्तमेन
दुःखं मृतिं मृत्युगृहात्तदयुः ॥ २३॥
पुण्यं शुभं तत्पितरं शुभेन
व्यापारमस्यैव हि कर्मभावात् ।
लाभं ह्युपान्त्यात् क्षयमन्त्य-
भावाच्चन्द्रादिकानां फलमेवमाहुः ॥ २४॥
तत्तद्भावात्कारकादेवमूह्यं
तत्तन्मातृभ्रातृपित्रात्मजाद्यम् ।
तस्मिन् भावे कारके भावनाथे
वीर्योपेते तस्य भावस्य सौखम् ॥ २५॥
धर्मे सूर्यः शीतगुर्बन्धुभावे
शौर्ये भौमः पञ्चमे देवमन्त्री
कामे शुक्रश्चाष्टमे भानुपुत्रः
कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥ २६॥
लग्नेश्वरो यद्भवनेशयुक्तो
यद्भावगस्तस्य फलं ददाति ।
भावे तदीशे बलभाजि तेन
भावेन सौख्यं व्यसनं बलोने ॥ २७॥
यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप-
स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च ।
संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं
कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि ॥ २८॥
दुःस्थानपस्तदितरस्वगृहस्थितश्चेत्
स्वक्षेत्रभावफलमेव करोति नान्यति
मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः
षष्ठाधिपतकृतदोषफलं च नात्र ॥ २९॥
राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः ।
त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः ॥ ३०॥
षोडशोऽध्यायः
द्वाद्श भावफल
लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा
चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः ॥ १॥
लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा
केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने ।
दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो
लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी ॥ २
सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा
सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः ।
स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः
सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् ॥ ३॥
विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो
दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले ।
स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो
निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः ॥ ४॥
अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया
सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः ।
सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमाण्
विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः ॥ ५॥
जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः
शृऽगरोक्ति पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् ।
कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः
केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः ॥ ६॥
बन्धो यदि स्यात्तनुशौर्यनाथगो-
रन्योन्यराशिस्थतयोर्बलाढ्ययोः ।
धैर्यं च शौर्यं सहजानुकूलतां
प्राप्नोत्ययं साहसकार्यकर्तृताम् ॥ ७॥
शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते ।
भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः ॥ ८॥
अयुग्मराशौ यदि कारकेशौ
गुर्वर्कभूसूनुनिरीक्षितौ चेत् ।
ओजो गृहः स्याददि विक्रमाख्यः
पुंभ्रातरस्त्वंशवशाड्भवेयुः ॥ ९॥
दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते
पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः
एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै-
र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् ॥ १०॥
लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी
योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् ।
अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो
र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् ॥ ११॥
मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु ।
भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् ॥ १२॥
सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता
वान्दोलिकां जनपतेश्वरतां विधत्तः ।
स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या-
कामोपभोगकरणानि च गोगजाश्वान् ॥ १३॥
दुःस्थे सुखेशे कुजसूर्यक्ते
सुखेऽपि वा जन्मगृहं प्रदग्धम् ।
जीर्णं तमोमन्दयुतेऽरियुक्ते
परैर्हृतं गोक्षितिवाहनाद्यम् ॥ १४॥
सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे ।
वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् ॥ १५॥
स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना
युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः ।
अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो
रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते ॥ १६॥
षष्ठेश्वरादतिबलिन्युदयाधिनाथे
सौम्यग्रहांशसहिते शुभदृष्टयुक्ते ।
सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे-
ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः ॥ १७॥
शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते
टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे ॥ १८॥
यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः ।
षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः ॥ १९॥
सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते ।
पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता ॥ २०॥
केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति ।
नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् ॥ २१॥
धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति ।
पापमध्यगते वाऽपि पितुर्मरणमादिशेत् ॥ २२॥
दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते ।
धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता ॥ २३॥
मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् ।
त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः ॥ २४॥
शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः ।
सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति ॥ २५॥
धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे ।
जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि ॥ २६॥
नभसि शुभखगे वा तत्पतौ केन्द्रकोणे
बलिनि निजगृहोच्चे कर्मगे लग्नपि वा ।
महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः
नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य ॥ २७॥
उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत्
कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि ।
सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां
कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः ॥ २८॥
लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा ।
भावं तदनुरूपस्य वस्तुनो लाभगैरपि ॥ २९॥
व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति ।
तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् ॥ ३०॥
भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो
लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः ।
संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा
ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि ॥ ३१॥
यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा ।
गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् ॥ ३२॥
लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ ।
तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा ॥ ३३॥
यद्भावपस्य तनुपस्य भवत्यरित्वा-
त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा ।
स्पर्धां तदा वदतु नेत च गोचरस्थ-
स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च ॥ ३४॥
लग्नेशयद्भावपयोस्तु योगो
यदा तदा तत्फलसिद्धिकालः ।
भावेशवीर्ये शुभमन्यथान्य-
ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् ॥ ३५॥
सप्तदशोऽध्यायः
निर्याणप्रकरण
तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे ।
व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम् ॥ १॥
रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा ।
यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः ॥ २॥
उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च ।
रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः ॥ ३॥
स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके ।
लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः ॥ ४॥
रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ ।
मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत् ॥ ५॥
लग्नेशहीनयमकण्टकभांशकोणं
प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् ।
याते गुरौ स्वमरणन्त्वथ राहुहीन-
भूसूनुभांशकगुरौ सहजप्रणाशः ॥ ६॥
भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ
तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ ।
अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज-
क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृति ॥ ७॥
वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् ।
त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम् ॥ ८॥
लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु ।
तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः ॥ ९॥
मान्दिस्फुटे भानुसुटं विशोध्य
राश्यंशकोणे रविजे मृतः स्यात् ।
धूमादिपऽचग्रहयोगराशि-
द्रेक्काणयातेऽर्कमुते च मृत्युः ॥ १०॥
विलग्नमन्दिस्फुटयोगभांशं
निर्यणमासं प्रवदन्ति तज्ज्ञाः ।
निर्यणचन्द्रो गुलिकेन्दुयोगो
लग्नं विलग्नार्किसुतेन्दुयोगः ॥ ११॥
मान्दिस्फुटोदितनवांशगतेऽमरड्ये
तद्द्वादशांशसहिते दिननाथसूनौ ।
द्रेक्काणकोणभवने दिनपे च मृत्यु-
र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात् ॥ १२॥
गुलिकं रविसूनुं च गुणित्वा नवसंख्यया ।
उभयोरैक्यराश्यंशगृहगे रविजे मृतिः ॥ १३॥
स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् ।
तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः ॥ १४॥
षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते ।
तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम् ॥ १५॥
उद्यद्दृगाणपतिराशिगते सुरेड्ये
तस्य त्रिकोणमपि गच्छति वा विनाशम् ।
रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे
प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम् ॥ १६॥
विलग्नजन्माष्टमराशिनाथयोः
खरत्रिभागेश्वरयोस्तयोरपि ।
शशाङ्कमान्द्योरपि दुर्बलांशक-
त्रिकोणगे सूर्यसुते मृतिर्भवेत् ॥ १७॥
लग्नाधिपस्थितनवांशकराशितुल्यं
रन्ध्राधिपस्य गृहमापतिते घटेशे ।
तस्मिन्वदेन्मरणयोगमनेकशास्त्र-
संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत् ॥ १८॥
शशाङ्कसंयुक्तदृगाणपूर्वतः
खरत्रिभागेशगृहं गतेऽपि वा ।
त्रिकोणगे वा मरणं शरीरिणां
शशिन्यथ स्यात्तनुरन्ध्ररिःफगे ॥ १९॥
निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ ।
निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम् ॥ २०॥
यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ ।
मरणं निशिजातानां दिविजानां तदस्तके ॥ २१॥
गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा ।
तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा ॥ २२॥
अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ ।
तदीहनवभागर्क्षं गते वा मरणं भवेत् ॥ २३॥
जन्मकाले शनौ यस्य जन्माष्टमपतेरपि ।
राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः ॥ २४॥
निशीन्दुराशौ चेज्जन्म मान्दिभेऽंशे मृतिः ।
दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः ॥ २५॥
रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः ।
शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम् ॥ २६॥
जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ ।
मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम् ॥ २७॥
तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो
मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः ।
सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां
तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा ॥ २८॥
अष्टादशोऽध्यायः
द्विग्रहयोग
तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं
भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् ।
क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्-
लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा ॥ १॥
कूट्स्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशी
सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् ।
विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा
वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥ २॥
मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये
पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा ।
गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये
दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥ ३॥
सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्
वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः ।
सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ
ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि ॥ ४॥
असितसितसमागमेऽल्पचक्षु-
र्युवतिसमाश्चयसम्प्रवृद्धवित्तः ।
भवति च लिखिपुस्तकचित्रवेत्ता
कथितफलैः परतो विकल्पनीयाः ॥ ५॥
भूपो विद्वान् भूपतिर्भूपतुल्य-
श्चन्द्रे मेषे मोषको निर्धनश्च ।
निस्स्वः स्तेनो लोकमान्यो महीशः
स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः ॥ ६॥
युग्मस्थेऽयोजीविभूपज्ञधृष्टा-
श्चन्द्रे दृष्टे तन्तुवायोऽधनी च ।
स्वर्क्षे योधप्राज्ञसूरिक्षितीशा
लोहाजीवो नेत्ररोगी क्रमेण ॥ ७॥
राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः
सिंहे चन्द्रे नापितः पार्थिवेन्द्रः ।
दक्षो भूपः सैन्यपः कन्यकायां
निष्णातः स्याद्भूमिनाथश्च भूपः ॥ ८॥
शठो नृपस्तौलिनि रुक्मकार
श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च ।
कीटे नृपो युग्मपिता महीशः
स्याद्वस्त्रजीवी विकृताङ्गवित्तः ॥ ९॥
धूर्तो हयाङ्गे स्वजनं जनेशं
नरौघमाश्रित्य शठः सदम्भः ।
भूपो नरेशः क्षितिपो विपश्चि-
द्धनी दरिद्रो मकरे हिमांशौ ॥ १०॥
कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रो
वेश्यापतिर्नृवपरो हिमगौ नृमान्यः ।
अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान्
दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते ॥ ११॥
चन्द्रमा के विभिन्न नवांशों में होने का आउर उस पर
विविध ग्रहों की दृष्टि का फल
आरक्षको वधरुचिः कुशलश्च युद्धे
भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे ।
मूर्खोऽन्पदारनिरतः सुक्विः सितांशे
सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ॥ १२॥
बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि-
गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽंशे ।
स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः
स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे ॥ १३॥
सक्रोधो नरपतिसंमतो निधीशः
सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा ।
जीवांशे प्रथितबलो रणोपदेष्टा
हास्यज्ञः सचिवविकामवृद्धशीलः ॥ १४॥
अल्पापत्यो दुःखितः सत्यपि स्वे
मानासत्कः कर्मणि स्वेऽनुरक्तः ।
दुष्टस्त्रीष्टः कोपनश्चार्किभागे
चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ॥ १५॥
सूर्यादितोऽत्रांशफलं प्रदिष्टं
ज्ञेयं नवांशस्य फलं तदेव ।
राशीक्षणे यत्फलमुक्तमिन्दो-
स्तद्द्वादशांशस्य फलं हि वाच्यम् ॥ १६॥
वर्गोत्तमस्वपरगेषु शुभं यदुक्तं
तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण ।
वीर्यान्वितोंऽंशकपर्तिनरुणद्धि पूर्वं
राशीक्षणस्य फलमंशफलं ददाति ॥ १७॥
एकोनविंशोऽध्यायः
दशाफल
भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं
सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् ।
ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात्
सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् ॥ १॥
अग्न्यादितारपत्यो रविचन्द्रभौम-
सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः ।
तेने नटः सनिजया चटुधान्यसौम्य-
स्थने नखा निगदिताः शरदस्तु तेषाम् ॥ २॥
तृक्षस्य गम्या घटिका दशाब्द-
निघ्ना नताप्ता स्वदशाब्दसंख्या ।
रूपैर्नगैः संगुणयेन्नतेन
हृतास्तु मासा दिवसाः क्रमेण ॥ ३॥
रविस्फुटं तज्जनने यदासीत्
तथा विधश्चेत्प्रतिवर्षमर्कः ।
आवृत्तयुः सन्ति दशाब्दकानां
भागक्रमात्तदृवसाः प्रकल्प्याः ॥ ४॥
दशाफल
भानुः करोति कलहं क्षितिपालकोप-
माकस्मिकं स्वजनरोगपरिभ्रमं च ।
अन्योन्यवैरमतिदुःसहचित्तकोपं
गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् ॥ ५॥
क्रौर्यध्विभूपैः कलहैर्धनाप्तिं
वनाद्रिसंचारमतिप्रसिद्धिम् ।
करोति सुस्थो विजयं दिनेश-
स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च ॥ ६॥
मनःप्रसादं प्रकरोति चन्द्रः
सर्वार्थसिद्धिं सुखभोजनं च ।
स्त्रीपुत्रभूषाम्बररत्नसिद्धीं
गोक्षेत्रेलाभं द्विजपूजनं च ॥ ७॥
बलेन सर्वं शशिनस्तु वाच्यं
पूर्वे दशाहे फलमत्र मध्यम् ।
मध्ये दशहे परिपूर्णवीर्यं
तृतीयेभागेऽल्पफलं क्रमेण ॥ ८॥
भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं
भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः ।
पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं
विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥ ९॥
सौम्यः करोति सुहृदागममात्मसौख्यं
विद्वत्प्रशंसितयशश्च गुरुप्रसादम् ।
प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं
जायात्मजादिसुहृदां कुशलं महत्त्वम् ॥ १०॥
धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते
संतानसिद्धिमवनीपतिपूजनं च ।
श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान-
प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥ ११॥
क्रीडासुखोपकरणानि सुवाहनाप्तिं
गोरत्मभूषणनिधिप्रमदाप्रमोदम् ।
ज्ञनक्रियां सलिलयानमुपैति शौक्रयां
कल्याणकर्मबहुमानमिलाधिनाथात् ॥ १२॥
पाकेऽर्कजस्यनिजदारसुतातिरोगान्-
वातोत्तरान्कृषिविनाशमसत्प्रलापम् ।
कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास
माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥ १३॥
कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र-
भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् ।
नीचावमाननमतिक्रमतोऽपवादं
स्थानच्युतिं पदहातिं कृतकार्यहानिम् ॥ १४॥
विधुंतुदे शुभान्विते प्रशस्तभावसंयुते
दशा शुभप्रदा तदा महीपतुल्यभूतिदा ।
अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे-
दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः ॥ १५॥
पथोनमीनालिगतस्य राहो-
र्दशाविपाके महितं च सौख्यम् ।
देशाधिप्त्यं नरवाहनाप्ति-
र्दशावसाने सकलस्य नाशः ॥ १६॥
केतोर्दशायामरिचोरभूपैः
पीडा च शस्त्रक्षतमुष्णरोगः ।
मिथ्यापवादः कुलदूषितत्वं
वह्नेर्भयं प्रोषणमात्मदेशात् ॥ १७॥
अथ तरणिदशायां क्रौर्यभूपालयुद्धै-
र्धनमनलचतुष्पात्पीडनं नेत्रतापः ।
उदरदशनरोगः पुत्रदारार्तिरुच्चै-
र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः ॥ १८॥
शिशिरकरदशायां मन्त्रदेवद्विजोर्वी-
पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।
कुसुमवसनभूषागन्धनानारसाप्ति-
भर्वति खलविरोधः स्वक्षयो वातरोगः ॥ १९॥
क्षितितनयदशायां क्षेत्रवैरक्षितिश-
प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः ।
सहजतनयवैरं दुर्जनस्त्रीषुसक्ति-
दर्हनरुधिरपित्तव्याधिरर्थोपहानिः ॥ २०॥
असुरवरदशायां दुःस्वभावोऽथवा स्या-
दतिगहनगदार्तिः सूनुनार्योर्विनाशः ।
विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः
सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः ॥ २१॥
अमरगुरुदशायामम्बराद्यर्थसिद्धिः
परिजनपरिवारप्रौढिरत्यर्थमानः ।
सुतधनसुहृदाप्तिः साधुवादाप्तपूजा
भवति गुरुवियोगः कर्णरोगः कफार्तिः ॥ २२॥
रवितनयदशायां राष्टपीडाप्रहार-
प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः ।
पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा
पवनकफगुदार्तिः पादहस्ताङ्गतापः ॥ २३॥
शशितनयदशायां शश्वदाचार्यसिद्धि-
र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः ।
मनवरसुरपूजा वित्तसंधातसिद्धिः
प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥ २४॥
शिखिजनितदशायां शोकमोहोऽङ्गनाभिः
प्रभुजनपरिपीडा वित्तनाशोऽपराधः ।
प्रभवति तनुभाजां स्वीयदेशा-
दृशनचरणरोगः श्लेष्मन्तापनं च ॥ २५॥
भृगुतनयदशायामङ्गनारत्नवस्त्र-
द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः ।
क्रयकृषिजलयानप्राप्तवित्तागमो वा
भवति गुरुवियोगो बान्धवातिर्मनोरुक् ॥ २६॥
विंशोऽध्यायः
अन्तर्दशाफल
भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन ।
यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण ॥ १॥
लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः ।
उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः ॥ २॥
पाकेऽर्थनाथस्य कुटुम्बसिद्धिं
सत्पुत्रिकाप्तिं सुखभोजनं च ।
प्राप्नोति वाग्जीविकया धनानि
वक्ता सदुक्तिं सदसि प्रशस्ताम् ॥ ३॥
शौर्ये सवीर्ये सहजानुकूल्यं
सण्तोषवातश्रिवणं च शौर्यम् ।
सेनापतित्वं लभतेऽभिमानं
जनाश्रयं सद्गुणभाजनत्वम् ॥ ४॥
बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति ।
क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये ॥ ५॥
पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
साचिव्यं वा धीशदशायां बहुमानम् ।
प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥ ६॥
रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे ।
अरोगतानुदारतामधृष्यतामतिश्रियम् ॥ ७॥
सम्पाद्य वस्त्राभरणानि शय्यां
प्रीतो रमण्या रमतेऽतिवीर्यः ।
करोति कल्याणमहोत्सवादीन्
सन्तोषयात्रां च मदेशदाये ॥ ८॥
ऋणविमोचनमुच्छ्रतिमात्मनः
कलहकृत्यनिवृत्तिमुपैति सः ।
महिषपश्वजभृत्यजनागमं
वयसि रन्ध्रपतेर्बलशालिनः ॥ ९॥
स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै-
र्भाग्यंश्रियं चानुभवत्यजस्त्रम् ।
श्रेयांसि कार्याण्यवनीशपूजां
भाग्येशदाये विजदेवभक्तिम् ॥ १०॥
यत्कार्यमारब्धमुपैत्यनेन
तस्यैव सिद्धिं सुखजीवनं च ।
कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं
मानोन्नतिं कर्मपतेर्दशायाम् ॥ ११॥
एश्वर्यमव्याहतमिष्टबन्धु-
समागमं भृत्यजनांश्च दासान् ।
संसारसौभाग्यमहोदयं च
लभेत लाभाधिपतेर्दाशायाम् ॥ १२॥
व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने ।
अघौघनाशिनीं शुभक्रियां महीशमान्यताम् ॥ १३॥
वक्रगस्य निजतुङ्गसुहृत्-
सुस्थानगस्य दशाफलमेवम् ।
शत्रुनीचगृहमौढ्यषडन्त्य-
छिद्रगस्य तु फलान्यपि वक्ष्ये ॥ १४॥
दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् ।
जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे ॥ १५॥
दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् ।
मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं
पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले ॥ १६॥
वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना-
मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् ।
चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् ॥ १७॥
जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् ।
रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं
दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् ॥ १८॥
पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले ।
यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् ॥ १९॥
श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं
भवपवयसि दैन्यं वञ्चनं कर्णरोगम् ।
बहुरुजमपमानं बन्धनं सर्वसम्पत्-
क्षयमपरशशीवाऽयाति रिःफेशदाये ॥ २०॥
मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं
कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ ।
यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं
भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह ॥ २१॥
वर्गोत्तमांशस्थदशा शुभप्रदा
मिश्रैव सा चास्तमिते च नीचगे ।
मृत्युव्ययारीशदशापहारयो-
स्तत्र स्थितस्याप्यशुभं फलं भवेत् ॥ २२॥
क्रूरग्रहस्यैव दशापहारे
त्रिपञ्चसप्तर्क्षपतेविपाके ।
तथैव जन्माष्टमनाथभुक्तौ
चोरारिपीडां लभतेऽतिदुःखम् ॥ २३॥
शनेश्चतुर्थी च गुरोस्तु षष्ठी
दशा कुजाह्योर्यदि पऽचमी सा ।
कष्ट भवेद्राश्यवसानभाग-
स्थितस्य दुःस्थानपतेस्तथैव ॥ २४॥
उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य
कर्मायगस्य हि दशा विदधाति राज्यम् ।
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
राज्यश्रियं वितनुतेऽधिकमन्नदानम् ॥ २५॥
स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि वाऽस्तरहितो न च पापयुक्तः ।
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान्विशालविभवो जयति प्रशस्तः ॥ २६॥
नीचारिषष्ठव्ययसंश्रिता हि
शुभाः प्रयच्छन्त्यशुभानि सर्वे ।
शुभेतरास्त्वेषु गताः प्रयच्छ-
न्त्यमोघदुःखानि दशासु तेषम् ॥ २७॥
दशेशत्रोररिगेहभाजो
लग्नेशशत्रोरपि वाऽथ भुक्तौ ।
शत्रोर्भयं स्थानलयः तदास्य
स्निग्धोऽपि शत्रुत्वमुपैति नूनम् ॥ २८॥
यद्भावगः पाकपतिर्दशेशात्-
तद्भावजातानि फलानि कुर्यात् ।
विपक्षरिःफाष्टमभावगश्चेद्-
दुःखं विदध्यादितरत्र सौख्यम् ॥ २९॥
स्वोच्चत्रिकोणस्वहितारिनीचे
पूर्णं त्रिपादार्द्धपदाल्पशून्यम् ।
क्रमाच्छुभं चेदशुभं विलोमाट्
मूढे ग्रहे नीचसमं फलं स्यात् ॥ ३०॥
मन्दमान्द्यगुखरेशरन्ध्रपाः-
तन्नवांशपतयोऽपि ये ग्रहाः ।
तेषु दुर्बलदशा मृतिप्रदा
कष्टभे चरति सूर्यनन्दने ॥ ३१॥
मृतीशनाथस्थितभांशकेशयोः
खरत्रिभागेश्वरयोर्बलीयसः ।
दशागमे मृत्युयुक्तभांशक-
त्रिकोणगे देवगुरौ तनुक्षयः ॥ ३२॥
चतुष्टयस्था गुरुजन्मलग्नपा
भवन्ति मध्ये वयसः सुखप्रदाः ।
क्रमेण पृष्ठोभयमस्तकोदय-
स्थितोऽन्त्यमध्यप्रथमेषु पाकदः ॥ ३३॥
यद्भावगो गोचरतो विलग्नात्-
दशेश्वरः स्वोच्चसुहृद्गृहस्थः ।
तद्भावपुष्टिं कुरुते तदानीं
बलान्वितश्चेज्जननेऽपि तस्य ॥ ३४॥
बलोनितो जन्मनि पाकनाथो
मौढ्यं स्वनीचं रिपुमन्दिरं वा ।
प्राप्तश्च यद्भावमुपैति चारात्-
तद्भावनाशं कुरुते तदानीम् ॥ ३५॥
दशेशस्य तुङ्गे सुहृद्भे दशेशात्
त्रिषत्कर्मलाभत्रिकोणास्तभेषु ।
यदा चारगत्या समायाति चन्द्रः
हुभं संविधत्तेऽन्यथा चेदरिष्टम् ॥ ३६॥
पाकप्रभुर्गोचरतः स्वनीचं
मौढ्यं यदायाति विपक्षभं वा ।
कष्टं विदध्यात्स्वगृहं स्वतुङ्गं
वक्रं गतः सौख्यफलं तदानीम् ॥ ३७॥
पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् ।
नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् ॥ ३८॥
येन ग्रहेण सहितो भुजगाधिनाथ-
स्तत्खेटजातगुणदोषफलानि कुर्यात् ।
सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
दुःखं दशान्त्यसमये कुरुते विशेषात् ॥ ३९॥
द्वावर्थकामाविह मारकाख्यौ
तदीश्वरस्तत्र गतो बलाढ्यः ।
हन्ति स्वपाके निधनेश्वरो वा
व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् ॥ ४०॥
केन्द्रेशस्य सतोऽसतो।शुभशुभौ कुर्याद्दशा कोणपाः
सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः ।
रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् ॥ ४१॥
कोणाधीशः केन्द्रगः केन्द्रपो वा
कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः ।
द्वावप्येतौ भुक्तिकाले दशाया-
मन्योन्यं तौ योगदौ सोपकारौ ॥ ४२॥
न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।
भवाशुभफलं नॄणामात्मभावानुरूपतः ॥ ४३॥
आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः ।
तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् ॥ ४४॥
केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।
सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको ॥ ४५॥
त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् ।
केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् ॥ ४६॥
केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ ।
अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः ॥ ४७॥
योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः ।
तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् ॥ ४८॥
स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् ।
दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् ॥ ४९॥
केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः ।
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः ॥ ५०॥
बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः ।
पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् ॥ ५१॥
यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।
नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ ॥ ५२॥
तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् ।
अन्तर्दशानुरूपेण भवेतां योगकारकौ ॥ ५३॥
आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु ।
प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः ॥ ५४॥
रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ-
रन्ध्रत्रिभागाधिपमान्दिभेशाः ।
दुःखप्रदास्तेष्वपि दुर्बलो यः
स नाशकारी स्वदशापहारे ॥ ५५॥
भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा
मध्या भवेत्सा सुहृदुच्चभागे ।
आरोहिणी निम्नपरिच्युतस्य
नीचारिभांशेष्वधमा भवेत्सा ॥ ५६॥
शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि ।
तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया ॥ ५७॥
तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च ।
वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् ॥ ५८॥
दशापतिर्लग्नगतो यदि स्यात्
त्रिषट्दशैकादशगश्च लग्नात् ।
तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा
लग्ने शुभो वा शुभदा दशा स्यात् ॥ ५९॥
यावन्ति वर्षणि दशा च सा स्यात्-
चारक्रमात्तत्र दशापतिः सः ।
यत्र स्थितस्तद्भवनाद्विधोस्तु
स्थितेः प्रकल्प्यं सदसत्फलं हि ॥ ६०॥
दशाधिनाथस्य सुहृद्गृहस्थ-
स्तदुच्चगो वाऽथ दशाधिनाथात् ।
स्मरत्रिकोणोपचयोपगश्च
ददाति चन्द्रः खलु सत्फलानि ॥ ६१॥
उक्तेषु राशिषु गतस्य विधोः स राशिः
स्याज्जन्मकालभवमूर्तिधनादिभावः ।
तत्तद्विवृधिकृदसौ कथितो नराणां
तद्भावहानिकृदथेतरराशिसंस्थः ॥ ६२॥
सारावलीमुडुदशां च वराहहोरा-
मालोक्य जातकफलं प्रवदेन्नराणाम् ।
प्रश्नोदयग्रहवशादथ वा स्वजन्म-
राश्यादिना वदतु नास्त्यनयोर्विशेषः ॥ ६३॥
एकविंशोऽध्यायः
प्रत्यन्तर्दशाफल
अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवचिम् ।
यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥ १॥
पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः
शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः ।
छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-
नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥ २॥
सूर्य
महीश्वरादुपलभतेऽधिकं यशो
वनाचलस्थलवसतिं धनागमम् ।
ज्वरोष्णरुग्जनकवियोगजं भयं
निजां दशां प्रविशति नीक्षणदीधितौ ॥ ३॥
रिपुक्षयो व्यसनशमो धनागमः
कृषिक्रिया गृहकरणं सुहृद्युतिः
क्षयानलप्रतिहतिरकर्दायकं
शशी यदा हरति जलोद्भवा रुजः ॥ ४ ॥
रुजागमः पदविरहोऽरिपीडनं
वर्णोद्भवः स्वकुलजनैर्वरोधिता
महीभृतो भवति भयं धनच्युति
यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् ॥ ५ ॥
रिपूदयो धनहृतिरापदुद्गमो
विषाद्भयं विषयविमूढता पुनः
शिरोदृशोरधिकरुगेव देहिनाम्
अहौ भवेधिमकरायुरन्तरो ॥ ६॥
रिपुक्षयो विविधधनाप्तिरन्वहं
सुरार्चनं द्विजगुरुबन्धुपूजनम् ।
श्रवःश्रमो भवति च यक्ष्मरोगिता
सुराचिंते प्रविशति गोपशति गोपतेर्दशाम् ॥ ७॥
धनाहतिः सुतविरहः स्त्रिया रुजो
गुरुव्ययः सपदि परिच्छदच्युतिः ।
मलिष्ठता भवति कफप्रपीदनं
शनैश्चरे सवितृदशान्तरं गते ॥ ८॥
विचञ्चिका पिटकसकुष्ठकामिला
विशर्धनं जठरकटिप्रपीडनम् ।
महीक्षयः त्रिगदभयं भवेत्तदा
विधोः सुते चरति रवेरथाब्दकम् ॥ ९॥
सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो
रिपोर्भयं धनहरणं पदच्युतिः ।
गुरोर्गदश्चरणशिरोरुगुच्चकैः
शिखी यदा विशति दशां विवस्वतः ॥ १०॥
शिरोरुजा जठरगुदातिंपीडनं
कृषिक्रिया गृहधनधन्यविच्युतिः ।
सुतस्त्रियोरसुखमतीव देहिनां
भृगोः सुते चरति रवेरथाब्दकम् ॥ ११॥
चन्द्र-विचार
स्त्रीप्रजाप्तिरमलांशुकागमो
भूसुरोत्तमसमागमो भवेत् ।
मातुरिष्टफलमङ्गनासुखं
स्वां दशां विशति शीतदीधितौ ॥ १२॥
पित्तवह्निरुधिरोद्भवा रुजः
क्लेशदुःखरिपुचोरपीडनम् ।
वित्तमानविहतिर्भवेत्कुजे
शीतदीधितिदशान्तरं गते ॥ १३॥
तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् ।
अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥ १४॥
दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः ।
राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ ॥ १५॥
नैकरोगविहतिः सुहृत्सुत-
स्त्रीरुजा व्यसनसंभवो महान् ।
प्राणहानिरथवा भवेच्छनौ
मारबन्धुवयसो गतेऽन्तरम् ॥ १६॥
सर्वदा धनगजाश्वगोकुल-
प्राप्तिराभरणसौख्यसम्पदः ।
चित्तबोध इति जायते विधो-
रायुषि प्रवेशति प्रबोधने ॥ १७
चित्तहानिरपि सपदश्च्युति-
र्बन्धुहानिरपि तोयजं भयम् ।
दासभृत्यहतिरस्ति देहिनां
केतुके हरति चान्द्रमब्दकम् ॥ १८॥
तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः ।
पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥ १९॥
राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः ।
पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् ॥ २०॥
मंगल की महादशा में विविध अन्तर्दशों का फल
पित्तोष्णरुग्व्रणभयं सहजैवियोगः
क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः ।
ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो
धात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥ २१॥
शस्त्राग्निचोररिपुभूपभयं विषातिः
शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः ।
प्राणव्ययोऽथ यदिवा विपुलापदो वा
वक्रायुरन्तरगते भुजगाधिनाथे ॥ २२॥
द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा
सततमतिथिपूजा पुत्रमित्रादिवृद्धिः ।
श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा
भवतिकुजदशान्तः संगते वागधीशे ॥ २३॥
उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा-
मगणितविपदन्तर्दुःखमर्थोपहानिः ।
वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-
र्भवति कुजदशायामर्कजे सम्प्रयाते ॥ २४॥
अरिभयमुरुचोरोपद्रवोऽथार्थहानिः
पशुगजतुरगाणां विप्लवोऽमित्रयोगः ।
नृपकृतपरिपीडा शूद्रवैरोद्भवो वा
विशति शशितनूजे विष्वधात्रीसुतायुः ॥ २५॥
अशनिभयमकस्मादग्निशस्त्रप्रपीडा
विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् ।
अपगमनमसुभ्यो योषितो वा विनाशः
प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥ २६॥
युधि जनितविमानं विप्रवासः स्वदेशा-
द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः ।
परिजनपरिहानिर्जायते मानवाना-
मपहरति यदायुर्भौमिजं भार्गवेन्द्रः ॥ २७॥
नृपकृतपरिपूजा यद्धलब्धप्रभावः
परिजनधनधान्यश्रीमदन्तःपुरं च ।
अतिविलसितकृत्तः साहसादाप्तलक्ष्मी-
स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥ २८॥
विविधधनसुताप्तिविप्रयोगोऽरिवर्गै-
र्वसनशयनभूषारत्नसम्पत्प्रसूतिः ।
भवति गुरुजनातिर्गुल्मपित्तप्रपीडा
धरणितनयवर्षं शीतगौ सम्प्रयाते ॥ २९॥
राहु की महादशा में विविध अन्तर्दशों का फल
विषाम्बुरुग्दुष्टभुजङ्गदर्शनं
पराबलासंयुतिरिष्टविच्युतिः ।
अरिष्टवाग्दुष्टजनव्यथा
भवेद्विधुंतुदेनापहृते स्ववत्सरे ॥ ३०॥
सुखोपनीतिः सुरविप्रपूजनं
विरोगता वामदृशां समागमः ।
सुपुण्यशास्त्रर्थविचारसम्भवः
सुरारिदायान्तगे बृहस्पतौ ॥ ३१॥
समीरपित्तप्रगदक्षतिस्तनौ
तनूजयोषित्सहजैश्च विग्रहः ।
स्वभृत्यनाशश्च पदच्युतिर्भवेत्-
दितिप्रजायुः प्रविस्शत्यथार्कजे ॥ ३२॥
सुतस्वसिद्धिः सुहृदां समागमो
मनोविनिन्द्यत्वमतीव जायते ।
पटुक्रियाभूषणकौशलादयो
भुजङ्गसंवत्सरहारिणीन्दुजे ॥ ३३॥
ज्वराग्निशस्त्रारिभयं शिरोरुजा
शरीरकम्पः स्वसुहृद्गुरुव्यथा ।
विषव्रणातिः कलहः सुहृज्जनै-
रहीन्द्रदायान्तरगे शिखाधरे ॥ ३४॥
कलत्रलब्धिः शयनोपचारता
तुरङ्गमातङ्गमहीसमागमः ।
कफानिलाप्तिः स्वजनैविरोधिता
भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥ ३५॥
अरिव्यथा स्यादतिपीडनं
दृशोविंषाग्निशस्त्राहतिरापदुद्गमः ।
वधूसुतातिर्नृपतेर्महद्भयं
भुजङ्गवर्षे तिमिरारिणा हृते ॥ ३६॥
वधूविनाशः कलहो मनोरुजा
कृषिक्रयावित्तपशुप्रजाक्षयः ।
सुहृद्विपत्तिः सलिलाद्भयं भवे-
द्विधौ दशाभक्तरि देवविद्विधः ॥ ३७॥
नृपाग्निचोरास्त्रभयं शरीरिणां
शरीरनाशो यदि वा महारुजः ।
पदभ्रमो हृन्नयनप्रपीडनं
यदात्र सर्पयुषि संचरेत्कुजः ॥ ३८॥
बृहस्पति की महादशा में विविध अन्तर्दशों का फल
सौभाग्यकान्तितबहुमानगुणोदयः
स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च ।
आचार्यसाधुजनसंयुतिरिष्टसिद्धिः
सवत्सरं हरति देवगुरौ स्वकीयम् ॥ ३९॥
वेश्याङ्गनामदकृदासवदोषसङ्ग
उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा ।
अर्थव्ययोरुभयमक्षिजरुक्सुताति
जैवीं दशां विशति दैनकरे नराणाम् ॥ ४०॥
स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः
केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः ।
देवद्विजार्चनसुतार्थसुखप्रयोगै-
र्गीवर्णपूजितदशां हरतीन्दुसूतौ ॥ ४१॥
शस्त्रव्रणं भवति भृत्यजनैविरोध-
श्चित्तव्यथा तनययोषिदुपद्रवश्च ।
प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः
सौरेड्यमायुरपहृत्य ददाति केतुः ॥ ४२॥
नानाविधार्थपशुधान्यपरिच्छदस्त्री-
पुत्रान्नपानशयनाम्बरभूषणाप्तिः ।
देवद्विजार्चनमुपासनतत्परत्व-
मायुर्यदा हरति जैवमथासुरेड्यः ॥ ४३॥
शत्रोर्जयः क्षितिपमाननकीर्तिलाभः
स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः ।
श्रेण्यग्रहारपुरराष्ट्रसमस्तसम्पद
दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥ ४४॥
योषिद्बहुत्वमरिनाशनमर्थलाभः
कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः ।
दवद्विजार्चनपरत्वमतीव पुंसां
संजायते गुरुदशाहृति शर्वरीशे ॥ ४५॥
बन्धूपतोषणमरिव्रजतोऽर्थलाभः
सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः
इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा
क्षित्यात्मजे हरति वत्सरमार्यजातम् ॥ ४६॥
बन्धूपतप्तिरुरुमानसरुग्गदार्ति-
श्चोराद्भयं गुरुगदो जठरोद्भवो वा ।
राजेन्द्रपीडनमरिव्यसनं स्वनाशः
सम्पद्यते हरति सूरिदशां सुरारौ ॥ ४७॥
शनि को महादशा में विविध अन्तर्दशों का फल
कृषिवृद्धभृत्यमहिषाभ्युदयः
पवनामयो वृषलजातिधनम् ।
स्थविराङ्गनाप्तिरलसत्वमघो
निजवत्सरान्तरगते रविजे ॥ ४८॥
सुभगत्वमस्ति सुखित वनिता
नृपलालनं विजयमित्रयुतिः
त्रिगदोद्भवः सहजपुत्ररुजा
शनिदायहारिणि शशाङ्कसुते ॥ ४९॥
मरुदग्निपीडनमरिव्यसनं
सुतदारविग्रमतिः सततम् ।
अशुभावलोकनमहेश्च भयं
मृदुवत्सरं हरति केतुपतौ ॥ ५०॥
सुहृदङ्गनातनयसौख्ययुतः
कृषितोययानजनितार्थचयः ।
शुभकीर्तिरुद्भवति देहभृतां
यमदायहारिणि भृगोस्तनये ॥ ५१॥
मरणं तु वा रिपुभयं सततं
गुरुवर्गरुग्जठरनेत्ररुजा ।
धनधान्यविच्युतिरिह प्रभवेत्-
रविजायुराविशति तीव्रकरे ॥ ५२॥
वनिताहतिर्मरणमेव नृणां
सुहृदां विपत्तिरथ रोगभयम् ।
जलवातजं भयमतीव भवेत्-
रविजायुराविशति रात्रिकरे ॥ ५३॥
स्वपदच्युतिः स्वजनविग्रहरुक्-
ज्वरवाह्नशस्त्रविशभिरथ वा ।
अरिवृद्धिरान्तररुगक्षिभयं
रविजायुराविशति भुमिसुते ॥ ५४॥
अप्मार्गयानमसुभिविरहस्तु
अथ वा प्रमेहगुरुगुल्मभयम् ।
ज्वररुक्क्षतिः सततमेव नृणा-
मसितान्तरं विशति भोगिपतौ ॥ ५५॥
अमरार्चनद्विजगणाभिरुचि-
र्गृहपुत्रदारविहतिस्तु भवेत् ।
धनधान्यवृद्धिरधिका हि नृणां
गतवत्यथार्किवयसीन्द्रगुरौ ॥ ५६॥
बुध की महादशा में विविध अन्तर्दशों का फल
धर्मार्गनिरतिर्विवपश्चितां
सङ्गमो विमलधीर्घनं द्विजात् ।
विद्यया बहुयशः सुखं सदा
चन्द्रजे हरति वत्सरं स्वकम् ॥ ५७॥
दुःखशोककलहाकुलात्मता
गात्रकम्पनममित्रसंयुतिः ।
क्षेत्रयान्विप्युतिर्यदा भवेत्-
सोममसूनुशरदं गतः शिखी ॥ ५८॥
देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः ।
वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥ ५९॥
हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् ।
भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥ ६०॥
मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् ।
प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ ॥ ६१॥
अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता ।
स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥ ६२॥
मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् ।
मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥ ६३॥
व्याधिशत्रुभयविच्युतिर्भवे-
द्ब्रह्मसिद्धिरवनीशसत्कृतिः ।
धर्मसिद्धितपसां समुद्ग्रमो
देवमन्त्रिणि विदो दशां गते ॥ ६४॥
अर्थधर्मपरिलुप्तिरुच्चकैः
सर्वकार्यविफलत्वमङ्गिनाम् ।
श्लेष्मवातजनिता रुगुद्भवे-
द्वोधनायुषि समागतेऽसिते ॥ ६५॥
केतु की महादशा में विविध अन्तर्दशों का फल
रिपुजनकलहं सुहृद्विरोधं
त्वशुभचः श्रवणं ज्वराङ्गदाहम् ।
गमनपरधाम्नि वित्तनाशं
शिखिनि लभेत् दशां गते स्वकीयाम् ॥ ६६॥
द्विजवरकलहः स्त्रिया विरोधः
स्वकुलजनैरपि कन्यकाप्रसूतिः ।
परिभवजननं परोपतापो
भवति सिते शिखिवत्सरान्तराले ॥ ६७॥
गुरुजनमरणं ज्वर्तारः
स्वजनविरोधविदेशयानलभः ।
नृपकृतकलहः कफानिलाति-
र्विशति रवौ शिखिवत्सरान्तरालम् ॥ ६८॥
सुलभबहुधनं तथैव हानिः
सुतविरहो बहुदुःखभाक्प्रसूतिः ।
परिजनयुवतिप्रजाप्रलाभः
शशिनि यदा शिखिदायमभ्युपेते ॥ ६९॥
स्वकुलजकलहं स्वबन्धुनाशं
भयमपि पन्नगजं वदन्ति चोरात्
हुतवहभयशत्रुपीडनं च
व्रजतिकुजे ध्वजनामखेचरायुः ॥ ७०॥
अरिकृतकलहं नृपाग्निचौरै-
र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः ।
खलजनवचनं दुरिष्टचेष्टा
समसि गतेऽत्र शिखीन्द्रदायमाहुः ॥ ७१॥
सुतवरजननं सुरेन्द्रपूजा
धरणिधनाप्तिरुपायनार्थसिद्धिः ।
धनचयजननं महीशमानो
भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥ ७२॥
परिजनविहतिं परोपतापं
रिपुजनविग्रहमङ्गभङ्गतां च ।
धनपदविर्युतिं तथाहुरार्या
गतवति सूर्यसुते शिखाधरायुः ॥ ७३॥
सुतवर्जननं प्रभुप्रशस्तिः
क्षितिधनसिद्धिररीश्वरप्रपीडा ।
पशुकृषीविहतिर्भवेत्तु पुंसां
विशति बुधे शिखिवत्सरान्तरालम् ॥ ७४॥
शुक्र की महादशा में विविध अन्तर्दशों का फल
वसनभूषणवाहचन्दना-
द्यनुभवः प्रमदासुखसम्पदः ।
द्युतियुतिः क्षितिपाद्धनलब्धयो
भृगुसुते स्वदशां प्रविशत्यपि ॥ ७५॥
नयनकुक्षिकपोलगदोद्भवः
क्षितिभृतो भयमस्ति शरीरिणाम् ।
गुरुकुलोद्भवबान्धवपीडनं
भृगुसुतायुषि भानुमति स्थिते ॥ ७६॥
नखशिरोरदनक्षतिरुच्चकैः
पवनपित्तरुगर्थविनाशनम् ।
ग्रहणिगुल्मकयक्ष्मकपीडनं
सितवयोहृति तत्र हिमल्विषि ॥ ७७॥
रुधिरपित्तगदातिसमाश्रयः
कनकताम्रचयावनिसंग्रहः ।
सुवतिदूषणमुद्यमविच्युति-
र्वृषभवल्लभवत्सरगे कुजे ॥ ७८॥
निधिभवः सुतलब्धिरभीष्तवाक्
स्वजनपूजनमप्यरिबन्धनम् ।
दहनचोरविषोद्भवपीडनं
तुलधरेश्वरवत्सरगेऽसुरे ॥ ७९॥
विविधधर्मसुरेशनमस्क्रिया
भवति चात्मजवामदृगागमः ।
विविधराज्यसुखं च शरीरिणां
कविदशाहृति कार्मुकनायके ॥ ८०॥
नगरयोधनृपोद्भवपूजनं
प्रवरयोषिदवाप्तिरथास्ति वा ।
विविधवित्तपरिच्छदसंयुति-
दितिपूजितदायगते शनौ ॥ ८१॥
तनयसौख्यमागमसम्पदां
निचयलब्धिरतिप्रभुता यशः ।
पवनपित्तकफातिररिच्युतिर्-
दनुजमन्त्रिदशाहृति चन्द्रजे ॥ ८२॥
सुतसुखादिबहिः स्थितिरग्निजं
भयमतीव विनाशनमङ्गरुक् ।
अपि च वारवधूजनसंयुतिः
शिखिनि यात्यलमौशनसीम् दशाम् ॥ ८३॥
दशापहारेषु फलं यदुक्तं
वर्णाधिकारानुगुणं वदन्तु ।
छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः
छायाङ्कवार्तश्रवणानि वा स्युः ॥ ८४॥
द्वाविंशोऽध्यायः
कालचक्र दशा
दस्रादितः पादवशेन मेषान्न्-
मीनाम्शकान्तं क्रमशोऽपसव्यम् ।
कीटाद्धयान्तं गणयेच्च सव्य-
मार्गेण पादक्रमशोऽजतारात् ॥ १॥
एवं भूयाच्चापसव्यं च सव्यं
भानि त्रीणि त्रीणि विद्यात्क्रमेण ।
तद्राशीशप्रोक्तवर्षैर्दशास्य
देवं प्राहुः कालचक्रे महान्तः ॥ २॥
मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् ।
दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः ॥ ३॥
दस्ःअपहारादिककालचक्रे
वाक्यानि दस्रादिपदादिजानि ।
दक्ष्यामि वर्णैर्नवभिर्भमानै
राशीशवर्षैः परमायुरत्र ॥ ४॥
पौरं गावो मित सन्दिग्धं
नक्षत्रेन्दुः स तु भूशूलम् ।
रूपेत्रक्षन्निधयोरङ्गे
वाणी चस्थं दधि नक्षत्रम् ॥ ५॥
दासत्वेशो गौरीपुत्रं
क्षन्निधिकारो गोभूशेषम् ।
सौदधिनक्षत्रेहासन्तो
भौमगुरुः पुत्राक्षोनाधिः ॥ ६॥
वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या-
न्यश्विन्याद्यन्यग्निभस्यापसव्ये ।
सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये-
ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः ॥ ७॥
धेनुः क्षेत्रे पुरगो शंभु-
स्तासां जत्रु क्षन्निधि दासी ।
चर्माभोगी रायधिनाक्ष-
स्त्रीपौराङ्गी शिवतीर्थाब्जे ॥ ८॥
त्रक्षनिधिर्दा सूचिशंभो
सौरयधी नक्षत्रं पारम् ।
गोशिवतीर्थे दात्रिक्ष्न्नो
धीहसितांशुभोर्गी रम्या ॥ ९॥
नक्षत्रपादैष्यघटी समुत्था
पूर्वा दशा तत्पतिवर्षजाता ।
पूर्वोक्तपादक्रमशोऽत्र विद्यात्-
केषांचिदेवं मतमाहुरार्या ॥ १०॥
दस्रादिपादप्रभृतीनि भानां
वाक्यानि यान्यक्षरपंक्तिजानि ।
तेषां क्रमेणैव दशा प्रकल्प्या
वाक्यक्रमं साध्विति केचिदाहुः ॥ ११॥
वाक्यक्रमे कर्क्यलिमीनसन्धौ
मण्डूकगत्यश्वरप्लुतिश्च ।
सिंहावलोकस्त्रिविधा तदानीं
दशान्तरं दुःखफलप्रदं स्यात् ॥ १२॥
तद्वाक्यवर्णक्रमशोपहार-
वर्षाहते तत्परमायुराप्ते ।
तदा दशायामपहारवर्ष-
संख्याश्च मासान्दिवसान्वदेयुः ॥ १३॥
वाक्येषु यावच्छरदां प्रमाणं
वदन्ति तावत्परमायुरत्र ।
मेषादनीकं मदनं गजेन
तुन्दः पुनश्चैवमुदीरितं तत् ॥ १४॥
उत्पन्न आधान आउर क्षेम महादशा
महादशासु यत्फलं प्रकीर्तितं मया पुरा ।
तदेव योजयेद् बुधो दशासु चैवमादिषु ॥ १५॥
जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा ।
आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां
स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे ॥ १६॥
निसर्गदशा
एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात्
चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः ।
स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा-
दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा ॥ १७॥
अंशदशा
लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला
आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी ।
वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे
द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना ॥ १८॥
सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा-
द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे ।
त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा
लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च ॥ १९॥
तस्योपदेशो वरमत्र किन्तु
कुर्वन्त्ययोग्यं बहुवर्गणभिः ।
आचार्यकं त्वत्र बहुघ्नतायाम्
एको तु यद्भुरि तदेव कार्यम् ॥ २०॥
पिण्डायुर्दशा
धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात्
पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह ।
लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं
त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः ॥ २१॥
लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये ।
बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा ॥ २२॥
हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे ।
पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् ॥ २३॥
पैण्डाख्यमायुर्ब्रुर्वते प्रधानं
मणित्थचाणक्यमयादयश्च ।
एतन्न साध्वित्यवदद्भदन्तो
वराहसूर्यस्य तथैव वाक्यम् ॥ २४॥
सूर्यादिकानां स्वमतेन जीव-
शर्म स्वरांशं परमायुषोऽत्र ।
अस्यापि सर्व हरणं विधेयं
पूर्वोक्तिवल्लग्नदशामपीह ॥ २५॥
नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै-
राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् ।
कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत्
वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे ॥ २६॥
लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या
तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये ।
बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये
वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् ॥ २७॥
अंशोद्भवं लग्नबलात्प्रसाध्य-
मायुश्च पिण्डोद्भवमर्कवीर्यात् ।
नैसर्गिकं चन्द्रबलात्प्रसाध्यं
ब्रूमस्रयाणामपि वीर्यसाम्ये ॥ २८॥
तेषां त्रयाणामिह संयुतिस्तु
त्रिभिर्हृता सैव दशा प्रकल्प्या ।
वीर्ये द्वयोरैक्यदलं तयोः स्यात्
चेज्जीवशर्मायुरमी बलोनाः ॥ २९॥
कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते ।
सदा नक्षत्रमार्गेण दशा बलवती स्मृता ॥ ३०॥
समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा
हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः ।
विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां
स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥ ३१॥
ये धर्मकर्मनिरता विजितेन्द्रिया ये
ये पथ्यभोजनजुषो द्विजदेवभक्ताः ।
लोके नरा दधति ये कुलशीललिलां
तेषामिदं कथितमायुरुदारधीभिः ॥ ३२॥
त्रयोविंशोऽध्यायः
प्रष्टकवर्ग
गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै ।
अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् ॥ १॥
आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् ।
तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र ॥ २॥
पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो
मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः ।
ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्-
गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे ॥ ३॥
गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः
भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् ।
नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया
मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे ॥ ४॥
तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात्
पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः ।
तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको
लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे ॥ ५॥
सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः
तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् ।
पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा-
मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः ॥ ६॥
मार्ताण्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके
भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् ।
पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः
श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः ॥ ७॥
जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः
पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः ।
लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये
ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः ॥ ८॥
रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः
गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः ।
शताकारे जीवात्तदधनपरे ज्ञादुदयभात्
कलाभूतानम्ये भृगुज चयखे सूर्यतनयः ॥ ९॥
इति निगदितमिष्टं नेष्टमन्यद्विशेषा-
दलिकफलविपाकं जन्मिनां तत्र दद्युः ।
उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं
त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् ॥ १०॥
कृवाष्टवर्ग द्युसदां क्रियादि-
ष्वक्षैर्विंहीने मृतिरेकबिन्दोः ।
नाशो व्ययो भीतिभयार्थनारी-
श्रीराज्यसिद्धिः क्रमशः फलानि ॥ ११॥
तत्तद्ग्रहाधिष्ठितसर्वराशीं-
स्तत्संज्ञितं लग्नमिति प्रकल्प्य ।
तेभ्यः फलान्यष्टविधान्यभूवं-
स्तत्तद्गृहाद्भा ववशाद्वदन्तु ॥ १२॥
तत्तद्ग्रहर्क्षाशकतुल्यभांश
स्थिता ग्रहाश्चारवशादिदानीम् ।
तथैव तद्भावसमुत्थितानि
फलानि कुर्वन्ति शुभाशुभानि ॥ १३॥
कृतेऽष्तवर्गे सति कारकर्क्षात्-
यद्भावमुक्ताङ्कमुपैति खेटः ।
तद्भावपुष्टिं सशुभोऽशुभो वा
करोत्यनुक्ते विपरीतमेव ॥ १४॥
एकत्र भावे बहवो यदानी-
मुक्ताङ्कगाश्चारवशाद्व्रजन्ति ।
पुष्णन्ति तद्भावफलानि सम्यक्
तत्कारकात्तत्तनृपूर्वभावे ॥ १५॥
बिन्दौ स्थिते तत्फलसिद्धिकाल
विनिर्णयाय प्रहितेऽष्टवर्गे ।
भान्यष्टधा तत्र विभज्य कक्षा
क्रमेण तेषां फलमाहुरन्ये ॥ १६॥
प्रस्ताराष्टकवर्गः
आलिख्य चक्रं नव पूर्वरेखा
याम्योत्तरस्था दश च त्रिरेखाः ।
प्रस्तारकं षण्णवतिप्रकोष्ठं
पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥ १७॥
होराशशीबोधनशुक्रसूर्य-
भौमामरेन्द्राचिंतभानुपुत्राः ।
याम्यादिपङ्क्त्यष्टकराशिनाथाः
क्रमेण तत्बिन्दुफलप्रदाः स्युः ॥ १८॥
राश्य्ष्टभागप्रथमांशकाले
शनिर्द्वितीये त्य् गुरुः फलाय ।
कक्षाक्रमेणैवमिहान्त्यभाग-
काले विलग्नं फलदं प्रदिष्टम् ॥ १९॥
सर्वग्रहाणां प्रहितेऽष्टवर्गे
तत्कालराशिस्थितबिन्दुयोगे ।
अष्टाक्षसंख्याधिकविन्दवश्वेत्
शुभं तदुने व्यसनं क्रमेण ॥ २०॥
यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था
यावन्तः शुभभवने हिमद्युतेर्वा ।
इत्थं तद्विदितमिहाधिके च तेभ्यः
स्वस्त्यूने विपदिति सूचितं परेषाम् ॥ २१॥
कर्तुः स्वजन्मसमयावसथग्रहाणां
कृत्वाष्टवर्गकथिताक्षविधानमत्र ।
बह्वक्षयोगवशतः शुभराशिमास-
भावग्रहस्थितिषु कर्मशुभं विदध्यात् ॥ २२॥
पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्।
नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् ॥ २३॥
स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि ।
सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् ॥ २४॥
चतुर्विंशोऽध्यायः
प्रष्टकवर्गफल
अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः
तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् ॥ १॥
सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे ।
तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः ॥ २॥
तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः ।
संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः ॥ ३॥
लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः ।
सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् ॥ ४॥
संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् ।
द्वादशेन हताच्छेषराशिं याते दिवाकरे ॥ ५॥
तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् ।
एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः ॥ ६॥
चन्द्रात्सुखफलैः पिण्डं हत्वा सारावशेषितम् ।
शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥ ७॥
चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे ।
मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः ॥ ८॥
भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् ।
बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च ॥ ९॥
गुरुस्थितसुतस्थाने यावतां विद्यते फलम् ।
शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ १०॥
गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै ।
क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥ ११॥
फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि ।
तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः ॥ १२॥
शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः ।
हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥ १३॥
लग्नादिमन्दान्तफलैक्यसंख्या-
वर्षे विपत्तिस्तु तथार्कपुत्रात् ।
यावद्विलग्गान्तफलानि तस्मिन्-
नाशो हि तद्योगसमानवर्षे ॥ १४॥
अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् ।
फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत्
त्रिकोण शोधन
त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् ॥ १६॥
भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् ।
समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥ १७॥
एकाधिपत्य शोधन
त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् ।
क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥ १८॥
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ।
ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥ १९॥
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् ।
सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥ २०॥
उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् ।
उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥ २१॥
एकस्मिन् भवने शून्ये न संशोध्यं कदाचन ।
द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः ॥ २२॥
शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् ।
ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ २३॥
राशि गुणक आउर ग्रह गुणक
गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे ।
वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥ २४॥
शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः ।
एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥ २५॥
जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता ।
बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥ २६॥
एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः ।
सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि ॥ २७॥
द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् ।
सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः ॥ २८॥
अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् ।
नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥ २९॥
शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा ।
त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥ ३०॥
बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् ।
पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥ ३१॥
मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः ।
पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥ ३२॥
एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् ।
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥ ३३॥
बलो बलिष्तो लवणागमोसुरो
रागी मुररिः शिखरीन्द्रगाथया
भौमो गणेन्द्रो लघुभावतासुरो
गोकर्णरक्ता तु पुरणर्मथिली ॥ ३४॥
रुद्रः परं गह्वरंभैरवस्थली
रागी वली भास्वरगीर्भगाचलाः ।
गिरौ विवस्वान्बलवद्विवक्षया
शुली मम प्रीतिकरोऽत्र तीर्थकृत् ॥ ३५॥
सर्वकर्मफलोपेतमष्टवर्गकमुच्यते ।
अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥ ३६॥
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥ ३७॥
मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये ।
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥ ३८॥
मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै ।
अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥ ३९॥
षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् ।
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥ ४०॥
लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै ।
सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥ ४१॥
तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् ।
एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् ॥ ४२॥
शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् ।
पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥ ४३॥
संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह ।
तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥ ४४॥
पंचविंशोऽध्यायः
गुलिकादि उपग्रह
नमामि मान्दिं यमकण्टकाख्य-
मर्द्धप्रहारं भुवि कालसंज्ञम् ।
धूमव्यतीपातपरिध्यभिख्यान्-
उपग्रहानिन्द्रधनुश्च केतून् ॥ १॥
चरं रुद्रदास्यं घटं नित्यतानं
खनिर्मान्दनाढ्यः कार्यौ
अहर्मानवृद्धिक्षयौ तत्र कार्यौ
निशायां तु वारेश्चरात्पञ्चमाद्याः ॥ २॥
दिव्या घटी नित्यतनुः खनीनां
चन्द्रे रुरुः स्याद्यमकण्टकस्य ।
अर्द्धप्रहारस्य भटो नटेन
स्तनौ खनी चन्द्रखरौ जयज्ञः ॥ ३॥
कालस्य फेनं तनुरुद्रदिव्यं
वन्द्यो नटस्तैरनुसूर्यवारात्
एषां समं मान्दिवदेव तत्त
न्नाड्या स्फुट लग्नवदत्र साध्यम् ॥ ४॥
धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ
स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते ।
षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला-
दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः ॥ ५॥
भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् ।
मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् ॥ ६॥
तथापि गुलिकादिनां विशेषोऽत्र निगद्यते ।
पूर्वाचार्यैयर्दाख्यातं तत्संगृह्य मयोदितम् ॥ ७॥
चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो
नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः ।
नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी
शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने ॥ ८॥
न चाटुवाक्यं कलहायमानो
न वित्तधान्यं परदेशवासी ।
न वाङ्न सूक्ष्मार्थविवादवाक्यो
दिनेशपौत्रे धनराशिसंस्थे ॥ ९॥
विरहगर्वमदादिगुणैर्युतः
प्रचुरकोपधनार्जनसंभ्रमः ।
विंगतशोकभयश्च विसोदरः
सहजधामनि मन्दयुतो यदा ॥ १०॥
सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन-
श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे ।
बहुरिपुगणहन्ता भूतविद्याविनोदी
रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः ॥ ११॥
कलत्रसंस्थे गुलिके कलही वहुभार्यकः ।
लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः ॥ १२॥
विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे
गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे
न शुभफलदकर्मा कर्मसंस्थे विदानः
सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे ॥ १३॥
विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे ।
गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा ॥ १४॥
रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते ।
भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी ॥ १५॥
गुरुयुक्ते पाषण्डी शुक्रयुते नीचकामिनीसङ्गः ।
शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिंतश्च सोऽपल्पायुः ॥ १६॥
विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ ।
गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी ॥ १७॥
गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् ।
यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् ॥ १८॥
दोशप्रदाने गुलिको बलीयान्
शुभप्रदाने यमकण्टकः स्यात् ।
अन्ये च सर्वे व्यसनप्रदाने
मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः ॥ १९॥
शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके ।
अर्धप्रहारे बुधवत्फलं काले तु राहुवत् ॥ २०॥
कालस्तु राहुर्गुलिकस्तु मृत्यु-
र्जीवातुकः स्याद्यमकण्टकोऽपि ।
अर्द्धप्रहारः शुभदः शुभाङ्क-
युक्तोऽन्यथा चेदशुभं विदध्यात् ॥ २१॥
आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः
ते भावा नाशतां यान्ति वदतीति पराशरः ॥ २२॥
धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा ।
व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा ॥ २३॥
परिवेषे जले भीरुर्जलरोगश्च बन्धनम् ।
इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः ॥ २४॥
केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् ।
एते यद्भावसहितास्तद्दशायां फलं वदेत् ॥ २५॥
अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः
प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतम् ।
धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा-
नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् ॥ २६॥
अप्रकाशाः सचरन्ति धूमाद्याः पंच खेचराः ।
क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे ॥ २७॥
धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन ।
उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते ॥ २८॥
लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् ।
केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः ॥ २९॥
गुलिकभवननाथे केन्द्रगे वा त्रिकोणे
बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा ।
रथगजतुरगाणां नायको मारतुल्यो
महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः ॥ ३०॥
षड्विंशोऽध्यायः
गोचरफल
सर्वेषु लग्नेष्वपि सत्सु चन्द्र-
लग्नं प्रधानं खलु गोचरेषु ।
तस्मात्तदृक्षादपि वर्तमान्-
ग्रहेन्द्रचारैः कथयेत्फलानि ॥ १॥
सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः
जीवस्त्वस्ततपोद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ ।
सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः
शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥ २॥
लाभविक्रमखशत्रषु स्थितः
शोभनो निगदितो दिवाकरः ।
खेचरैः सुततपोजलान्त्यगैः
व्यार्किभिर्यदि न विद्ध्यते तदा ॥ ३॥
द्यूनजन्मरिपुलाभखत्रिगः
चन्द्रमाः शुभफलप्रदः सदा ।
स्वात्मजान्त्यमृतिबन्धुधर्मगै
विध्द्यते न विबुधैर्यदि ग्रहैह् ॥ ४॥
विक्रमायरिपुगः कुजः शुभः
स्यात्तदान्त्यसुतधर्मगैः खगैः ।
चेन्न विद्ध इनसूनुरप्यसौ
किन्तु धर्मधृणना न विध्द्यते ॥ ५॥
स्वाम्बुशत्रुमृतिखायगः शुभो
ज्ञस्तदा न खलु विध्द्यते सदा ।
स्वाल्मजत्रितप आद्यनैधन
प्राप्तिगैविबुधुभिर्यदि ग्रहैः ॥ ६॥
स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः ।
रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि ॥ ७॥
आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः ।
नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः ॥ ८॥
जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता
वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च ।
स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता
रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ ९॥
वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता
षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिम् ।
आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै
रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥ १०॥
आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं
प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे ।
स्थानं मानं विभवमपि चैकादशे रोगनाशं
क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥ ११॥
क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च ।
सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥ १२॥
अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं
लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च ।
धैरे भौमो जनयति जयं स्वर्णभूषंप्रमोदं
स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥ १३॥
ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा
कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः ।
रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे
विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥ १४॥
कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे ।
कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि-
विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥ १५॥
दुश्चेष्टा वा कर्मविघ्नः श्रमः खे
द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे ।
भौमः खेटो गोचरे द्वादशस्थो
द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥ १६॥
वित्तक्षयं श्रियमरातिभयं धनाप्तिं
भार्याप्तनूजकलहं यिजयं विरोधम् ।
पुत्रार्थलाभमथ विघ्नमशेषसौख्यं
पुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥ १७॥
जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां
प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् ।
दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं
दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥ १८॥
पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते
षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः ।
यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे
मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥ १९॥
भाग्ये जीवे सर्वसौभाग्यसिद्धिः
कर्मण्यर्थास्थनपुत्रादिपिडा
लाभे पुत्रस्थानमानदिलाभो
रिःफे दुःखं साध्वसं द्रव्यहेतोः ॥ २०॥
अखिलविषयभोगं वित्तसिद्धिं विभूतिं
सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् ।
दिशति युवतिपीडां सम्पदं वा सुखाप्तिं
कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥ २१॥
रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं
स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् ।
स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं
जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥ २२॥
दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे
दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा ।
सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं
विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥ २३॥
देहक्षयं वित्तविनाशसौख्ये
दुःखार्थनाशौ सुखनाशमृत्यून् ।
हानिं च लाभं सुभगं व्ययं च
कुर्यत्तमो जन्मगृहात्क्रमेण ॥ २४॥
क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे
सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे।
तुहिनकिरणमन्दौ राशिपाश्चात्यभागे
शशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥ २५॥
नक्षत्रगोचरम्
रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-
दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि ।
वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके
कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् ॥ २६॥
एवं विद्धे खचरैः क्रररन्यैर्मरणम् ।
सौम्यैर्विद्धे न मृतिविद्यादेवं सकलम् ॥ २७॥
आधनकर्मर्क्षविपन्निजर्क्षे
वैनाशिके प्रत्यरभे वधाख्ये
पापग्रहो मृत्युभयं विदध्या
द्वेधेतथा कार्यहरः शुभाख्ये ॥ २८॥
आदित्यसङ्क्रान्तिदिने ग्रहाणं
प्रवेशने वा ग्रहणे च युद्धे ।
उल्कानिपाते च तथाद्भुते च
जन्मत्रयं स्यान्मरणादिदुःखम् ॥ २९॥
असत्फलः सौम्यनिरीक्षितो यः
शुभप्रदश्चाप्यशुभेक्षितश्च ।
द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ
यः शत्रुणा स्वेन विलोकितश्च ॥ ३०॥
अनिष्टभावस्थितखेचरेन्द्रः
स्वोच्चस्वगेहोपगतो यदि स्यात् ।
न दोषकृच्चोत्तमभावगश्चेत्
पूर्णं फलं यच्छति गोचरेषु ॥ ३१॥
ग्रहेश्वरारुते शुभगोचरस्था
नीचारिमौढ्यं समुपाश्रिताश्रेत् ।
ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः
कष्टं फलं संविदधत्यनल्पम् ॥ ३२॥
द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः ।
कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥ ३३॥
चद्राष्टमे च धरणीतनयः कलत्रे
राहुः शुभे कविररौ च गुरुस्तृतीये ।
अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे
मानार्थहानिमरणानि वदेद्विशेषात् ॥ ३४॥
अङ्गग्रहाः
वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं
पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च ।
भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां
लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥ ३५॥
शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ
पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् ।
पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्
पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥ ३६॥
वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं
क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके ।
द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे
वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥ ३७॥
मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा
लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिंतः ।
शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा
दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥ ३८॥
भूवेदवह्निगुणवेदशराग्नेत्र-
दस्त्रं च वक्त्रकरपादपदेषु हस्ते ।
कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे
न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥ ३९॥
दुःखं च सौख्यं गमनं च नाशं
लाभं स्वभोगं सुखसौख्यमृत्यून् ।
वक्त्रक्रमादाह फलानि मन्द-
स्यैवं तमःखेचरयोर्वदन्तु ॥ ४०॥
यत्राष्टवर्गेऽधिकबिन्दवः स्यु-
स्तत्र स्थितो गोचरतो ग्रहेन्द्रः ।
तद्वत्फलं प्राह शुभं व्ययारि-
रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते ॥ ४१॥
रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् ।
गुरोः षट्तारकं चैव शनेरष्टमतारकम् ॥ ४२॥
एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः ।
शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥ ४३॥
राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः ।
ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥ ४४॥
रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते ।
मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥ ४५॥
शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु ।
चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥ ४६॥
सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् ।
वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् ॥ ४७॥
सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः ।
पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् ॥ ४८॥
सप्तविंशोऽध्यायः
प्रव्रज्या योग
ग्रहैश्चतुर्भिः सहिते खनोथे
त्रिकोणगैः केन्द्रगतैस्तु मुक्तः ।
लग्ने गृहान्ते सति सौम्यभागे
केन्द्रे गुरौ कोणगते च मुक्तः ॥ १॥
एकर्क्षसंस्थैश्चतुरादिकैस्तु
ग्रहैर्वदेत्तत्र बलान्वितेन ।
प्रव्रज्यकां तत्र वदन्ति केचित्
कर्मेशतुल्यां सहिते खनाथे ॥ २॥
शशी दृगाणे रविजस्य संस्थितः
कुजार्किदृष्टः प्रकरोति तापसम् ।
कुजांशके वा रविजेन दृष्तो
नवांशतुल्यां कथयन्ति तां पुनः ॥ ३॥
जन्माधिपः सूर्यसुतेन दृष्टः
शेषैरदृष्तः पुरुषस्य सूतौ ।
आत्मीयदीक्षां कुरुते ह्यवश्यं
पूर्वोक्तमत्रापि विचारणीयम् ॥ ४॥
योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु-
र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् ।
वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त
व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥ ५॥
अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
बलविरहितमेन प्रेक्षते लग्ननाथः ।
यदि भवति तपस्वी दुःखितः शोकतप्तो
धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥ ६॥
प्रकथितमुनियोगे राजयोगो यदि स्या-
दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।
जनयति पृथिवीशं दीक्षितं साधुशीलं
प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् ॥ ७॥
चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा
सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत्
सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत्
प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् ॥ ८॥
अष्टाविंशोऽध्यायः
उपसंहाराध्याय
संज्ञाध्यायः कारको वर्गसंज्ञो
वीर्याध्यायः कर्मजिवाऽथ योगः ।
योगो राज्ञां राशिशीलो ग्रहाणां
मेषादिनां लग्नसम्प्राप्तशीलः ॥ १॥
भार्याभावो जातक कमिनीना
सूनुर्बालारिष्टयोगोऽथ रोगः ।
भावस्तस्माद्द्वादशावाप्तभावा
निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥ २॥
सूर्यादीनां यत्फलं तदृशाप्तं
भावादीनामीश्वराङ्का दशा च ।
सूर्यादीनामन्तराख्या दशाऽथ
सव्यासव्या कालचक्रोऽष्टवर्गः ॥ ३॥
होरासारावाप्तयद्यष्टवर्गो
मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः ।
अध्यायानां विंशतिः सप्तयुक्तान्
जन्मन्येतद्गोलजं संवदामि ॥ ४॥
श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै ।
दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥ ५॥
सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् ।
तत्कटाक्षविशेषेण कृता या फलदीपिका ॥ ६॥