वराहमिहिर बृहत्संहिता

वराहमिहिर बृहत्संहिता

sएपरते अध्याय १ उपनयनाध्यायः १।१अब्/ जयति जगतः प्रसूतिः विश्वात्मा सहजभूषणं नभसः । १।१य्द्/ द्रुतकनकसदृशदशशतमयूखमालार्चितः सविता ॥ ॥ १।२अब्/ प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्यार्थम् । १।२य्द्/ नातिलघुविपुलरचनाभिरुद्यतः स्पष्टमभिधातुम् ॥ ॥ १।३अब्/ मुनिविरचितमिदमिति यगिरन्तनं साधु न मनुजग्रथितम् । १।३य्द्/ तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥ ॥ १।४अब्/ क्षितितनयदिवसवारो न शुभकृदिति यदि पितामहप्रोक्ते । १।४य्द्/ कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नृदिव्यकृतेः (कृते) ॥ ॥ १।५अब्/ आब्रह्मादिविनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः । १।५य्द्/ क्रियमाणकमेव एतत् समासतोऽतो ममौत्साहः ॥ ॥ १।६अब्/ आसीत्तमः किलैदं तत्रापां तैजसेऽभवद् धैमे । १।६य्द्/ स्वर्भूशकले ब्रह्मा विश्वकृदण्डेऽर्कशशिनयनः ॥ ॥ १।७अब्/ कपिलः प्रधानमाह द्रव्यादीन् कणकभुग् अस्य विश्वस्य । १।७य्द्/ कालं कारणमेके स्वभावमपरे जगुः कर्म ॥ ॥ १।८अब्/ तदलमतिविस्तरेण प्रसंगवादार्थनिर्णयोऽतिमहान् । १।८य्द्/ ज्योतिःशास्त्रांगानां वक्तव्यो निर्णयोऽत्र मया ॥ ॥ १।९अ ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं १।९ब् तत्कार्त्स्न्यौपनयस्य नाम मुनिभिः संकीर्त्यते संहिता । १।९य् स्कन्धेऽस्मिन् गणितेन या ग्रहगतिः तन्त्राभिधानः त्वसौ १।९द् होरा अन्यो अंगविनिश्चयश्च कथितः स्कन्धः तृतीयोऽपरः ॥ ॥ १।१०अब्/ वक्रानुवक्रास्तमयौदयाद्याः ताराग्रहाणां करणे मयोक्ताः । १।१०य्द्/ होरागतं विस्तरशश्च जन्मयात्राविवाहैः सह पूर्वमुक्तम् ॥ ॥ १।११अब्/ प्रश्नप्रतिप्रश्नकथाप्रसंगान् स्वल्पौपयोगान् ग्रहसंभवांश्च । १।११य्द्/ सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्ये ॥ ॥ sएपरते अध्याय २ अथातः सांवत्सरसूत्रं व्याख्यास्यामः । २।(१) तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवाग् - अनसूयकः समः सुसंहिता उपचितगात्रसन्धिः - अविकलश्चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रू - उत्तमांगो वपुष्मान् गंभीरौदात्तघोषः । प्रायः शरीर आकारानुवर्त्तिनो (वर्तिनो) हि गुणा दोषाश्च भवन्ति । २।(२) तत्र गुणाः-शुचिः दक्षः प्रगल्भो वाग्ग्मी (वाग्मी) प्रतिभानवान् - देशकालवित् सात्त्विको न पर्षद्भीरुः सहाध्यायिभिः अनभिभवनीयः - कुशलोऽव्यसनी शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो - विबुधार्चनव्रतौअपवासनिरतः स्वतन्त्राश्चर्या उत्पादितप्रभावः - पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिताहोरा- ग्रन्थार्थवेत्ता इति । २।(३) तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु - पंचस्वेतेषु सिद्धान्तेषु - युगवर्षायनऋतुमासपक्षाहोरात्रयाममुहूर्तनाडीविणाडीप्राण- त्रुटित्रुट्याद्यवयव आदिकस्य (आद्यस्य) कालस्य क्षेत्रस्य च वेता । २।(४) चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणामधिमा- सकावमसंभवस्य च कारणाभिज्ञः । २।(५) षष्ट्यब्दयुगवर्षमास- दिनहोरा अधिपतीनां प्रतिपत्ति (वि)च्छेदवित् । २।(६) सौरादीनां च मानानामसदृशसदृश (सदृशासदृश) - योग्यायोग्यत्वप्रतिपादनपटुः । २।(७) सिद्धान्तभेदेऽपि अयननिवृत्तौ प्रत्यक्षं - सममण्डललेखासम्प्रयोगाभ्युदितांशकानां (च) - छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः । २।(८) सूर्यादीनां च ग्रहाणाम् - शीघ्रमन्दयाम्यौत्तरनीचौच्चगतिकारणाभिज्ञः । २।(९) सूर्यचन्द्रमसोश्च ग्रहणे ग्रहण - आदिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णादेशानां (वर्णदेशानां) - अनागतग्रहसमागमयुद्धानामादेष्टा । २।(१०) प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजन- परिच्छेदकुशलः (कुशलो) । २।(११) भूभगणभ्रमणसंस्थानाद्यक्षावलंबकाहर्व्यासचरदलकालरा- श्युदयच्छायानाडीकरणप्रभृतिषु क्षेत्रकालकरणेष्वभिज्ञः । २।(१२) नानाचोद्यप्रश्नभेदौपलब्धिजनितवाक्सारो- निकषसन्तापाभिनिवेशैः (विशुद्धस्य) कनकस्यैवाधिकतरममलीकृतस्य - (शास्त्रस्य) वक्ता तन्त्रज्ञो भवति (उक्तज् च) । २।१अब्/ न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः । २।१य्द्/ निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ञेयः ॥ ॥ २।२अब्/ ग्रन्थोऽन्यथा अन्यथार्थं (अन्यथार्थः) करणं यश्चान्यथा करोत्यबुधः । २।२य्द्/ स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम् ॥ ॥ २।३अब्/ तन्त्रे सुपरिज्ञाते लग्ने छाया अंबुयन्त्रसंविदिते । २।३य्द्/ होरार्थे च सुरूढे नादेष्टुः भारती वन्ध्या ॥ ॥ उक्तन् चार्यविष्णुगुप्तेन २।४अ अपि अर्णवस्य पुरुषः प्रतरन् कदाचिद् २।४ब् आसादयेदनिलवेगवशेन पारम् । २।४य् न त्वस्य कालपुरुष आख्यमहार्णवस्य २।४द् गच्छेत् कदाचिदनृषिः मनसापि पारम् ॥ ॥ २।(१३) होराशास्त्रेऽपि (च) राशिहोराद्रेष्काणनवांशकद्वादशभा- गत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिः - अनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादिपरिग्रहो - निषेकजन्मकालविस्मापनप्रत्यय आदेशसद्योमरण आयुर्दायदशा अन्तर्दशा - अष्टकवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसादीनाम् च - योगानाम् फलानि आश्रयभावावलोकननिर्याणगत्यनूकानि - तत्काल (कालिक)प्रश्नशुभाशुभनिमित्तानि विवाहादीनाम् च कर्मनां करणम् । २।(१४) यात्रायां तु (च) तिथिदिवसकरणनक्षत्रमुहूर्तविलग्नयोग- देहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्नि- लिंगहस्त्यश्वैंगितसेना- प्रवादचेष्टादिग्रहषाड्गुण्यौपायमंगलामंग- लशकुनसैन्यनिवेशभू- मयोऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः परदुर्ग (उप) - लंभोपायश्चेत्युक्तं च आचार्यैः । २।५अब्/ जगति प्रसारितमिव आलिखितमिव मतौ निषिक्तमिव हृदये । २।५य्द्/ शास्त्रं यस्य सभगणं नादेशा निष्फलाः (निःफलाः) तस्य ॥ ॥ २।(१५) संहितापारगश्च दैवचिन्तको भवति । २।(१६) यत्र एते संहितापदार्थाः । २।(१७।१) दिनकरादीनाम् ग्रहाणां चाराः तेषु च तेषां - प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमन- उदयमार्गमार्गान्तरवक्रा- नुवक्रऋक्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन - देशेष्वगस्त्यचारः (अगस्तिचारः)। सप्तर्षिचारः ।ग्रहभक्तयो - नक्षत्रव्यूहग्रहश‍ृंगाटकग्रहयुद्धग्रहसमागम- ग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः - सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनौल्कादिग्दाह- क्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्य- जन्मेन्द्रध्वजेन्द्र- चापवास्तुविद्या अंगविद्यावायसविद्या अन्तरचक्रमृगचक्राश्व- चक्रवातचक्रप्रासा- दलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदौदगार्गलनीरा- जनखञ्जन् (अक्) औत्पातशान्तिमयूरचित्रकघृत- कंबलखड्गपट्टकृकवाकुकूर्मगोऽजाश्वैभपुरूष - (पुरुष) स्त्रीलक्षणानि - २।(१७।२) अन्तःपुरचिन्तापिटकलक्षणौपानच्छेदवस्त्रच्छेदचामरदण्ड- शयना (शय्या) आसनलक्षणरत्नपरीक्षा दीपलक्षणं - दन्तकाष्ठाद्याश्रितानि (शुद्धाशुद्धानि) (शुभाशुभानि) - निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं - पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि । न चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि । तस्मात् सुभृतेनैव दैवज्ञेनान्येऽपि तद्विदश्चत्वारः कर्तव्याः (भर्तव्याः) । तत्रएकेनेन्द्री च आग्नेयी च दिग् अवलोकयितव्या । याम्या नैरृती चान्येनैवं वारुणी वायव्या चौत्तरा च एशानि चेति । यस्मादुल्कापातादीनि (निमित्तानि) शीघ्रमप (उप) (अभि) गच्छन्तीति । तस्याः (तेषां) च आकारवर्णस्नेहप्रमान आदिग्रहऋक्षौपघातादिभिः फलानि भवन्ति । उक्तं च गर्गेण महर्षिणा २।६अब्/ कृत्स्नांगोपांगकुशलं होरागणितनैष्ठिकम् । २।६य्द्/ यो न पूजयते राजा स नाशमुपागच्छति ॥ ॥ २।७अब्/ वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः । २।७य्द्/ अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥ ॥ २।८अब्/ अप्रदीपा यथा रात्रिः अनादित्यं यथा नभः । २।८य्द्/ तथा असांवत्सरो राजा भ्रम्यत्यन्ध इवाध्वनि ॥ ॥ २।९अब्/ मुहूर्त (मुहूर्तं) तिथिनक्षत्रम् ऋतवश्चायने तथा । २।९य्द्/ सर्वाणि एवाकुलानि स्युः न स्यात् सांवत्सरो यदि ॥ ॥ २।१०अब्/ तस्माद् राज्ञाधिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः । २।१०य्द्/ जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥ ॥ २।११अब्/ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । २।११य्द्/ चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ ॥ २।१२अब्/ न सांवत्सरपाठी च नरकेषु उपपद्यते । २।१२य्द्/ ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ॥ ॥ २।१३अब्/ ग्रन्थतश्चार्थतश्चैतत् कृत्स्नं जानति यो द्विजः । २।१३य्द्/ अग्रभुक् स भवेत्श्राद्धे पूजितः पंक्तिपावनः । २।१४अब्/ म्लेच्छा हि यवनाः तेषु सम्यक् शास्त्रमिदं स्थितम् । २।१४य्द्/ ऋषिवत् तेऽपि पूज्यन्ते किं पुनः दैवविद् द्विजः ॥ ॥ २।१५अब्/ कुहकावेशपिहित (इः) कर्णोपश्रुतिहेतुभिः । २।१५य्द्/ कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित् ॥ ॥ २।१६अब्/ अविदित्वैव यत् (यः) शास्त्रं दैवज्ञत्वं प्रपद्यते । २।१६य्द्/ स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ ॥ नक्षत्रसूचकोद्दिष्टमुपहासं करोति यः । स व्रजत्यन्धतामिस्रं सार्धम् ऋक्षविडंबिना ॥ २।१७अब्/ नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम् । २।१७य्द्/ आदेशः तद्वदज्ञानां यः सत्यः स विभाव्यते ॥ ॥ २।१८अब्/ सम्पत्त्या योजितादेशः तद्विच्छिन्नकथाप्रियः । २।१८य्द्/ मत्तः शास्त्रएकदेशेन त्याज्यः तादृग्महीक्षिता ॥ ॥ २।१९अब्/ यः तु सम्यग्विजानाति होरागणितसंहिताः । २।१९य्द्/ अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयैषणा ॥ ॥ २।२०अब्/ न तत् सहस्रं करिणां वाजिनां च चतुर्गुणम् । २।२०य्द्/ करोति देशकालज्ञो यथा एको (यदेको) दैवचिन्तकः ॥ ॥ २।२१अब्/ दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि । २।२१य्द्/ क्षिप्रं प्रयान्ति नाशम् शशिनः श्रुत्वा भसंवादम् ॥ ॥ २।२२अब्/ न तथा इच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् । २।२२य्द्/ स्वयशोऽभिविवृद्दये यथा हितमाप्तः सबलस्य दैववित् ॥ ॥ sएपरते अध्याय ३ आदित्यचाराध्यायः ३।१अब्/ आश्लेषार्धाद् दक्षिणमुत्तरमयनं रवेर्धनिष्ठा अद्यम् । ३।१य्द्/ नूनं कदाचिदासीद् येनोक्तम् पूर्वशास्त्रेषु ॥ ॥ ३।२अब्/ सांप्रतमयनं सवितुः कर्कटकाद्यम् मृगादितश्चान्यत् । ३।२य्द्/ उक्ताभावो विकृतिः प्रत्यक्षपरीक्सणैः व्यक्तिः ॥ ॥ ३।३अब्/ दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्रांशोः । ३।३य्द्/ छायाप्रवेशनिर्गमचिह्नैः वा मण्डले महति ॥ ॥ ३।४अब्/ अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापराम् याम्याम् । ३।४य्द्/ कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां स।एन्द्रीम् ॥ ॥ ३।५अब्/ उत्तरमयनमतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः । ३।५य्द्/ प्रकृतिस्थश्चाप्येवं विकृतगतिः भयकृदुष्णांशुः ॥ ॥ ३।६अब्/ सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते । ३।६य्द्/ स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः ॥ ॥ ३।७अब्/ तामसकीलकसंज्ञा राहुसुताः केतवः त्रयः त्रिंशत् । ३।७य्द्/ वर्णस्थान आकारैः तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥ ॥ ३।८अब्/ ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः । ३।८य्द्/ ध्वांक्षकबन्धप्रहरणरूपाः पापाः शशांकेऽपि ॥ ॥ ३।९अब्/ तेषामुदये रूपाणि अंभः कलुषं रजोवृतं व्योम । ३।९य्द्/ नगतरुशिखरामर्दी (शिखरविमर्दी) सशर्करो मारुतश्चण्डः ॥ ॥ ३।१०अब्/ ऋतुविपरीताः तरवो दीप्ता मृगपक्षिणो दिशां दाहाः । ३।१०य्द्/ निर्घातमहीकंपादयो भवन्त्यत्र चोत्पाताः ॥ ॥ ३।११अब्/ न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि । ३।११य्द्/ तदुदयकारणमेषां केतुआदीनाम् फलं ब्रूयात् ॥ ॥ ३।१२अब्/ यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिंबस्था । ३।१२य्द्/ तस्मिं तस्मिन् व्यसनम् महीपतीनाम् परिज्ञेयम् ॥ ॥ ३।१३अब्/ क्षुत्प्रम्लानशरीरा मुनयोऽपि उत्सृष्टधर्मसच्चरिताः । ३।१३य्द्/ निर्मांसबालहस्ताः कृच्छ्रेणऽऽयान्ति परदेशं (परदेशान्) ॥ ॥ ३।१४अब्/ तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः । ३।१४य्द्/ सन्तः सन्नशरीराः शोकौद्भववाष्प (बाष्प) रुद्धदृशः ॥ ॥ ३।१५अब्/ क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः । ३।१५य्द्/ स्वनृपतिचरितं कर्म न (च) पुरा कृतं (पराकृतं, पुराकृतं) प्रब्रुवन्त्यन्ये ॥ ॥ ३।१६अब्/ गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः । ३।१६य्द्/ सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते सस्यम् ॥ ॥ ३।१७अब्/ दण्डे नरेन्द्रमृत्युः व्याधिभयं स्यात् कबन्धसंस्थाने (कवन्धसंस्थाने) । ३।१७य्द्/ ध्वांक्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥ ॥ ३।१८अब्/ राजौपकरणरूपैश्छत्रध्वजचामरादिभिः विद्धः । ३।१८य्द्/ राजान्यत्वकृदर्कः स्फुलिंगधूमादिभिः जनहा ॥ ॥ ३।१९अब्/ एको दुर्भिक्षकरो द्व्याद्याः स्युः नरपतेः विनाशाय । ३।१९य्द्/ सितरक्तपीतकृष्णैः तैः विद्धोऽर्कोऽनुवर्णघ्नः ॥ ॥ ३।२०अब्/ द्वश्यन्ते (दृश्यन्ते) च यतः ते रविबिंबस्यौत्स्थिता मोहौत्पाताः । ३।२०य्द्/ आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥ ॥ ३।२१अब्/ ऊर्ध्वकरो दिवसकरः ताम्रः सेनापतिं विनाशयति । ३।२१य्द्/ पीतो नरेन्द्रपुत्रं श्वेतः तु पुरोहितं हन्ति ॥ ॥ ३।२२अब्/ चित्रोऽथवापि धूम्रो रविरश्मिर्व्याकुलां (व्याकुलां) करोत्यूर्धं (महीं) । ३।२२य्द्/ तस्करशस्त्रनिपातैः यदि सलिलं नाशु पातयति ॥ ॥ ३।२३अब्/ ताम्रः कपिलो वार्कः शिशिरे हरिकुंकुमच्छविश्च मधौ । ३।२३य्द्/ आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ॥ ॥ ३।२४अब्/ शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः । ३।२४य्द्/ प्रावृट्काले स्निग्धः सर्वऋतुनिभोऽपि शुभदायी ॥ ॥ ३।२५अब्/ रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति । ३।२५य्द्/ पीतो वैश्यान् कृष्णः ततो अपरान् शुभकरः स्निग्धः ॥ ॥ ३।२६अब्/ ग्रीष्मे रक्तो भयकृद् वर्षास्वसितः करोत्यनावृष्टिम् । ३।२६य्द्/ हेमन्ते पीतोऽर्कः करोति न चिरेण (अचिरेण) रोगभयम् ॥ ॥ ३।२७अब्/ सुरचापपाटिततनुः नृपतिविरोधप्रदः सहस्रांशुः । ३।२७य्द्/ प्रावृट्काले सद्यः करोति विमलद्युतिः वृष्टिम् ॥ ॥ ३।२८अब्/ वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः । ३।२८य्द्/ शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥ ॥ ३।२९अब्/ श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् । ३।२९य्द्/ यस्य ऋक्षे सच्छिद्रः तस्य विनाशः क्षितीशस्य ॥ ॥ ३।३०अब्/ शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति संग्रामाः । ३।३०य्द्/ शशिसदृशे नृपतिबधः (नृपतिवद्धः) क्षिप्रं चान्यो नृपो भवति ॥ ॥ ३।३१अब्/ क्षुत्मारकृत् घटनिभः खण्डो जनहा (नृपहा) विदीधितिः भयदः । ३।३१य्द्/ तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥ ॥ ३।३२अब्/ ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च । ३।३२य्द्/ कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं (नृपं ततः) सचिवः ॥ ॥ ३।३३अब्/ दिनकरं (दिवसकरं) उदयास्तसंस्थितमुदयसंस्थितं) उल्काशनिविद्युतो यदा हन्युः । ३।३३य्द्/ नरपतिमरणं विन्द्यात् तदा अन्यराजप्रतिष्ठा (प्रतिष्ठां) च ॥ ॥ ३।३४अब्/ प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोः द्वयोः अथवा । ३।३४य्द्/ रक्तोऽस्तमेति रक्तोदितश्च भूपं करोत्यन्यम् ॥ ॥ ३।३५अब्/ प्रहरणसदृशैः जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी । ३।३५य्द्/ मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ॥ ॥ ३।३६अब्/ दिनकरकराभितापाद् ऋक्षमवाप्नोति सुमहतीम् पीडाम् । ३।३६य्द्/ भवति तु पश्चात्शुद्धं कनकमिव हुताशपरितापात् ॥ ॥ ३।३७अब्/ दिवसकृतः प्रतिसूर्यो जलकृदुदग् दक्षिणे स्थितोऽनिलकृत् । ३।३७य्द्/ उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥ ॥ ३।३८अ रुधिरनिभो वियत्यवनिपान्तरकरो न चिरात् । ३।३८ब् परुषरजोऽरुणीकृततनुः यदि वा दिनकृत् ॥ ॥ ३।३८य् असितविचित्रनीलपरुषो जनघातकरः । ३।३८द् खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ॥ ॥ ३।३९अब्/ अमलवपुः अवक्रमण्डलः स्फुतविपुलामलदीर्घदीधितिः । ३।३९य्द्/ अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ॥ ॥ sएपरते अध्याय ४ चन्द्रचाराध्यायः । ४।१अब्/ नित्यमधःस्थस्येन्दोः भाभिः भानोः सितं भवत्यर्धम् । ४।१य्द्/ स्वच्छायया अन्यदसितं कुंभस्यैव आतपस्थस्य ॥ ॥ ४।२अब्/ सलिलमये शशिनि रवेः दीधितयो मूर्छिताः तमो नैशम् । ४।२य्द्/ क्षपयन्ति दर्पणौदरनिहिता (निहता) इव मन्दिरस्यान्तः ॥ ॥ ४।३अब्/ त्यजतोऽर्कतलं शशिनः पश्चादवलंबते यथा शौक्ल्यम् । ४।३य्द्/ दिनकरवशात् तथा इन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥ ॥ ४।४अब्/ प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः । ४।४य्द्/ भवति शशिनोऽपराह्णे पश्चाद् भागे घटस्यैव ४।५अब्/ एन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य चायातः (वा यातः) । ४।५य्द्/ याम्येन वीजजलचरकाननहा वह्निभयदश्च ॥ ॥ ४।६अब्/ दक्षिणपार्श्वेन गतः शशी विशाखा अनुराधयोः पापः । ४।६य्द्/ मध्येन तु प्रशस्तः पितृदेव (पित्र्यस्य) विशाखयोश्चापि ४।७अब्/ षड् अनागतानि पौष्णाद् द्वादश रौद्राग मध्ययोगीनि । ४।७य्द्/ ज्येष्ठाद्यानि नवर्क्षाणि उडुपतिना अतीत्य युज्यन्ते ॥ ॥ ४।८अब्/ उन्नतमीषच्छृंगं नौसंस्थाने विशालता चौक्ता । ४।८य्द्/ नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य ॥ ॥ ४।९अब्/ अर्द्धोन्नते च लांगलमिति पीडा तदुपजीविनां तस्मिन् । ४।९य्द्/ प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ॥ ॥ ४।१०अब्/ दक्षिणविषाणमर्धोन्नतं यदा दुष्टलांगलाख्यं तत् । ४।१०य्द्/ पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानाम् च ॥ ॥ ४।११अब्/ समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः । ४।११य्द्/ दण्डवदुदिते पीडा गवां नृपश्चौग्रदण्डोऽत्र ॥ ॥ ४।१२अब्/ कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयः तेषाम् । ४।१२य्द्/ स्थानं युगमिति याम्योत्तरायतं भूमिकंपाय ॥ ॥ ४।१३अब्/ युगमेव याम्यकोट्यां किंचित् तुंगं स पार्श्वशायीइति ४।१३य्द्/ विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥ ॥ ४।१४अब्/ अभ्युच्छ्रायादेकं यदि शशिनोऽवान्मुखं भवेत्छृंगम् । ४।१४य्द्/ आवर्जितमित्यसुभिक्षकारि तद् गोधनस्यापि ॥ ॥ ४।१५अब्/ अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम् । ४।१५य्द्/ अस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥ ॥ ४।१६अब्/ प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः । ४।१६य्द्/ दक्षिणतुंगश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥ ॥ ४।१७अब्/ श‍ृंगेणएकेनेन्दुः (इन्दुं) विलीनमथवाप्यवान्मुखं श‍ृंगं (अश‍ृग्गं) । ४।१७य्द्/ सम्पूर्णं चाभिनवं दृष्ट्वा एको जीविताद् भ्रश्येत् ॥ ॥ ४।१८अब्/ संस्थानविधिः कथितो रूपाणि अस्माद् भवन्ति चन्द्रमसः । ४।१८य्द्/ स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः ॥ ॥ ४।१९अब्/ मध्यतनुः वज्राख्यः क्षुद्भयदः संभ्रमाय राज्ञां च । ४।१९य्द्/ चन्द्रो मृदंगरूपः क्षेमसुभिक्षावहो भवति ॥ ॥ ४।२०अब्/ ज्ञेयो विशालमूर्तिः नरपतिलक्ष्मीविवृद्धये चन्द्रः । ४।२०य्द्/ स्थूलः सुभिक्षकारी प्रियधान्यकरः तु तनुमूर्तिः ॥ ॥ ४।२१अ प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः श‍ृंगे कुजेन आहते । ४।२१ब् शस्त्रक्षुद्भयकृद् यमेन शशिजेनावृष्टिदुर्भिक्षकृत् । ४।२१य् श्रेष्ठान् हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान् नृपान् । ४।२१द् शुक्ले याप्यमिदं फलम् ग्रहकृतं कृष्णे यथोक्तागमम् । ४।२२अ भिन्नः सितेन मगधान् यवनान् पुलिन्दान् ४।२२ब् नेपालभृंगिमरुकच्छ (मरुकुच्च) सुराष्ट्रमद्रान् । ४।२२य् पांचालकैकयकुलूतकपुरुषादान् ४।२२द् हन्यादुशीनरजनान् अपि सप्त मासान् ॥ ॥ ४।२३अब्/ गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान् द्रविदाधिपांश्च । ४।२३य्द्/ द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद् वाक्पतिना विभिन्नः ॥ ॥ ४।२४अ उद्युक्तान् सह वाहनैः नरपतीं त्रैगर्तकान् मालवान् ४।२४ब् कौलिन्दान् गणपुंगवान् अथ शिबीनायोध्यकान् पार्थिवान् । ४।२४य् हन्यात् कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यान् अपि ४।२४द् प्रालेयांशुरसृग्ग्रहे तनुगते षण्मासमर्यादया ॥ ॥ ४।२५अब्/ यौधेयान् सचिवान् सकौरवान् प्रागीशान् अथ चार्जुनायनान् । ४।२५य्द्/ हन्यादर्कजभिन्नमण्डलः शीतांशुः दशमासपीडया ॥ ॥ ४।२६अब्/ मगधान् मथुरां च पीडयेद् वेणायाश्च तटं शशांकजः । ४।२६य्द्/ अपरत्र कृतं युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः ॥ ॥ ४।२७अब्/ क्षेमारोग्यसुभिक्षनिनाशी शीतांशुः शिखिना यदि भिन्नः । ४।२७य्द्/ कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥ ॥ ४।२८अब्/ उल्कया यदा शशी ग्रस्त एव हन्यते । ४।२८य्द्/ हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥ ॥ ४।२९अब्/ भस्मनिभः परुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीणः । ४।२९य्द्/ श्यावतनुः स्फुटितः स्फुरणो वा क्षुड्डमरा (क्षुड्समरा) मयचौरभयाय ॥ ॥ ४।३०अब्/ प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परिमृज्य चन्द्रः । ४।३०य्द्/ उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय ॥ ॥ ४।३१अब्(४।३२अब्)/ शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च । ४।३१य्द्(४।३२य्द्)/ हीने हानिः तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन ॥ ॥ ४।३२अब्(४।३१अब्)/ यदि कुमुदमृणालहारगौरः तिथिनियमात् क्षयमेति वर्द्धते वा । ४।३२य्द्(४।३१य्द्)/ अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥ ॥ sएपरते अध्याय ५ राहुचाराध्यायः ५।१अब्/ अमृतास्वादविशेषाग्छिन्नमपि शिरः किलासुरस्यैदम् । ५।१य्द्/ प्राणैः अपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥ ॥ ५।२अब्/ इन्दुअर्कमण्डलाकृतिः असितत्वात् किल न दृश्यते गगने । ५।२य्द्/ अन्यत्र पर्वकालाद् वरप्रदानात् कमलयोनेः ॥ ॥ ५।३अब्/ मुखपुच्छविभक्तांगं भुजंगमाकारमुपदिशन्त्यन्ये । ५।३य्द्/ कथयन्त्यमूर्तमपरे तमोमयं सैंहिकेयाख्याख्यम् ॥ ॥ ५।४अब्/ यदि मूर्तो भविचारी शिरोऽथवा भवति मण्डली राहुः । ५।४य्द्/ भगणार्धेनान्तरितौ (तो) गृह्णाति कथं नियतचारः ॥ ॥ ५।५अब्/ अनियतचारः खलु चेदुपलब्धिः संख्यया कथं तस्य । ५।५य्द्/ पुच्छाननाभिधानोऽन्तरेण कस्मान् न गृह्णाति ॥ ॥ ५।६अब्/ अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति । ५।६य्द्/ मुखपुच्छान्तरसंस्थं स्थगयति कस्मान् न भगणार्धम् ॥ ॥ ५।७अब्/ राहुद्वयं यदि स्याद् ग्रस्तेऽस्तमितेऽथवा उदिते चन्द्रे । ५।७य्द्/ तत्समगतिनान्येन ग्रस्तः सूर्योऽपि दृश्यते ॥ ॥ ५।८अब्/ भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः । ५।८य्द्/ प्रग्रहणमतः पश्चान् नेन्दोः भानोश्च पूर्वार्धात् ॥ ॥ ५।९अब्/ वृक्षस्य स्वच्छाया यथा एकपार्श्वे (न) भवति दीर्घचया (दीर्घा च) । ५।९य्द्/ निशि निशि तद्वद् भूमेः आवरणवशाद् दिनेशस्य ॥ ॥ ५।१०अब्/ सूर्यात् सप्तमराशौ यदि चौदग्दक्षिणेन नातिगतः । ५।१०य्द्/ चन्द्रः पूर्वाभिमुखश्छायामौर्वीम् तदा विशति ॥ ॥ ५।११अब्/ चन्द्रोऽधःस्थः स्थगयति रविमंबुदवत् समागतः पश्चात् । ५।११य्द्/ प्रतिदेशमतश्चित्रं दृष्टिवशाद् भास्करग्रहणम् ॥ ॥ ५।१२अब्/ आवरणं महदिन्दोः कुण्ठविषाणः ततोऽर्धसंच्छन्नः । ५।१२य्द्/ स्वल्पम् रवेः यतोऽतः तीक्ष्णविषाणो रविः भवति ॥ ॥ ५।१३अब्/ एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिः आचार्यैः । ५।१३य्द्/ राहुः अकारणमस्मिन् इत्युक्तः शास्त्रसद्भावः ॥ ॥ ५।१४अब्/ योऽसौअसुरो राहुः तस्य वरो ब्रह्मणाऽयमाज्ञप्तः । ५।१४य्द्/ आप्यायनमुपरागे दत्तहुतांशेन ते भविता ॥ ॥ ५।१५अब्/ तस्मिन् काले सान्निध्यमस्य तेनौपचर्यते राहुः । ५।१५य्द्/ याम्योत्तरा शशिगतिः गणितेऽपि उपचर्यते तेन ॥ ॥ ५।१६अब्/ न कथंचिदपि निमित्तैः ग्रहणं विज्ञायते निमित्तानि । ५।१६य्द्/ अन्यस्मिन् अपि काले भवन्त्यथौत्पातरूपाणि ॥ ॥ ५।१७अब्/ पंचग्रहसंयोगान् न किल ग्रहणस्य संभवो भवति । ५।१७य्द्/ तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥ ॥ ५।१८अब्/ अवनत्याऽर्के ग्रासो दिग्ज्ञेया वलनया अवनत्या च । ५।१८य्द्/ तिथ्यवसानाद् वेला करणे कथितानि तानि मया ॥ ॥ ५।१९अब्/ षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः । ५।१९य्द्/ ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः ॥ ॥ ५।२०अब्/ ब्राह्मे द्विजपशुवृद्धिः क्षेमारोग्याणि (द्विजपशुवृद्धिक्षेमारोग्याणि) सस्यसम्पत्च । ५।२०य्द्/ तद्वत् सौम्ये तस्मिन् पीडा विदुषामवृष्टिश्च ॥ ॥ ५।२१अब्/ एन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम् । ५।२१य्द्/ कौबेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च ॥ ॥ ५।२२अब्/ वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम् । ५।२२य्द्/ आग्नेयं मित्राख्यं सस्यारोग्याभयांबुकरम् ॥ ॥ ५।२३अब्/ याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम् । ५।२३य्द्/ यदतः परं तदस्शुभं क्षुत्मारावृष्टिदं पर्व ॥ ॥ ५।२४अब्/ वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च । ५।२४य्द्/ अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥ ॥ ५।२५अब्/ हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात् । ५।२५य्द्/ स्फुटगणितविदः कालः कथंचिदपि नान्यथा भवति ॥ ॥ ५।२६अब्/ यद्येकस्मिन् मासे ग्रहणं रविसोमयोः तदा क्षितिपाः । ५।२६य्द्/ स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥ ॥ ५।२७अब्/ ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ । ५।२७य्द्/ सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ ॥ ॥ ५।२८अब्/ अर्धोदितौपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च । ५।२८य्द्/ अग्न्युपजीविगुणाधिकविप्राश्रमिणो युगेऽभ्युदितः (अयुगाभ्युदितः) ॥ ॥ ५।२९अब्/ कर्षकपाखण्डि (पाषण्डि) वणिक्क्षत्रियबलनायकान् द्वितीयांशे (द्वितीयेऽंशे) । ५।२९य्द्/ कारुकशूद्रम्लेच्छान् खतृतीयांशे समन्त्रिजनान् ॥ ॥ ५।३०अब्/ मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः । ५।३०य्द्/ तृणभुगमात्यान्तःपुरवैश्यघ्नः पंचमे खांशे । ५।३१अब्/ स्त्रीशूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहा अस्तमयकाले । ५।३१य्द्/ यस्मिन् खांशे मोक्षः तत्प्रोक्तानां शिवं भवति ॥ ॥ ५।३२अब्/ द्विजनृपतीन् उदगयने विट्शूद्रान् दक्षिणायने हन्ति । ५।३२य्द्/ राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन् ॥ ॥ ५।३३अब्/ म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद् धुताशसक्तांश्च । ५।३३य्द्/ सलिलचरदन्तिघाती याम्येनौदग् गवामशुभः ॥ ॥ ५।३४अब्/ पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । ५।३४य्द्/ पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥ ॥ ५।३५अब्/ पांचालकलिंगशूरसेनाः कांबोजौड्रकिरातशस्त्रवार्त्ताः । ५।३५य्द्/ जीवन्ति च ये हुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थे ॥ ॥ ५।३६अब्/ गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः । ५।३६य्द्/ पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽथवा वृषे ॥ ॥ ५।३७अब्/ मिथुने प्रवरांगना नृपा नृपमात्रा बलिनः कलाविदः । ५।३७य्द्/ यमुनातटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः ॥ ॥ ५।३८अब्/ आभीरान् शबरान् सपह्लवान् मल्लान् मत्स्यकुरूंछकान् अपि । ५।३८य्द्/ पांचालान् विकलांश्च पीडयत्यन्नां चापि निहन्ति कर्कटे ॥ ॥ ५।३९अब्/ सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान् राजोपमान् नरपतीन् वनगोचरांश्च । ५।३९य्द्/ षष्ठे तु सस्यकविलेखकगेयसक्तान् हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् ॥ ॥ ५।४०अब्/ तुलाधरेऽवन्त्यपरान्त्यसाधून् वणिग्दशार्णान् मरुत (भरुक) कच्छपांश्च । ५।४०य्द्/ अलिनि अथौदुंबरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥ ॥ ५।४१अब्/ धन्विनि अमात्यवरवाजिविदेहमल्लान् पांचालवैद्यवणिजो विषमायुधज्ञान् । ५।४१य्द्/ हन्यान् मृगे तु झषमन्त्रिकुलानि नीचान् मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥ ॥ ५।४२अब्/ कुंभेऽन्तर्गिरिजान् सपश्चिमजनान् भारोद्वहां तस्करान् आभीरान् दरद आर्यसिंहपुरकान् हन्यात् तथा बर्बरान् । ५।४२य्द्/ मीने सागरकूलसागरजलद्रव्याणि वन्यान् (मान्यान्) जनान् प्राज्ञान् वार्युपजीविनश्च भफलं कूर्मोपदेशाद् वदेत् ॥ ॥ ५।४३अब्/ सव्यापसव्यलेहग्रसननिरोधावमर्दनारोहाः । ५।४३य्द्/ आघ्रातं मध्यतमः तमोऽन्त्य इति ते दश ग्रासाः ॥ ॥ ५।४४अब्/ सव्यगते तमसि जगज्जलप्लुतं भवति मुदितमभयं च । ५।४४य्द्/ अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ॥ ॥ ५।४५अब्/ जिह्वोपलेढि (जिह्वेवलेढि) परितः तिमिरनुदो मण्डलं यदि स लेहः । ५।४५य्द्/ प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही ॥ ॥ ५।४६अब्/ ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथवा अपि अर्धम् । ५।४६य्द्/ स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम् ॥ ॥ ५।४७अब्/ पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमः तिष्ठेत् । ५।४७य्द्/ स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥ ॥ ५।४८अब्/ अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् । ५।४८य्द्/ हन्यात् प्रधानभूपान् प्रधानदेशांश (प्रधानदेशान् प्रधानभूपांश) च तिमिरमयः ॥ ॥ ५।४९अब्/ वृत्ते ग्रहे यदि तमः तत्क्षणमावृत्य दृश्यते भूयः । ५।४९य्द्/ आरोहणमित्यन्योन्यमर्दनैः भयकरं राज्ञाम् ॥ ॥ ५।५०अब्/ दर्पण इवएकदेशे सबाष्प (सवाष्प) निःश्वासमारुतोपहतः । ५।५०य्द्/ दृश्येत आघ्रातं तत् सुवृष्टिवृद्ध्यावहं जगतः ॥ ॥ ५।५१अब्/ मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः ५।५१य्द्/ तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ॥ ॥ ५।५२अब्/ पर्यन्तेषुअतिबहुलं स्वल्पं मध्ये तमः ततोऽन्त्याख्ये । ५।५२य्द्/ सस्यानामीतिभयं भयमस्मिं तस्कराणां च ॥ ॥ ५।५३अब्/ श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद् राहौ । ५।५३य्द्/ अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥ ॥ ५।५४अब्/ हरिते रोगौल्बणता (उल्वणता) सस्यानामीतिभिश्च विध्वंसः । ५।५४य्द्/ कपिले शीघ्रगसत्त्वम्लेच्छध्वंशोऽथ दुर्भिक्षम् ॥ ॥ ५।५५अब्/ अरुणकिरणानुरूपे दुर्भिक्षावृष्तयो विहगपीडा । ५।५५य्द्/ आधूम्रे क्षेमसुभिक्षमादिशेत्मन्दवृष्टिं च ॥ ॥ ५।५६अब्/ कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् । ५।५६य्द्/ कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥ ॥ ५।५७अब्/ विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय । ५।५७य्द्/ सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ॥ ॥ ५।५८अब्/ दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेत्मरकम् । ५।५८य्द्/ अशनिभयसम्प्रदायी पाटल (पाटलि) कुसुमोपमो राहुः ॥ ॥ ५।५९अब्/ पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च । ५।५९य्द्/ बालरविकमलसुरचापरूपभृत्शस्त्रकोपाय ॥ ॥ ५।६०अब्/ पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्णां च । ५।६०य्द्/ भौमः समरविमर्दं शिखिकोपं तस्करभयं च ॥ ॥ ५।६१अब्/ शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम् । ५।६१य्द्/ रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ॥ ॥ ५।६२अब्/ यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा । ५।६२य्द्/ सुरपतिगुरुणावलोकिते तत्शममुपयाति जलैः इवाग्निः इद्धः ॥ ॥ ५।६३अब्/ ग्रस्ते क्रमान् निमित्तैः पुनः ग्रहो मासषट्कपरिवृद्ध्या । ५।६३य्द्/ पवनौल्कापातरजः क्षितिकंपतमोऽशनिनिपातैः ॥ ॥ ५।६४अब्/ आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः । ५।६४य्द्/ दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥ ॥ ५।६५अब्/ अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् । ५।६५य्द्/ स्त्रीनृपयोधकुमारान् सह विद्वद्भिः बुधो हन्ति ॥ ॥ ५।६६अब्/ ग्रहणौपगते जीवे विद्वन्नृपमन्त्रिगजहयध्वंसः । ५।६६य्द्/ सिन्धुतटवासिनामपि उदग्दिशं संश्रितानां च ॥ ॥ ५।६७अब्/ भृगुतनये राहुगते दाशेरक (दसेरकाः) कैकयाः सयौधेयाः । ५।६७य्द्/ आर्यावर्ताः शिबयः स्त्रीसचिवगणाश्च पीड्यन्ते ॥ ॥ ५।६८अब्/ सौरे मरुभवपुष्करसौराष्ट्रिक (राष्त्रा) धातवोऽर्बुदान्त्यजनाः । ५।६८य्द्/ गोमन्तपारियात्राश्रिताः (गोमन्तः पारियात्रा) च नाशं व्रजन्त्याशु ॥ ॥ ५।६९अ कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान् । ५।६९ब् कल्माषान् अथ शूरसेनसहितान् काशीश्च सन्तापयेत् । ५।६९य् हन्याद् (हन्याद् च) आशु कलिंगदेशनृपतिं सामात्यभृत्यं तमो । ५।६९द् दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ॥ ॥ ५।७०अब्/ काश्मीरकान् कौशलकान् सपुण्ड्रान् मृगांश्च हन्यादपरान्तकांश्च । ५।७०य्द्/ ये सोमपाः तांश्च निहन्ति सौम्ये सुवृष्टिकृत् क्षेमसुभिक्षकृत्च ॥ ॥ ५।७१अब्/ पौषे द्विजक्षत्रजनोपरोधः ससेन्धवाख्याः कुकुरा विदेहाः । ५।७१य्द्/ ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुतम् ॥ ॥ ५।७२अ माघे तु मातृपितृभक्तवसिष्ठगोत्रान् ५।७२ब् स्वाध्यायधर्मनिरतान् करिणः तुरंगान् । ५।७२य् वंगांगकाशिमनुजांश्च दुनोति राहुः ५।७२द् वृष्टिं च कर्षकजनाभिमतां (अनुमतां) करोति ॥ ॥ ५।७३अब्/ पीडाकरं फाल्गुनमासि पर्व वंगाश्मकावन्तिक (वन्तक) मेकलानाम् । ५।७३य्द्/ नृत्य (नृत्त) ज्ञसस्यप्रवरांगनानां धनुष्करक्षत्रतपस्विनां च ॥ ॥ ५।७४अ चैत्र्यां (चैत्रे) तु चित्रकरलेखगेयसक्तान् । ५।७४ब् रूपोपजीविनिगमज्ञहिरण्यपण्यान् । ५।७४य् पौण्ड्रौड्रकैकयजनान् अथ चाश्मकांश्च ५।७४द् तापः स्पृशत्यमरपोऽत्र विचित्रवर्षी ॥ ॥ ५।७५अब्/ वैशाखमासे (मासि) ग्रहणे विनाशमायान्ति कर्पासतिलाः समुद्गाः । ५।७५य्द्/ इक्ष्वाकुयाउधेयशकाः कलिंगाः सोपप्लवाः (सोपद्रवाः) किन्तु सुभिक्षमस्मिन् ॥ ॥ ५।७६अब्/ ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च । ५।७६य्द्/ प्रध्वंसमायान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसंघाः ॥ ॥ ५।७७अब्/ आषाढपर्वणि उदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान् । ५।७७य्द्/ गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेद् मण्डलवर्षमस्मिन् ॥ ॥ ५।७८अ काश्मीरान् सपुलिन्दचीनयवनान् हन्यात् कुरुक्षेत्रजान् ५।७८ब् गान्धारान् अपि मध्यदेशसहितान् वृष्टो ग्रहः श्रावणे । ५।७८य् कांबोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तान् इमान् ५।७८द् अन्यत्र प्रचुरान्नहृष्टमनुजैः धात्रीं करोत्यावृताम् ॥ ॥ ५।७९अ कलिंगवंगान् मगधान् सुराष्ट्रान् ५।७९ब् म्लेच्छान् सुवीरान् दरदाश्मकांश (दरदाज्छकांश) च । ५।७९य् स्त्रीणां च गर्भान् असुरो निहन्ति ५।७९द् सुभिक्षकृद् भाद्रपदेऽभ्युपेतः ॥ ॥ ५।८०अ कांबोजचीनयवनान् सह शल्यहृद्भिः ५।८०ब् बाह्लीक (वाल्हीक) सिन्धुतटवासिजनांश्च हन्यात् । ५।८०य् आनर्त्त (आनर्त) पौण्ड्रभिषजश्च तथा किरातान् ५।८०द् दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृग ॥ ॥ ५।८१अब्/ हनुकुक्षिपायुभेदा द्विः द्विः संछर्दनं च जरणं च । ५।८१य्द्/ मध्यान्तयोश्च विदरणमिति दश शशिसूर्ययोः मोक्षाः ॥ ॥ ५।८२अब्/ आग्नेय्यामपगमनं दक्षिणहनुभेदसंज्ञितं शशिनः । ५।८२य्द्/ सस्यविमर्दो मुखरुग् नृपपीडा स्यात् सुवृष्टिश्च ॥ ॥ ५।८३अब्/ पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी । ५।८३य्द्/ मुखरोगं शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षं च ॥ ॥ ५।८४अब्/ दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन् मोक्षः । ५।८४य्द्/ पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः ॥ ॥ ५।८५अब्/ वामः तु कुक्षिभेदो यद्युत्तरमार्गसंस्थितो राहुः । ५।८५य्द्/ स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥ ॥ ५।८६अब्/ नैरृतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ । ५।८६य्द्/ गुह्यरुग् अल्पा वृष्तिः द्वयोः तु राज्ञीक्षयो वामे ॥ ॥ ५।८७अब्/ पूर्वेण प्रग्रहणं कृत्वा प्राग् एव चापसर्पेत । ५।८७य्द्/ संछर्दनमिति तत्क्षेमसस्यहार्दिप्रदं जगतः ॥ ॥ ५।८८अब्/ प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् । ५।८८य्द्/ क्षुत्शस्त्रभयौद्विग्ना न (उद्विग्नाः क्व) शरणमुपयान्ति तत्र जनाः ॥ ॥ ५।८९अब्/ मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम । ५।८९य्द्/ अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥ ॥ ५।९०अब्/ पर्यन्तेषु विमलता बहुलं मध्ये तमोऽन्ति (अन्त) अदरणाख्यः । ५।९०य्द्/ मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन् ॥ ॥ ५।९१अब्/ एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किन्त्वत्र । ५।९१य्द्/ पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥ ॥ ५।९२अब्/ मुक्ते सप्ताहन्तः पांशुनिपातोऽन्नसंक्षयं कुरुते । ५।९२य्द्/ नीहारो रोगभयं भूकंपः प्रवरनृपमृत्युम् ॥ ॥ ५।९३अब्/ उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम् । ५।९३य्द्/ स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥ ॥ ५।९४अब्/ परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयं । ५।९४य्द्/ रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥ ॥ ५।९५अब्/ निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम् । ५।९५य्द्/ ग्रहयुद्धे (ग्रहयुद्धं) नृपयुद्धं केतुश्च तदेव सन्दृष्टः ॥ ॥ ५।९६अब्/ अविकृतसलिलनिपातैः (निपाते) सप्ताहान्तः सुभिक्षमादेश्यम् । ५।९६य्द्/ यगाशुभं ग्रहणजं तत् सर्वं नाशन् उपयाति ॥ ॥ ५।९७अब्/ सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्य । ५।९७य्द्/ तत्रानयः प्रजानां दंपत्योः वैरमन्योन्यम् ॥ ॥ ५।९८अब्/ अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः । ५।९८य्द्/ नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥ ॥ sएपरते अध्याय ६ भौमचाराध्यायः ६।१अब्/ यद्युदयर्क्षाद् वक्रं करोति नवमाष्टसप्तमर्क्षेषु । ६।१य्द्/ तद्वक्त्रां (तद्वक्रं) उष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥ ॥ ६।२अब्/ द्वादशदशमैकादशनक्षत्राद् वक्रिते कुजेऽश्रुमुखम् । ६।२य्द्/ दूषयति रसान् उदये करोति रोगान् अवृष्टिं च ॥ ॥ ६।३अब्/ व्यालं त्रयोदशर्क्षागतुर्दशाद् वा विपच्यतेऽस्तमये । ६।३य्द्/ दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥ ॥ ६।४अब्/ रुधिराननमिति वक्त्रं पंचदशात् षोडशाग विनिवृत्ते । ६।४य्द्/ तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥ ॥ ६।५अब्/ असिमुशलं सप्तदशादष्टादशतोऽपि वा तदनुवक्रे । ६।५य्द्/ दस्युगुणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम् ॥ ॥ ६।६अब्/ भाग्यार्यमा उदिते यदि निवर्तते वैश्वदैवते भौमः । ६।६य्द्/ प्राजापत्येऽस्तमितः त्रीन् अपि लोकान् निपीडयति ॥ ॥ ६।७अब्/ श्रवणौदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् । ६।७य्द्/ यस्मिन् ऋक्षेऽभ्युदितः तद्दिग्व्यूहान् जनान् हन्ति ॥ ॥ ६।८अब्/ मध्ये न यदि मघानां गतागतं लोहितः करोति ततः । ६।८य्द्/ पाण्ड्यो नृपो विनश्यति शस्त्रौद्योगाद् भयमवृष्टिं ॥ ॥ ६।९अब्/ भित्त्वा मघा (मघां) विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् । ६।९य्द्/ मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥ ॥ ६।१०अब्/ दक्षिणतो रोहिण्याः चरन् महीजोर्घवृष्टिनिग्रहकृत् । ६।१०य्द्/ धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥ ॥ ६।११अब्/ प्राजापत्ये श्रवणे मूले त्रिषु चौत्तरेषु (तिसृषूत्तरासु) शाक्रे च । ६।११य्द्/ विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥ ॥ ६।१२अब्/ चारोदयाः प्रशस्ताः श्रवणमघादित्यहस्तमूलेषु (मूलहस्तेषु) । ६।१२य्द्/ एकपदाश्विशाखाप्राजापत्येषु च कुजस्य ॥ ॥ ६।१३अ विपुलविमलमूर्तिः किंशुकाशोकवर्णः ६।१३ब् स्फुटरुचिरमयूखः तप्तताम्रप्रभाभः । ६।१३य् विचरति यदि मार्गं चौत्तरं मेदिनीजः ६।१३द् शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥ ॥ sएपरते अध्याय ७ बुधचाराध्यायः ७।१अब्/ नौत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् । ७।१य्द्/ जलदहनपवनभयकृद् धान्यार्घक्षयविवृद्धौ वा ॥ ॥ ७।२अब्/ विचरन् श्रवणधनिष्ठाप्रजापत्येन्दुवैश्वदेवानि (विश्वदैवानि) । ७।२य्द्/ मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥ ॥ ७।३अब्/ रौद्रादीनि मघान्तानि उपाश्रिते चन्द्रजे प्रजापीडा । ७।३य्द्/ शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥ ॥ ७।४अब्/ हस्तादीनि चरन् (विचरन्) षडृक्षाणि उपपीडयन् गवामशुभः । ७।४य्द्/ स्नेहरसार्घविवृद्धिं करोति चौर्वीं प्रभूतान्नाम् ॥ ॥ ७।५अब्/ आर्यम्णं हौतभुजं भद्रपदामुत्त्ररां यमेशं च । ७।५य्द्/ चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसंक्षयकृत् ॥ ॥ ७।६अब्/ आश्विनवारुणमूलानि उपमृद्नन् रेवतीं च चन्द्रसुतः । ७।६य्द्/ पण्यभिषग्नौजीविकसलिलजतुरगौपघातकरः ॥ ॥ ७।७अब्/ पूर्वाद्य्वृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् । ७।७य्द्/ क्षुत्शस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥ ॥ ७।८अब्/ प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । ७।८य्द्/ सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ॥ ॥ ७।९अब्/ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । ७।९य्द्/ मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि (दैवानि) । ७।१०अब्/ संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । ७।१०य्द्/ तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥ ॥ ७।११अब्/ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः ॥ ॥ ७।११य्द्/ घोरा श्रवणः त्वाष्टृअं वसुदैवं (देवं) वारुणं चैव ॥ ॥ ७।१२अब्/ पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति । ७।१२य्द्/ उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥ ॥ ७।१३अब्/ चत्वारिंशत् (४०) त्रिंशद् (३०) द्विसमेता विंशति (२२)ः द्विनवकं च । ७।१३य्द्/ नव मासार्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥ ॥ ७।१४अब्/ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । ७।१४य्द्/ संक्षिप्तमिश्रयोः मिश्रमेतदन्यासु विपरीतम् ॥ ॥ ७।१५अब्/ ऋज्वीअतिवक्रावक्रा विकला च मतेन देवलस्यैताः । ७।१५य्द्/ पंचचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥ ॥ ७।१६अब्/ ऋज्वी हिता प्रजानामतिवक्राऽर्घं गतिः विनाशयति । ७।१६य्द्/ शस्त्रभयदा च वक्रा विकला भयरोगसंजननी ॥ ॥ ७।१७अब्/ पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु । ७।१७य्द्/ वृष्तो भयाय जगतः शुभफलकृत् प्रोषितः तेषु ॥ ॥ ७।१८अब्/ कार्तिके (कार्त्तिके) ऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । ७।१८य्द्/ शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ७।१९अब्/ रुद्धानि सौम्येऽस्त्रगते (अस्तमिते) पुराणि यानि उद्गते तानि उपयान्ति मोक्षम् । ७।१९य्द्/ अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ञाः ॥ ॥ ७।२०अब्/ हेमकान्तिः अथवा शुकवर्णः सस्यकेन मणिना सदृशो वा । ७।२०य्द्/ स्निग्धमूर्तिः अलघुश्च हिताय व्यत्यये न शुभकृत्शशिपुत्रः ॥ ॥ sएपरते अध्याय ८ बृहस्पतिचाराध्यायः ८।१अब्/ नक्षत्रेण सहौदयमुपगच्छति येन देवपतिमन्त्री । ८।१य्द्/ तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥ ॥ ८।२अब्/ वर्षाणि कार्त्तिकादीनि आग्नेयाद् भद्वयानुयोगीनि । ८।२य्द्/ क्रमशः त्रिभं तु पंचममुपान्त्यमन्त्यं च यद् वर्षम् ॥ ॥ ८।३अब्/ शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च । ८।३य्द्/ वृद्धिः तु रक्तपीतककुसुमानां कार्त्तिके वर्षे ॥ ॥ ८।४अब्/ सौम्येऽब्देऽनावृष्टिः मृगाखुशलभाण्डजैश्च सस्यवधः । ८।४य्द्/ व्ह्याधिभयं मित्रैः अपि भूपानां जायते वैरम् ॥ ॥ ८।५अब्/ शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः । ८।५य्द्/ द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥ ॥ ८।६अब्/ पितृपूजापरिवृद्धिः माघे हार्दिश्च सर्वभूतानाम् । ८।६य्द्/ आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥ ॥ ८।७अब्/ फाल्गुनवर्षे विन्द्यात् क्वचित् क्वचित् क्षेमवृष्टिसस्यानि । ८।७य्द्/ दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चौग्राः ॥ ॥ ८।८अब्/ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः । ८।८य्द्/ वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥ ॥ ८।९अब्/ वैशाखे धर्मरता (धर्मपरा) विगतभयाः प्रमुदिताः प्रजाः सनृपाः । ८।९य्द्/ यज्ञक्रियाप्रावृत्तिः निष्पत्तिः सर्वसस्यानाम् ॥ ॥ ८।१०अब्/ ज्यैष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः । ८।१०य्द्/ पीड्यन्ते धान्यानि च हित्वा कंगुं शमीजातिम् ॥ ॥ ८।११अब्/ आषाढे जायन्ते सस्यानि क्वचिदवृष्टिः अन्यत्र । ८।११य्द्/ योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥ ॥ ८।१२अब्/ श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति । ८।१२य्द्/ क्षुद्रा ये पाखण्डाः (पाषण्डाः) पीड्यन्ते ये च तद्भक्ताः ॥ ॥ ८।१३अब्/ भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च । ८।१३य्द्/ न भवत्यपरं सस्यं क्वचित् सुभिक्षं क्वचिग भयम् ॥ ॥ ८।१४अब्/ आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । ८।१४य्द्/ प्राणचयः प्राणभृताम् सर्वेषामन्नबाहुल्यम् ॥ ॥ ८।१५अब्/ उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् । ८।१५य्द्/ याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥ ॥ ८।१६अब्/ विचरन् भद्वयमिष्टः तत्सार्धं वत्सरेण मध्यफलः । ८।१६य्द्/ सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ॥ ॥ ८।१७अब्/ अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे । ८।१७य्द्/ हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥ ॥ ८।१८अब्/ धूमाभेऽनावृष्टिः त्रिदशगुरौ नृपवधो दिवा दृष्टे । ८।१८य्द्/ विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥ ॥ ८।१९अ रोहिण्योऽनलभं च वत्सरतनुः नाभिः त्वषाढद्वयं ८।१९ब् सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् । ८।१९य् देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं ८।१९द् पुष्ये मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥ ॥ ८।२०अ गतानि वर्षाणि शकेन्द्रकालाद् ८।२०ब् धतानि रुद्रैः गुणयेगतुर्भिः । ८।२०य् नवाष्टपंचाष्ट (८५८९)युतानि कृत्वा ८।२०द् विभाजयेत् शून्यशरागरामैः (३७५०) ॥ ॥ ८।२१अ लब्धेन (फलेन) युक्तं शकभूपालं (भूपकालं) ८।२१ब् संशोध्य षष्ट्या विषयैः विभज्य । ८।२१य् युगानि नारायणपूर्वकाणि ८।२१द् लब्धानि शेषाः क्रमशः समाः स्युः ॥ ॥ ८।२२अब्/ एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेण । ८।२२य्द्/ हृत्वा चतुर्भिः वसुदेवताद्यानि उडूनि शेषांशकपूर्वमब्दम् ॥ ॥ ८।२३अब्/ विष्णुः सुरेज्यो बलभिद् धुताशः त्वष्टौत्तरप्रोष्ठपदाधिपश्च । ८।२३य्द्/ क्रमाद् युगेशाः पितृविश्वसोम (सोमाः) शक्रानलाख्याश्विभागाः प्रदिष्टाः ॥ ॥ ८।२४अब्/ संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली । ८।२४य्द्/ प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥ ॥ ८।२५अब्/ वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये । ८।२५य्द्/ पश्चाज्जलं मुंचति यगतुर्थं स्वल्पोदकं पंचममब्दमुक्तम् ॥ ॥ ८।२६अब्/ चत्वारि मुख्यानि युगानि अथैषां विष्णु इन्द्रजीवानलदैवतानि । ८।२६य्द्/ चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यानि अधमानि विन्द्यात् ॥ ॥ ८।२७अब्/ आध्यं धनिष्टांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः । ८।२७य्द्/ षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते (प्रवर्तते) भूतहितः तदाब्दः ॥ ॥ ८।२८अब्/ क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः । ८।२८य्द्/ संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनः तथापि ॥ ॥ ८।२९अब्/ तस्माद् द्वितीयो विभवः प्रदिष्टः शुक्लः तृतीयः परतः प्रमोदः । ८।२९य्द्/ प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलानि अथैषां (चैषां) ॥ ॥ ८।३०अब्/ निष्पन्नशालीक्षुयवादिसस्यां भयैः विमुक्तामुपशान्तवैराम् ॥ ॥ ८।३०य्द्/ संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥ ॥ ८।३१अब्/ आद्यो अंगिराः श्रीमुखभावसाह्वौ युवा सुधातेति (युवाथ धातेति) युगे द्वितीये । ८।३१य्द्/ वर्षाणि पंचैव यथाक्रमेण त्रीणि अत्र शस्तानि समे परे द्वे ॥ ॥ ८।३२अब्/ त्रिष्वाद्यवर्षेषु (अंगिराद्येषु, आद्यवर्षेषु) निकामवर्षी देवी निरातंकभयः (भयाः) च लोकः । ८।३२य्द्/ अब्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश् च ॥ ॥ ८।३३अब्/ शाक्रे युगे पूर्वमथईश्वराख्यं वर्षं द्वितीयं बहुधान्यम् आहुः । ८।३३य्द्/ प्रमाथिनं विक्रममपि अथान्यद् (अतोऽन्यद्) वर्षं च विन्द्याद् गुरुचारयोगात् ॥ ॥ ८।३४अब्/ आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् । ८।३४य्द्/ पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥ ॥ ८।३५अब्/ श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यगित्रभानुं कथयन्ति वर्षम् । ८।३५य्द्/ मध्यं द्वितीयं तु सुभानुसंज्ञं रोगप्रदं मृत्युकरं नतं च (न तग) ॥ ॥ ८।३६अब्/ तारणं तदनु भूरिवारिदं सस्यवृद्धिमुदिताति (मुदितं च) पार्थिवम् । ८।३६य्द्/ पंचमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥ ॥ ८।३७अब्/ त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी । ८।३७य्द्/ तस्माद् विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥ ॥ ८।३८अब्/ नन्दनोऽथ विजयो जयः तथा मन्मथोऽस्य परतश्च दुर्मुखः । ८।३८य्द्/ कान्तमत्र युग आदितः त्रयं मन्मथः समफलोऽधमोऽपरः ॥ ॥ ८।३९अब्/ हेमलंब इति सप्तमे युगे स्याद् विलंबि परतो विकारि च । ८।३९य्द्/ शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पंचमः ॥ ॥ ८।४०अ ईतिप्राया (इतिप्रायः) प्रचुरपवना वृष्टिः अब्दे तु पूर्वे ८।४०ब् मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये । ८।४०य् अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो ८।४०द् दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥ ॥ ८।४१अब्/ वैश्वे युगे शोकहृद् (शोभकृद्) इत्यथाद्यः संवत्सरोऽतः शुभकृद् द्वितीयः । ८।४१य्द्/ क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥ ॥ ८।४२अब्/ पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः । ८।४२य्द्/ अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिः द्विजगोभयं च ॥ ॥ ८।४३अब्/ आद्यः प्लवंगो नवमे युगेऽब्दः स्यात् कीलकोऽन्यः परतश्च सौम्यः । ८।४३य्द्/ साधारणो रोधकृर्दित्यथैवं शुभपदौ (अथाब्दः शुभप्रदौ) कीलकसौम्यसंज्ञौ ॥ ॥ ८।४४अब्/ कष्टः प्लवंगो बहुशः प्रजानां साधारणेऽल्पं जलमीतयश्च । ८।४४य्द्/ यः पंचमो रोधकृदित्यथाबश्चित्रम् जलम् तत्र च सस्यसम्पत् ॥ ॥ ८।४५अब्/ इन्द्राग्निदैवं दशमं युगं यत्तत्राद्यवर्षं (यत् तराद्यमब्दं) परिधाविसंज्ञम् । ८।४५य्द्/ प्रमादिनं विक्रममपि अतोऽन्यत् (प्रमाद्यथानन्दमतः परं यत्) । स्याद् राक्षसं चानलसंज्ञितम् च ॥ ॥ ८।४६अब्/ परिधाविनि मध्यदेशनाशो नृपहानिः जलमल्पमग्निकोपः । ८।४६य्द्/ अलसः तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ॥ ॥ ८।४७अब्/ विक्रमः (तत्परः) सकललोकनन्दनो राक्षसः क्षयकरोऽनलः तथा । ८।४७य्द्/ ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदो ऽनलः ॥ ॥ ८।४८अब्/ एकादशे पिंगलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च । ८।४८य्द्/ आद्ये तु व्षृटिः महती सचौरा श्वासो हनूकंपयुतश्च कासः ॥ ॥ ८।४९अब्/ यत् कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च । ८।४९य्द्/ रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिः मध्यमवृष्टिकृत् सः ॥ ॥ ८।५०अब्/ भाग्ये युगे दुन्दुभिसंज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति । ८।५०य्द्/ अंगारसंज्ञं (उद्गारिसंज्ञं) तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥ ॥ ८।५१अब्/ रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च । ८।५१य्द्/ क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ॥ ॥ ८।५२अ क्षयमिति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं ८।५२ब् जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम् । ८।५२य् उपचयकरं विट्शूद्राणां परस्वहृतां तथा ८।५२द् कथितमखिलं षष्ट्यब्दे यत् तदत्र समासतः ॥ ॥ ८।५३अब्/ अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः । ८।५३य्द्/ ग्रहहतो न यदि सत्पथवर्ती हितकरो (हतकिरो) ऽमरगुरुः मनुजानाम् ॥ ॥ sएपरते अध्याय ९ शुक्रचाराध्यायः ९।१अब्/ नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः । ९।१य्द्/ अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद् वीथयः कथिताः ॥ ॥ ९।२अब्/ नागा तु पवनयाम्यानलानि पैतामहात् त्रिभाः तिस्रः । ९।२य्द्/ गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥ ॥ ९।३अब्/ जारद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं तु मैत्राद्यम् । ९।३य्द्/ हस्तविशाखात्वाष्ट्राणि अजैत्यषाढाद्वयं दहना ॥ ॥ ९।४अब्/ तिस्रः तिस्रः तासां क्रमादुदन्मध्ययाम्यमार्गस्थाः । ९।४य्द्/ तासामपि उत्तरमध्यदक्षिणेन स्थितैकैका (दक्षिनावस्तितैकैका) ॥ ॥ ९।५अब्/ वीथीमार्गान् अपरे कथयन्ति यथास्थितान् भमार्गस्य । ९।५य्द्/ नक्षत्राणां तारा याम्योत्तरमध्यमाः तद्वत् ॥ ॥ ९।६अब्/ उत्तरमार्गो याम्यादि निगदितो मध्यमः तु भाग्याद्यः । ९।६य्द्/ दक्षिणमार्गो आषाढादि कैश्चिदेवं कृवा मार्गाः ॥ ॥ ९।७अब्/ ज्यौतिषं (ज्योतिसं) आगमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । ९।७य्द्/ स्वयमेवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ॥ ॥ ९।८अब्/ उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद् गतोऽस्तमुदयम् च (वा) । ९।८य्द्/ मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥ ॥ ९।९अब्/ अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् । ९।९य्द्/ कष्टतरं (तमं) सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥ ॥ ९।१०अब्/ भरणीपूर्वं मण्डलम् ऋक्षचतुष्कं सुभिक्षकरमाद्यम् । ९।१०य्द्/ वंगांगमहिषबाह्लिक (वाह्लिक) कलिंगदेशेषु भयजननम् ॥ ॥ ९।११अब्/ अत्रो उदितमारोहेद् ग्रहोऽपरो यदि सितं ततो हन्यात् । ९।११य्द्/ भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥ ॥ ९।१२अब्/ भचतुष्टयमार्द्राद्यं द्वितीयममितांबुसस्यसम्पत्त्यै । ९।१२य्द्/ विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥ ॥ ९।१३अब्/ अन्येनात्राक्रान्ते म्लेच्छाटविकश्व (काश्व) जीविगोमन्तान् । ९।१३य्द्/ गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति ॥ ॥ ९।१४अब्/ विचरन् मघादिपंचकमुदितः सस्यप्रणाशकृत्शुक्रः । ९।१४य्द्/ क्षुत्तस्करभयजननो नीचोन्नतिसंकरकरश्च ॥ ॥ ९।१५अब्/ पित्र्याद्येऽवष्टंभो हन्त्यन्येनाविकान् शबरशूद्रान् । ९।१५य्द्/ पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ॥ ॥ ९।१६अब्/ स्वात्याद्यं भत्रितयं मण्डलमेतगतुर्थमभयकरम् । ९।१६य्द्/ ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥ ॥ ९।१७अब्/ अत्राक्रान्ते मृत्युः किरातभर्तुःपिनष्टि चैक्षुवाकून् । ९।१७य्द्/ प्रत्यन्तावन्तिपुलिन्दतंगणान् शूरसेनांश्च ॥ ॥ ९।१८अब्/ ज्येष्ठाद्यं पंचर्क्षं क्षुत्तस्कररोगदम् प्रबाधयते । ९।१८य्द्/ काश्मीराश्मकमत्स्यान् सचारुदेवीन् अवन्तींश्च ॥ ॥ ९।१९अब्/ अत्रारोहेद् द्रविडाभीरांबष्ठ (आरोहेऽत्राभीरान् द्रविडांबष्ठ) त्रिगर्तसौराष्ट्रान् । ९।१९य्द्/ नाशयन्ति सिन्धुसौवीरकांश्च काशीश्वरस्य वधः ॥ ॥ ९।२०अब्/ षष्ठं षण्नक्षत्रं शुभमेतन् मण्डलं धनिष्ठाद्यम् । ९।२०य्द्/ भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् ॥ ॥ ९।२१अब्/ अत्रारोहेच् (आरोहे) शूलिकगान्धारावन्तयः प्रपीड्यन्ते । ९।२१य्द्/ वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥ ॥ ९।२२अब्/ अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम् । ९।२२य्द्/ पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥ ॥ ९।२३अब्/ दृष्तोऽनस्तमिते (ऽनस्तगतेऽर्के) भयकृत् क्षुद्रोगकृत् समस्तमहः । ९।२३य्द्/ अर्धदिवसे (दिवसं) च सेन्दुः नृपबलपुरभेदकृत्शुक्रः ॥ ॥ ९।२४अब्/ भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः । ९।२४य्द्/ अव्यक्ततुंगनिम्ना समा सरिद्भिः भवति धात्री ॥ ॥ ९।२५अब्/ प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा । ९।२५य्द्/ केशास्थिशकलशबला कापालमिव व्रतं धत्ते ॥ ॥ ९।२६अब्/ सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः । ९।२६य्द्/ आर्द्रागतः तु कोशलकलिंगहा सलिलनिकरकरः ॥ ॥ ९।२७अब्/ अश्मकवैदर्भाणां पुनः वसुस्थे सिते महाननयः । ९।२७य्द्/ पुष्ये पुष्टा वृष्टिः विद्याधरगणविमर्दश्च ॥ ॥ ९।२८अब्/ आश्लेषासु भुजंगमदारुणपीडावहश्चरन् शुक्रः । ९।२८य्द्/ भिन्दन् मघां महामात्रदोषकृद् भूरिवृष्टिकरः ॥ ॥ ९।२९अब्/ भाग्ये शबरपुलिन्दप्रध्वंसकरोऽंबुनिवहमोक्षाय । ९।२९य्द्/ आर्यम्णे कुरुजांगलपांचालघ्नः सलिलदायी ॥ ॥ ९।३०अब्/ कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः । ९।३०य्द्/ कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥ ॥ ९।३१अब्/ स्वातौ प्रभूतवृष्टिः दूतवणिग्नाविकान् स्पृशत्यनयः । ९।३१य्द्/ एन्द्राग्नेऽपि सुवृष्टिः वणिजां च भयं विजानीयात् ॥ ॥ ९।३२अब्/ मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः । ९।३२य्द्/ मौलिकभिषजाम् मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥ ॥ ९।३३अब्/ आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति । ९।३३य्द्/ श्रवणे श्रवणव्याधिः पाखण्डि (पाषण्डि) भयं धनिष्ठासु ॥ ॥ ९।३४अब्/ शतभिषजि शौण्डिकानामजैकभे (अजैकपे) द्यूतजीविनां पीडां (पीडा) । ९।३४य्द्/ कुरुपांचालानामपि करोति चास्मिन् सितः सलिलम् ॥ ॥ ९।३५अब्/ आहिर्बुधिने फलमूलतापकृद् यायिनाम् च रेवत्याम् । ९।३५य्द्/ अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥ ॥ ९।३६अब्/ चतुर्दशीं पंचदशीं (चतुर्दशे पंचदशे तथाष्टमे)- तमिस्रपक्षस्य तिथिं (तिथौ) भृगोः सुतः । ९।३६य्द्/ यदा व्रजेद् दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते ॥ ॥ ९।३७अब्/ गुरुः भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा । ९।३७य्द्/ तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम् ॥ ॥ ९।३८अब्/ यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्तिनः । ९।३८य्द्/ नृनागविद्याधरसंगराः तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ॥ ॥ ९।३९अब्/ न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग् न रता द्विजातयः । ९।३९य्द्/ न चाल्पमपि अंबु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम् ॥ ॥ ९।४०अब्/ शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशूकराः । ९।४०य्द्/ पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिमरुद्गदौद्भवैः ॥ ॥ ९।४१अब्/ निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजां (प्रजा) हुताशशस्त्रक्षुदवृष्टितस्करैः । ९।४१य्द्/ चराचरं व्यक्तमथौत्तरापथं दिशोऽग्निविद्युद्रजसा च पीड्येत् ॥ ॥ ९।४२अब्/ बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान् । ९।४२य्द्/ दिशं च पूर्वां करकासृजोऽंबुदा गले गदा भूरि भवेग शारदम् ॥ ॥ ९।४३अ सौम्योऽस्तोदयोः पुरो भृगुसुतस्यावस्थितः तोयकृद् ९।४३ब् रोगान् पित्तजकामलांश (कामलां कामलांशोः कामलाः) च कुरुते पुष्णाति च ग्रैष्मिकान् (ग्रैष्मिकं) । ९।४३य् हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रंगोपजीव्यान् हयान् ९।४३द् वैश्यान् गाः सह वाहनैः नरपतीन् पीतानि पश्चाद् दिशम् ॥ ॥ ९।४४अ शिखिभयमनलाभे शस्त्रकोपश्च रक्ते ९।४४ब् कनकनिकषगौरे व्याधयो दैत्यपूज्ये । ९।४४य् हरितकपिलरूपे श्वासकासप्रकोपः ९।४४द् पतति न सलिलं खाद् भस्मरूक्षासिताभे ॥ ॥ ९।४५अब्/ दधिकुमुदशशांकान्तिभृत् स्फुटविकसत्किरणो बृहत्तनुः । ९।४५य्द्/ सुगतिः अविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥ ॥ sएपरते अध्याय १० शनैश्चरचाराध्यायः १०।१अब्/ श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य । १०।१य्द्/ प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥ ॥ १०।२अब्/ अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन् न चाति जलम् । १०।२य्द्/ क्षुत्शस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥ ॥ १०।३अब्/ तुरगतुरगोपचारककविवैद्यामात्यहार्कजोऽश्विगतः । १०।३य्द्/ याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान् ॥ ॥ १०।४अब्/ बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजीविनश्चमूपाश्च । १०।४य्द्/ रोहिण्यां कोशलमद्रकाशिपंचालशाकटिकाः ॥ ॥ १०।५अब्/ मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाः च । १०।५य्द्/ रौद्रस्थे पारतरमठास्तैलिकरजक (पारतरातैलिकरजक) चौराश्च ॥ ॥ १०।६अब्/ आदित्ये पांचनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः । १०।६य्द्/ पुष्ये घाण्ठिकघौषिकयवनवणिक्कितवकुसुमानि ॥ ॥ १०।७अब्/ सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः । १०।७य्द्/ शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ॥ ॥ १०।८अब्/ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः । १०।८य्द्/ आर्यम्णे नृपगुडलवणभिक्षुकांबूनि तक्षशिला ॥ ॥ १०।९अब्/ हस्ते नापितचाक्रिकचौरभिषक्सूचिका द्विपग्राहाः । १०।९य्द्/ बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥ ॥ १०।१०अब्/ चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि । १०।१०य्द्/ स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥ ॥ १०।११अब्/ एन्द्राग्नाख्ये त्रैगर्तचीनकौलूतकुंकुमं लाक्षा । १०।११य्द्/ सस्यानि अथ माञ्जिष्ठं कौसुंभं च क्षयं याति ॥ ॥ १०।१२अब्/ मैत्रे कुलूततंगणखसकाश्मीराः समन्त्रिचक्रचराः । १०।१२य्द्/ उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥ ॥ १०।१३अब्/ ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः । १०।१३य्द्/ मूले तु काशिकोशलपांचालफलौषधीयोधाः ॥ ॥ १०।१४अब्/ आप्ये अंगवंगकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च । १०।१४य्द्/ उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ॥ ॥ १०।१५अब्/ विश्वेश्वरेऽर्कपुत्रश्चरन् दशार्णान् निहन्ति यवनांश्च । १०।१५य्द्/ उज्जयिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश्च ॥ ॥ १०।१६अब्/ श्रवणे राजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिंगान् । १०।१६य्द्/ वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ॥ ॥ १०।१७अब्/ साजे शतभिषजि भिषक्कविशौण्डिकपण्यनीतिवृत्तीनां (वार्त्तानां) । १०।१७य्द्/ आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च ॥ ॥ १०।१८अब्/ रेवत्यां राजभृताः क्रौंचद्वीपाश्रिताः शरत्सस्यम् । १०।१८य्द्/ शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥ ॥ १०।१९अब्/ यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोः दहनर्क्षयातः । १०।१९य्द्/ तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोः भमेकम् ॥ ॥ १०।२०अब्/ अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद् यदि पीतमयूखः । १०।२०य्द्/ शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥ ॥ १०।२१अ वैदूर्यकान्तिविमलः शुभकृत् प्रजानां १०।२१ब् बाणातसीकुसुमवर्णनिभश्च शस्तः । १०।२१य् यं चापि (पंचापि) वर्णमुपगच्छति तत्सवर्णान् १०।२१द् सूर्यात्मजः क्षयतीति मुनिप्रवादः ॥ ॥ sएपरते अध्याय ११ केतुचाराध्यायः ११।१अब्/ गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च । ११।१य्द्/ अन्यांश्च बहून् दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥ ॥ ११।२अब्/ दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम् । ११।२य्द्/ दिव्यान्तरिक्षभौमाः त्रिविधाः स्युः केतवो यस्मात् ॥ ॥ ११।३अब्/ अहुताशेऽनलरूपं यस्मिं तत्केतुरूपमेवोक्तम् । ११।३य्द्/ खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥ ॥ ११।४अब्/ ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षाः ते । ११।४य्द्/ दिव्या नक्षत्रस्था भौमाः स्युः अतोऽन्यथा शिखिनः ॥ ॥ ११।५अब्/ शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् । ११।५य्द्/ बहुरूपमेकमेव प्राह मुनिः नारदः केतुम् ॥ ॥ ११।६अब्/ यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् । ११।६य्द्/ उदयास्तमयैः स्थानैः स्पर्शैः अधूमनैः वर्णैः । ११।७अब्/ यावन्त्यहानि दृश्यो मासाः तावन्त एव फलपाकः । ११।७य्द्/ मासैः अब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः ॥ ॥ ११।८अब्/ ह्रस्वः तनुः प्रसन्नः स्निग्धः त्वृजुः अचिरसंस्थितः शुक्लः । ११।८य्द्/ उदितोऽथवाभिवृष्टः (वाप्यभिदृष्टः) सुभिक्षसौख्यावहः केतुः ॥ ॥ ११।९अब्/ उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः । ११।९य्द्/ इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥ ॥ ११।१०अब्/ हारमणिहेमरूपाः किरणाख्याः पंचविंशतिः सशिखाः । ११।१०य्द्/ प्रागपरदिशोः दृश्या नृपतिविरोधावहा रविजाः ॥ ॥ ११।११अब्/ शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः । ११।११य्द्/ आग्नेय्यां दृश्यन्ते तावन्तः तेऽपि शिखिभयदाः ॥ ॥ ११।१२अब्/ वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः । ११।१२य्द्/ दृश्यन्ते याम्यायां जनमरकावेदिनः ते च ॥ ॥ ११।१३अब्/ दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः । ११।१३य्द्/ क्षुद्भयदा द्वाविंशतिः ऐशान्यामंबुतैलनिभाः ॥ ॥ ११।१४अब्/ शशिकिरणरजतहिमकुदकुमुन्दकुसुमोपमाः सुताः शशिनः । ११।१४य्द्/ उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥ ॥ ११।१५अब्/ ब्रह्मसुत एक एव त्रिशिखो वर्णैः त्रिभिः युगान्तकरः । ११।१५य्द्/ अनियतदिक्सम्प्रभवो विज्ञेयो ब्रह्मदण्डाख्यः ॥ ॥ ११।१६अब्/ शतमभिहितमेकसमेतमेतदेकेन विरहितानि अस्मात् । ११।१६य्द्/ कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥ ॥ ११।१७अब्/ सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः । ११।१७य्द्/ विपुलसिततारकाः ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥ ॥ ११।१८अब्/ स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चरांगरुहाः । ११।१८य्द्/ अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥ ॥ ११।१९अब्/ विकचा नाम गुरुसुताः सितएकताराः शिखापरित्यक्ताः । ११।१९य्द्/ षष्टिः पंचभिः अधिका स्निग्धा याम्याश्रिताः पापाः ॥ ॥ ११।२०अब्/ नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः । ११।२०य्द्/ बुधजाः तस्करसंज्ञाः पापफलाः त्वेकपंचाशत् ॥ ॥ ११।२१अब्/ क्षतजानलानुरूपाः त्रिचूलताराः कुजात्मजाः षष्टिः । ११।२१य्द्/ नाम्ना च कौंकुमाः ते सौम्याशासंस्थिताः पापाः ॥ ॥ ११।२२अब्/ त्रिंशत्यधिका राहोः ते तामसकीलका इति ख्याताः । ११।२२य्द्/ रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥ ॥ ११।२३अब्/ विंशत्यधिकमन्यत्शतमग्नेः विश्वरूपसंज्ञानाम् । ११।२३य्द्/ तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥ ॥ ११।२४अब्/ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः । ११।२४य्द्/ अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ॥ ॥ ११।२५अब्/ तारापुञ्जनिकाशा गणका नाम प्रजापतेः अष्टौ । ११।२५य्द्/ द्वे च शते चतुरधिके चतुरस्रा (चतुरश्रा) ब्रह्मसन्तानाः ॥ ॥ ११।२६अब्/ कंका नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः । ११।२६य्द्/ शशिवत्प्रभासमेताः तीव्रफलाः केतवः प्रोक्ताः ॥ ॥ ११।२७अब्/ षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः । ११।२७य्द्/ पुण्ड्रा (चण्डा) भयप्रदाः स्युः विरूपताराश्च ते शिखिनः ॥ ॥ ११।२८अब्/ शुक्रविपुलएकतारा नव विदिशां केतवः समुत्पन्नाः । ११।२८य्द्/ एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥ ॥ ११।२९अब्/ उदगायतो महान् स्निग्धमूर्तिः अपरोदयी वसाकेतुः । ११।२९य्द्/ सद्यः करोति मरकं सुभिक्षमपि उत्तमं कुरुते ॥ ॥ ११।३०अब्/ तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः । ११।३०य्द्/ स्निग्धः तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥ ॥ ११।३१अब्/ दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः । ११।३१य्द्/ प्रान्नभसोऽर्धविचारी क्षुत्मरकावृष्टिरोगकरः ॥ ॥ ११।३२अब्/ प्राग् वैश्वानर (वश्वानर, वैस्वानर) मार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः । ११।३२य्द्/ नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥ ॥ ११।३३अब्/ अपरस्यां चलकेतुः शिखया याम्याग्रयांगुलौच्छ्रितया । ११।३३य्द्/ गच्छेद् यथा यथोदक् तथा तथा दैर्घ्यमायाति ॥ ॥ ११।३४अब्/ सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः । ११।३४य्द्/ नभसोऽर्धमात्रमित्वा याम्येनास्तम् समुपयाति ॥ ॥ ११।३५अब्/ हन्यात् प्रयागकूलाद् यावदवन्तीं च पुष्करारण्यं (पुष्कराण्यं) । ११।३५य्द्/ उदग् अपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ॥ ॥ ११।३६अब्/ अन्यान् अपि स देशान् क्वचित् क्वचिद् धन्ति रोगदुर्भिक्षैः । ११।३६य्द्/ दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः ॥ ॥ ११।३७अब्/ प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुः अन्यश्च । ११।३७य्द्/ क इति युगाकृतिः अपरे युगपत्तौ सप्तदिनदृश्यौ ॥ ॥ ११।३८अब्/ स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः । ११।३८य्द्/ दश वर्षाणि उपतापं जनयति शस्त्रप्रकोपकृतम् ॥ ॥ ११।३९अब्/ श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः । ११।३९य्द्/ विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥ ॥ ११।४०अब्/ आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः । ११।४०य्द्/ ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥ ॥ ११।४१अब्/ ध्रुवकेतुः अनियतगतिप्रमाणवर्णाकृतिः भवति विष्वक् । ११।४१य्द्/ दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥ ॥ ११।४२अब्/ सेनांगेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् । ११।४२य्द्/ गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥ ॥ ११।४३अब्/ कुमुद इति कुमुदकान्तिः वारुण्यां प्राक्षिखो निशामेकाम् । ११।४३य्द्/ दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥ ॥ ११।४४अब्/ सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः । ११।४४य्द्/ ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ॥ ॥ ११।४५अब्/ उदयन्न् एव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् । ११।४५य्द्/ प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥ ॥ ११।४६अब्/ जलकेतुः अपि च पश्चात् स्निग्धः शिखयापरेण चौन्नतया । ११।४६य्द्/ नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य ॥ ॥ ११।४७अब्/ भवकेतुः एकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः । ११।४७य्द्/ हरिलांगुलौपमया प्रदक्षिणावर्तया शिखया ॥ ॥ ११।४८अब्/ यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेत्मासान् । ११।४८य्द्/ तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान् ॥ ॥ ११।४९अब्/ अपरेण पद्मकेतुः मृणालगौरो भवेन् निशामेकाम् । ११।४९य्द्/ सप्त करोति सुभिक्षं वर्षाणि अतिहर्षयुक्तानि ॥ ॥ ११।५०अब्/ आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः । ११।५०य्द्/ यावत् क्षणान् स दृश्यः तावन् मासान् सुभिक्षकरः ॥ ॥ ११।५१अब्/ पश्चात् सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः । ११।५१य्द्/ आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ॥ ॥ ११।५२अब्/ यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति । ११।५२य्द्/ भूपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥ ॥ ११।५३अब्/ ये शस्ताः तान् हित्वा केतुभिः आधूपिते (आधूमिते) ऽथवा स्पृष्टे । ११।५३य्द्/ नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥ ॥ ११।५४अब्/ अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् । ११।५४य्द्/ बहुलासु कलिंगेशं रोहिण्यां शूरसेनपतिम् ॥ ॥ ११।५५अब्/ औशीनरमपि सौम्ये जलजाजीवाधिपं तथार्द्रासु । ११।५५य्द्/ आदित्येऽश्मकनाथान् (नाथं) पुष्ये मघधाधिपं हन्ति ॥ ॥ ११।५६अब्/ असिकेशं भौजंगे पित्र्ये अंगं पाण्ड्यनाथमपि भाग्ये । ११।५६य्द्/ औज्जयिनिक (औज्जयनिक) मार्यम्णे सावित्रे दण्डकाधिपतिम् ॥ ॥ ११।५७अब्/ चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ञः । ११।५७य्द्/ काश्मीरककांबोजौ नृपती प्राभञ्जने न स्तः ॥ ॥ ११।५८अब्/ इक्ष्वाकुरलकनाथः ( नाथौ, नाथो) च हन्यते यदि भवेद् विशाखासु । ११।५८य्द्/ मैत्रे पुण्ड्राधिपतिः ज्येष्ठासु च (ज्येष्ठास्वथ) सार्वभौमवधः ॥ ॥ ११।५९अब्/ मूलेऽन्ध्रमद्रकपती जलदेवे काशिपो मरणमेति । ११।५९य्द्/ यौधेयकार्जुनायनशिविचैद्यान् वैश्वदेवे च ॥ ॥ ११।६०अब्/ हन्यात् कैकयनाथं पांचनदं सिंहलाधिपं वांगम् । ११।६०य्द्/ नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान् क्रमशः ॥ ॥ ११।६१अब्/ उल्काभिताडितशिखः शिखी शिवः शिवतरोऽतिदृष्तो (अभिवृष्टो) यः । ११।६१य्द्/ अशुभः स एव चोलावगाणसितहूणचीनानाम् ॥ ॥ ११।६२अ नम्रा यतः शिखिशिखाभिसृता यतो वा ११।६२ब् ऋक्षं च यत् स्पृशति तत् कथितांश्च देशान् । ११।६२य् दिव्यप्रभावनिहतान् स यथा गरुत्मान् ११।६२द् भुंक्ते गतो नरपतिः परभोगिभोगान् ॥ ॥ sएपरते अध्याय १२ अगस्त्यचाराध्यायः १२।१अ समुद्रोऽन्तः शैलैः मकरनखरोत्खातशिखरैः १२।१ब् कृतः तोयोच्छित्त्या सपदि सुतरां येन रुचिरः । १२।१य् पतन् मुक्तामिश्रैः प्रवरमणिरत्नांबुनिवहैः १२।१द् सुरान् प्रत्यादेष्टुं मित (सित) मुकुटरत्नान् इव पुरा ॥ ॥ १२।२अब्/ येन चांबुहरणेऽपि विद्रुमैः भूधरैः समणिरत्नविद्रुमैः । १२।२य्द्/ निर्गतैः तदुरगैश्च राजितः सागरोऽधिकतरं विराजितः ॥ ॥ १२।३अब्/ प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः । १२।३य्द्/ आपदां पदगतोऽपि यापितो येन पीतसलिलोऽमरश्रियम् ॥ ॥ १२।४अब्/ प्रचलत्तिमिशुक्तिजशंखचितः सलिलेऽपहृतेऽपि पतिः सरिताम् । १२।४य्द्/ सतरंगसितोत्पलहंसभृतः सरसः शरदीव विभर्ति रुचिं (रुचं) ॥ ॥ १२।५अब्/ तिमिसितांबुधरं मणितारकं स्फटिकचन्द्रमनंबुशरद्द्युतिः । १२।५य्द्/ फणिफणोपलरश्मिशिखिग्रहं कुटिलगेशवियग चकार यः ॥ ॥ १२।६अ दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच् चलत्श‍ृंगमुद्भ्रान्तविद्याधरांसावसक्तप्रियाव्यग्रदत्तांकदेहावलंबांबरात्य्- (राभि) उच्छ्रितोद्धूयमानध्वजैः शोभितम् । १२।६ब् करिकटमदमिश्ररक्तावलेहानुवासानुसारिद्विरेफावलीनोत्तमांगैः कृतान् बाणपुष्पैः इवोत्तंसकान् धारयद्भिः मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम् । १२।६य् गगनतलमिवोल्लिखन्तं प्रवृद्धैः गजाकृष्टफुल्लद्रुमत्रासविभ्रान्तमत्तद्विरेफावलीहृष्ट (गीत) मन्द्रस्वनैः शैलकूटैः तरक्षर्क्षशार्दूलशाखामृगाध्यासितैः । १२।६द् रहसि मदनसक्तया रेवया कान्तयेवोपगूढं सुराध्यासितोद्यानम् अंभोऽशनानन्नमूलानिलाहारविप्रान्वितं विन्ध्यमस्तंभयद् यश्च तस्योदयः श्रूयताम् ॥ ॥ १२।७अब्/ उदये च मुनेः अगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि । १२।७य्द्/ हृदयानि सतामिव स्वभावात् पुनः अंबूनि भवन्ति निर्मलानि ॥ ॥ १२।८अब्/ पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णती सस्वनहंसपंक्तिम् । १२।८य्द्/ तांबूलरक्तोत्कषिताग्रदन्ती विभाति योषा इव शरत् (सरित्) सहासा ॥ ॥ १२।९अब्/ इन्दीवरासन्नसितोत्पलान्विता शरद् (सरित्) भ्रमत्षट्पदपंक्तिभूषिता । १२।९य्द्/ सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषा इव विभाति सस्मरा ॥ ॥ १२।१०अ इन्दोः पयोदविगमोपहितां विभूतिं १२।१०ब् द्रष्टुं तरंगवलया कुमुदं निशासु । १२।१०य् उन्मीलयत्यलिनिलीनदलं सुपक्ष्म १२।१०द् वापी विलोचनमिवासिततारकान्तम् ॥ ॥ १२।११अब्/ नानाविचित्रांबुजहंसकोककारण्डवापूर्णतडागहस्ता । १२।११य्द्/ रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घमगस्त्यनाम्ने ॥ ॥ १२।१२अब्/ सलिलममरपाज्ञया उज्झितं यद् धनपरिवेष्टितमूर्तिभिः भुजंगैः । १२।१२य्द्/ फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ॥ ॥ १२।१३अब्/ स्मरणादपि पापमपाकुरुते किमुत स्तुतिभिः वरुणांगरुहः । १२।१३य्द्/ मुनिभिः कथितोऽस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥ ॥ १२।१४अब्/ संख्याविधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ञः । १२।१४य्द्/ तगौज्जयिन्यां (उज्जयन्यां) अगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य ॥ ॥ १२।१५अब्/ ईषत्प्रभिन्नेऽरुणरश्मिजालैः नैशेऽन्धकारे दिशि दक्षिणस्याम् । १२।१५य्द्/ सांवत्सरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत् ॥ ॥ १२।१६अ कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च १२।१६ब् रत्नैश्च सागरभवैः कनकांबरैश्च । १२।१६य् धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैः १२।१६द् दध्यक्षतैः सुरभिधूपविलेपनैश्च ॥ ॥ १२।१७अ नरपतिः इममर्घं श्रद्दधानो दधानः १२।१७ब् प्रविगतगददोषो निर्जितारातिपक्षः । १२।१७य् भवति यदि च दद्यात् सप्त वर्षाणि सम्यग् १२।१७द् जलनिधिरशनायाः (रसनायाः) स्वामितां याति भूमेः ॥ ॥ १२।१८अब्/ द्विजो यथालाभमुपाहृतार्घः प्राप्नोति वेदान् प्रमदाश्च पुत्रान् । १२।१८य्द्/ वैश्यश्च गां भूरि धनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ॥ ॥ १२।१९अ रोगान् करोति परुषः कपिलः त्ववृष्टिं १२।१९ब् धूम्रो गवामशुभकृत् स्फुरणो भयाय १२।१९य् माञ्जिष्ठरागसदृशः क्षुधमाहवांश्च १२।१९द् कुर्यादणुश्च पुररोधमगस्त्यनामा ॥ ॥ १२।२०अब्/ शातकुंभसदृशः स्फटिकाभः तर्पयन्न् इव महीं किरणाग्रैः (किरणौघैः) । १२।२०य्द्/ दृश्यते यदि तदा (ततः) प्रचुरान्ना भूः भवत्यभयरोगजनाढ्या ॥ ॥ १२।२१अब्/ उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते (धत्ते) । १२।२१य्द्/ दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥ ॥ sएपरते अध्याय १३ सप्तर्षिचाराध्यायः १३।१अब्/ सैकावलीव राजति ससितोत्पलमालिनी सहासेव । १३।१य्द्/ नाथवतीव च दिग् यैः कौवेरी सप्तभिः मुनिभिः ॥ ॥ १३।२अब्/ ध्रुवनायकोपदेशान् नरिनर्ती (नर्त्ती) वोत्तरा भ्रमद्भिश्च । १३।२य्द्/ यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ ॥ १३।३अब्/ आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । १३।३य्द्/ षड्द्विकपंचद्वियुतः शककालः तस्य राज्ञश्च ॥ ॥ १३।४अब्/ एकैकस्मिन् ऋक्षे शतं शतं ते चरन्ति वर्षाणाम् । १३।४य्द्/ प्रागुदयतोऽपि अविवराद् र्जून् नयति तत्र संयुक्ताः (प्रागुत्तरतश्च एते सदा उदयन्ते ससाध्वीकाः) ॥ ॥ १३।५अब्/ पूर्वे भागे भगवान् मरीचिः अपरे स्थितो वसिष्ठोऽस्मात् । १३।५य्द्/ तस्यांगिराः ततोऽत्रिः तस्यासन्नः पुलस्त्यश्च ॥ ॥ १३।६अब्/ पुलहः क्रतुः इति भगान् आसन्ना अनुक्रमेण पूर्वाद्यात् (पूर्वाद्याः) । १३।६य्द्/ तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥ ॥ १३।७अब्/ उल्काशनिधूमाद्यैः हता विवर्णा विरश्मयो ह्रस्वाः । १३।७य्द्/ हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥ ॥ १३।८अब्/ गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागानाम् । १३।८य्द्/ पीडाकारो मरीचिः ज्ञेयो विद्याधराणां च ॥ ॥ १३।९अब्/ शकयवनदरदपारतकांबोजां तापसान् वनोपेतान् । १३।९य्द्/ हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥ ॥ १३।१०अब्/ अंगिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः । १३।१०य्द्/ अत्रेः कान्तारभवा जलजानि अंभोनिधिः सरितः ॥ ॥ १३।११अब्/ रक्षःपिशाचदानवदैत्यभुजंगाः स्मृताः पुलस्त्यस्य । १३।११य्द्/ पुलहस्य तु मूलफलं क्रतोः तु यज्ञाः सयज्ञभृतः ॥ ॥ sएपरते अध्याय १४ नक्षत्रकूर्माध्यायः १४।१अब्/ नक्षत्रत्रयवर्गैः आग्नेयाद्यैः व्यवस्थितैः नवधा । १४।१य्द्/ भारतवर्षे मध्य (मध्यात्) प्रागादिविभाजिता देशाः ॥ ॥ १४।२अब्/ भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसंख्याताः । १४।२य्द्/ मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥ ॥ १४।३अब्/ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च । १४।३य्द्/ गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपांचालाः ॥ ॥ १४।४अब्/ साकेतकंककुरुकालकोटिकुकुराश्च पारियात्रनगः । १४।४य्द्/ औदुंबरकापिष्टलगजाह्वयाश्चेति मध्यमिदम् ॥ ॥ १४।५अब्/ अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः । १४।५य्द्/ व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च ॥ ॥ १४।६अब्/ खसमगधशिबिरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः । १४।६य्द्/ प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः ॥ ॥ १४।७अब्/ उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलांबष्ठाः । १४।७य्द्/ एकपदताम्रलिप्त (तामलिपित) ककोशलका वर्धमानाश्च ॥ ॥ १४।८अब्/ आग्नेय्यां दिशि कोशलकलिंगवंगोपवंगजठरांगाः । १४।८य्द्/ शौलिकविदर्भवत्सान्ध्रचेदिकाश्च ऊर्ध्वकण्ठाश्च ॥ ॥ १४।९अब्/ वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनः त्रिपुरी । १४।९य्द्/ श्मश्रुधरहेमकुड्य (कूट्य) व्यालग्रीवा महाग्रीवाः ॥ ॥ १४।१०अब्/ किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः । १४।१०य्द्/ सह नग्नपर्णशबरैः आश्लेषाद्ये त्रिके देशाः ॥ ॥ १४।११अब्/ अथ दक्षिणेन लंकाकालाजिनसौरिकीर्णतालिकटाः । १४।११य्द्/ गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः ॥ ॥ १४।१२अब्/ कंकटकंकण (टंकण) वनवासिशिबिकफणिकारकोंकणाभीराः । १४।१२य्द्/ आकरवेणावर्तक (वन्तक) दशपुरगोनर्दकेरलकाः ॥ ॥ १४।१३अब्/ कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः । १४।१३य्द्/ क्रौंचद्वीपजटाधरकावेर्यो रिष्यमूकश्च ॥ ॥ १४।१४अब्/ वैदूर्यशंखमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः । १४।१४य्द्/ गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ॥ ॥ १४।१५अब्/ तुंबवनकार्मणय (मणेय) कयाम्योदधितापसाश्रमा ऋषिकाः । १४।१५य्द्/ कांचीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः ॥ ॥ १४।१६अब्/ बलदेवपट्टनं दण्डकावनतिमिंगिलाशना भद्राः । १४।१६य्द्/ कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः ॥ ॥ १४।१७अब्/ नैरृत्यां दिशि देशाः पह्लवकांबोजसिन्धुसौवीराः । १४।१७य्द्/ वडवामुखारवांबष्ठकपिलनारीमुखानर्ताः ॥ ॥ १४।१८अब्/ फेणगिरियवनमार्गर (माकर) कर्णप्रावेयपारशवशूद्राः । १४।१८य्द्/ बर्बरकिरातखण्डक्रव्यादा (क्रव्याश्या) भीरचंचूकाः ॥ ॥ १४।१९अब्/ हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रबादरद्रविडाः । १४।१९य्द्/ स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवोऽत्रैव ॥ ॥ १४।२०अब्/ अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः । १४।२०य्द्/ अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ॥ ॥ १४।२१अब्/ पंचनदरमठपारततारक्षितिजृंगवैश्यकनकशकाः । १४।२१य्द्/ निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थिताः ते च ॥ ॥ १४।२२अब्/ दिशि पश्चिमोत्तरस्यां माण्डव्यतुषार (तुखार) तालहलमद्राः । १४।२२य्द्/ अश्मककुलूतहलडाः (हडः) स्त्रीराज्यनृसिंहवनखस्थाः ॥ ॥ १४।२३अब्/ वेणुमती फल्गुलुका गुलुहा मरुकुच्चचर्मरंगाख्याः । १४।२३य्द्/ एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥ ॥ १४।२४अब्/ उत्तरतः कैलासो हिमवान् वसुमान् गिरिः धनुष्मांश्च । १४।२४य्द्/ क्रौंचो मेरुः कुरवः तथोत्तराः क्षुद्रमीनाश्च ॥ ॥ १४।२५अब्/ कैकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः । १४।२५य्द्/ आदर्शान्तः (आदर्शान्त) द्वीपित्रिगर्ततुरग आननाः श्वमुखाः (आननाश्वमुखाः) ॥ ॥ १४।२६अब्/ केशधरचिपिटनासिकदासेरकवाटधानशरधानाः । १४।२६य्द्/ तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च ॥ ॥ १४।२७अब्/ अंबरमद्रकमालवपौरवकच्छारदण्डपिंगलकाः । १४।२७य्द्/ माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥ ॥ १४।२८अब्/ गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च । १४।२८य्द्/ यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च ॥ ॥ १४।२९अब्/ ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः । १४।२९य्द्/ अभिसारदरदतंगणकुलूतसैरिन्ध्र (इन्ध) वनराष्ट्राः ॥ ॥ १४।३०अब्/ ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः । १४।३०य्द्/ भल्लाः पटोल (भल्लापलोल) जटासुरकुनटखस (कुनठखष) घोषकुचिकाख्याः ॥ ॥ १४।३१अब्/ एकचरणानुविद्धाः (अनुविश्वाः) सुवर्णभूर्वसुधनं (वनं) दिविष्ठाश्च । १४।३१य्द्/ पौरवचीरनिवासि (निवासन) त्रिनेत्रमुञ्जाद्रिगान्धर्वाः (गन्धर्वाः) ॥ ॥ १४।३२अब्/ वर्गैः आग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः । १४।३२य्द्/ पांचालो मागधिकः कालिंगश्च क्षयं यान्ति ॥ ॥ १४।३३अब्/ आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः । १४।३३य्द्/ राजा च हारहौरो मद्रेशोऽन्यश्च कौणिन्दः ॥ ॥ sएपरते अध्याय १५ नक्षत्रव्यूहाध्यायः १५।१अब्/ आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः । १५।१य्द्/ आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः ॥ ॥ १५।२अब्/ रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः । १५।२य्द्/ गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसम्पन्नाः ॥ ॥ १५।३अब्/ मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहंगाः । १५।३य्द्/ मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥ ॥ १५।४अब्/ रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः । १५।४य्द्/ तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥ ॥ १५।५अब्/ आदित्ये सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः । १५।५य्द्/ उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥ ॥ १५।६अब्/ पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः । १५।६य्द्/ सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥ ॥ १५।७अब्/ अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि । १५।७य्द्/ परधनहरणाभिरताः तुषधान्यं सर्वभिषजश्च ॥ ॥ १५।८अब्/ पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः । १५।८य्द्/ पितृभक्तवणिक्षूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥ ॥ १५।९अब्/ प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि । १५।९य्द्/ कर्पासलवणमक्षिक (माक्षिक) तैलानि कुमारकाश्चापि ॥ ॥ १५।१०अब्/ आर्यम्णे मार्दवशौचविनयपाखण्डि (पाषण्डि) दानशास्त्ररताः । १५।१०य्द्/ शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥ ॥ १५।११अब्/ हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि । १५।११य्द्/ तुषधान्यं श्रुतयुक्ता वणिजः तेजोयुताश्चात्र ॥ ॥ १५।१२अब्/ त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः । १५।१२य्द्/ गणितपटुतन्तुवायाः शालाक्या राजधान्यानि ॥ ॥ १५।१३अब्/ स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि । १५।१३य्द्/ अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ॥ ॥ १५।१४अब्/ इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः । १५।१४य्द्/ कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥ ॥ १५।१५अब्/ मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः । १५।१५य्द्/ ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥ ॥ १५।१६अब्/ पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः । १५।१६य्द्/ विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥ ॥ १५।१७अब्/ मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः (वार्त्ताः) । १५।१७य्द्/ बीजानि अतिधनयुक्ताः फलमूलैः ये च वर्तन्ते ॥ ॥ १५।१८अब्/ आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः । १५।१८य्द्/ सेतुकरवारिजीवकफलकुसुमानि अंबुजातानि ॥ ॥ १५।१९अब्/ विश्वेश्वरे महामात्रमल्लकरितुरगदेवतासक्ताः (भक्ताः) । १५।१९य्द्/ स्थावरयोधा भोगान्विताश्च ये तेजसा (चौजसा) युक्ताः ॥ ॥ १५।२०अब्/ श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः । १५।२०य्द्/ उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥ ॥ १५।२१अब्/ वसुभे मानोन्मुक्ताः क्लीबा (क्लीबाः) चलसौहृदाः स्त्रियां द्वेष्याः (द्वष्याः, द्वेष्याः) । १५।२१य्द्/ दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥ ॥ १५।२२अब्/ वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः । १५।२२य्द्/ सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥ ॥ १५।२३अब्/ आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः । १५।२३य्द्/ धर्मव्रतैः विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥ ॥ १५।२४अब्/ आहिर्बुध्न्ये (आहिर्बुध्न्यु) विप्राः क्रतुदानतपोयुता महाविभवाः । १५।२४य्द्/ आश्रमिणः पाखण्डा (पाषण्डा) नरेश्वराः सारधान्यं च ॥ ॥ १५।२५अब्/ पौष्णे सलिलजफलकुसुमलवणमणिशंखमौक्तिकाब्जानि । १५।२५य्द्/ सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥ ॥ १५।२६अब्/ अश्विन्यामश्वहराः सेनापतिवैद्यसेवकाः तुरगाः । १५।२६य्द्/ तुरगारोहा वणिजो (तुरगारोहाश्च वनिग्) रूपोपेताः तुरगरक्षाः ॥ ॥ १५।२७अब्/ याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः । १५।२७य्द्/ तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥ ॥ १५।२८अब्/ पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । १५।२८य्द्/ सपौष्णमैत्रं पितृदैवतं च प्रजापतेः भं च कृषीवलानाम् ॥ ॥ १५।२९अब्/ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति तानि (भानि) । १५।२९य्द्/ मूलत्रिनेत्रानिलवारुणानि भानि उग्रजातेः प्रभविष्णुतायाः (तायां) ॥ ॥ १५।३०अब्/ सौम्येन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि । १५।३०य्द्/ सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेः अभिनिर्दिशन्ति (इति निर्दशन्ति) ॥ ॥ १५।३१अब्/ रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम् । १५।३१य्द्/ ग्रहणगतमथौल्कया हतं नियतमुषाकरपीडितं च यत् ॥ ॥ १५।३२अब्/ तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा । १५।३२य्द्/ निगदितपरिवर्गदूषणं कथितविपर्ययगं समुऋद्धये ॥ ॥ sएपरते अध्याय १६ ग्रहभक्तियोगाध्यायः १६।१अब्/ प्रान् नर्मदार्धशोणौड्रवंगसुह्माः कलिंगबाह्लीकाः । १६।१य्द्/ शकयवनमाधशबरप्राग्ज्योतिषचीनकांबोजाः ॥ ॥ १६।२अब्/ मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च । १६।२य्द्/ द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः ॥ ॥ १६।३अब्/ चंपौदुंबरकौशांबिचेदिविन्ध्याटवीकलिंगाश्च । १६।३य्द्/ पुण्ड्रा गोलांगूलश्रीपर्वतवर्धमानानि (मानाश्च) ॥ ॥ १६।४अब्/ इक्षुमतीत्यथ तस्करपारतकान्तारगोबीजानाम् । १६।४य्द्/ तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥ ॥ १६।५अब्/ भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् । १६।५य्द्/ व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी ॥ ॥ १६।६अब्/ गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः (खाराः) । १६।६य्द्/ वनवासितंगणहलस्त्रीराज्यमहार्णवद्वीपाः ॥ ॥ १६।७अब्/ मधुररसकुसुमफलसलिललवणमणिशंखमौक्तिकाब्जानाम् । १६।७य्द्/ शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥ ॥ १६।८अब्/ सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् । १६।८य्द्/ श‍ृंगिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥ ॥ १६।९अब्/ शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः । १६।९य्द्/ निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥ ॥ १६।१०अब्/ मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः । १६।१०य्द्/ उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥ ॥ १६।११अब्/ द्रविडविदेहान्ध्राश्मकभासापर (पुर) कौंकणाः समन्त्रिषिकाः । १६।११य्द्/ कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसंकरिणः (संकरजाः) ॥ ॥ ( नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः । ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥) १६।१२अब्/ नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानां (वार्त्तानां) । १६।१२य्द्/ आटविकदुर्गकर्वटवधिक (वधक) नृशंसावलिप्तानाम् ॥ ॥ १६।१३अब्/ नरपतिकुमारकुञ्जरदांभिकडिंभाभिघातपशुपानाम् । १६।१३य्द्/ रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥ ॥ १६।१४अब्/ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् । १६।१४य्द्/ शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥ ॥ १६।१५अब्/ लोहित्यः सिन्धुनदः सरयूर्गांभीरिका रथाख्या च । १६।१५य्द्/ गंगाकौशिक्याद्याः सरितो वैदेहकांबोजाः ॥ ॥ १६।१६अब्/ मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः । १६।१६य्द्/ सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥ ॥ १६।१७अब्/ उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः । १६।१७य्द्/ आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥ ॥ १६।१८अब्/ चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः । १६।१८य्द्/ दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजाजज्ञाः ॥ ॥ १६।१९अब्/ आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि । १६।१९य्द्/ व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥ ॥ १६।२०अब्/ सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः । १६।२०य्द्/ स्रुघ्नौदीच्य (नोदीच्य) विपाशासरित्शतद्रू रमठशाल्वाः (साल्वाः) ॥ ॥ १६।२१अब्/ त्रैगर्तपौरवांब (बांब) ष्ठपारता वाटधानयौधेयाः । १६।२१य्द्/ सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥ ॥ १६।२२अब्/ हस्त्यश्वपुरोहितभूपमन्त्रिमांगल्यपौष्टिकासक्ताः । १६।२२य्द्/ कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥ ॥ १६।२३अब्/ पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः । १६।२३य्द्/ मनुजेश्वरोपकरणम् छत्रध्वजचामराद्यं च ॥ ॥ १६।२४अब्/ शैलेयकु (क) ष्ठमांसीतगरसरसेन्धवानि वल्लीजम् । १६।२४य्द्/ मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥ ॥ १६।२५अब्/ तक्षशिलमर्तिकावत (मार्तिकावत) बहुगिरिगान्धारपुष्कलावतकाः । १६।२५य्द्/ प्रस्थलमालवकैकयदाशार्णौशीनराः शिबयः ॥ ॥ १६।२६अब्/ ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च । १६।२६य्द्/ रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥ ॥ १६।२७अब्/ सुरभिकुसुमानुलेपनमणिवज्रविभूषणांबुरुहशय्याः । १६।२७य्द्/ वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥ ॥ १६।२८अब्/ उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः । १६।२८य्द्/ विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजाः त्रिफलाः ॥ ॥ १६।२९अब्/ कौशेयपट्टकंबलपत्रौर्णिकरोध्रपत्रचोचानि । १६।२९य्द्/ जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥ ॥ १६।३०अब्/ आनर्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः । १६।३०य्द्/ नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः । १६।३१अब्/ कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः । १६।३१य्द्/ खलमलिननीचतैलिकविहीनसत्त्वौपहतपुंस्त्वाः ॥ ॥ १६।३२अब्/ बान्धन (बन्धन) शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः । १६।३२य्द्/ गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः । १६।३३अब्/ कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः । १६।३३य्द्/ खरकरभचणकवातल (वातुल) निष्पावाश्चार्कपुत्रस्य ॥ ॥ १६।३४अब्/ गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः । १६।३४य्द्/ गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलांगाः । १६।३५अब्/ कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च । १६।३५य्द्/ खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया (भाशया) नीचाः ॥ ॥ १६।३६अब्/ उपहतदांभिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे । १६।३६य्द्/ धर्मेण च संत्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥ ॥ १६।३७अब्/ गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः । १६।३७य्द्/ प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ॥ ॥ १६।३८अब्/ परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः । १६।३८य्द्/ मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥ ॥ १६।३९अ उदयसमये यः स्निग्धांशुः महान् प्रकृतिस्थितो १६।३९ब् यदि च न हतो निर्घातौल्कारजोग्रहमर्दनैः । १६।३९य् स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः । १६।३९द् स भवति शिवः तेषां येषां प्रभुः परिकीर्तितः ॥ ॥ १६।४०अब्/ अभिहितविपरीतलक्षणे (लक्षनैः) क्षयमुपगच्छति तत्परिग्रहः । १६।४०य्द्/ डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥ ॥ १६।४१अब्/ यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा । १६।४१य्द्/ भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥ ॥ sएपरते अध्याय १७ ग्रहयुद्धाध्यायः । १७।१अब्/ युद्धं यथा यदा वा भविष्यं (भविष्यद्) आदिश्यते त्रिकालज्ञैः । १७।१य्द्/ तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्ते (सिद्धान्तात्) ॥ ॥ १७।२अब्/ वियति चरतां ग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम् । १७।२य्द्/ अतिदूराद् दृग्विषये समतामिव सम्प्रयातानाम् ॥ ॥ १७।३अब्/ आसन्नक्रमयोगाद् भेदौल्लेखांशुमर्दनासव्यैः (सव्यः) । १७।३य्द्/ युद्धं चतुष्प्रकारं पराशराद्यैः मुनिभिरुक्तम् ॥ ॥ १७।४अब्/ भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च । १७।४य्द्/ उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥ ॥ १७।५अब्/ अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः । १७।५य्द्/ युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥ ॥ १७।६अब्/ रविः आक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी । १७।६य्द्/ पौरा बुधगुरुरविजा नित्यं शीतांशुः आक्रन्दः (आक्रन्द्रः) ॥ ॥ १७।७अब्/ केतुकुजराहुशुक्रा यायिन एते हता घ्नन्ति (ग्रहा हन्युः) । १७।७य्द्/ आक्रन्दयायिपौरान् जयिनो जयदाः (जयदा) स्ववर्गस्य ॥ ॥ १७।८अब्/ पौरे पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति । १७।८य्द्/ एवं याय्याक्रन्दा (याय्याक्रन्दौ) नागरयायिग्रहाश्चैव ॥ ॥ १७।९अब्/ दक्षिणदिक्स्थः परुषो वेपथुः अप्राप्य सन्निवृत्तोऽणुः । १७।९य्द्/ अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥ ॥ १७।१०अब्/ उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्देश्यः (विनिर्दिष्टः) । १७।१०य्द्/ विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥ ॥ १७।११अब्/ द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः । १७।११य्द्/ तत्र अन्योन्यं प्रीतिः (अन्योन्यप्रीतिः) विपरीतावात्मपक्षघ्नौ ॥ ॥ १७।१२अब्/ युद्धं समागमो वा यद्यव्यक्तौ स्वलक्षणैः (तु लक्षणैः) भवतः । १७।१२य्द्/ भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥ ॥ १७।१३अब्/ गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च (अग्निवार्त्ताश्च) । १७।१३य्द्/ शशिजेन शूरसेनाः कलिंगशाल्वाः (साल्वाः) च पीड्यन्ते ॥ ॥ १७।१४अब्/ सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति । १७।१४य्द्/ कोष्ठागार (कोष्ठागार) म्लेच्छक्षत्रियतापश्च शुक्रजिते ॥ ॥ १७।१५अब्/ भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः । १७।१५य्द्/ उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति ॥ ॥ १७।१६अब्/ गुरुणा जिते बुधे (बुधे जिते) म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः । १७।१६य्द्/ त्रैगर्तपार्वतीयाः पीड्यन्ते कंपते च मही ॥ ॥ १७।१७अब्/ रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः । १७।१७य्द्/ भृगुणा जितेऽग्निकोपः सस्यांबुदयायिविध्वंसः ॥ ॥ १७।१८अब्/ जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः । १७।१८य्द्/ शाल्वा (साल्वा) वत्सा वंगा गावः सस्यानि पीड्यन्ते (नश्यन्ति) ॥ ॥ १७।१९अब्/ भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः । १७।१९य्द्/ सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ॥ ॥ १७।२०अब्/ शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः । १७।२०य्द्/ उपयान्ति मध्यदेशश्च संक्षयं यग भक्तिफलम् ॥ ॥ १७।२१अब्/ शुक्रे बृहस्पतिजिते (हते) यायी श्रेष्ठो विनाशमुपयाति । १७।२१य्द्/ ब्रह्मक्षत्रविरोधः सलिलं च न वासवः त्यजति ॥ ॥ १७।२२अब्/ कोशलकलिंगवंगा वत्सा मत्स्याश्च मध्यदेशयुताः । १७।२२य्द्/ महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥ ॥ १७।२३अब्/ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः । १७।२३य्द्/ सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥ ॥ १७।२४अब्/ रविजेन सिते विजिते गुणमुख्याः (गणमुख्याः) शस्त्रजीविनः क्षत्रम् । १७।२४य्द्/ जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥ ॥ १७।२५अब्/ असिते सितेन निहतेऽर्घवृद्धिः अहिविहगमानिनां पीडा । १७।२५य्द्/ क्षितिजेन तंगणान्ध्रौड्रकाशिबाह्लीकदेशानाम् ॥ ॥ १७।२६अब्/ सौम्येन पराभूते मन्दे अंगवणिग्विहंगपशुनागाः । १७।२६य्द्/ सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ॥ ॥ १७।२७अब्/ अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् । १७।२७य्द्/ फलं तु वाच्यं ग्रहभक्तितो ऽन्यद् यथा तथा घ्नन्ति हताः स्वभक्तीः ॥ ॥ sएपरते अध्याय १८ शशिग्रहसमागमाध्यायः १८।१अब्/ भानां यथासंभवमुत्तरेण यातो ग्रहाणां यदि वा शशांकः । १८।१य्द्/ प्रदक्षिणं तत्शुभदं नृपाणां (शुभकृन्नराणां) याम्येन यातो न शिवः शशांकः ॥ ॥ १८।२अब्/ चन्द्रमा यदि कुजस्य यात्युदक् पार्वतीयबलशालिनां जयः । १८।२य्द्/ क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥ ॥ १८।३अब्/ उत्तरतः स्वसुतस्य शशंकः पौरजयाय सुभिक्षकरश्च । १८।३य्द्/ सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ॥ ॥ १८।४अब्/ बृहस्पतेरुत्तरगे शशांके पौरद्विजक्षत्रियपण्डितानाम् । १८।४य्द्/ धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥ ॥ १८।५अब्/ भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः । १८।५य्द्/ यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा ॥ ॥ १८।६अब्/ रविजस्य शशी प्रदक्षिणं कुर्यागेत् पुरभूभृतां जयः । १८।६य्द्/ शकबाह्लिकसिन्धुपह्लवा मुदभाजो (मुद्भाजो) यवनैः समन्विताः ॥ ॥ १८।७अब्/ येषामुदग्गच्च्छति भग्रहाणां प्रालेयरश्मिः निरुपद्रवश्च । १८।७य्द्/ तद्द्रव्यपौरैतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ॥ ॥ १८।८अ शशिनि फलमुदक्स्थे (उदकस्थे) यद् ग्रहस्यौपदिष्टं १८।८ब् भवति तदपसव्ये सर्वमेव प्रतीपम् । १८।८य् इति शशिसमवायाः कीर्तिता (कीर्त्तिता) भग्रहाणां १८।८द् न खलु भवति युद्धं साकमिन्दोः ग्रहर्क्षैः ॥ ॥ sएपरते अध्याय १९ ग्रहवर्षफलाध्यायः १९।१अ सर्वत्र भूः विरलसस्ययुता वनानि १९।१ब् दैवाद् बिभक्षयिषुदंष्ट्रिसमावृतानि । १९।१य् नद्यः (स्यन्दन्ति) च नैव हि (च) पयः प्रचुरं स्रवन्ति (स्रवन्त्यो) १९।१द् रुग्भेषजानि न तथातिबलान्वितानि ॥ ॥ १९।२अ तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले १९।२ब् नात्यंबुदा जलमुचोऽचलसन्निकाशाः । १९।२य् नष्टप्रभऋक्षगणशीतकरं नभश्च १९।२द् सीदन्ति तापसकुलानि सगोकुलानि ॥ ॥ १९।३अ हस्त्यश्वपत्तिमदसह्यबलैरुपेता १९।३ब् बाणासनासिमुशलातिशयाश्चरन्ति । १९।३य् घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् १९।३द् संवत्सरे दिनकरस्य दिनेऽथ मासे ॥ ॥ १९।४अ व्याप्तं नभः प्रचलिताचलसन्निकाशैः १९।४ब् व्यालाञ्जनालिगवलच्छविभिः पयोदैः । १९।४य् गां पूरयद्भिः अखिलाममलाभिः अद्भिः १९।४द् उत्कण्ठितेन (उत्कण्ठकेन) गुरुणा ध्वनितेन चाशाः ॥ ॥ १९।५अ तोयानि पद्मकुमुदौत्पलवन्त्यतीव १९।५ब् फुल्लद्रुमाणि उपवनानि अलिनादितानि । १९।५य् गावः प्रभूतपयसो नयनाभिरामा १९।५द् रामा रतैः अविरतं रमयन्ति रामान् ॥ ॥ १९।६अ गोधूमशालियवधान्यवरैक्षुवाटा १९।६ब् भूः पाल्यते नृपतिभिः नगराकराड्या । १९।६य् चित्यंकिता क्रतुवरेष्टिविघुष्टनादा १९।६द् संवत्सरे शिशिरगोरभिसम्प्रवृत्ते ॥ ॥ १९।७अ वातोद्धतश्चरति वह्निरतिप्रचण्डो १९।७ब् ग्रामान् वनानि नगराणि च सन्दिधक्षुः । १९।७य् हाहा इति दस्युगणपातहता रटन्ति १९।७द् निःस्वीकृता विपशवो भुवि मर्त्यसंघाः ॥ ॥ १९।८अ अभ्युन्नता वियति संहतमूर्तयोऽपि १९।८ब् मुंचन्ति कुत्रचिद् (न क्वचिद्) अपः प्रचुरं पयोदाः । १९।८य् सीम्नि प्रजातमपि शोषमुपैति सस्यं १९।८द् निष्पन्नमपि अविनयादपरे हरन्ति ॥ ॥ १९।९अ भूपा न सम्यगभिपालनसक्तचित्ताः १९।९ब् पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः । १९।९य् एवंविधैरुपहृता (उपहता) भवति प्रजा इयं १९।९द् संवत्सरेऽवनिसुतस्य विपन्नसस्या ॥ ॥ १९।१०अ माया इन्द्रजालकुहकाकरनागराणां १९।१०ब् गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः । १९।१०य् पिप्रीषया नृपतयोऽद्भुतदर्शनानि १९।१०द् दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥ ॥ १९।११अ वार्ता (वार्त्ता) जगत्यवितथा विकला त्रयी च १९।११ब् सम्यक् चरत्यपि मनोः इव दण्डनीतिः । १९।११य् अध्यक्षर (अध्यक्षरं) स्वभिनिविष्टधियोऽपि (अत्र) केचिद् १९।११द् आन्वीक्षिकीषु च परं पदमीहमानाः ॥ ॥ १९।१२अ हास्यज्ञदूतकविबालनपुंसकानां १९।१२ब् युक्तिज्ञसेतुजलपर्वतवासिनां च । १९।१२य् हार्दिं करोति मृगलांछनजः स्वकेऽब्दे १९।१२द् मासेऽथवा प्रचुरता (प्रचुरतां) भुवि चाउषधीनाम् ॥ ॥ १९।१३अ ध्वनिरुच्चरितोऽध्वरे द्युगामी १९।१३ब् विपुलो यज्ञमुषां मनांसि भिन्दन् । १९।१३य् विचरत्यनिशं द्विजोत्तमानां १९।१३द् हृदयानन्दकरोऽध्वरांशभाजाम् ॥ ॥ १९।१४अब्/ क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या । १९।१४य्द्/ क्षितिपैः अभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति ॥ ॥ १९।१५अब्/ विविधैः वियदुन्नतैः पयोदैः वृतमुर्वीं पयसाभितर्पयद्भिः । १९।१५य्द्/ सुरराजगुरोः शुभे तु (अत्र) वर्षे बहुसस्या क्षितिरुत्तमऋद्धियुक्ता ॥ ॥ १९।१६अ शालीक्षुमत्यपि धरा धरणीधराभ १९।१६ब् धाराधरौज्झितपयःपरिपूर्णवप्रा । १९।१६य् श्रीमत्सरोरुहततांबुतडागकीर्णा १९।१६द् योषा इव भात्यभिनवाभरणौज्ज्वलांगी । १९।१७अ क्षत्रं क्षितौ क्षपितभूरिबलारिपक्षम् १९।१७ब् उद्घुष्टनैकजयशब्दविराविताशम् । १९।१७य् संहृष्टशिष्टजनदुष्टविनष्टवर्गां १९।१७द् गां पालयन्त्यवनिपा नगराकराढ्याम् ॥ ॥ १९।१८अ पेपीयते मधु मधौ सह कामिनीभिः १९।१८ब् जेगीयते श्रवणहारि सवेणुवीणम् । १९।१८य् बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्नम् १९।१८द् अब्दे सितस्य मदनस्य जयावघोषह् ॥ ॥ १९।१९अ उद्वृत्तदस्युगणभूरिरणाकुलानि १९।१९ब् राष्ट्राणि अनेकपशुवित्तविनाकृतानि । १९।१९य् रोरूयमाणहतबन्धुजनैः जनैश्च १९।१९द् रोगौत्तमाकुलकुलानि बुभुक्षया च ॥ ॥ १९।२०अ वातोद्धतांबुधरवर्जितमन्तरिक्षम् १९।२०ब् आरुग्णनैकविटपं च धरातलं द्यौः । १९।२०य् नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा १९।२०द् तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥ ॥ १९।२१अ जातानि कुत्रचिदतोयतया विनाशम् १९।२१ब् ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि । १९।२१य् सस्यानि मन्दमभिवर्षति वृत्रशत्रुः (शत्रौ) १९।२१द् वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥ ॥ १९।२२अ अणुः अपटुमयूखो नीचगोऽन्यैः जितो वा १९।२२ब् न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः । १९।२२य् यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः १९।२२द् शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥ ॥ sएपरते अध्याय २० ग्रहश‍ृंगाटकाध्यायः २०।१अब्/ यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे । २०।१य्द्/ भवति भयं दिशि तस्यामायुधकोपक्षुधातंकैः ॥ ॥ २०।२अब्/ चक्रधनुःश‍ृंगाटकदण्डपुरप्रासवज्रसंस्थानाः । २०।२य्द्/ क्षुद् (क्षुद) वृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥ ॥ २०।३अब्/ यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते । २०।३य्द्/ तत्रऽन्यो भवति नृपः परचक्रौपद्रवश्च महान् ॥ ॥ २०।४अब्/ तस्मिन् (यस्मिन्) ऋक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः । २०।४य्द्/ अविभेदिनः (अविभेदनाः) परस्परममलमयूखाः शिवाः तेषाम् ॥ ॥ २०।५अब्/ ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः । २०।५य्द्/ कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलं ॥ ॥ २०।६अब्/ एकर्क्षे चत्वारः सह पौरैः यायिनोऽथवा पंच । २०।६य्द्/ संवर्तो नाम भवेत्शिखिराहुयुतः स सम्मोहः ॥ ॥ २०।७अब्/ पौरः पौरसमेतो यायी सह यायिना समाजाख्यः । २०।७य्द्/ यमजीवसंगमेऽन्यो यद्यागच्छेत् तदा कोशः ॥ ॥ २०।८अब्/ उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः । २०।८य्द्/ अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥ ॥ २०।९अब्/ समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् । २०।९य्द्/ समाजसंज्ञो सुसमा प्रदिष्टा (समाज्ञः सुसमः प्रदिष्टो) वैरप्रकोपः खलु सन्निपाते ॥ ॥ sएपरते अध्याय २१ गर्भलक्षणाध्यायः २१।१अब्/ अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम् । २१।१य्द्/ यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥ ॥ २१।२अब्/ तल्लक्षणानि मुनिभिः यानि निबद्धानि तानि दृष्ट्वा इदम् । २१।२य्द्/ क्रियते गर्गपराशरकाश्यपवज्रादि (वात्स्यादि) रचितानि ॥ ॥ २१।३अब्/ दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति । २१।३य्द्/ तस्य मुनेः इव वाणी न भवति मिथ्यांबुनिर्देशे ॥ ॥ २१।४अब्/ किं वातः परमन्यत्शास्त्रज्यायो (शास्त्रं ज्यायो) ऽस्ति यद् विदित्वा एव । २१।४य्द्/ प्रध्वंसिनि अपि काले त्रिकालदर्शी कलौ भवति ॥ ॥ २१।५अब्/ केचिद् वदन्ति कार्तिक (कार्त्तिक) शुक्लान्तमतीत्य गर्भदिवसाः स्युः । २१।५य्द्/ न च (तु) तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥ ॥ २१।६अब्/ मार्गशिरःसित (मार्गशिरशुक्ल) पक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । २१।६य्द्/ पूर्वां वा समुपगते गर्भाणां लक्षणम् ज्ञेयम् ॥ ॥ २१।७अब्/ यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् । २१।७य्द्/ पंचनवते दिनशते तत्रैव प्रसवमायाति ॥ ॥ २१।८अब्/ सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसंभवा रात्रौ । २१।८य्द्/ नक्तंप्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥ ॥ २१।९अब्/ मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च । २१।९य्द्/ पौषस्य कृष्णपक्षेण निर्दिशेत्श्रावणस्य सितम् ॥ ॥ २१।१०अब्/ माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । २१।१०य्द्/ माघस्य कृष्णपक्षेण निर्दिशेद् भाद्रपदशुक्लम् ॥ ॥ २१।११अब्/ फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः । २१।११य्द्/ तस्यैव कृष्णपक्षोद्भवाः तु ये तेऽश्वयुक्षुक्ले ॥ ॥ २१।१२अब्/ चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः । २१।१२य्द्/ चैत्रासितसंभूताः कार्तिकशुक्ले (कार्त्तिकशुक्ले) ऽभिवर्षन्ति ॥ ॥ २१।१३अब्/ पूर्वोद्भूताः पश्चादपरोत्थाः प्राग् भवन्ति जीमूताः । २१।१३य्द्/ शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥ ॥ २१।१४अब्/ ह्लादिमृदूदक्षिवशक्रदिग्भवो मारुतो वियद्विमलम् । २१।१४य्द्/ स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयखार्कौ (मयूखार्कौ) ॥ ॥ २१।१५अब्/ पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । २१।१५य्द्/ काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥ ॥ २१।१६अब्/ सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका (सूर्यकाः) शुभा सन्ध्या । २१।१६य्द्/ शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसंघाः ॥ ॥ २१।१७अब्/ विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः । २१।१७य्द्/ तरवश्च निरुपसृष्टांकुरा नरचतुष्पदा हृष्टाः ॥ ॥ २१।१८अब्/ गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः । २१।१८य्द्/ स्वर्तुस्वभावजनितो गर्भविवृद्ध्यै (विवृद्धौ) तमभिधास्ये ॥ ॥ २१।१९अब्/ पौषे समार्गशीर्षे सन्ध्यारागोऽंबुदाः सपरिवेषाः । २१।१९य्द्/ नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥ ॥ २१।२०अब्/ माघे प्रबलो वायुः तुषारकलुषद्युती रविशशांकौ । २१।२०य्द्/ अतिशीतं सघनस्य च भानोः अस्तोदयौ धन्यौ ॥ ॥ २१।२१अब्/ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः । २१।२१य्द्/ परिवेषाश्चासकलाः कपिलः ताम्रो रविश्च शुभः ॥ ॥ २१।२२अब्/ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । २१।२२य्द्/ घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥ ॥ २१।२३अब्/ मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः । २१।२३य्द्/ जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः ॥ ॥ २१।२४अब्/ तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः । २१।२४य्द्/ रुषिता इव धाराभिः विसृजन्त्यंभः प्रस्वकाले ॥ ॥ २१।२५अब्/ गर्भौपघातलिंगानि उल्काशनिपांशुपातदिग्दाहः । २१।२५य्द्/ क्षितिकंपखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥ ॥ २१।२६अब्/ रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः । २१।२६य्द्/ इत्युत्पातैः एतैः त्रिविधैश्चान्यैः हतो गर्भः ॥ ॥ २१।२७अब्/ स्वर्तुस्वभावजनितैः सामान्यैः यैश्च लक्षणैः वृद्धिः । २१।२७य्द्/ गर्भाणाम् विपरीतैः तैः एव विपर्ययो भवति ॥ ॥ २१।२८अब्/ भद्रपदाद्वयविश्वांबुदेव (दैव) पैतामहेष्वथ ऋक्षेषु । २१।२८य्द्/ सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ॥ ॥ २१।२९अब्/ शतभिषगाश्लेषार्द्रास्वातिमघासंयुतः शुभो गर्भः । २१।२९य्द्/ पुष्णाति बहून् दिवसान् हन्त्युत्पातैः हतः त्रिविधैः ॥ ॥ २१।३०अब्/ मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता । २१।३०य्द्/ विंशतिः अथ दिवसत्रयमेकतमऋक्षेण पंचभ्यः ॥ ॥ २१।३१अब्(२१।३५अब्)/ पंचनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः । २१।३१य्द्(२१।३५य्द्)/ वर्षति पंचनिमित्ताद् (पंचसमन्ताद्) रूपेणैकेन यो गर्भः ॥ ॥ २१।३२अब्(२१।३६अब्)/ द्रोणः पंचनिमित्ते गर्भे त्रीणि आढकानि पवनेन । २१।३२य्द्(२१।३६य्द्)/ षड् विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे ॥ ॥ २१।३३अब्/ क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः । २१।३३य्द्/ शशिनि रवौ वा शुभसंयुतईक्षिते भूरिवृष्टिकराः ॥ ॥ २१।३४अब्/ ग्रभसमयेऽतिवृष्टिः गर्भाभावाय निर्निमित्तकृता । २१।३४य्द्/ द्रोणाष्टांशेऽभ्यधिके वृष्टे गर्भः स्रुतो भवति ॥ ॥ २१।३५अब्/ गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिः यदि न वृष्टः । २१।३५य्द्/ आत्मीयगर्भसमये करकामिश्रं ददात्यंभः ॥ ॥ २१।३६अब्/ काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः । २१।३६य्द्/ कालातीतं तद्वत् सलिलं काठिन्यमुपयाति ॥ ॥ २१।३७अ पवनसलिलविद्युद्गर्जिता अभ्रान्वितो यः २१।३७ब् स भवति बहुतोयः पंचरूपाभ्युपेतः । २१।३७य् विसृजति यदि तोयं गर्भकालेऽतिभूरि २१।३७द् प्रसवसमयमित्वा शीकरांभः करोति ॥ ॥ sएपरते अध्याय २२ गर्भधारणाध्यायः २२।१अब्/ ज्यैष्ठसितेऽष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः । २२।१य्द्/ मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥ ॥ २२।२अब्/ तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्मासाः । २२।२य्द्/ श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणाः ताः स्युः । २२।३अब्/ यदि ता स्युः एकरूपाः शुभाः ततः सान्तराः तु न शिवाय । २२।३य्द्/ तस्करभयदाश्चौक्ताः (प्रोक्ताः) श्लोकाश्चाप्यत्र वासिष्ठाः ॥ ॥ २२।४अब्/ सविद्युतः सपृषतः सपांशूत्करमारुताः । २२।४य्द्/ सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥ ॥ २२।५अब्/ यदा तु विद्युतः श्रेष्ठाः शुभाशाः (शुभाशा) प्रत्युपस्थिताः । २२।५य्द्/ तदापि सर्वसस्यानां वृद्धिं ब्रूयाद् विचक्षणः ॥ ॥ २२।६अब्/ सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि । २२।६य्द्/ पक्षिणाम् सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥ ॥ २२।७अब्/ रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः । २२।७य्द्/ वृष्टिः तदापि विज्ञेया सर्वसस्यार्थसाधिका (अभिवृद्धये) ॥ ॥ २२।८अब्/ मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः । २२।८य्द्/ तदा स्यान् महती वृष्टिः सर्वसस्याभिवृद्धये (अर्थसाधिका) ॥ ॥ sएपरते अध्याय २३ प्रवर्षणाध्यायः २३।१अब्/ ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन । २३।१य्द्/ शुभमशुभं वा वाच्यं परिमाणं चांभसः तज्ञैः ॥ ॥ २३।२अब्/ हस्तविशालं कुण्डकमधिकृत्यांबुप्रमाणनिर्देशः । २३।२य्द्/ पंचाशत् पलमाढकमनेन मिनुयाज्जलं पतितम् ॥ ॥ २३।३अब्/ येन धरित्री मुद्रा जनिता वा बिन्दवः त्र्णाग्रेषु । २३।३य्द्/ वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥ ॥ २३।४अब्/ केचिद् यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये । २३।४य्द्/ गर्गवसिष्ठपराशरमतमेतद् द्वादशान् न परम् ॥ ॥ २३।५अब्/ येषु च भेष्वभिवृष्टं भूयः तेष्वेव वर्षति प्रायः । २३।५य्द्/ यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥ ॥ २३।६अब्/ हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः । २३।६य्द्/ शतभिषगेन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥ ॥ २३।७अब्/ श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः । २३।७य्द्/ फल्गुन्यां पंचकृतिः पुनर्वसौ विंशतिः द्रोणाः ॥ ॥ २३।८अब्/ एन्द्राग्न्याख्ये (एन्द्राग्नाख्ये) वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः । २३।८य्द्/ आहिर्बुध्न्यार्यम्णप्रजापत्येषु पंचकृतिः । २३।९अब्/ पंचदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च । २३।९य्द्/ रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते (एषु) ॥ ॥ २३।१०अब्/ रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद् भूताहते च । २३।१०य्द्/ भवति च (हि) न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥ ॥ sएपरते अध्याय २४ रोहिणीयोगाध्यायः २४।१अब्/ कनकशिलाचयविवरजतरुकुसुमासंगिमधुकरानुरुते । २४।१य्द्/ बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनोपवने ॥ ॥ २४।२अब्/ सुरनिलयशिखरिशिखरे बृहस्पतिः नारदाय यान् आह । २४।२य्द्/ गर्गपराशरकाश्यपमयाश्च यान् शिष्यसंघेभ्यः ॥ ॥ २४।३अब्/ तान् अवलोक्य यथावत् प्राजापत्येन्दुसम्प्रयोगार्थान् । २४।३य्द्/ अल्प (स्वल्प) ग्रन्थेनाहं तान् एवाभ्युद्यतो वक्तुम् ॥ ॥ २४।४अब्/ प्राजेशमाषाढतमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य । २४।४य्द्/ वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन ॥ ॥ २४।५अब्/ योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः । २४।५य्द्/ चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं निगद्यं (निगाद्यं) ॥ ॥ २४।६अ पुरादुदग् यत् (यत्) पुरतोऽपि वा स्थलं २४।६ब् त्र्यहोषितः तत्र हुताशतत्परः । २४।६य् ग्रहान् सनक्षत्रगणान् समालिखेत् २४।६द् सधूपपुष्पैः बलिभिश्च पूजयेत् ॥ ॥ २४।७अ सरत्नतोयौषधिभिश्चतुर्दिशं २४।७ब् तरुप्रवालापिहितैः सुपूजितैः । २४।७य् अकालमूलैः कलशैः अलंकृतं २४।७द् कुशास्तृतं स्थण्डिलमावसेद् द्विजः ॥ ॥ २४।८अ आलभ्य मन्त्रेण महाव्रतेन २४।८ब् बीजानि सर्वाणि निधाय कुंभे । २४।८य् प्लाव्यानि चामीकरदर्भतोयैः २४।८द् होमो मरुद्वारुणसोम (सोम्य) मन्त्रैः ॥ ॥ २४।९अ श्लक्ष्णां पताकामसितां विदध्याद् २४।९ब् दण्डप्रमाणां त्रिगुणोच्छ्रितां च । २४।९य् आदौ कृते दिग्ग्रहणे नभस्वान् २४।९द् ग्राह्यः तया योगगते शशांके ॥ ॥ २४।१०अ तत्रार्धमासाः प्रहरैः विकल्प्या २४।१०ब् वर्षानिमित्तं दिवसाः तदंशैः । २४।१०य् सव्येन गच्छन् शुभदः सदैव २४।१०द् यस्मिन् प्रतिष्ठा बलवान् स वायुः ॥ ॥ २४।११अ वृत्ते तु योगे अंकुरितानि यानि २४।११ब् सन्तीह बीजानि धृतानि कुंभे । २४।११य् येषां तु योऽंशो अंकुरितः तदंशः २४।११द् तेषां विवृद्धिं समुपैति नान्यः ॥ ॥ २४।१२अब्/ शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितोऽनिलः । २४।१२य्द्/ शस्यते शशिनि रोहिणीगते (रोहिणीयते) मेघमारुतफलानि वच्म्यतः ॥ ॥ २४।१३अ क्वचिदसितसितैः सितैः क्वचिग २४।१३ब् क्वचिदसितैः भुजगैः इवांबुवाहैः । २४।१३य् वलितजठरपृष्ठमात्रदृश्यैः २४।१३द् स्फुरिततडिद्रसनैर्वृतं विशालैः ॥ ॥ २४।१४अ विकसितकमलौदरावदातैः २४।१४ब् अरुणकरद्युतिरञ्जितौपकण्ठैः । २४।१४य् छुरितमिव वियद्घनैः विचित्रैः २४।१४द् मधुकरकुंकुमकिंशुकावदातैः ॥ ॥ २४।१५अ असितघननिरुद्धमेव वा २४।१५ब् चलिततडित्सुरचापचित्रितम् । २४।१५य् द्विपमहिषकुलाकुलीकृतं २४।१५द् वनमिव दावपरीतमंबरम् ॥ ॥ २४।१६अब्/ अथवाञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम् । २४।१६य्द्/ हिममौक्तिकशंखशशांककरद्युतिहारिभिः अंबुधरैः अथवा ॥ ॥ २४।१७अ तडिद्धैमकक्ष्यैः बलाकाग्रदन्तैः २४।१७ब् स्रवद्वारिदानैश्चलत्प्रान्तहस्तैः । २४।१७य् विचित्रेन्द्रचापध्वजौच्छ्रायशोभैः २४।१७द् तमालालिनीलैः वृतं चाब्दनागैः ॥ ॥ २४।१८अ सन्ध्यानुरक्ते नभसि स्थितानाम् २४।१८ब् इन्दीवरश्यामरुचां घनानाम् । २४।१८य् वृन्दानि पीतांबरवेष्टितस्य २४।१८द् कान्तिं हरेश्चोरयतां यदा वा ॥ ॥ २४।१९अ सशिखिचातकदर्दुरनिःस्वनैः २४।१९ब् यदि विमिश्रितमन्द्रपटुस्वनाः । २४।१९य् खमवतत्य दिगन्तविलंबिनः । २४।१९द् सलिलदाः सलिलौघमुचः क्षितौ ॥ ॥ २४।२०अ निगदितरूपैः जलधरजालैः २४।२०ब् त्र्यहमवरुद्धं द्व्यहमथवाहः । २४।२०य् यदि वियदेवं भवति सुभिक्षं २४।२०द् मुदितजना च प्रचुरजला भूः ॥ ॥ २४।२१अ रूक्षैः अल्पैः मारुताक्षिप्तदेहैः २४।२१ब् उष्ट्रध्वांक्षप्रेतशाखामृगाभैः । २४।२१य् अन्येषां वा निन्दितानां स्वरूपैः (सरूपैः) २४।२१द् मूकैश्चाब्दैः नो शिवं नापि वृष्टिः ॥ ॥ २४।२२अ विगतघने वा वियति विवस्वान् २४।२२ब् अमृदुमयूखः सलिलकृदेवम् । २४।२२य् सर इव फुल्लं निशि कुमुदाढ्यं २४।२२द् खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥ ॥ २४।२३अ पूर्वोद्भूतैः सस्यनिष्पत्तिः अब्दैः २४।२३ब् आग्नेयाशासंभवैः अग्निकोपः । २४।२३य् याम्ये सस्यं क्षीयते नैरृतेऽर्धं ( अर्घं अर्धं) २४।२३द् पश्चाज्जातैः शोभना वृष्टिः अब्दैः ॥ ॥ २४।२४अ वायव्योत्थैः वातवृष्टिः क्वचिग २४।२४ब् पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः । २४।२४य् श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैः २४।२४द् वायुश्चैवं दिक्षु धत्ते फलानि ॥ ॥ २४।२५अ उल्कानिपाताः तडितोऽशनिश्च २४।२५ब् दिग्दाहनिर्घातमहीप्रकंपाः । २४।२५य् नादा मृगाणां सपतत्रिणां च २४।२५द् ग्राह्या यथैव अंबुधराः तथैव ॥ ॥ २४।२६अ नामांकितैः तैरुदगादिकुंभैः २४।२६ब् प्रदक्षिणं श्रावणमासपूर्वैः २४।२६य् पूर्णैः स मासः सलिलस्य दाता २४।२६द् स्रुतैः (स्रुतः) अवृष्टिः परिकल्प्यमूनैः ॥ ॥ २४।२७अ अन्यैश्च कुंभैः नृपनामचिह्नैः २४।२७ब् देशांकितैश्चाप्यपरैः तथैव २४।२७य् भग्नैः स्रुतैः न्यूनजलैः सुपूर्णैः २४।२७द् भाग्यानि वाच्यानि यथानुरूपम् ॥ ॥ २४।२८अ दूरगो निकटगोऽथवा शशी २४।२८ब् दक्षिणे पथि यथा तथा स्थितः । २४।२८य् रोहिणीं यदि युनक्ति सर्वथा २४।२८द् कष्टमेव जगतो विनिर्दिशेत् ॥ ॥ २४।२९अ स्पृशन्न् उदग् याति यदा शशांकः २४।२९ब् तदा सुवृष्टिः बहुलौपसर्गा । २४।२९य् असंस्पृशन् योगमुदक्समेतः २४।२९द् करोति वृष्टिं विपुलां शिवं च ॥ ॥ २४।३०अ रोहिणीशकटमध्यसंस्थिते २४।३०ब् चन्द्रमस्यशरणीकृता जनाः । २४।३०य् क्वापि यान्ति शिशुयाचिताशनाः २४।३०द् सूर्यतप्तपिठरांबुपायिनः ॥ ॥ २४।३१अ उदितं यदि शीतदीधितिं २४।३१ब् प्रथमं पृष्ठत एति रोहिणी । २४।३१य् शुभमेव तदा स्मरातुराः २४।३१द् प्रमदाः कामवशेन (कामिवशे च) संस्थिताः ॥ ॥ २४।३२अ अनुगच्छति पृष्टतः शशी २४।३२ब् यदि कामी वनितामिव प्रियाम् । २४।३२य् मकरध्वजबाणखेदिताः २४।३२द् प्रमदानां वशगाः तदा नराः ॥ ॥ २४।३३अ आग्नेय्यां दिशि चन्द्रमा यदि भवेत् तत्रौपसर्गो महान् २४।३३ब् नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः । २४।३३य् प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्चयो २४।३३द् याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घवृष्ट्यादयः (वृद्ध्यादयः) ॥ ॥ २४।३४अब्/ ताडयेद् यदि च योगतारकामावृणोति वपुषा यदापि वा । २४।३४य्द्/ ताडने भयमुशन्ति दारुणं छादने नृपबधो (नृपवधो) अंगनाकृतः ॥ ॥ २४।३५अब्/ गोप्रवेशसमयेग्रतो वृषो याति कृष्णपशुः एव वा पुरः । २४।३५य्द्/ भूरि वारि शबले तु मध्यमं नो सितेऽंबुपरिकल्पनापरैः ॥ ॥ २४।३६अब्/ दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृते । २४।३६य्द्/ रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता ॥ ॥ sएपरते अध्याय २५ स्वातियोगाध्यायः २५।१अब्/ यद् रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे । २५।१य्द्/ आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशेषः तमहं प्रवक्ष्ये ॥ ॥ २५।२अ स्वातौ निशांशे प्रथमेऽभिवृष्टे २५।२ब् सस्यानि सर्वाणि उपयान्ति वृद्धिम् । २५।२य् भागे द्वितीये तिलमुद्गमाषा २५।२द् ग्रैष्मं तृतीयेऽस्ति न शारदानि ॥ ॥ २५।३अब्/ वृष्टेऽह्निभागे प्रथमे सुवृष्टिः तद्वद् द्वितीये तु सकीटसर्पा । २५।३य्द्/ वृष्टिः तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिः द्युनिशं प्रवृष्टे ॥ ॥ २५।४अब्/ सममुत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः । २५।४य्द्/ तस्यासन्ने चन्द्रे स्वातेः योगः शिवो भवति ॥ ॥ २५।५अ सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे २५।५ब् वायुः वा चण्डवेगः सजलजलधरो वापि गर्जत्यजस्रम् । २५।५य् विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं २५।५द् विज्ञेया प्रावृड् एषा मुदितजनपदा सर्वसस्यैरुपेता ॥ ॥ २५।६अब्/ तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा । २५।६य्द्/ स्वातियोगं विजानीयादाषाढे च विशेषतः ॥ ॥ sएपरते अध्याय २६ आषाढीयोगाध्यायः २६।१अ आषाढ्यां समतुलिताधिवासितानाम् २६।१ब् अन्येद्युः यदधिकतामुपैति बीजम् । २६।१य् तद्वृद्धिः भवति न जायते यदूनं २६।१द् मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय ॥ ॥ (मन्त्र) २६।२अब्/ स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती । २६।२य्द्/ दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि ॥ ॥ २६।३अब्/ येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणाः तथा । २६।३य्द्/ उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ॥ ॥ २६।४अब्/ यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु । २६।४य्द्/ यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम् ॥ ॥ २६।५अब्/ ब्रह्मणो दुहितासि त्वमादित्यैति प्रकीर्तिता । २६।५य्द्/ काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला ॥ ॥ २६।६अ क्षौमं चतुःसूत्रकसन्निबद्धं २६।६ब् षडंगुलं शिक्यकवस्त्रमस्याः । २६।६य् सूत्रप्रमाणम् च दशांगुलानि २६।६द् षड् एव कक्ष्यो (कक्षो) भयशिक्यमध्ये ॥ ॥ २६।७अ याम्ये शिक्ये कांचनं सन्निवेश्यं २६।७ब् शेषद्रव्याणि उत्तरेऽंबूनि चैव (चैवं) । २६।७य् तोयैः कौप्यैः सेन्धवैः (स्यन्दिभिः) सारसैश्च २६।७द् वृष्टिः (वर्।वृद्धिः) हीना मध्यमा चोत्तमा च ॥ ॥ २६।८अ दन्तैः नागा गोहयाद्याश्च लोम्ना २६।८ब् हेम्ना भूपाः शिक्थकेन द्विजाद्याः । २६।८य् तद्वद् देशा वर्षमासा दिशश्च २६।८द् शेषद्रव्याणि आत्मरूपस्थितानि ॥ ॥ २६।९अब्/ हैमी प्रधाना रजतेन मध्या तयोः अलाभे खदिरेण कार्या । २६।९य्द्/ विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद् वितस्तिः ॥ ॥ २६।१०अब्/ हीनस्य नाशोऽभ्यधिकस्य वृद्धिः तुल्येन तुल्यं तुलितं तुलायाम् । २६।१०य्द्/ एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥ ॥ २६।११अ स्वातावषाढास्वथ रोहिणीषु २६।११ब् पापग्रहा योगगता न शस्ताः । २६।११य् ग्राह्यं तु योगद्वयमपि उपोष्य २६।११द् यदाधिमासो द्विगुणीकरोति ॥ ॥ २६।१२अ त्रयोऽपि योगाः सदृशाः फलेन २६।१२ब् यदा तदा वाच्यमसंशयेन । २६।१२य् विपर्यये यत्त्विह रोहिणीजं २६।१२द् फलं तदेवाभ्यधिकं निगद्यम् ॥ ॥ २६।१३अब्/ निष्पत्तिः अग्निकोपो वृष्टिः मन्दाथ मध्यमा श्रेष्ठा । २६।१३य्द्/ बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ॥ ॥ २६।१४अब्/ वृत्तायामाषाढ्याम् कृष्णचतुर्थ्यामजैकपादर्क्षे । २६।१४य्द्/ यदि वर्षति पर्जन्यः प्रावृट् शस्ता न चेन् न ततः ॥ ॥ २६।१५अब्/ आषाढ्याम् पौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् । २६।१५य्द्/ अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा ॥ ॥ sएपरते अध्याय २७ वातचक्राध्यायः २७।१अब्/ आषाढपौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् । २७।१य्द्/ अस्तं गच्छति तीक्ष्णांशौ सस्य सम्पत्तिरुत्तमा ॥ ॥ २७।२अ पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश् २७।२ब् चन्द्रार्कांशुसटाकलापकलितो (सटाभिघातकलितो) वायुः यदाकाशतः । २७।२य् नैकान्तस्थितनीलमेघपटला (पटलां) शारद्यसंवर्धिता (संवर्धितां) २७।२द् वासन्तौत्कटसस्यमण्डिततला सर्वा मही शोभते (तलां विद्यात् तदा मेदिनीं) ॥ ॥ २७।३अ यदा वह्नौ (अग्नेयो) वायुः वहति गगने खण्डिततनुः (मलयशिखरास्फालनपटुः) २७।३ब् प्लवत्यस्मिन् योगे भगवति पतंगे प्रवसति । २७।३य् तदा नित्योद्दीप्ता ज्वलनशिखरालिंगिततला २७।३द् स्वगात्रौच्छ्वासैः (उष्मोच्छासैः) वमति वसुधा भस्मनिकरम् ॥ ॥ २७।४अ तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन् २७।४ब् योगेऽस्मिन् प्लवति ध्वनिः सपरुषो (ध्वनन्सुपरुषो) वायुः यदा दक्षिणः । २७।४य् तद्वद् योगसमुत्थितः तु (सर्वोद्योगसमुन्नताश्च) गजवत्तालांकुशैः घट्टिताः २७।४द् कीनाशा इव मन्दवारिकणिका (कणिकान्) मुंचन्ति मेघाः तदा ॥ ॥ २७।५अ सूक्ष्मैलालवलीलवंगनिचयान् व्याघूर्णयन् सागरे २७।५ब् भानोः अस्तमये प्लवत्यविरतो वायुः यदा नैरृतः २७।५य् क्षुत्तृष्णावृत (तृष्णामृत) मानुषास्थिशकलप्रस्तारभारच्छदा २७।५द् मत्ता प्रेतवधूरिवोग्रचपला भूमिः तदा लक्ष्यते ॥ ॥ २७।६अ यदा रेणूत्पातैः प्रविचलसटाटोपचपलः (प्रविकटसटाटोपचपलः) २७।६ब् प्रवातः पश्चागेद् (पश्चार्धे) दिनकरकरापातसमये । २७।६य् तदा सस्योपेता प्रवरनिकराबद्धसमरा (प्रवरनृव्राबद्धसमरा) २७।६द् क्षितिः स्थानस्थानेष्व (धरा स्थाने स्थानेष्व्) अविरतवसामांसरुधिरा ॥ ॥ २७।७अ आषाढीपर्वकाले यदि किरणपतेः अस्तकालोपपत्तौ २७।७ब् वायव्यो वृद्धवेगः पवनघनवपुः पन्नगार्द्धानुकारि (प्लवति धनरिपुः पन्नगादानुकारी) । २७।७य् जानीयाद् वारिधाराप्रमुदितमुदितामुक्त (मुदितां मुक्त) मण्डूककण्ठां २७।७द् सस्यौद्भासएकचिह्नां सुखबहुलतया भाग्यसेनामिवौर्वीम् ॥ ॥ २७।८अ मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ २७।८ब् वात्यामोदिकदंबगन्धसुरभिः वायुः यदा चोत्तरः । २७।८य् विद्युद्भ्रान्तिसमस्तकान्तिकलना मत्ताः तदा तोयदा २७।८द् उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यंबुभिः ॥ ॥ २७।९अब्/ वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादर्क्षे (ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत्) । २७।९य्द्/ यदि वर्षति पर्जन्यः प्रावृत् शस्ता न चेन् न तदा (पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः ॥ ॥ २७।१०अब्/ नष्टचन्द्रार्ककिरनं नष्टतारं न चेन् नभः (आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला) । २७।१०य्द्/ न तां भद्रपदां मन्ये यत्र देवो न वर्षति (धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णां तदा) ॥ ॥ sएपरते अध्याय २८ सद्योवर्षणाध्यायः २८।१अ वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो २८।१ब् लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे । २८।१य् सौम्यैः दृष्टः प्रचुरमुदकं पापदृष्टोऽल्पमंभः २८।१द् प्रावृट्काले सृजति न चिरात्चन्द्रवद् भार्गवोऽपि ॥ ॥ २८।२अ आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा २८।२ब् तोयासन्नो भवति यदि वा तोयकार्यौन्मुखो वा । २८।२य् प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन २८।२द् पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः ॥ ॥ २८।३अ उदयशिखरिसंस्थो दुर्निरीक्ष्योऽतिदीप्त्या २८।३ब् द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः । २८।३य् तदहनि कुरुतेऽंभः तोयकाले विवस्वान् २८।३द् प्रतपति यदि चौच्चैः खं गतोऽतीव तीक्ष्णम् ॥ ॥ २८।४अ विरसमुदकं गोनेत्राभं वियद्विमला दिशो २८।४ब् लवणविकृतिः काकाण्डाभं यदा च भवेत्नभः । २८।४य् पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो २८।४द् रसनमसकृत्मण्डूकानां जलागमहेतवः ॥ ॥ २८।५अ मार्जारो भृशमवनिं नखैः लिक्खन्तो (लिखन्ते) २८।५ब् लोहानां मलनिचयः सविस्रगन्धः । २८।५य् रथ्यायां शिशुरचिताः (शिशुनिचिताः) च सेतुबन्धाः । २८।५द् सम्प्राप्तं जलमचिरात्निवेदयन्ति ॥ ॥ २८।६अब्/ गिरयोऽञ्जनचूर्णसन्निभा (अञ्जनपुञ्जसन्निभा) यदि वा बाष्पनिरुद्धकन्दराः । २८।६य्द्/ कृकवाकुविलोचनौपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥ ॥ २८।७अ विना उपघातेन पिपीलिकानाम् २८।७ब् अण्डौपसंक्रान्तिः अहिव्यवायः । २८।७य् द्रुमावरोहः (द्रुमाधिरोहः) च भुजंगमानां २८।७द् वृष्टेः निमित्तानि गवां प्लुतं च ॥ ॥ २८।८अ तरुशिखरओपगताः कृकलासा २८।८ब् गगनतलस्थितदृष्टिनिपाताः । २८।८य् यदि च गवां रविवीक्षणमूर्ध्वं २८।८द् निपतति वारि तदा न चिरेण ॥ ॥ २८।९अब्/ नैच्छन्ति विनिर्गमं गृहाद् धुन्वन्ति श्रवणान् खुरान् अपि । २८।९य्द्/ पशवः पशुवग कुक्कुरा (कुर्कुरा) यद्यंभः पततीति निर्दिशेत् ॥ ॥ २८।१०अ यदा स्थिता गृहपटलेषु कुक्कुरा (कुर्कुरा) २८।१०ब् रुदन्ति (भवन्ति) वा यदि विततं वियत्मुखाः (दिवोन्मुखाः) । २८।१०य् दिवा तडिद् यदि च पिनाकिदिग्भवा २८।१०द् तदा क्षमा भवति समैव वारिणा (स आतोवारोंआ) ॥ ॥ २८।११अ शुककपोतविलोचनसन्निभो २८।११ब् मधुनिभश्च यदा हिमदीधितिः । २८।११य् प्रतिशशी च यदा दिवि राजते २८।११द् पतति वारि तदा न चिरेण च (चिराद् दिवः) ॥ ॥ २८।१२अ स्तनितं निशि विद्युतो दिवा २८।१२ब् रुधिरनिभा यदि दण्डवत्स्थिताः । २८।१२य् पवनः पुरतश्च शीतलो २८।१२द् यदि सलिलस्य तदाऽऽगमो भवेत् ॥ ॥ २८।१३अ वल्लीनां गगनतलौन्मुखाः प्रवालाः २८।१३ब् स्नायन्ते यदि जलपांशुभिः विहंगाः । २८।१३य् सेवन्ते यदि च सरीसृपाः तृणाग्राण्य्- २८।१३द् आसन्नो भवति तदा जलस्य पातः । २८।१४अ मयूरशुकचाषचातकसमानवर्णा यदा २८।१४ब् जपाकुसुमपंकजद्युतिमुषश्च सन्ध्याघनाः । २८।१४य् जलोर्मिनगनक्रकच्छपवराहमीनोपमाः २८।१४द् प्रभूतपुटसंचया न तु चिरेण यच्छन्त्यपः ॥ ॥ २८।१५अ पर्यन्तेषु सुधाशशांकधवला मध्येऽञ्जनालित्विषः २८।१५ब् स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः । २८।१५य् माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग् वा अंबुपाशौद्भवा २८।१५द् ये ते वारिमुचः त्यजन्ति न चिरादंभः प्रभूतं भुवि ॥ ॥ २८।१६अब्/ शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः । २८।१६य्द्/ उद्गमास्तमये यदि भानोः आदिशेत् प्रचुरमंबु तदाशु ॥ ॥ २८।१७अ यदि तित्तिरपत्रनिभं गगनं २८।१७ब् मुदिताः प्रवदन्ति च पक्षिगणाः । २८।१७य् उदयास्तमये सवितुः द्युनिशं २८।१७द् विसृजन्ति घना न चिरेण जलम् ॥ ॥ २८।१८अ यद्यमोघकिरणाः सहस्रगोः २८।१८ब् अस्तभूधरकरा इवौच्छ्रिताः । २८।१८य् भूमं च रसते यदांबुदः २८।१८द् तन्महद् भवति वृष्टिलक्षणं ॥ ॥ २८।१९अब्/ प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः । २८।१९य्द्/ सूर्यसुतान् नवपंचमगो वा सप्तमगश्च जलाऽऽगमनाय ॥ ॥ २८।२०अब्/ प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च । २८।२०य्द्/ पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिः गतेऽर्के नियमेन चार्द्राम् ॥ ॥ २८।२१अब्/ समागमे पतति जलं ज्ञशुक्रयोः ज्ञजीवयोः गुरुसितयोश्च संगमे । २८।२१य्द्/ यमारयोः पवनहुताशजं भयं ह्यदृष्टयोः असहितयोश्च सद्ग्रहैः ॥ ॥ २८।२२अब्/ अग्रतः पृष्ठतो वापि ग्रहाः सूर्यावलंबिनः । २८।२२य्द्/ यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव ॥ ॥ २८।२३अब्/ प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु । २८।२३य्द्/ केदारपूरमधिकं वर्षति देवः तदा न चिरात् ॥ ॥ २८।२४अब्/ वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम् । २८।२४य्द्/ सप्ताहं दुर्दिनमपि तदा पयो नात्र सन्देहः ॥ ॥ sएपरते अध्याय २९ कुसुमलताध्यायः २९।१अब्/ फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् । २९।१य्द्/ सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥ ॥ २९।२अब्/ शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च । २९।२य्द्/ पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥ ॥ २९।३अब्/ न्यग्रोधेन तु यवकः तिन्दुकवृद्ध्या च षष्टिको भवति । २९।३य्द्/ अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ॥ ॥ २९।४अब्/ जंबूभिः तिलमाषाः शिरीषवृद्ध्या च कंगुनिष्पत्तिः । २९।४य्द्/ गोधूमाश्च मधूकैः यववृद्धिः सप्तपर्णेन ॥ ॥ २९।५अब्/ अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदशनैः । २९।५य्द्/ बदरीभिश्च कुलत्थांश्चिरविल्वेन (चिरबिल्वेन) आदिशेत्मुद्गान् ॥ ॥ २९।६अब्/ अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः । २९।६य्द्/ तिलकेन शंखमौक्तिकरजतानि अथ चैंगुदेन शणाः (शणः) ॥ ॥ २९।७अब्/ किरणश्च हस्तिकर्णैः आदेश्या वाजिनोऽश्वकर्णेन । २९।७य्द्/ गावश्च पाटलाभिः कदलीभिः अजाविकं भवति ॥ ॥ २९।८अब्/ चंपककुसुमैः कनकं विद्रुमसम्पग बन्धुजीवेन । २९।८य्द्/ कुरवक (कुरुवक) वृद्ध्या वज्रं वैदूर्यं निन्दिकावर्तैः ॥ ॥ २९।९अब्/ विन्द्याग सिन्धुवारेण मौक्तिकं कारुकाः (कुंकुमं) कुसुंभेन । २९।९य्द्/ रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥ ॥ २९।१०अब्/ श्रेष्ठी सुवर्णपुष्पात् (पुष्पैः) पद्मैः विप्राः पुरोहिताः कुमुदैः । २९।१०य्द्/ सौगन्धिकेन बलपतिः अर्केण हिरण्यपरिवृद्धिः ॥ ॥ २९।११अब्/ आम्रैः क्षेमं भल्लातकैः भयं पीलुभिः तथारोग्यम् । २९।११य्द्/ खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥ ॥ २९।१२अब्/ पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन । २९।१२य्द्/ निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥ ॥ २९।१३अब्/ दूर्वाकुशकुसुमाभ्यामिक्षुः वह्निश्च कोविदारेण । २९।१३य्द्/ श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥ ॥ २९।१४अ यस्मिन् काले (देशे) स्निग्धनिश्छिद्रपत्राः २९।१४ब् संदृश्यन्ते वृक्षगुल्मा लताश्च । २९।१४य् तस्मिन् वृष्टिः शोभना सप्रदिष्टा २९।१४द् रूक्षैश्छिद्रैः अल्पमंभः प्रदिष्टम् ॥ ॥ sएपरते अध्याय ३० सन्ध्यालक्षणाध्यायः ३०।१अब्/ अर्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो यावत् । ३०।१य्द्/ तावत् सन्ध्याकालश्चिह्नैः एतैः फलं चास्मिन् ॥ ॥ ३०।२अब्/ मृगशकुनि (शकुन) पवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः । ३०।२य्द्/ गन्धर्वनगररविकरदण्डरजः स्नेहवर्णैश्च ॥ ॥ ३०।३अब्/ भैरवमुच्चैः विरुवन् मृगोऽसकृद् ग्रामघातमाचष्टे । ३०।३य्द्/ रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥ ॥ ३०।४अब्/ अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते । ३०।४य्द्/ मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥ ॥ ३०।५अब्/ दीप्तमृगाण्डजविरुता प्राक् सन्ध्या देशनाशमाख्याति । ३०।५य्द्/ दक्षिणदिक्स्थैः विरुता ग्रहणाय पुरस्य दीप्तास्यैः ॥ ॥ ३०।६अब्/ गृहतरुतोरणमथने सपांशुलोष्टौत्करेऽनिले प्रबले । ३०।६य्द्/ भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥ ॥ ३०।७अब्/ मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा । ३०।७य्द्/ मधुरस्वरशान्तविहंगमृगरुता पूजिता सन्ध्या ॥ ॥ ३०।८अब्/ सन्ध्याकाले स्निग्धा दण्डतडित्मत्स्यपरिधिपरिवेषाः । ३०।८य्द्/ सुरपतिचापैरावतरविकिरणाश्चाशु वृष्टिकरः ॥ ॥ ३०।९अब्/ विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः । ३०।९य्द्/ तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः ॥ ॥ ३०।१०अब्/ उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः । ३०।१०य्द्/ किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥ ॥ ३०।११अब्/ शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः । ३०।११य्द्/ अव्युच्छिन्ना ऋजवो वृष्टिकराः ते त्व (हि) अमोघाख्याः ॥ ॥ ३०।१२अब्/ कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः । ३०।१२य्द्/ त्रिदिवानुबन्धिनोऽवृष्टयेऽल्पभयदाः तु सप्ताहात् ॥ ॥ ३०।१३अब्/ ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च तद् व्यसनम् । ३०।१३य्द्/ हरिताः पशुसस्यबधं धूमसवर्णा गवां नाशम् ॥ ॥ ३०।१४अब्/ माञ्जिष्टाभाः शस्त्राग्निसंभ्रमं बभ्रवः पवनवृष्टिम् । ३०।१४य्द्/ भस्मसदृशाः त्ववृष्टिं तनुभावं शबलकल्माषाः ॥ ॥ ३०।१५अ बन्धूकपुष्पाञ्जनचूर्णसन्निभं ३०।१५ब् सान्ध्यं रजोऽभ्येति यदा दिवाकरम् । ३०।१५य् लोकाः तदा रोगशतैः निपीड्यते ३०।१५द् शुक्लं रजो लोकविवृद्धिशान्तये ॥ ॥ ३०।१६अब्/ रविकिरणजलदमरुतां संघातो दण्डवत् स्थितो दण्डः । ३०।१६य्द्/ स विदिक्स्थितो नृपाणामशुभो दिक्षु द्विजादीनाम्(द्विजातीनां) ॥ ॥ ३०।१७अब्/ शस्त्रभयातंककरो दृष्टः प्रान्मध्यसन्धिषु दिनस्य । ३०।१७य्द्/ शुक्लाद्यो विप्रादीन् यदभिमुखः तां निहन्ति दिशम् ॥ ॥ ३०।१८अब्/ दधिसदृशाग्रो नीलो भानुच्छादी खमध्यगोभ्रतरुः । ३०।१८य्द्/ पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ॥ ॥ ३०।१९अब्/ अनुलोमगेऽभ्रवृक्षे शमं गते यायिनो नृपस्य बधः । ३०।१९य्द्/ बालतरुप्रतिरूपिणि युवराजामात्ययोः मृत्युः ॥ ॥ ३०।२०अब्/ कुवलयवैदूर्यांबुजकिञ्जल्काभा प्रभञ्जनौन्मुक्ता । ३०।२०य्द्/ सन्ध्या करोति वृष्टिं रविकिरणौद्भासिता सद्यः ॥ ॥ ३०।२१अब्/ अशुभाकृतिघनगन्धर्वनगरनीहारधूमपांशुयुता (पांशुधूमयुता) । ३०।२१य्द्/ प्रावृषि करोत्यवग्रहमन्यतौ शस्त्रकोपकरी ॥ ॥ ३०।२२अब्/ शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः । ३०।२२य्द्/ प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिः अन्या ॥ ॥ ३०।२३अब्/ आयुधभृन् नररूपं छिन्नाभ्रं परभयाय रविगामि । ३०।२३य्द्/ सितखपुरेऽर्काक्रान्ते पुरलाभो भेदने नाशः ॥ ॥ ३०।२४अ सितसितान्तघनावरणं रवेः ३०।२४ब् भवति वृष्टिकरं यदि सव्यतः । ३०।२४य् यदि च वीरणगुल्मनिभैः घनैः ३०।२४द् दिवसभर्तुः अदीप्तदिगुद्भवैः ॥ ॥ ३०।२५अब्/ नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुः बलकोपकृत् । ३०।२५य्द्/ कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥ ॥ ३०।२६अ उभयपार्श्वगतौ परिधी रवेः ३०।२६ब् प्रचुरतोयकरौ (कृतौ) वपुषान्वितौ । ३०।२६य् अथ स मस्तककुप्परिचारिणः ३०।२६द् परिधयोऽस्ति कणोऽपि न वारिणः ॥ ॥ ३०।२७अब्/ ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः । ३०।२७य्द्/ जयाय सन्ध्ययोः घना रणाय रक्तसन्निभाः ॥ ॥ ३०।२८अब्/ पलालधूमसंचयस्थितौपमा बलाहकाः । ३०।२८य्द्/ बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ॥ ॥ ३०।२९अब्/ विलंबिनो द्रुमौपमाः खरारुणप्रकाशिनः । ३०।२९य्द्/ घनाः शिवाय सन्ध्ययोः पुरौपमाः शुभावहाः ॥ ॥ ३०।३०अब्/ दीप्तविहंगशिवामृगघुष्टा दण्डरजःपरिघादियुता च । ३०।३०य्द्/ प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षबधाय ॥ ॥ ३०।३१अ प्राची तत्क्षणमेव नक्तमपरा सन्ध्या त्र्यहाद् वा फलं ३०।३१ब् सप्ताहात् परिवेषरेणुपरिघाः कुर्वन्ति सद्यो न चेत् । ३०।३१य् तद्वत् सूर्यकरेन्द्रकार्मुकतडित्प्रत्यर्कमेघानिलाः ३०।३१द् तस्मिन् एव दिनेऽष्टमेऽथ विहगाः सप्ताहपाका मृगाः ॥ ॥ ३०।३२अ एकं दीप्त्या योजनं भाति सन्ध्या ३०।३२ब् विद्युद्भासा षट् प्रकाशीकरोति । ३०।३२य् पंचाब्दानां गर्जितं याति शब्दो ३०।३२द् नास्तीयत्ता केचिद् (काचिद्) उल्कानिपाते ॥ ॥ ३०।३३अ प्रत्यर्कसंज्ञः परिधिः तु तस्य ३०।३३ब् त्रियोजनाभः (त्रियोजना भा) परिघस्य पंच । ३०।३३य् षट्पंचदृश्यं परिवेषचक्रं ३०।३३द् दशामरेशस्य धनुः विभाति ॥ ॥ sएपरते अध्याय ३१ दिग्दाहलक्षणाध्यायः ३१।१अब्/ दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः । ३१।१य्द्/ यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ॥ ॥ ३१।२अ योऽतीव दीप्त्या कुरुते प्रकाशं ३१।२ब् छायामपि व्यञ्जयतेऽर्कवद् यः । ३१।२य् राज्ञो महद् वेदयते भयं स ३१।२द् शस्त्रप्रकोपं क्षतजानुरूपः ॥ ॥ ३१।३अ प्राक् क्षत्रियाणां सनरेश्वराणां ३१।३ब् प्राग् दक्षिणे शिल्पिकुमारपीडा । ३१।३य् याम्ये सहोग्रैः पुरुषैः तु वैश्या ३१।३द् दूताः पुनः भूप्रमदाश्च कोणे ॥ ॥ ३१।४अ पश्चात् तु शूद्राः कृषिजीविनश्च ३१।४ब् चौराः तुरंगैः सह वायुदिक्स्थे ३१।४य् पीडां व्रजन्त्युत्तरतश्च विप्राः ३१।४द् पाखण्डिनो (पाषण्डिनो) वाणिजकाश्च शार्व्याम् ॥ ॥ ३१।५अ नभः प्रसन्नं विमलानि भानि ३१।५ब् प्रदक्षिणं वाति सदागतिश्च । ३१।५य् दिशां च दाहः कनकावदातो ३१।५द् हिताय लोकस्य सपार्थिवस्य ॥ ॥ sएपरते अध्याय ३२ भूकंपलक्षणाध्यायः ३२।१अब्/ क्षितिकंपमाहुः एके बृहदन्तर्जलनिवासिसत्त्वकृतम् । ३२।१य्द्/ भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये ॥ ॥ ३२।२अब्/ अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्यन्ये (एके) । ३२।२य्द्/ केचित् त्वदृष्टकारितमिदमन्ये प्राहुः आचार्याः ॥ ॥ ३२।३अब्/ गिरिभिः पुरा सपक्षैः वसुधा प्रपतद्भिरुत्पद्भिश्च । ३२।३य्द्/ आकंपिता पितामहमाहामरसदसि सव्रीडम् ॥ ॥ ३२।४अब्/ भगवन् नाम ममएतत्त्वया कृतं यदचलैति तन् न तथा । ३२।४य्द्/ क्रियतेऽचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ॥ ॥ ३२।५अब्/ तस्याः सगद्गदगिरं (सगड्गदगिरं) किंचित् स्फुरिताधरं विनतमीषत् । ३२।५य्द्/ साश्रुविलोचनमाननमालोक्य पितामहः प्राह ॥ ॥ ३२।६अब्/ मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभंगाय । ३२।६य्द्/ शक्रः कृतमित्युक्त्वा मा भैः इति वसुमतीमाह ॥ ॥ ३२।७अब्/ किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । ३२।७य्द्/ प्राग् द्वित्रिचतुर्भागेषु दिननिशोः कंपयिष्यन्ति ॥ ॥ ३२।८अब्/ चत्वार्यार्यम्णाद्यानि आदित्यं मृगशिरोऽश्वयुक् चेति । ३२।८य्द्/ मण्डलमेतद् वायव्यमस्य रूपाणि सप्ताहात् ॥ ॥ ३२।९अब्/ धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम् । ३२।९य्द्/ विरुजन् द्रुमांश्च विचरति रविः अपटुकरावभासी च ॥ ॥ ३२।१०अब्/ वायव्ये भूकंपे सस्यांबुवनौषधीक्षयोऽभिहितः । ३२।१०य्द्/ श्वयथुश्वासौन्मादज्वरकासभवो (भवा) वणिक्पीडा ॥ ॥ ३२।११अब्/ रूपायुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः । ३२।११य्द्/ पीड्यन्ते सौराष्ट्रककुरुमघदशार्णमत्स्याश्च ॥ ॥ ३२।१२अब्/ पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि । ३२।१२य्द्/ वर्गो हौतभुजोऽयं करोति रूपाणि अथैतानि ॥ ॥ ३२।१३अब्/ तारा उल्कापातावृतमादीप्तमिवांबरं सदिग्दाहम् । ३२।१३य्द्/ विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ॥ ॥ ३२।१४अब्/ आग्नेयेऽंबुदनाशः सलिलाशयसंक्षयो नृपतिवैरम् । ३२।१४य्द्/ दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च ॥ ॥ ३२।१५अब्/ दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकांगबाह्लीकाः । ३२।१५य्द्/ तंगणकलिंगवंगद्रविडाः शबरा अनेकविधाः (शबराश्च नैकविधाः) ॥ ॥ ३२।१६अब्/ अभिजित्श्रवणधनिष्ठाप्राजापत्येन्द्रवैश्वमैत्राणि । ३२।१६य्द्/ सुरपतिमण्डलमेतद् भवन्ति चाप्यस्य रूपाणि (च अस्य स्वरूपाणि) ॥ ॥ ३२।१७अब्/ चलिताचलवर्ष्माणो गंभीरविराविणः तडिद्वन्तः (तडित्वन्तः) । ३२।१७य्द्/ गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥ ॥ ३२।१८अब्/ एन्द्रं स्तुत (श्रुति) कुलजातिख्यातावनिपालगणपविध्वंसि । ३२।१८य्द्/ अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥ ॥ ३२।१९अब्/ काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः । ३२।१९य्द्/ अर्बुदसुराष्ट्र (सुवास्तु) मालवपीडाकरमिष्टवृष्टिकरम् ॥ ॥ ३२।२०अब्/ पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदेवानि । ३२।२०य्द्/ मण्डलमेतद् वारुणमस्यापि भवन्ति रूपाणि ॥ ॥ ३२।२१अब्/ नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः । ३२।२१य्द्/ तडिदुद्भासितदेहा धारांकुर (कुश) वर्षिणो जलदाः ॥ ॥ ३२।२२अब्/ वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् । ३२।२२य्द्/ गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥ ॥ ३२।२३अब्/ षड्भिः मासैः कंपो द्वाभ्यां पाकं च याति निर्घातः । ३२।२३य्द्/ अन्यान् अपि उत्पातान् जगुः अन्ये मण्डलैः एतैः ॥ ॥ % ३वेर्सेस् इन्सेर्तेद् ३२।२४अब्/ उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकंपककुप्प्रदाहाः । ३२।२४य्द्/ वातोऽतिचण्डो ग्रहणं रवीन्द्वोः नक्षत्रतारागणवैकृतानि ॥ ॥ ३२।२५अब्/ व्यभ्रे वृष्टिः वैकृतं वातवृष्टिः धूमोऽनग्नेः विस्फुलिग्गार्चिषो वा । ३२।२५य्द्/ वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावेन्द्रं कार्मुकं दृश्यते वा ॥ ॥ ३२।२६अब्/ सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादाः । ३२।२६अब्/ अन्यग यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैः एव फलं निगाद्यम् ॥ ॥ ३२।२४अब्/ हन्त्येन्द्रो वायव्यं वायुश्चाप्येन्द्रमेवमन्योन्यम् । ३२।२४य्द्/ वारुणहौतभुजावपि वेलानक्षत्रजाः कंपाः ॥ ॥ ३२।२५अब्/ प्रथितनरेश्वरमरणव्यसनानि आग्नेयवायुमण्डलयोः । ३२।२५य्द्/ क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्च अपि ॥ ॥ ३२।२६अब्/ वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके । ३२।२६य्द्/ गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः ॥ ॥ ३२।२७अब्/ पक्षैश्चतुर्भिः अनिलः त्रिभिः अग्निः देवराट् च सप्ताहात् । ३२।२७य्द्/ सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥ ॥ ३२।२८अब्/ चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् । ३२।२८य्द्/ सलिलपतिः अशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टितः (षष्टिकं) ॥ ॥ ३२।२९अब्/ त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे चे । ३२।२९य्द्/ यदि भवति भूमिकंपः प्रधाननृपनाशनो भवति ॥ ॥ sएपरते अध्याय ३३ उल्कालक्षणाध्यायः ३३।१अब्/ दिवि भुक्तशुभफलानां पततां रूपाणि यानि तानि उल्काः । ३३।१य्द्/ धिष्ण्यौल्काशनिविद्युत्तारा इति पंचधा भिन्नाः ॥ ॥ ३३।२अब्/ उल्का पक्षेण फलं तद्वद् धिष्ण्याशनिः त्रिभिः पक्षैः । ३३।२य्द्/ विद्युदहोभिः षड्भिः तद्वत् तारा विपाचयति ॥ ॥ ३३।३अब्/ तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या । ३३।३य्द्/ तिस्रः सम्पूर्णफला विद्युदथौल्काशनिश्चेति ॥ ॥ ३३।४अब्/ अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु । ३३।४य्द्/ निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥ ॥ ३३।५अब्/ विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा । ३३।५य्द्/ कुतिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥ ॥ ३३।६अब्/ धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम् । ३३।६य्द्/ ज्वलितांगारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥ ॥ ३३।७अब्/ तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा । ३३।७य्द्/ तिर्यगधश्च ऊर्ध्वं वा याति वियत्युह्यमाना इव ॥ ॥ ३३।८अब्/ उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा ॥ ॥ ३३।८य्द्/ दीर्घा च भवति (भवति च) पुरुषं भेदा बहवो भवत्यस्याः ॥ ॥ ३३।९अब्/ प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलांगलमृगाभाः । ३३।९य्द्/ गोधाहिधूमरूपाः पापा या चौभयशिरस्का ॥ ॥ ३३।१०अब्/ ध्वजझषगिरिकरि (करिगिरि) कमलेन्दुतुरगसन्तप्तरजतहंसाभाः । ३३।१०य्द्/ श्रीवृक्ष (वत्स, श्रीवृक्ष) वज्रशंखस्वस्तिकरूपाः शिवसुभिक्षाः ॥ ॥ ३३।११अब्/ अंबरमध्याद् बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय । ३३।११य्द्/ बंभ्रमती गगनोपरि विभ्रममाख्याति लोकस्य ॥ ॥ ३३।१२अब्/ संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकंपा च । ३३।१२य्द्/ परचक्रागमनृपवधदुर्भिक्षावृष्टिभयजननी ॥ ॥ ३३।१३अब्/ पौरैतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांशवोः । ३३।१३य्द्/ उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥ ॥ ३३।१४अब्/ शुक्ला रक्ता पीता कृष्णा चौल्का द्विजादिवर्णघ्नी । ३३।१४य्द्/ क्रमशश्चैतान् हन्युः मूर्धौरःपार्श्वपुच्छस्थाः ॥ ॥ ३३।१५अब्/ उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा । ३३।१५य्द्/ ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्वृद्ध्यै ॥ ॥ ३३।१६अब्/ श्यावारुण (श्यामा वारुण) नीलासृग्दहनासितभस्मसन्निभा रूक्षा । ३३।१६य्द्/ सन्ध्यादिनजा वक्रा दलिता च परागमभयाय ॥ ॥ ३३।१७अब्/ नक्षत्रग्रहघातैः (घाते) तद्भक्तीनां क्षयाय निर्दिष्टा । ३३।१७य्द्/ उदये घ्नती रवीन्दू पौरैतरमृत्यवेऽस्ते वा ॥ ॥ ३३।१८अब्/ भाग्यादित्यधनिष्टामूलेषूल्काहतेषु युवतीनाम् । ३३।१८य्द्/ विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ॥ ॥ ३३।१९अब्/ ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम् । ३३।१९य्द्/ क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥ ॥ ३३।२०अब्/ कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम् । ३३।२०य्द्/ शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥ ॥ ३३।२१अब्/ आशाग्रहौपघाते तद्देश्यानां खले कृषिरतानाम् । ३३।२१य्द्/ चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ॥ ॥ ३३।२२अब्/ द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः । ३३।२२य्द्/ ब्रह्मायतने विप्रान् विनिहन्याद् गोमिनो गोष्ठे ॥ ॥ ३३।२३अब्/ क्ष्वेडास्फोटितवादितगीतौत्कुष्टस्वना भवन्ति यदा । ३३।२३य्द्/ उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ॥ ॥ ३३।२४अ यस्याश्चिरं तिष्ठति खेऽनुषंगो ३३।२४ब् दण्डाकृतिः सा नृपतेः भयाय । ३३।२४य् या चौह्यते तन्तुधृता इव खस्था ३३।२४द् या वा महेन्द्रध्वजतुल्यरूपा ॥ ॥ ३३।२५अब्/ श्रेष्ठिनः प्रतीपगा तिर्यगा नृपांगनानां (नृपांगनाः) । ३३।२५य्द्/ हन्त्यधोमुखी नृपान् ब्राह्मणान् अथ ऊर्ध्वगा ॥ ॥ ३३।२६अब्/ बर्हि (वर्हि) पुच्छरूपिणी लोकसंक्षयावहा । ३३।२६य्द्/ सर्पवत् प्रसर्पती (प्रसर्पिणी) योषितामनिष्टदा ॥ ॥ ३३।२७अब्/ हन्ति मण्डला पुरं छत्रवत् पुरोहितम् । ३३।२७य्द्/ वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥ ॥ ३३।२८अब्/ व्यालसूकरौपमा विस्फुलिंगमालिनी । ३३।२८य्द्/ खण्डशोऽथवा गता सस्वना च पापदा ॥ ॥ ३३।२९अब्/ सुरपितचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति । ३३।२९य्द्/ पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥ ॥ ३३।३०अब्/ अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य । ३३।३०य्द्/ निपतति च यया दिशा प्रदीप्ता जयति रिपून् अचिरात् तया प्रयातः ॥ ॥ sएपरते अध्याय ३४ परिवेषलक्षणाध्यायः ३४।१अब्/ सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः । ३४।१य्द्/ नानावर्णाकृतयः तन्वभ्रे व्योम्नि परिवेषाः ॥ ॥ ३४।२अब्/ ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरित (हरि) शुक्लाः । ३४।२य्द्/ इन्द्रयमवरुणनिरृतिश्वसनेशपितामहांबु (अग्नि) कृताः ॥ ॥ ३४।३अब्/ धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये । ३४।३य्द्/ प्रविलीयते मुहुर्मुहुः अल्पफलः सोऽपि वायुकृतः ॥ ॥ ३४।४अब्/ चाषशिखिरजततैलक्षीरजलाभः स्वकालसंभूतः । ३४।४य्द्/ अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥ ॥ ३४।५अब्/ सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः । ३४।५य्द्/ असकलशकटशरासनश‍ृंगाटकवत् स्थितः पापः ॥ ॥ ३४।६अब्/ शिखिगलसमेऽतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे । ३४।६य्द्/ हरिचापनिभे युद्धानि अशोककुसुमप्रभे चापि ॥ ॥ ३४।७अब्/ वर्णेनएकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः । ३४।७य्द्/ स्वऋतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥ ॥ ३४।८अब्/ दीप्तमृगविहंग (विहंगमृग) रुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् । ३४।८य्द्/ भयकृत् तडिदुल्काद्यैः हतो नृपं हन्ति शस्त्रेण ॥ ॥ ३४।९अब्/ प्रतिदिनमर्कहिमांश्वोः अहर्निशं रक्तयोः नरेन्द्रवधः । ३४।९य्द्/ परिविष्टयोः अभीक्षणं लग्नास्तमय (अस्तनभः) स्थयोः तद्वत् ॥ ॥ ३४।१०अब्/ सेनापतेः भयकरो द्विमण्डलो नातिशस्त्रकोपकरः । ३४।१०य्द्/ त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ॥ ॥ ३४।११अब्/ वृष्टिः त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे । ३४।११य्द्/ होराजन्माधिपयोः जन्मर्क्षे वांशुभो (वाशुभो) राज्ञः ॥ ॥ ३४।१२अब्/ परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः । ३४।१२य्द्/ जनयति च वातवृष्टिं स्थावरकृषिकृन् निहन्ता च ॥ ॥ ३४।१३अब्/ भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् । ३४।१३य्द्/ जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥ ॥ ३४।१४अब्/ मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च । ३४।१४य्द्/ शुक्रे यायिक्षत्रियराज्ञी (राज्ञां) पीडा प्रियं चान्नम् ॥ ॥ ३४।१५अब्/ क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ । ३४।१५य्द्/ परिविष्टे गर्भभयं राहौ व्याधिः नृपभयं च ॥ ॥ ३४।१६अब्/ युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोः ग्रहयोः । ३४।१६य्द्/ दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम् ॥ ॥ ३४।१७अब्/ याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः । ३४।१७य्द्/ प्रलयमिव विद्धि जगतः पंचादिषु मण्डलस्थेषु ॥ ॥ ३४।१८अब्/ ताराग्रहस्य कुर्यात् पृथग् एव समुत्थितो नरेन्द्रवधम् । ३४।१८य्द्/ नक्षत्राणामथवा यदि केतोः नौदयो भवति ॥ ॥ ३४।१९अब्/ विप्रक्षत्रियविट्शूद्रहा भवेत् प्रतिपदादिषु क्रमशः । ३४।१९य्द्/ श्रेणीपुरकोशानां पंचम्यादिष्वशुभकारी ॥ ॥ ३४।२०अब्/ युवराजस्याष्टम्यां परतः त्रिषु पार्थिवस्य दोषकरः ॥ ॥ ३४।२०य्द्/ पुररोधो द्वादश्यां सैन्यक्षोभः त्रयोदश्याम् ॥ ॥ ३४।२१अब्/ नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् । ३४।२१य्द्/ कुर्यात् तु पंचदश्यां पीडां मनुजाधिपस्यएव ॥ ॥ ३४।२२अब्/ नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था । ३४।२२य्द्/ परिवेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम् ॥ ॥ ३४।२३अब्/ रक्तः श्यामो रूक्षश्च भवति येषां पराजयः तेषाम् । ३४।२३य्द्/ स्निग्धः श्वेतो द्युतिमान् येषां भागो जयः तेषाम् ॥ ॥ sएपरते अध्याय ३५ इन्द्रायुद्धलक्षणाध्यायः ३५।१अब्/ सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे । ३५।१य्द्/ वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ ॥ ३५।२अब्/ केचिदनन्तकुलौरगनिःश्वासौद्भूतमाहुः आचार्याः । ३५।२य्द्/ तद् यायिनां नृपाणामभिमुखमजयावहं भवति ॥ ॥ ३५।३अब्/ अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् । ३५।३य्द्/ द्विरुदितमनुलोमं च प्रशस्तमंभः प्रयच्छति च ॥ ॥ ३५।४अब्/ विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि । ३५।४य्द्/ पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥ ॥ ३५।५अब्/ जलमध्येऽनावृष्टिः भुवि सस्यवधः तरौ शिते व्याधिः । ३५।५य्द्/ वाल्मीके (वल्मीके) शस्त्रभयं निशि सचिववधाय धनुः एन्द्रम् ॥ ॥ ३५।६अब्/ वृष्टिं करोत्यवृष्त्यां वृष्टिं वृष्ट्यां निवारयत्येन्द्र्याम् । ३५।६य्द्/ पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥ ॥ ३५।७अ चापं मघोनः कुरुते निशायाम् ३५।७ब् आखण्डलायां दिशि भूपपीडाम् । ३५।७य् याम्यापरोदक्प्रभवं निहन्यात् ३५।७द् सेनापतिं नायकमन्त्रिणौ च ॥ ॥ ३५।८अब्/ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् । ३५।८य्द्/ भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं नचिराद् धन्यात् ॥ ॥ sएपरते अध्याय ३६ गन्धर्वनगरलक्षणाध्यायः ३६।१अब्/ उदगादिपुरोहितनृपबलपतियुवराजदोषदं खपुरम् । ३६।१य्द्/ सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥ ॥ ३६।२अब्/ नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्णनाशाय । ३६।२य्द्/ शान्ताशायां दृष्टं सतोरणं नृपतिविजयाय ॥ ॥ ३६।३अब्/ सर्वदिगुत्थं सततोथितं च भयदं नरेन्द्रराष्ट्राणाम् । ३६।३य्द्/ चौराटविकान् हन्याद् धूमानलशक्रचापाभम् ॥ ॥ ३६।४अब्/ गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम् । ३६।४य्द्/ दीप्ते नरेन्द्रमृत्युः वामेऽरिभयं जयः सव्ये ॥ ॥ ३६।५अब्/ अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् । ३६।५य्द्/ यदा तदा नागमनुष्यवाजिनां पिबत्यसृग् भूरि रणे वदुन्धरा ॥ ॥ sएपरते अध्याय ३७ प्रतिसूर्यलक्षणाध्यायः ३७।१अब्/ प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः । ३७।१य्द्/ वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ॥ ॥ ३७।२अब्/ पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय । ३७।२य्द्/ प्रतिसूर्याणां माला दस्युभयातंकनृपहन्त्री ॥ ॥ ३७।३अब्/ दिवसकृतः प्रतिसूर्यो जलकृदुरग्दक्षिणे स्थितोऽनिलकृट् । ३७।३य्द्/ उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥ ॥ sएपरते अध्याय ३८-१ रजोलक्षणं ३८।१अब्/ कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन । ३८।१य्द्/ अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः ॥ ॥ ३८।२अब्/ यस्याम् दिशि धूमचयः प्राक् प्रभवति नाशमेति वा यस्याम् । ३८।२य्द्/ आगच्छति सप्ताहात् तत्र एव भयं न सन्देहः ॥ ॥ ३८।३अब्/ श्वेते रजोघनौघे पीडा स्यान् मन्त्रिजनपदानां च । ३८।३य्द्/ नचिरात् प्रकोपमुपयाति शस्त्रमतिसग़्कुला सिद्धिः ॥ ॥ ३८।४अब्/ अर्कोदये विजृंभति यदि दिनमेकं दिनद्वयं वापि । ३८।४य्द्/ स्थगयन्न् इव गगनतलं भयमत्युग्रं निवेदयति ॥ ॥ ३८।५अब्/ अनवरतसञ्चयवहं रजनीमेकां प्रधाननृपहन्तृ । ३८।५य्द्/ क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम् ॥ ॥ ३८।६अब्/ रजनीद्वयं विसर्पति यस्मिन् राष्ट्रे रजोघनं बहुलम् । ३८।६य्द्/ परचक्रस्य आगमनं तस्मिन् अपि सन्निबोद्धव्यम् ॥ ॥ ३८।७अब्/ निपतति रजनीत्रितयं चतुष्कमपि अन्नरसविनाशाय । ३८।७य्द्/ राज्ञां सैन्यक्षोभो रजसि भवेत् पञ्चरात्रभवे ॥ ॥ ३८।८अब्/ केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि । ३८।८य्द्/ शिशिरादन्यत्रर्तौ फलमविकलमाहु आचार्याः ॥ ॥ sएपरते अध्याय ३८-२ निर्घातलक्षणाध्यायः ३८।१अब्/ पवनः पवनाभिहतो गगनादवनौ यदा समापतति । ३८।१य्द्/ भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥ ॥ ३८।२अब्/ अर्कोदयेऽधिकरणिकनृपधनियोधांगनावणिग्वेश्याः । ३८।२य्द्/ आप्रहरांशेऽजाविकमुपहन्यात्शूद्रपौरांश्च ॥ ॥ ३८।३अब्/ आमध्याह्नाद् राजोपसेविनो ब्राह्मणांश्च पीडयति । ३८।३य्द्/ वैश्यजलदां तृतीये चौरान् प्रहरे चतुर्थे तु ॥ ॥ ३८।४अब्/ अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि । ३८।४य्द्/ रात्रौ द्वितीययामे पिशाचसंघान् निपीडयति ॥ ॥ ३८।५अब्/ तुरगकरिणः तृतीये विनिहन्याद् यायिनश्चतुर्थे च । ३८।५य्द्/ भैरवजर्जरशब्दो याति यतः तां दिशं हन्ति ॥ ॥ sएपरते अध्याय ३९ सस्यजातकाध्यायः ३९।१अब्/ वृश्चिकवृषप्रवेशे भानोः ये बादरायणेनोक्ताः । ३९।१य्द्/ ग्रीष्मशरत्सस्यानां सदसद्योगाः कृताः त इमे ॥ ॥ ३९।२अब्/ भानोः अलिप्रवेशे केन्द्रैः तस्मात्शुभग्रहाक्रान्तैः । ३९।२य्द्/ बलवद्भिः सौम्यैः वा निरीक्षिते (निरीक्षितैः) ग्रैष्मिकविवृद्धिः ॥ ॥ ३९।३अब्/ अष्टमराशिगतेऽर्के गुरुशशिनोः कुंभसिंहसंस्थितयोः (स्थितयोः) । ३९।३य्द्/ सिंहघटसंस्थयोः वा निष्पत्तिः ग्रीष्मसस्यस्य ॥ ॥ ३९।४अब्/ अर्कात् सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः । ३९।४य्द्/ व्ययगतयोः अपि तद्वन् निष्पत्तिः अतीव गुरुदृष्ट्या ॥ ॥ ३९।५अब्/ शुभमध्येऽलिनि सूर्याद् गुरुशशिनोः सप्तमे परा सम्पत् । ३९।५य्द्/ अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥ ॥ ३९।६अब्/ लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः । ३९।६य्द्/ सस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ॥ ॥ ३९।७अब्/ कुंभे गुरुः गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे । ३९।७य्द्/ निष्पत्तिः अस्ति महती पश्चात् परचक्रभयरोगम् ॥ ॥ ३९।८अब्/ मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः । ३९।८य्द्/ पापः सप्तमराशौ जातं जातं विनाशयति ॥ ॥ ३९।९अब्/ अर्थस्थाने क्रूरः सौम्यैः अनिरीक्षितः प्रथमजातम् । ३९।९य्द्/ सस्यं निहन्ति पश्चादुप्तं निष्पादयेद् व्यक्तम् ॥ ॥ ३९।१०अब्/ जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य । ३९।१०य्द्/ सस्यविपत्तिं कुरुतः सौम्यैः दृष्टौ न सर्वत्र ॥ ॥ ३९।११अब्/ वृश्चिकसंस्थादर्कात् सप्तमषष्ठौपगौ यदा क्रूरौ । ३९।११य्द्/ भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥ ॥ ३९।१२अब्/ विधिनानेनैव रविः वृषप्रवेशे शरत्समुत्थानाम् । ३९।१२य्द्/ विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ञैः ॥ ॥ ३९।१३अब्/ त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् । ३९।१३य्द्/ ग्रैष्मिक (ग्रष्मिक) धान्यं कुरुते समर्घं (समर्थं) अभयौपयोग्यं च ॥ ॥ ३९।१४अब्/ कार्मुकमृगघटसंस्थः शारदसस्यस्य (शारदस्य) तद्वदेव रविः । ३९।१४य्द्/ संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् (यागात्) ॥ ॥ sएपरते अध्याय ४० द्रव्यनिश्चयाध्यायः ४०।१अब्/ ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः । ४०।१य्द्/ मुनिभिः शुभाशुभार्थं तान् आगमतः प्रवक्ष्यामि ॥ ॥ ४०।२अब्/ वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् । ४०।२य्द्/ स्थलसंभवौषधीनां कनकस्य च कीर्तितो मेषः ॥ ॥ ४०।३अब्/ गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः । ४०।३य्द्/ मिथुनेऽपि धान्यशारदवल्लीशालूककर्पासाः ॥ ॥ ४०।४अब्/ कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि । ४०।४य्द्/ सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ॥ ॥ ४०।५अब्/ षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः । ४०।५य्द्/ सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव (गोधूमाः सर्षपाः सयवाः) ॥ ॥ ४०।६अब्/ अष्टमराशाविक्षुः सैक्यं लोहानि अजाविकं चापि । ४०।६य्द्/ नवमे तु तुरगलवणांबरास्त्रतिलधान्यमूलानि ॥ ॥ ४०।७अब्/ मकरे तरुगुल्माद्यं सैक्यैक्षुसुवर्णकृष्णलोहानि । ४०।७य्द्/ कुंभे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥ ॥ ४०।८अब्/ मीने कपालसंभवरत्नानि अंबूद्भवानि वज्राणि । ४०।८य्द्/ स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥ ॥ ४०।९अब्/ राशेश्चतुर्दशार्थायसप्तनवपंचमस्थितो जीवः । ४०।९य्द्/ द्व्येकादशदशपंचाष्टमेषु शशिजश्च वृद्धिकरः ॥ ॥ ४०।१०अब्/ षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु । ४०।१०य्द्/ उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥ ॥ ४०।११अब्/ राशेः यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः । ४०।११य्द्/ तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥ ॥ ४०।१२अब्/ इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् । ४०।१२य्द्/ तद्द्रव्याणां वृद्धिः सामर्घ्यं वल्लभत्वं च (सामर्थयमदुर्लभत्वं च) ॥ ॥ ४०।१३अब्/ गोचरपीडायामपि राशिः बलिभिः शुभग्रहैः दृष्टः । ४०।१३य्द्/ पीडां न करोति तथा क्रूरैः एवं विपर्यासः ॥ ॥ sएपरते अध्याय ४१ अर्घकाण्डाध्यायः ४१।१अब्/ अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च । ४१।१य्द्/ दृष्ट्वा अमावास्यायामुत्पातान् पौणमास्यां (पूर्णमास्यां) च ॥ ॥ ४१।२अब्/ ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये । ४१।२य्द्/ अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ॥ ॥ ४१।३अब्/ मेषौपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं कृत्वा (कुर्यात्) । ४१।३य्द्/ वनमूलफलस्य वृषे चतुर्थमासे तयोः लाभः ॥ ॥ ४१।४अब्/ मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय । ४१।४य्द्/ षष्ठे मासे विपुलं विक्रेता (विक्रीणन्) प्राप्नुयाल्लाभम् ॥ ॥ ४१।५अब्/ कर्किणि अर्के मधुगन्धतैलघृतफाणितानि विनिधाय । ४१।५य्द्/ द्विगुणा द्वितीयमासे लब्धिः हीनाधिके छेदः ॥ ॥ ४१।६अब्/ सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम् । ४१।६य्द्/ पंचममासे लब्धिः विक्रेतुः अतोऽन्यथा छेदः ॥ ॥ ४१।७अब्/ कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता । ४१।७य्द्/ षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥ ॥ ४१।८अब्/ तौलिनि तान्तवभाण्डं मणिकंबलकाचपीतकुसुमानि । ४१।८य्द्/ आदद्याद् धान्यानि च वर्षार्धाद् (षण्मासाद्) द्विगुणिता वृद्धिः ॥ ॥ ४१।९अब्/ वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि । ४१।९य्द्/ वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥ ॥ ४१।१०अब्/ चापगते गृह्णीयात् कुंकुम (कुंकम) शंखप्रवालकाचानि । ४१।१०य्द्/ मुक्ताफलानि चा ततो वर्षार्धाद् द्विगुणतां यान्ति ॥ ॥ ४१।११अब्/ मृगघटसंस्थे सवितरि गृह्णीयाल् (मृगधटगे गृह्णीयाद् दिवाकरे) लोहभाण्डधान्यानि । ४१।११य्द्/ स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥ ॥ ४१।१२अब्/ सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि । ४१।१२य्द्/ संस्थाप्य वत्सरार्धं लाभकमिष्टं समाप्नोति ॥ ॥ ४१।१३अब्/ राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा । ४१।१३य्द्/ युक्तोऽधिमित्रदृष्टः तत्रायं लाभको दिष्टः ॥ ॥ ४१।१४अ सवितृसहितः सम्पूर्णो वा शुभैः युतवीक्षितः ४१।१४ब् शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः । ४१।१४य् अशुभसहितः सन्दृष्टो वा हिनस्त्यथवा रविः ४१।१४द् प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम् ॥ ॥ sएपरते अध्याय ४२ इन्द्रध्वजसम्पद्ः ४२।१अब्/ ब्रह्माणमूचुः अमरा भगवन् शक्ताः स्म नासुरान् समरे । ४२।१य्द्/ प्रतियोधयितुमतः त्वां शरण्यशरणं समुपयाताः ॥ ॥ ४२।२अब्/ देवान् उवाच भगवान् क्षीरोदे केशवः स वः केतुम् । ४२।२य्द्/ यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः ॥ ॥ ४२।३अब्/ लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः । ४२।३य्द्/ श्रीवत्सांकं कौस्तुभमणिकिरनौद्भासितौरस्कम् ॥ ॥ ४२।४अब्/ श्रीपतिमचिन्त्यमसमं समं ततः (समन्ततः) सर्वदेहिनां सूक्ष्मम् । ४२।४य्द्/ परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् ॥ ॥ ४२।५अब्/ तैः संस्तुतः स देवः तुतोष नारायणो ददौ चैषाम् । ४२।५य्द्/ ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ॥ ॥ ४२।६अब्/ तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे । ४२।६य्द्/ देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः ॥ ॥ ४२।७अब्/ स किंकिणीजालपरिष्कृतेन (परिस्कृतेन) स्रक्छत्रघण्टापिटकान्वितेन । ४२।७य्द्/ समुच्छ्रितेनामरराड्ध्वजेन निन्ये विनाशं समरेऽरिसैन्यम् ॥ ॥ ४२।८अब्/ उपरिचरस्यामरपो वसोः ददौ चेदिपस्य वेणुमयीम् । ४२।८य्द्/ यष्टिं तां स नरेन्द्रो विधिवत् सम्पूजयामास ॥ ॥ ४२।९अब्/ प्रीतो महेन मघवा (मघवान्) प्राहएवं ये नृपाः करिष्यन्ति । ४२।९य्द्/ वसुवद्वसुमन्तः ते भुवि सिद्धाज्ञा भविष्यन्ति ॥ ॥ ४२।१०अब्/ मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः । ४२।१०य्द्/ ध्वजएव चाभिधास्यति जगति निमित्तैः फलं सदसत् ॥ ॥ ४२।११अब्/ पूजा तस्य नरेन्द्रैः बलवृद्धिजयार्थिभिः यथा पूर्वम् । ४२।११य्द्/ शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि ॥ ॥ ४२।१२अब्/ तस्य विधानं शुभकरणदिवसनक्षत्रमंगलमुहूर्तैः । ४२।१२य्द्/ प्रास्थानिकैः वनमियाद् दैवज्ञः सूत्रधारश्च ॥ ॥ ४२।१३अब्/ उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः । ४२।१३य्द्/ कुब्ज ऊर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ॥ ॥ ४२।१४अब्/ बहुविहगालयकोटरपवनानलपीडिताश्च ये तरवः । ४२।१४य्द्/ ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे ॥ ॥ ४२।१५अब्/ श्रेष्ठोऽर्जुनोऽजकर्णः (अश्वकमः) प्रियकधवौदुंबराश्च पंचैते । ४२।१५य्द्/ एतेषामेकतमं (अन्यतमं) प्रशस्तमथवापरं वृक्षम् ॥ ॥ ४२।१६अब्/ गौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्वम् । ४२।१६य्द्/ विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ॥ ॥ ४२।१७अब्/ यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः । ४२।१७य्द्/ उपहारं गृहीत्वा इमं क्रियतां वासपर्ययः ॥ ॥ ४२।१८अब्/ पार्थिवः त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम । ४२।१८य्द्/ ध्वजार्थं देवराजस्य पूजा इयं प्रतिगृह्यताम् ॥ ॥ ४२।१९अब्/ छिन्द्यात् प्रभातसमये वृक्षमुदक् प्रान् मुखोऽपि वा भूत्वा । ४२।१९य्द्/ परशोः जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥ ॥ ४२।२०अब्/ नृपजयदमविध्वस्तं पतनमनाकुंचितं च पूर्वोदक् । ४२।२०य्द्/ अविलग्नं चान्यतरौ विपरीतमतः त्यजेत् पतितम् ॥ ॥ ४२।२१अब्/ छित्त्वाग्रे चतुरंगुलमष्टौ मूले जले क्षिपेद् यष्टिम् । ४२।२१य्द्/ उद्धृत्य पुरद्वारं शकटेन नयेन् मनुष्यैः वा ॥ ॥ ४२।२२अब्/ अरभंगे बलभेदो नेम्या नाशो बलस्य विज्ञेयः । ४२।२२य्द्/ अर्थक्षयोऽक्षयभंगे तथाणिभंगे च वर्द्धकिनः ॥ ॥ ४२।२३अब्/ भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैः वृतो राजा । ४२।२३य्द्/ दैवज्ञसचिवकंचुकिविप्रप्रमुखैः सुवेषधरैः ॥ ॥ ४२।२४अब्/ अहतांबरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः । ४२।२४य्द्/ स्रग्गन्धधूपयुक्तां प्रवेशयेत्शंखतूर्यरवैः ॥ ॥ ४२।२५अब्/ रुचिरपताकातोरणवनमालालंकृतं प्रहृष्टजनम् । ४२।२५य्द्/ सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥ ॥ ४२।२६अब्/ अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् । ४२।२६य्द्/ नटनर्तकगेयज्ञैः आकीर्णचतुष्पथं नगरम् ॥ ॥ ४२।२७अब्/ तत्र पताकाः श्वेता भवन्ति विजयाय (विजयाय भवन्ति) रोगदाः पीताः । ४२।२७य्द्/ जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ॥ ॥ ४२।२८अब्/ यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः । ४२।२८य्द्/ बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा ॥ ॥ ४२।२९अब्/ सन्तक्ष्य पुनः तक्षा विधिवद् यष्टिं प्ररोपयेद् यन्त्रे । ४२।२९य्द्/ जागरमेकादश्यां नरेश्वरः कारयेगास्याम् ॥ ॥ ४२।३०अब्/ सितवस्त्रौष्णीषधरः पुरोहितः शाक्रवैष्णवैः मन्त्रैः । ४२।३०य्द्/ जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ॥ ॥ ४२।३१अब्/ इष्टद्रव्याकारः सुरभिः स्निग्धो घनोऽनलोऽर्चिष्मान् । ४२।३१य्द्/ शुभकृदतोऽन्योऽनिष्टो (नेष्टो) यात्रायां विस्तरोऽभिहितः ॥ ॥ ४२।३२अ स्वाहावसानसमये स्वयमुज्ज्वलार्चिः ४२।३२ब् स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य । ४२।३२य् गंगादिवाकरसुताजलचारुहारां ४२।३२द् धात्रीं समुद्ररशनां (समुद्ररसनां) वशगां करोति ॥ ॥ ४२।३३अ चामीकराशोककुरण्टकाब्ज ४२।३३ब् वैदूर्यनीलोत्पलसन्निभेऽग्नौ । ४२।३३य् न ध्वान्तमन्तर्भवनेऽवकाशं ४२।३३द् करोति रत्नांशुहतं नृपस्य ॥ ॥ ४२।३४अ येषां रथौघार्णवमेघदन्तिनां ४२।३४ब् समस्वनोऽग्निः यदि वापि दुन्दुभेः । ४२।३४य् तेषां मदान्धैभघटावघट्टिता ४२।३४द् भवन्ति याने तिमिरोपमा दिशः ॥ ॥ ४२।३५अब्/ ध्वजकुंभहयैभभूभृतामनुरूपे वशमेति भूभृताम् । ४२।३५य्द्/ उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥ ॥ ४२।३६अब्/ द्विरदमदमहीसरोजलाजा (जलाजैः) घृतमधुना च हुताशने सगन्धे । ४२।३६य्द्/ प्रणतनृपशिरोमणिप्रभाभिः भवति पुरस्छुरितेव भूः नृपस्य ॥ ॥ ४२।३७अब्/ उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः । ४२।३७य्द्/ तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ॥ ॥ ४२।३८अब्/ गुडपूपपायसाद्यैः विप्रान् अभ्यर्च्य दक्षिणाभिश्च । ४२।३८य्द्/ श्रवणेन द्वादश्यामुत्थाप्योऽन्यत्र वा श्रवणात् ॥ ॥ ४२।३९अब्/ शक्रकुमार्यः कार्याः प्राह मनुः सप्त पंच वा तज्ञैः । ४२।३९य्द्/ नन्दौपनन्दसंज्ञे पादोनार्धे ध्वजोच्छ्रायात् (पादेनार्धेन चोच्छ्रायात्) ॥ ॥ ४२।४०अब्/ षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये । ४२।४०य्द्/ अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम् ॥ ॥ ४२।४१अब्/ प्रीतैः कृतानि विबुधैः यानि पुरा भूषणानि सुरकेतोः । ४२।४१य्द्/ तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि ॥ ॥ ४२।४२अब्/ रक्ताशोकनिकाशं चतुरस्रं (चतुरश्रं) विश्वकर्मणा प्रथमम् । ४२।४२य्द्/ रशना (रसना) स्वयंभुवा शंकरेण चानेकवर्णगा दत्ता (चानेकवर्णधरी) ॥ ॥ ४२।४३अब्/ अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् । ४२।४३य्द्/ असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् ॥ ॥ ४२।४४अब्/ मञ्जिष्ठाभं वरुणः षडश्रि तत्पंचमं जलोर्मिनिभम् । ४२।४४य्द्/ मयूरं केयूरं षष्ठं वायुः जलदनीलम् ॥ ॥ ४२।४५अब्/ स्कन्धः स्वं केयूरं सप्तममददद् ध्वजाय बहुचित्रम् । ४२।४५य्द्/ अष्टममनलज्वालासंकाशं हव्यभुग्वृत्तं (दत्तं) ॥ ॥ ४२।४६अब्/ वैदूर्यसदृशमिन्द्रो (इन्दुः) नवमं ग्रैवेयकं ददावन्यत् । ४२।४६य्द्/ रथचक्राभं दशमं सूर्यः त्वष्टा प्रभायुक्तम् ॥ ॥ ४२।४७अब्/ एकादशमुद्वंशं विश्वेदेवाः सरोजसंकाशम् । ४२।४७य्द्/ द्वादशमपि च निवेशम् ऋषयो (निवंशं मुनयो) नीलोत्पलाभासम् ॥ ॥ ४२।४८अब्/ किंचिदधऊर्ध्वनिर्मितं (निर्नतं) उपरि विशालं त्रयोदशं केतोः । ४२।४८य्द्/ शिरसि बृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः ॥ ॥ ४२।४९अब्/ यदि यद् येन विभूषणं (विनिर्मितं) अमरेण विनिर्मितंविभूषणं) ध्वजस्यार्थे । ४२।४९य्द्/ तत्तत् तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः ॥ ॥ ४२।५०अब्/ ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य । ४२।५०य्द्/ परतः प्रथमात् प्रथमादष्टांशाष्टांशहीनानि ॥ ॥ ४२।५१अब्/ कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः । ४२।५१य्द्/ मनुना चागमगीतान् मन्त्रान् एतान् पठेन् नियतः ॥ ॥ ४२।५२अब्/ हरार्कवैवस्वतशक्रसोमैः धनेशवैश्वानरपाशभृद्भिः । ४२।५२य्द्/ महर्षिसंघैः सदिगप्सरोभिः शुक्रांगिरःस्कन्दमरुद्गणैश्च ॥ ॥ ४२।५३अब्/ यथा त्वमूर्जस्करणैकरूपैः समर्चितः त्वाभरणैरुदारैः । ४२।५३य्द्/ तथेह तानि आभरणानि यागे (देव) शुभानि सम्प्रीतमना गृहाण ॥ ॥ ४२।५४अब्/ अजोऽव्ययः शाश्वत एकरूपो विष्णुः वराहः पुरुषः पुराणः । ४२।५४य्द्/ त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षः (शीर्शा) शतमन्युः ईड्यः ॥ ॥ ४२।५५अब्/ कविं सप्तजिह्वं त्रातारमिन्द्रं स्ववितारं (अवितारं) सुरेशम् । ४२।५५य्द्/ ह्वयामि शक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरा (उत्तरे) भवन्तु ॥ ॥ ४२।५६अब्/ प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे । ४२।५६य्द्/ पठेदिमान् नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः ॥ ॥ ४२।५७अब्/ क्षत्रध्वजादर्शफलार्धचन्द्रैः विचित्रमालाकदलीक्षुदण्डैः । ४२।५७य्द्/ सव्यालसिंहैः पिटकैः गवाक्षैः अलंकृतं दिक्षु च लोकपालैः ॥ ॥ ४२।५८अ अच्छिन्नरज्जुं दृढकाष्ठमातृकं ४२।५८ब् सुश्लिष्टयन्त्रार्गलपादतोरणम् । ४२।५८य् उत्थापयेल्लक्ष्म सहस्रचक्षुषः ४२।५८द् सारद्रुमाभग्नकुमारिकान्वितम् ॥ ॥ ४२।५९अ अविरतजनरावं मंगलाशीःप्रणामैः । ४२।५९ब् पटुपटहमृदंगैः शंखभेर्यादिभिश्च । ४२।५९य् श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैः ४२।५९द् अशुभविहत (रहित) शब्दं केतुमुत्थापयेच् (उत्थापयीत) च ॥ ॥ ४२।६०अ फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः ४२।६०ब् प्रणिपतितशिरोभिः तुष्ट (तुष्टु) वद्भिश्च पौरैः । ४२।६०य् वृत (धृत) मनिमिषभर्तुः केतुमीशः प्रजानाम् ४२।६०द् मरिनगरनताग्रं कारयेद् द्विड्बधाय (वधाय) ॥ ॥ ४२।६१अ नातिद्रुतं न च विलंबितमप्रकंपम् ४२।६१ब् अध्वस्तमाल्यपिटकादिविभूषणम् च । ४२।६१य् उत्थानमिष्टमशुभं यदतोऽन्यथा स्यात् ४२।६१द् तच्छान्तिभिः नरपतेः शमयेत् पुरोधाः ॥ ॥ ४२।६२अ क्रव्यादकौशिककपोतककाककंकैः ४२।६२ब् केतुस्थितैः महदुशन्ति भयं नृपस्य । ४२।६२य् चाषेण चापि युवराजभयं वदन्ति ४२।६२द् श्येनो विलोचनभयं निपतन् करोति ॥ ॥ ४२।६३अ छत्रभंगपतने नृपमृत्युः ४२।६३ब् तस्करान् मधु करोति निलीनम् । ४२।६३य् हन्ति चाप्यथ पुरोहितमुल्का ४२।६३द् पार्थिवस्य महिषीमशनिश्च ॥ ॥ ४२।६४अ राज्ञीविनाशं पतिता पताका ४२।६४ब् करोत्यवृष्टिं पिटकस्य पातः । ४२।६४य् मध्याग्रमूलेषु च केतुभंगो ४२।६४द् निहन्ति मन्त्रिक्षितिपालपौरान् ॥ ॥ ४२।६५अ धूमावृते शिखिभयं तमसा च मोहो ४२।६५ब् व्यालैश्च भग्नपतितैः न भवत्यमात्याः । ४२।६५य् ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्यान् (द्विजाद्या) ४२।६५द् भंगे तु बन्धकिबधः (वधः) कथितः कुमार्याः ॥ ॥ ४२।६६अ रज्जूत्संगच्छेदने बालपीडा ४२।६६ब् राज्ञो मातुः पीडनं मातृकायाः । ४२।६६य् यद्यत् कुर्युश्चारणा बालका (बालकाश्चारणा) वा ४२।६६द् तत्तत् तादृग् भावि पापं शुभं वा ॥ ॥ ४२।६७अ दिनचतुष्टयमुत्थितमर्चितं ४२।६७ब् समभिपूज्य नृपोऽहनि पंचमे । ४२।६७य् प्रकृतिभिः सह लक्ष्म विसर्जयेद् ४२।६७द् बलभिदः स्वबलाभिविवृद्धये ॥ ॥ ४२।६८अब्/ उपरिचरवसुप्रवर्तितं नृपतिभिः अपि अनुसन्ततं कृतम् । ४२।६८य्द्/ विधिमिममनुमन्य पार्थिवो न रिपुकृतं भयमाप्नुयादिति ॥ ॥ sएपरते अध्याय ४३ नीराजनाध्यायः ४३।१अब्/ भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे । ४३।१य्द्/ उन्मीलयति तुरंग (तुरंगन) करिनरनीराजनं कुर्यात् ॥ ॥ ४३।२अब्/ द्वादश्यामष्टम्यां कार्तिक (कार्त्तिक) शुक्लस्य पंचदश्यां वा । ४३।२य्द्/ आश्वयुजे वा कुर्यान् नीराजनसंज्ञितां शान्तिम् ॥ ॥ ४३।३अब्/ नगरोत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम् । ४३।३य्द्/ षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्यम् ॥ ॥ ४३।४अब्/ सर्जौदुंबरककुभशाखामय (शाखाककुभमयं) शान्तिसद्म कुशबहुलम् । ४३।४य्द्/ वंशविनिर्मितमत्स्यध्वजचक्रालंकृतद्वारम् ॥ ॥ ४३।५अब्/ प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान् । ४३।५य्द्/ कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगाणाम् ॥ ॥ ४३।६अब्/ रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैः मन्त्रैः । ४३।६य्द्/ सप्ताहं शान्तिगृहे कुर्यात्शान्तिं तुरंगाणाम् ॥ ॥ ४३।७अब्/ अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयाः ते । ४३।७य्द्/ पुण्याहशंखतूर्यध्वनिगीतरवैः विमुक्तभयाः ॥ ॥ ४३।८अब्/ प्राप्ते अष्टमेऽह्नि कुर्यादुदन्मुखं तोरणस्य दक्षिणतः । ४३।८य्द्/ कुशचीरावृतमाश्रममग्निं पुरतोऽस्य वेद्यां च ॥ ॥ ४३।९अब्/ चन्दनकुष्ठसमंगाहरितालमनःशिलाप्रियंगुवचाः । ४३।९य्द्/ दन्त्यमृताञ्जनरजनीसुवर्णपुष्प्यग्निपुष्पाग्नि) मन्थाश्च ॥ ॥ ४३।१०अब्/ श्वेतां सपूर्णकोशां कटंभरात्रायमाणसहदेवीः । ४३।१०य्द्/ नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च ॥ ॥ ४३।११अब्/ कलशेष्वेताः (एतान्) कृत्वा संभारान् उपहरेद् वलिं (बलिं) सम्यक् ॥ ॥ ४३।११य्द्/ भक्ष्यैः नानाकारैः मधुपायसयावकप्रचुरैः ॥ ॥ ४३।१२अब्/ खदिरपलाशौदुंबरकाश्मर्यश्वत्थनिर्मिताः समिधः । ४३।१२य्द्/ स्रुक् कनकाद् रजताद् वा कर्तव्या भूतिकामेन ॥ ॥ ४३।१३अब्/ पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा । ४३।१३य्द्/ तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ॥ ॥ ४३।१४अब्/ यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च । ४३।१४य्द्/ वेदीपुरोहितानललक्षणमस्मिं तदवधार्यम् ॥ ॥ ४३।१५अब्/ लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम् । ४३।१५य्द्/ अहतसितांबरगन्धस्रग्धूम (धूपा)अभ्यर्चितं कृत्वा । ४३।१६अब्/ आश्रमतोरणमूलं समुपनयेत् सान्त्वयन् शनैः वाचा । ४३।१६य्द्/ वादित्रशंखपुण्याहनिःस्वनापूरितदिगन्तम् ॥ ॥ ४३।१७अब्/ यद्यानीतः तिष्ठेद् दक्षिणचरणं हयः समुत्क्षिप्य । ४३।१७य्द्/ स जयति तदा नरेन्द्रः शत्रून् नचिराद् (अचिराद्) विना यत्नात् ॥ ॥ ४३।१८अब्/ त्रस्यन् नैष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम् । ४३।१८य्द्/ यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति ॥ ॥ ४३।१९अब्/ पिण्डमभिमन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत् । ४३।१९य्द्/ अश्नीयाद् वा जयकृद् विपरीतोऽतोऽन्यथाभिहितः ॥ ॥ ४३।२०अब्/ कलशौदकेषु शाखामाप्लाव्यौदुंबरीं स्पृशेत् तुरगान् । ४३।२०य्द्/ शान्तिकपौष्टिकमन्त्रैः एवं सेनां सनृपनागाम् ॥ ॥ ४३।२१अब्/ शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयोऽभिचारकैः मन्त्रैः । ४३।२१य्द्/ मृत्मयमरिं विभिन्द्यात्शूलेनोरःस्थले विप्रः ॥ ॥ ४३।२२अब्/ खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितः ततो राजा । ४३।२२य्द्/ आरुह्यौदक्पूर्वां यायान् नीराजितः सबलः ॥ ॥ ४३।२३अब्/ मृदंगशंखध्वनिहृष्टकुञ्जरस्रवन्मदामोदसुगन्धमारुतः । ४३।२३य्द्/ शिरोमणिप्रान्त (व्रात) चलत् प्रभाचयैः ज्वलन् विविस्वान् इव तोयदात्यये ॥ ॥ ४३।२४अब्/ हंसपंक्तिभिः इतः ततोऽद्रिराट् सम्पतद्भिः इव शुक्लचामरैः ॥ ॥ ४३।२४य्द्/ मृष्टगन्धपवनानुवाहिभिः धूयमानरुचिरस्रगंबरः । ४३।२५अब्/ नैकवर्णमणिवज्रभूषितैः भूषितो मुकुटकुण्डलांगदैः । ४३।२५य्द्/ भूरिरत्नकिरणानुरञ्जितः शक्रकार्मुकरुचिं (रुचं) समुद्वहन् ॥ ॥ ४३।२६अब्/ उत्पतद्भिः इव खं तुरंगमैः दारयद्भिः इव दन्तिभिः धराम् । ४३।२६य्द्/ निर्जितारिभिः इवामरैः नरैः शक्रवत् परिवृतो व्रजेन् नृपः ॥ ॥ ४३।२७अब्/ सवज्रमुक्ताफलभूषणोऽथवा सितस्रगुष्णीषविलेपनांबरः । ४३।२७य्द्/ धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः ॥ ॥ ४३।२८अब्/ सम्प्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् । ४३।२८य्द्/ निर्विकारमरिपक्षभीषणं यस्य सैन्यमचिरात् स गां जयेत् ॥ ॥ sएपरते अध्याय ४४ खञ्जनकलक्षणाध्यायः ४४।१अब्/ खञ्जनको नामायं यो विहगः तस्य दर्शने प्रथमे । ४४।१य्द्/ प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥ ॥ ४४।२अब्/ स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः । ४४।२य्द्/ आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥ ॥ ४४।३अब्/ कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद् रिक्तः । ४४।३य्द्/ पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥ ॥ ४४।४अब्/ अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु । ४४।४य्द्/ करितुरगभुजगमूर्ध्नि प्रासादौद्यानहर्म्येषु ॥ ॥ ४४।५अब्/ गोगोष्ठसत्समागमयज्ञौत्सवपार्थिवद्विजसमीपे । ४४।५य्द्/ हस्तितुरंगमशालाघत्रध्वजचामराद्येषु ॥ ॥ ४४।६अब्/ हेमसमीपसितांबरकमलोत्पलपूजितौपलिप्तेषु । ४४।६य्द्/ दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥ ॥ ४४।७अब्/ पंके स्वाद्वन्नाप्तिः गोरससम्पग गोमयोपगते । ४४।७य्द्/ शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥ ॥ ४४।८अब्/ गृहपटलेऽर्थभ्रंशो बध्रे (वध्रे) बन्धोऽशुचौ भवति रोगः । ४४।८य्द्/ पृष्ठे त्वजाविकानां प्रियसंगममावहत्याशु ॥ ॥ ४४।९अब्/ महिषौष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्ट (अद्रि) स्थः । ४४।९य्द्/ प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥ ॥ ४४।१०अब्/ पक्षौ धुन्वन् न शुभः शुभः पिबन् वारि निम्नगासंस्थः । ४४।१०य्द्/ सूर्योदये प्रशस्तो (ऽथ शस्तो) नैष्टफलः खञ्जनोऽस्तमये ॥ ॥ ४४।११अब्/ नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् । ४४।११य्द्/ पश्येत् तया गतस्य क्षिप्रमरातिः वशमुपैति ॥ ॥ ४४।१२अ तस्मिन् निधिः भवति मैथुनमेति यस्मिन् ४४।१२ब् यस्मिं तु छर्दयति तत्र तलेऽस्ति काचम् । ४४।१२य् अंगारमपि उपदिशन्ति पुरीषणेऽस्य ४४।१२द् तत्कौतुकापनयनाय खनेद् धरित्रीम् ॥ ॥ ४४।१३अब्/ मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः । ४४।१३य्द्/ धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ॥ ॥ ४४।१४अब्/ नृपतिः अपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । ४४।१४य्द्/ सुरभिकुसुमधूपयुक्तमर्घं शुभमभिनन्दिं (अभिनन्दितं) एवमेति वृद्धिम् ॥ ॥ ४४।१५अब्/ अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः । ४४।१५य्द्/ न नृपतिः अशुभं समाप्नुयात् (समाप्नुयान्) न यदि दिनानि च सप्त मांसभुक् ॥ ॥ ४४।१६अब्/ आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषात् (दिनशेषे) । ४४।१६य्द्/ दिक्स्थानमूर्तिलग्नऋक्षशान्तदीप्तादिभिश्चौह्यम् ॥ ॥ sएपरते अध्याय ४५ उत्पाताध्यायः ४५।१अब्/ यान् अत्रेः (अत्रि) उत्पातान् गर्गः प्रोवाच तान् अहं वक्ष्ये । ४५।१य्द्/ तेषां संक्षेपोऽयं प्रकृतेः अन्यत्वमुत्पातः ॥ ॥ ४५।२अब्/ अपचारेण नराणामुपसर्गः पापसंचयाद् भवति । ४५।२य्द्/ संसूचयन्ति दिव्यान्तरिक्षभौमाः त उत्पाताः (तदुत्पाताः) ॥ ॥ ४५।३अब्/ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । ४५।३य्द्/ तत्प्रतिघाताय नृपः शांस्तिं राष्ट्रे प्रयुञ्जीत ॥ ॥ ४५।४अब्/ दिव्यं ग्रहऋक्षवैकृतमुल्कानिर्घातपवनपरिवेषाः । ४५।४य्द्/ गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥ ॥ ४५।५अब्/ भौमं चरस्थिरभवं तत्शान्तिभिः आहतं शममुपैति । ४५।५य्द्/ नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ॥ ॥ ४५।६अब्/ दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः । ४५।६य्द्/ रुद्रायतने भूमौ गोदोहात् कोटिहोमाग ॥ ॥ ४५।७अब्/ आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च (लोकेषु) । ४५।७य्द्/ पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥ ॥ ४५।८अब्/ अनिमित्तभंगचलनस्वेदाश्रुनिपातजल्पनाद्यानि । ४५।८य्द्/ लिंगार्चायतनानां नाशाय नरेशदेशानाम् ॥ ॥ ४५।९अब्/ दैवतयात्राशकटाक्षचक्रयुगकेतुभंगपतनानि । ४५।९य्द्/ सम्पर्यासनसादनसंगः (संगाः) च न देशनृपशुभदाः ॥ ॥ ४५।१०अब्/ ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् । ४५।१०य्द्/ यद् रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥ ॥ ४५।११अब्/ गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् । ४५।११य्द्/ स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ॥ ॥ ४५।१२अब्/ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे । ४५।१२य्द्/ धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥ ॥ ४५।१३अब्/ देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् । ४५।१३य्द्/ तन् नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥ ॥ ४५।१४अब्/ रक्षः पिशाचगृह्यकनागानामेवं (एतद्) एव निर्दिष्टं (निर्देश्यं) । ४५।१४य्द्/ मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥ ॥ ४५।१५अब्/ बुद्ध्वा देवविकारं शुचिः पुरोधाः त्र्यहौषितः स्नातः । ४५।१५य्द्/ स्नानकुसुमानुलेपनवस्त्रैः अभ्यर्चयेत् प्रतिमाम् ॥ ॥ ४५।१६अब्/ मधुपर्केण पुरोधा भक्ष्यैः (बक्षैः) बलिभिश्च विधिवदुपतिष्ठेत् । ४५।१६य्द्/ स्थालीपाकं जुहुयाद् विधिवन् मन्त्रैश्च तल्लिंगैः ॥ ॥ ४५।१७अ इति विबुधविकारे शान्तयः सप्तरात्रं ४५।१७ब् द्विजविबुधगणार्चा गीतनृत्यौत्सवाश्च । ४५।१७य् विधिवदवनिपालैः यैः प्रयुक्ता न तेषां ४५।१७द् भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥ ॥ ४५।१८अब्/ राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् । ४५।१८य्द्/ मनुजेश्वरस्य पीडा तस्य च राष्ट्रस्य विज्ञेया ॥ ॥ ४५।१९अब्/ जलमांसार्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः । ४५।१९य्द्/ सैन्यग्रामपुरेषु च नाशो वह्नेः भयं कुरुते ॥ ॥ ४५।२०अब्/ प्रासादभवनतोरणकेत्वादिष्वननलेन दिग्धेषु । ४५।२०य्द्/ तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥ ॥ ४५।२१अब्/ धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम् । ४५।२१य्द्/ व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम् ॥ ॥ ४५।२२अब्/ नगरचतुष्पादण्ड (दाण्ड) जमनुजानां भयकरं ज्वलनमाहुः । ४५।२२य्द्/ धूमाग्निविस्फुलिंगैः शय्यांबरकेशगैः मृत्युः ॥ ॥ ४५।२३अब्/ आयुधज्वलनसर्पणस्वनाः क्षनिर्गमनवेपनानि वा । ४५।२३य्द्/ वैकृतानि यदि वायुधेऽपराणि आशु रौद्ररणसंकुलं वदेत् ॥ ॥ ४५।२४अ मन्त्रैः आग्नेयैः (वाह्नैः) क्षीरवृक्षात् समिद्भिः ४५।२४ब् होतव्योऽग्निः सर्षपैः सर्पिषा च । ४५।२४य् अग्न्यादीनां वैकृते शान्तिः एवं ४५।२४द् देयं चास्मिन् कांचनं ब्राह्मणेभ्यः ॥ ॥ ४५।२५अब्/ शाखाभंगेऽकस्माद् वृक्षाणां निर्दिशेद् रणोद्योगम् । ४५।२५य्द्/ हसन देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥ ॥ ४५।२६अब्/ राष्ट्रविभेदः त्वनृतौ बालवधोऽतीव कुसुमिते बाले । ४५।२६य्द्/ वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ॥ ॥ ४५।२७अब्/ मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः । ४५।२७य्द्/ स्नेहे दुर्भिक्षभयं महद्भयं निःस्रुते (निःसृते) सलिले ॥ ॥ ४५।२८अब्/ शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् । ४५।२८य्द्/ पतितानामुत्थाने स्वयं भयं दैवजनितं च ॥ ॥ ४५।२९अब्/ पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम् । ४५।२९य्द्/ धूमः तस्मिन् ज्वालाऽथवा भवेन् नृपवधायैव ॥ ॥ ४५।३०अब्/ सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः । ४५।३०य्द्/ वृक्षाणां वैकृत्ये दशभिः मासैः फलविपाकः ॥ ॥ ४५।३१अब्/ स्रग्गन्धधूपांबरपूजितस्य छत्रं विधायोपरि पादपस्य । ४५।३१य्द्/ कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षड् एव होमाः (षडंगहोमः) ॥ ॥ ४५।३२अब्/ पायसेन मधुनापि (मधुना च) भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः । ४५।३२य्द्/ मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते हितार्थिभिः ॥ ॥ ४५।३३अब्/ नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसंभवो मरणम् । ४५।३३य्द्/ कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥ ॥ ४५।३४अब्/ अतिवृद्धिः सस्यानां नानाफलकुसुमसंभवो (भवो) वृक्षे । ४५।३४य्द्/ भवति हि यद्येकस्मिन् परचक्रस्यागम्मो नियमात् ॥ ॥ ४५।३५अब्/ अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् । ४५।३५य्द्/ अन्नस्य च वैरस्यं तदा तु विन्द्याद् भयं सुमहत् ॥ ॥ ४५।३६अब्/ विकृतकुसुमं फलम् वा ग्रामादथवा पुराद् वहिः कार्यम् । ४५।३६य्द्/ सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥ ॥ ४५।३७अ सस्ये च दृष्ट्वा विकृतिं प्रदेयं ४५।३७ब् तत्क्षेत्रमेव प्रथमं द्विजेभ्यः । ४५।३७य् तस्यैव मध्ये चरुमत्र भौमं ४५।३७द् कृवा न दोषं समुपैति तज्जं (तज्जान्) ॥ ॥ ४५।३८अब्/ दुर्भिक्षमनावृष्टावतिवृष्टौ (अनावृष्ट्यामतिवृष्ट्यां) क्षुद्भयं परभयं च (सपरचक्रं) । ४५।३८य्द्/ रोगो ह्यनृतुभवायां नृपतिवधो (नृपवधो) ऽनभ्रजातायाम् ॥ ॥ ४५।३९अब्/ शीतोष्णविपर्यासो (विपर्यासे) नो सम्यगृतुषु च सम्प्रवृत्तेषु । ४५।३९य्द्/ षण्मासाद् राष्ट्रभयं रोगभयं दैवजनितं च ॥ ॥ ४५।४०अब्/ अन्यऋतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् । ४५।४०य्द्/ रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिः मरकः ॥ ॥ ४५।४१अब्/ धान्यहिरण्यत्वक्फलकुसुमाद्यैः वर्षितैः भयं विन्द्यात् । ४५।४१य्द्/ अंगारपांशुवर्षे विनाशमायाति तन्नगरम् ॥ ॥ ४५।४२अब्/ उपला विना जलधरैः विकृता वा प्राणिनो यदा वृष्टाः । ४५।४२य्द्/ छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसंजननम् ॥ ॥ % ओने वेर्से इन्सेर्तेद् ४६।४३अब्/ क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां (वारिणो) वर्षे । ४६।४३य्द्/ देशविनाशो ज्ञेयोऽसृग्वर्षे च अपि नृपयुद्धम् ॥ ॥ ४५।४३अब्/ यद्यमलेऽर्के छाया न दृश्यते प्रतीपा वा । ४५।४३य्द्/ देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम् ॥ ॥ ४५।४४अब्/ व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ । ४५।४४य्द्/ प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भ्यं सुमहत् ॥ ॥ ४५।४५अब्/ सूर्येन्दुपर्जन्यसमीरणानां यागः (योगः) स्मृतो वृष्टिविकारकाले । ४५।४५य्द्/ धान्यान्नगोकांचनदक्षिणाश्च देयाः ततः शान्तिमुपैति पापम् ॥ ॥ ४५।४६अब्/ अपसर्पणं नदीनाम् नगरादचिरेण शून्यतां कुरुते । ४५।४६य्द्/ शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम् ॥ ॥ ४५।४७अब्/ स्नेहासृग्मांसवहाः संकुलकलुषाः प्रतीपगाश्चापि । ४५।४७य्द्/ परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ॥ ४५।४८अब्/ ज्वालाधूमक्वाथारुदितौत्क्रुष्टानि चैव कूपानाम् । ४५।४८य्द्/ गीतप्रजल्पितानि च जनमरकायौपदिष्टानि (प्रदिष्टानि) ॥ ॥ ४५।४९अब्/ सलिल (तोय) उत्पत्तिः अखाते गन्धरसविपर्यये च तोयानाम् । ४५।४९य्द्/ सलिलाशयविकृतौ वा महद्भयं तत्र शन्तिमिमां (इयं) ॥ ॥ ४५।५०अब्/ सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैः मन्त्रैः । ४५।५०य्द्/ तैः एव च जपहोमं शममेवं पापमुपयाति ॥ ॥ ४५।५१अब्/ प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा । ४५।५१य्द्/ हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥ ॥ ४५।५२अब्/ वडवा उष्ट्रमहिषगोहस्तिनीषु यमलौद्भवे रणमरणं (मरणं) एषाम् । ४५।५२य्द्/ षण्मासात् सूतिफलं शान्तौ श्लोकौ च गर्गौक्तौ ॥ ॥ ४५।५३अब्/ नार्यः परस्य विषये त्यक्तव्याः ता हितार्थिना । ४५।५३य्द्/ तर्पयेग द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥ ॥ ४५।५४अब्/ चतुष्पादाः स्वयूथेभ्यः त्यक्तव्याः परभूमिषु । ४५।५४य्द्/ नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥ ॥ ४५।५५अब्/ परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम् । ४५।५५य्द्/ उक्षाणो वान्योन्यं पिबति श्वा वा सुरभिपुत्रम् ॥ ॥ ४५।५६अब्/ मासत्रयेण विन्द्यात् तस्मिन् निःसंशयं परागमनम् । ४५।५६य्द्/ तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥ ॥ ४५।५७अब्/ त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् । ४५।५७य्द्/ तर्पयेद् ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥ ॥ ४५।५८अब्/ स्थालीपाकेन धातारं पशुना च पुरोहितः । ४५।५८य्द्/ प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणम् ॥ ॥ ४५।५९अब्/ यानं वाहवियुक्तं यदि गच्छेन् न व्रजेग वाहयुतम् । ४५।५९य्द्/ राष्ट्रभयं भवति तदा चक्राणां सादभंगे च ॥ ॥ ४५।६०अब्(४६।६१अब्)/ गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम् । ४५।६०य्द्(४६।६१य्द्)/ मृत्युः तदा गदा वा विस्वतूर्ये (विस्वरतार्ये) पराभिभवः ॥ ॥ ४५।६१अब्(४६।६२अब्)/ अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । ४५।६१य्द्(४६।६२ऐ)/ व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा ॥ ॥ ४५।६२अब्/ गोलांगलयोः संगे दर्वीशूर्पाद्युपस्करविकारे । ४५।६२य्द्/ क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥ ॥ ४५।६३अब्/ वायव्येष्वेषु न्र्पतिः वायुं शक्तुभिः अर्चयेत् । ४५।६३य्द्/ आवायोः इति पंचर्चो जप्तव्याः (जाप्याश्च) प्रयतैः द्विजैः ॥ ॥ ४५।६४अब्/ ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् । ४५।६४य्द्/ बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥ ॥ ४५।६५अब्/ पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् । ४५।६५य्द्/ नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ॥ ॥ ४५।६६अब्/ सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहंगा वा । ४५।६६य्द्/ दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः ॥ ॥ ४५।६७अब्/ श्येनाः (श्वानः) प्ररुदन्त इव द्वारे क्रोशन्ति जंबुका दीप्ताः । ४५।६७य्द्/ प्रविशेन् नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥ ॥ ४५।६८अब्/ कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः । ४५।६८य्द्/ प्रतिलोममण्डलचराः श्येनाद्याश्चांबरे भयदाः ॥ ॥ ४५।६९अब्/ गृहचैत्यतोरणेषु द्वारेषु च पक्षिसंघसम्पातः (सम्पाताः) । ४५।६९य्द्/ मधुवल्मीकांभोरुहसमुद्भवः (समुद्भवाः) चापि नाशाय ॥ ॥ ४५।७०अब्/ श्वभिः अस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय । ४५।७०य्द्/ पशुशस्त्रव्याहारे नृपमृत्युः मुनिवचश्चेदम् ॥ ॥ ४५।७१अब्/ मृगपक्षिविकारेषु कुर्याद् धीमान् (धोमान्) सदक्षिणान् । ४५।७१य्द्/ देवाः कपोत इति च जप्तव्याः पंचभिः द्विजैः ॥ ॥ ४५।७२अब्/ सुदेवा इति चैकेन देया गावः सदक्षिणाः (च दक्षिणा) । ४५।७२य्द्/ जपेत्शाकुनसूक्तं वा मनो वेदशिरांशि च ॥ ॥ ४५।७३अब्/ शक्रध्वजेन्द्रकीलस्तंभद्वारप्रपातभंगेषु । ४५।७३य्द्/ तद्वत् कपाटतोरणकेतूनां नरपतेः मरणम् ॥ ॥ ४५।७४अब्/ सन्ध्याद्वयस्य दीप्तिः धूमौत्पत्तिश्च काननेऽनग्नौ । ४५।७४य्द्/ छिद्राभावे भूमेः दरणं कंपश्च भयकारी ॥ ॥ ४५।७५अ पाखण्डाणां (पाषण्डाणां) नास्तिकानां च भक्तः ४५।७५ब् साध्वाचारप्रोज्झितः क्रोधशीलः । ४५।७५य् ईर्ष्युः क्रूरो विग्रहासक्तचेता ४५।७५द् यस्मिन् राजा तस्य देशस्य नाशः ॥ ॥ ४५।७६अब्/ प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः । ४५।७६य्द्/ निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु ॥ ॥ ४५।७७अब्/ अंगारगैरिकाद्यैः विकृतप्रेताभिलेखनं यस्मिन् । ४५।७७य्द्/ नायकचित्रितमथवा क्षये क्षयं याति न चिरेण ॥ ॥ ४५।७८अब्/ लूतापटांगशबलं न सन्ध्ययोः पूजितं कलहयुक्तम् । ४५।७८य्द्/ नित्यौच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति ॥ ॥ ४५।७९अब्/ दृष्टेषु यातुधानेषु निर्दिशेन् मरकमाशु सम्प्राप्तम् । ४५।७९य्द्/ प्रतिघातायैतेषां गर्गः शान्तिं चकारैमाम् ॥ ॥ ४५।८०अब्/ महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च । ४५।८०य्द्/ कारयेत महेन्द्रं च माहेन्द्रीं (महेन्द्रीभिः) च समर्चयेत् ॥ ॥ ४५।८१अब्/ नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः । ४५।८१य्द्/ उत्पातानां प्रभवः स्वऋतुभवश्चाप्यदोषाय ॥ ॥ ४५।८२अब्/ ये च न दोषान् जनयन्त्युत्पाताः तान् ऋतुस्वभावकृतान् । ४५।८२य्द्/ ऋषिपुत्रकृतैः श्लोकैः विद्यादेतैः समासौक्तैः ॥ ॥ ४५।८३अब्/ वज्राशनिमहीकंपसन्ध्यानिर्घातनिःस्वनाः । ४५।८३य्द्/ परिवेषरजोधूमरक्तार्कास्तमय (अस्तमन) उदयाः ॥ ॥ ४५।८४अब्/ द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलौद्गमाः । ४५।८४य्द्/ गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ॥ ४५।८५अब्/ तारा उल्कापातकलुषं कपिलार्केन्दुमण्डलम् । ४५।८५य्द्/ अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥ ॥ ४५।८६अब्/ रक्तपद्मारुणा (अरुणं) सन्ध्या (सन्ध्यं) नभः क्षुब्धार्णवौपमम् । ४५।८६य्द्/ सरितां चांबुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ॥ ४५।८७अब्/ शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । ४५।८७य्द्/ कंपौद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ॥ ४५।८८अब्/ सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः । ४५।८८य्द्/ सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ॥ ४५।८९अब्/ दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् । ४५।८९य्द्/ ग्रहनक्षत्रताराणां दर्शनं च दिवाऽंबरे ॥ ॥ ४५।९०अब्/ गीतवादित्रनिर्घोषा वनपर्वतसानुषु । ४५।९०य्द्/ सस्यवृद्धिः अपां हानिः अपापाः शरदि स्मृताः ॥ ॥ ४५।९१अब्/ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । ४५।९१य्द्/ रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमनुषी ॥ ॥ ४५।९२अब्/ दिशो धूमान्धकाराश्च सनभोवनपर्वताः । ४५।९२य्द्/ उच्छैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ॥ ४५।९३अब्/ हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् । ४५।९३य्द्/ कृष्णाञ्जनाभमाकाशं तारा उल्कापातपिञ्जरम् ॥ ॥ ४५।९४अब्/ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । ४५।९४य्द्/ पत्रांकुरलतानां च विकाराः शिशिरे शुभाः ॥ ॥ ४५।९५अब्/ ऋतुस्वभावजा ह्येते दृष्टाः स्वऋतौ शुभप्रदाः । ४५।९५य्द्/ ऋतोः अन्यत्र चौत्पाता दृष्टाः ते चातिदारुणाः (बृशदारुनाः) ॥ ॥ ४५।९६अब्/ उन्मत्तानां च या गाथाः शिशूनां यग भाषितं (भाषितं च यत्) । ४५।९६य्द्/ स्त्रियो यग प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ॥ ४५।९७अब्/ पूर्वं चरति देवेषु पश्चागरति (गच्छति) मानुषान् । ४५।९७य्द्/ नाचोदिता वाग् वदति सत्या ह्येषा सरस्वती ॥ ॥ ४५।९८अ उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा ४५।९८ब् विख्यातो भवति नरेन्द्रवल्लभश्च । ४५।९८य् एतत् तन्मुनिवचनं रहस्यमुक्तं ४५।९८द् यज्ञात्वा भवति नरः त्रिकालदर्शी ॥ ॥ sएपरते अध्याय ४६ मयूरचित्रकाध्यायः ४६।१अब्/ दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च । ४६।१य्द्/ प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण ॥ ॥ ४६।२अ भूयो वराहमिहिरस्य न युक्तमेतत् ४६।२ब् कर्तुं समासकृदसविति तस्य दोषः । ४६।२य् तज्ञैः न वाच्यमिदमुक्तफलानुगीति ४६।२द् यद् बर्हि (वर्हि) चित्रकमिति प्रथितं वरांगम् ॥ ॥ ४६।३अब्/ स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम् । ४६।३य्द्/ ब्रवीम्यहं न चेदिदं तथाऽपि मेऽत्र वाच्यता ॥ ॥ ४६।४अब्/ उत्तरवीथिगता द्युतिमन्तः क्षेमशुभिक्षशिवाय समस्ताः । ४६।४य्द्/ दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकराः ते ॥ ॥ ४६।५अब्/ कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम् प्रभविष्णौ । ४६।५य्द्/ निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः ॥ ॥ ४६।६अब्/ पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवमेन्द्रमेव वा । ४६।६य्द्/ प्रोज्झ्य सूर्यमपरे ग्रहाः तदा पश्चिमा दिग् अनयेन पीड्यते ॥ ॥ ४६।७अ प्राच्यां चेद् ध्वजवदवस्थिता दिनान्ते ४६।७ब् प्राच्यानां भवति हि विग्रहो नृपाणाम् । ४६।७य् मध्ये चेद् भवति हि मध्यदेशपीठा (पीडा) ४६।७द् रूक्षैः तैः न तु रुचिमन् (रुचिरैः) मयूखवद्भिः ॥ ॥ ४६।८अब्/ दक्षिणां ककुभमाश्रितः (आश्रितैः) तु तैः दक्षिणापथपयोमुचां क्षयः । ४६।८य्द्/ हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ॥ ॥ ४६।९अब्/ उत्तरमार्गे स्पष्टमयूखाः शान्तिकराः ते तन् नृपतीनाम् । ४६।९य्द्/ ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युः देशनृपाणाम् ॥ ॥ ४६।१०अ नक्षत्राणां तारकाः सग्रहाणाम् ४६।१०ब् धूमज्वालाविस्फुलिंगान्विताश्चेत् । ४६।१०य् आलोकं वा निर्निमित्तं न यान्ति ४६।१०द् याति ध्वंसं सर्वलोकः सभूपः ॥ ॥ ४६।११अ दिवि भाति यदा तुहिनांशुयुगं ४६।११ब् द्विजवृद्धिः अतीव तदाशु शुभा । ४६।११य् तदनन्तरवर्णरणोऽर्कयुगे ४६।११द् जगतः प्रलयः त्रिचतुष्प्रभृति ॥ ॥ ४६।१२अ मुनीन् अभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ४६।१२ब् शिखी घनविनाशकृत् कुशलकर्महा शोकदः । ४६।१२य् भुजंगं (भुजंगभं) अथ संस्पृशेद् भवति वृष्टिनाशो ध्रुवं ४६।१२द् क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ॥ ॥ ४६।१३अब्/ प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम् । ४६।१३य्द्/ दुर्भिक्षं कुरुते महदुग्रं (भयमुग्रं) मित्राणां च विरोधमवृष्टिम् ॥ ॥ ४६।१४अब्/ रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा शिखी । ४६।१४य्द्/ किं वदामि यदनिष्टसागरे जगदशेषमुअपयाति संक्षयम् ॥ ॥ ४६।१५अब्/ उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा । ४६।१५य्द्/ अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥ ॥ ४६।१६अ धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो ४६।१६ब् बलोद्योगं चन्द्रः (चेन्दुः) कथयति जयं ज्याऽस्य च यतः । ४६।१६य् गवां(अवाक्) श‍ृंगो गोघ्नो निधनमपि सस्यस्य कुरुते ४६।१६द् ज्वलन् धूमायन् वा नृपतिमरणायैव भवति ॥ ॥ ४६।१७अब्/ स्निग्धः स्थूलः समश‍ृंगो विशालः तुंगश्चौदग्विचरन् नागवीथ्याम् । ४६।१७य्द्/ दृष्टः सौम्यैः अशुभैः विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ॥ ॥ ४६।१८अब्/ पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशांकः । ४६।१८य्द्/ दक्षिणेन न शुभः शुभकृत् (शुभो हितकृत्) स्याद् यद्युदक् चरति मध्यगतो वा ॥ ॥ ४६।१९अब्/ परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा । ४६।१९य्द्/ परिधिः तु प्रतिसूर्यो दण्डः त्वृजुः इन्द्रचापनिभः ॥ ॥ ४६।२०अब्/ उदयेऽस्ते वा भानोः ये दीर्घा रश्मयः त्वमोघाः ते । ४६।२०य्द्/ सुरचापखण्डम् ऋजु यद्रोहितमैरावतं दीर्घम् ॥ ॥ ४६।२१अब्/ अर्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् । ४६।२१य्द्/ तेजःपरिहानिमुखाद् भानोः अर्धोदयो यावत् ॥ ॥ ४६।२२अब्/ तस्मिन् सन्ध्याकाले चिह्नैः एतैः शुभाशुभं वाच्यम् । ४६।२२य्द्/ सर्वैः एतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ॥ ॥ ४६।२३अ अच्छिन्नः परिघो वियग विमलं श्यामा मयूखा रवेः ४६।२३ब् स्निग्धा दीधितयः मितं (सितं) सुरधनुर्विद्युग पूर्वोत्तरा । ४६।२३य् स्निग्धो मेघतरुः दिवाकरकरैः आलिंगितो वा यदा ४६।२३द् वृष्टिः स्याद् यदि वाऽर्कमस्तसमये मेघो महान् छादयेत् ॥ ॥ ४६।२४अब्/ खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैः वा चिह्नैः विद्धः । ४६।२४य्द्/ यस्मिन् देशे रूक्षश्चार्कः तत्राभावः प्रायो राज्ञः ॥ ॥ ४६।२५अब्/ वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः । ४६।२५य्द्/ यस्य तस्य बलविद्रवो महान् अग्रैः तु विजयो विहंगमैः ॥ ॥ ४६।२६अब्/ भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी । ४६।२६य्द्/ विंबं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥ ॥ ४६।२७अब्/ शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च । ४६।२७य्द्/ पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥ ॥ ४६।२८अ यद्विस्तरेण कथितं मुनिभिः तदस्मिन् ४६।२८ब् सर्वं मया निगदितं पुनरुक्तवर्जम् । ४६।२८य् श्रुत्वाऽपि कोकिलरुतं बलिभुग्विरौति ४६।२८द् यत्तत् स्वभावकृतमस्य पिकं न जेतुम् ॥ ॥ sएपरते अध्याय ४७ पुष्यस्नानाध्यायः ४७।१अब्/ मूलं मनुजाधिपतिः प्रजातरोः तदुपघातसंस्कारात् । ४७।१य्द्/ अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥ ॥ ४७।२अब्/ या व्याख्याता शान्तिः स्वयंभुवा सुरगुरोः महेन्द्रार्थे । ४७।२य्द्/ तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः श‍ृणुत ॥ ॥ ४७।३अब्/ पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम् । ४७।३य्द्/ नातः परं पवित्रं सर्वौत्पातान्तकरमस्ति ॥ ॥ ४७।४अब्/ श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने । ४७।४य्द्/ कौशिकगृध्रप्रभृतिभिः अनिष्टविहगैः परित्यक्ते ॥ ॥ ४७।५अब्/ तरुणतरुगुल्मवल्लीलताप्रतानान्विते (वृते) वनोद्देशे । ४७।५य्द्/ निरुपहतपत्रपल्ल्वमनोज्ञमधुरद्रुमप्राये ॥ ॥ ४७।६अब्/ कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः । ४७।६य्द्/ क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥ ॥ ४७।७अब्/ कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः । ४७।७य्द्/ विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ॥ ॥ ४७।८अब्/ हृदिनी (ह्रदिनी) विलासिनीनां जलखगनखविक्षतेषु रम्येषु । ४७।८य्द्/ पुलिनजघनेषु कुर्याद् दृक्मनसोः प्रीतिजननेषु ॥ ॥ ४७।९अब्/ प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसोद्गीते । ४७।९य्द्/ फुल्लेन्दीवरनयने सरसि सहस्राक्षकान्तिधरे ॥ ॥ ४७।१०अब्/ प्रोत्फुल्लकमलवदनाः कलहंसकल (अद्द्।स्वन) प्रभाषिण्यः । ४७।१०य्द्/ प्रोत्तुंगकुड्मलकुचा यस्मिन् नलिनीविलासिन्यः ॥ ॥ ४७।११अब्/ कुर्याद् गोरोमन्थजफेनलवशकृत्खुरक्षतौपचिते । ४७।११य्द्/ अचिरप्रसूतहुंकृतवल्गितवत्सौत्सवे गोष्ठे ॥ ॥ ४७।१२अब्/ अथवा समुद्रतीरे कुशलागतरत्नपोत (पोतरत्न) संबाधे । ४७।१२य्द्/ घननिचुललीनजलचरसितखगशबलीकृतोपान्ते ॥ ॥ ४७।१३अब्/ क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते येषु (यत्र) । ४७।१३य्द्/ दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथवा ॥ ॥ ४७।१४अब्/ कांचीकलापनूपुरगुरुजघनौद्वहनविघ्नितपदाभिः । ४७।१४य्द्/ श्रीमति मृगेक्षणाभिः गृहेऽन्यब्भृतवल्गुवचनाभिः ॥ ॥ ४७।१५अब्/ पुण्येष्वायतनेषु च तीर्थेषूद्यानरम्यदेशेषु । ४७।१५य्द्/ पूर्वोदक्प्लवभूमौ प्रदक्षिणांभोवहायां च ॥ ॥ ४७।१६अब्/ भस्मांगारास्थ्यूषरतुषकेशश्वभ्रकर्कटावासैः । ४७।१६य्द्/ श्वाविध (श्वाविन्) मूषकविवरैः वल्मीकैः या च सन्त्यक्ता ॥ ॥ ४७।१७अब्/ धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय । ४७।१७य्द्/ सेनावासेऽपि एवं योजयितव्या यथायोगम् ॥ ॥ ४७।१८अब्/ निष्क्रम्य पुरान् नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् । ४७।१८य्द्/ कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ॥ ॥ ४७।१९अब्/ लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् । ४७।१९य्द्/ आवाहनमथ मन्त्रः तस्मिन् मुनिभिः समुद्दिष्टः ॥ ॥ (मन्त्र ४७।२०-२१) ४७।२०अब्/ आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः । ४७।२०य्द्/ दिशो नागा द्विजाश्चैव ये चाप्यन्ये (चानेयपि) ऽंशभागिनः ॥ ॥ ४७।२१अब्/ आवाह्यएवम् ततः सर्वान् एवं ब्रूयात् पुरोहितः । ४७।२१य्द्/ श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः ॥ ॥ ४७।२२अब्/ आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुः ते । ४७।२२य्द्/ सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ॥ ॥ ४७।२३अब्/ अपरेऽहनि प्रभाते संभारान् उपहरेद् यथोक्तगुणान् । ४७।२३य्द्/ गत्वाऽवनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः ॥ ॥ ४७।२४अब्/ तस्मिन् मण्डलमालिख्य कल्पयेत् तत्र मेदिनीम् । ४७।२४य्द्/ नानारत्नाकरवतीं स्थानानि विविधानि च ॥ ॥ ४७।२५अब्/ पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितुन् । ४७।२५य्द्/ गन्धर्वाप्सरसश्चैव मुनीन् सिद्धांश्च विन्यसेत् ॥ ॥ ४७।२६अब्/ ग्रहांश्च सर्व (सह) नक्षत्रै रुद्रांश्च सह मातृभिः । ४७।२६य्द्/ स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः ॥ ॥ ४७।२७अब्/ वर्णकैः विविधैः कृत्वा हृद्यैः गन्धगुणान्वितैः । ४७।२७य्द्/ यथास्वं पूजयेद् विद्वान् गन्धमाल्यानुलेपनैः ॥ ॥ ४७।२८अब्/ भक्ष्यैः अन्नैश्च विविधैः फलमूलामिषैः तथा । ४७।२८य्द्/ पानैश्च (पानकैः) विविधैः हृद्यैः सुराक्षीरासवादिभिः ॥ ॥ ४७।२९अब्/ कथयाम्यतः परमहं पूजामस्मिन् यथाभिलिखितानाम् । ४७।२९य्द्/ ग्रहयज्ञे यः प्रोक्तो विधिः ग्रहाणां स कर्तव्यः ॥ ॥ ४७।३०अब्/ मांसओदनमद्यैः पिशाचदितितनयदानवाः पूज्याः । ४७।३०य्द्/ अभ्यञ्जनाञ्जनतिलैः पितरो मांसओदनैश्चापि ॥ ॥ ४७।३१अब्/ सामयजुर्भिः मुनयः त्वृग्भिः गन्धैश्च धूपमाल्ययुतैः । ४७।३१य्द्/ अश्लेषकवर्णैः त्रिमधुरेण चाभ्यर्चयेद् नागान् ॥ ॥ ४७।३२अब्/ धूपूज्याहुतिमाल्यैः विबुधान् रत्नः (रत्नैः) स्तुतिप्रणामैश्च । ४७।३२य्द्/ गन्धर्वान् अप्सरसो गन्धैः माल्यैश्च सुसुगन्धैः ॥ ॥ ४७।३३अब्/ शेषां तु सार्ववर्णिकबलिभिः पूजां न्यसेग सर्वेषाम् । ४७।३३य्द्/ प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि ॥ ॥ ४७।३४अब्/ मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणेऽथवा वेद्याम् । ४७।३४य्द्/ आदद्यात् संभारान् दर्भान् दीर्घान् अगर्भांश्च ॥ ॥ ४७।३५अब्/ लाजाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो धूपः (धुपान्) । ४७।३५य्द्/ गोरोचनाञ्जनतिलाः (तिलान्) स्वर्तुजमधुराणि च फलानि ॥ ॥ ४७।३६अब्/ सघृतस्य पायसस्य च तत्र शरावाणि तैश्च संभारैः । ४७।३६य्द्/ पश्चिमवेद्यां पूजां कुर्यात् स्नानस्य सा वेदी ॥ ॥ ४७।३७अब्/ तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान् । ४७।३७य्द्/ सक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य ॥ ॥ ४७।३८अब्/ पुष्यस्नानविमिश्रेणापूर्णान् अंभसा सरत्नांश्च । ४७।३८य्द्/ पुष्यस्नानद्रव्याणि आदद्याद् गर्गगीतानि ॥ ॥ ४७।३९अब्/ ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् । ४७।३९य्द्/ जीवां विश्वेश्वरीं पाठां समंगां विजयां तथा ॥ ॥ ४७।४०अब्/ सहां च सहदेवीं च पूर्णकोशां श्तावरीम् । ४७।४०य्द्/ अरिष्टिकां शिवां भद्रां तेषु कुंभेषु विन्यसेत् ॥ ॥ ४७।४१अब्/ ब्राह्मीं क्षेमामजां चैव सर्वबीजानि कांचनीं (कांचनं) । ४७।४१य्द्/ मंगल्यानि यथालाभं सर्वौषध्यो रसाः (रसां) तथा ॥ ॥ ४७।४२अब्/ रत्नानि सर्वगन्धाः (सर्वगन्धांश) च बिल्वं च सविकंकतम् । ४७।४२य्द्/ प्रशस्तनाम्न्यश्चौषध्यो हिरण्यं मंगलानि च ॥ ॥ ४७।४३अब्/ आदावनडुहश्चर्म जरया संहृतायुषः । ४७।४३य्द्/ प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥ ॥ ४७।४४अब्/ ततो वृषस्य योधस्य चर्म रोहितमक्षतम् । ४७।४४य्द्/ सिंहस्याथ तृतीयं स्याद् व्याघ्रस्य च ततः परम् ॥ ॥ ४७।४५अब्/ चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् । ४७।४५य्द्/ शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकरे ॥ ॥ ४७।४६अब्/ भद्रासनमेकतमेन कारितं कनकरजतताम्राणाम् । ४७।४६य्द्/ क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणामुपरि ॥ ॥ ४७।४७अब्/ त्रिविधः तस्यौच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च । ४७।४७य्द्/ माण्डलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः ॥ ॥ ४७।४८अब्/ अन्तर्धाय हिरण्यं तत्रौपविशेन् नरेश्वरः सुमनाः । ४७।४८य्द्/ सचिवाप्तपुरोहितदैवपौरकल्याणनामवृतः ॥ ॥ ४७।४९अब्/ वन्दिजनपौरविप्रैः प्रघुष्ट (विप्रप्रघुष्ट) पुण्याहवेदनिर्घोषैः । ४७।४९य्द्/ समृदंगशंखतूर्यैः मंगलशब्दैः हतानिष्टः ॥ ॥ ४७।५०अब्/ अहतक्षौमनिवसनं पुरोहितः कंबलेन संछाद्य । ४७।५०य्द्/ कृतबलिपूजं कलशैः अभिषिंचेत् सर्पिषा पूर्णैः ॥ ॥ ४७।५१अब्/ अष्टावष्टाविंशतिः अष्टशतं वापि कलशपरिमाणम् । ४७।५१य्द्/ अधिकेऽधिके गुणोत्तरमयं च मन्त्रोऽत्र मुनिगीतः ॥ ॥ (मन्त्र) ४७।५२अब्/ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । ४७।५२य्द्/ आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥ ॥ ४७।५३अब्/ भौमान्तरिक्षं दिव्यं वा यत् ते कल्मषं (कल्विषं) आगतम् । ४७।५३य्द्/ सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥ ॥ ४७।५४अब्/ कंबलमपनीय ततः पुष्यस्नानांबुभिः सफलपुष्पैः । ४७।५४य्द्/ अभिषिंचेन् मनुजेन्द्रं पुरोहितोऽनेन मन्त्रेण ॥ ॥ (मन्त्र) ४७।५५अब्/ सुराः त्वामभिषिंचन्तु ये च सिद्धाः पुरातनाः । ४७।५५य्द्/ ब्रह्मा विष्णुश्च रुद्रः (शंभुः) च साध्याश्च समरुद्गणाः ॥ ॥ ४७।५६अब्/ आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ । ४७।५६य्द्/ अदितिः देवमाता च स्वाहा सिद्धिः सरस्वती ॥ ॥ ४७।५७अब्/ कीर्तिः लक्ष्मीः धृतिः श्रीश्च सिनीवाली कुहूः तथा । ४७।५७य्द्/ दनुश्च सुरसा चैव विनता कद्रुः एव च ॥ ॥ ४७।५८अब्/ देवपत्न्यश्च या नोक्ता देवमातर एव च । ४७।५८य्द्/ सर्वाः त्वामभिषिंचन्तु दिव्याश्चाप्सरसां गणाः ॥ ॥ ४७।५९अब्/ नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः । ४७।५९य्द्/ संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवा । ४७।६०अब्(४८।६९य्द्)/ सर्वे त्वामभिषिंचन्तु कालस्यावयवाः शुभाः । ४७।६०य्द्(४८।७०अब्)/ एते चान्ये च मुनयो वेदव्रतपरायणाः ॥ ॥ ४७।६१अब्/ सशिष्याः तेऽभिषिंचन्तु सदाराश्च तपोधनाः । ४७।६१य्द्/ वैमानिकाः सुरगणा मनवः सागरैः सह ॥ ॥ ४७।६२अब्/ सरितश्च महाभागा नागाः किंपुरुषाश्तथा । ४७।६२य्द्/ वैखानसा महाभागा द्विजा वैहायसाश्च ये ॥ ॥ ४७।६३अब्/ सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च । ४७।६३य्द्/ मरीचिः अत्रिः पुलहः पुलस्त्यः क्रतुः अंगिराः ॥ ॥ ४७।६४अब्/ भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः । ४७।६४य्द्/ सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ॥ ॥ ४७।६५अब्/ एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ । ४७।६५य्द्/ दुर्वासा दुर्विनीतश्च कण्वः कात्यायनः तथा ॥ ॥ ४७।६६अब्/ मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः । ४७।६६य्द्/ ऊर्ध्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ॥ ॥ ४७।६७अब्/ द्वैपायनो यवक्रीतो देवराजः सहानुजः । ४७।६७य्द्/ पर्वताः तरवो वल्ल्यः पुण्यानि आयतनानि च ॥ ॥ ४७।६८अब्/ प्रजापतिः दितिश्चैव गावो विश्वस्य मातरः । ४७।६८य्द्/ वाहनानि च दिव्यानि सर्वलोकाश्चराचराः ॥ ॥ ४७।६९अब्/ अग्नयः पितरः तारा जीमूताः खं दिशो जलम् । ४७।६९य्द्/ एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभैः (शुभाः) ॥ ॥ ४७।७०अब्/ तोयैः त्वामभिषिंचन्तु सर्वोत्पातनिबर्हणैः । ४७।७०य्द्/ यथाभिषिक्तो मघवान् एतैः मुदितमनसैः (कल्याणम् ते प्रकुर्वन्तु आयुरारोग्यमेव्व च) ॥ ॥ ४७।७१अब्/ इत्येतैश्चान्यैश्चाप्यथर्वकल्प आहितैः (विहितैः) सरुद्रगणैः । ४७।७१य्द्/ कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च ॥ ॥ ४७।७२अब्/ आपोहिष्ठातिसृभिः हिरण्यवर्णा इति चतसृभिः जप्तम् । ४७।७२य्द्/ कार्पासिकवस्त्रयुगं बिभृयात् स्नातो नराधिपतिः ॥ ॥ ४७।७३अब्/ पुण्याहशंखशब्दैः आचान्तोऽभ्यर्च्य देवगुरुविप्रान् । ४७।७३य्द्/ छत्रध्वजायुधानि च ततः स्वपूजां प्रयुञ्जीत ॥ ॥ ४७।७४अब्/ आयुष्यं वर्चस्यं रायस्पोषाभिः ऋग्भिः एताभिः । ४७।७४य्द्/ परिजप्तं वैजयिकं नवं विदध्यादलंकारम् ॥ ॥ ४७।७५अब्/ गत्वा द्वितीयवेदीं समुपविशेगर्मणां उपरि राजा । ४७।७५य्द्/ देयानि चैव चर्माणि उपर्युपर्येवमेतानि ॥ ॥ ४७।७६अब्/ वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च । ४७।७६य्द्/ तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ॥ ४७।७७अब्/ मुख्यस्थाने जुहुयात् पुरोहितोऽग्निं समित्तिलघृताद्यैः । ४७।७७य्द्/ त्रिनयनशक्रबृहस्पतिनारायणनित्यगतिऋग्भिः ॥ ॥ ४७।७८अब्/ इन्द्रध्वजनिर्दिष्टानि अग्निनिमित्तानि दैवविद् ब्रूयात् । ४७।७८य्द्/ कृत्वाऽशेषसमाप्तिं पुरोहितः प्राञ्जलिः ब्रूयात् ॥ ॥ ४७।७९अब्/ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात् । ४७।७९य्द्/ सिद्धिं दत्त्वा तु विपुलांसुविपुलां) पुनः आगमनाय च (वै) ॥ ॥ ४७।८०अब्/ नृपतिः अतो दैवज्ञं पुरोहितं चार्चयेद् धनैः बहुभिः । ४७।८०य्द्/ अन्यांश्च दक्षिणीयान् यथोचितं (यथार्हतः) श्रोत्रियप्रभृतीन् ॥ ॥ ४७।८१अब्/ दत्त्वाऽभयं प्रजानामाघातस्थानगान् विसृज्य पशून् । ४७।८१य्द्/ बधनमोक्षं कुर्यादभ्यनन्तरदोषकृद्वर्जम् ॥ ॥ ४७।८२अब्/ एतत् प्रयुज्यमानं प्रतिपुष्यं सुखयशोऽर्थवृद्धिकरम् । ४७।८२य्द्/ पुष्याद् (पुष्यं) विनार्धफलदा पौषी शान्तिः परा (पुरा) प्रोक्ता ॥ ॥ ४७।८३अब्/ राष्ट्रौत्पातौपसर्गेषु राहोः केतोश्च दर्शने । ४७।८३य्द्/ ग्रहावमर्दने चैव पुष्यस्नानं समाचरेत् ॥ ॥ ४७।८४अब्/ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति । ४७।८४य्द्/ मंगलं चापरं नास्ति यदस्मादतिरिच्यते ॥ ॥ ४७।८५अब्/ अधिराज्यार्थिनो राज्ञः पुत्रजन्म च कांक्षतः । ४७।८५य्द्/ तत्पूर्वमभिषेके च विधिः एष प्रशस्यते ॥ ॥ ४७।८६अब्/ महेन्द्रार्थमुवाचैदम् बृहत्कीर्तिः बृहस्पतिः । ४७।८६य्द्/ स्नानमायुष्प्रजावृद्धिसौभाग्यकरणं परम् ॥ ॥ ४७।८७अब्/ अनेनैव विधानेन हस्त्यश्वं स्नापयेत् ततः (स्नापयीत यः) । ४७।८७य्द्/ तस्यामयविनिर्मुक्तं परां सिद्धिमवाप्नुयात् ॥ ॥ sएपरते अध्याय ४८ पट्टलक्षणाध्यायः ४८।१अब्/ विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यदाचार्यैः । ४८।१य्द्/ तत् संक्षेपः क्रियते मयाऽत्र सकलार्थसम्पन्नः ॥ ॥ ४८।२अब्/ पट्टः शुभदो राज्णां मध्येऽष्टावंगुलानि विस्तीर्णः । ४८।२य्द्/ सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥ ॥ ४८।३अब्/ चतुरंगुलविस्तारः पट्टः सेनापतेः भवति मध्ये । ४८।३य्द्/ द्वे च प्रसादपट्टः पंचैते कीर्तिताः पट्टाः ॥ ॥ ४८।४अब्/ सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः । ४८।४य्द्/ सर्वे च शुद्धकांचनविनिर्मिताः श्रेयसो वृद्ध्यै ॥ ॥ ४८।५अब्/ पंचशिखो भूमिपतेः त्रिशिखो युवराजपार्थिवमहिष्योः । ४८।५य्द्/ एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ ॥ ४८।६अब्/ क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य । ४८।६य्द्/ वृद्धिजयौ भूमिपतेः तथा प्रजानां च सुखसम्पत् ॥ ॥ ४८।७अब्/ जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः । ४८।७य्द्/ मध्ये स्फुटितः त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥ ॥ ४८।८अब्/ अशुभनिमित्तौत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद् राज्ञः । ४८।८य्द्/ शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ॥ ॥ sएपरते अध्याय ४९ खड्गलक्षणाध्यायः ४९।१अब्/ अंगुलशतार्धमुत्तम ऊनः स्यात् पंचविंशतिः (पञ्चविंशतिं) खड्गः । ४९।१य्द्/ अंगुलमानाज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ ॥ ४९।२अब्/ श्रीवृक्षवर्धमानातपत्रशिवलिंगकुण्डलाब्जानाम् । ४९।२य्द्/ सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥ ॥ ४९।३अब्/ कृकलासकाककंकक्रव्यादकबन्धवृश्चिकाकृतयः । ४९।३य्द्/ खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च ॥ ॥ ४९।४अब्/ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्मनोऽनुगतः । ४९।४य्द्/ अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ॥ ॥ ४९।५अब्/ क्वणितं मरणायौक्तं पराजयाय प्रवर्तनं कोशात् । ४९।५य्द्/ स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥ ॥ ४९।६अ नाकारणं विवृणुयान् न विघट्टयेग ४९।६ब् पश्येन् न तत्र वदनं न वदेग मूल्यम् । ४९।६य् देशं न चास्य कथयेत् प्रतिमान् आनयेन् न ४९।६द् नैव स्पृशेन् नृपतिः अप्रयतोऽसियष्टिम् ॥ ॥ ४९।७अब्/ गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च । ४९।७य्द्/ करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ॥ ॥ ४९।८अब्/ निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः । ४९।८य्द्/ मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥ ॥ ४९।९अब्/ यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वदेव खड्गस्य । ४९।९य्द्/ वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ ॥ ४९।१०अब्/ अथवा स्पृशति यदंगं प्रष्टा निस्त्रिंशभृत् तदवधार्य । ४९।१०य्द्/ कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम् ॥ ॥ ४९।११अब्/ शिरसि स्पृष्टे प्रथमे अंगुले द्वितीये ललाटसंस्पर्शे । ४९।११य्द्/ भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च ॥ ॥ ४९।१२अब्/ नासौष्ठ (नासोष्ठ) कपोलहनुश्रवणग्रीवांसके च (अंसकेषु) पंचाद्याः । ४९।१२य्द्/ उरसि द्वादशसंस्थः त्रयोदशे कक्षयोः ज्ञेयः ॥ ॥ ४९।१३अब्/ स्तनहृदयोदरकुक्षिनाभौ (कुक्षिनाभीषु) तु चतुर्दशादयो ज्ञेयाः । ४९।१३य्द्/ नाभिमूले कठ्यां गुह्ये चैकोनविंशतितः ॥ ॥ ४९।१४अब्/ ऊर्वोः द्वाविंशे स्यादूर्वोः मध्ये व्रणः त्रयोविंशे । ४९।१४य्द्/ जानुनि च चतुर्विंशे जंघायां पंचविंशे च ॥ ॥ ४९।१५अब्/ जंघामध्ये गुल्फे पार्ष्ण्यां पादे तदंगुलीष्वपि च । ४९।१५य्द्/ षड्विंशतिकाद् यावत् त्रिंशदिति मतेन गर्गस्य ॥ ॥ ४९।१६अब्/ पुत्रमरणं धनाप्तिः धनहानिः सम्पदश्च बन्धश्च । ४९।१६य्द्/ एकाद्यंगुलसंस्थैः व्रणैः फलं निर्दिशेत् क्रमशः ॥ ॥ ४९।१७अब्/ सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ । ४९।१७य्द्/ क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ ॥ ४९।१८अब्/ लब्धिः हानिः स्त्रीलब्धयो (हानिस्त्रीलब्धयो) बधो वृद्धिमरणपरितोषाः । ४९।१८य्द्/ ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ ॥ ४९।१९अब्/ वित्ताप्तिः अनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् । ४९।१९य्द्/ ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशदिति यावत् ॥ ॥ ४९।२०अब्/ परतो न विशेषफलं विषमसमस्थाः तु पापशुभफलदाः । ४९।२०य्द्/ कैश्चिदफलाः प्रदिष्टाः त्रिंशत्परतोऽग्रमिति यावत् ॥ ॥ ४९।२१अब्/ करवीरौत्पलगजमदघृतकुंकुमकुन्दचंपकसगन्धः । ४९।२१य्द्/ शुभदोऽनिष्टो गोमूत्रपंकमेदःसदृशगन्धः ॥ ॥ ४९।२२अब्/ कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः । ४९।२२य्द्/ वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥ ॥ ४९।२३अ इदमौशनसं च शस्त्रपानं ४९।२३ब् रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । ४९।२३य् हविषा गुणवत्सुताभिलिप्सोः ४९।२३द् सलिलेनाक्षयमिच्छतश्च वित्तम् ॥ ॥ ४९।२४अ वडवौष्ट्रकरेणुदुग्धपानं ४९।२४ब् यदि पापेन समीहतेऽर्थसिद्धिम् । ४९।२४य् झषपित्तमृगाश्वबस्तदुग्धैः ४९।२४द् करिहस्तच्छिदये सतालगर्भैः ॥ ॥ ४९।२५अ आर्कं पयो हुडुविषाणमषीसमेतं ४९।२५ब् पारावताखुशकृता च युतः (युतं) प्रलेपः । ४९।२५य् शस्त्रस्य तैलमथितस्य ततोऽस्य पानं ४९।२५द् पश्चात्शितस्य न शिलासु भवेद् विघातः ॥ ॥ ४९।२६अ क्षारे कदल्या मथितेन युक्ते ४९।२६ब् दिनौषिते पायितमायसं यत् । ४९।२६य् सम्यक् शितं चाश्मनि नैति भंगं ४९।२६द् न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥ ॥ sएपरते अध्याय ५० अंगविद्याध्याय ५९।१अ दैवज्ञेन शुभाशुभं दिगुदितस्थानहृतानीक्षता ५०।१ब् वाच्यं प्रष्टृनिजापरांगघटनां चालोक्य कालं धिया । ५०।१य् सर्वज्ञो हि चराचरात्मकतया असौ सर्वदर्शो विभुश् ५०।१द् चेष्टाव्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम् ॥ ॥ ५०।२अ स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छद् ५०।२ब् सत्पक्षिच्युतशस्तसंज्ञिततरुच्छायौपगूढं समम् । ५०।२य् देवऋषिद्विजसाधुसिद्धनिलयं सत्पुष्पसस्यौक्षितम् ५०।२द् सत्स्वादूदकनिर्मलत्वजनिताह्लादं च सच्छाद्वलं (सच्छाड्वलं) ॥ ॥ ५०।३अब्/ छिन्नभिन्नकृमिखातकण्टकिप्लुष्टरूक्षकुटिलैः न सत् कुजैः । ५०।३य्द्/ क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः (वर्मभिः) ॥ ॥ ५०।४अ श्मशानशून्यायतनं चतुष्पथं ५०।४ब् तथा अमनोज्ञं विषमं सदोषरम् । ५०।४य् अवस्करांगारकपालभस्मभिश् ५०।४द् चितं तुषैः शुष्कतृणैः नशोभनम् ॥ ॥ ५०।५अब्/ प्रव्रजितनग्ननापितरिपुबन्धनसौनिकैः (सूनिकैः) तथा श्वपचैः । ५०।५य्द्/ कितवयतिपीडितैः युतमायुधमाध्वीकविक्रयैः न शुभम् ॥ ॥ (दिक्काललक्षण) ५०।६अ प्रागुत्तरेशाश्च दिशः प्रशस्ताः ५०।६ब् प्रष्टुः न वाय्वंबुयमाग्निरक्षः । ५०।६य् पूर्वाह्नकालेऽस्ति शुभं न रात्रौ ५०।६द् सन्ध्याद्वये प्रश्नकृतोऽपराह्णे ॥ ॥ ५०।७अ यात्राविधाने हि शुभाशुभं यत् ५०।७ब् प्रोक्तं निमित्तं तदिहापि वाच्यम् । ५०।७य् दृष्ट्वा पुरो वा जनताहृतं वा ५०।७द् प्रष्टुः स्थितं पाणितलेऽथ वस्त्रे ॥ ॥ (पुंसंज्ञकानि) ५०।८अ अथांगानि ऊरू ओष्ठस्तनवृषणपादं च दशना ५०।८ब् भुजौ हस्तौ गण्डौ कचगलनखांगुष्ठमपि यत् । ५०।८य् सशंखं कक्षांसं श्रवण (लल्षा सश्रवंअ) गुदसन्धीति पुरुषे (स्त्रीसंज्ञकानि) ५०।८द् स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखांगुलिचयम् ॥ ॥ ५०।९अ जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं ५०।९ब् जंघे नाभिः कर्णपाली कृकाटी । (नपुंसक) ५०।९य् वक्त्रं पृष्ठं जत्रुजानुअस्थिपार्श्वं ५०।९द् हृत्तालुअक्षी मेहनौरस्त्रिकं च ॥ ॥ ५०।१०अब्/ नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैः अपरैश्चिरेण । ५०।१०य्द्/ सिद्धिः भवेज्जातु नपुंसकैः नो रूक्षक्षतैः भग्नकृशैश्च पूर्वैः ॥ ॥ ५०।११अब्/ स्पृष्टे वा चालिते वापि पादांगुष्ठेऽक्षिरुग् भवेत् । ५०।११य्द्/ अंगुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम् ॥ ॥ ५०।१२अब्/ विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिः अनर्थदा भवेत् । ५०।१२य्द्/ स्यात् प्रियाप्तिः अभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः ॥ ॥ ५०।१३अब्/ पादांगुष्ठेन विलिखेद् भूमिं क्षेत्रौत्थचिन्तया । ५०।१३य्द्/ हस्तेन पादौ कण्डूयेत् तस्य दासीमयी (दासीमया) च सा ॥ ॥ ५०।१४अब्/ तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत् कचतुषास्थिभस्मगम् । ५०।१४य्द्/ व्याधिः आश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम् ॥ ॥ ५०।१५अब्/ पिप्पलीमरिचशुण्ठिवारिदै रोध्रकुष्ठवसनांबुजीरकैः । ५०।१५य्द्/ गन्धमांसिशतपुष्पया वदेत् पृच्छतः तगरकेण चिन्तयेत् (चिन्तनं) ॥ ॥ ५०।१६अब्/ स्त्रीपुरुषदोषपीडितसर्वार्थ (अध्व) सुतार्थधान्न्यतनयानाम् । ५०।१६य्द्/ द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैः दृष्टैः ॥ ॥ ५०।१७अब्/ न्यग्रोधमधुकतिन्दुकजंबूप्लक्षाम्रबदर (बदरि) जातिफलैः । ५०।१७य्द्/ धनकनकपुरुषलोहांशुकरूप्याउदुंबराप्तिः (उदुंबराप्तिः) अपि करगैः ॥ ॥ ५०।१८अब्/ धान्यपरिपूर्णपात्रं कुंभः पूर्णः कुटुंबवृद्धिकरौ । ५०।१८य्द्/ गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् ॥ ॥ ५०।१९अब्/ पशुहस्तिमहिषपंकजरजतव्याघ्रैः लभेत दन्दृष्टैः । ५०।१९य्द्/ अविधननिवसनमलयजकौशेयाभरणसंघातम् ॥ ॥ ५०।२०अब्/ पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिः विहिता । ५०।२०य्द्/ मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता ॥ ॥ ५०।२१अब्/ शाक्यौपाध्यायार्हत् (आर्हत) निर्ग्र्अन्थि (निर्(ग्र्)अन्थ) निमित्तनिगमकैवर्तैः । ५०।२१य्द्/ चौरचमूपतिवणिजां दासीयोधापणस्थवध्यानाम् ॥ ॥ ५०।२२अब्/ तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम् । ५०।२२य्द्/ हृद्गतं प्रच्छकस्य (पृच्छकस्य) स्यादुंछवृटौ विपन्नता ॥ ॥ ५०।२३अब्/ इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते ॥ ॥ ५०।२३य्द्/ संयोगकुटुंबौत्था लाभैश्वर्यौद्गता चिन्ता ॥ ॥ ५०।२४अ निर्दिशेति गदिते जयाध्वजा (जयाध्वगा) ५०।२४ब् प्रत्यवेक्ष्य मम चिन्तितं वद । ५०।२४य् आशु सर्वजनमध्यगं त्वया ५०।२४द् दृश्यतामिति च बन्धुचौरजा ॥ ॥ (चौरविज्ञान) ५०।२५अ अन्तःस्थे अंगे स्वजन उदितो बाह्यजे बाह्य एव (एवं) ५०।२५ब् पादांगुष्ठांगुलिकलनया दासदासीजनः स्यात् । ५०।२५य् जंघे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या ५०।२५द् पाण्यंगुष्ठांगुलिचयकृतस्पर्शने पुत्रकन्ये ॥ ॥ ५०।२६अब्/ मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ । ५०।२६य्द्/ बाहू भ्राता अथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥ ॥ (अपहृतस्य लाभ) ५०।२७अब्/ अन्तरंगमवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः । ५०।२७य्द्/ श्लेष्ममूत्रशकृतः त्यजन्त्यथो (त्यजन्नधः) पातयेत् करतलस्थवस्तु चेत् ॥ ॥ ५०।२८अ भृशमवनामितांगपरिमोटनतोऽपि अथवा ५०।२८ब् जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् । ५०।२८य् हृतपतितक्षतास्मृतविनष्टभग्नगत ५०।२८द् उन्मुषितमृताद्यनिष्टरवतो लभते न हृतम् ॥ ॥ (पीडार्तानां मरण) ५०।२९अ निगदितमिदं यत्तत् सर्वं तुषास्थिविषादिकैः ५०।२९ब् सह मृतिकरं पीडार्तानां समं रुदितक्षतैः (क्षुतैः) । (भोजनज्ञान) ५०।२९य् अवयवमपि स्पृष्ट्वा अन्तःस्थं दृढं मरुदाहरेद् ५०।२९द् अतिबहु तदा भुक्त्वा अन्नं संस्थितः सुहितो वदेत् ॥ ॥ ५०।३०अब्/ ललाटस्पर्शनात्शूकदर्शनात्शालिजौदनम् । ५०।३०य्द्/ उरःस्पर्शात् षष्टिक आख्यं (अन्नं) ग्रीवास्पर्शे च यावकम् ॥ ॥ ५०।३१अब्/ कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः । ५०।३१य्द्/ आस्वादयते (आस्वादयतः) चओष्ठौ लिहते मधुरं रसं ज्ञेयम् ॥ ॥ ५०।३२अब्/ विसृक्के (विस्पृक्के) स्फोटयेज्जिह्वामाम्ले वक्त्रं विकूणयेत् । ५०।३२य्द्/ कटुकेऽथ कषायेऽथ (कटुतिक्तकषायोष्णैः) हिक्केत् ष्ठीवेग सेन्धवे ॥ ॥ ५०।३३अ श्लेष्मत्यागे शुष्कतिक्तं तदल्पं ५०।३३ब् श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम् । ५०।३३य् भ्रूगण्डओष्ठस्पर्शने शाकुनं तद् ५०।३३द् भुक्तं तेनेत्युक्तमेतन् निमित्तम् ॥ ॥ ५०।३४अब्/ मूर्धगलकेशहनुशंखकर्णजंघं वस्तिं च स्पृष्ट्वा । ५०।३४य्द्/ गजमहिषमेषशूकरगोशशमृगमहिष मांसयुग् भुक्तम् ॥ ॥ ५०।३५अब्/ द्षृटे श्रुतेऽपु अशकुने गोधामत्स्यामिषं वदेद् भुक्तम् । ५०।३५य्द्/ गर्भिण्या गर्भस्य च निपतनमेवं प्रकल्पयेत् प्रश्ने ॥ ॥ (गर्भिण्या जन्म) ५०।३६अब्/ पुंस्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे । ५०।३६य्द्/ तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् ॥ ॥ ५०।३७अ अंगुष्ठेन भ्रूदरं वांगुलिं वा ५०।३७ब् स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् । ५०।३७य् मध आज्याद्यैः हेमरत्नप्रवालैः ५०।३७द् अग्रस्थैः वा मातृधात्र्यात्मजैश्च ॥ ॥ ५०।३८अ गर्भयुता जठरे करगे स्याद् ५०।३८ब् दुष्टनिमित्तवशात् तदुदासः । ५०।३८य् कर्षति तज्जठरं यदि पीठ ५०।३८द् उत्पीडनतं करगे च करेऽपि ॥ ॥ ५०।३९अब्/ घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत् । ५०।३९य्द्/ वामेऽब्दौ (द्वौ) कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने ॥ ॥ ५०।४०अ वेणीमूले त्रीन् सुतान् कन्यके द्वे ५०।४०ब् कर्णे पुत्रान् पंच हस्ते त्रयं च । ५०।४०य् अंगुष्ठान्ते पंचकं चानुपूर्व्या ५०।४०द् पादांगुष्ठे पार्ष्णियुग्मेऽपि कन्याम् ॥ ॥ ५०।४१अब्/ सव्यासव्य ऊरुसंस्पर्शे सूते कन्यासुतद्वयम् । ५०।४१य्द्/ स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ॥ ॥ ५०।४२अब्/ शिरोललाटभ्रूकर्णगण्डं हनुरदा गलम् ५०।४२य्द्/ सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ॥ ॥ (गर्भिण्याः कस्मिन् नक्षत्रे जन्तुः जन्म) ५०।४३अ उरः कुचं दक्षिणमपि असव्यं ५०।४३ब् हृत्पार्श्वमेवं जठरं कटिश्च । ५०।४३य् स्फिक्पायुसन्धि ऊरुयुगं च जानू ५०।४३द् जंघेऽथ पादाविति कृत्तिकादौ ॥ ॥ ५०।४४अ इति निगदितमेतद् गात्रसंस्पर्शलक्ष्म ५०।४४ब् प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् । ५०।४४य् विपुलमतिरुदारो वेत्ति यः सर्वमेतन् ५०।४४द् नरपतिजनताभिः पूज्यतेऽसौ सदैव ॥ ॥ sएपरते अध्याय ५१ पिटकलक्षणाध्यायः ५१।१अब्/ सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ५१।१य्द्/ ते क्रमशः प्रोक्तफाला वर्णानां नाग्रजातानां (अग्रजादीनां) ॥ ॥ ५१।२अ सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद् ५१।२ब् दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां च । ५१।२य् तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोः इष्टदृष्टिं ५१।२द् प्रव्रज्यां शंखदेशेऽश्रुजलनिपतनस्थानगा रान्ति चिन्तां (स्थानगाश्च अतिचिन्तां) ॥ ॥ ५१।३अ घ्राणागण्डे वसनसुतदाश्चओष्ठयोः अन्नलाभं ५१।३ब् कुर्युः तद्वगिबुकतलगा भूरि वित्तं ललाटे । ५१।३य् हन्वोः एवं गलकृअपदा भूषणानि अन्नपाने ५१।३द् श्रोत्रे षड्भूतण (षड्भूषण) गणमपि ज्ञानमात्मस्वरूपम् ॥ ॥ ५१।४अ शिरःसन्धिग्रीवाहृदयकुचपार्श्वौरसि गता ५१।४ब् अयोघातं घातं सुततनयलाभं शुचमपि । ५१।४य् प्रियप्राप्तिं स्कन्धेऽपि अटनमथ भिक्षार्थमसकृद् ५१।४द् विनाशं कक्षोत्था विदधति धनानां बहुमुखं (बहुसुखं) ॥ ॥ ५१।५अब्/ दुःखशत्रुनिचयस्य विनाशं (विघातं) पृष्ठबाहुयुगजा रचयन्ति । ५१।५य्द्/ संयमं च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः ॥ ॥ ५१।६अ धनाप्तिं सौभाग्यं शुचमपि करांगुल्युदरगाः ५१।६ब् सुपानान्नं नाभौ तदध इह चौरैः धनहृतिम् । ५१।६य् धनं धान्यं बस्तौ युवतिमथ मेढ्रे सुतनयान् ५१।६द् धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥ ॥ ५१।७अब्/ ऊर्वोः यानानांगनालाभं जान्वोः शत्रुजनात् क्षतिम् । ५१।७य्द्/ शस्त्रेण जंघयोः गुल्फेऽध्वबन्धक्लेशदायिनः ॥ ॥ ५१।८अब्/ स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् ॥ ॥ ५१।८य्द्/ बन्धनमग्गुलिनिचयेऽग्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥ ॥ ५१।९अब्/ उत्पातगण्डपिटका दक्षिणतो वामतः त्वभीघाताः । ५१।९य्द्/ धन्या भवन्ति पुंसां तद्विपरीताश्च (तु) नारीणाम् ॥ ॥ ५१।१०अ इति पिटकविभागः प्रोक्त आमूर्धतोऽयं ५१।१०ब् व्रणतिलकविभागोऽपि एवमेव प्रकल्प्यः । ५१।१०य् भवति मशकलक्ष्मावर्तजन्मापि तद्वन् ५१।१०द् निगदितफलकारि प्राणिनां देहसंस्थम् ॥ ॥ sएपरते अध्याय ५२ वास्तुविद्या ५२।१अब्/ वास्तुज्ञानमथातः कमलभवान् मुनिपरंपरायातम् । ५२।१य्द्/ क्रियतेऽधुना मया इदम् विदग्धसांवत्सरप्रीत्यै ॥ ॥ ५२।२अब्/ किमपि किल भूतमभवद् रुन्धानं रोदसी शरीरेण । ५२।२य्द्/ तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् ॥ ॥ ५२।३अब्/ यत्र च येन गृहीतं विबुधेनाधिष्ठितः स तत्रैव । ५२।३य्द्/ तदमरमयं विधाता वास्तुनरं कल्पयामास ॥ ॥ ५२।४अब्/ उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन । ५२।४य्द्/ अष्टाष्तोनानि एवं पंच सपादानि दैर्घ्येण ॥ ॥ ५२।५अब्/ षड्भिः षड्भिः हीना सेनापतिसद्मनां चतुःषष्टिः । ५२।५य्द्/ एवं पंच गृहाणि (पंच एवं विस्तारात्) षड्भागसमन्विता दैर्घ्यम् ॥ ॥ ५२।६अब्/ षष्टिश्चतुर्भिः हीना (चतुर्विहीना) वेश्मानि पंच सचिवस्य । ५२।६य्द्/ स्वाष्टांशयुतो दैर्घ्यं तदर्धतो राजमहिषीणाम् ॥ ॥ ५२।७अब्/ षड्भिः षड्भिश्चैवं युवराजस्यापवर्जिता अशीतिः । ५२।७य्द्/ त्र्यंशान्विता च दैर्घ्यं पंच तदर्धैः तदनुजनानाम् ॥ ॥ ५२।८अब्/ नृपसचिवान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम् । ५२।८य्द्/ नृपयुवराजविशेषः कंचुकिवेश्याकलाज्ञानाम् ॥ ॥ ५२।९अब्/ अध्यक्षाधिकृतानां सर्वेषां (सर्वेषामेव) कोशरतितुल्यम् । ५२।९य्द्/ युवराजमन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम् ॥ ॥ ५२।१०अब्/ चत्वारिंशद्धीना चतुश्चतुर्भिः तु पंच यावदिति । ५२।१०य्द्/ षड्भागयुता दैर्घ्यं दैवज्ञपुरोधसोः भिषजः ॥ ॥ ५२।११अब्/ वास्तुनि यो विस्तारः स एव चौच्छ्रायनिश्चयः शुभदः । ५२।११य्द्/ शालैकेषु गृहेष्वपि विस्ताराद् द्विगुणितं दैर्घ्यम् ॥ ॥ ५२।१२अब्/ चातुर्वर्ण्यव्यासो द्वात्रिंशत् सा (स्यात्) चतुश्चतुर्हीना । ५२।१२य्द्/ आडोडशादिति परं न्यूनतरमतीव हीनानाम् ॥ ॥ ५२।१३अब्/ सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम् । ५२।१३य्द्/ षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम् ॥ ॥ ५२।१४अब्/ नृपसेनापतिगृहयोः अन्तरमानेन कोशरतिभवने । ५२।१४य्द्/ सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ॥ ॥ ५२।१५अब्/ अथ पारश (पारस) वादीनां स्वमानसंयोगदलसमं भवनम् । ५२।१५य्द्/ हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ॥ ॥ ५२।१६अब्/ पश्वाश्रमिणाममितं धान्यायुधवह्निरतिगृहाणां च । ५२।१६य्द्/ नैच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः ॥ ॥ ५२।१७अब्/ सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यासे । ५२।१७य्द्/ शाला चतुर्दशहृते पंचत्रिंशद्धृतेऽलिन्दः ॥ ॥ ५२।१८अब्/ हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः । ५२।१८य्द्/ सप्तदशत्रितयतिथित्रयोदशकृतांगुलाभ्यधिकाः ॥ ॥ ५२।१९अब्/ त्रित्रिद्विद्विद्विसमाः क्षयक्रमादंगुलानि चैतेषाम् । ५२।१९य्द्/ व्येका विंशतिः अष्टौ विंशतिः अष्टादश त्रितयम् ॥ ॥ ५२।२०अब्/ शालात्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात् । ५२।२०य्द्/ यद्यग्रतो भवति सा सोष्णीषं नाम तद्वास्तु ॥ ॥ ५२।२१अब्/ सायाश्रयमिति पश्चात् सावष्टंभं तु पार्श्वसंस्थितया । ५२।२१य्द्/ सुस्थितमिति च समन्तात्शास्त्रज्ञैः पूजिताः सर्वाः ॥ ॥ ५२।२२अब्/ विस्तारषोडशांशः सचतुर्हस्तो भवेद् गृहौच्छ्रायः । ५२।२२य्द्/ द्वादशभागेनोनो भूमौ भूमौ समस्तानाम् ॥ ॥ ५२।२३अब्/ व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः । ५२।२३य्द्/ पक्वैष्टकाकृतानां दारुकृतानां तु न विकल्पः (सविकल्पः, न विकल्पः) ॥ ॥ ५२।२४अब्/ एकादशभागयुतः ससप्ततिः नृपबलेशयोः व्यासः । ५२।२४य्द्/ उच्छ्रायो अंगुलतुल्यो द्वारस्यार्धेन विष्कंभः ॥ ॥ ५२।२५अब्/ विप्रादीनां व्यासात् पंचांशोऽष्टादशांगुलसमेतः । ५२।२५य्द्/ साष्टांशो विष्कंभो द्वारस्य त्रिगुण उच्छ्रायः ॥ ॥ ५२।२६अब्/ उच्छ्रायहस्तसंख्यापरिमाणानि अंगुलानि बाहुल्यम् । ५२।२६य्द्/ शाखाद्वयेऽपि कार्यं सार्धं तत् स्यादुदुंबरयोः ॥ ॥ ५२।२७अब्/ उच्छ्रायात् सप्तगुणादशीतिभागः पृथुत्वमेतेषाम् । ५२।२७य्द्/ नवगुणितेऽशीत्यंशः स्तंभस्य दशांशहीनोऽग्रे ॥ ॥ ५२।२८अब्/ समचतुरस्रो (समचतुरश्रो) रुचको वज्रोऽष्टास्रिः (अष्टाश्रिः) द्विवज्रको द्विगुणः । ५२।२८य्द्/ द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः ॥ ॥ ५२।२९अब्/ स्तंभं विभज्य नवधा वहनं भागो घटोऽस्य भागोऽन्यः । ५२।२९य्द्/ पद्मं तथा उत्तरोष्ठं कुर्याद् भागेन भागेन ॥ ॥ ५२।३०अब्/ स्तंभसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम् । ५२।३०य्द्/ भवति तुला उपतुलानामूनं पादेन पादेन ॥ ॥ ५२।३१अब्/ अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । ५२।३१य्द्/ नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिः अपि ॥ ॥ ५२।३२अब्/ नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । ५२।३२य्द्/ द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥ ॥ ५२।३३अब्/ द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभः ततश्चान्यः । ५२।३३य्द्/ तस्मिंश (तद्वद्) च वर्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ ॥ ५२।३४अब्/ अपरोऽन्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ । ५२।३४य्द्/ तदवधिविधृतः (विवृतः) चान्यः प्राग्द्वारं स्वस्तिके शुभदं (ऽशुभदं) ॥ ॥ ५२।३५अब्/ प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ । ५२।३५य्द्/ रुचके द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥ ॥ ५२।३६अब्/ श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमानसंज्ञं च । ५२।३६य्द्/ स्वस्तिकरुचके मध्ये शेषं शुभदं नृपादीनाम् ॥ ॥ ५२।३७अब्/ उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम् । ५२।३७य्द्/ प्राक्षालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ॥ ॥ ५२।३८अब्/ याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमेतत् । ५२।३८य्द्/ पक्षघ्नमपरया वर्जितं सुतध्वंसवैरकरम् ॥ ॥ ५२।३९अब्/ सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले । ५२।३९य्द्/ दण्डाख्यमुदक्पूर्वे वाताख्यं प्राग्युता याम्या ॥ ॥ ५२।४०अब्/ पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् । ५२।४०य्द्/ सिद्धार्थेऽर्थावाप्तिः यमसूर्ये गृहपतेः मृत्युः ॥ ॥ ५२।४१अब्/ दण्डवधो दण्डाख्ये कलहौद्वेगः सदैव वाताख्ये । ५२।४१य्द्/ वित्तविनाशश्चुल्ल्यां ज्ञातिविरोधः स्मृतः काचे ॥ ॥ ५२।४२अब्/ एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः । ५२।४२य्द्/ अन्तः त्रयोदश सुरा द्वात्रिंशद्बाह्यकोष्ठस्थाः ॥ ॥ ५२।४३अब्/ शिखिपर्जन्यजयन्तेन्द्रसूर्यसत्या भृशोऽन्तरिक्षश्च । ५२।४३य्द्/ ऐशान्यादि (ऐशान्याद्याः) क्रमशो दक्षिणपूर्वेऽनिलः कोणे ॥ ॥ ५२।४४अब्/ पूषा वितथबृहत्क्षतयमगन्धर्वाख्यभृंगराजमृगाः । ५२।४४य्द्/ पितृदौवारिकसुग्रीवकुसुमदन्तांबुपत्यसुराः ॥ ॥ ५२।४५अब्/ शोषोऽथ पापयक्ष्मा रोगः कोणे ततोऽहिमुख्यौ च । ५२।४५य्द्/ भल्लाटसोमभुजगाः ततोऽदितिः दितिः इति क्रमशः ॥ ॥ ५२।४६अब्/ मध्ये ब्रह्मा नवकोष्ठकाधिपोऽस्यार्यमा स्थितः प्राच्याम् । ५२।४६य्द्/ एकान्तरात् प्रदक्षिणमस्मात् सविता विवस्वांश्च ॥ ॥ ५२।४७अब्/ विबुधाधिपतिः तस्मान् मित्रोऽन्यो राजयक्ष्मनामा च । ५२।४७य्द्/ पृथिवी (पृथ्वी) धरापवत्सावित्येते ब्रह्मणह् परिधौ ॥ ॥ ५२।४८अब्/ आपो नामैशाने कोणे हौताशने च सावित्रः । ५२।४८य्द्/ जय इति च नैरृते रुद्र आनिलेऽभ्यन्तरपदेषु ॥ ॥ ५२।४९अब्/ आपः तथापवत्सः पर्जन्योऽग्निः दितिश्च वर्गोऽयम् । ५२।४९य्द्/ एवं कोणे कोणे पदिकाः स्युः पंच पंच सुराः ॥ ॥ ५२।५०अब्/ बाह्या द्विपदाः शेषाः ते विबुधा विंशति समाख्याताः । ५२।५०य्द्/ शेषाश्चत्वारोऽन्ये त्रिपदा दिक्ष्वर्यमाद्याः ते ॥ ॥ ५२।५१अब्/ पूर्वोत्तरदिग्मूर्धा पुरुषोऽयमवान्मुखोऽस्य शिरसि शिखी । ५२।५१य्द्/ आपो मुखे स्तनेऽस्यार्यमा ह्युरस्यापवत्सश्च ॥ ॥ ५२।५२अब्/ पर्जन्याद्या बाह्या दृक्ष्रवणौरःस्थलांसगा देवाः । ५२।५२य्द्/ सत्याद्याः पंच भुजे हस्ते सविता च सावित्रः (ससावित्रः) ॥ ॥ ५२।५३अब्/ वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च । ५२।५३य्द्/ ऊरू जानु च जंघे स्फिग् इति यमाद्यैः परिगृहीताः ॥ ॥ ५२।५४अब्/ एते दक्षिणपार्श्वे स्थानेष्वेवं च वामपार्श्वस्थाः । ५२।५४य्द्/ मेढ्रे शक्रजयन्तौ हृदये ब्रह्मा पिता अंघ्रिगतः (अंग्रिगतः) ॥ ॥ ५२।५५अब्/ अष्टाष्टकपदमथवा कृत्वा रेखाश्च कोणगाः तिर्यक् । ५२।५५य्द्/ ब्रह्मा चतुष्पदोऽस्मिन् अर्धपदा ब्रह्मकोणस्थाः ॥ ॥ ५२।५६अब्/ अष्तौ च बहिष्कोणेष्वर्धपदाः तदुभयस्थिताः सार्धाः । ५२।५६य्द्/ उक्तेभ्यो ये शेषाः ते द्विपदा विंशतिः ते हि (च) ॥ ॥ ५२।५७अब्/ सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् । ५२।५७य्द्/ मर्माणि तानि विन्द्यान् न तानि परिपीडयेत् (विन्द्यान्न् अपरिपीडयेत्) प्राज्णः ॥ ॥ ५२।५८अब्/ तानि अशुचिभाण्डकीलस्तंभाद्यैः पीडितानि शल्यैश्च । ५२।५८य्द्/ गृहभर्तुः तत्तुल्ये पीडामंगे प्रयच्छन्ति ॥ ॥ ५२।५९अब्/ कण्डूयते यदंगं गृहभर्तुः (गृहपतिना) यत्र वा अमराहुत्याम् । ५२।५९य्द्/ अशुभं भवेन् निमित्तं विकृतेः वा अग्नेः सशल्यं तत् ॥ ॥ ५२।६०अब्/ धनहानिः दारुमये पशुपीडा रुग्भयानि चास्थिकृते । % ट्वो वेर्से इन्सेर्तेद् ५३।६०य्द्/ लोहमये शस्त्रभयं कपालकेशेषु मृत्युः स्यात् ॥ ॥ ५३।६१अब्/ अग्गारे स्तेनभयं भस्मनि च विनिर्दिशेत् सदाग्निभयम् । ५३।६१य्द्/ शल्यं हि मर्मसंस्थं सुवर्णरजतादृतेऽत्यशुभम् ॥ ॥ ५३।६२अब्/ मर्मण्यमर्मगो वा रुणद्ध्यर्थागमं तुषसमूहः) । ५२।६०य्द्/ अपि नागदन्तको मर्मसंस्थितो दोषकृद् भवति ॥ ॥ ५२।६१अब्/ रोगाद् वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात् । ५२।६१य्द्/ मुख्याद् भृशं जयन्ताग भृंगमदितेश्च सुग्रीवम् ॥ ॥ ५२।६२अब्/ तत्सम्पाता नव ये तानि अतिमर्माणि सम्प्रदिष्टानि । ५२।६२य्द्/ यश्च पदस्याष्टांशः तत् प्रोक्तं मर्मपरिमाणम् ॥ ॥ ५२।६३अब्/ पदहस्तसंख्यया सम्मितानि वंशो अंगुलानि विस्तीर्णः । ५२।६३य्द्/ वंशव्यासोऽध्यर्धः शिराप्रमाणं विनिर्दिष्टम् ॥ ॥ ५२।६४अब्/ सुखमिच्छन् ब्रह्माणं यत्नाद् रक्षेद् गृही गृहान्तःस्थं (गृतान्तस्थं) । ५२।६४य्द्/ उच्छिष्टाद्युपघाताद् गृहपतिरुपतप्यते तस्मिन् ॥ ॥ ५२।६५अब्/ दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयो अंगनादादोषाः (अंगनादोषाः) । ५२।६५य्द्/ वामेऽर्थधान्यहानिः शिरसि गुणैः हीयते सर्वैः ॥ ॥ ५२।६६अब्/ स्त्रीदोषाः सुतमरणं प्रेष्यत्वं चापि चरणवैकल्ये । ५२।६६य्द्/ अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि ॥ ॥ ५२।६७अब्/ गृहनगरग्रामेषु च सर्वत्रैवं प्रतिष्ठिता देवाः । ५२।६७य्द्/ तेषु च यथानुरूपं वर्णा विप्रादयो वास्याः । ५२।६८अब्/ वासगृहाणि च विन्द्याद् विप्रादीनामुदग्दिगाद्यानि । ५२।६८य्द्/ विशतां च यथा भवनं भवन्ति तानि एव दक्षिणतः ॥ ॥ ५२।६९अब्/ नवगुणसूत्रविभक्तानि अष्टगुणेनाथवा चतुःषष्टेः । ५२।६९य्द्/ द्वाराणि यानि तेषामनलादीनां फलोपनयः ॥ ॥ ५२।७०अब्/ अनिलभयं स्त्रीजननं (स्त्रीजन्म) प्रभूतघनता नरेन्द्रवाल्लभ्यम् । ५२।७०य्द्/ क्रोधपरतानृतत्वं क्रौर्यं चौर्यं च पूर्वेण ॥ ॥ ५२।७१अब्/ अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतविऋद्धिः । ५२।७१य्द्/ रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन ॥ ॥ ५२।७२अब्/ सुतपीडा रिपुवृद्धिः न सुतधनाप्तिः (धनस्ताप्तिः) सुतार्थफलसम्पत् । ५२।७२य्द्/ धनसम्पन् नृपतिभयं धनक्षयो रोग इत्यपरे ॥ ॥ ५२।७३अब्/ वधबन्धो रिपुवृद्धिः सुतधनलाभः (धनसुतलाभः) समस्तगुणसम्पत् । ५२।७३य्द्/ पुत्रधनाप्तिः वैरं सुतेन दोषाः स्त्रिया नैःस्वम् ॥ ॥ ५२।७४अब्/ मार्गतरुकोणकूपस्तंभभ्रमविद्धमशुब्भदं द्वारम् । ५२।७४य्द्/ उच्छ्रायाद् द्विगुणमितां त्यक्त्वा भूमिं न दोषाय ॥ ॥ ५२।७५अब्/ रथ्याविद्धं द्वारं नाशाय कुमारदोषदं तरुणा । ५२।७५य्द्/ पंकद्वारे शोको व्ययोऽंबुनिःस्राविणि (अंबुनि श्राविणि) प्रोक्तः ॥ ॥ ५२।७६अब्/ कूपेनापस्मारो भवति विनाशश्च देवताविद्धे । ५२।७६य्द्/ स्तंभेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे (ब्राह्मणोऽभिमुखे) ॥ ॥ ५२।७७अब्/ उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः । ५२।७७य्द्/ मानाधिके नृपभयं दस्युभयं व्यसनमेव नीचे च (व्यसनदं नीचं) ॥ ॥ ५२।७८अब्/ द्वारं द्वारस्यौपरि यत्तन् न शिवाय संकटं यच्च । ५२।७८य्द्/ आव्यात्तं क्षुद्भयदं कुब्जं कुलनाशनं भवति ॥ ॥ ५२।७९अब्/ पीडाकरमतिपीडितमन्तर्विनतं भवेदभावाय । ५२।७९य्द्/ बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा ॥ ॥ ५२।८०अब्/ मूलद्वारं नान्यैः द्वारैः अभिसन्दधीत रूपऋद्ध्या । ५२।८०य्द्/ घटफलपत्रप्रमथादिभिश्च तन्मंगलैश्चिनुयात् ॥ ॥ ५२।८१अब्/ ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः । ५२।८१य्द्/ चरकी विदारिनामा अथ पूतना राक्षसी चेति ॥ ॥ ५२।८२अब्/ पुरभवनग्रामाणां ये कोणाः तेषु निवसतां दोषाः । ५२।८२य्द्/ श्वपचादयोऽन्त्यजात्याः तेष्वेव विवृद्धिमायान्ति ॥ ॥ ५२।८३अब्/ याम्यादिष्वशुभफला जाताः तरवः प्रदक्षिणेनैते । ५२।८३य्द्/ उदगादिषु प्रशस्ताः प्लक्षवटौदुंबराश्वत्था (उदुंबराक्ष्वत्थाः) ॥ ॥ ५२।८४अब्/ आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय । ५२।८४य्द्/ फलिनः प्रजाक्षयकरा दारूणि अपि वर्जयेदेषाम् ॥ ॥ ५२।८५अब्/ छिन्द्याद् यदि न तरूंश्तान् तदन्तरे पूजितान् वपेदन्यत् (अन्यान्) । ५२।८५य्द्/ पुन्नागाशोकारिष्टबकुलपनसान् शमीशालौ ॥ ॥ ५२।८६अ शस्तौषधिद्रुमलता मधुरा सुगन्धा ५२।८६ब् स्निग्धा समा न सुषिरा च मही नराणाम् । ५२।८६य् अप्यध्वनि श्रमविनोदमुपागतानां ५२।८६द् धत्ते श्रियं किमुत शाश्वतमन्दिरेषु ॥ ॥ ५२।८७अब्/ सचिवालयेऽर्थनाशो धूर्तगृहे सुतवधः समीपस्थे । ५२।८७य्द्/ उद्वेगो देवकुले चतुष्पदे (चतुष्पथे) भवति चाकीर्तिः ॥ ॥ ५२।८८अब्/ चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसंकुले विपदः । ५२।८८य्द्/ गर्तायां तु पिपासा कूर्माकारे धनविनाशः ॥ ॥ ५२।८९अब्/ उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । ५२।८९य्द्/ विप्रः सर्वत्र वसेदनुवर्णमथैष्टमन्येषाम् ॥ ॥ ५२।९०अब्/ गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् । ५२।९०य्द्/ यद्यूनमनिष्टं तत् समे समं धन्यमधिकं यत् ॥ ॥ ५२।९१अब्/ श्वभ्रमथवा अंबुपूर्णं पदशतमित्वागतस्य यदि नोनम् । ५२।९१य्द्/ तद्धन्यं यच्च भवेत् पलानि अपामाढकं चतुःषष्टिः ॥ ॥ ५२।९२अब्/ आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिः अभ्यधिकम् । ५२।९२य्द्/ ज्वलति दिशि यस्य शस्ता सा भूमिः तस्य वर्णस्य ॥ ॥ ५२।९३अब्/ श्वभ्रोषितं न कुसुमं यस्य (यस्मिन्) प्रम्लायतेऽनुवर्णसमम् । ५२।९३य्द्/ तत्तस्य भवति शुभदं यस्य च यस्मिन् मनो रमते ॥ ॥ ५२।९४अब्/ सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः । ५२।९४य्द्/ गन्धश्च भवति यस्यां (यस्या) घृतरुधिरान्नाद्यमद्यसमः ॥ ॥ ५२।९५अब्/ कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रेमेण मही । ५२।९५य्द्/ ह्यनुवर्णं (अनुवर्णं) वृद्धिकरी मधुरकषायाम्लकटुका च ॥ ॥ ५२।९६अब्/ कृष्टां प्ररूढबीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च । ५२।९६य्द्/ गत्वा महीं गृहपतिः काले सांवत्सरोद्दिष्टे ॥ ॥ ५२।९७अब्/ भक्ष्यैः नानाकारैः दध्यक्षतसुरभिकुसुमधूपैश्च । ५२।९७य्द्/ दैवतपूजां कृत्वा स्थपतीन् अभ्यर्च्य विप्रांश्च ॥ ॥ ५२।९८अब्/ विप्रः स्पृष्ट्वा शीर्षं वक्षश्च क्षत्रियो विशाश्च ऊरू । ५२।९८य्द्/ शूद्रः पादौ स्पृष्ट्वा कुर्याद् रेखां गृहारंभे ॥ ॥ ५२।९९अब्/ अंगुष्ठकेन कुर्यान् मध्यांगुल्याऽथवा प्रदेशिन्या । ५२।९९य्द्/ कनकमणिरजतमुक्तादधिकफलकुसुमाक्षतैश्च शुभम् ॥ ॥ ५२।१००अब्/ शस्त्रेण शस्त्रमृत्युः बन्धो लोहेन भस्मनाग्निभयम् । ५२।१००य्द्/ तस्करभयं तृणेन च काष्ठौल्लिखिता च राजभयम् ॥ ॥ ५२।१०१अब्/ वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च । ५२।१०१य्द्/ चर्मांगारास्थिकृता दन्तेन च भर्तुः (कर्तुः) अशिवाय ॥ ॥ ५२।१०२अब्/ वैरमपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः । ५२।१०२य्द्/ वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम् ॥ ॥ ५२।१०३अब्/ अर्धनिचितं कृतं वा प्रविशन् स्थपतिः गृहे निमित्तानि । ५२।१०३य्द्/ अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति किं चांगम् ॥ ॥ ५२।१०४अब्/ रविदीप्ते यदि शकुनिः तस्मिन् काले विरौति परुषरवं (परुषरवः) । ५२।१०४य्द्/ संस्पृष्टांगसमानं तस्मिन् देशेऽस्थि निर्देश्यम् ॥ ॥ ५२।१०५अब्/ शकुनसमयेऽथ्वाऽन्ये हस्त्यश्वश्वादयोऽनुवाशन्ते । ५२।१०५य्द्/ तत्प्रभवमस्थि तस्मिं तदंगसंभूतमेवैति ॥ ॥ ५२।१०६अब्/ सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे । ५२।१०६य्द्/ श्वश‍ृगाललंघिते वा सूत्रे शल्यं विनिर्देश्यम् ॥ ॥ ५२।१०७अब्/ दिशि शान्तायां शकुनिः (शकुनो) मधुरविरावी यदा तदा वाच्यः । ५२।१०७य्द्/ अर्थः तस्मिन् स्थाने गृहेश्वराधिष्ठिते अंगे वा ॥ ॥ ५२।१०८अब्/ सूत्रच्छेदे मृत्युः कीले चावान्मुखे महगः (महान् रोगः) । ५२।१०८य्द्/ गृहनाथस्थपतीनां स्मृतिलोपे मृत्युः आदेश्यः ॥ ॥ ५२।१०९अब्/ स्कन्धाग्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुंभे । ५२।१०९य्द्/ भग्नेऽपि च कर्मिवधश्च्युते कराद् गृहपतेः मृत्युः ॥ ॥ ५२।११०अब्/ दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत् प्रथमं (प्रथमां) । ५२।११०य्द्/ शेषाः प्रदक्षिणेन स्तंभाश्चैवं समुत्थाप्य (समुत्थाप्याः) ॥ ॥ ५२।१११अब्/ छत्रस्रगंबरयुतः कृतधूपविलेपनः समुत्थाप्यः । ५२।१११य्द्/ स्तंभः तथैव कार्यो द्वारोच्छ्रायः प्रयत्नेन ॥ ॥ ५२।११२अब्/ विहगादिभिः अवलीनैः आकंपितपतितदुःस्थितैश्च तथा (फलं) । ५२।११२य्द्/ शक्रध्वजसदृशफलं तदेव तस्मिन् (सदृशं तस्मिंश्च शुभं) विनिर्दिष्टम् ॥ ॥ ५२।११३अब्/ प्रागुत्तरौन्नते धनसुतक्षयः सुतवधश्च दुर्गन्धे । ५२।११३य्द्/ वक्रे ब्न्धुविनाशो न सन्ति गर्भाश्च दिन्मूढे ॥ ॥ ५२।११४अब्/ इच्छेद् यदि गृहवृद्धिं ततः समन्ताद् विवर्धयेत् तुल्यम् । ५२।११४य्द्/ एकौद्देशे दोषः प्राग् अथवाऽपि उत्तरे कुर्यात् ॥ ॥ ५२।११५अब्/ प्राग् भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः । ५२।११५य्द्/ अर्थविनाशः पश्चादुदग्विवृद्धिः (उदग्विवृद्धौ) मनस्तापः ॥ ॥ ५२।११६अब्/ ऐशान्यां देवहृहं महानसं यदि चापि कार्यमाग्नेय्याम् । ५२।११६य्द्/ नैरृत्यां भाण्डौपस्करोऽर्थधान्यानि मारुत्याम् ॥ ॥ ५२।११७अब्/ प्राच्यादिस्थे सलिले सुतहानिः शिखिभयं रिपुभयं च । ५२।११७य्द्/ स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं वित्तात्मजविवृद्धिः ॥ ॥ ५२।११८अब्/ खगनिलयभग्नसंशुष्कदग्धदेवालयश्मशानस्थान् । ५२।११८य्द्/ क्षीरतरुधवविभीतकनिंबारणिवर्जितान् छिन्द्यात् (वर्जितांश्च्छिन्द्यात्) ॥ ॥ ५२।११९अब्/ रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद् दिवा वृक्षम् । ५२।११९य्द्/ धन्यमुदक्प्राक्पततं न ग्राह्योऽतोऽन्यथा पतितः ॥ ॥ ५२।१२०अब्/ छेदो यद्यविकारी ततः शुभं दारु तद्गृहौपयिकम् । ५२।१२०य्द्/ पीते तु मण्डले निर्दिशेत् तरोः मध्यगां गोधाम् ॥ ॥ ५२।१२१अब्/ मञ्जिष्ठाभे भेको नीले सर्पः तथाऽरुणे सरटः । ५२।१२१य्द्/ मुद्गाभेऽश्मा कपिले तु मूषकोऽंभश्च खड्गाभे ॥ ॥ ५२।१२२अब्/ धान्यगोगुरुहुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम् । ५२।१२२य्द्/ नौत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन् ॥ ॥ ५२।१२३अब्/ भूरिपुष्पविकरं (निकरं) सतोरणं तोयपूर्णकलशौपशोभितम् । ५२।१२३य्द्/ धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेद् गृहम् ॥ ॥ sएपरते अध्याय ५३ दकार्गलाध्यायः ५३।१अब्/ धर्म्यं यशस्यं च वदाम्यतोऽहं दकार्गलं (दगार्गलं) येन जलोपलब्धिः । ५३।१य्द्/ पुंसां यथांगेषु शिराः तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः ॥ ॥ ५३।२अब्/ एकेन वर्णेन रसेन चांभश्च्युतं नभस्तो वसुधाविशेषात् । ५३।२य्द्/ नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यमेव ॥ ॥ ५३।३अब्/ पुरुहूतानलयमनिरृतिवरुणपवनेन्दुशंकरा देवाः । ५३।३य्द्/ विज्ञातव्याः क्रमशः प्राच्याद्यानां दिशां पतयः ॥ ॥ ५३।४अब्/ दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी । ५३।४य्द्/ एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥ ॥ ५३।५अब्/ पातालादूर्ध्वशिरा शुभा (ऊर्ध्वशिराः शुभाः) चतुर्दिक्षु संस्थिता याश्च । ५३।५य्द्/ कोणदिगुत्था न शुभाः शिरानिमित्तानि अतो वक्ष्ये ॥ ॥ ५३।६अब्/ यदि वेतसोऽंबुरहिते देशे हस्तैः त्रिभिः ततः पश्चात् । ५३।६य्द्/ सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥ ॥ ५३।७अब्/ चिह्नमपि चार्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता । ५३।७य्द्/ पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥ ॥ ५३।८अब्/ जंब्वाश्चौदग् धस्तैः त्रिभिः शिराधो नरद्वये पूर्वा । ५३।८य्द्/ मृल्लोहगन्धिका पाण्डुरा च (अथ) पुरुषेऽत्र मण्डूकः ॥ ॥ ५३।९अब्/ जंबूवृक्षस्य प्राग् वल्मीको यदि भवेत् समीपस्थः । ५३।९य्द्/ तस्माद् दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ॥ ॥ ५३।१०अब्/ अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः । ५३।१०य्द्/ मृद् भवति चात्र नीला दीर्घं कालं च बहु तोयम् ॥ ॥ ५३।११अब्/ पश्चादुदुंबरस्य त्रिभिः एव करैः नरद्वये सार्धे । ५३।११य्द्/ पुरुषे सितोऽहिरश्माञ्जनौपंप्ऽधः शिरा सुजला ॥ ॥ ५३।१२अब्/ उदग् अर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद् धस्तैः । ५३।१२य्द्/ त्रिभिः अंबु भवति पुरुषैः त्रिभिः अर्धसमन्वितैः पश्चात् ॥ ॥ ५३।१३अब्/ श्वेता गोधार्धनरे पुरुषे मृद् धूसरा ततः कृष्णा । ५३।१३य्द्/ पीता सिता ससिकता ततो जलं निर्दिशेदमितम् ॥ ॥ ५३।१४अब्/ वल्मीकौपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः । ५३।१४य्द्/ पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम् ॥ ॥ ५३।१५अब्/ रोहितमत्स्योऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः । ५३।१५य्द्/ सिकता सशर्कराऽथ क्रमेण परतो भवत्यंभः ॥ ॥ ५३।१६अब्/ पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् । ५३।१६य्द्/ पुरुषैः त्रिभिः आदेश्यं श्वेता गृहगोधिकार्धनरे ॥ ॥ ५३।१७अब्/ सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति । ५३।१७य्द्/ पुरुषत्रये सपादे पुरुषेऽत्र च दुण्डुभः (दुण्डुभिः) चिह्नम् ॥ ॥ ५३।१८अब्/ विल्व (बिल्व) उदुंबरयोगे विहाय हस्तत्रयं तु याम्येन । ५३।१८य्द्/ पुरुषैः त्रिभिः अंबु भवेत् कृष्णोऽर्धनरे च मण्डूकः ॥ ॥ ५३।१९अब्/ काकौदुंबरिकायां वल्मीको दृश्यते शिरा तस्मिन् । ५३।१९य्द्/ पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ॥ ॥ ५३।२०अब्/ आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः । ५३।२०य्द्/ पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ ॥ ५३।२१अब्/ जलपरिहीने देशे वृक्षः कंपिल्लको यदा दृश्यः । ५३।२१य्द्/ प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ॥ ॥ ५३।२२अब्/ मृन्नीलोत्पलवर्णा कापोता दृश्यते ततः (चैव दृश्यते) तस्मिन् । ५३।२२य्द्/ हस्ते ऽजगन्धको मत्स्यकः (ऽजगन्धिमत्स्यो भवति) पयोऽल्पं च सक्षारम् ॥ ॥ ५३।२३अब्/ शोणाकतरोः अपरोत्तरे शिरा द्वौ करावतिक्रम्य । ५३।२३य्द्/ कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ॥ ॥ ५३।२४अब्/ आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि । ५३।२४य्द्/ अध्यर्धे भवति (तस्य) शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ ॥ ५३।२५अब्/ तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद् धस्ते । ५३।२५य्द्/ तत्रौदग् भवति शिरा चतुर्भिः अर्धाधिकैः पुरुषैः ॥ ॥ ५३।२६अब्/ श्वेतो विश्वंभरकः प्रथमे पुरुषे तु कुंकुमाभोऽश्मा । ५३।२६य्द्/ अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥ ॥ ५३।२७अब्/ सकुशः सित (सकुशासित) ऐशान्यां वल्मीको यत्र कोविदारस्य । ५३।२७य्द्/ मध्ये तयोः नरैः अर्धपंचमैः तोयमक्षोभ्यम् ॥ ॥ ५३।२८अब्/ प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता । ५३।२८य्द्/ कुरुविन्दः पाषाणश्चिह्नानि एतानि वाच्यानि ॥ ॥ ५३।२९अब्/ यदि भवति सप्तपर्णो वल्मीकवृतः तदुत्तरे तोयम् । ५३।२९य्द्/ वाच्यं पुरुषैः पंचभिः अत्रापि भवन्ति चिह्नानि ॥ ॥ ५३।३०अब्/ पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च । ५३।३०य्द्/ पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभांबुवहा ॥ ॥ ५३।३१अब्/ सर्वेषां वृक्षाणामधः स्थितो दर्दुरो यदा दृश्यः । ५३।३१य्द्/ तस्माद् धस्ते तोयं चतुर्भिः अर्धाधिकैः पुरुषैः ॥ ॥ ५३।३२अब्/ पुरुषे तु भवति नकुलो नीलो मृत्पीतिका ततः श्वेता । ५३।३२य्द्/ दर्दुरसमानरूपः पाषाणो दृश्यते चात्र ॥ ॥ ५३।३३अब्/ यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य । ५३।३३य्द्/ हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे ॥ ॥ ५३।३४अब्/ कच्छपकः पुरुषार्धे प्रथमं चौद्भिद्यते शिरा पूर्वा । ५३।३४य्द्/ उदग् अन्या स्वादुजला हरितोऽश्माधः ततः तोयम् ॥ ॥ ५३।३५अब्/ उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोः तोयम् । ५३।३५य्द्/ परिहृत्य पंच हस्तान् अर्धाष्टमपौरुषान् (पौरुषे) प्रथमम् ॥ ॥ ५३।३६अब्/ अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलुत्थ (कुलत्त) वर्णोऽश्मा । ५३।३६य्द्/ माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम् ॥ ॥ ५३।३७अब्/ वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत् । ५३।३७य्द्/ पुरुषैः पंचभिः अंभो दिशि वारुण्यां शिरा पूर्वा ॥ ॥ ५३।३८अब्/ सर्पावासः पश्चाद् यदा कदंबस्य दक्षिणेन जलम् । ५३।३८य्द्/ परतो हस्तत्रितयात् षड्भिः पुरुषैः तुरीयोनैः ॥ ॥ ५३।३९अब्/ कौबेरी चात्र शिरा वहति जलं लोहगन्धि चाक्षोभ्यम् । ५३।३९य्द्/ कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ॥ ॥ ५३।४०अब्/ वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा । ५३।४०य्द्/ पश्चात् षड्भिः हस्तैः नरैश्चतुर्भिः शिरा याम्या ॥ ॥ ५३।४१अब्/ याम्येन कपित्थस्याहिसंश्रयश्चेदुदग् जलं वाच्यम् । ५३।४१य्द्/ सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पंच ॥ ॥ ५३।४२अब्/ कर्बुरकोऽहिः पुरुषे कृष्णा मृत् पुटभिदपि च पाषाणः । ५३।४२य्द्/ श्वेता मृत् पश्चिमतः शिरा ततश्चौत्तरा भवति ॥ ॥ ५३।४३अब्/ अश्मन्तकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा । ५३।४३य्द्/ षड्भिरुदक् तस्य करैः सार्धे पुरुषत्रये तोयम् । ५३।४४अब्/ कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् । ५३।४४य्द्/ आदौ च शिरा (शिरा च) याम्या पूर्वोत्तरतो द्वितीया च ॥ ॥ ५३।४५अब्/ वामेन हरिद्रतरोः वल्मीकश्चेज्जलं भवति पूर्वे (चेत् ततो जलं) । ५३।४५य्द्/ हस्तत्रितये सत्र्यंशैः पुंभिः (पुरुषैः सत्र्यंशैः) पंचभिः भवति ॥ ॥ ५३।४६अब्/ नीलो भुजगः पुरुषे मृत् पीता मरकतौपमश्चाश्मा । ५३।४६य्द्/ कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ॥ ॥ ५३।४७अब्/ जलपरिहीने देशे दृश्यन्तेऽनूपजानि चेन् निमितानि (चिह्नानि) । ५३।४७य्द्/ वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ॥ ॥ ५३।४८अब्/ भार्ंगी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा चैव । ५३।४८य्द्/ नवमालिका च हस्तद्वयेऽंबु याम्ये त्रिभिः पुरुषैः ॥ ॥ ५३।४९अब्/ स्निग्धाः प्रलंबशाखा वामनविकट (विट) द्रुमाः समीपजलाः । ५३।४९य्द्/ सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ॥ ॥ ५३।५०अब्/ तिलकाम्रातकवरुणकभल्लातकविल्व (बिल्व) तिन्दुकांकोलाः (अग़्कोल्लाः) । ५३।५०य्द्/ पिण्डारशिरीषाञ्जनपरूषका वञ्जुलोऽतिबला (वञ्जुरातिबला) ॥ ॥ ५३।५१अब्/ एते यदि सुस्निग्धा वल्मीकैः परिवृताः ततः तोयम् । ५३।५१य्द्/ हस्तैः त्रिभिरुत्तरतश्चतुर्भिः अर्धेन च नरेण (नरस्य) ॥ ॥ ५३।५२अब्/ अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र । ५३।५२य्द्/ तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन् ॥ ॥ ५३।५३अब्/ कण्टक्यकण्टकानां व्यत्यासेऽंभः त्रिभिः करैः पश्चात् । ५३।५३य्द्/ खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ॥ ५३।५४अब्/ नदति मही गंभीरं यस्मिंश्चरणाहता जलं तस्मिन् । ५३।५४य्द्/ सार्धैः त्रिभिः मनुष्यैः कौबेरी तत्र च शिरा स्यात् ॥ ॥ ५३।५५अब्/ वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् । ५३।५५य्द्/ विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥ ॥ ५३।५६अब्/ फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिः हस्तैः । ५३।५६य्द्/ भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ॥ ॥ ५३।५७अब्/ यदि कण्टकारिका कण्टकैः विना दृश्यते सितैः कुसुमैः । ५३।५७य्द्/ तस्याः तलेऽंबु वाच्यं त्रिभिः नरैः अर्धपुरुषे च ॥ ॥ ५३।५८अब्/ खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे । ५३।५८य्द्/ तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैः (त्रिपुरुषे) वारि ॥ ॥ ५३।५९अब्/ यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा । ५३।५९य्द्/ सव्येन तत्र हस्तद्वयेऽंबु पुरुषद्वये (पुरुषत्रये) भवति ॥ ॥ ५३।६०अब्/ यस्याम् ऊष्मा (ऊष्मा यस्यां) धात्र्यां धूमो वा तत्र वारि नरयुगले (नरयुग्मे) । ५३।६०य्द्/ निर्देष्टव्या च शिरा महता तोयप्रवाहेण ॥ ॥ ५३।६१अब्/ यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति । ५३।६१य्द्/ स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥ ॥ ५३।६२अब्/ मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि । ५३।६२य्द्/ ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ॥ ॥ ५३।६३अब्/ पूर्वोत्तरेण पीलोः यदि वल्मीको जलं भवति पश्चात् । ५३।६३य्द्/ उत्तरगमना च शिरा विज्ञेया पंचभिः पुरुषैः ॥ ॥ ५३।६४अब्/ चिह्नं दर्दुर आदौ मृत् कपिला तत्परं (मृत्कपिलातः परं) भवेद् धरिता । ५३।६४य्द्/ भवति च पुरुषे अधौ ऽश्मा तस्य तले ऽंभो विनिर्देष्यं (वारि निर्देच्यं) ॥ ॥ ५३।६५अब्/ पीलोः एव प्राच्यां वल्मीकोऽतोऽर्धपंचमैः हस्तैः । ५३।६५य्द्/ दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥ ॥ ५३।६६अब्/ प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च । ५३।६६य्द्/ दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ॥ ॥ ५३।६७अब्/ उत्तरतश्च करीरस्याहिगृहं (करीरादहिनिलये) दक्षिणे जलं स्वादु । ५३।६७य्द्/ दशभिः पुरुषैः ज्ञेयम् पुर्षे पीतोऽत्र मण्डूकः ॥ ॥ ५३।६८अब्/ रोहीतकस्य पश्चादहिवासश्चेत् त्रिभिः करैः याम्ये । ५३।६८य्द्/ द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥ ॥ ५३।६९अब्/ इन्द्रतरोः वल्मीकः प्राग् दृश्यः पश्चिमे शिरा हस्ते । ५३।६९य्द्/ खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे ॥ ॥ ५३।७०अब्/ यदि वा सुवर्णनाम्नः तरोः भवेद् वामतो भुजंगगृहम् । ५३।७०य्द्/ हस्तद्वये तु याम्ये पंचदशनरावसानेऽंबु ॥ ॥ ५३।७१अब्/ क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा । ५३।७१य्द्/ रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ॥ ॥ ५३।७२अब्/ बदरीरोहितवृक्षौ सम्पृक्तौ चेद् विनापि वल्मीकम् । ५३।७२य्द्/ हस्तत्रयेऽंबु पश्चात् षोडशभिः मानवैः भवति ॥ ॥ ५३।७३अब्/ सुरसं जलमादौ दक्षिणा शिरा वहति चौत्तनेणान्या । ५३।७३य्द्/ पिष्टनिभः पाषाणो मृत् श्वेता वृश्चिकोऽर्धनरे ॥ ॥ ५३।७४अब्/ सकरीरा चेद् वदरी त्रिभिः करैः पश्चिमेन तत्रांभः । ५३।७४य्द्/ अष्टादशभिः पुरुषैः अशानी बहुजला च शिरा ॥ ॥ ५३।७५अब्/ पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ॥ ॥ ५३।७५य्द्/ विंशत्या पुरुषाणामशोष्यमंभोऽत्र सक्षारम् ॥ ॥ ५३।७६अब्/ ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ (बिल्बौ) वा । ५३।७६य्द्/ हस्तद्वयेऽंबु पश्चान् नरैः भवेत् पंचविंशत्या ॥ ॥ ५३।७७अब्/ वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति । ५३।७७य्द्/ कूपो मध्ये देयो जलमत्र नरैकविंशत्या ॥ ॥ ५३।७८अब्/ भूमिः कदंबकयुता (भूमी कदंबकयुता, भूमीकदंबकयुता) वल्मीके यत्र दृश्यते दूर्वा । ५३।७८य्द्/ हस्तद्वयेन (हस्तत्रयेन) याम्ये नरैः जलं पंचविंशत्या ॥ ॥ ५३।७९अब्/ वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति । ५३।७९य्द्/ नानावृक्षैः सहितः त्रिभिः जलं तत्र वक्तव्यम् ॥ ॥ ५३।८०अब्/ हस्तचतुष्के मध्यात् षोडशभिश्चांगुलैरुदग् वारि । ५३।८०य्द्/ चत्वारिंशत् पुरुषान् खात्वा ऽश्माऽधः (अश्मातः) शिरा भवति ॥ ॥ ५३।८१अब्/ ग्रन्थिप्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः । ५३।८१य्द्/ पश्चात् पंचकरान्ते शतार्धसंख्यैः नरैः सलिलम् ॥ ॥ ५३।८२अब्/ एकस्थाः पंच यदा वल्मीका मध्यमो भवेत्श्वेतः । ५३।८२य्द्/ तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पंचवर्जितया ॥ ॥ ५३।८३अब्/ सपलाशा यत्र शमी पश्चिमभागेऽंबु मानवैः षष्ट्या । ५३।८३य्द्/ अर्धनरेऽहिः प्रथमं सवालुका पीतमृत् परतः ॥ ॥ ५३।८४अब्/ वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद् यस्मिन् । ५३।८४य्द्/ पूर्वेण हस्तमात्रे सप्तत्या मानवैः अंबु ॥ ॥ ५३।८५अब्/ श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः । ५३।८५य्द्/ नरपंचकसंयुतया सप्तत्याहिः नरार्धे च ॥ ॥ ५३।८६अब्/ मरुदेशे यच्चिह्नं न जांगले तैः जलं विनिर्देश्यम् । ५३।८६य्द्/ जंबूवेतसपूर्वैः (पूर्वे) ये पुरुषाः ते मरौ द्विगुणाः ॥ ॥ ५३।८७अब्/ जंबूः त्रिवृता मौर्वी (मूर्वा) शिशुमारी सारिवा शिवा श्यामा । ५३।८७य्द्/ वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च (च गरुडवेगा) ॥ ॥ ५३।८८अब्/ सूकरिकमाषपर्णीव्याघ्रपदाश्चैति यद्यहेः निलये । ५३।८८य्द्/ वल्मीकादुत्तरतः त्रिभिः करैः त्रिपुरुषे तोयम् ॥ ॥ ५३।८९अब्/ एतदनूपे वाच्यं जांगलभूमौ तु पंचभिः पुरुषैः । ५३।८९य्द्/ एतैः एव निमित्तैः मरुदेशे सप्तभिः कथयेत् ॥ ॥ ५३।९०अब्/ एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना । ५३।९०य्द्/ तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ ॥ ५३।९१अब्/ यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् । ५३।९१य्द्/ तत्र अर्धपंचकैः (अर्धपंचमैः) वारि मानवैः पंचभिः यदि वा ॥ ॥ ५३।९२अब्/ स्निग्धतरूणां याम्ये नरैश्चतुर्भिः जलं प्रभूतं च । ५३।९२य्द्/ तरुगहनेऽपि हि विकृतो यः तस्मात् तद्वदेव वदेत् ॥ ॥ ५३।९३अब्/ नमते यत्र धरित्री सार्धे पुरुषेऽंबु जांगलानूपे । ५३।९३य्द्/ कीटा वा यत्र विनालयेन बहवोऽंबु तत्रापि ॥ ॥ ५३।९४अब्/ उष्णा शीता च मही शीतोष्णांभः त्रिभिः नरैः सार्धैः । ५३।९४य्द्/ इन्द्रधनुः मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ॥ ५३।९५अब्/ वल्मीकानां पंक्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः । ५३।९५य्द्/ शुष्यति न रोहते वा सस्यं यस्यां च तत्रांभः ॥ ॥ ५३।९६अब्/ न्यग्रोधपलाशौदुंबरैः समेतैः त्रिभिः जलं तदधः । ५३।९६य्द्/ वटपिप्पलसमवाये तद्वद् वाच्यं शिरा चौदक् ॥ ॥ ५३।९७अब्/ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् (भवति) कूपः । ५३।९७य्द्/ नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ ॥ ५३।९८अब्/ नैरृतकोणे बालक्षयं च वनिताभयं (वनिताभयं) च वायव्ये । ५३।९८य्द्/ दिक्त्रयमेतत् त्यक्त्वा शेषासु शुभावहाः कूपाः ॥ ॥ ५३।९९अब्/ सारस्वतेन मुनिना दकार्गकं (दगारगलं) यत् क्र्तं तदवलोक्य । ५३।९९य्द्/ आर्याभिः कृतमेतद् वृत्तैः अपि मानवं वक्ष्ये ॥ ॥ ५३।१००अ स्निग्धा यतः पादपगुल्मवल्ल्यो ५३।१००ब् निश्छिद्रपत्राश्च ततः शिरास्ति । ५३।१००य् पद्मक्षुरौशीरकुलाः सगुण्ड्राः ५३।१००द् काशाः कुशा वा नलिका नलो वा ॥ ॥ ५३।१०१अ खर्जूरजंबू अर्जुनवेतसाः स्युः ५३।१०१ब् क्षीरान्विता वा द्रुमगुल्मवल्ल्यः । ५३।१०१य् छत्रैभनगाः शतपत्रनीपाः ५३।१०१द् स्युः नक्तमालाश्च ससिन्दुवाराः ॥ ॥ ५३।१०२अ विभीतको वा मदयन्तिका वा ५३।१०२ब् यत्रास्ति तस्मिन् पुरुषत्रयेऽंभः । ५३।१०२य् स्यात् पर्वतस्यौपरि पर्वतोऽन्यः ५३।१०२द् तत्रापि मूले पुरुषत्रयेऽंभः ॥ ॥ ५३।१०३अ या मौञ्जिकैः (मौञ्जकैः) काशकुशैश्च युक्ता ५३।१०३ब् नीला च मृद्यत्र सशर्करा च । ५३।१०३य् तस्यां प्रभूतं सुरसं च तोयं ५३।१०३द् कृष्णाथवा यत्र च रक्तमृद् वा ॥ ॥ ५३।१०४अ सशर्करा ताम्रमही कषायं ५३।१०४ब् क्षारं धरित्री कपिला करोति । ५३।१०४य् आपाण्डुरायां लवणं प्रदिष्टं ५३।१०४द् मृष्टं (मिष्टं) पयो नीलवसुन्धरायाम् ॥ ॥ ५३।१०५अ शाकाश्वकर्णार्जुनविल्व (बिल्व) सर्जाः ५३।१०५ब् श्रीपर्ण्यरिष्टाधवशिंशपाश्च । ५३।१०५य् छिद्रैश्च पत्रैः (पर्णैः) द्रुमगुल्मवल्ल्यो ५३।१०५द् रूक्षाश्च दूरेऽंबु निवेदयन्ति ॥ ॥ ५३।१०६अ सूर्याग्निभस्मौष्ट्रखरानुवर्णा ५३।१०६ब् या निर्जला सा वसुधा प्रदिष्टा । ५३।१०६य् रक्तांकुराः क्षीरयुताः करीरा ५३।१०६द् रक्ता धरा चेज्जलमश्मनोऽधः ॥ ॥ ५३।१०७अ वैदूर्यमुद्ग (वैडूर्यमुड्ग)अंबुदमेचकाभा ५३।१०७ब् पाकौन्मुखौदुंबरसन्निभा वा । ५३।१०७य् भंग (भृग्ग)अञ्जनाभा कपिलाथवा या ५३।१०७द् ज्ञेया शिला भूरिसमीपतोया ॥ ॥ ५३।१०८अ पारावत (परावत) क्षौद्रघृतौपमा या (वा) ५३।१०८ब् क्षौमस्य वस्त्रस्य च तुल्यवर्णा । ५३।१०८य् या सोमवल्ल्याश्च समानरूपा ५३।१०८द् साप्याशु तोयं कुरुतेऽक्षयं च ॥ ॥ ५३।१०९अ ताम्रैः समेता पृषतैः विचित्रैः ५३।१०९ब् आपाण्डुभस्मौष्ट्रखरानुरूपा । ५३।१०९य् भृंगौपमांगुष्ठिकपुष्पिका वा ५३।१०९द् सूर्याग्निवर्णा च शिला वितोया ॥ ॥ ५३।११०अ चन्द्रातपस्फटिकमौक्तिकहेमरूपा ५३।११०ब् याश्चेन्द्रनीलमणिहिंगुलुकाञ्जनाभाः । ५३।११०य् सूर्योदयांशुहरितालनिभाश्च याः स्युः ५३।११०द् ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ॥ ॥ ५३।१११अ एता ह्यभेद्याश्च शिलाः शिवाश्च ५३।१११ब् यक्षैश्च नागैश्च सदाभिजुष्टाः । ५३।१११य् येषां च राष्ट्रेषु भवन्ति राज्णां ५३।१११द् तेषामवृष्टिः न भवेत् कदाचित् ॥ ॥ ५३।११२अ भेदं यदा नैति शिला तदानीं ५३।११२ब् पलाशकाष्ठैः सह तिन्दुकानाम् । ५३।११२य् प्रज्वालयित्वानलमग्निवर्णा ५३।११२द् सुधांबुसिक्ता प्रविदारमेति ॥ ॥ ५३।११३अ तोयं श्रितं (श‍ृतं) मोक्षकभस्मना वा ५३।११३ब् यत् सप्तकृत्वः परिषेचनं तत् । ५३।११३य् कार्यं शरक्षारयुतं शिलायाः ५३।११३द् प्रस्फोटनं वह्निवितापितायाः ॥ ॥ ५३।११४अ तक्रकाञ्जिकसुराः सकुलत्था ५३।११४ब् योजितानि बदराणि च तस्मिन् । ५३।११४य् सप्तरात्रमुषितानि अभितप्तां ५३।११४द् दारयन्ति हि शिलां परिषेकैः ॥ ॥ ५३।११५अ नैंबं पत्रं त्वक् च नालं तिलानां ५३।११५ब् सापामार्गं तिन्दुकं स्याद् गुडूची । ५३।११५य् गोमूत्रेण स्रावितः क्षार एषां ५३।११५द् षट्कृत्वोऽतः तापितो भिद्यतेऽश्मा ॥ ॥ ५३।११६अ आर्कं पयो हुडुविषाणमषीसमेतं ५३।११६ब् पारावताखुशकृता च युतः प्रलेपः । ५३।११६य् टंकस्य तैलमथितस्य ततोऽस्य पानं ५३।११६द् पश्चात्शितस्य न शिलासु भवेद् विघातः ॥ ॥ ५३।११७अ क्षारे कदल्या मथितेन युक्ते (यक्ते) ५३।११७ब् दिनोषिते पायितमायसं यत् । ५३।११७य् सम्यक् शितं (छितं) चाश्मनि नैति भंगं ५३।११७द् न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥ ॥ ५३।११८अ पाली प्रागपरायतांबु सुचिरं धत्ते न याम्योत्तरा ५३।११८ब् कल्लोलैः अवदारमेति मरुता सा प्रायशः प्रेरितैः । ५३।११८य् तां चेदिच्छति सारदारुभिः अपां सम्पातमावारयेत् । ५३।११८द् पाषाणादिभिः एव वा प्रतिचयं क्षुण्णं (क्षुन्नं) द्विपाश्वादिभिः ॥ ॥ ५३।११९अब्/ ककुभवटाम्रप्लक्षकदंबैः सनिचुलजंबूवेतसनीपैः । ५३।११९य्द्/ कुरबक (कुरवाक) तालाशोकमधूकैः बकुलविमिश्रैश्चावृएततीराम् ॥ ॥ ५३।१२०अ द्वारं च नैर्वाहिकमेकदेशे ५३।१२०ब् कार्यं शिलासंचितवारिमार्गम् । ५३।१२०य् कोशस्थितं निर्विवरं कपाटं ५३।१२०द् कृत्वा ततः पांशुभिः आवपेत् तम् ॥ ॥ ५३।१२१अब्/ अञ्जनमुस्तौशीरैः सराजकोशातकामलकचूर्णैः । ५३।१२१य्द्/ कतकफलसमायुक्तैः योगः कूपे प्रदातव्यः ॥ ॥ ५३।१२२अ कलुषं कटकं (कतुकं) लवणं विरसं ५३।१२२ब् सलिलं यदि वा शुभगन्धि भवेत् । ५३।१२२य् तदनेन भवत्यमलं सुरसं ५३।१२२द् सुसुगन्धि गुणैः अपरैश्च युतम् ॥ ॥ ५३।१२३अब्/ हस्तो मघानुराधापुष्यधनिष्ठौत्तराणि रोहिण्यः । ५३।१२३य्द्/ शतभिषग् इत्यारंभे कूपानां शस्यते भगणः ॥ ॥ ५३।१२४अब्/ कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने । ५३।१२४य्द्/ कुसुमैः गन्धैः धूपैः सम्पूज्य निधापयेत् प्रथमम् ॥ ॥ /Eण्(५४।१२५अब्/ मेघोद्भवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा । ५४।१२५य्द्/ भौमं दगार्गलमिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात् ॥ ॥) sएपरते अध्याय ५४ वृक्षायुर्वेदाध्यायः ५४।१अब्/ प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः । ५४।१य्द्/ यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥ ॥ ५४।२अब्/ मृद्वी भूः सर्ववृक्षाणां हिता तस्याम् तिलान् वपेत् । ५४।२य्द्/ पुष्पितां तांश्च मृद्नीयात् (गृह्णीयात्) कर्मएतत् प्रथमं भुवः (भुवि) ॥ ॥ ५४।३अब्/ अरिष्टाशोकपुन्नागशिरीषाः सप्रियंगवः । ५४।३य्द्/ मंगल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥ ॥ ५४।४अब्/ पनसाशोककदलीजंबूलकुचदाडिमाः । ५४।४य्द्/ द्राक्षापालीवताश्चएव बीजपूरातिमुक्तकाः ॥ ॥ ५४।५अब्/ एते द्रुमाः काण्डरोप्या (काण्डारोप्या) गोमयेन प्रलेपिताः । ५४।५य्द्/ मूलोच्छेदेऽथवा स्कन्धे रोपणीयाः परं ततः (प्रयत्नतः) ॥ ॥ ५४।६अब्/ अजातशाखान् शिशिरे जातशाखान् हिमागमे । ५४।६य्द्/ वर्षागमे च सुस्कन्धान् यथादिक्स्थान् प्ररोपयेत् (यथादिक् प्रतिरोपयेत्) ॥ ॥ ५४।७अब्/ घृतौशीरतिलक्षौद्रविडंगक्षीरगोमयैः । ५४।७य्द्/ आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ॥ ॥ ५४।८अब्/ शुचिः भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः । ५४।८य्द्/ रोपयेद् रोपितश्चैव पत्रैः तैः एव जायते ॥ ॥ ५४।९अब्/ सायं प्रातश्च घर्मऋतौ (घर्मान्ते) शीतकाले दिनान्तरे । ५४।९य्द्/ वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ॥ ५४।१०अब्/ जंबूवेतसवानीरकदंबौदुंबरार्जुनाः । ५४।१०य्द्/ बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥ ॥ ५४।११अब्/ वञ्जुलो नक्तमालश्च तिलकः पनसः तथा । ५४।११य्द्/ तिमिरोऽम्रातकश्चैति (चैव) षोडशानूपजाः स्मृताः ॥ ॥ ५४।१२अब्/ उत्तमं विंशतिः हस्ता मध्यमं षोडशान्तरम् । ५४।१२य्द्/ स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥ ॥ ५४।१३अब्/ अभ्यासजाताः तरवः संस्पृशन्तः परस्परम् । ५४।१३य्द्/ मिश्रैः मूलैश्च न फलं सम्यग् यच्छन्ति पीडिताः ॥ ॥ ५४।१४अब्/ शीतवातातपै रोगो जायते पाण्डुपत्रता । ५४।१४य्द्/ अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ॥ ॥ ५४।१५अब्/ चिकित्सितमथएतेषां शस्त्रेणादौ विशोधनम् । ५४।१५य्द्/ विडंगघृतपंकातान् सेचयेत् क्षीरवारिणा ॥ ॥ ५४।१६अब्/ फलनाशे कुलत्थैश्च माषैः मुद्गैः तिलैः यवैः । ५४।१६य्द्/ श‍ृतशीतपयःसेकः फलपुष्पसमृद्धये (अभिवृद्धये) ॥ ॥ ५४।१७अब्/ अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम् । ५४।१७य्द्/ सक्तुप्रस्थो जलद्रोणो गोमांसतुलया सह ॥ ॥ ५४।१८अब्/ सप्तरात्रौषितैः एतैः सेकः कार्यो वनस्पतेः । ५४।१८य्द्/ वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा ॥ ॥ ५४।१९अ वासराणि दश दुग्धभावितं ५४।१९ब् बीजमाज्ययुतहस्तयोजितम् । ५४।१९य् गोमयेन बहुशो विरूक्षितं ५४।१९द् क्रौडमार्गपिशितैश्च धूपितम् ॥ ॥ ५४।२०अब्/ मांस (मत्स्य) सूकरवसासमन्वितं रोपितं च परिकर्मितावनौ । ५४।२०य्द्/ क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तमेव तत् ॥ ॥ ५४।२१अब्/ तिन्तिडीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः । ५४।२१य्द्/ पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ॥ ॥ ५४।२२अ कपित्थवल्लीकरणाय मूलान्य्- ५४।२२ब् आस्फोतधात्रीधववासिकानाम् । ५४।२२य् पलाशिनी वेतससूर्यबल्ली (वल्ली) ५४।२२द् श्यामातिमुक्तैः सहिताष्टमूली ॥ ॥ ५४।२३अ क्षारे श‍ृते चाप्यनया सुशीते ५४।२३ब् ताला (नाला) शतं स्थाप्य कपित्थबीजम् । ५४।२३य् दिने दिने शोषितमर्कपादैः ५४।२३द् मासं विधिः त्वेष ततोऽधिरोप्यम् ॥ ॥ ५४।२४अ हस्तायतं तद्द्विगुणं गभीरं ५४।२४ब् खात्वावटं प्रोक्तजलावपूर्णम् । ५४।२४य् शुष्कं प्रदग्धं मधुसर्पिषा तत् ५४।२४द् प्रलेपयेद् भस्मसमन्वितन (समन्वितेन) ॥ ॥ ५४।२५अ चूर्णीकृतैः माषतिलैः यवैश्च ५४।२५ब् प्रपूरयेद् मृत्तिकयान्तरस्थैः । ५४।२५य् मत्स्यामिषांभः (अंभः) सहितं च हन्याद् ५४।२५द् यावद् घनत्वं समुपागतं तत् ॥ ॥ ५४।२६अ उप्तं च बीजं चतुरंगुलाधो ५४।२६ब् मत्स्यांभसा मांसजलैश्च सिक्तम् । ५४।२६य् वल्ली भवत्याशु शुभप्रवाला ५४।२६द् विस्मापनी मण्डपमावृणोति ॥ ॥ ५४।२७अब्/ शतशो अंकोल (अग़्कोल्ल) संभूतफलकल्केन भावितम् । ५४।२७य्द्/ एतत् तैलेन वा बीजं श्लैष्मातक (श्लेष्मातक) फेन वा ॥ ॥ ५४।२८अब्/ वापितं करकौन्मिश्रमृदि तत्क्षणजन्मकम् । ५४।२८य्द्/ फलभारान्विता शाखा भवतीति किमद्भुतम् ॥ ॥ ५४।२९अब्/ श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः । ५४।२९य्द्/ अंकोल (अग़्कोल्ल) विज्जलाद्भिश्छायायां सप्तकृत्वा (सप्तकृत्व्)एवम् ॥ ॥ ५४।३०अब्/ माहिषगोमयघृष्टानि अस्य करीषे च तानि निक्षिप्य । ५४।३०य्द्/ करकाजलमृद्योगे न्युप्तानि अह्ना फलकराणि ॥ ॥ ५४।३१अब्/ ध्रुवमृदुमूलविशाखा गुरुभं श्रवणः तथाश्विनी हस्तः (हस्तं) । ५४।३१य्द्/ उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥ ॥ sएपरते अध्याय ५५ प्रासादलक्षणाध्यायः ५५।१अब्/ कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च । ५५।१य्द्/ देवतायतनं कुर्याद् यशोधर्माभिवृद्धये ॥ ॥ ५५।२अब्/ इष्टापूर्तेन लभ्यन्ते ये लोकाः तान् बुभूषता । ५५।२य्द्/ देवानामालयः कार्यो द्वयमपि अत्र दृश्यते ॥ ॥ ५५।३अब्/ सलिलौद्यानयुक्तेषु कृतेष्वकृतेषु च । ५५।३य्द्/ स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः ॥ ॥ ५५।४अब्/ सरःसु नलिनीछत्रनिरस्तरविरश्मिषु । ५५।४य्द्/ हंसांसाक्षिप्तकह्लारवीथी (वीची, वीथी) विमलवारिषु ॥ ॥ ५५।५अब्/ हंसकारण्डवक्रौंचचक्रवाकविराविषु । ५५।५य्द्/ पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु ॥ ॥ ५५।६अब्/ क्रौंचकांचीकलापाश्च कलहंसकलस्वराः (स्वनाः) । ५५।६य्द्/ नद्यः तोयांशुका यत्र शफरीकृतमेखलाः ॥ ॥ ५५।७अब्/ फुल्लतीरद्रुमौत्तंसाः संगमश्रोणिमण्डलाः । ५५।७य्द्/ पुलिनाभ्युन्नतौरस्या हंसवासाः (हंसहासाः) च निम्नगाः ॥ ॥ ५५।८अब्/ वनौपान्तनदीशैलनिर्झरौपान्तभूमिषु । ५५।८य्द्/ रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च ॥ ॥ ५५।९अब्/ भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि । ५५।९य्द्/ ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥ ॥ ५५।१०अब्/ चतुःषष्टिपदं कार्यं देवतायतनं सदा । ५५।१०य्द्/ द्वारं च मध्यमं तस्मिन् (तत्र) समदिक्स्थं प्रशस्यते ॥ ॥ ५५।११अब्/ यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः । ५५।११य्द्/ उच्छ्रायाद् यः तृतीयांशः तेन तुल्या कटिः स्मृता (कटिः भवेत्) ॥ ॥ ५५।१२अब्/ विस्तारार्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः । ५५।१२य्द्/ गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ ॥ ५५।१३अब्/ उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुंबरः । ५५।१३य्द्/ विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ॥ ॥ ५५।१४अब्/ त्रिपंचसप्तनवभिः शाखाभिः तत् प्रशस्यते । ५५।१४य्द्/ अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ॥ ॥ ५५।१५अब्/ शेषं मंगल्यविहगैः श्रीवृक्षैः स्वस्तिकैः (श्रीवृक्षस्वस्तिकैः) घटैः । ५५।१५य्द्/ मिथुनैः पत्रवल्लीभिः प्रमथैश्चौपशोभयेत् ॥ ॥ ५५।१६अब्/ द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका । ५५।१६य्द्/ द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ ॥ ५५।१७अब्/ मेरुमन्दरकैलासविमानच्छन्दनन्दनाः । ५५।१७य्द्/ समुद्गपद्मगरुडनन्दिवर्धनकुञ्जराः ॥ ॥ ५५।१८अब्/ गुहराजो वृषो हंसः सर्वतोभद्रको घटः । ५५।१८य्द्/ सिंहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयः तथा ॥ ॥ ५५।१९अब्/ इत्येते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया । ५५।१९य्द्/ यथोक्तानुक्रमेणैव लक्षणानि वदाम्यतः ॥ ॥ ५५।२०अब्/ तत्र षडश्रिः मेरुः द्वादशभौमो विचित्रकुहरश्च । ५५।२०य्द्/ द्वारैः युतश्चतुर्भिः द्वात्रिंशद्धस्तविस्तीर्णः ॥ ॥ ५५।२१अब्/ त्रिंशद्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः । ५५।२१य्द्/ कैलासोऽपि शिखरवान् अष्टाविंशोऽष्टभौमश्च ॥ ॥ ५५।२२अब्/ जालगवाक्षकयुक्तो विमानसंज्ञः त्रिसप्तकायामः । ५५।२२य्द्/ नन्दन इति षड्भौमो द्वात्रिंशः षोडशाण्डयुक्तः ॥ ॥ ५५।२३अब्/ वृत्तः समुद्गनामा पद्मः पद्माकृतिः शया अष्टौ (शयानाष्टौ) । ५५।२३य्द्/ श‍ृंगेणैकेन भवेदेकैव च भूमिका तस्य ॥ ॥ ५५।२४अब्/ गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः । ५५।२४य्द्/ कार्यः तु (च) सप्तभौमो विभूषितोऽण्डैः तु (च) विंशत्या ॥ ॥ ५५।२५अब्/ कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् । ५५।२५य्द्/ गुहराजः षोडशकः त्रिचन्द्रशाला भवेद् वलभी ॥ ॥ ५५।२६अब्/ वृष एकभूमिश‍ृंगो द्वादशहस्तः समन्ततो वृत्तः । ५५।२६य्द्/ हंसो हंसाकारो घटोऽष्टहस्तः कलशरूपः ॥ ॥ ५५।२७अब्/ द्वारैः युतश्चतुर्भिः बहुशिखरो भवति सर्वतोभद्रः । ५५।२७य्द्/ बहुरुचिरचन्द्रशालः षड्विंशः पंचभौमश्च ॥ ॥ ५५।२८अब्/ सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः । ५५।२८य्द्/ चत्वारोऽञ्जनरूपाः पंचाण्डयुतः तु चतुरस्रः (चतुरश्रः) ॥ ॥ ५५।२९अब्/ भूमिकांगुलमानेन मयस्याष्टोत्तरं शतम् । ५५।२९य्द्/ सार्धं हस्तत्रयं चैव कथितं विश्वकर्मणा ॥ ॥ ५५।३०अब्/ प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः । ५५।३०य्द्/ कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम् ॥ ॥ ५५।३१अ प्रासादलक्षणमिदम् कथितं समासाद् ५५।३१ब् गर्गेण यद् विरचितं तदिहास्ति सर्वम् । ५५।३१य् मनुआदिभिः विरचितानि पृथूनि यानि ५५।३१द् तत्संस्पृशन् (तत्सस्मृतिं) प्रति मयात्र कृतोऽधिकारः ॥ ॥ sएपरते अध्याय ५६ वज्रलेपलक्षणाध्यायः ५६।१अब्/ आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः । ५६।१य्द्/ बीजानि शल्लकीनां धन्वनवल्को वचा चैति ॥ ॥ ५६।२अब्/ एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च । ५६।२य्द्/ अवतार्योऽस्य च कल्को द्रव्यैः एतैः समनुयोज्यः ॥ ॥ ५६।३अब्/ श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः । ५६।३य्द्/ अतसीबिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥ ॥ ५६।४अब्/ प्रासादहर्म्यवलभीलिंगप्रतिमासु कुड्यकूपेषु । ५६।४य्द्/ सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥ ॥ ५६।५अब्/ लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि । ५६।५य्द्/ नागफलनिंब (बलाफल) तिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥ ॥ ५६।६अब्/ सर्जरसरसामलकानि चैति कल्कः कृतो द्वितीयोऽयम् । ५६।६य्द्/ वज्राख्यः प्रथमगुणैः अयमपि तेष्वेव कार्येषु ॥ ॥ ५६।७अब्/ गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च । ५६।७य्द्/ निंबकपित्थरसैः सह वज्रतलो (वज्रतरो) नाम कल्कोऽन्यः ॥ ॥ ५६।८अब्/ अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः । ५६।८य्द्/ मयकथितो योगोऽयं विज्ञेयो वज्रसंघातः ॥ ॥ sएपरते अध्याय ५७ प्रतिमालक्षणाध्यायः । ५७।१अब्/ जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति । ५७।१य्द्/ तद् विन्द्यात् परमाणुं प्रथमं तद्धि प्रमाणानाम् ॥ ॥ ५७।२अब्/ परमाणुरजो बालाग्र (वालाग्र) लिक्षयूकं (यूका) यवो अंगुलं चैति । ५७।२य्द्/ अष्टगुणानि यथोत्तरमंगुलमेकं भवति संख्या (मात्रा) ॥ ॥ ५७।३अब्/ देवागारद्वारस्याष्टांशोनस्य यः तृतीयोऽंशः । ५७।३य्द्/ तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥ ॥ ५७।४अब्/ स्वैः अंगुलप्रमाणैः द्वादश वीस्तीर्णं (विस्तीर्णं) आयतं च मुखम् । ५७।४य्द्/ नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ॥ ॥ ५७।५अब्/ नासाललाटचिबुकग्रीवाश्चतुरांगुलाः तथा कर्णौ । ५७।५य्द्/ द्वे अंगुले च हनुनी (हनुके) चिबुकं च द्व्यंगुलं विततं (विस्तृतं) ॥ ॥ ५७।६अब्/ अष्टांगुलं ललाटं विस्ताराद् द्व्यंगुलात् परे शंखौ । ५७।६य्द्/ चतुरंगुलौ तु शंखौ कर्णौ तु द्व्यंगुलौ (द्व्यग्गुलं) पृथुलौ ॥ ॥ ५७।७अब्/ कर्णोपान्तः कार्योऽर्धपंचमे भ्रूसमेन सूत्रेण । ५७।७य्द्/ कर्णस्रोतः सुकुमारकम् च नेत्र (नयन) प्रबन्धसमम् ॥ ॥ ५७।८अब्/ चतुरंगुलं वसिष्ठः कथयति नेत्रान्तकर्णयोः विवरम् । ५७।८य्द्/ अधरो अंगुलप्रमाणः तस्यार्धेनोत्त्रोष्ठश्च ॥ ॥ ५७।९अब्/ अर्धांगुला तु गोच्छा वक्त्रं चतुरंगुलायतं कार्यम् । ५७।९य्द्/ विपुलं तु सार्धमंगुलम् अव्यात्तं त्र्यंगुलं (अध्यात्तत्त्र्यग्गुलं) व्यात्तम् ॥ ॥ ५७।१०अब्/ द्व्यंगुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया । ५७।१०य्द्/ स्याद् द्व्यंगुलमुच्छ्रायश्चतुरंगुलमन्तरं चाक्ष्णोः ॥ ॥ ५७।११अब्/ द्व्यंगुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा । ५७।११य्द्/ दृक्तारा पंचांशो नेत्रविकाशो अंगुलं भवति ॥ ॥ ५७।१२अब्/ पर्यन्तात् पर्यन्तं दश भ्रुवोऽर्धांगुलं भ्रुवोः लेखा । ५७।१२य्द्/ भ्रूमध्यं द्व्यंगुलकं भूः धैर्घ्येणांगुलचतुष्कम् ॥ ॥ ५७।१३अब्/ कार्या तु केशरेखा भ्रूबन्धसमांगुलार्धविस्तीर्णा । ५७।१३य्द्/ नेत्रान्ते करवीरकमुपन्यसेदनुगुलप्रमितम् ॥ ॥ ५७।१४अब्/ द्वात्रिंशत् परिणाहागतुर्दशायामतो अंगुलानि शिरः । ५७।१४य्द्/ द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिः अदृश्याः ॥ ॥ ५७।१५अब्/ आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्निजित् (नग्नजित्) प्रोक्तम् । ५७।१५य्द्/ ग्रीवा दश विस्तीर्णा परिणाहाद् विंशतिः सैका ॥ ॥ ५७।१६अब्/ कण्ठाद् द्वादश हृदयं हृदयान् नाभी (नाभिः) च तत्प्रमाणेन । ५७।१६य्द्/ नाभीमध्याद् मेढ्रान्तरं च तत्तुल्यमेवोक्तम् ॥ ॥ ५७।१७अब्/ ऊरू चांगुलमानैश्चतुर्युता विंशतिः तथा जंघे । ५७।१७य्द्/ जानुकपिच्छे चतुरंगुले च पादौ च तत्तुल्यौ ॥ ॥ ५७।१८अब्/ द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायतांगुष्ठौ । ५७।१८य्द्/ पंचांगुलपरिणाहौ प्रदेशिनी त्र्यंगुलं दीर्घा ॥ ॥ ५७।१९अब्/ अष्टान्ंशांशोनाः शेषांगुल्यः (शेषाग्गुलयः) क्रमेण कर्तव्याः । ५७।१९य्द्/ सचतुर्थभागमंगुलमुत्सेधो अंगुष्ठकस्यौक्तः ॥ ॥ ५७।२०अब्/ अंगुष्ठनखः कथितः चतुर्थभागोनमंगुलं तज्ञैः । ५७।२०य्द्/ शेषनखानामर्धांगुलं क्रमात् किंचिदूनं वा ॥ ॥ ५७।२१अब्/ जंघाग्रे परिणाहश्चतुर्दशोक्तः तु विस्तरात् (विस्तरः) पंच । ५७।२१य्द्/ मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त ॥ ॥ ५७।२२अब्/ अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः । ५७।२२य्द्/ विपुलौ चतुर्दश ऊरू मध्ये द्विगुणश्च तत्परिधिः ॥ ॥ ५७।२३अब्/ कटिः अष्टादश विपुला चत्वारिंशगतुर्युता परिधौ । ५७।२३य्द्/ अंगुलमेकं नाभी (नाभिः) वेधेन तथा प्रमाणेन ॥ ॥ ५७।२४अब्/ चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः । ५७।२४य्द्/ स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये (कक्षे) षडंगुलिके ॥ ॥ ५७।२५अब्/ अष्टावंसौ द्वादश बाहू कार्यौ (कार्यावष्टावंसौ द्वादश बाहू) तथा प्रबाहू च । ५७।२५य्द्/ बाहू षड्विस्तीर्णौ (षड्विस्तिर्णौ) प्रतिबाहू त्वंगुलचतुष्कम् ॥ ॥ ५७।२६अब्/ षोडश बाहू मूले परिणाहाद् द्वादशाग्रहस्ते च । ५७।२६य्द्/ विस्तारेण करतलं षडंगुलं सप्त दैर्घ्येण ॥ ॥ ५७।२७अब्/ पंचांगुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना । ५७।२७य्द्/ अनया तुल्या चानामिका कनिष्ठा तु पर्वोना ॥ ॥ ५७।२८अब्/ पर्वद्वयमंगुष्ठः शेषांगुल्यः (शेषाग्गुलयः) त्रिभिः त्रिभिः कार्याः । ५७।२८य्द्/ नखपरिमाणं कार्यं सर्वासाम् पर्वणोऽर्धेन ॥ ॥ ५७।२९अब्/ देशानुरूपभूषणवेषालंकारमूर्तिभिः कार्या । ५७।२९य्द्/ प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥ ॥ ५७।३०अब्/ दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् । ५७।३०य्द्/ द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥ ॥ (विष्णु) ५७।३१अब्/ कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः । ५७।३१य्द्/ श्रीवत्सांकितवक्षाः कौस्तुभमणिभूषितोरस्कः ॥ ॥ ५७।३२अब्/ अतसीकुसुमश्यामः पीतांबरनिवसनः प्रसन्नमुखः । ५७।३२य्द्/ कुण्डलकिरीटधारी पीनगलौरःस्थलांसभुजः ॥ ॥ ५७।३३अब्/ खड्गगदाशरपाणिः दक्षिणतः शान्तिदश्चतुर्थकरः । ५७।३३य्द्/ वामकरेषु च कार्मुकखेटकचक्राणि शंखश्च ॥ ॥ ५७।३४अब्/ अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः । ५७।३४य्द्/ दक्षिणपार्श्वे त्व (हि) एवं वामे शंखश्च चक्रं च ॥ ॥ ५७।३५अब्/ द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शंखधरः । ५७।३५य्द्/ एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः ॥ ॥ (हलधर) ५७।३६अब्/ बलदेवो हलपाणिः मदविभ्रमलोचनश्च कर्तव्यः । ५७।३६य्द्/ विभ्रत् (बिभ्रत्) कुण्डकमेकं शंखेन्दुमृणालगौरतनुः (वपुः) ॥ ॥ ५७।३७अब्/ एकानंशा कार्या देवी बलदेवकृष्णयोः मध्ये । ५७।३७य्द्/ कटिसंस्थितवामकरा सरोजमितरेण चौद्वहती ॥ ॥ ५७।३८अब्/ कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम् । ५७।३८य्द्/ द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥ ॥ ५७।३९अब्/ वामो ऽथवाष्टभुजायाः (वामेष्वष्टभुजायाः) कमण्डलुश्चापमंबुजं शास्त्रम् । ५७।३९य्द्/ वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥ ॥ ५७।४०अब्/ शांबश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च । ५७।४०य्द्/ अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ ॥ ॥ (ब्रह्मा अन्द् कुमार) ५७।४१अब्/ ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च । ५७।४१य्द्/ स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ॥ ॥ (इन्द्र) ५७।४२अब्/ शुक्लचतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् । ५७।४२य्द्/ तिर्यग् ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ॥ ॥ (महेश्वर) ५७।४३अब्/ शंभोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमपि च ऊर्ध्वम् । ५७।४३य्द्/ शूलं धनुः पिनाकं वामार्धे वा गिरिसुतार्धम् ॥ ॥ (बुध) ५७।४४अब्/ पद्मांकितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च । ५७।४४य्द्/ पद्मासनौपविष्टः पिता इव जगतो भवति (भवेत्) बुद्धः ॥ ॥ (अर्हत्) ५७।४५अब्/ आजानुलंबबाहुः श्रीवत्सांकः प्रशान्तमूर्तिश्च । ५७।४५य्द्/ दिग्वासाः तरुणो रूपवांश्च कार्योऽर्हतां देवः ॥ ॥ (भास्कर) ५७।४६अब्/ नासाललाटजंघ ऊरुगण्डवक्षांसि चौन्नतानि रवेः । ५७।४६य्द्/ कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥ ॥ ५७।४७अब्/ बिभ्राणः स्वकररुहे बाहुभ्यां (पाणिभ्यां) पंकजे मुकुटधारी । ५७।४७य्द्/ कुण्डलभूषितवदनः प्रलंबहारो वियद्ग (वियग्ग) वृतः ॥ ॥ ५७।४८य्द्/ कमलौदरद्युतिमुखः कंचुकगुप्तः स्मितप्रसन्नमुखः । ५७।४८य्द्/ रत्नौज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ॥ ॥ ५७।४९अब्/ सौम्या तु हस्तमात्रा वदुदा हस्तद्वयोच्छ्रिता प्रतिमा । ५७।४९य्द्/ क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणा या ॥ ॥ ५७।५०अब्/ नृपभयमत्यंगायां हीनांगायामकल्यता कर्तुः । ५७।५०य्द्/ शातौदार्यां क्षुद्भयमर्थविनाशः कृशांगुलायां (कृशायां च) ॥ ॥ ५७।५१अब्/ मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः । ५७।५१य्द्/ वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ॥ ॥ ५७।५२अब्/ अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः । ५७।५२य्द्/ सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तसमम् ॥ ॥ ५७।५३अब्/ लिंगस्य वृत्तपरधिं दैर्घ्येणासूत्र्य तत् त्रिधा विभजेत् । ५७।५३य्द्/ मूले तगतुरस्रं (चतुरश्रं) मध्ये त्वष्टाश्रिं वृत्तमतः ॥ ॥ ५७।५४अब्/ चतुरस्रं (चतुरश्रं) अवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे । ५७।५४य्द्/ दृश्यौच्छ्रायेण समा समन्ततः पिण्डिका (पिण्डका) श्वभ्रात् ॥ ॥ ५७।५५अब्/ कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशय । ५७।५५य्द्/ यस्य क्षतं भवेद् मस्तके विनाशाय तल्लिंगम् ॥ ॥ ५७।५६अब्/ मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः । ५७।५६य्द्/ रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः ॥ ॥ (यम, वरुण, कुबेर) ५७।५७अब्/ दण्डी यमो महिषगो हंसारूढश्च पाशभृद् वरुनः । ५७।५७य्द्/ नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ॥ ॥ (५८।५८अब्/ प्रमथाधिपो गजमुखः प्रलंबजठरः कुठारधारी स्यात् । ५८।५८य्द्/ एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ॥ ॥) sएपरते अध्याय ५८ वनसम्प्रवेशाध्यायः ५८।१अब्/ कर्तुः अनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते । ५८।१य्द्/ मंगलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥ ॥ ५८।२अब्/ पितृवनमार्गसुरालयवल्मीकौद्यानतापसाश्रमजाः । ५८।२य्द्/ चैत्यसरित्संगमसंभवाश्च घटतोयसिक्ताश्च ॥ ॥ ५८।३अब्/ कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः । ५८।३य्द्/ स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥ ॥ ५८।४अब्/ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः । ५८।४य्द्/ अभिमतवृक्षं गत्वा कुर्यात् पूजां सबलिपुष्पाम् ॥ ॥ ५८।५अब्/ सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम् । ५८।५य्द्/ क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥ ॥ ५८।६अब्/ वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाः (स्पन्दनाः) च शुभफलदाः । ५८।६य्द्/ तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम् ॥ ॥ ५८।७अब्/ लिंगं वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिशं यस्मात् । ५८।७य्द्/ तस्मागिह्नयितव्या दिशो द्रुमस्य ऊर्ध्वमथवाधः । ५८।८अब्/ परमान्नमोदकौदनदधिपललौल्लोपिकादिभिः भक्ष्यैः । ५८।८य्द्/ मद्यैः कुसुमैः धूपरि गन्धैश्च तरुं समभ्यर्च्य ॥ ॥ ५८।९अब्/ सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् । ५८।९य्द्/ कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥ ॥ (मन्त्र) ५८।१०अब्/ अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः । ५८।१०य्द्/ नमः ते वृक्ष पूजेयं विधिवत् सम्प्रगृह्यताम् ॥ ॥ ५८।११अ यानीह भूतानि वसन्ति तानि ५८।११ब् बलिं गृहीत्वा विधिवत् प्रयुक्तम् । ५८।११य् अन्यत्र वासं परिकल्प्यन्तु ५८।११द् क्षमन्तु तानि अद्य नमोऽस्तु तेभ्यः ॥ ॥ ५८।१२अ वृक्षं प्रभाते सलिलेन सिक्त्वा ५८।१२ब् पूर्वोत्तरस्यां दिशि सन्निकृत्य । ५८।१२य् मध्वाज्यदिग्धेन (लिप्तेन) कुठारकेण ५८।१२द् प्रदक्षिणं शेषमतो निहन्यात् (ऽभिहन्यात्) ॥ ॥ ५८।१३अ पूर्वेण पूर्वोत्तरतोऽथवा उदक् ५८।१३ब् पतेद् यदा वृद्धिकरः तदा स्यात् । ५८।१३य् आग्नेयकोणात् क्रमशोऽग्निदाह- ५८।१३द् रुग्राग (क्षुद्रोग) रोगाः तुरगक्षयश्च ॥ ॥ ५८।१४अ यन् नौक्तमस्मिन् वनसम्प्रवेशे ५८।१४ब् निपातविच्छेदनवृक्षगर्भाः । ५८।१४य् इन्द्रध्वजे वास्तुनि च प्रदिष्टाः ५८।१४द् पूर्वं मया तेऽत्र तथैव योज्याः ॥ ॥ sएपरते अध्याय ५९ प्रतिमाप्रतिष्ठापनाध्यायः ५९।१अब्/ दिशि याम्यायां (सौम्यायां) कुर्यादधिवासनमण्डपं बुधः प्राग् वा । ५९।१य्द्/ तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ॥ ॥ ५९।२अब्/ पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्यौक्ताः । ५९।२य्द्/ आग्नेय्यांदिशि रक्ताः कृष्णाः स्युः याम्यनैरृत्योः (नैरृतयोः) ॥ ॥ ५९।३अब्/ श्वेता दिश्यपरस्याम् वायव्यायां तु पाण्डुरा एव । ५९।३य्द्/ चित्राश्चौत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः (कोणे) ॥ ॥ ५९।४अब्/ आयुःश्रीबलजयदा दारुमयी मृण्मयी (मृन्मयी) तथा प्रतिमा । ५९।४य्द्/ लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥ ॥ ५९।५अब्/ रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी । ५९।५य्द्/ भूलाभं तु महान्तं शैली प्रतिमाथवा लिंगम् ॥ ॥ ५९।६अब्/ शंखूपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति । ५९।६य्द्/ श्वभ्रोपहता रोगान् उपद्रवांश्च क्षयं (अक्षयान्) कुरुते ॥ ॥ ५९।७अब्/ मण्डपमध्ये स्थण्डिलमुपलिप्यास्तीर्य सिकतयाथ कुशैः । ५९।७य्द्/ भद्रासनकृतशीर्षौपधानपादां न्यसेत् प्रतिमाम् ॥ ॥ ५९।८अब्/ प्लक्षाश्वत्थौदुंबरशिरीषवटसंभवैः कषायजलैः । ५९।८य्द्/ मंगल्यसंज्ञिताभिः सर्वौषधिभिः कुशाद्याभिः ॥ ॥ ५९।९अब्/ द्विपवृषभौद्धत (उद्धृत) पर्वतवल्मीकसरित्समागमतटेषु । ५९।९य्द्/ पद्मसरःसु च मृद्भिः सपंचगव्यैश्च तीर्थजलैः ॥ ॥ ५९।१०अब्/ पूर्वशिरस्कां स्नातां सुवर्णरत्नांबुभिश्च ससुगन्धैः । ५९।१०य्द्/ नानातूर्यनिनादैः पुण्याहैः वेदनिर्घोषैः ॥ ॥ ५९।११अब्/ एन्द्र्यां दिशीन्द्रलिंगा मन्त्राः प्राग्दक्षिणेऽग्निलिंगाश्च । ५९।११य्द्/ वक्तव्या (जप्तव्या) द्विजमुख्यैः पूज्याः ते दक्षिणाभिश्च ॥ ॥ ५९।१२अब्/ यो देवः संस्थाप्यः तन्मन्त्रैश्चानलं द्विजो जुहुयात् । ५९।१२य्द्/ अग्निनिमित्तानि मया प्रोक्तानीन्द्रध्वजौत्थाने (उच्छ्राये) ॥ ॥ ५९।१३अब्/ धूमाकुलोऽपसव्यो मुहुर्मुहुः विफुलिंगकृन् न शुभः । ५९।१३य्द्/ होतुः स्मृतिलोपो वा प्रसर्पणं चाशुभं प्रोक्तम् ॥ ॥ ५९।१४अब्/ स्नातामभुक्तवस्त्रां स्वलंकृतां पूजिताम् कुसुमगन्धैः । ५९।१४य्द्/ प्रतिमां स्वास्तीर्णायाम् शय्यायाम् स्थापकः कुर्यात् ॥ ॥ ५९।१५अब्/ सुप्तां सगीतनृत्यैः जागरणैः (सुनृत्यगीतैः जागरकैः) सम्यग् एवमधिवास्य । ५९।१५य्द्/ दैवज्ञसम्प्रदिष्टे काले संस्थापनं कुर्यात् ॥ ॥ ५९।१६अब्/ अभ्यर्च्य कुसुमवस्त्रानुलेपनैः शंखतूर्यनिर्घोषैः । ५९।१६य्द्/ प्रादक्षिण्येन नयेदायतनस्य प्रयतनेन ॥ ॥ ५९।१७अब्/ कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश्च सभ्यांश्च । ५९।१७य्द्/ दत्त्वा हिरण्यशकलं विनिक्षिपेत् पिण्डिकाश्वभ्रे । ५९।१८अब्/ स्थापकदैवज्ञद्विजसभ्यस्थपतीन् विशेषतोऽभ्यर्च्य । ५९।१८य्द्/ कल्याणानां भागी भवतीह परत्र च स्वर्गी ॥ ॥ ५९।१९अ विष्णोः भागवतान् मगांश्च सवितुः शंभोः सभस्मद्विजान् ५९।१९ब् मातीणामपि मण्डलक्रमविदो (मातृमण्डलविदो) विप्रान् विदुः ब्रह्मणः । ५९।१९य् शाक्यान् सर्वहितस्य शान्तमनसो नग्नान् जिनानां विदुः ५९।१९द् ये यं देवमुपाश्रिताः स्वविधिना तैः तस्य कार्या क्रिया ॥ ॥ ५९।२०अब्/ उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे । ५९।२०य्द्/ लग्ने स्थिरे स्थिरांशे सौम्यैः धीधर्मकेन्द्रगतैः ॥ ॥ ५९।२१अब्/ पापैरुपचयसंस्थैः ध्रुवमृदुहरितिष्यवायुदेवेषु । ५९।२१य्द्/ विकुजे दिनेऽनुकूले देवानां स्थापनं शस्तम् ॥ ॥ ५९।२२अब्/ सामान्यमिदं समासतो लोकानां हितदं मया कृतम् । ५९।२२य्द्/ अधिवासनसन्निवेशने सावित्रे पृथग् एव विस्तरात् ॥ ॥ sएपरते अध्याय ६० गोलक्षणाध्यायः ६०।१अ पराशरः प्राह बृहद्रथाय ६०।१ब् गोलक्षणं यत् क्रियते ततोऽयम् । ६०।१य् मया समासः शुभलक्षणाः ताः ६०।१द् सर्वाः तथाऽपि आगमतोऽभिधास्ये ॥ ॥ ६०।२अब्/ सास्र आविलरूक्षाक्ष्यो मूषकनयनाश्न शुभदा गावः । ६०।२य्द्/ प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः (वर्नाः) च ॥ ॥ ६०।३अब्/ दशसप्तचतुर्दन्त्यः प्रलंबमुण्डानना विनतपृष्ठ्यः (पृष्ठाः) । ६०।३य्द्/ ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥ ॥ ६०।४अब्/ श्यावातिदीर्घजिह्वा गुल्फैः अतितनुभिः अतिबृहद्भिः वा । ६०।४य्द्/ अतिककुदाः कृशदेहा नैष्टा हीनाधिकांग्यश्च ॥ ॥ ६०।५अब्/ वृषभोऽपि एवं स्थूलातिलंबवृषणः शिराततक्रोडः । ६०।५य्द्/ स्थूलशिराचितगण्डः त्रिस्थानं मेहते यश्च ॥ ॥ ६०।६अब्/ मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्यैव (द्विजस्येष्टः) । ६०।६य्द्/ कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ॥ ॥ ६०।७अब्/ स्थूलशकृन्मणिश‍ृंगः सितोदरः कृष्णसारवर्णश्च । ६०।७य्द्/ गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥ ॥ ६०।८अब्/ श्यामकपुष्पचितांगो भस्मारुणसन्निभो बिडालाक्षः । ६०।८य्द्/ विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥ ॥ ६०।९अब्/ ये चौद्धरन्ति पादान् पंकादिव योजिताः कृशग्रीवाः । ६०।९य्द्/ कातरनयना हीनाश्च पृष्ठतः ते न भारसहाः ॥ ॥ ६०।१०अब्/ मृदुसंहतताम्रोष्ठाः तनुस्फिजः ताम्रतालुजिह्वाश्च । ६०।१०य्द्/ ह्रस्वतनु (तनुह्रस्वो) उच्चश्रवणाः सुकुक्षयः स्पृष्ट (स्पष्ट) जंघाश्च ॥ ॥ ६०।११अब्/ आताम्रसंहतखुरा व्यूढौरस्का बृहत्ककुदयुक्ताः । ६०।११य्द्/ स्निग्धश्लक्ष्णतनुत्वग्रोमाणः ताम्रतनुश‍ृंगाः ॥ ॥ ६०।१२अब्/ तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः । ६०।१२य्द्/ सिंहस्कन्धाः तन्वल्पकंबलाः पूजिताः सुगमाः (सुगताः) ॥ ॥ ६०।१३अब्/ वामावर्तैः वामे दक्षिणपार्श्वे च दक्षिणावर्तैः । ६०।१३य्द्/ शुभदा भवन्त्यनडुहो जंघाभिश्चएणकनिभाभिः ॥ ॥ ६०।१४अब्/ वैदूर्य (वैडूर्य) मल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्माणः (वर्माणः) । ६०।१४य्द्/ पार्ष्णिभिः अस्फुटिताभिः शस्ताः सर्वे च (अपि) भारसहाः ॥ ॥ ६०।१५अब्/ घ्राणोद्देशे सवलिः मार्जारमुखः सितश्च दक्षिणतः । ६०।१५य्द्/ कमलोत्पललाक्षाभः सुवालधिः वाजितुल्यजवः ॥ ॥ ६०।१६अब्/ लंबैः वृषणैः मेषोदरश्च संक्षिप्तवंक्षण (क्षणा) क्रोडः । ६०।१६य्द्/ ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥ ॥ ६०।१७अब्/ सितवर्णः पिंगाक्षः ताम्रविषाणेक्षणो महावक्त्रः । ६०।१७य्द्/ हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥ ॥ ६०।१८अब्/ भूस्पृग्वालधिः आताम्रविषाणो (वग़्क्षणो) रक्तदृक् ककुद्मांश (ककुद्मी) च । ६०।१८य्द्/ कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः ॥ ॥ ६०।१९अब्/ यो वा सितैकचरणैः (सितैकचरणो) यथेष्टवर्णश्च सोऽपि शुभफलकृत् (शस्तफलः) । ६०।१९य्द्/ मिश्रफलोऽपि ग्राह्यो यदि नएकान्त प्रशस्तोऽस्ति ॥ ॥ sएपरते अध्याय ६१ श्वलक्षणाध्यायः ६१।१अ पादाः पंचनखाः त्रयोऽग्रचरणः षड्भिः नखैः दक्षिणः ६१।१ब् ताम्रओष्ठाग्रनसो मृगेश्वरगतिः जिघ्रन् भुवं याति च । ६१।१य् लांगूलं ससटं दृगृक्षसदृशी कर्णौ च लंबौ मृदू ६१।१द् यस्य स्यात् स करोति पोष्टुरचिरात् पुष्टां श्रियं श्वा गृहे ॥ ॥ ६१।२अ पादे पादे पंच पंचाग्रपादे ६१।२ब् वामे यस्याः षण्नखा मल्लिकाक्ष्याः । ६१।२य् वक्रं पुच्छं पिंगलालंबकर्णा ६१।२द् या सा राष्ट्रं कुक्कुरी पाति पुष्टा (पोष्टुः) ॥ ॥ sएपरते अध्याय ६२ कुक्कुटलक्षणाध्यायः ६२।१अब्/ कुक्कुटः त्वृजुतनूरुहांगुलिः ताम्रवक्त्रनखचूलिकः सितः । ६२।१य्द्/ रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम् ॥ ॥ ६२।२अ यवग्रीवो यो वा बदरसदृशो वापि विहगो ६२।२ब् बृहन्मूर्धा वर्णैः भवति बहुभिश्च रुचिरः । ६२।२य् स शस्तः संग्रामे मधुमधुपवर्णश्च जयकृद् ६२।२द् न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः ॥ ॥ ६२।३अब्/ कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेषणा । ६२।३य्द्/ सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः ॥ ॥ sएपरते अध्याय ६३ कूर्मलक्षणाध्यायः ६३।१अ स्फुटिकरजतवर्णो नीलराजीविचित्रः ६३।१ब् कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः । ६३।१य् अरुणसमवपुः वा सर्षपाकारचित्रः ६३।१द् सकलनृपमहत्त्वं मन्दिरस्थः करोति ॥ ॥ ६३।२अब्/ अञ्जनभृंगश्यामतनुः वा बिन्दुविचित्रोऽव्यंगशरीरः । ६३।२य्द्/ सर्पशिरा वा स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै ॥ ॥ ६३।३अ वैडूर्यत्विट् स्थूलकण्ठः त्रिकोणो ६३।३ब् गूढच्छिद्रश्च ऊरु (चारु) वंशश्च शस्तः । ६३।३य् क्रीडावाप्यां तोयपूर्णे मणौ वा ६३।३द् कार्यः कूर्मो मंगलार्थं नरेन्द्रैः ॥ ॥ sएपरते अध्याय ६४ छागलक्षणाध्यायः ६४।१अब्/ छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्ताः ते । ६४।१य्द्/ धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ॥ ॥ ६४।२अब्/ दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति । ६४।२य्द्/ ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमति (अपि) शुभदम् ॥ ॥ ६४।३अब्/ स्तनवदवलंबते यः कण्ठेऽजानां मणिः स विज्ञेयः । ६४।३य्द्/ एकमणिः शुभफलकृद्धन्यतमा द्वित्रमणयो (द्वित्रिमणयो) ये ॥ ॥ ६४।४अब्/ मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च । ६४।४य्द्/ अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ॥ ॥ ६४।५अब्/ विचरति यूथस्याग्रे प्रथमं चांभोऽवगाहते योऽजः । ६४।५य्द्/ स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका (टिक्किका) यस्य ॥ ॥ ६४।६अब्/ सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः । ६४।६य्द्/ कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः ॥ ॥ ६४।७अब्/ यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन । ६४।७य्द्/ यो वा चरति सशब्दं मन्दं च स शोभनच्छागः ॥ ॥ ६४।८अब्/ ऋष्यशिरोरुहपादो यो वा प्राक् पाण्डुरोऽपरे नीलः । ६४।८य्द्/ स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गौक्तः ॥ ॥ ६४।९अब्/ कुट्टकः कुटिलश्चैव जटिलो वामनः तथा । ६४।९य्द्/ ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ॥ ॥ ६४।१०अ अथाप्रशस्ताः खरतुल्यनादाः ६४।१०ब् प्रदीप्तपुच्छाः कुनखा विवर्णाः । ६४।१०य् निकृत्तकर्णा द्विपमस्तकाश्च ६४।१०द् भवन्ति ये चासिततालुजिह्वाः ॥ ॥ ६४।११अ वर्णैः प्रशस्तैः मणिभिः प्रयुक्ता (च युक्ता) ६४।११ब् मुण्डाश्च ये ताम्रविलोचनाश्च । ६४।११य् ते पूजिता वेश्मनि (वेश्मसु) मानवानां ६४।११द् सौख्यानि कुर्वन्ति यशः श्रियं च ॥ ॥ sएपरते अध्याय ६५ अश्वालक्षणाध्यायः ६५।१अ दीर्घग्रीवाक्षिकूटः त्रिकहृदयपृथुः ताम्रतालु ओष्ठजिह्वः ६५।१ब् सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णओष्ठपुच्छः । ६५।१य् जंघाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो ६५।१द् वाजी सर्वांगशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥ ॥ ६५।२अब्/ अश्रुपातहनुगण्डहृद् (हृड्) गलप्रोथशंखकटिबस्तिजानूनि । ६५।२य्द्/ मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा (चरणेषु च) शुभाः ॥ ॥ ६५।३अ ये प्रपाणगलकर्णसंस्थिताः ६५।३ब् पृष्ठमध्यनयनोपरि स्थिताः । ६५।३य् ओष्ठसक्थिभुजकुक्षिपार्श्वगाः ६५।३द् ते ललाटसहिताः सुशोभनाः ॥ ॥ ६५।४अब्/ तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः । ६५।४य्द्/ रन्ध्रुपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ ॥ ॥ ६५।५अ षष्भिः दन्तैः सिताभैः भवति हयशिशुः तैः कशायैः द्विवर्षैः ६५।५ब् सन्दंशैः मध्यमन्त्यैः पति (पतित) समुदितैः त्र्यब्धि (त्र्यब्द) पंचाब्दिकाश्वः । ६५।५य् सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः ६५।५द् काचा मक्षीक (माक्षीक) शंखावटचलनमतो दन्तपातं च विद्धि ॥ ॥ sएपरते अध्याय ६६ हस्तिलक्षणाध्यायः ६६।१अ मध्वाभदन्ताः सुविभक्तदेहा ६६।१ब् न चौपदिग्धा न (दिग्धाश्च) कृशाः क्षमाश्च । ६६।१य् गात्रैः समैश्चापसमानवंशा ६६।१द् वराहतुल्यैः जघनैश्च भद्राः ॥ ॥ ६६।२अ वक्षोऽथ कक्षावलयः श्लथाश्च ६६।२ब् लंबौदरः त्वग् बृहती गलश्च । ६६।२य् स्थूला च कुक्षिः सह पेचकेन ६६।२द् सैंही च दृग् मन्दमतंगजस्य ॥ ॥ ६६।३अ मृगाः तु ह्रस्वाधरवालमेढ्राः ६६।३ब् तन्वंघ्रि (तन्वंह्रि) कण्ठद्विजहस्तकर्णाः । ६६।३य् स्थूलेक्षणाश्चेति यथोक्तचिह्नैः ६६।३द् संकीर्णनागा व्यतिमिश्रचिह्नाः ॥ ॥ ६६।४अ पंचौन्नतिः सप्त मृगस्य दैर्घ्यम् ६६।४ब् अष्टौ च हस्ताः परिणाहमानम् । ६६।४य् एकद्विवृद्धावथ मन्दभद्रौ ६६।४द् संकीर्ननागोऽनियतप्रमाणः ॥ ॥ ६६।५अ भद्रस्य वर्णो हरितो मदश्च (मद्स्य) ६६।५ब् मन्दस्य हारिद्रकसन्निकाशः । ६६।५य् कृष्णो मदश्चाभिहितो मृगस्य ६६।५द् संकीर्णनागस्य मदो विमिश्रः ॥ ॥ ६६।६अ ताम्रोष्ठतालुवदनाः कलविंकनेत्राः ६६।६ब् स्निग्ध ऊनताग्रदशनाः पृथुलायतास्याः । ६६।६य् चापौन्नतायतनिगूढनिमग्नवंशाः ६६।६द् तन्वेकरोमचितकूर्मसमानकुंभाः ॥ ॥ ६६।७अ विस्तीर्णकर्णहनुनाभिललाटगुह्याः ६६।७ब् कूर्मौन्नतद्विनवविंशतिभिः नखैश्च । ६६।७य् रेखात्रयौपचितवृत्तकराः सुवाला ६६।७द् धन्याः सुगन्धिमदपुष्करमारुताश्च ॥ ॥ ६६।८अब्/ दीर्घांगुलिरक्तपुष्कराः सजलांभोदनिनादबृंहिणः । ६६।८य्द्/ बृहदायतवृत्तकन्धरा धन्या भूमिपतेः मतंगजाः ॥ ॥ ६६।९अ निमर्द (निर्मदा) अभ्यधिकहीननखांगान् ६६।९ब् कुब्जवामनकमेषविषाणान् । ६६।९य् दृश्यकोशफलपुष्करहीनान् ६६।९द् श्यावनीलशबलासिततालून् ॥ ॥ ६६।१०अ स्वल्पवक्त्ररुहमत्कुणषण्ढान् ६६।१०ब् हस्तिनीं च गजलक्षणयुक्ताम् ६६।१०य् गर्भिणी च नृपतिः परदेशं ६६।१०द् प्रापयेदतिविरूपफलाः ते ॥ ॥ sएपरते अध्याय ६७ पुरुषलक्षनाध्यायः ६७।१अ उन्मानमानगतिसंहतिसारवर्ण- ६७।१ब् स्नेहस्वरप्रकृतिसत्त्वमनूकं आदौ । ६७।१य् क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य ६७।१द् सामुद्रविद् वदति यातमनागतं वा (च) ॥ ॥ ६७।२अ अस्वेदनौ मृदुतलौ कमलौदराभौ ६७।२ब् श्लिष्टांगुली रुचिरताम्रनखौ सुपार्ष्णी । ६७।२य् उष्णौ शिराविरहितौ सुनिगूढगुल्फौ ६७।२द् कूर्मौन्नतौ च चरणौ मनुजेश्वरस्य ॥ ॥ ६७।३अ शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ ६७।३ब् संशुष्कौ विरलांगुली च चरणौ दारिद्र्यदुःखप्रदौ । ६७।३य् मार्गायौत्कटकौ कषायसदृशौ वंशस्य विच्छेददौ (विच्छित्तिदौ) ६७।३द् ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीतावगम्यारतौ (पीतावगम्यरतौ) ॥ ॥ ६७।४अ प्रविरलतनुरोमवृत्तजंघा ६७।४ब् द्विरदकरप्रतिमैः वर ऊरुभिश्च । ६७।४य् उपचितसमजानवश्च भूपा ६७।४द् धनरहिताः श्वश‍ृगालतुल्यजंघाः ॥ ॥ ६७।५अ रोमएकैकं कूपके पार्थिवानां ६७।५ब् द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् । ६७।५य् त्र्याद्यैः निःस्वा मानवा दुःखभाजः ६७।५द् केशाश्चैवं निन्दिताः पूजिताश्च ॥ ॥ ६७।६अ निर्मांसजानुः म्रियते प्रवासे ६७।६ब् सौभाग्यमल्पैः विकटैः दरिद्राः । ६७।६य् स्त्रीनिर्जिताश्चैव (चापि) भवन्ति निम्नै ६७।६द् राज्यं समांशैश्च महद्भिः आयुः ॥ ॥ ६७।७अ लिंगेऽल्पे धनवान् अपत्यरहितः स्थूले ऽपि हीनो (विहीनो) धनैः ६७।७ब् मेढ्रे वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान् । ६७।७य् दारिद्र्यं विनते त्वधोऽल्पतनयो लिंगे शिरासन्तते ६७।७द् स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः ॥ ॥ ६७।८अब्/ कोशनिगूढैः भूपा दीर्घैः भग्नैश्च वित्तपरिहीनाः । ६७।८य्द्/ ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ॥ ॥ ६७।९अब्/ जलमृत्युः एकवृषणो विषमैः स्त्रीचंचलः समैः क्षितिपः । ६७।९य्द्/ ह्रस्वायुश्चौद्बद्धैः प्रलंबवृषणस्य शतमायुः ॥ ॥ ६७।१०अब्/ रक्तैः आढ्या मणिभिः निर्द्रव्याः पाण्डुरैश्च मलिनैश्च । ६७।१०य्द्/ सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ॥ ॥ ६७।११अब्/ द्वित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः । ६७।११य्द्/ पृथिवीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ॥ ॥ ६७।१२अब्/ एकैव मूत्रधारा वलिता रूपप्रदा न सुतदात्री (रूपप्रधानसुतदात्री) । ६७।१२य्द्/ स्निग्धौन्नतसममणयो धनवनितारत्नभोक्तारः । ६७।१३अब्/ मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति निःस्वाश्च । ६७।१३य्द्/ बहुपशुभाजो मध्यौन्नतैश्च नात्युल्बणैः धनिनः ॥ ॥ ६७।१४अब्/ परिशुष्कबस्तिशीर्षैः धनरहिता दुर्भगाश्च विज्ञेयाः । ६७।१४य्द्/ कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ॥ ॥ ६७।१५अब्/ मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहूनि अपत्यानि । ६७।१५य्द्/ तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी ॥ ॥ ६७।१६अब्/ मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः । ६७।१६य्द्/ शीघ्रं मैथुनगामी दीर्घायुः अतोऽन्यथा अल्पायुः ॥ ॥ ६७।१७अब्/ निःस्वोऽतिस्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति । ६७।१७य्द्/ व्याघ्रान्तोऽध्यर्धस्फिग् मण्डूकस्फिग् नराधिपतिः ॥ ॥ ६७।१८अब्/ सिंहकटिः मनुजेन्द्रः कपिकरभकटिः धनैः परित्यक्तः । ६७।१८य्द्/ समजठरा भोगयुता घटपिठरनिभौदरा निःस्वाः ॥ ॥ ६७।१९अब्/ अविकलपार्श्वा धनिनो निम्नैः वक्रैश्च भोगसन्त्यक्ताः । ६७।१९य्द्/ समकुक्षा भोगाढ्या निम्नाभिः भोगपरिहीनाः ॥ ॥ ६७।२०अब्/ उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युः मानवा विषमकुक्षाः । ६७।२०य्द्/ सर्पौदरा दरिद्रा भवन्ति बह्वाशिनश्चैव ॥ ॥ ६७।२१अब्/ परिमण्डलौन्नताभिः विस्तीर्णाभिश्च नाभिभिः सुखिनः । ६७।२१य्द्/ अल्पा (स्वल्पा) त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति ॥ ॥ ६७।२२अब्/ वलिमध्यगता विषमा शूलाद् बाधां (शूलाबाधं) करोति नैस्वयं (नैःस्व्यं) च । ६७।२२य्द्/ शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः ॥ ॥ ६७।२३अब्/ पार्श्वायता चिरायुषमुपरिष्टागईश्वरं गवाढ्यमधः । ६७।२३य्द्/ शतपत्रकर्णिकाभा नाभिः मनुजेश्वरं कुरुते ॥ ॥ ६७।२४अब्/ शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासंख्यम् । ६७।२४य्द्/ एकद्वित्रिचतुर्भिः वलिभिः विन्द्याद् नृपं त्ववलिम् ॥ ॥ ६७।२५अब्/ विषमवलयो मनुष्या भवन्त्यगम्या अभिगामिनः पापाः । ६७।२५य्द्/ ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव ॥ ॥ ६७।२६अब्/ मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिः भूपाः । ६७।२६य्द्/ विपरीतैः निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः ॥ ॥ ६७।२७अब्/ सुभगा भवन्त्यनुद्वद्ध (अनुबद्ध) चूचुका निर्धना विषमदीर्घैः । ६७।२७य्द्/ पीनौपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः ॥ ॥ ६७।२८अब्/ हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम् । ६७।२८य्द्/ अधनानां विपरीतं खररोमचितं शिरालं च ॥ ॥ ६७।२९अब्/ समवक्षसोऽर्थवन्तः पीनैः शूरा हि (शूराः त्व्) अकिंचनाः तनुभिः । ६७।२९य्द्/ विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ॥ ॥ ६७।३०अब्/ विषमैः विषमो जत्रुभिः अर्थविहीनोऽस्थिसन्धिपरिणद्धैः । ६७।३०य्द्/ उन्नतजत्रुः भोगी (भागी) निम्नैः निःस्वोऽर्थवान् पीनैः ॥ ॥ ६७।३१अब्/ चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा । ६७।३१य्द्/ महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ॥ ॥ ६७।३२अब्/ कंबुग्रीवो राजा प्रलंबकण्ठः प्रभक्षणो भवति । ६७।३२य्द्/ पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ॥ ॥ ६७।३३अब्/ अस्वेदनपीनौन्नतसुगन्ध (सुगन्धि) समरोमसंकुलाः कक्षाः । ६७।३३य्द्/ विज्ञातव्या धनिनामतोऽन्यथार्थैः विहीनानाम् ॥ ॥ ६७।३४अब्/ निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ । ६७।३४य्द्/ विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ॥ ॥ ६७।३५अब्/ करिकरसदृशौ वृत्तावाजान्ववलंबिनौ समौ पीनौ । ६७।३५य्द्/ बाहू पृथिवीशानामधनानां (अधमानां) रोमशौ ह्रस्वौ ॥ ॥ ६७।३६अब्/ हस्तांगुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम् । ६७।३६य्द्/ मेधाविनाम् च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ॥ ॥ ६७।३७अब्/ स्थूलाभिः धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः । ६७।३७य्द्/ कपिसदृशकरा धनिनो व्याघ्रौपमपाणयः पापाः ॥ ॥ ६७।३८अब्/ मणिबन्धनैः निगूढैः दृढैश्च सुश्लिष्टसन्धिभिः भूपाः । ६७।३८य्द्/ हीनैः हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥ ॥ ६७।३९अब्/ पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः । ६७।३९य्द्/ संवृतनिम्नैः धनिनः प्रोत्तानकराश्च दातारः ॥ ॥ ६७।४०अब्/ विषमैः विषमा निःस्वाश्च करतलैः ईश्वराः (ईश्वराः) तु लाक्षाभैः । ६७।४०य्द्/ पीतैः अगम्यवनिताभिगामिनो निर्धना रूक्षैः ॥ ॥ ६७।४१अब्/ तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः । ६७।४१य्द्/ कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ॥ ॥ ६७।४२अब्/ अंगुष्ठयवैः आढ्याः सुतवन्तो अंगुष्ठमूलजैश्च यवैः (मूलगैश्च यवः) । ६७।४२य्द्/ दीर्घांगुलिपर्वाणः सुभगा दीर्घायुषश्चैव ॥ ॥ ६७।४३अब्/ स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम् । ६७।४३य्द्/ विरलांगुलयो निःस्वा धनसंचयिनो घनांगुलयः ॥ ॥ ६७।४४अब्/ तिस्रो रेखा मणिबन्धनोत्थिताः करतलौपगा नृपतेः । ६७।४४य्द्/ मीनयुगांकितपाणिः नित्यं सत्रप्रदो भवति ॥ ॥ ६७।४५अब्/ वज्राकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः । ६७।४५य्द्/ शंख आतपत्रशिविकागजाश्वपद्मौपमा नृपतेः ॥ ॥ ६७।४६अब्/ कलशमृणालपता अकांकुशौपमाभिः भवन्ति निधिपालाः । ६७।४६य्द्/ दामनिभाभिश्च आढ्याः स्वस्तिकरूपाभिः ऐश्वर्यम् ॥ ॥ ६७।४७अब्/ चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः । ६७।४७य्द्/ कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥ ॥ ६७।४८अब्/ मकरध्वजकोष्ठागारसन्निभाभिः महाधनोपेताः । ६७।४८य्द्/ वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥ ॥ ६७।४९अब्/ वापीदेवकुलाद्यैः धर्मं कुरुवन्ति च त्रिकोणाभिः । ६७।४९य्द्/ अंगुष्ठमूलरेखाः पुत्राः स्युः दारिकाः सूक्ष्माः ॥ ॥ ६७।५०अब्/ रेखाः प्रदेशिनिगताः (गाः) शतायुषं कल्पनीयमूनाभिः । ६७।५०य्द्/ छिन्नाभिः द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥ ॥ ६७।५१अब्/ अतिकृशदीर्घैश्चिबुकैः निर्द्रव्या मांसलैः धनोपेताः । ६७।५१य्द्/ विंब (बिंब) उपमैः अवक्रैः अधरैः भूपाः तनुभिः अस्वाः ॥ ॥ ६७।५२अब्/ ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः । ६७।५२य्द्/ स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ॥ ॥ ६७।५३अब्/ जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो (भोगिनां) ज्ञेया । ६७।५३य्द्/ श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ॥ ॥ ६७।५४अब्/ वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम् । ६७।५४य्द्/ विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ॥ ॥ ६७।५५अब्/ स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम् । ६७।५५य्द्/ दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ॥ ॥ ६७।५६अब्/ चतुरस्रं (चतुरश्रं) धूर्तानां निम्नं वक्रं (वक्त्रं) च तनयरहितानाम् । ६७।५६य्द्/ कृपणानामतिह्रस्वं सम्पूर्णं भोगिनां कान्तम् ॥ ॥ ६७।५७अब्/ अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव । ६७।५७य्द्/ रक्तैः परुषैश्चौराः श्मश्रुभिः अल्पैश्च विज्ञेयाः ॥ ॥ ६७।५८अब्/ निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः । ६७।५८य्द्/ कृपणाश्च ह्रस्वकर्णाः शंकुश्रवणाश्चमूपतयः (च भूपतयः) ॥ ॥ ६७।५९अब्/ रोमशकर्णा दीर्घायुषश्च (तु) धनभागिनो विपुलकर्णाः । ६७।५९य्द्/ क्रूराः शिरावनद्धैः व्यालंबैः मांसलैः सुखिनः ॥ ॥ ६७।६०अब्/ भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः । ६७।६०य्द्/ सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च ॥ ॥ ६७।६१अब्/ छिन्नानुरूपया अगम्यगामिनो दीर्घया तु सौभाग्यम् । ६७।६१य्द्/ आकुंचितया चौरः स्त्रीमृत्युः स्यागिपिटनासः ॥ ॥ ६७।६२अब्/ धनिनोऽग्रवक्रनासा दक्षिणविनताः (वक्राः) प्रभक्षणाः क्रूराः । ६७।६२य्द्/ ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम् ॥ ॥ ६७।६३अब्/ धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्लादि सानुनादं च । ६७।६३य्द्/ दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव ॥ ॥ ६७।६४अब्/ पद्मदलाभैः धनिनो रक्तान्तविलोचनाः (विलोचनाः) श्रियः भाजः । ६७।६४य्द्/ मधुपिंगलैः महार्था मार्जारविलोचनैः पापाः ॥ ॥ ६७।६५अब्/ हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः । ६७।६५य्द्/ क्रूराः केकरनेत्रा गजसदृशविलोचनाश्चमूपतयः (दृशश्च भूपतयः) ॥ ॥ ६७।६६अब्/ ऐश्वर्यम् गंभीरैः नीलोत्पलकान्तिभिश्च विद्वांसः । ६७।६६य्द्/ अतिकृष्णतारकाणामक्ष्नामुत्पाटनं भवति ॥ ॥ ६७।६७अब्/ मन्त्रित्वं स्थूलदृशां श्यावाक्षाणां भवति सौभाग्यम् । ६७।६७य्द्/ दीना दृग् निःस्वानां स्निग्धा विपुलार्थभोगवताम् ॥ ॥ ६७।६८अब्/ अभ्युन्नताभिः अल्पायुषो विशालौन्नताभिः अतिसुखिनः । ६७।६८य्द्/ विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः ॥ ॥ ६७।६९अब्/ दीर्घा असंसक्ताभिः धनिनः खण्डाभिः अर्थपरिहीनाः । ६७।६९य्द्/ मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥ ॥ ६७।७०अब्/ उन्नतविपुलैः शंखैः धनिनो (धन्या) निम्नैः सुतार्थसन्त्यक्ताः । ६७।७०य्द्/ विषमललाटा विधना धनवन्तोऽर्धेन्दुसदृशेन ॥ ॥ ६७।७१अब्/ शुक्तिविशालैः आचार्यता शिरासन्ततैः अधर्मरताः । ६७।७१य्द्/ उन्नतशिराभिः आढ्याः स्वस्तिकवत् संस्थिताभिश्च ॥ ॥ ६७।७२अब्/ निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च । ६७।७२य्द्/ अभ्युन्नतैश्चमूपाः (भूपाः) कृपणाः स्युः संवृत (सग़्कट) ललाटाः ॥ ॥ ६७।७३अब्/ रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम् । ६७।७३य्द्/ रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ॥ ॥ ६७।७४अब्/ हसितं शुभदमकंपं सनिमीलितलोचनं तु पापस्य । ६७।७४य्द्/ दुष्टस्य (हृष्टस्य) हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥ ॥ ६७।७५अब्/ तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता यदि ताः । ६७।७५य्द्/ चतसृभिः अवनीशत्वं नवतिश्चायुः सपंचाब्दा ॥ ॥ ६७।७६अब्/ विच्छिन्नाभिश्चागम्यगामिनो नवतिः अपि अरेखेण । ६७।७६य्द्/ केशान्तोपगताभी रेखाभिः अशीतिवर्षायुः ॥ ॥ ६७।७७अब्/ पंचभिः आयुः सप्ततिः एकाग्रावस्थिताभिः अपि षष्टिः । ६७।७७य्द्/ बहुरेखेण शतार्धं चत्वारिंशग वक्राभिः ॥ ॥ ६७।७८अब्/ भ्रूलग्नाभिः त्रिंशद् (त्रिंशभ्रूलग्नाभिः) विंशतिकश्चैव वामवक्राभिः । ६७।७८य्द्/ क्षुद्राभिः स्वल्पायुः न्यूनाभिश्चान्तरे कल्प्यम् ॥ ॥ ६७।७९अब्/ परिमण्डलैः गवाढ्याश्छत्राकारैः शिरोभिः अवनीशाः । ६७।७९य्द्/ चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान् मृत्युः ॥ ॥ ६७।८०अब्/ घटमूर्धा अध्वानरुचिः द्विमस्तकः पापकृद् धनैः त्यक्तः । ६७।८०य्द्/ निम्नं तु शिरो महतां बहुनिम्नमनर्थदं भवति ॥ ॥ ६७।८१अब्/ एकैकभवैः स्निग्धैः कृष्णैः आकुंचितैः अभिन्नाग्रैः । ६७।८१य्द्/ मृदुभिः न चातिबहुभिः केशैः सुखभाग् नरेन्द्रो वा ॥ ॥ ६७।८२अब्/ बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च । ६७।८२य्द्/ अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीनानाम् ॥ ॥ ६७।८३अब्/ यद्यद् गात्रं रूक्षं मांसविहीनं शिरावनद्धं च । ६७।८३य्द्/ तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम् ॥ ॥ ६७।८४अब्/ त्रिषु विपुलो गंभीरः त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः । ६७।८४य्द्/ सप्तसु रक्तो राजा पंचसु दीर्घश्च सूक्ष्मश्च ॥ ॥ ६७।८५अ नाभी (नाभिः) स्वरः सत्त्वमिति प्रशस्तं (प्रदिष्टं) ६७।८५ब् गंभीरमेतत् त्रितयं नराणाम् । ६७।८५य् उरो ललाटं वदनं च पुंसां ६७।८५द् विस्तीर्णमेतत् त्रितयं प्रशस्तम् ॥ ॥ ६७।८६अ वक्षोऽथ कक्षा नखनासिकास्यं ६७।८६ब् कृकाटिका चेति षडुन्नतानि । ६७।८६य् ह्रस्वानि चत्वारि च लिंगपृष्ठं ६७।८६द् ग्रीवा च जंघे च हितप्रदानि ॥ ॥ ६७।८७अ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा ६७।८७ब् रक्ता नखाश्च खलु सप्त सुखावहानि । ६७।८७य् सूक्ष्माणि पंच दशनांगुलिपर्वकेशाः ६७।८७द् साकं त्वचा कररुहा न च (कररुहाश्च न) दुःखितानाम् ॥ ॥ ६७।८८अब्/ हनुलोचनबाहुनासिकाः स्तनयोः अन्तरमत्र पंचमम् । ६७।८८य्द्/ इति दीर्घमिदं तु पंचकं न भवत्येव नृणामभूभृताम् ॥ ॥ ६७।८९अ छाया शुभाशुभफलानि निवेदयन्ती ६७।८९ब् लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः । ६७।८९य् तेजोगुणान् बहिः अपि प्रविकाशयन्ती ६७।८९द् दीपप्रभा स्फटिकरत्नघटस्थितेव ॥ ॥ ६७।९०अ स्निग्धद्विजत्वग्नखरोमकेशाः (केश) ६७।९०ब् छाया सुगन्धा च महीसमुत्था । ६७।९०य् तुष्ट्यर्थलाभाभ्युदयान् करोति ६७।९०द् धर्मस्य चाहन्यहनि प्रवृत्तिम् ॥ ॥ ६७।९१अ स्निग्धा सिताच्छहरिता नयनाभिरामा ६७।९१ब् सौभाग्यमार्दवसुखाभ्युदयान् करोति । ६७।९१य् सर्वार्थसिद्धिजननी जननीव च आप्या ६७।९१द् छाया फलं तनुभृतां शुभमादधाति ॥ ॥ ६७।९२अ चण्डा अधृष्या पद्महेमाग्निवर्णा ६७।९२ब् युक्ता तेजोविक्रमैः सप्रतापैः । ६७।९२य् आग्नेयीति प्राणिनां स्याज्जयाय ६७।९२द् क्षिप्रं सिद्धिं वांछितार्थस्य दत्ते (धत्ते) ॥ ॥ ६७।९३अ मलिनपरुषकृष्णा पापगन्धानिलोत्था ६७।९३ब् जनयति वधबन्धव्याध्यनर्थार्थनाशान् । ६७।९३य् स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा ६७।९३द् निधिः इव गगनोत्था श्रेयसां स्वच्छवर्णा ॥ ॥ ६७।९४अ छायाः क्रमेण कुजलाग्न्यनिलांबरोत्थाः ६७।९४ब् केचिद् वदन्ति दश ताश्च यथानुपूर्व्या । ६७।९४य् सूर्याब्जनाभपुरुहूतयमौडुपानां ६७।९४द् तुल्याः तु लक्षणफलैः इति तत्समासः ॥ ॥ ६७।९५अब्/ करिवृषरथौघभेरीमृदंगसिंहाभ्र (अब्द) निःस्वना भूपाः । ६७।९५य्द्/ गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥ ॥ ६७।९६अब्/ सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि । ६७।९६य्द्/ रुधिरं मांसं चेति प्राणभृतां तत्समासफलम् ॥ ॥ ६७।९७अब्/ ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः । ६७।९७य्द्/ रक्ते (रक्तैः) तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः ॥ ॥ ६७।९८अब्/ स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणाः तनुभिः । ६७।९८य्द्/ मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः (युक्ताः) ॥ ॥ ६७।९९अब्/ स्थूलास्थिः अस्थिसारो बलवान् विद्यान्तगः सुरूपश्च । ६७।९९य्द्/ बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥ ॥ ६७।१००अब्/ उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः । ६७।१००य्द्/ संघाता इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥ ॥ ६७।१०१अब्/ स्नेहः पंचसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः । ६७।१०१य्द्/ सुतधनसौभाग्ययुताः स्निग्धैः तैः निर्धना रूक्षैः ॥ ॥ ६७।१०२अब्/ द्युतिमान् वर्णस्निग्धः (वर्णः स्निग्धः) क्षितिपानाम् मध्यमः सुतार्थवताम् । ६७।१०२य्द्/ रूक्षो धनहीनानां शुद्धः शुभदो न संकीर्णः ॥ ॥ ६७।१०३अब्/ साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः । ६७।१०३य्द्/ अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥ ॥ ६७।१०४अब्/ वानरमहिषवराहाजतुल्यवदनाः श्रुतार्थ (सुतार्थ) सुखभाजः । ६७।१०४य्द्/ गर्दभकरभप्रतिमैः मुखैः शरीरैश्च निःस्वसुखाः ॥ ॥ ६७।१०५अब्/ अष्टशतं षण्णवतिः (षणवतिः) परिमाणं चतुरशीतिः इति पुंसाम् । ६७।१०५य्द्/ उत्तमसमहीनानामंगुलसंख्या स्वमानेन ॥ ॥ ६७।१०६अब्/ भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभाग् भवत्यूनः । ६७।१०६य्द्/ भारोऽतिवाढ्यानामध्यर्धः सर्वधरणीशः ॥ ॥ ६७।१०७अब्/ विंशतिवर्षा नारी पुरुषः खलु पंचविंशतिभिः अब्दैः । ६७।१०७य्द्/ अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥ ॥ ६७।१०८अब्/ भूजलशिख्यनिलांबरसुरनररक्षः पिशाचकतिरश्चाम् । ६७।१०८य्द्/ सत्त्वेन भवति पुरुषो लक्षणमेतद् भवति तेषां (एषां) ॥ ॥ ६७।१०९अ महीस्वभावः शुभपुष्पगन्धः ६७।१०९ब् संभोगवान् सुश्वसनः स्थिरश्च । ६७।१०९य् तोयस्वभावो बहुतोयपायी ६७।१०९द् प्रियाभिभाषी (अभिलाषी) रसभाजनः (भोजनः) च ॥ ॥ ६७।११०अ अग्निप्रकृत्या चपलोऽतितीक्ष्णश् ६७।११०ब् चण्डः क्षुधालुः बहुभोजनश्च । ६७।११०य् वायोः स्वभावेन चलः कृशश्च ६७।११०द् क्षिप्रं च कोपस्य वशं प्रयाति ॥ ॥ ६७।१११अ खप्रकृतिः निपुणो विवृतास्यः ६७।१११ब् शब्दगतेः कुशलः सुशिरांगः । ६७।१११य् त्यागयुतः (त्यागयुतो) पुरुषो मृदुकोपः ६७।१११द् स्नेहरतश्च भवेत् सुरसत्त्वः ॥ ॥ ६७।११२अब्/ मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः । ६७।११२य्द्/ संविभागशीलवान् नित्यमेव मानवः ॥ ॥ ६७।११३अ तीक्ष्णप्रकोपः खलचेष्टितश्च ६७।११३ब् पापश्च सत्त्वेन निशाचराणाम् । ६७।११३य् पिशाचसत्त्वश्चपलो मलाक्तो ६७।११३द् बहुप्रलापी च समुल्बणांगः ॥ ॥ ६७।११४अ भीरुः क्षुधालुः बहुभुक् च यः स्याद् ६७।११४ब् ज्ञेयश्च (स) सत्त्वेन नरः तिरश्चाम् । ६७।११४य् एवं नराणां प्रकृतिः प्रदिष्टा ६७।११४द् यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम् ॥ ॥ ६७।११५अ शार्दूलहंससमदद्विपगोपतीनां ६७।११५ब् तुल्या भवन्ति गतिभिः शिखिनां च भूपाः । ६७।११५य् येषां च शब्दरहितं स्तिमितं च यातं ६७।११५द् तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥ ॥ ६७।११६अ श्रान्तस्य यानमशनं च बुभुक्षितस्य ६७।११६ब् पानं तृषापरिगतस्य भयेषु रक्षा । ६७।११६य् एतानि यस्य पुरुषस्य भवन्ति काले ६७।११६द् धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥ ॥ ६८।११७अब्/ पुरुषलक्षणमुक्तमिदं मया मुनिमतानि अवलोक्य समासतः । ६८।११७य्द्/ इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥ ॥ sएपरते अध्याय ६८ पंचमनुष्यविभागाध्यायः ६८।१अब्/ ताराग्रहैः बलयुतैः स्वक्षेत्रस्वौच्चगैश्चतुष्टयगैः । ६८।१य्द्/ पंच पुरुषाः प्रशस्ता जायन्ते तान् अहं वक्ष्ये ॥ ॥ ६८।२अब्/ जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च । ६८।२य्द्/ भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ॥ ॥ ६८।३अब्/ सत्त्वमहीनं सूर्यात्शारीरं मानसं च चन्द्रबलात् । ६८।३य्द्/ यद् राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान् ॥ ॥ ६८।४अब्/ तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः । ६८।४य्द्/ अबलरवीन्दुयुतैः तैः संकीर्णा लक्षणैः पुरुषाः ॥ ॥ ६८।५अब्/ भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः । ६८।५य्द्/ वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् ॥ ॥ ६८।६अब्/ संकीर्णाः स्युः न नृपा दशासु तेषां भवन्ति सुखभाजः । ६८।६य्द्/ रिपुगृहनीचौच्चच्युतसत्पापनिरीक्षणैः भेदाः (भेदः) ॥ ॥ ६८।७अब्/ षण्णवतिः अंगुलानां व्यायामो दीर्घता च हंसस्य । ६८।७य्द्/ शशरुचकभद्रमालव्यसंज्ञिताः त्र्यंगुलविवृद्ध्या ॥ ॥ ६८।८अ यः सात्त्विकः तस्य दया स्थिरत्वं ६८।८ब् सत्त्वार्जवं ब्राह्मणदेवभक्तिः । ६८।८य् रजो अधिकः काव्यकलाक्रतुस्त्री- ६८।८द् संसक्तचित्तः पुरुषोऽतिशूरः ॥ ॥ ६८।९अ तमोऽधिको वंचयिता परेषां ६८।९ब् मूर्खोऽलसः क्रोधपरोऽतिनिद्रः । ६८।९य् मिश्रैः गुणैः सत्त्वरजस्तमोभिः ६८।९द् मिश्राः तु ते सप्त सह प्रभेदैः ॥ ॥ ६८।१०अ मालव्यो नागनासः समभुज (नागनाससमभुज) युगलो जानुसम्प्राप्तहस्तो ६८।१०ब् मांसैः पूर्णांगसन्धिः समरुचिरतनुः मध्यभागे कृशश्च । ६८।१०य् पंचाष्टौ च ऊर्ध्वमास्यं श्रुतिविवरमपि त्र्यंगुलोनं च तिर्यग् ६८।१०द् दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ॥ ॥ ६८।११अ मालवान् स भरुकच्छसुराष्ट्रान् ६८।११ब् लाटसिन्धुविषयप्रभृतींश्च । ६८।११य् विक्रमार्जितधनोऽवति राजा ६८।११द् पारियात्रनिलयान् (निलयः) कृतबुद्धिः ॥ ॥ ६८।१२अब्/ सप्ततिवर्षो मालव्योऽयं त्यक्ष्यति सम्यक् प्राणां तीर्थे । ६८।१२य्द्/ लक्षणमेतत् सम्यक् प्रोक्तं शेषनराणां चातो वक्ष्ये ॥ ॥ ६८।१३अ उपचितसमवृत्तलंबबाहुः ६८।१३ब् भुजयुगलप्रमितः समुच्छ्रयोऽस्य । ६८।१३य् मृदुतनुघनरोमनद्धगण्डो ६८।१३द् भवति नरः खलु लक्षणेन भद्रः ॥ ॥ ६८।१४अ त्वक्षुक्रसारः पृथुपीनवक्षाः ६८।१४ब् सत्त्वाधिको व्याघ्रमुखः स्थिरश्च । ६८।१४य् क्षमान्वितो धर्मपरः कृतज्ञो ६८।१४द् गजेन्द्रगामी बहुशास्त्रवेत्ता ॥ ॥ ६८।१५अ प्राज्ञो वपुष्मान् सुललाटशंखः ६८।१५ब् कलास्वभिज्ञो धृतिमान् सुकुक्षिः । ६८।१५य् सरोजगर्भद्युतिपाणिपादो ६८।१५द् योगी सुनासः समसंहतभ्रूः ॥ ॥ ६८।१६अ नवांबुसिक्तावनिपत्रकुंकुम- ६८।१६ब् द्विपेन्द्रदानागुरुतुल्यगन्धता । ६८।१६य् शिरोरुहाश्चएकजकृष्णकुंचिताः ६८।१६द् तुरंगनागोपमगुह्यगूढता (गूढगुह्यता) ॥ ॥ ६८।१७अ हलमुशलगदासिशंखचक्र- ६८।१७ब् द्विपमकराब्जरथांकितांघ्रि (अन्ह्रि) हस्तः । ६८।१७य् विभवमपि जनोऽस्य बोभुजीति ६८।१७द् क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥ ॥ ६८।१८अ अंगुलानि नवतिश्च षडूनान्य्- ६८।१८ब् उच्छ्रयेण तुलयापि हि भारः । ६८।१८य् मध्यदेशनृपतिः यदि पुष्टाश् ६८।१८द् त्र्यादयोऽस्य सकलावनिनाथः ॥ ॥ ६८।१९अब्/ भुक्त्वा सम्यग्वसुधां शौर्येणौपार्जितामशीत्यब्दः । ६८।१९य्द्/ तीर्थे प्राणां त्यक्त्वा भद्रो देवालयं याति ॥ ॥ ६८।२०अ ईषद्दन्तुरकः तनुद्विजनखः कोशेक्षणः शीघ्रगो ६८।२०ब् विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः । ६८।२०य् सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः ६८।२०द् शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ॥ ॥ ६८।२१अ दीर्घो अंगुलानां शतमष्टहीनं ६८।२१ब् साशंकचेष्टः पररन्ध्रविग । ६८।२१य् सारोऽस्य मज्जा निभृतप्रचारः ६८।२१द् शशो ह्यतो (अयं) नातिगुरुः प्रदिष्टः ॥ ॥ ६८।२२अ मध्ये कृशः खेटकखंगवीणा ६८।२२ब् पर्यंकमालामुरजानुरूपाः । ६८।२२य् शूलोपमाश्च ऊर्ध्वगताश्च रेखाः ६८।२२द् शशस्य पादोपगताः करे वा ॥ ॥ ६८।२३अ प्रात्यन्तिको माण्डलिकोऽथवा अयं ६८।२३ब् स्फिक्स्रावशूलाभिभवार्तमूर्तिः । ६८।२३य् एवं शशः सप्ततिहायनोऽयं ६८।२३द् वैवस्वतस्यालयमभ्युपैति ॥ ॥ ६८।२४अ रक्तं पीनकपोलमुन्नतनसं वक्त्रं सुवर्णोपमं ६८।२४ब् वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः । ६८।२४य् स्रग्दामांकुशशंखमत्स्ययुगलक्रत्वंगकुंभांबुजैश् ६८।२४द् चिह्नैः हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ॥ ॥ ६८।२५अब्/ रतिः अंभसि शुक्रसारता द्विगुणा चाष्टशतैः पलैः मितिः । ६८।२५य्द्/ परिमाणमथास्य षड्युता नवतिः सम्परिकीर्तिता बुधैः ॥ ॥ ६८।२६अब्/ भुनक्ति हंसः खसशूरसेनान् गान्धारगंगायामुनान्तरालम् । ६८।२६य्द्/ शतं दशोनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् ॥ ॥ ६८।२७अब्/ सुभ्रूकेशो रक्तश्यामः कंबुग्रीवो व्यादीर्घास्यः । ६८।२७य्द्/ शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥ ॥ ६८।२८अ यन्मात्रमास्यं रुचकस्य दीर्घं ६८।२८ब् मध्यप्रदेशे चतुरस्रता (चतुरश्रता) सा । ६८।२८य् तनुच्छविः शोणितमांससारो ६८।२८द् हन्ता द्विषां साहससिद्धकार्यः ॥ ॥ ६८।२९अ खट्वांगवीणावृषचापवज्र- ६८।२९ब् शक्तीन्द्रशूलांकितपाणिपादः । ६८।२९य् भक्तो गुरुब्राह्मणदेवतानां ६८।२९द् शतांगुलः स्यात् तु सहस्रमानः (तुलया सहस्रं) ॥ ॥ ६८।३०अ मन्त्राभिचारकुशलः कृशजानुजंघो ६८।३०ब् विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा । ६८।३०य् सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः ६८।३०द् शस्त्रेण मृत्युमुपयात्यथवाऽनलेन ॥ ॥ ६८।३१अ पंचापरे वामनको जघन्यः ६८।३१ब् कुब्जोऽथवा मण्डलकोऽथ साची (समी) । ६८।३१य् पूर्वोक्तभूपानुचरा भवन्ति ६८।३१द् संकीर्णसंज्ञः (संज्ञाः) श‍ृणु लक्षणैः तान् ॥ ॥ ६८।३२अ सम्पूर्णांगो वामनो भग्नपृष्ठः ६८।३२ब् किंचिग ऊरूमध्यकक्ष्य (कक्ष) अन्तरेषु । ६८।३२य् ख्यातो राज्ञां ह्येष भद्रानुजीवी ६८।३२द् स्फीटो राजा (दाता) वासुदेवस्य भक्तः ॥ ॥ ६८।३३अ मालव्यसेवी तु जघन्यनामा ६८।३३ब् खण्डेन्दुतुल्यश्रवणः सुसन्धिः । ६८।३३य् शुक्रेण सारह् पिशुनः कविश्च ६८।३३द् रूक्षच्छविः स्थूलकरांगुलीकः ॥ ॥ ६८।३४अ क्रूरो धनी स्थूलमतिः प्रतीतः ६८।३४ब् ताम्रच्छविः स्यात् परिहासशीलः ६८।३४य् उरो अंघ्रि (अन्ह्रि) हस्तेष्वसिशक्तिपाश- ६८।३४द् परश्वधांकः स (अग़्कश्च) जघन्यनामा ॥ ॥ ६८।३५अ कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात् ६८।३५ब् क्षीणः किंचित् पूर्वकाये नतश्च । ६८।३५य् हंसासेवी नास्तिकोऽर्थैरुपेतो ६८।३५द् विद्वान् शूरः सूचकः स्यात् कृतज्ञः ॥ ॥ ६८।३६अ कलास्वभिज्ञः कलहप्रियश्च ६८।३६ब् प्रभूतभृत्यः प्रमदाजितश्च । ६८।३६य् सम्पूज्य लोकं प्रजहात्यकस्मात् ६८।३६द् कुब्जोऽयमुक्तः सततोद्यतश्च ॥ ॥ ६८।३७अब्/ मण्डलकक्षणमतो (कनामधेयो लक्षणमतो) रुचकानुचरोऽभिचारवित् कुशलः । ६८।३७य्द्/ कृत्यावेताल (वैताल) आदिषु कर्मसु विद्यासु चानुरतः ॥ ॥ ६८।३८अब्/ वृद्धाकारः खरपरुषमूर्धजश्रूक्षमूर्धजः) च शत्रुनाशने कुशलः । ६८।३८य्द्/ द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् ॥ ॥ ६८।३९अ साचीइति (सामीति) यः सोऽतिविरूपदेहः ६८।३९ब् शशानुगामी खलु दुर्भगश्च । ६८।३९य् दाता महारंभसमाप्तकार्यो ६८।३९द् गुणैः शशस्यैव भवेत् समानः ॥ ॥ ६८।४०अ पुरुषलक्षणमुक्तमिदम् मया ६८।४०ब् मुनिमतानि निरीक्ष्य समासतः । ६८।४०य् इदमधीत्य नरो नृपसम्मतो ६८।४०द् भवति सर्वजनस्य च वल्लभः ॥ ॥ sएपरते अध्याय ६९ कन्यालक्षणाध्यायः ६९।१अ स्निग्धौन्नताग्रतनुताम्रनखौ कुमार्याः ६९।१ब् पादौ समौपचितचारुनिगूढगुल्फौ । ६९।१य् श्लिष्टांगुली कमलकान्तितलौ च यस्याः ६९।१द् तामुद्वहेद् यदि भुवोऽधिपतित्वमिच्छेत् ॥ ॥ ६९।२अ मत्स्यांकुशाब्जयववज्रहलासिचिह्न- ६९।२ब् अवस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ । ६९।२य् जंघे च रोमरहिते विशिरे सुवृत्ते ६९।२द् जानुद्वयं सममनुल्बणसन्धिदेशम् ॥ ॥ ६९।३अ ऊरू घनौ करिकरप्रतिमावरोमाव् ६९।३ब् अश्वत्थपत्रसदृशं विपुलं च गुह्यम् । ६९।३य् श्रोणीललाटमुरुकूर्मसमुन्नतं च ६९।३द् गूढो मणिश्च विपुलां श्रियमादधाति ॥ ॥ ६९।४अ विस्तीर्णमांसौपचितो नितंबः ६९।४ब् गुरुश्च धत्ते रशना (रसना) कलापम् । ६९।४य् नाभिः गभीरा (गंभीरा) विपुलांगानां ६९।४द् प्रदक्षिनावर्तगता च शस्ता (प्रशस्ता) ॥ ॥ ६९।५अ मध्यं स्त्रियाः त्रिवलिनाथमरोमशं च ६९।५ब् वृत्तौ घनावविषमौ कठिनावुरस्यौ । ६९।५य् रोमप्रवर्जितं (अपवर्जितं) उरो मृदु चांगनानां ६९।५द् ग्रीवा च कंबुनिचितार्थसुखानि दत्ते (धत्ते) ॥ ॥ ६९।६अ बन्धुजीवकुसुमोपमोऽधरो ६९।६ब् मांसलो रुचिरबिंबरूपभृत् । ६९।६य् कुन्दकुड्मलनिभाः समा द्विजा ६९।६द् योषितां पतिसुखामितार्थदाः ॥ ॥ ६९।७अ दाक्षिण्ययुक्तमशठं परपुष्टहंस- ६९।७ब् वल्गु प्रभाषितमदीनमनल्पसौख्यम् । ६९।७य् नासा समा समपुटा रुचिरा प्रशस्ता ६९।७द् दृग्नीलनीरजदलद्युतिहारिणी च ॥ ॥ ६९।८अब्/ नो संगते नातिपृथू न लंबे शस्ते भ्रुवौ बालशशांकवक्रे । ६९।८य्द्/ अर्धेन्दुसंस्थानमरोमशं च शस्तं ललाटं न नतं न तुंगम् ॥ ॥ ६९।९अब्/ कर्णयुग्ममपि युक्तमांसलं शस्यते म्र्दु समाहितम् समं (समं समाहितं) । ६९।९य्द्/ स्निग्धनीलमृदुकुंचितैकजा मूर्धजाः सुखकराः समं शिरः ॥ ॥ ६९।१०अ भृंगारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभिः ६९।१०ब् मालाकुण्डलचामरांकुशयवैः शैलैः ध्वजैः तोरणैः । ६९।१०य् मत्स्यस्वस्तिकवेदिकाव्यजनकैः शंखातपत्रांबुजैः ६९।१०द् पादे पाणितलेऽथवा (अपि वा) युवतयो गच्छन्ति राज्ञीपदम् ॥ ॥ ६९।११अ निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ ६९।११ब् करौ नृपतियोषितस्योषितां) तनुविकृष्टपर्वांगुली । ६९।११य् न निम्नमति नौन्नतं करतलं सुरेखान्वितं ६९।११द् करोत्यविधवां चिरं सुतसुखार्थसंभोगिनीम् ॥ ॥ ६९।१२अ मध्यांगुलिं या मणिबन्धनोत्था ६९।१२ब् रेखा गता पाणितले अंगनायाः । ६९।१२य् ऊर्ध्वस्थिता पादतलेऽथवा या ६९।१२द् पुंसोऽथवा राज्यसुखाय सा स्यात् ॥ ॥ ६९।१३अ कनिष्ठिकामूलभवा गता या ६९।१३ब् प्रदेशिनीमध्यमिकान्तरालम् । ६९।१३य् करोति रेखा परमायुषः सा ६९।१३द् प्रमाणमूना तु तदूनमायुः ॥ ॥ ६९।१४अ अंगुष्टमूले प्रसवस्य रेखाः ६९।१४ब् पुत्रा बृहत्यः प्रमदाः तु तन्व्यः । ६९।१४य् अच्छिन्नमध्या (दीर्घा) बृहदायुषः (बृहदायुषां) ताः ६९।१४द् स्वल्पायुषां छिन्नलघुप्रमाणाः ॥ ॥ ६९।१५अ इतीदमुक्तं शुभमंगनानाम् ६९।१५ब् अतो विपर्यस्तमनिष्टमुक्तम् । ६९।१५य् विशेषतोऽनिष्टफलानि यानि ६९।१५द् समासतः तानि अनुकीर्तयामि ॥ ॥ ६९।१६अ कनिष्ठिका वा तदनन्तरा वा ६९।१६ब् महीं न यस्याः श्पृशति स्त्रियाः स्यात् । ६९।१६य् गताथव्ंगुष्ठमतीत्य यस्याः ६९।१६द् प्रदेशिनी सा कुलटाऽतिपापा ॥ ॥ ६९।१७अ उद्बद्धाभ्याम् पिण्डिकाभ्याम् शिराले ६९।१७ब् शुष्के जंघे लोमशे (रोमशे) चातिमांसे ६९।१७य् वामावर्तं निम्नमल्पं च गुह्यं ६९।१७द् कुंभाकारं चोदरं दुःखितानाम् ॥ ॥ ६९।१८अब्/ ह्रस्वयातिनिःस्वता दीर्घया कुलक्षयः । ६९।१८य्द्/ ग्रीवया पृथूत्थया योषितः प्रचण्डता ॥ ॥ ६९।१९अ नेत्रे यस्याः केकरे पिंगले वा ६९।१९ब् सा दुःशीला श्यावलोलेक्षणा च । ६९।१९य् कूपौ यस्या गण्डयोश्च स्मितेषु ६९।१९द् निःसन्दिग्धं बन्धकीं तां वदन्ति ॥ ॥ ६९।२०अ प्रविलंबिनि देवरं ललाटे ६९।२०ब् श्वशुरं हन्त्युदरे स्फिजोः पतिं च । ६९।२०य् अतिरोमचयान्वितौत्तरओष्ठी ६९।२०द् न शुभा भर्तुः अतीव या च दीर्घा ॥ ॥ ६९।२१अ स्तनौ सरोमौ मलिनौल्बणौ च ६९।२१ब् क्लेशं दधाते विषमौ च कर्णौ । ६९।२१य् स्थूलाः कराला विषमाश्च दन्ताः ६९।२१द् क्लेशाय चौर्याय च कृष्णमांसाः ॥ ॥ ६९।२२अ क्रव्यादरूपैः वृककाककंक- ६९।२२ब् सरीसृपौलूकसमानचिह्नैः ६९।२२य् शुष्कैः शिरालैः विषमैश्च हस्तैः ६९।२२द् भवन्ति नार्यह् सुखवित्तहीनाः ॥ ॥ ६९।२३अ या तूत्तरोष्ठेन समुन्नतेन ६९।२३ब् रूक्षाग्रकेशी कलहप्रिया सा । ६९।२३य् प्रायो विरूपासु भवन्ति दोषा ६९।२३द् यत्राकृतिः तत्र गुणा वसन्ति ॥ ॥ ६९।२४अब्/ पादौ सगुल्फौ प्रथमं प्रदिष्टौ जंघे द्वितीयं तु सजानुचक्रे । ६९।२४य्द्/ मेढ्र ऊरुमुष्कं च ततः तॄतीयं नाभिः कटिश्चैव (च इति) चतुर्थमाहुः ॥ ॥ ६९।२५अब्/ उदरं कथयन्ति पंचमं हृदयं षष्ठमतः स्तनान्वितम् । ६९।२५य्द्/ अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे ॥ ॥ ६९।२६अब्/ नवमं नयने च सभ्रुणी सललाटं दशमं शिरः तथा । ६९।२६य्द्/ अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोभनम् ॥ ॥ sएपरते अध्याय ७० वस्त्रच्छेदलक्षणाध्यायः ७०।१अब्(७१।६अब्)/ प्रभूतवस्त्रदाश्विनी भरणि अथापहारिणी । ७०।१य्द्(७१।६य्द्)/ प्रदह्यतेऽग्निदैवते प्रजेस्वरेऽर्थसिद्धयः ॥ ॥ ७०।२अब्(७१।७अब्)/ मृगे तु मूषकाद् भयं व्यसुत्वमेव शंकरे । ७०।२य्द्(७१।७य्द्)/ पुनर्वसौ शुभागमः तदग्रभे धनैः युतिः ॥ ॥ ७०।३अब्(७१।८अब्)/ भुजंगभे विलुप्यते मघासु मृत्युमादिशेत् । ७०।३य्द्(७१।८य्द्)/ भगाह्वये नृपाद् भयं धनागमाय चौत्तरा ॥ ॥ ७०।४अब्(७१।९अब्)/ करेण कर्मसिद्धयः शुभागमः तु चित्रया । ७०।४य्द्(७१।९य्द्)/ शुभं च भोज्यमानिले द्विदैवते जनप्रियः ॥ ॥ ७०।५अब्(७१।१०अब्)/ सुहूद्युतिः (सुहृद्युतिः) च मित्रभे तदग्रभे (पुरन्दरे) ऽंबरक्षयः । ७०।५य्द्(७१।१०य्द्)/ जलप्लुतिश्च नैरृते रुजो जलाधिदैवते ॥ ॥ ७०।६अब्(७१।११अब्)/ मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता । ७०।६य्द्(७१।११य्द्)/ धान्यलब्धिः (लब्धिं) अपि (अथ) वासवे (विश्वदैवते) विदुः वारुणे विषकृतं महद्भयम् ॥ ॥ ७०।७अ(७१।१२अ) भद्रपदासु भयं सलिलोत्थं ७०।७ब्(७१।१२ब्) तत्परतश्च भवेत् सुतलब्धिः । ७०।७य्(७१।१२इ) रत्नयुतिं कथयन्ति च पौष्णे ७०।७द्(७१।१२द्) योऽभिनवांबरमिच्छति भोक्तुम् ॥ ॥ ७१।१३अब्/ विप्रमतादथ भूपतिदत्तं यग विवाहविधावभिलब्धम् । ७१।१३य्द्/ तेषु गुणै रहितेष्वपि भोक्तुं नूतनमंबरमिष्टफलं स्यात् ॥॥ ७०।८अब्(७१।१४अब्)/ भोक्तुं नवांबरं शस्तम् ऋक्षेऽपि गुणवर्जिते । ७०।८य्द्(७१।१४य्द्)/ विवाहे राजसम्माने ब्रह्मणाणां च सम्मते ॥ ॥ ७०।९अब्(७१।१अब्)/ वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये । ७०।९य्द्(७१।१य्द्)/ शेषाः त्रयश्चात्र निशाचरांशाः तथैव शय्यासनपादुकासु ॥ ॥ ७०।१०अब्(७१।२अब्)/ लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् । ७०।१०य्द्(७१।२य्द्)/ पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीये ॥ ॥ ७०।११अब्(७१।३अब्)/ रुग्राक्षसांशेस्वथवाऽपि मृत्युः पुञ्जन्मतेजश्च मनुष्यभागे । ७०।११य्द्(७१।३य्द्)/ भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥ ॥ ७०।१२अब्(७१।४अब्)/ कंकप्लवौलूककपोतकाकक्रव्यादगोमायुखरौष्ट्रसर्पैः । ७०।१२य्द्(७१।४य्द्)/ छेदाकृतिः दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥ ॥ ७०।१३अब्(७१।५अब्)/ छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुंभांबुजतोरणाद्यैः । ७०।१३य्द्(७१।५य्द्)/ छेदाकृतिः नैरृतभागगा अपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥ ॥ sएपरते अध्याय ७१ चामरलक्षणाध्यायः ७१।१अ देवैश्चमर्यः किल वालहेतोः ७१।१ब् सृष्टा हिमक्ष्माधरकन्दरेषु । ७१।१य् आपीतवर्णाश्च भवन्ति तासां ७१।१द् कृष्णाश्च लांगूलभवाः सिताश्च ॥ ॥ ७१।२अ स्नेहो मृदुत्वं बहुव्लता (लता च) ७१।२ब् वैशद्यमल्पास्थिनिबन्धनत्वम् । ७१।२य् शौक्ल्यं च तासां (तेषां) गुणसम्पदुक्ता ७१।२द् विद्धाल्पलुप्तानि न शोभनानि ॥ ॥ ७१।३अ अध्यर्धहस्तप्रमितोऽस्य दण्डो ७१।३ब् हस्तोऽथवा अरत्निसमोऽथवा अन्यः । ७१।३य् काष्ठात्शुभात् कांचनरूप्यगुप्ताद् ७१।३द् रत्नैश्च सर्वैः (विचित्रैः) च हिताय राज्ञाम् ॥ ॥ ७१।४अब्/ यष्ट्यातपत्रांकुशवेत्रचापवितानकुन्तध्वजचामराणाम् । ७१।४य्द्/ व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥ ॥ ७१।५अ मातृभूधनकुलक्षयावहा ७१।५ब् रोगमृत्युजननाश्च पर्वभिः । ७१।५य् द्व्यादिभिः द्विकविवर्धितैः क्रमात् ७१।५द् द्वादशान्तविरतैः समैः फलम् ॥ ॥ ७१।६अ यात्राप्रसिद्धिः द्विषतां विनाशो ७१।६ब् लाभाः प्रभूता (प्रभूतो) वसुध्पमः (गमः) च । ७१।६य् व्र्द्धिः पशूनामभिवंछिताप्तिः ७१।६द् त्र्याद्येष्वयुग्मेषु तदीश्वराणाम् ॥ ॥ sएपरते अध्याय ७२ छत्रलक्षणाध्यायः ७२।१अब्/ निचितं तु (नु) हंसपक्षैः कृकवाकुमयूरसारसानां वा । ७२।१य्द्/ दौकूल्येन (दौकूलेन) नवेन तु समन्ततश्छादितं शुक्लम् ॥ ॥ ७२।२अब्/ मुक्ताफलैरुपचितं प्रलंबमालाविलं स्फटिकमूलम् । ७२।२य्द्/ षड्ढस्तशुद्धहैमं नवपर्वनगैकदण्डं तु ॥ ॥ ७२।३अब्/ दण्डार्धविस्तृतं तत् समावृतं रत्नभूषितं (रत्नविभूषितम्, रत्नभूषितं) उदग्रम् । ७२।३य्द्/ नृपतेः तदातपत्रं कल्याणपरं विजयदं च ॥ ॥ ७२।४अब्/ युवराजनृपतिपत्न्योः सेनापतिदण्डनायकानां च । ७२।४य्द्/ दण्डोऽर्धपंचहस्तः समपंचकृतोऽर्ध (कृतार्ध) विस्तारः ॥ ॥ ७२।५अब्/ अन्येषामुष्णघ्नं प्रसादपट्टैः विभूषितशिरस्कम् । ७२।५य्द्/ व्यालंबिरत्नमालं छत्रं कार्यं तु (च) मायूरम् ॥ ॥ ७२।६अब्/ अन्येषां तु नराणां शीतातपवारणं तु चतुरस्रं (चतुरश्रं) । ७२।६य्द्/ समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम् ॥ ॥ sएपरते अध्याय ७३ स्त्रीप्रशंसाध्यायः ७३।१अ जये धरित्र्याः पुरमेव सारं ७३।१ब् पुरे गृहं सद्मनि चएकदेशः । ७३।१य् तत्रापि शय्या शयने वरा स्त्री ७३।१द् रत्नोज्ज्वला राज्यसुखस्य सारः ॥ ॥ ७३।२अब्/ रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या । ७३।२य्द्/ चेतो विनता हरनि अरत्ना नो रत्नानि विनांगनांगसंगं (संगात्) ॥ ॥ ७३।३अ आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां ७३।३ब् तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम् । ७३।३य् मन्त्रिप्रोक्तनिषेविणां (निसेविणाम्, निषेविनां) क्षितिभुजामाशंकिनां सर्वतो ७३।३द् धुःखांभोनिधिवर्तिनां सुखलवः कान्तासमालिंगनम् ॥ ॥ ७३।४अ श्रुतं दृष्टं स्पृष्तं स्मृतमपि नृणां ह्लादजननं ७३।४ब् न रत्नं स्त्रीभ्योऽन्यत् क्वचिदपि कृतं लोकपतिना । ७३।४य् तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो ७३।४द् गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ॥ ७३।५अ येऽपि अंगनानां प्रवदन्ति दोषान् ७३।५ब् वैराग्यमार्गेण गुणान् विहाय । ७३।५य् ते दुर्जना मे मनसो वितर्कः ७३।५द् सद्भाववाक्यानि न तानि तेषाम् ॥ ॥ ७३।६अ प्रब्रूत सत्यं करतो अंगनानां ७३।६ब् दोषोऽस्ति यो नाचरितो मनुष्यैः । ७३।६य् धार्ष्ट्येन पुंभिः प्रमदा निरस्ता ७३।६द् गुणाधिकाः ता मनुनात्र चोक्तम् ॥ ॥ ७३।७अब्/ सोमः तासामदात्शौचं गन्धर्वः (गन्धर्वाः) शिक्षितां गिरम् । ७३।७य्द्/ अग्निश्च सर्वभक्षित्वं तस्मान् निष्कसमाः स्त्रियः ॥ ॥ ७३।८अब्/ ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः । ७३।८य्द्/ अजाश्वा मुखतो मेध्याः स्त्रियो मेध्याश्तु सर्वतः ॥ ॥ ७३।९अब्/ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । ७३।९य्द्/ मासि मासि रजो ह्यासां दुष्कृतानि अपकर्षति ॥ ॥ ७३।१०अब्/ जामयो यान्ति गेहानि शपन्त्यप्रतिपूजिताः । ७३।१०य्द्/ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ॥ ७३।११अब्/ जाया वा स्याज्जनित्री वा संभवः स्त्रीकृतो नृणाम् । ७३।११य्द्/ हे कृतघ्नाश्तयोः निन्दां कुर्वतां वः कुतः शुभम् ॥ ॥ ७३।१२अब्/ दंपत्योः व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः । ७३।१२य्द्/ नरा न समवेक्षन्ते तेनात्र वरमंगनाः ॥ ॥ ७३।१३अब्/ बहिः लोम्ना तु षण्मासान् वेष्टितः खरचर्मणा । ७३।१३य्द्/ दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति ॥ ॥ ७३।१४अब्/ न शतेनापि वर्षाणामपैति मदनाशयः । ७३।१४य्द्/ तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः ॥ ॥ ७३।१५अब्/ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः । ७३।१५य्द्/ मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥ ॥ ७३।१६अ पुरुषश्चटुलानि कामिनीनां ७३।१६ब् कुरुते यानि रहो न तानि पश्चात् । ७३।१६य् सुकृतज्ञतया अंगना गतासून् ७३।१६द् अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥ ॥ ७३।१७अ स्त्रीरत्नभोगोऽस्ति नरस्य यस्य ७३।१७ब् निःस्वोऽपि सांप्रत्यवनीस्वरो (स्वं प्रत्यवनीस्वरो, मां प्रत्यव) ऽसौ । ७३।१७य् राज्यस्य सारोऽशनमंगनाश्च ७३।१७द् तृष्णानलोद्दीपनदारु शेषम् ॥ ॥ ७३।१८अ कामिनीं प्रथमयौवनान्वितां ७३।१८ब् मन्दवल्गुमृदुपीडितस्वनाम् । ७३।१८य् उत्स्तनीं समवलंब्य या रतिः ७३।१८द् सा न धातृभवनेऽस्ति मे मतिः ॥ ॥ ७३।१९अ तत्र देवमुनिसिद्धचारणैः ७३।१९ब् मान्यमानपितृसेव्यसेवनात् । ७३।१९य् ब्रूत धातृभवनेऽस्ति किं सुखं ७३।१९द् यद् रहः समवलंब्य न स्त्रियम् ॥ ॥ ७३।२०अ आब्रह्मकीटान्तमिदं निबद्धं ७३।२०ब् पुंस्त्रीप्रयोगेण जगत् समस्तम् । ७३।२०य् व्रीडा अत्र का यत्र चतुर्मुखत्वम् ७३।२०द् ईशोऽपि लोभाद् गमितो युवत्याः ॥ ॥ sएपरते अध्याय ७४ सौभाग्यकरणाध्यायः ७४।१अ जात्यं मनोभवसुखं सुभगस्य सर्वम् ७४।१ब् आभासमात्रमितरस्य मनोवियोगात् । ७४।१य् चित्तेन भावयति दूरगता अपि यं स्त्री ७४।१द् गर्भं बिभर्ति सदृशं पुरुषस्य तस्य ॥ ॥ ७४।२अ भंक्त्वा काण्डं पादपस्यौप्तमुर्व्यां ७४।२ब् बीजं वास्यां नान्यतामेति यद्वत् । ७४।२य् एवं ह्यात्मा जायते स्त्रीषु भूयः ७४।२द् कश्चित् तस्मिन् क्षेत्रयोगाद् विशेषः ॥ ॥ ७४।३अ आत्मा सहैति मनसा मन इन्द्रियेण ७४।३ब् स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । ७४।३य् योगोऽयमेव मनसः किमगम्यमस्ति ७४।३द् यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥ ॥ ७४।४अ आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ७४।४ब् ग्राह्योऽचलेन मनसा सतताभियोगात् । ७४।४य् यो यं विचिन्तयति याति स तन्मयत्वं ७४।४द् यस्मादतः सुभगमेव गता युवत्यः ॥ ॥ ७४।५अब्/ दाक्षिण्यमेकं सुभगत्वहेतुः विद्वेषणं तद्विपरीतचेष्टा । ७४।५य्द्/ मन्त्रौषधाद्यैः कुहकप्रयोगैः भवन्ति दोषा बहवो न शर्म ॥ ॥ ७४।६अब्/ वाल्लभ्यमायाति विहाय मानं दौर्भाग्यमापादयतेऽभिमानः । ७४।६य्द्/ कृच्छ्रेण संसाधयतेऽभिमानी कार्याणि अयत्नेन वदन् प्रियाणि ॥ ॥ ७४।७अब्/ तेजो न तद् यत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् । ७४।७य्द्/ कार्यस्य गत्वान्तमनुद्धता ये तेजस्विनः ते न विकत्थना ये ॥ ॥ ७४।८अब्/ यः सार्वजन्यं सुभगत्वमिच्छेद् गुणान् स सर्वस्य वदेत् परोक्षं (परोक्षे) । ७४।८य्द्/ प्राप्नोति दोषान् असतोऽपि अनेकान् परस्य यो दोषकथां करोति ॥ ॥ ७४।९अब्/ सर्वौपकारानुगतस्य लोकः सर्वौपकारानुगतो नरस्य । ७४।९य्द्/ कृत्वा उपकारं द्विषतां विपत्सुया कीर्तिः अल्प्नेन न सा शुभेन ॥ ॥ ७४।१०अब्/ तृणैः इवाग्निः सुतरां विवृद्धिमाछाद्यमानोऽपि गुणोऽभ्युपैति । ७४।१०य्द्/ स केवलं दुर्जनभावमेति हन्तुं गुणान् वांछति यः परस्य ॥ ॥ sएपरते अध्याय ७५ कान्दर्किकाध्यायः ७५।१अब्/ रक्तेऽधिके स्त्री पुरुषः तु शुक्रे नपुंसकं शोणितशुक्रसाम्ये । ७५।१य्द्/ यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि ॥ ॥ ७५।२अब्/ हर्म्यपृष्ठमुडुनाथरश्मयः सौत्पलं मधु मदालसा प्रिया । ७५।२य्द्/ वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा ॥ ॥ ७५।३अ माक्षीकधातुमधुपारदलोहचूर्ण- ७५।३ब् पथ्याशिल्जतुघृतानि समानि (जतुविडग्गघृतानि) योऽद्यात् । ७५।३य् सैकानि विंशतिः अहानि जरान्वितोऽपि ७५।३द् सोऽशीतिकोऽपि रमयत्यव्बलां युवा इव ॥ ॥ ७५।४अ क्षीरं श‍ृतं यः कपिकच्छुमूलैः ७५।४ब् पिबेत् क्षयं स्त्रीषु न सोऽभ्युपैति । ७५।४य् माषान् पयःसर्पिषि वा विपक्वान् ७५।४द् षड्ग्रासमात्रांश्च पयोऽनुपानं (अनुपानान्) ॥ ॥ ७५।५अब्/ विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुः भावितशोषितं च । ७५।५य्द्/ श‍ृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः ॥ ॥ ७५।६अ धात्रीफलानां स्वरसेन चूर्णं ७५।६ब् सुभावितं क्षौद्रसिताज्ययुक्तम् । ७५।६य् लीढ्वानु पीत्वा च पयोऽग्निशक्त्या ७५।६द् कामं निकामं पुरुषो निषेवेत् ॥ ॥ ७५।७अ क्षीरेण बस्ताण्डयुजा श‍ृतेन ७५।७ब् सम्प्लाव्य कामी बहुशस्तिलान् यः । ७५।७य् सुशोषितान् अत्ति पयः पिबेच् (पिबेत् पयः) च ७५।७द् तस्याग्रतः किं चटकः करोति ॥ ॥ ७५।८अब्/ माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः । ७५।८य्द्/ क्षीरमपि अनु पिबन्ति तासु ते शर्वरीषु मदनेन (मदने न) शेरते ॥ ॥ ७५।९अ तिलाश्वगन्धाकपिच्छुमूलैः ७५।९ब् विदारिकाषष्टिकपिष्टयोगः । ७५।९य् आजेन पिष्टः पयसा घृतेन ७५।९द् पक्वं (पक्त्वा) भवेत्शुष्कलिकातिवृष्या ॥ ॥ ७५।१०अ क्षीरेण वा गोक्षुरकौपयोगं ७५।१०ब् विदारिकाकन्दकभक्षणं वा । ७५।१०य् कुर्वन् न सीदेद् यदि जीर्यतेऽस्य ७५।१०द् मन्दाग्निता चेदिदमत्र चूर्णम् ॥ ॥ ७५।११अब्/ साजमोदलवणा हरीतकी श‍ृंगवेरसहिता च पिप्पली । ७५।११य्द्/ मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥ ॥ ७५।१२अ अत्यम्लतिक्तलवणानि कटूनि वाऽत्ति ७५।१२ब् यः क्षारशाकबहुलानि (क्षारशाकबहुलानि) च भोजनानि । ७५।१२य् दृक्षुक्रवीर्यरहितः स करोत्यनेकान् ७५।१२द् व्याजान् जरन्न् इव युवाऽपि अबलामवाप्य ॥ ॥ sएपरते अध्याय ७६ गन्धयुक्त्य्ः ७६।१अब्/ स्रग्गन्धधूपांबरभूषणाद्यं न शोभते शुक्लशिरोरुहस्य । ७६।१य्द्/ यस्मादतो मूर्धजरागसेवां कुर्याद् यथैवाञ्जनभूषणानाम् ॥ ॥ ७६।२अ लौहे पात्रे तण्डुलान् कोद्रवाणां ७६।२ब् शुक्ले पक्वांल्लोहचूर्णेन साकम् । ७६।२य् पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे ७६।२द् दत्वा (दत्त्वा) तिष्ठेद् वेष्टयित्वा अर्द्र (अर्क) पत्रैः ॥ ॥ ७६।३अ याते द्वितीये प्रहरे विहाय ७६।३ब् दद्यात्शिरस्यामलकप्रलेपम् । ७६।३य् संछाद्य पत्रैः प्रहरद्वयेन ७६।३द् प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् ॥ ॥ ७६।४अ पश्चात्शिरः स्नानसुगन्धतैलैः ७६।४ब् लोहाम्लगन्धं शिरसोऽपनीय । ७६।४य् हृदयैश्च गन्धैः विविधैश्च धूपैः ७६।४द् अन्तःपुरे राज्यसुखं निषेवेत् ॥ ॥ ७६।५अब्/ त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैः तुल्यैः । ७६।५य्द्/ केसरपत्रविमिश्रैः नरपतियोग्यं शिरःस्नानम् ॥ ॥ ७६।६अब्/ मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः । ७६।६य्द्/ तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चंपकगन्धि तैलम् ॥ ॥ ७६।७अ तुल्यैः पत्रतुरुष्कबालतगरैः गन्धः स्मरोद्दीपनः ७६।७ब् सव्यामो बकुलोऽयमेव कटुकाहिंगुप्रधूपान्वितः । ७६।७य् कुष्ठेनौत्पलगन्धिकः समलयः पूर्वो भवेगंपको ७६।७द् जातीत्वक्सहितोऽतिमुक्तक इति ज्ञेयः सकुस्तुंबुरुः ॥ ॥ ७६।८अब्/ शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुष्कौ च । ७६।८य्द्/ मलयप्रियंगुभागौ गन्धो धूप्यो गुडनखेन ॥ ॥ ७६।९अब्/ गुग्गुलुबालक (वालक) लाक्षामुस्तानखशर्कराः क्रमाद् धूपः । ७६।९य्द्/ अन्यो मांसीबालक (वालक) तुष्कनखचन्दनैः पिण्डः ॥ ॥ ७६।१०अ हरीतकीशंखघनद्रवांबुभिः ७६।१०ब् गुडोत्पलैः शैलकमुस्तकान्वितैः । ७६।१०य् नवान्तपादादिविवर्धितैः क्रमाद् ७६।१०द् भवन्ति धूपा बहवो मनोहराः ॥ ॥ ७६।११अ भागैश्चतुर्भिः सितशैलमुस्ताः ७६।११ब् श्रीसर्जभागौ नखगुग्गुलू च । ७६।११य् कर्पूरबोधो मधुपिण्डितोऽयं ७६।११द् कोपच्छदो नाम नरेन्द्रधूपः ॥ ॥ ७६।१२अब्/ त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः । ७६।१२य्द्/ पुटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥ ॥ ७६।१३अब्/ घनबालकशैलेयककर्पूरौशीरनागपुष्पाणि । ७६।१३य्द्/ व्याघ्रनखस्पृक्कागुरुदमनक (मदनक)नखतगरधान्यानि ॥ ॥ ७६।१४अब्/ कर्पूरचोल (चोर) मलयैः स्वेच्छापरिवर्तितैश्चतुर्भिः अतः । ७६।१४य्द्/ एकद्वित्रिचतुर्भिः भागैः गन्धार्णवो भवति ॥ ॥ ७६।१५अब्/ अत्युल्बणगन्धत्वादेकांशो नित्यमेव धान्यानाम् । ७६।१५य्द्/ कर्पूरस्य तदूनो नैतौ द्वित्रिआदिभिः देयौ ॥ ॥ ७६।१६अब्/ श्रीसर्जगुडनखैः ते धूपयितव्याः क्रमान् न पिण्डस्थैः । ७६।१६य्द्/ बोधः कस्तूरिकया देयः कर्पूरसंयुतया ॥ ॥ ७६।१७अब्/ अत्र सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि । ७६।१७य्द्/ लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम् ॥ ॥ ७६।१८अब्/ एकैकमेकभागं द्वित्रिचतुर्भागिकैः युतं द्रव्यैः । ७६।१८य्द्/ षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकं कुरुते ॥ ॥ ७६।१९अब्/ द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिः यथैकस्य । ७६।१९य्द्/ एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र ॥ ॥ ७६।२०अब्/ षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् । ७६।२०य्द्/ अष्टादश जायन्ते शतानि सहितानि विंशत्या ॥ ॥ ७६।२१अब्/ षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतः तस्मात् । ७६।२१य्द्/ षण्णनवतिगुणः कार्यः सा संख्या भवति गन्धानाम् ॥ ॥ ७६।२२अ पूर्वेण पूर्वेण गतेन युक्तं ७६।२२ब् स्थानं विनान्त्यं प्रवदन्ति संख्याम् । ७६।२२य् इच्छाविकल्पैः क्रमशोऽभिनीय ७६।२२द् नीते निवृत्तिः पुनः अन्यनीतिः ॥ ॥ ७६।२३अब्/ द्वित्रीन्द्रियाष्टभागैः अगुरुः पत्रं तुरुष्कशैलेयौ ७६।२३य्द्/ विषयाष्टपक्षदहनाः प्रियंगुमुस्तारसाः केशः ॥ ॥ ७६।२४अब्/ स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः । ७६।२४य्द्/ सप्तऋतुवेदचन्द्रैः मलयनखश्रीककुन्दुरुकाः ॥ ॥ ७६।२५अब्/ षोडशके कच्छपुटे यथा तथा मिश्रिते चतुर्द्रव्ये (मिश्रितैश्चतुर्द्रव्यैः) । ७६।२५य्द्/ येऽत्राष्टादश भागाः तेऽस्मिन् गन्धादयो योगाः ॥ ॥ ७६।२६अब्/ नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतौद्बोधाः । ७६।२६य्द्/ गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ॥ ॥ ७६।२७अब्/ जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः । ७६।२७य्द्/ बहवोऽत्र पारिजाताश्चतुर्भिः इच्छापरिगृहीतैः ॥ ॥ ७६।२८अब्/ सर्जरसश्रीवासकसमन्विता येऽत्र सर्वधूपाः (सर्वयोगाः) तैः । ७६।२८य्द्/ श्रीसर्जरसवियुक्तैः स्नानानि सबालक (सवालक) त्वग्भिः ॥ ॥ ७६।२९अब्/ रोध्रौशीरनतागुरुमुस्तापत्र (मुस्ता) प्रियंगुवनपथ्याः । ७६।२९य्द्/ नवकोष्ठात् कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ॥ ॥ ७६।३०अब्/ चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा । ७६।३०य्द्/ कटुहिंगुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ॥ ॥ ७६।३१अब्/ सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा । ७६।३१य्द्/ गन्धोदके च भूयो विनिक्षिपेद् दन्तकाष्ठानि ॥ ॥ ७६।३२अब्/ एलात्वक्पत्राञ्जनमधुमरिचैः नागपुष्पकुष्ठैश्च । ७६।३२य्द्/ गन्धांभः कर्तव्यं किंचित् कालं स्थितानि अस्मिन् ॥ ॥ ७६।३३अब्/ जातीफलपत्रैलाकर्पूरैः कृतयमएकशिखिभागैः । ७६।३३य्द्/ अवचूर्नितानि भानोः मरीचिभिः शोषणीयानि ॥ ॥ ७६।३४अ वर्णप्रसादं वदनस्य कान्तिं ७६।३४ब् वैशद्यमास्यस्य सुगन्धितां च । ७६।३४य् संसेवितुः श्रोत्रसुखां च वाचं ७६।३४द् कुर्वन्ति काष्ठानि असकृद्भवानाम् ॥ ॥ ७६।३५अ कामं प्रदीपयति रूपमभिव्यनक्ति ७६।३५ब् सौभाग्यमावहति वक्त्रसुगन्धितां च । ७६।३५य् ऊर्जं करोति कफजांश्च निहन्ति रोगां ७६।३५द् तांबूलमेवमपरांश्च गुणान् करोति ॥ ॥ ७६।३६अ युक्तेन चूर्णेन करोति रागं ७६।३६ब् रागक्षयं पूगफलातिरिक्तम् । ७६।३६य् चूर्णाधिकं वक्त्रविगन्धकारि ७६।३६द् पत्राधिकं साधु करोति गन्धम् ॥ ॥ ७६।३७अ पत्राधिकं निशि हितंसफलं दिवा च ७६।३७ब् प्रोक्तानि अथाकरणमस्य विडंबनैव ७६।३७य् कक्कोलपूगलवलीफलपारिजातैः ७६।३७द् आमोदितं मदमुदा मुदितं करोति ॥ ॥ sएपरते अध्याय ७७ स्त्रीपुंससमायोगाध्यायः ७७।१अब्/ शस्त्रेन वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान । ७७।१य्द्/ विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥ ॥ ७७।२अ एवं विरक्ता जनयन्ति दोषान् ७७।२ब् प्राणच्छिदोऽन्यैः अनुकीर्तितैः किम् । ७७।२य् रक्ताविरक्ताः पुरुषैः अतोऽर्थात् ७७।२द् परीक्षितव्याः प्रमदाः प्रयत्नात् ॥ ॥ ७७।३अ स्नेहं मनोभवकृतं कथयन्ति भावा ७७।३ब् नाभीभुजस्तनविभूषणदर्शनानि । ७७।३य् वस्त्राभिसंयमनकेशविमोक्षणानि ७७।३द् भ्रूक्षेपकंपितकटाक्षनिरीक्षणानि ॥ ॥ ७७।४अ उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं ७७।४ब् गात्रास्फोटनजृंभणानि सुलभद्रव्याल्पसम्प्रार्थना । ७७।४य् बालालिंगनचुंबनानि अभिमुखे सख्याः समालोकनं ७७।४द् दृक्पातश्च परान्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥ ॥ ७७।५अ इमां च विन्द्यादनुरक्तचेष्टां ७७।५ब् प्रियाणि वक्ति स्वधनं ददाति । ७७।५य् विलोक्य संहृष्यति वीतरोषा ७७।५द् प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥ ॥ ७७।६अ तन्मित्रपूजा तदरिद्विषत्वं ७७।६ब् कृतस्मृतिः प्रोषितदौर्मनस्यम् । ७७।६य् स्तनौष्ठदानानि उपगूहनं च । ७७।६द् स्वेदोऽथ चुंबाप्रथमाभियोगः ॥ ॥ ७७।७अ विरक्तचेष्टा भ्रुकुटी (भृकुटी) मुखत्वं ७७।७ब् परान्मुखत्वं कृतविस्मृतिश्च । ७७।७य् असंभ्रमो दुष्परितोषता च ७७।७द् तद्द्विष्टमैत्री परुषं च वाक्यम् ॥ ॥ ७७।८अ स्पृष्ट्वा अथवालोक्य धुनोति गात्रं ७७।८ब् करोति गर्वं न रुणद्धि यान्तम् । ७७।८य् चुंबाविरामे वदनं प्रमार्ष्टि ७७।८द् पश्चात् समुत्तिष्ठति पूर्वसुप्ता ॥ ॥ ७७।९अब्/ भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका । ७७।९य्द्/ मालाकारी दुष्टांगना सखी नापिती दूत्यः ॥ ॥ ७७।१०अब्/ कुलजनविनाशहेतुः दूत्यो यस्मादतः प्रयत्नेन । ७७।१०य्द्/ ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ॥ ॥ ७७।११अब्/ रात्रीविहारजागररोगव्यपदेशपरगृहेक्षणिकाः । ७७।११य्द्/ व्यसनौत्सवाश्च संकेतहेतवः तेषु रक्ष्याश्च ॥ ॥ ७७।१२अ आदौ नैच्छति नौज्झति स्मरकथां व्रीडाविमिश्रालसा ७७।१२ब् मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना । ७७।१२य् भावैः नैकविधैः करोत्यभिनयं भूयश्च या सादरा ७७।१२द् बुद्ध्वा पुंप्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः ॥ ॥ ७७।१३अ स्त्रीणां गुणा यौवनरूपवेष- ७७।१३ब् दाक्षिण्यविज्ञानविलासपूर्वाः । ७७।१३य् स्त्री रत्नसंज्ञा च गुणान्वितासु ७७।१३द् स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः ॥ ॥ ७७।१४अ न ग्राम्यवर्णैः मलदिग्धकाया ७७।१४ब् निन्द्यांगसंबन्धिकथां च कुर्यात् । ७७।१४य् न चान्यकार्यस्मरणं रहःस्था ७७।१४द् मनो हि मूलं हरदग्धमूर्तेः ॥ ॥ ७७।१५अब्/ श्वासं मनुष्येण समं त्यजन्ती बाहूपधानस्तनदानदक्षा । ७७।१५य्द्/ सुगन्धकेशा सुसमीपरागा सुप्तेऽनुसुप्ता प्रथमं विबुद्धा ॥ ॥ ७७।१६अब्/ दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः । ७७।१६य्द्/ यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः ॥ ॥ ७७।१७अब्/ या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरक्ता (अतिरिक्ता) । ७७।१७य्द्/ महाशना स्वेदयुतांगदुष्ठा या ह्रस्वकेशी पलितान्विता वा (च) ॥ ॥ ७७।१८अ मांसानि यस्याश्च चलन्ति नार्या ७७।१८ब् महोदरा खिक्खिमिनी च या स्यात् ॥ ॥ ७७।१८य् स्त्रीलक्षणे याः कथिताश्च पापाः ७७।१८द् ताभिः न कुर्यात् सह कामधर्मम् ॥ ॥ ७७।१९अब्/ शशशोणितसंकाशं लाक्षारससन्निकाशमथवा यत् । ७७।१९य्द्/ प्रक्षालितं विरज्यति यगासृक् तद्भवेत्शुद्धम् ॥ ॥ ७७।२०अब्/ यच्छब्दवेदनावर्जितं त्र्यहात् सन्निवर्तते रक्तम् । ७७।२०य्द्/ तत्पुरुषसम्प्रयोगादविचारं गर्भतां याति ॥ ॥ ७७।२१अब्/ न दिनत्रयं निषेव्यं (निषेवेत्) स्नानं माल्यानुलेपनं स्त्रीभिः (च स्त्री) । ७७।२१य्द्/ स्नायागतुर्थदिवसे शास्त्रौक्तेनौपदेशेन ॥ ॥ ७७।२२अब्/ पुष्यस्नानौषधयो याः कथिताः ताभिः अंबुमिश्राभिः । ७७।२२य्द्/ स्नायात् तथात्र मन्त्रः स एव यः तत्र निर्दिष्टः ॥ ॥ ७७।२३अब्/ युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु । ७७।२३य्द्/ दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु ॥ ॥ ७७।२४अब्/ दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ ॥ ॥ ७७।२४य्द्/ यदुदरमध्यौपगतं नपुंसकं तन्निबोद्धव्यम् ॥ ॥ ७७।२५अ केन्द्रत्रिकोणेषु शुभस्थितेषु ७७।२५ब् लग्ने शशांके च शुभैः समेते । ७७।२५य् पापैः त्रिलाभारिगतैश्च यायात् ७७।२५द् पुंजन्मयोगेषु च सम्प्रयोगम् ॥ ॥ ७७।२६अ न नखदशनविक्षतानि कुर्याद् ७७।२६ब् ऋतुसमये पुरुषः स्त्रियाः कथंचित् । ७७।२६य् ऋतुः अपि दश षट् च वासराणि ७७।२६द् प्रथमनिशात्रितयं न तत्र गम्यम् ॥ ॥ sएपरते अध्याय ७८ शय्यासनलक्षणाध्यायः ७८।१अब्/ सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रमिदम् । ७८।१य्द्/ राज्ञां विशेषतोऽतः शयनासनलक्षणं वक्ष्ये ॥ ॥ ७८।२अब्/ असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः । ७८।२य्द्/ काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः ॥ ॥ ७८।३अब्/ अशनिजलानिलहस्तिप्रपातिता मधुविहंगकृतनिलयाः । ७८।३य्द्/ चैत्यश्मशानपथिज ऊर्ध्वशुष्कवल्लीनिबद्धाश्च ॥ ॥ ७८।४अब्/ कण्टकिनो ये च (वा ये) स्युः महानदीसंगमौद्भवा ये च । ७८।४य्द्/ सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः ॥ ॥ ७८।५अब्/ प्रतिषिद्धवृक्षनिर्मितशयनासनसेवनात् कुलविनाशः । ७८।५य्द्/ व्याधिभयव्ययकलहा भवन्त्यनर्था (अनर्थाश्च) अनेकविधाः ॥ ॥ ७८।६अब्/ पूर्वच्छिन्नं यदि वा दारु भवेत् तत्परीक्ष्यमारंभे । ७८।६य्द्/ यद्यारोहेत् तस्मिन् कुमारकः पुत्रपशुदं तत् ॥ ॥ ७८।७अब्/ सितकुसुममत्तवारणदध्यक्षतपूर्णकुंभरत्नानि । ७८।७य्द्/ मंगल्यानि अन्यानि च दृष्ट्वारंभे शुभं ज्ञेयम् ॥ ॥ ७८।८अब्/ कर्मांगुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । ७८।८य्द्/ अंगुलशतं नृपाणां महती शय्या जयाय कृता ॥ ॥ ७८।९अब्/ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च । ७८।९य्द्/ नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युः यथासंख्यम् ॥ ॥ ७८।१०अब्/ अर्धमतोऽष्टांशोनं विष्कंभो विश्वकर्मणा प्रोक्तः । ७८।१०य्द्/ आयामत्र्यंशसमः पादौच्छ्रायः सकुक्ष्य (सकुक्षि) शिराः ॥ ॥ ७८।११अब्/ यः सर्वः श्रीपर्ण्या पर्यंको निर्मितः स धनदाता । ७८।११य्द्/ असनकृतो रोगहरः तिन्दुकसारेण वित्तकरः ॥ ॥ ७८।१२अब्/ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । ७८।१२य्द्/ चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ॥ ७८।१३अब्/ यः पद्मकपर्यंकः स दीर्घमायुः श्रियं श्रुतं वित्तम् । ७८।१३य्द्/ कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥ ॥ ७८।१४अब्/ केवलचन्दनरचितं कांचनगुप्तं विचित्ररत्नयुतम् । ७८।१४य्द्/ अध्यासन् पर्यंकं विबुधैः अपि पूज्यते नृपतिः ॥ ॥ ७८।१५अब्/ अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा । ७८।१५य्द्/ न श्रीपर्णेन (श्रीपर्णी न) च देवदारुवृक्षो न चाप्यसनः ॥ ॥ ७८।१६अब्/ शुभदौ तु शालशाकौ (शाकशालौ) परस्परं संयुतौ पृथक् चैव । ७८।१६य्द्/ तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदंबौ ॥ ॥ ७८।१७अब्/ सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति चांबकृतः । ७८।१७य्द्/ असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ॥ ॥ ७८।१८अब्/ अंबस्पन्दनचन्दनवृक्षाणां स्पन्दनात्शुभाः पादाः । ७८।१८य्द्/ फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥ ॥ ७८।१९अब्/ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे । ७८।१९य्द्/ कार्योऽलंकारविधिः गजदन्तेन प्रशस्तेन ॥ ॥ ७८।२०अब्/ दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् । ७८।२०य्द्/ अधिकमनूपचराणां न्यूनं गिरिचारिणां किंचित् ॥ ॥ ७८।२१अब्/ श्रीवृक्ष (वत्स) वर्धमानच्छत्रध्वजचामरानुरूपेषु । ७८।२१य्द्/ छेदे दृष्टेष्वारोग्य (अरोग्य) विजयधनवृद्धिसौख्यानि ॥ ॥ ७८।२२अब्/ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः । ७८।२२य्द्/ लोष्ठे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ॥ ॥ ७८।२३अब्/ स्त्रीरूपे धननाशो (स्वविनाशो) भृंगारेऽभ्युत्थिते सुतौत्पत्तिः । ७८।२३य्द्/ कुंभेन निधिप्राप्तिः यात्राविघ्नं च दण्डेन ॥ ॥ ७८।२४अब्/ कृकलासकपिभुजंगेष्वसुभिक्षव्याधयो रिपुवशित्वं (वशत्वं) । ७८।२४य्द्/ गृध्रौलूकध्वांक्षश्येनाकारेषु जनमरकः ॥ ॥ ७८।२५अब्/ पाशेऽथवा कबन्धे नृपमृत्युः जनविपत् स्रुते रक्ते । ७८।२५य्द्/ कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥ ॥ ७८।२६अब्/ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेघेदः । ७८।२६य्द्/ अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ॥ ॥ ७८।२७अब्/ ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः । ७८।२७य्द्/ अपसव्यैकदिगग्रे भवति भयं भूतसञ्जनितम् ॥ ॥ ७८।२८अब्/ एकेनावाक्षिरसा (एकेनावाक्च्छिरसा) भवति हि पादेन पादवैकल्यम् । ७८।२८य्द्/ द्वाभ्यां न जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशवधबन्धाः ॥ ॥ ७८।२९अब्/ सुषिरेऽथवा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः । ७८।२९य्द्/ पादे कुंभो यश्च ग्रन्थौ तस्मिन् उदररोगः ॥ ॥ ७८।३०अब्/ कुंभाधस्ताज्जंघा तत्र कृतो जंघयोः करोति भयम् । ७८।३०य्द्/ तस्याश्चाधरोऽधः क्षयकृद् द्रव्यस्य तत्र कृतः ॥ ॥ ७८।३१अब्/ खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः । ७८।३१य्द्/ ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन् न शुभः ॥ ॥ ७८।३२अब्/ निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च । ७८।३२य्द्/ कालकमन्यद् धुन्धुकमिति कथितश्छिद्रसंक्षेपः ॥ ॥ ७८।३३अब्/ घटवत् सुशिरं मध्ये संकटमास्ये च निष्कुटं छिद्रम् । ७८।३३य्द्/ निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ॥ ॥ ७८।३४अब्/ सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घम् च । ७८।३४य्द्/ वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम् ॥ ॥ ७८।३५अब्/ कालकसंज्ञं कृष्णं धुन्धुकमिति यद् भवेद् विनिर्भिन्नम् । ७८।३५य्द्/ दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ॥ ॥ ७८।३६अब्/ निष्कुटसण्ज्ञे द्रव्यक्षयः तु कोलेक्षणे कुलध्वंसः । ७८।३६य्द्/ शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ॥ ॥ ७८।३७अब्/ कालकधुन्धुकसंज्ञं कीटैः विद्धं च न शुभदं छिद्रम् । ७८।३७य्द्/ सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ॥ ॥ ७८।३८अब्/ एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । ७८।३८य्द्/ त्रिभिः आत्मजवृद्धिकरं चतुर्भिः अर्थं (अर्थो) यशश्चाग्र्यम् ॥ ॥ ७८।३९अब्/ पंचवनस्पतिरचिते पंचत्वं याति तत्र यः शेते । ७८।३९य्द्/ षट्सप्ताष्टतरूणां काष्ठैः घटिते कुलविनाशः ॥ ॥ sएपरते अध्याय ७९ रत्नपरीक्षाध्यायः ७९।१अब्/ रत्नेन शुभेन शुभं भवति नृपाणामनिष्तमशुभेन । ७९।१य्द्/ यस्मादतः परीक्ष्यं दैवं रत्नाश्रितम् तज्ञैः ॥ ॥ ७९।२अब्/ द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति । ७९।२य्द्/ इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम् ॥ ॥ ७९।३अब्/ रत्नानि बलाद् दैत्याद् दधीचितोऽन्ये वदन्ति जातानि । ७९।३य्द्/ केचिद् भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ॥ ॥ ७९।४अब्/ वज्रेन्द्रनीलमरकतकर्केतरपद्मरागरुधिराख्याः । ७९।४य्द्/ वैदूर्य (वैडूर्य) पुलकविमलकराजमणिस्फतिकशशिकान्ताः ॥ ॥ ७९।५अब्/ सौगन्धिकगोमेदकशंखमहानीलपुष्परागाख्याः । ७९।५य्द्/ ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि ॥ ॥ ७९।६अब्/ वेणातटे विशुद्धं शिरीषकुसुमप्रभं (क्।उपमं) च कौशलकम् । ७९।६य्द्/ सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् ॥ ॥ ७९।७अब्/ ईषत्ताम्रं हिमवति मतंगजं वल्लपुष्पसंकाशम् । ७९।७य्द्/ आपीतं च कलिंगे श्यामं पौण्ड्रेषु संभूतम् ॥ ॥ ७९।८अब्/ एन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च । ७९।८य्द्/ कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् ॥ ॥ ७९।९अब्/ वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम् । ७९।९य्द्/ श‍ृंगाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥ ॥ ७९।१०अब्/ वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम् । ७९।१०य्द्/ स्रोतः खनिः प्रकीर्णकमित्याकरसंभवः त्रिविधः ॥ ॥ ७९।११अब्/ रक्तं पीतं च शुभम् राजन्यानाम् सितम् द्विजातीनाम् । ७९।११य्द्/ शैरीषं वैश्यानां शूद्राणां शस्यतेऽसितनिभम् ॥ ॥ ७९।१२अब्/ सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैः तु विंशत्या । ७९।१२य्द्/ तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ॥ ॥ ७९।१३अब्/ पादत्र्यंशार्धोनं त्रिभागपंचांशषोडशांशाश्च । ७९।१३य्द्/ भागश्च पंचविंशः शतिकः साहस्रिकश्चेति ॥ ॥ ७९।१४अब्/ सर्वद्रव्याभेद्यं लघ्वंभसि तरति रश्मिवत् स्निघ्दम् । ७९।१४य्द्/ तडिदनलशक्रचापोपमं च वज्रं हितायोक्तम् ॥ ॥ ७९।१५अब्/ काकपदमक्षिकाकेशधातुयुक्तानि शर्करैः (शर्करा) विद्धम् । ७९।१५य्द्/ द्विगुणाश्रि दग्ध (दिग्ध) कलुषत्रस्तविशीर्णानि न शुभानि ॥ ॥ ७९।१६अब्/ यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि । ७९।१६य्द्/ सर्वेषां चैतेषां मूल्याद् भागोऽष्टमो हानिः ॥ ॥ ७९।१७अ वज्रं न किंचिदपि धारयितव्यमेके ७९।१७ब् पुत्रार्थिनीभिः अबलाभिरुशन्ति तज्ञाः । ७९।१७य् श‍ृंगाटकत्रिपुटधान्यकवत् स्थितं यच् ७९।१७द् श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ॥ ॥ ७९।१८अब्/ स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् । ७९।१८य्द्/ अशनिविषभयारिनाशनम् शुभमुप (उरु) भोगकरं च भूभृताम् ॥ ॥ sएपरते अध्याय ८० मुक्तालक्षणाध्यायः ८०।१अब्/ द्विपभुजगशुक्तिशंखाभ्रवेणुतिमिसूकरप्रसूतानि । ८०।१य्द्/ मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥ ॥ ८०।२अब्/ सिंहलकपारलौकिकसौराष्ट्रकताम्रपर्णिपारशवाः । ८०।२य्द्/ कौबेरपाण्ड्यवाटकहैमा इत्याकराः त्व (हि) अष्टौ ॥ ॥ ८०।३अब्/ बहुसंस्थानाः स्निग्धाः (स्निग्धा) हंसाभाः सिंहलाकराः स्थूलाः । ८०।३य्द्/ ईषत्ताम्राः श्वेताः तमोवियुक्ताश्च ताम्राख्याः ॥ ॥ ८०।४अब्/ कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः । ८०।४य्द्/ न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ॥ ॥ ८०।५अब्/ ज्योतिष्मत्यः (मन्तः) शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः । ८०।५य्द्/ लघु जर्जरं दधिनिभं बृहद् द्विसंस्थानं (बृहद्विसंस्थानं) अपि हैमम् ॥ ॥ ८०।६अब्/ विषमम् कृष्णश्वेतं (कृष्णम् श्वेतं) लघु कौबेरं प्रमाणतेजोवत् । ८०।६य्द्/ निंबफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ॥ ॥ ८०।७अब्/ अतसीकुसुमश्यामम् वैष्णवमेन्द्रं शशांकसंकाशम् । ८०।७य्द्/ हरितालनिभं वारुणमसितं यमदैवतं भवति ॥ ॥ ८०।८अब्/ परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् । ८०।८य्द्/ निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥ ॥ ८०।९अब्/ माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपंचाशत् । ८०।९य्द्/ कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥ ॥ ८०।१०अब्/ माषकदलहान्यातो द्वात्रिंशद्विंशतिः त्रयोदश च । ८०।१०य्द्/ अष्टौ च शतानि शतत्रयं त्रिपंचाशता सहितम् ॥ ॥ ८०।११अब्/ पंचत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः । ८०।११य्द्/ सार्धाः तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ॥ ॥ ८०।१२अब्/ गुञ्जात्रयस्य मूल्यं पंचाशद् रूपका गुणयुतस्य । ८०।१२य्द्/ रूपकपंचत्रिंशत्त्रयस्य गुञ्जार्धहीनस्य ॥ ॥ ८०।१३अब्/ पलदशभागो धरणं तद् यदि मुक्ताः त्रयोदश सुरूपाः । ८०।१३य्द्/ त्रिशती सपंचविंशा रूपकसंख्या कृतं मूल्यम् ॥ ॥ ८०।१४अब्/ षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता । ८०।१४य्द्/ यत्पंचविंशतिधृतं तस्य शतं त्रिंशता सहितम् ॥ ॥ ८०।१५अब्/ त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं (मूल्या) च । ८०।१५य्द्/ षष्टिः पंचोना वा धरणम् पंचाष्टकं मूल्यम् ॥ ॥ ८०।१६अब्/ मुक्ताशीत्या त्रिंशच्छतस्य सा पंचरूपकविहीना । ८०।१६य्द्/ द्वित्रिचतुःपंचशता द्वादशषट्पंचकत्रितयम् ॥ ॥ ८०।१७अब्/ पिक्कापिच्चार्घार्धा रवकः सिक्थं त्रयोदशाद्यानाम् । ८०।१७य्द्/ संज्णाः परतो निगराश्चूर्णाश्चाशीतिपूर्वाणाम् ॥ ॥ ८०।१८अब्/ एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं (प्रकीतितं) मूल्यम् । ८०।१८य्द्/ परिकल्प्यमन्तराले हीनगुणाणां क्षयः कार्यः ॥ ॥ ८०।१९अब्/ कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम् । ८०।१९य्द्/ त्र्यंशोनम् विषमकपीतयोश्च षड्भागदलहीनम् ॥ ॥ ८०।२०अब्/ ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु । ८०।२०य्द्/ ये चोत्तरायणभवा ग्रहणेऽर्केन्द्वोश्च भद्रेभाः ॥ ॥ ८०।२१अब्/ तेषां किल जायन्ते मुक्ताः कुंभेषु सरदकोशेषु । ८०।२१य्द्/ बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥ ॥ ८०।२२अब्/ नैषामर्घः कार्यो न च वेधोऽतीव ते प्रभायुक्ताः । ८०।२२य्द्/ सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम् ॥ ॥ ८०।२३अब्/ दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम् । ८०।२३य्द्/ तिमिजं मत्स्याक्षिनिभं बृहत् पवित्रं बहुगुणं च ॥ ॥ ८०।२४अब्/ वर्षौपलवज्जातं वायुस्कन्धाग सप्तमाद् भ्रष्टम् । ८०।२४य्द्/ ह्रियते किल खाद् दिव्यैः तडित्प्रभवं मेघसंभूतम् ॥ ॥ ८०।२५अब्/ तक्षकवासुकिकुलजाः कामगमा ये च पन्नगाः तेषाम् । ८०।२५य्द्/ स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते ॥ ॥ ८०।२६अब्/ शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि । ८०।२६य्द्/ वर्षति देवोऽकस्मात् तज्ञेयं नागसंभूतम् ॥ ॥ ८०।२७अब्/ अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति । ८०।२७य्द्/ भौजंगं नृपतीनां धृतमकृतार्घं विजयदं च ॥ ॥ ८०।२८अब्/ कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् । ८०।२८य्द्/ शंखोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥ ॥ ८०।२९अब्/ शंखतिमिवेणुवारणवराहभुजगाभ्रजान्यवैद्यानि (वैध्यानि) । ८०।२९य्द्/ अमितगुणत्वागैषामर्घः शास्त्रे न निर्दिष्टः ॥ ॥ ८०।३०अ एतानि सर्वाणि महागुणानि ८०।३०ब् सुतार्थसौभाग्ययशस्कराणि । ८०।३०य् रुक्षोकहन्तीणि च पार्थिवानां ८०।३०द् मुक्ताफलानीप्सितकामदानि ॥ ॥ ८०।३१अब्/ सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम् । ८०।३१य्द्/ इन्दुच्छन्दो (इन्द्रच्छन्दो) नाम्ना विजयच्छन्दः तदर्धेन ॥ ॥ ८०।३२अब्/ शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिः एकयुता । ८०।३२य्द्/ अष्टाष्टकोऽर्धहारो रश्मिकलापश्च नवषट्कः ॥ ॥ ८०।३३अब्/ द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितोऽर्धगुच्छाख्यः । ८०।३३य्द्/ षोडशभिः माणवको द्वादशभिश्चार्धमाणवकः ॥ ॥ ८०।३४अब्/ मन्दरसंज्ञोऽष्टाभिः पंचलता हारफलकमित्युक्तम् । ८०।३४य्द्/ सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालेति ॥ ॥ ८०।३५अब्/ अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैः वा । ८०।३५य्द्/ तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति ॥ ॥ ८०।३६अ एकावली नाम यथेष्टसंख्या ८०।३६ब् हस्तप्रमाणा मणिविप्रयुक्ता । ८०।३६य् संयोजिता या मणिना तु मध्ये ८०।३६द् यष्टीति सा भूषणविद्भिरुक्तम् ॥ ॥ sएपरते अध्याय ८१ पद्मरागलक्षणाद्यायः ८१।१अब्/ सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसंभूतिः (पद्मरागो सं) । ८१।१य्द्/ सौगन्धिकजा भ्रमराञ्जनाब्जजंबूरसद्युतयः ॥ ॥ ८१।२अब्/ कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिः विद्धाः । ८१।२य्द्/ स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥ ॥ ८१।३अब्/ स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । ८१।३य्द्/ अन्तःप्रभोऽतिरागो (अतिरागा) मणिरत्नगुणाः समस्तानाम् ॥ ॥ ८१।४अब्/ कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः । ८१।४य्द्/ दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥ ॥ ८१।५अब्/ भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजंगानाम् । ८१।५य्द्/ भवति मणिः किक मूर्धनि योऽनर्घेयः स विज्ञेयः ॥ ॥ ८१।६अ यः तं बिभर्ति मनुजाधिपतिः न तस्य ८१।६ब् दोषा भवन्ति विषरोगकृताः कदाचित् । ८१।६य् राष्ट्रे च नित्यमभिवर्षति तस्य देवः ८१।६द् शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥ ॥ ८१।७अब्/ षड्विंशतिः सहस्राणि एकस्य मणेः पलप्रमाणस्य । ८१।७य्द्/ कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥ ॥ ८१।८अब्/ अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि । ८१।८य्द्/ यगाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥ ॥ ८१।९अब्/ माषकचतुष्टयं दशशतक्रयं द्वौ तु पंचशतमूल्यौ । ८१।९य्द्/ परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥ ॥ ९१।१०अब्/ वर्णन्यूनस्यार्धं तेजोहीनस्य मूल्यमष्टांशम् । ८१।१०य्द्/ अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥ ॥ ८१।११अब्/ आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद् द्विशतभागम् । ८१।११य्द्/ इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥ ॥ sएपरते अध्याय ८२ मरकतलक्षणाध्यायः । ८२।१अब्/ शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् । ८२।१य्द्/ सुरपितृकार्ये मरकतं (रकतं) अतीव शुभदं नृणां विहितं (विधृतं) ॥ ॥ sएपरते अध्याय ८३ दीपलक्षणाध्यायः ८३।१अ वामावर्तो मलिनकिरणः सस्फुलिंगोऽल्पमूर्तिः ८३।१ब् क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितोऽपि । ८३।१य् दीपः पापं कथयति फलं शब्दवान् वेपनश्च ८३।१द् व्याकीर्णार्चिः विशलभमरुद्यश्च नाशं प्रयाति ॥ ॥ ८३।२अ दीपः संहतमूर्तिः आयततनुः निर्वेपनो दीप्तिमान् ८३।२ब् निःशब्दो रुचिरः प्रदक्षिणगतिः वैदूर्य (वैडूर्य) हेमद्युतिः । ८३।२य् लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं (रुचिरं, सुचिरं) यश्चौद्यतं दीप्यते ८३।२द् शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः ॥ ॥ sएपरते अध्याय ८४ दन्तकाष्ठलक्षणाध्यायः ८४।१अ वल्लीलतागुल्मतरुप्रभेदैः ८४।१ब् स्युः दन्तकाष्ठानि सहस्रशो यैः । ८४।१य् फलानि वाच्यानि अथ (अति) तत्प्रसंगो ८४।१द् मा भूदतो वच्म्यथ कामिकानि ॥ ॥ ८४।२अ अज्ञातपूर्वाणि न दन्तकाष्ठान्य्- ८४।२ब् अद्यान् न पत्रैश्च समन्वितानि । ८४।२य् न युग्मपर्वाणि न पाटितानि ८४।२द् न च ऊर्ध्वशुष्काणि विना त्वचा च ॥ ॥ ८४।३अ वैकन्तकश्रीफलकाश्मरीषु ८४।३ब् ब्राह्मी द्युतिः क्षेमतरौ सुदाराः । ८४।३य् वृद्धिः वटेऽर्के प्रचुरं च तेजः ८४।३द् पुत्रा मधूके सगुणाः (ककुभे) प्रियत्वम् ॥ ॥ ८४।४अ लक्ष्मीः शिरीषे च तथा करञ्जे ८४।४ब् प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात् । ८४।४य् मान्यत्वमायाति जनस्य जात्यां ८४।४द् प्राधान्यमश्वत्थतरौ वदन्ति ॥ ॥ ८४।५अ आरोग्यमायुः बदरीबृहत्योः ८४।५ब् ऐश्वर्यवृद्धिः खदिरे सबिल्वे । ८४।५य् द्रव्याणि चैष्टानि अतिमुक्तके स्युः ८४।५द् प्राप्नोति तानि एव पुनः कदंबे ॥ ॥ ८४।६अ नीपे (निंबे) ऽर्थाप्तिः करवीरेऽन्नलब्धिः ८४।६ब् भाण्डीरे स्यादन्नमेवं (इदमेव) प्रभूतम् । ८४।६य् शम्यां शत्रून् अपहन्त्यर्जुने च ८४।६द् श्यामायां च द्विषतामेव नाशः ॥ ॥ ८४।७अ शालेऽश्वकर्णे च वदन्ति गौरवं ८४।७ब् सभद्रदारावपि चाटरूषके । ८४।७य् वाल्लभ्यमायाति जनस्य सर्वतः ८४।७द् प्रियंगुअपामार्गसजंबुदाडिमैः ॥ ॥ ८४।८अ उदन्मुखः प्रान्मुख एव वाब्दं ८४।८ब् कामं यथेष्ठं(यथेष्टं) हृदये निवेश्य । ८४।८य् अद्यादनिन्दन् (अनिन्द्यं) च सुखोपविष्टः ८४।८द् प्रक्षाल्य जह्याग शुचिप्रदेशे ॥ ॥ ८४।९अ अभिमुखपतितं प्रशान्तदिक्स्थं ८४।९ब् शुभमतिशोभनमूर्ध्वसंस्थितं यत् । ८४।९य् अशुभकरमतोऽन्यथा प्रदिष्टं ८४।९द् स्थितपतितं च करोति मृष्टमन्नम् ॥ ॥ sएपरते अध्याय ८५ शाकुनाध्यायः ८५।१अब्/ यत्शक्रशुक्र (शुक्रशक्र) वागीशकपिष्ठलगरुत्मताम् । ८५।१य्द्/ मतेभ्यः प्राह ऋषभो भागुरेः देवलस्य च ॥ ॥ ८५।२अब्/ भारद्वाजमतं दृष्ट्वा यग श्रीद्रव्यवर्धनः । ८५।२य्द्/ आवन्तिकः प्राह नृपो महाराजाधिराजकः ॥ ॥ ८५।३अब्/ सप्तर्षीणां मतं यग संस्कृतं प्राकृतं च यत् । ८५।३य्द्/ यानि चौक्तानि गर्गाद्यैः यात्राकारैश्च भूरिभिः ॥ ॥ ८५।४अब्/ तानि दृष्ट्वा चकारैमं सर्वशाकुनसंग्रहम् । ८५।४य्द्/ वराहमिहिरः प्रीत्या शिष्याणां ज्ञानमुत्तमम् ॥ ॥ ८५।५अब्/ अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । ८५।५य्द्/ यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥ ॥ ८५।६अब्/ ग्रामारण्यांबुभूव्योमद्युनिशोभयचारिणः । ८५।६य्द्/ रुतयातेक्षितोक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः (स्त्रीपुन्नपुंसकाः) ॥ ॥ ८५।७अब्/ पृथग् जात्यनवस्थानादेषां व्यक्तिः न लक्ष्यते । ८५।७य्द्/ सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ ॥ ॥ ८५।८अब्/ पीनौन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः । ८५।८य्द्/ स्वल्पगंभीरविरुताः पुंआंसः स्थिरविक्रमाः ॥ ॥ ८५।९अब्/ तनूरस्कशिरोग्रीवाः सूक्ष्मास्यपदविक्रमाः । ८५।९य्द्/ प्रसक्तमृदुभाषिण्यः स्त्रियोऽतोऽन्यन् नपुंसकम् ॥ ॥ ८५।१०अब्/ ग्रामारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् । ८५।१०य्द्/ संचिक्षिप्सुः अहं वच्मि यात्रामात्रप्रयोजनम् ॥ ॥ ८५।११अब्/ पथ्यात्मानं नृपं सैन्ये पुरे चौद्दिश्य देवताम् । ८५।११य्द्/ सार्थे प्रधानं साम्ये (साम्यं) स्याज्जातिविद्यावयोऽधिकम् ॥ ॥ ८५।१२अब्/ मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम् । ८५।१२य्द्/ अंगार (अग्गारि) दीप्तधूमिन्यः ताश्च शान्ताः ततोऽपराः (ऽपरा, अपराः) ॥ ॥ ८५।१३अब्/ तत्पंचमदिशां तुल्यं शुभं त्रिकाल्यमादिशेत् । ८५।१३य्द्/ परिशेष (परिशेषयोः) दिशोः वाच्यं यथासन्नं शुभाशुभम् ॥ ॥ ८५।१४अब्/ शीघ्रमासन्ननिम्नस्थैश्चिरादुन्नतदूरगैः । ८५।१४य्द्/ स्थानवृद्ध्युपघाताग तद्वद् ब्रूयात् फलं पुनः ॥ ॥ ८५।१५अब्/ क्षणतिथ्युडुवातार्कैः देवदीप्तो यथोत्तरम् । ८५।१५य्द्/ क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥ ॥ ८५।१६अब्/ दशधैवं प्रशान्तोऽपि सौम्यः तृणफलाशनः । ८५।१६य्द्/ मांसामेध्याशने रौद्रो विमिश्रोऽन्नाशनः स्मृतः ॥ ॥ ८५।१७अब्/ हर्म्यप्रासादमंगल्यमनोज्ञस्थानसंस्थिताः । ८५।१७य्द्/ श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ॥ ॥ ८५।१८अब्/ स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः । ८५।१८य्द्/ क्लीबस्त्रीपुरुषा ज्ञेया (पुरुशाश्च एषां) बलिनः स्युः यथोत्तरम् ॥ ॥ ८५।१९अब्/ जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः । ८५।१९य्द्/ स्वभूमावनुलोमाश्च तदूनाः स्युः विवर्जिताः ॥ ॥ ८५।२०अब्/ कुक्कुटैभपिरिल्यश्च शिखिवञ्जुलछिक्कराः । ८५।२०य्द्/ बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ॥ ॥ ८५।२१अब्/ क्रोष्टुकौलूकहारीतकाककोकऋक्षपिंगलाः । ८५।२१य्द्/ कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥ ॥ ८५।२२अब्/ गोशशक्रौंचलोमाशहंसौत्क्रोशकपिञ्जलाः । ८५।२२य्द्/ विडालौत्सववादित्रगीतहासाश्च वारुणाः ॥ ॥ ८५।२३अब्/ शतपत्रकुरंगाखुमृगएकशफकोकिलाः । ८५।२३य्द्/ चाषशल्यकपुण्याहघण्टाशंखरवा उदक् ॥ ॥ ८५।२४अब्/ न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्राम्यसंस्थितः (ग्रामसंस्थितः) । ८५।२४य्द्/ दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा ॥ ॥ ८५।२५अब्/ द्वन्द्वरोगार्दितत्रस्ताः कलहामिषकांक्षिणः ८५।२५य्द्/ आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥ ॥ ८५।२६अब्/ रोहिताश्वाजवालेयाः कुरंग (वालेयकुरंग) उष्ट्रमृगाः शशः । ८५।२६य्द्/ निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ॥ ॥ ८५।२७अब्/ न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः । ८५।२७य्द्/ शारद्य (शरद्य) अब्जादगोक्रौंचाः श्रावणे हस्तिचातकौ ॥ ॥ ८५।२८अब्/ व्याघ्रऋक्षवानरद्वीपिमहिषाः सबिलेशयाः । ८५।२८य्द्/ हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥ ॥ ८५।२९अब्/ एन्द्रानलदिशोः मध्ये त्रिभागेषु व्यवस्थिताः । ८५।२९य्द्/ कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥ ॥ ८५।३०अब्/ शिल्पी भिक्षुः विवस्त्रा स्त्री याम्यानलदिगन्तरे । ८५।३०य्द्/ परतश्चापि मातंगगोपधर्मसमाश्रयाः ॥ ॥ ८५।३१अब्/ नैरृतीवारुणीमध्ये प्रमदासूतितस्कराः । ८५।३१य्द्/ शौण्डिकः शाकुनी हिंस्रो वायव्या (वायव्य) पश्चिमान्तरे ॥ ॥ ८५।३२अब्/ विषघातकगोस्वामिकुहकज्ञाः ततः परम् । ८५।३२य्द्/ धनवानीक्षणीकश्च मालाकारः परं ततः ॥ ॥ ८५।३३अब्/ वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः । ८५।३३य्द्/ द्वात्रिंशदेवं (एवं द्वात्रिंशतो) भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥ ॥ ८५।३४अब्/ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः । ८५।३४य्द्/ राजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥ ॥ ८५।३५अब्/ गच्छतः तिष्ठतो वापि दिशि यस्यां व्यवस्थितः । ८५।३५य्द्/ विरौति शकुनो वाच्यः तद्दिग्जेन समागमः ॥ ॥ ८५।३६अब्/ भिन्नभैरवदीनार्तपरुषक्षामजर्जराः । ८५।३६य्द्/ स्वना (स्वरा) नैष्टाः शुभाः शान्त (शान्ता) हृष्टप्रकृतिपूरिताः ॥ ॥ ८५।३७अब्/ शिवा श्यामा रला छुच्छुः पिंगला गृहगोधिका । ८५।३७य्द्/ सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥ ॥ ८५।३८अब्/ स्त्रीसंज्ञा भासभषककपिश्रीकर्णधिक्कराः (छिक्कराः) । ८५।३८य्द्/ शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥ ॥ ८५।३९अब्/ क्ष्वेडास्फोटितपुण्याहगीतशंखांबुनिःस्वनाः । ८५।३९य्द्/ सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥ ॥ ८५।४०अब्/ ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः । ८५।४०य्द्/ षड्ज (षड्जा) मध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥ ॥ ८५।४१अब्/ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः । ८५।४१य्द्/ धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥ ॥ ८५।४२अब्/ जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् । ८५।४२य्द्/ रुतं सन्दर्शनं (रतसन्दर्शनं) नैष्टं प्रतीपं वानरऋक्षयोः ॥ ॥ ८५।४३अब्/ ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः । ८५।४३य्द्/ चाषः सनकुलो वामो भृगुः आहापराह्णतः ॥ ॥ ८५।४४अब्/ छिक्करः कुटपूरी च पिरिली चाह्नि दक्षिणाः । ८५।४४य्द्/ अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ॥ ॥ ८५।४५अब्/ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे । ८५।४५य्द्/ कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ॥ ॥ ८५।४६अब्/ जालश्वचरणौ नैष्टौ प्राग्याम्यौ शस्त्रघातकौ । ८५।४६य्द्/ पश्चादासवषण्ढौ च खलासनहलानि उदक् ॥ ॥ ८५।४७अब्/ कर्मसंगमयुद्धेषु प्रवेशे नष्टमार्गणे । ८५।४७य्द्/ यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ॥ ॥ ८५।४८अब्/ दिवा प्रस्थानवद् ग्राह्याः कुरंगरुरुवानराः । ८५।४८य्द्/ अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥ ॥ ८५।४९अब्/ पश्चिमे शर्वरीभागे नप्तृकोलूकपिंगलाः । ८५।४९य्द्/ सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ॥ ॥ ८५।५०अब्/ नृपसन्दर्शने ग्राह्यः प्रवेशेऽपि प्रयाणवत् । ८५।५०य्द्/ गिर्यरण्यप्रवेशेषु (प्रवेशे च) नदीनां चावगाहने ॥ ॥ ८५।५१अब्/ वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ । ८५।५१य्द्/ क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ ॥ ॥ ८५।५२अब्/ तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ । ८५।५२य्द्/ शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये ॥ ॥ ८५।५३अब्/ केचित् तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः । ८५।५३य्द्/ शकुनैः एकजातीयैः शान्तचेष्टाविराविभिः ॥ ॥ ८५।५४अब्/ विसर्जयति यद्येक एकश्च प्रतिषेधति । ८५।५४य्द्/ स विरोधोऽशुभो यातुः ग्राह्यो यो (वा) बलवत्तरः ॥ ॥ ८५।५५अब्/ पूर्वं प्राविशिको (प्रावेशेको) भूत्वा पुनः प्रास्थानिको भवेत् । ८५।५५य्द्/ सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात् (तद्विपर्ययः) ॥ ॥ ८५।५६अब्/ विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । ८५।५६य्द्/ प्राह यातुः अरेः मृत्युं डमरं रोगमेव वा ॥ ॥ ८५।५७अब्/ अपसव्याः तु शकुना दीप्ता भयनिवेदिनः । ८५।५७य्द्/ आरंभे शकुनो दीप्तो वर्षान्तः तद्भयंकरः ॥ ॥ ८५।५८अब्/ तिथिवाय्वर्कभस्थानचेष्टादीप्ता यथाक्रमम् । ८५।५८य्द्/ धनसैन्यबलांगेष्टकर्मणां स्युः भयंकराः ॥ ॥ ८५।५९अब्/ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् । ८५।५९य्द्/ उभयोः सन्ध्ययोः दीप्ताः शस्त्रोद्भवभयंकराः ॥ ॥ ८५।६०अब्/ चितिकेशकपालेषु मृत्युबन्धवधप्रदाः । ८५।६०य्द्/ कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः ॥ ॥ ८५।६१अब्/ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः । ८५।६१य्द्/ कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलाः तु ते ॥ ॥ ८५।६२अब्/ असिद्धिसिद्धिदौ ज्ञेयौ निर्हाराहार (निर्हादाहार) कारिणौ । ८५।६२य्द्/ स्थानाद् रुवन् व्रजेद् यात्रां शंसते त्वन्यथागमम् ॥ ॥ ८५।६३अब्/ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः । ८५।६३य्द्/ उच्चमादौ स्वरं कृत्वा नीचं पश्चाग दोषकृत् (मोषकृत्) ॥ ॥ ८५।६४अब्/ एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामघातकः (ग्रामघातकृत्) । ८५।६४य्द्/ पुरदेशनरेन्द्राणामृत्वर्धायनवत्सरात् ८५।६५अब्/ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः (अशनाः) ॥ ॥ ८५।६५य्द्/ सर्पमूषकमार्जारपृथुलोम (रोम) विवर्जिताः ॥ ॥ ८५।६६अब्/ परयोनिषु गच्छन्तो मैथुनं देशनाशनाः । ८५।६६य्द्/ अन्यत्र वेसरोत्पत्तेः नृणां चाजातिमैथुनात् ॥ ॥ ८५।६७अब्/ बन्धघातभयानि स्युः पाद ऊरूमस्तकान्तिगैः । ८५।६७य्द्/ शष्पापः (अपशष्प) पिशितान्नादैः दोषवर्षक्षय (वर्षमोषक्षत) ग्रहाः ॥ ॥ ८५।६८अब्/ क्रूरौग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः । ८५।६८य्द्/ चिरकालेन (चिरकालैश्च) दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥ ॥ ८५।६९अब्/ सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् । ८५।६९य्द्/ द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥ ॥ ८५।७०अब्/ विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः । ८५।७०य्द्/ स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥ ॥ ८५।७१अब्/ शान्तः पंचमदीप्तेन विरुतो विजयावहः । ८५।७१य्द्/ दिग्नरागमकारी वा दोषकृत् तद्विपर्यये ॥ ॥ ८५।७२अब्/ वामसव्यगतो (रुतो) मध्यः प्राह स्वपरयोः भयम् । ८५।७२य्द्/ मरणं कथयन्ति एते सर्वे समविराविणः ॥ ॥ ८५।७३अब्/ वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः । ८५।७३य्द्/ दीर्घाब्जमुषिताग्रेषु नरनौशिबिकागमः ॥ ॥ ८५।७४अब्/ शकटेनौन्नतस्थे वा (च) छायास्थे छत्रसंयुते (छत्रसम्युतः) । ८५।७४य्द्/ एकत्रिपंचसप्ताहात् पूर्वाद्यास्वन्तरासु च ॥ ॥ ८५।७५अब्/ सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुसंकराः क्रमशः । ८५।७५य्द्/ प्राच्याद्यानां पतयो दिशः पुमांसो अंगना विदिशः ॥ ॥ ८५।७६अब्/ तरुतालीवदलांबरसलिलजशरचर्मपट्टलेखाः स्युः । ८५।७६य्द्/ द्वात्रिंशत्परविभक्ते दिक्चक्रे तेषु कार्याणि ॥ ॥ ८५।७७अब्/ व्यायामशिखिनिकूजितकलहांभोनिगडमन्त्रगोशब्दाः । ८५।७७य्द्/ वर्णाः तु (च) रक्तपीतककृष्णसिताः कोणगा मिश्राः ॥ ॥ ८५।७८अ चिह्नं ध्वजो दग्धमथ श्मशानं ८५।७८ब् दरी जलं पर्वतयज्ञघोषाः । ८५।७८य् एतेषु संयोगभयानि विन्द्याद् ८५।७८द् अन्यानि वा स्थानविकल्पितानि ॥ ॥ ८५।७९अ स्त्रीणां विकल्पा बृहती कुमारी ८५।७९ब् व्यंगा विगन्धा त्वथ नीलवस्त्रा । ८५।७९य् कुस्त्री प्रदीर्घा विधवा च ताश्च ८५।७९द् संयोगचिन्ता परिवेदिकाः स्युः ॥ ॥ ८५।८०अ पृच्छासु रूप्यकनकातुरभामिनीनां ८५।८०ब् मेषाव्ययानमखगोकुलसंश्रयासु । ८५।८०य् न्यग्रोधरक्ततरुरोध्रककीचकाख्याश् ८५।८०द् चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च ॥ ॥ sएपरते अध्याय ८६ शाकुनेऽन्तरचक्राध्यायः ८६।१अब्/ एन्द्र्यां दिशि शान्तायां विरुवन् नृपसंश्रितागमं वक्ति । ८६।१य्द्/ शकुनः (शकुनिः) पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम् ॥ ॥ ८६।२अब्/ तदनन्तरदिशि कनकागमो भवेद् वांछितार्थसिद्धिश्च । ८६।२य्द्/ आयुधधनपूगफलागमः तृये भवेद् भागे ॥ ॥ ८६।३अब्/ स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाहिताग्नेश्च । ८६।३य्द्/ कोणेऽनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः ॥ ॥ ८६।४अब्/ याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिः अभिमतस्याप्तिः । ८६।४य्द्/ परतः स्त्रीधर्माप्तिः सर्षपयवलब्धिः अपि उक्ता ॥ ॥ ८६।५अब्/ कोणागतुर्थखण्डे लब्धिः द्रव्यस्य पूर्वनष्टस्य । ८६।५य्द्/ यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद् याता ॥ ॥ ८६।६अब्/ यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च । ८६।६य्द्/ याम्याद् द्वितीयभागे चारणसंगः शुभं प्रीतिः ॥ ॥ ८६।७अब्/ ऊर्ध्वं सिद्धिः कैवर्तसंगमो मीनतित्तिराद्याप्तिः । ८६।७य्द्/ प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः ॥ ॥ ८६।८अब्/ नैरृत्यां स्त्रीलाभः तुरगालंकारदूतलेखाप्तिः । ८६।८य्द्/ परतोऽस्य चर्मतत्शिल्पिदर्शनं चर्ममयलब्धिः ॥ ॥ ८६।९अब्/ वानरभिक्षुश्रवणावलोकनं नैरृतात् तॄतीयांशे । ८६।९य्द्/ फलकुसुमदन्तघटितागमश्च कोणागतुर्थांशे ॥ ॥ ८६।१०अब्/ वारुण्यामर्णवजातरत्नवैदूर्य (वैडूर्य) मणिमयप्राप्तिः । ८६।१०य्द्/ परतोऽतः शबरव्याधचौरसंगः पिशितलब्धिः ॥ ॥ ८६।११अब्/ परतोऽपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः । ८६।११य्द्/ आयुधपुस्तकलब्धिः तद्वृत्तिसमागमश्च ऊर्ध्वम् ॥ ॥ ८६।१२अब्/ वायव्ये फेनकचामर ऊर्णिकाप्तिः समेति कायस्थः । ८६।१२य्द्/ मृन्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डानाम् ॥ ॥ ८६।१३अब्/ वायव्याग तृतीये मित्रेण स्मागमो धनप्राप्तिः । ८६।१३य्द्/ वस्त्राश्वाप्तिः अतः परमिष्टसुहृत्सम्प्रयोगश्च ॥ ॥ ८६।१४अब्/ दधितण्डुललाजानां लब्धिरुदग् दर्शनं च विप्रस्य । ८६।१४य्द्/ अर्थावाप्तिः अनन्तरमुपगच्छति सार्थवाहश्च ॥ ॥ ८६।१५अब्/ वेश्यावटुदाससमागमः परे शुक्ल (शुष्क) पुष्पफललब्धिः । ८६।१५य्द्/ अत ऊर्ध्वं (अतः परं) चित्रकरस्य दर्शनं चित्रवस्त्राप्तिः (वस्त्रसम्प्राप्तिः) ॥ ॥ ८६।१६अब्/ ऐशान्यां देवलकोपसंगमो धान्यरत्नपशुलब्धिः । ८६।१६य्द्/ प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या ॥ ॥ ८६।१७अब्/ रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः । ८६।१७य्द्/ हस्त्युपजीविसमाजश्चास्माद् धनहस्तिलब्धिश्च ॥ ॥ ८६।१८अब्/ द्वात्रिंशत्प्रविभक्तं दिक्चक्रं वास्तुवत् सनेम्युक्तं (वास्तुबन्धने अपि उक्तं) । ८६।१८य्द्/ अरनाभिस्थैः अन्तः फलानि नवधा विकल्प्यानि ॥ ॥ ८६।१९अब्/ नाभिस्थे बन्धुसुहृत्समागमः तुष्टिरुत्तमा भवति । ८६।१९य्द्/ प्राग्रक्तपट्टवस्त्रागमः त्वरे नृपतिसंयोगः ॥ ॥ ८६।२०अब्/ आग्नेये कौलिकतक्षपारिकर्ममाश्वसूतसंयोगः । ८६।२०य्द्/ लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिः वा ॥ ॥ ८६।२१अब्/ नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे योऽरः । ८६।२१य्द्/ धार्मिकजनसंयोगः तत्र भवेद् धर्मलाभश्च ॥ ॥ ८६।२२अब्/ उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः । ८६।२२य्द्/ वृषभस्य चात्र लब्धिः माषकुलत्थाद्यमशनम् च ॥ ॥ ८६।२३अब्/ अपरस्यां दिशि योऽरः तत्रासक्तिः कृषीवलैः भवति । ८६।२३य्द्/ सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ॥ ॥ ८६।२४अब्/ भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थे । ८६।२४य्द्/ तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य ॥ ॥ ८६।२५अब्/ कौबेर्यां दिशि योऽरः तत्रस्थो (शकुनः शान्तायां) वित्तलाभ्माख्याति । ८६।२५य्द्/ भागवतेन समागमनं (समागमं) आचष्टे पीतवस्त्रैश्च ॥ ॥ ८६।२६अब्/ ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति । ८६।२६य्द्/ लब्धिश्च परिज्ञेया कृष्णायःशस्त्र (कृष्णायोवस्त्र) घण्टानाम् ॥ ॥ ८६।२७अब्/ याम्येऽष्टांशे पश्चाद् द्विषट्त्रिसप्ताष्टमेषु मध्यफला । ८६।२७य्द्/ सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा ॥ ॥ ८६।२८अब्/ अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु । ८६।२८य्द्/ वायव्यानैरृतयोः अरयोः (उभय्योः) क्लेशावहा यात्रा ॥ ॥ ८६।२९अब्/ शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि । ८६।२९य्द्/ एन्द्र्यां भयं नरेन्द्रात् सस्मागमश्चैव शात्रूणाम् ॥ ॥ ८६।३०अब्/ तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम् । ८६।३०य्द्/ अर्थक्षयः तृतीये कलहः शस्त्रप्रकोपश्च ॥ ॥ ८६।३१अब्/ अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः । ८६।३१य्द्/ कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः ॥ ॥ ८६।३२अब्/ प्रमदागर्भविनाशः तृतीयभागे भवेगतुर्थे च । ८६।३२य्द्/ हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च ॥ ॥ ८६।३३अब्/ अथ पंचमे नृपभयं मारीमृतदर्शनं च वक्तव्यम् । ८६।३३य्द्/ षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोंबानाम् ॥ ॥ ८६।३४अब्/ धीवरशाकुनिकानां सप्तमभागाद् (भागे) भयं भवति पीप्ते । ८६।३४य्द्/ भोजनविघात उक्तो निर्(ग्र्)अन्थभयं च तत्परतः ॥ ॥ ८६।३५अब्/ कलहो नैरृतभागे रक्तस्रावोऽथ चर्मकारभयं (शस्त्रकोपश्च) । ८६।३५य्द्/ अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम् ॥ ॥ ८६।३६अब्/ तदनन्तरं (तदनन्तरे) परिव्राट्श्रवणभयं तत्परे त्वनशनभयम् । ८६।३६य्द्/ वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः ॥ ॥ ८६।३७अब्/ वायुग्रस्तविनाशः परे परे शस्त्रपुस्तवार्तानां (वार्त्तानां) । ८६।३७य्द्/ कोणे पुस्तकनाशः परे विषस्तेनवायुभयम् ॥ ॥ ८६।३८अब्/ परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः । ८६।३८य्द्/ तस्यासन्नेऽश्ववधो भयमपि च पुरोधसः प्रोक्तम् ॥ ॥ ८६।३९अब्/ गोहरणशस्त्रघातावुदक् परे सार्थघातधननाशौ । ८६।३९य्द्/ आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम् ॥ ॥ ८६।४०अब्/ ऐशानस्यासन्ने चित्रांबरचित्रकृद्भयं प्रोक्तम् । ८६।४०य्द्/ ऐशाने त्वग्निभयं दूषणमपि उत्तमस्त्रीणाम् ॥ ॥ ८६।४१अब्/ प्राक् तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च । ८६।४१य्द्/ भयमूर्ध्वं रजकानां विज्ञेयं काच्च्छिकानां च ॥ ॥ ८६।४२अब्/ हस्त्यारोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ । ८६।४२य्द्/ अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे ॥ ॥ ८६।४३अब्/ शस्त्रानलप्रकोपाग्नेये वाजिमरणशिल्पिभयम् । ८६।४३य्द्/ याम्ये धर्मविनाशोऽपरे (विनाशः परे) ऽग्न्यवस्कन्दचोक्षवधाः ॥ ॥ ८६।४४अब्/ अपरे तु कर्मिणां भयमथ कोणे चानिले खरौष्ट्रवधः । ८६।४४य्द्/ अत्रैव मनुष्याणां विसूचिका (विक्स्क्षूचिका) विषभयं भवति ॥ ॥ ८६।४५अब्/ उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः । ८६।४५य्द्/ ग्रामीणगोपपीडा च तत्र नाभ्यां तथात्मवधः ॥ ॥ sएपरते अध्याय ८७ विरुताध्याय्ः ८७।१अ श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश् ८७।१ब् चाषाण्डीरकखञ्जरीटकशुकध्वांक्षाः कपोताः त्रयः (त्रयाः) । ८७।१य् भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः ८७।१द् फेण्टः कुक्कुटपूर्णकूटचटकाः प्रोक्ता (चटकाश्च उक्ता) दिवासंचराः ॥ ॥ ८७।२अ लोमाशिका पिंगलच्छिप्पिकाख्यौ ८७।२ब् वल्गुल्युलूकौ शशकश्च रात्रौ । ८७।२य् सर्वे स्वकालोत्क्रमचारिणः स्युः ८७।२द् देशस्य नाशाय नृपान्तदा वा ॥ ॥ ८७।३अ हयनरभुजगौष्ट्रद्वीपिसिंहऋक्षगोधा ८७।३ब् वृकनकुलकुरंगश्वाजगोव्याघ्रहंसाः । ८७।३य् पृषतमृगश‍ृगालश्वाविदाख्यान्यपुष्टा ८७।३द् द्युनिशमपि बिडालः सारसः सूकरश्च ॥ ॥ ८७।४अब्/ भषकूटपूरिकुरबककरायिकाः पूर्णकूटसण्ज्ञाः स्युः । ८७।४य्द्/ नामानि उलूकचेट्याः पिंगलिका पेचिका हक्का ॥ ॥ ८७।५अब्/ कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचंचुः । ८७।५य्द्/ छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ॥ ॥ ८७।६अब्/ स्रोतः तडागभेद्य (भेद्येक) एकपुत्रकः कलहकारिका च रला । ८७।६य्द्/ भृंगारवग विरुवति (वाशति) निशि भूमौ द्व्यंगुलशरीरा ॥ ॥ ८७।७अब्/ दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तोऽसौ । ८७।७य्द्/ धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ॥ ॥ ८७।८अब्/ गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम । ८७।८य्द्/ गृहगोधिकेति संज्ञा विज्ञेया कुड्यमत्स्यस्य ॥ ॥ ८७।९अब्/ दिव्यो धन्वन उक्तः क्रोडः स्यात् सूकरोऽथ गौरुस्रा । ८७।९य्द्/ श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ॥ ॥ ८७।१०अब्/ एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि ॥ ॥ ८७।१०य्द्/ शकुनरुतज्ञानार्थं शास्त्रे संचित्य (संचिन्त्य) योज्यानि ॥ ॥ ८७।११अब्/ वञ्जुलकरुतं तित्तिड् इति दीप्तमथ किल्किलीति तत्पूर्णम् । ८७।११य्द्/ श्येनशुकगृध्रकंकाः प्रकृतेः अन्यस्वरा दीप्ताः ॥ ॥ ८७।१२अब्/ यानासनशय्यानिलयनं कपोतस्य सद्मविशनं वा । ८७।१२य्द्/ अशुभप्रदं नराणां जातिविभेदेन कालोऽन्यः ॥ ॥ ८७।१३अब्/ आपाण्डुरस्य वर्षागित्रकपोतस्य चैव षण्मासात् । ८७।१३य्द्/ कुंकुमधूम्रस्य फलं सद्यः पाकं कपोतस्य ॥ ॥ ८७।१४अब्/ चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः । ८७।१४य्द्/ चच्चैति दीप्तः स्यात् स्वप्रियलाभाय (योगाय) चिक्चिग् इति ॥ ॥ ८७।१५अब्/ हारीतस्य तु शब्दो गुग्गुः पूर्णोऽपरे प्रदीप्ताः स्युः । ८७।१५य्द्/ स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम् ॥ ॥ ८७।१६अब्/ किष्किषिशब्दः पूर्णः करायिकायाः शुभः कहकहैति । ८७।१६य्द्/ क्षमाय केवलं करकरैति न त्वर्थसिद्धिकरः ॥ ॥ ८७।१७अब्/ कोटुक्लीति क्षेम्यः स्वरः कुटुक्लीति वृष्टये तस्याः । ८७।१७य्द्/ अफलः कोटिकिलीति च दीप्तः खलु गुं कृतः शब्दः ॥ ॥ ८७।१८अ शस्त्रं वामे दर्शनं दिव्यकस्य ८७।१८ब् सिद्धिः ज्ञेया हस्तमात्रौच्छ्रितस्य । ८७।१८य् तस्मिन् एव प्रोन्नतस्थे शरीराद् ८७।१८द् धात्री वश्यं सागरान्तराभ्युपैति ॥ ॥ ८७।१९अ फणितोऽभिमुखागमोऽरिसंगं ८७।१९ब् कथयति बन्धुवधात्ययं च यातुः । ८७।१९य् अथवा समुपैति सव्यभागात् ८७।१९द् न स सिद्ध्यै कुशलो गमागमे च ॥ ॥ ८७।२०अ अब्जेषु मूर्धसु च वाजिगजौरगाणां ८७।२०ब् राज्यप्रदः कुशलकृत्शुचिशाद्वलेषु । ८७।२०य् भस्मास्थिकाष्ठतुषकेशतृणेषु दुःखं ८७।२०द् दृष्टः करोति खलु खञ्जनकोऽब्दमेकम् ॥ ॥ ८७।२१अ किलिकिल्किलि तित्तिरस्वनः ८७।२१ब् शान्तः शस्तफलोऽन्यथापरः । ८७।२१य् शशको निशि वामपार्श्वगो ८७।२१द् वाशन् शस्तफलो निगद्यते ॥ ॥ ८७।२२अ किलिकिलिविरुतं कपेः प्रदीप्तं ८७।२२ब् न शुभफलप्रदमुद्दिशन्ति यातुः । ८७।२२य् शुभमपि कथयन्ति चुग्लुशब्दं ८७।२२द् कपिसदृशं च कुलालकुक्कुटस्य ॥ ॥ ८७।२३अ पूर्णाननः कृमिपतंगपिपीलकाद्यैश् ८७।२३ब् चाषः प्रदक्षिणमुपैति नरस्य यस्य । ८७।२३य् खे स्वस्तिकं यदि करोत्यथवा यियासोः ८७।२३द् तस्यार्थलाभमचिरात् सुमहत् करोति ॥ ॥ ८७।२४अ चाषस्य काकेन विरुध्यतश्चेत् ८७।२४ब् पराजयो दक्षिणभागगस्य । ८७।२४य् वधः प्रयातस्य तदा नरस्य ८७।२४द् विपर्यये तस्य जयः प्रदिष्टः ॥ ॥ ८७।२५अ केकेति पूर्णकुटवद् यदि वामपार्श्वे ८७।२५ब् चाषः करोति विरुतं जयकृत् तदा स्यात् । ८७।२५य् क्रेक्रेति (क्रक्रेति) तस्य विरुतं न शिवाय दीप्तं ८७।२५द् सन्दर्शनं शुभदमस्य सदैव यातुः ॥ ॥ ८७।२६अ अण्डीरकष्टीति रुतेन पूर्णष्- ८७।२६ब् टिट्टिट्टिशब्देन तु दीप्त उक्तः । ८७।२६य् फेण्टः शुभो दक्षिणभागसंस्थो ८७।२६द् न वाशिते तस्य कृतो विशेषः ॥ ॥ ८७।२७अ श्रीकर्णरुतं तु दक्षिणे ८७।२७ब् क्वक्वक्वैति शुभं प्रकीर्तितम् । ८७।२७य् मध्यं खलु चिक्चिकीति यच् ८७।२७द् शेषं सर्वमुशन्ति निष्फलम् ॥ ॥ ८७।२८अ दुर्बलेः अपि चिरिल्विरिल्विति ८७।२८ब् प्रोक्तमिष्टफलदं हि वामतः । ८७।२८य् वामतश्च यदि दक्षिणं व्रजेत् ८७।२८द् कार्यसिद्धिमचिरेण यच्छति ॥ ॥ ८७।२९अ चिक्चिकिवाशितमेव तु कृत्वा ८७।२९ब् दक्षिणभागमुपैति तु वामात् । ८७।२९य् क्षेमकृदेव न साधयतेऽर्थान् ८७।२९द् व्यत्ययगो वधबन्धभयाय ॥ ॥ ८७।३०अब्/ क्रक्रेति च सारिका द्रुतं त्रेत्रे वाप्यभया विरौति या । ८७।३०य्द्/ सा वक्ति यियासतोऽचिराद् गात्रेभ्यः (गात्रेभ्य) क्षतजस्य विस्रुतिम् ॥ ॥ ८७।३१अब्/ फेण्टकस्य वामतश्चिरिल्विरिल्विति स्वनः । ८७।३१य्द्/ शोभनो निगद्यते प्रदीप्त उच्यतेऽपरः ॥ ॥ ८७।३२अ श्रेष्ठं खरं स्थास्नुमुशन्ति वामम् ८७।३२ब् ओंकारशब्देन हितं च यातुः । ८७।३२य् अतोऽपरं (अतः परं) गर्दभनादितं यत् ८७।३२द् सर्वाश्रयं तत् प्रवदन्ति दीप्तम् ॥ ॥ ८७।३३अ आकाररावी समृगः कुरंग ८७।३३ब् ओकाररावी पृषतश्च पूर्णः । ८७।३३य् येऽन्ये स्वराः ते कथिताः प्रदीप्ताः ८७।३३द् पूर्णाः शुभाः पापफलाः प्रदीप्ताः ॥ ॥ ८७।३४अ भीता रुवन्ति कुकुकुक्विति ताम्रचूडाः ८७।३४ब् त्यक्त्वा रुतानि भयदानि अपराणि रात्रौ । ८७।३४य् स्वस्थैः स्वभावविरुतानि निशावसाने ८७।३४द् ताराणि राष्ट्रपुरपार्थिववृद्धिदानि ॥ ॥ ८७।३५अ नानाविधानि विरुतानि हि छिप्पिकायाः ८७।३५ब् तस्याः शुभाः कुलुकुलुः न शुभाः तु शेषाः । ८७।३५य् यातुः बिडालविरुतं न शुभं सदैव ८७।३५द् गोः तु क्षुतं मरणमेव करोति यातुः ॥ ॥ ८७।३६अ हुंहुंगुग्लुग् इति प्रियामभिलषन् क्रोशत्युलूको मुदा ८७।३६ब् पूर्णः स्याद् गुरुलु प्रदीप्तमपि च ज्ञेयं सदा किस्किसि । ८७।३६य् विज्ञेयः कलहो यदा बलबलं तस्य (तस्याः) असकृद्वाशितं ८७।३६द् दोषायैव टटट्टटैति न शुभाः शेषाः तु दीप्त (दीप्ताः) स्वराः ॥ ॥ ८७।३७अब्/ सारसकूजितमिष्टफलं तद् यद् युगपद्विरुतं मिथुनस्य । ८७।३७य्द्/ एकरुतं न शुभं यदि वा स्यादेकरुते प्रविरौति (प्रतिरौति) चिरेण ॥ ॥ ८७।३८अब्/ चिरिल्विरिल्विति स्वरैः शुभं करोति पिंगलाः (पिंगला) । ८७।३८य्द्/ अतोऽपरे तु ये स्वराः प्रदीप्तसंज्ञिताः तु ते ॥ ॥ ८७।३९अ इशिविरुतं गमनप्रतिषेधि ८७।३९ब् कुशुकुशु चेत् कलहं प्रकरोति । ८७।३९य् अभिमतकार्यगर्तिं च यथा सा ८७।३९द् कथयति तं च विधिं कथयामि ॥ ॥ ८७।४०अ दिनान्तसन्ध्यासमये निवासम् ८७।४०ब् आगम्य तस्याः प्रयतश्च वृक्षम् । ८७।४०य् देवान् समभ्यर्च्य पितामहादीन् ८७।४०द् नवांबरः तं च तरुं सुगन्धैः ॥ ॥ ८७।४१अ एको निशीथेऽनलदिक्स्थितश्च ८७।४१ब् दिव्येतरैः तां शपथैः नियोज्य । ८७।४१य् पृच्छेद् यथाचिन्तितमर्थमेवम् ८७।४१द् अनेन मन्त्रेण यथाश‍ृणोति ॥ ॥ (मन्त्र) ८७।४२अब्/ विद्धिभद्रे मया यत् त्वमिममर्थं प्रचोदिता । ८७।४२य्द्/ कल्याणि सर्ववचसां वेदित्री त्वं प्रकीर्त्यसे ॥ ॥ ८७।४३अब्/ आपृच्छेऽद्य गमिष्यामि वेदितश्च पुनः त्वहम् । ८७।४३य्द्/ प्रातः आगम्य पृच्छे त्वामाग्नेयीं दिशमाश्रितः ॥ ॥ ८७।४४अब्/ प्रचोदयाम्यहं यत् त्वां तन् मे व्याख्यातुमर्हसि । ८७।४४य्द्/ स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम् ॥ ॥ ८७।४५अ इत्येवमुक्ते तरुमूर्धगायाश् ८७।४५ब् चिरिल्विरिल्वीति रुतेऽर्थसिद्धिः । ८७।४५य् अत्याकुलत्वं दिशिकारशब्दे ८७।४५द् कुचाकुचा इत्येवमुदाहृते वा ॥ ॥ ८७।४६अ अवाक्प्रदाने ऽपि हित (विहित) अर्थसिद्धिः ८७।४६ब् पूर्वोक्तदिक्चक्रफलैः अतोऽन्यत् । ८७।४६य् वाच्यं फलं चोत्तममध्यनीच- ८७।४६द् शाखास्थितायां वरमध्यनीचम् ॥ ॥ ८७।४७अ दिन्मन्दलेऽभ्यन्तरबाह्यभागे ८७।४७ब् फलानि विन्द्याद् गृहगोधिकायाः । ८७।४७य् छुच्छुन्दरी चिच्चिड् इति प्रदीप्ता ८७।४७द् पूर्णा तु सा तित्तिड् इति स्वनेन ॥ ॥ sएपरते अध्याय ८८ श्वचक्राध्यायः ८८।१ (१) नृतुरगकरिकुंभपर्याणसक्षीरवृक्षेष्टकासंचय- च्छत्रशय्यासनौलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं - यदा श्वावमूत्र्याग्रतो याति यातुः तदा कार्यसिद्धिः भवेदार्द्रके गोमये - मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिः एवाथवा । ८८।१ (२) अथ विषतरुकण्ठकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि - मूत्र्यावहत्यथवा यायिनोऽग्रे सरोऽनिष्टमाख्याति शय्याकुलालादि भाण्डानि - अभुक्तानि अभिन्नानि वा मूत्रयन् कन्यकादोषकृद्भुज्यमानानि चेद् द्ष्टतां - तद्गृहिण्याः तथा स्यादुपानत्फलं गोः तु सम्मूत्रणेऽवर्णजः (वर्णजः) संकरः । ८८।१ (३) गमनमुखमुपानहं सम्प्रगृह्यौपतिष्ठेद् यदा स्याद् तदा - सिद्धये मांसपूर्णाननेऽर्थाप्तिः आद्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण - चास्थ्ना गृहीतेन मृत्युः प्रशान्तौल्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादि - वक्त्रे भुवोऽभ्यागमो (ह्यागमो) वस्त्रचीरादिभिः व्यापदः के चिदाहुः सवस्त्रे शुभम् । ८८।१ (४) प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् - वधः श‍ृंखलाशीर्णवल्लीवरत्रादि वा बन्धनं चौपगृह्यौपतिष्ठेद् यदा - स्यात् तदा बन्धनं लेढि पादौ विधुन्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय - यातुः विरोधे विरोधः तथा स्वांगकण्डूयने स्यात् स्वपंश्च ऊर्ध्वपादः सदा दोषकृत् ॥ ॥ ८८।२अ सूर्योदयेऽर्काभिमुखो विरौति ८८।२ब् ग्रामस्य मध्ये यदि सारमेयः । ८८।२य् एको यदा वा बहवः समेताः ८८।२द् शंसन्ति देशाधिपमन्यमाशु ॥ ॥ ८८।३अ सूर्योन्मुखः श्वानलदिक्स्थितश्च ८८।३ब् चौरानलत्रासकरोऽचिरेण । ८८।३य् मध्याह्नकालेऽनलमृत्युशंसी ८८।३द् सशोणितः स्यात् कलहोऽपराह्णे ॥ ॥ ८८।४अ रुवन् दिनेशाभिमुखोऽस्तकाले ८८।४ब् कृषीबलानां भयमाशु दत्ते (धत्ते) । ८८।४य् प्रदोषकालेऽनिलदिन्मुखश्च (तु) ८८।४द् दत्ते (धत्ते) भयं मारुततस्करोत्थम् ॥ ॥ ८८।५अ उदन्मुखश्चापि निशार्धकाले ८८।५ब् विप्रव्यथां गोहरणं च शास्ति । ८८।५य् निशावसाने शिवदिन्मुखश्च ८८।५द् कन्याभिदूषानलगर्भपातान् ॥ ॥ ८८।६अ उच्चैः स्वराः स्युः तृणकूटसंस्थाः ८८।६ब् प्रासादवेश्मोत्तमसंस्थिता वा । ८८।६य् वर्षासु वृष्टिं कथयन्ति तीव्राम् ८८।६द् अन्यत्र मृत्युं दहनं रुजश्च ॥ ॥ ८८।७अ प्रावृट्कालेऽवग्रहेऽंभोऽवगाह्य ८८।७ब् प्रत्यावर्तै (प्रत्यावृत्तै) रेचकैश्चाप्यभीक्षणं (अभीक्ष्णं) । ८८।७य् आधुन्वन्तो वा पिबन्तश्च तोयं ८८।७द् वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥ ॥ ८८।८अ द्वारे शिरो न्यस्य बहिः शरीरं ८८।८ब् रोरूयते श्वा गृहिणीं विलोक्य । ८८।८य् रोगप्रदः स्यादथ मन्दिरान्तर्- ८८।८द् बहिर्मुखो वक्ति च (शंसति) बन्धकीं ताम् ॥ ॥ ८८।९अब्/ कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत् तदा । ८८।९य्द्/ गोष्ठमुत्किरति गोग्रहं वदेद् धान्यलब्धिमपि धान्यभूमिषु ॥ ॥ ८८।१०अ एकेनाक्ष्णा साश्रुणा दीनदृष्टिः ८८।१०ब् मन्दाहारो दुःखकृत् तद्गृहस्य । ८८।१०य् गोभिः साकं (सार्धं) क्रीडमाणः सुभिक्षं ८८।१०द् क्षेमारोग्यं चाभिधत्ते मुदं च ॥ ॥ ८८।११अ वामं जिघ्रेज्जानु वित्तागामाय स्त्रीभिः ८८।११ब् साकं विग्रहो दक्षिणं चेत् । ८८।११य् ऊरुं वामं चेन्द्रियार्थौपभोगः (उपभोगाः) ८८।११द् सव्यं जिघ्रेदिष्टमित्रैः विरोधः ॥ ॥ ८८।१२अ पादौ जिघ्रेद् यायिनश्चेदयात्रां ८८।१२ब् प्राहार्थाप्तिं वांछितां निश्चलस्य । ८८।१२य् स्थानस्थस्यौपानहौ चेद् विजिघ्रेत् ८८।१२द् क्षिप्रं यात्रां सारमेयः करोति ॥ ॥ ८८।१३अ उभयोः अपि जिघ्रणे हि बाह्वोः ८८।१३ब् विज्ञेयो रिपुचौरसम्प्रयोगः । ८८।१३य् अथ भस्मनि गोपयीत भक्षान् ८८।१३द् मांसास्थीनि च (वा च) शीघ्रमग्निकोपः ॥ ॥ ८८।१४अ ग्रामे भषित्वा च बहिः श्मशाने ८८।१४ब् भषन्ति चेदुत्तमपुंविनाशः । ८८।१४य् यियासतश्चाभिमुखो विरौति ८८।१४द् यदा तदा श्वा निरुणद्धि यात्राम् ॥ ॥ ८८।१५अ उकारवर्णे विरुते (वर्णेन रुते) ऽर्थसिद्धिः ८८।१५ब् ओकारवर्णेन च वामपार्श्वे । ८८।१५य् व्याक्षेपमौकाररुतेन विन्द्यान् ८८।१५द् निषेधकृत्सर्वरुतैश्च पश्चात् ॥ ॥ ८८।१६अ खंखैति (सग़्खेति) चौच्चैश्च मुहुर्मुहुः ये ८८।१६ब् रुवन्ति दण्डैः इव ताड्यमानाः । ८८।१६य् श्वानोऽभिधावन्ति च मण्डलेन ८८।१६द् ते शून्यतां मृत्युभयं च कुर्युः ॥ ॥ ८८।१७अ प्रकाश्य दन्तान् यदि लेढि सृक्विणी ८८।१७ब् तदाशनं मृष्टं (मिष्टं) उशन्ति तद्विदः । ८८।१७य् यदाननं लेढि पुनः (च अवलिहेन्) न सृक्विणी ८८।१७द् प्रवृत्तभोज्येऽपि तदान्नविघ्नकृत् ॥ ॥ ८८।१८अ ग्रामस्य मध्ये यदि वा पुरस्य ८८।१८ब् भषन्ति संहत्य मुहुर्मुहुः ये । ८८।१८य् ते क्लेशमाख्यान्ति तदीश्वरस्य ८८।१८द् श्वारण्यसंस्थो मृगवद्विचिन्त्यः ॥ ॥ ८८।१९अ वृक्षोपगे क्रोशति तोयपातः ८८।१९ब् स्यादिन्द्रकीले सचिवस्य पीडा । ८८।१९य् वायोः गृहे सस्यभयं गृहान्तः ८८।१९द् पीडा पुरस्यैव च गोपुरस्थे ॥ ॥ ८८।२०अ भयं च शय्यासु तदीश्वराणां ८८।२०ब् याने भषन्तो भयदाश्च पश्चात् । ८८।२०य् अथापसव्या जनसन्निवेशे ८८।२०द् भयं भषन्तः कथयन्त्यरीणाम् ॥ ॥ sएपरते अध्याय ८९ शिवारुताध्यायः ८९।१अ श्वभिः शेगालाः सदृशाः फलेन ८९।१ब् विशेष एषां शिशिरे मदाप्तिः । ८९।१य् हूहू रुतान्ते परतश्च टटा ८९।१द् पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥ ॥ ८९।२अ लोमाशिकायाः खलु कक्कशब्दः ८९।२ब् पूर्णः स्वभावप्रभवः स तस्याः । ८९।२य् येऽन्ये स्वराः ते प्रकृतेः अपेताः ८९।२द् सर्वे च दीप्ता इति सम्प्रदिष्टाः ॥ ॥ ८९।३अब्/ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता । ८९।३य्द्/ धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥ ॥ ८९।४अब्/ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः । ८९।४य्द्/ गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥ ॥ ८९।५अब्/ सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्नि अशोभना । ८९।५य्द्/ पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ॥ ॥ ८९।६अब्/ याहीत्यग्निभयं शास्ति टाटैति मृतवेदिका । ८९।६य्द्/ धिग्धिग् दुष्कृतमाचष्टे सज्वाला देशनाशिनी ॥ ॥ ८९।७अब्/ नैव दारुणतामेके सज्वालायाः प्रचक्षते । ८९।७य्द्/ अर्काद्यनलवत् तस्या वक्त्रं लालास्वभावतः ॥ ॥ ८९।८अब्/ अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी । ८९।८य्द्/ वारुणि अनुरुता सैव शंसते सलिले मृतम् ॥ ॥ ८९।९अब्/ अक्षोभः श्रवणं चैष्टं धनप्राप्तिः प्रियागमः । ८९।९य्द्/ क्षोभः प्रधानभेदश्च वाहनानां च सन्पदः ॥ ॥ ८९।१०अब्/ फलमासप्तमादेतदग्राह्यं परतो रुतम् । ८९।१०य्द्/ याम्यायां तद्विपर्यस्तं फलं षट्पंचमाद् ऋते ॥ ॥ ८९।११अब्/ या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम् । ८९।११य्द्/ रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥ ॥ ८९।१२अब्/ मौनं गता प्रतिरुते नरद्विरदवाजिभिः (वाजिनां) । ८९।१२य्द्/ या शिवा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति ॥ ॥ ८९।१३अब्/ भेभा इति शिवा भयंकरी भोभो व्यापदमादिशेग सा । ८९।१३य्द्/ मृतिबन्धनिवेदिनी फिफे (फिफ) हूहू चात्महिता शिवा स्वरे ॥ ॥ ८९।१४अ शान्ता त्ववर्णात् परमारुवन्ती (पवनौ रुवन्ती) ८९।१४ब् टाटामुदीर्णामिति वाश्यमाना । ८९।१४य् टेटे च पूर्वं परतश्च थेथे ८९।१४द् तस्याः स्वतुष्टिप्रभवं रुतं तत् ॥ ॥ ८९।१५अ उच्चैः घोरं वर्णमुच्चार्य पूर्वंपश्चात् ८९।१५ब् क्रोशेत् क्रोष्टुकस्यानुरूपम् । ८९।१५य् या सा क्षेमं प्राह वित्तस्य चाप्तिं ८९।१५द् संयोगं वा प्रोषितेन प्रियेण ॥ ॥ sएपरते अध्याय ९० मृगचेष्टिताध्यायः ९०।१अ सीमागता वन्यमृगा रुवन्तः ९०।१ब् स्थिता व्रजन्तोऽथ समापतन्तः । ९०।१य् सम्प्रत्यतीतएष्यभयानि दीप्ताः ९०।१द् कुर्वन्ति शून्यं परितो भ्रमन्तः ॥ ॥ ९०।२अ ते ग्राम्यसत्त्वैः अनुवाश्यमाना ९०।२ब् भयाय रोधाय भवन्ति वन्यैः । ९०।२य् द्वाभ्यामपि प्रत्यनुवाशिताः ते ९०।२द् वन्दिग्रहायै च (ग्रहायैव) मृगा रुवन्ति (भवन्ति) ॥ ॥ ९०।३अ वन्ये सत्त्वे द्वारसंस्थे पुरस्य ९०।३ब् रोधो वाच्यः सम्प्रविष्टे विनाशः । ९०।३य् सूते मृत्युः स्याद् भयं संस्थिते च ९०।३द् गेहं याते बन्धनं सम्प्रदिष्टम् ॥ ॥ sएपरते अध्याय ९१ गवेंगिताध्यायः ९१।१अ गावो दीनाः पार्थिवस्याशिवाय ९१।१ब् पादैः भूमिं कुट्टयन्त्यश्च रोगान् । ९१।१य् मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः ९१।१द् पत्युः भीताः तस्करान् आरुवन्त्यः ॥ ॥ ९१।२अब्/ अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय । ९१।२य्द्/ भृशं निरुद्धा यदि मक्षिकाभिः तदाशु वृष्टिं सरमात्मजैः वा ॥ ॥ ९१।३अ आगच्छन्त्यो वेश्म बंभारवेण ९१।३ब् संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः । ९१।३य् आर्द्रांग्यो वा हृष्टरोम्ण्यः प्रहृष्टा ९१।३द् धन्या गावः स्युः महिष्योऽपि चैवम् ॥ ॥ sएपरते अध्याय ९२ अश्वेंगिताध्यायः ९२।१अ उत्सर्गान् न शुभदमासनात् परस्थं (आसनापरस्थं) ९२।१ब् वामे च ज्वलनमतोऽपरं प्रशस्तम् । ९२।१य् सर्वांगज्वलनमवृद्धिदं हयानां ९२।१द् द्वे वर्षे दहनकणाश्च धूपनं वा ॥ ॥ ९२।२अ अन्तःपुरं नाशमुपैति मेढ्रे ९२।२ब् कोशः क्षयं यात्युदरे प्रदीप्ते । ९२।२य् पायौ च पुच्छे च पराजयः स्याद् ९२।२द् वक्त्रौत्तमांगज्वलने जयश्च ॥ ॥ ९२।३अ स्कन्धासनांसज्वलनं जयाय ९२।३ब् बन्धाय पादज्वलनं प्रदिष्टम् । ९२।३य् ललाटवक्षो ऽक्षिभुजे च (अक्षिभुजेषु) धूमः ९२।३द् पराभवाय ज्वलनं जयाय ॥ ॥ ९२।४अ नासापुटप्रोथशिरोऽश्रुपात- ९२।४ब् नेत्रे च (नेत्रेषु) रात्रौ ज्वलनं जयाय । ९२।४य् पलाशताम्रासितकर्बुराणां ९२।४द् नित्यं शुकाभस्य सितस्य चेष्टम् ॥ ॥ ९२।५अ प्रद्वेषो यवसांभसां प्रपतनं स्वेदो निमित्ताद् विना ९२।५ब् कंपो वा वदनाग रक्तपतनं धूमस्य वा संभवः । ९२।५य् अस्वप्नश्च विरोधिनां (विरोधिता) निशि दिवा निद्रालसध्यानता । ९२।५द् सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ॥ ॥ ९२।६अब्/ आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः । ९२।६य्द्/ उपवाह्यतुरंगमस्य वा कल्पस्यैव विपन्नशोभना ॥ ॥ ९२।७अ क्रौंचवद् रिपुवधाय ह्रेषितं (हेषितं) ९२।७ब् ग्रीवया त्वचलया च सौन्मुखम् । ९२।७य् स्निग्धमुच्चमनुनादि हृष्टवद्- ९२।७द् ग्रासरुद्धवदनैश्च वाजिभिः ॥ ॥ ९२।८अ पूर्णपात्रदधिविप्रदेवता ९२।८ब् गन्धपुष्पफलकांचनादि वा । ९२।८य् द्रव्यमिष्टमथवा परं भवेद् ९२।८द् ध्रेषतां (धेषतां) यदि समीपतो जयः ॥ ॥ ९२।९अ भक्ष्यपानखलिनाभिनन्दिनः ९२।९ब् पत्युः औपयिकनन्दिनोऽथवा । ९२।९य् सव्यपार्श्वगतदृष्टयोऽथवा ९२।९द् वांछितार्थफलदाः तुरंगमाः ॥ ॥ ९२।१०अ वामैश्च पादैः अभिताडयन्तो महीं ९२।१०ब् प्रवासाय भवन्ति भर्तुः । ९२।१०य् सन्ध्यासु दीप्तामवलोकयन्तो ९२।१०द् ह्रेषन्ति (हेषन्ति) चेद् बन्धपराजयाय ॥ ॥ ९२।११अ अतीव ह्रेषन्ति (हेषन्ति) ) किरन्ति वालान् ९२।११ब् निद्रारताश्च प्रवदन्ति यात्राम् । ९२।११य् रोमत्यजो दीनखरस्वराश्च ९२।११द् पांशून् ग्रसन्तश्च भयाय द्षृटाः ॥ ॥ ९२।१२अ समुद्गवद् दक्षिणपार्श्वशायिनः ९२।१२ब् पदं समुत्क्षिप्य च सक्षिणं स्थिताः । ९२।१२य् जयाय शेषेष्वपि वाहनेष्विदं ९२।१२द् फलं यथासंभवमादिशेद् बुधः ॥ ॥ ९२।१३अ आरोहति क्षितिपतौ विनयौपपन्नो ९२।१३ब् यात्रानुगोऽन्यतुरगं प्रतिह्रेषते (प्रतिहेषते) च । ९२।१३य् वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं ९२।१३द् योऽश्वः स भर्तुः अचिरात् प्रचिनोति लक्ष्मीम् ॥ ॥ ९२।१४अ मुहुर्मुहुः मूत्रशकृत् करोति ९२।१४ब् न ताड्यमानोऽपि अनुलोमयायी । ९२।१४य् अकार्यभीतोऽश्रुविलोचनश्च ९२।१४द् शिवं (शुभं) न भर्तुः तुरगोऽभिधत्ते ॥ ॥ ९२।१५अब्/ उक्तमिदं हयचेष्टितमत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि । ९२।१५य्द्/ तेषां तु दन्तकल्पनभंगम्लानादिचेष्टाभिः ॥ ॥ sएपरते अध्याय ९३ हस्तिचेष्टिताध्यायः ९३।१अब्/ दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् । ९३।१य्द्/ अधिकमनूपचराणां न्यूनं गिरिचारिणां किंचित् ॥ ॥ ९३।२अब्/ श्रीवृक्ष (श्रीवत्स) वर्धमानच्छत्रध्वजचामरानुरूपेषु । ९३।२य्द्/ छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥ ॥ ९३।३अब्/ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः । ९३।३य्द्/ लोष्ठे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ॥ ॥ ९३।४अब्/ स्त्रीरूपेऽश्वविनाशो भृंगारेऽभ्युत्थिते सुतौत्पत्तिः । ९३।४य्द्/ कुंभेन निधिप्राप्तिः यात्राविघ्नं च दण्डेन ॥ ॥ ९३।५अब्/ कृकलासकपिभुजंगेष्वसुभिक्षव्याधयो रिपुवशित्वं (रिपुवशत्वं) । ९३।५य्द्/ गृध्रौलूकध्वांक्षश्येनाकारेषु जनमरकः ॥ ॥ ९३।६अब्/ पाशेऽथवा कबन्धे नृपमृत्युः जनविपत् स्रुते रक्ते । ९३।६य्द्/ कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥ ॥ ९३।७अब्/ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेघेदः । ९३।७य्द्/ गलनम्लानफलानि च दन्तस्य समानि भंगेन ॥ ॥ ९३।८अ मूलमध्यदशनाग्रसंस्थिता ९३।८ब् देवदैत्यमनुजाः क्रमात् ततः । ९३।८य् स्फीतमध्यपरिपेलवं फलं ९३।८द् शीघ्रमध्यचिरकालसंभवम् ॥ ॥ ९३।९अब्/ दन्तभंगफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् । ९३।९य्द्/ वामतः सुतपुरोहिते भयान् (भपान्) हन्ति साटविकदारनायकान् ॥ ॥ ९३।१०अब्/ आदिशेदुभयभंगदर्शनात् पार्थिवस्य सकलं कुलक्षयम् । ९३।१०य्द्/ सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभमतोऽन्यथा वदेत् (भवेत्) ॥ ॥ ९३।११अब्/ क्षीरमृष्ट (क्षीरवृक्ष) फलपुष्पपादपेष्वापगातटविघट्टितेन वा । ९३।११य्द्/ वाममध्यरदभंगखण्डने (खण्डनं) शत्रुनाशकृदतोऽन्यथा परम् ॥ ॥ ९३।१२अ स्खलितगतिः अकस्मात् त्रस्तकर्णोऽतिदीनः ९३।१२ब् श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् । ९३।१२य् द्रुतमुक्लितदृष्टिः स्वप्नशीलो विलोमो ९३।१२द् भयकृदहितभक्षी नैकशो ऽसृक्षकृत्कृत् (ऽसृक् छकृत् च) ॥ ॥ ९३।१३अ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टिः ९३।१३ब् यायाद् यात्रानुलोमं त्वरितपदगतिः वक्त्रमुन्नाम्य चौच्चैः । ९३।१३य् कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा ९३।१३द् तत्काले (तत्कालं) वा मदाप्तिः जयकृदथ रदं वेष्टयन् दक्षिणं च ॥ ॥ ९३।१४अ प्रवेशनं वारिणि वारणस्य ९३।१४ब् ग्रहणे नाशाय भवेन् नृपस्य । ९३।१४य् ग्राहं गृहीत्वा उत्तरणं नृपस्य (द्विपस्य) ९३।१४द् तोयात् स्थलं वृद्धिकरं नृभर्तुः ॥ ॥ sएपरते अध्याय ९४ वायसविरुताध्यायः ९४।१अब्/ प्राच्यानां दक्षिणतः शुभदाः (शुभदः) काकाः करायिका वांवामा) । ९४।१य्द्/ विपरीतमन्यदेशेष्ववधिः लोकप्रसिद्ध्यैव ॥ ॥ ९४।२अब्/ वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता । ९४।२य्द्/ निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥ ॥ ९४।३अब्/ नीडे प्राक् शाखायां शरदि भवेत् प्रथमवृष्टिः अपरस्याम् । ९४।३य्द्/ याम्योत्तरयोः मध्यात् (मध्या) प्रधानवृष्टिः तरोरुपरि ॥ ॥ ९४।४अब्/ शिखिदिशि मण्डलवृष्टिः नैरृत्यां शारदस्य निष्पत्तिः । ९४।४य्द्/ परिशेषयोः सुभिक्षं मूषकसम्पग (मूषकसम्पत् तु) वायव्ये ॥ ॥ ९४।५अब्/ शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु । ९४।५य्द्/ शून्यो भवति स देशश्चौरानावृष्टिरोगार्तः ॥ ॥ ९४।६अब्/ द्वित्रिचतुःशावत्वं सुभिक्षदं पंचभिः नृपान्यत्वम् । ९४।६य्द्/ अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय ॥ ॥ ९४।७अब्/ चौरकवर्णैश्चौराश्चित्रैः मृत्युः सितैः तु वह्निभयम् । ९४।७य्द्/ विकलैः दुर्भिक्षभयं काकानां निर्दिशेत्शिशुभिः ॥ ॥ ९४।८अब्/ अनिमित्तसंहतैः ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः (प्रवाशद्भिः । ९४।८य्द्/ रोधश्चक्राकारैः अभिघातो वर्गवर्गस्थैः ॥ ॥ ९४।९अब्/ अभयाश्च तुण्डपक्षैश्चरणविघातैः जनान् अभिभवन्तः । ९४।९य्द्/ कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् ॥ ॥ ९४।१०अब्/ सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् । ९४।१०य्द्/ अत्याकुलं भ्रमद्भिः वातौद्भ्रमो भवति काकैः ॥ ॥ ९४।११अब्/ ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः । ९४।११य्द्/ सेनांगस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥ ॥ ९४।१२अब्/ भस्मास्थिकेशपत्राणि विन्यसन् पतिवधाय शय्यायाम् । ९४।१२य्द्/ मणिकुसुमाद्यवहनने (अवहनेन) सुतस्य जन्माप्यथांगनायाश् (जन्मांगनायाश्च) (जन्मान्यथा) च ॥ ॥ ९४।१३अब्/ पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः । ९४।१३य्द्/ भयदो जनसंवासाद् यदि भाण्डानि अपनयेत् काकः ॥ ॥ ९४।१४अब्/ वाहनशस्त्रौपानत्छत्रछायांगकुट्टने मरणम् । ९४।१४य्द्/ तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः ॥ ॥ ९४।१५अब्/ यद्द्रव्यमुपनयेत् तस्य लब्धिः अपहरति चेत् प्रणाशः स्यात् । ९४।१५य्द्/ पीतद्रव्यैः (पीतद्रव्ये) कनकं वस्त्रं कार्पासिकैः सितैः (कार्पासिके सिते) रूप्यम् ॥ ॥ ९४।१६अब्/ सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च । ९४।१६य्द्/ प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥ ॥ ९४।१७अब्/ दारुणनादः तरुकोटरोपगो वायसो महाभयदः । ९४।१७य्द्/ सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी च ॥ ॥ ९४।१८अब्/ दीप्तौद्विग्नो विटपे विकुट्टयन् वह्निकृद् विधुतपक्षः । ९४।१८य्द्/ रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥ ॥ ९४।१९अब्/ एन्द्र्यादिदिग् अवलोकी सूर्याभिमुखो रुवन् गृहे गृहिनः । ९४।१९य्द्/ राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ॥ ॥ ९४।२०अब्/ शान्तामेन्द्रीमवलोकयन् रुयाद् राजपुरुषमित्राप्तिः । ९४।२०य्द्/ भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥ ॥ ९४।२१अब्/ आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च । ९४।२१य्द्/ याम्ये माषकुलूत्था (कुलत्था) भोज्यं गान्धर्विकैः योगः ॥ ॥ ९४।२२अब्/ नैरृत्यां दूताश्वौपकरणदधितैलपललभोज्याप्तिः । ९४।२२य्द्/ वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः ॥ ॥ ९४।२३अब्/ मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च । ९४।२३य्द्/ सौम्यायां परमान्नाशनं तुरंगांबरप्राप्तिः ॥ ॥ ९४।२४अब्/ ऐशान्यां सम्प्राप्तिः घृतपूर्णानां भवेदनडुहश्च । ९४।२४य्द्/ एवं फलं गृहपतेः गृहपृष्ठसमाश्रिते भवति ॥ ॥ ९४।२५अब्/ गमने कर्णसमश्चेत् क्षेमाय न कार्यसिद्धये भवति ॥ ॥ ९४।२५य्द्/ अभिमुखमुपैति यातुः विरुवन् विनिवर्तयेद् यात्राम् ॥ ॥ ९४।२६अब्/ वामे वाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः । ९४।२६य्द्/ अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥ ॥ ९४।२७अब्/ यदि वाम एव विरुवन् (विरुयात्) मुहुर्मुहुः यायिनोऽनुलोमगतिः । ९४।२७य्द्/ अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम् ॥ ॥ ९४।२८अब्/ वामः प्रतिलोमगतिः विरुवन् (वाशन्) गमनस्य विघ्नकृद् भवति । ९४।२८य्द्/ तत्रस्थस्यैव फलं कथयति तद्वांछितं गमने ॥ ॥ ९४।२९अब्/ दक्षिणविरुतं कृत्वा वामे विरुयाद् यथीप्सितावाप्तिः । ९४।२९य्द्/ प्रतिवाश्य पुरो यायाद् द्रुतमत्यर्थागमो भवति (अग्रे ऽर्थागमोऽतिमहान्) ॥ ॥ ९४।३०अब्/ प्रतिवाश्य पृष्ट्ःअतो दक्षिणेन यायाद् द्रुतं क्षतजकारी (क्षतजकर्ता) । ९४।३०य्द्/ एकचरणोऽर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ॥ ॥ ९४।३१अब्/ दृष्ट्वार्कमेकपादः तुण्डेन लिखेद् यदा स्वपिच्छानि । ९४।३१य्द्/ पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥ ॥ ९४।३२अब्/ सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः । ९४।३२य्द्/ आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद् यातुः ॥ ॥ ९४।३३अब्/ सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु । ९४।३३य्द्/ सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः (चार्थकरः) ॥ ॥ ९४।३४अब्/ निष्पन्नसस्यशाद्व (शाड्व, शाद्व) लभवनप्रासादहर्म्यहरितेषु । ९४।३४य्द्/ धन्य (धान्य) उच्छ्रयमंगल्येषु चैव विरुवन् धनागमदः ॥ ॥ ९४।३५अब्/ गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजंगस्य । ९४।३५य्द्/ सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ॥ ॥ ९४।३६अब्/ कार्यस्य व्याघातः तृणकूटे वामगेऽंबुसंस्थे (अस्थिसंस्थे) वा । ९४।३६य्द्/ ऊर्ध्वाग्निप्लुष्टेऽशनिहते च काके वधो भवति ॥ ॥ ९४।३७अब्/ कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च । ९४।३७य्द्/ कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः ॥ ॥ ९४।३८अब्/ छिन्नाग्रे अंगच्छेदः कलहः शुष्कद्रुमस्थिते ध्वांक्षे । ९४।३८य्द्/ पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः ॥ ॥ ९४।३९अब्/ मृतपुरुषांगावयवस्थितोऽभिविरुवन् (ऽभिवाशन्) करोति मृत्युभयम् । ९४।३९य्द्/ भञ्जन्न् अस्थि च चंच्वा यदि विरुवति (वाशति) अस्थिभंगाय ॥ ॥ ९४।४०अब्/ रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति । ९४।४०य्द्/ भुजगगददंष्ट्रितस्करशस्त्राग्निभयानि अनुक्रमशः ॥ ॥ ९४।४१अब्/ सितकुसुमाशुचिमांसाननेऽर्थसिद्धिः यथेप्सिता यातुः । ९४।४१य्द्/ पक्षौ धुन्वन्न् (धुन्वन् पक्षाव्) ऊर्ध्वानने च विघ्नं मुहुः क्वणति ॥ ॥ ९४।४२अब्/ यदि श‍ृंखलां वरत्रां वल्लीं वा आदाय वाशते बन्धः । ९४।४२य्द्/ पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च ॥ ॥ ९४।४३अब्/ अन्योन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति । ९४।४३य्द्/ विज्ञेयः स्त्रीलाभो दंपत्योः विरुवतोः (वाशतोः) युगपत् ॥ ॥ ९४।४४अब्/ प्रमदाशिरौपगतपूर्णकुंभसंस्थे अंगनार्थसम्प्राप्तिः । ९४।४४य्द्/ घटकुट्टने सुतविपद्घटोपहदनेऽन्नसम्प्राप्तिः ॥ ॥ ९४।४५अब्/ स्कन्धावारादीनां निवेशस्मये रुवंश्चलत्पक्षः । ९४।४५य्द्/ सूचयतेऽन्यत्स्थानं (ऽन्यस्थानं) निश्चलपक्षः तु भयमात्रम् ॥ ॥ ९४।४६अब्/ प्रविशद्भिः सैन्यादीन् सगृध्रकंकैः विनामिषं ध्वांक्षैः । ९४।४६य्द्/ अविरुद्धैः तैः प्रीतिः द्विषतां युद्धं विरुद्धैश्च ॥ ॥ ९४।४७अब्/ बन्धः सूकरसंस्थे पंकाक्ते सूकरे द्विकेऽर्थाप्तिः । ९४।४७य्द्/ क्षेमं खरोष्ट्रसंस्थे केचित् प्राहुः वधं तु खरे ॥ ॥ ९४।४८अब्/ वाहनलाभोऽश्वगते विरुवत्यनुयायिनि क्षतजपातः । ९४।४८य्द्/ अन्येऽपि अनुव्रजन्तो यातारं काकवद् विहगाः ॥ ॥ ९४।४९अब्/ द्वात्रिंशत् प्रविभक्ते दिग्चक्रे यद् यथा समुद्दिष्टम् । ९४।४९य्द्/ तत्तत् तथा विधेयं गुणदोषफलं यियासूनाम् ॥ ॥ ९४।५०अब्/ का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम् । ९४।५०य्द्/ कव इति चात्मप्रीत्यै कैति रुते स्निग्धमित्राप्तिश्ः ॥ ॥ ९४।५१अब्/ करा इति कलहं कुरुकुरु च हर्षमथ कटकटैति दधिभक्तम् । ९४।५१य्द्/ केके विरुतं कुकु वा धनलाभं यायिनः प्राह ॥ ॥ ९४।५२अब्/ खरेखरे पथिकागममाह कखाखैति यायिनो मृत्युम् । ९४।५२य्द्/ गमनप्रतिषेधिकमा कखला (आखलखल, आ खलखल) सद्योऽभिवर्षाय ॥ ॥ ९४।५३अब्/ काका इति विघातः (विघातं) काकटीति चाहारदूषणं प्राह । ९४।५३य्द्/ प्रीत्यास्पदं कवकवैति बन्धमेवं कगाकुः इति ॥ ॥ ९४।५४अब्/ करगौ (करकौ) विरुते वर्षं गुडवत् त्रासाय वडिति वस्त्राप्तिः । ९४।५४य्द्/ कलयैति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ॥ ॥ ९४।५५अ कडिति (फडिति) फलाप्तिः फलदा (फलवा) ९४।५५ब् हिदर्शनं टड्डिति (टडिति) प्रहाराः स्युः । ९४।५५य् स्त्रीलाभः स्त्रीति रुते ९४।५५ब् गडिति गवां पुडिति पुष्पाणाम् ॥ ॥ ९४।५६अब्/ युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः । ९४।५६य्द्/ टाकुलि चिण्टिचि केकेकैति पुरं चेति दोषाय ॥ ॥ ९४।५७अ काकद्वयस्यापि समानमेतत् ९४।५७ब् फलं यदुक्तं रुतचेष्टिताद्यैः । ९४।५७य् पतत्रिणोऽन्येऽपि यथैव काको ९४।५७द् वन्याः श्ववगौपरिदंष्ट्रिणो ये ॥ ॥ ९४।५८अ स्थलसलिलचराणां व्यत्ययो मेघकाले ९४।५८ब् प्रचुरसलिलवृष्ट्यै शेषकाले भयाय । ९४।५८य् मधु भवननिलीनं तत्करोत्याशु शून्यं ९४।५८द् मरणमपि च नीला (निलीना) मक्षिका मूर्ध्नि लीना ॥ ॥ ९४।५९अ विनिक्षिपन्त्यः सलिलेऽण्डकानि ९४।५९ब् पिपीलिका वृष्टिनिरोधमाहुः । ९४।५९य् तरुं स्थलं (तरुस्थलं, तरुं स्थलं) वापि नयन्ति निम्नाद् ९४।५९द् यदा तदा ताः कथयन्ति वृष्टिम् ॥ ॥ ९४।६०अ कार्यं तु मूलशकुनेऽन्तरजे तदह्नि ९४।६०ब् विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः । ९४।६०य् प्रारंभयानसमयेषु तथा प्रवेशे ९४।६०द् ग्राह्यं क्षुतं न शुभदं क्वचिदपि उशन्ति ॥ ॥ ९४।६१अ शुभं दशापाकमविघ्नसिद्धिं ९४।६१ब् मूलाभिरक्षामथवा सहायान् । ९४।६१य् दुष्टस्य (इष्टस्य) संसिद्धिमनामयत्वं ९४।६१द् वदन्ति ते मानयितुः नृपस्य ॥ ॥ ९४।६२अ क्रोशादूर्ध्वं शकुन (शकुनि) विरुतं निष्फलं प्राहुः एके ९४।६२ब् तत्रानिष्टे प्रथमशकुने मानयेत् पंच षट् च । ९४।६२य् प्राणायामान् नृपतिः अशुभे षोडशैव द्वितीये ९४।६२द् प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टः तृतीयः ॥ ॥ sएपरते अध्याय ९५। शाकुनौत्तराध्यायः ९५।१अब्/ दिग्देशचेष्टास्वरवासरऋक्षमुहूर्तहोराकरणौदयांशान् । ९५।१य्द्/ चरस्थिः (चिरस्थिर्, चरस्थिः) उन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद् रुतज्णः ॥ ॥ ९५।२अ द्विविधं कथयन्ति संस्थितानाम् ९५।२ब् आगामिस्थिरसंज्ञितं च कार्यम् । ९५।२य् नृपदूतचरान्यदेशजातान्य्- ९५।२द् अभिघातः स्वजनादि चागमाख्यम् ॥ ॥ ९५।३अ उद्बद्धसंग्रहणभोजनचौरवह्नि- ९५।३ब् वर्षौत्सवात्मजवधाः कलहो भयं च । ९५।३य् वर्गः स्थिरोऽयमुदयेन्दुयुते स्थिरऋक्षे ९५।३द् विद्यात् स्थिरं चरगृहे च चरं यदुक्तम् ॥ ॥ ९५।४अब्/ स्थिरप्रदेशौपलमन्दिरेषु सुरालये भूजलसन्निधौ च । ९५।४य्द्/ स्थिराणि कार्याणि चराणि यानि चलप्रदेशादिषु चागमाय ॥ ॥ ९५।५अ आप्यौदयऋक्षक्षणदिग्जलेषु ९५।५ब् पक्षावसानेषु च ये प्रदीप्ताः । ९५।५य् सर्वेऽपि ते वृष्टिकरा रुवन्तः ९५।५द् शान्तोऽपि वृष्टिं कुरुतेऽंबुचारी ॥ ॥ ९५।६अ आग्नेयदिग्लग्नमुहूर्तदेशेष्व् ९५।६ब् अर्कप्रदीप्तोऽग्निभयाय रौति । ९५।६य् विष्ट्यां यमऋक्षोदयकण्टकेषु ९५।६द् निष्पत्रवल्लीषु च दोषकृत् (मोषकृत्) स्यात् ॥ ॥ ९५।७अ ग्राम्यः प्रदीप्तः स्वरचेष्टिताभ्याम् ९५।७ब् उग्रो रुवन् कण्टकिनि स्थितश्च । ९५।७य् भौमऋक्षलग्ने यदि नैरृतीं च ९५।७द् स्थितोऽभितश्चेत् कलहाय दृष्टः ॥ ॥ ९५।८अ लग्नेऽथवा इन्दोः भृगुभांशसंस्थे ९५।८ब् विदिक्स्थितोऽधोवदनश्च रौति । ९५।८य् दीप्तः स चेत् संग्रहणं करोति ९५।८द् योन्या तया या विदिशि प्रदिष्टा ॥ ॥ ९५।९अ पुंराशिलग्ने विषमे तिथौ च ९५।९ब् दिक्स्थः प्रदीप्तः शुकुनो रनाख्यः ९६।९य् वाच्यं तदा संग्रहणं नराणां ९५।९द् मिश्रे भवेत् पण्डकसम्प्रयोगः ॥ ॥ ९५।१०अ एवं रवेः क्षेत्रनवांशलग्ने ९५।१०ब् लग्ने स्थिते वा स्वयमेव सूर्ये । ९५।१०य् दीप्तोऽभिधत्ते शकुनो विरौति (विवासं) ९५।१०द् पुंसः प्रधानस्य हि कारणं तत् ॥ ॥ ९५।११अब्/ प्रारंभमाणेषु (प्रारभ्यमाणेषु) च सर्वकार्येष्वर्कान्विताद् भाद् गणयेद् विलग्नम् । ९५।११य्द्/ सम्प्तद् विपगैति यथा क्रमेण सम्पद् विपच्चैति (वापि) तथैव वाच्यं (वाच्या) ॥ ॥ ९५।१२अ काणेनाक्ष्णा दक्षिणेनैति सूर्ये ९५।१२ब् चन्द्रे ल्गनाद् द्वादशे चैतरेन । ९५।१२य् लग्नस्थेऽर्के पापदृष्टेऽन्ध एव ९५।१२द् कुब्जः स्वऋक्षे श्रोत्रहीनो जडो वा ॥ ॥ ९५।१३अ क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद् ९५।१३ब् यस्मिन् राशौ तद्गृहाग्गे व्रणोऽस्य (स्यात्) ९५।१३य् एवं प्रोक्तं यन्मया जन्मकाले चिह्नं रूपं तत् तदस्मिन् विचिन्त्यम् ॥ ॥ (यवनेश्वर) ९५।य्१अ अतः परं लोकनिरूपितानि ९५।य्१ब् द्रव्येषु नानाक्षरसंग्रहाणि । ९५।य्१य् इष्टप्रणीतानि विभाजितानि ९५।य्१द् नामानि केन्द्रक्रमशः प्रवक्ष्ये ॥ ॥ ९५।य्२अ लग्नांबुसंस्थास्तनभःस्थितेषु ९५।य्२ब् क्षेत्रेषु ये लग्नगता गृहांशाः । ९५।य्२य् तेभ्योऽक्षराणि आत्मगृहाश्रयाणि ९५।य्२द् विन्द्याद् ग्रहाणां स्वगणक्रमेण ॥ ॥ ९५।य्३अ कवर्गपूर्वान् कुजशुक्रचान्द्रि- ९५।य्३ब् जीवार्कजानां प्रवदन्ति वर्गान् । ९५।य्३य् यकारपूर्वाः शशिनो निरुक्ता ९५।य्३द् वर्णाः त्वकारप्रभवा रवेः स्युः ॥ ॥ ९५।य्४अ द्रेष्काणवृद्ध्या प्रवदन्ति नाम ९५।य्४ब् त्रिपंचसप्ताक्षरमोजराशौ । ९५।य्४य् युग्मे तु विन्द्याद् द्विचतुष्कषट्कं ९५।य्४द् नामाक्षराणि ग्रहदृष्टिवृद्ध्या ॥ ॥ ९५।य्५अ वर्गोत्तमे द्व्यक्षरकं चरांशे ९५।य्५ब् स्थिरऋक्षभागे चतुरक्षरं तत् । ९५।य्५य् ओजेषु चैभ्यो विषमाक्षराणि ९५।य्५द् स्युः द्विस्वभावेषु तु राशिवग ॥ ॥ ९५।य्६अ द्विमूर्तिसंज्ञे तु वदेद् द्विनाम ९५।य्६ब् सौम्यईक्षिते द्विप्रकृतौ च राशौ । ९५।य्६य् यावान् गणः स्वोदयगोऽंशकानां ९५।य्६द् तावान् ग्रहः संग्रहकेऽक्षराणाम् ॥ ॥ ९५।य्७अ संयोगमादौ बहुलेषु विन्द्यात् ९५।य्७ब् कूटेषु संयोगपरं वदन्ति । ९५।य्७य् स्वौच्चांशके द्विष्कृतम् ऋक्षयोगाद् ९५।य्७द् गुर्वक्षरं तद्भवनांशके स्यात् ॥ ॥ ९५।य्८अ मात्रादियुक् स्याद् ग्रहयुक्त्रिकोणे ९५।य्८ब् द्रेष्काणपर्यायवदक्षरेषु । ९५।य्८य् नभोबलेषूर्ध्वमधोऽंबुजेषु ९५।य्८द् ज्ञेयो विसर्गः तु बलान्वितेषु ॥ ॥ ९५।य्९अ शीर्षोदयेषु ऊर्ध्वमुशन्ति मात्राम् ९५।य्९ब् अधश्च पृष्ठोदयशब्दितेषु । ९५।य्९य् तीर्यक् च विन्द्यादुभयोदये तां ९५।य्९द् दीर्घेषु दीर्घामितरेषु चान्याम् ॥ ॥ ९५।य्१०अ प्राग्लग्नतोयास्तनभःस्थितेषु ९५।य्१०ब् भेष्वंशकेभ्योऽक्षरसंग्रहः स्यात् । ९५।य्१०य् क्रूरोऽक्षरं हन्ति चतुष्टयस्थो ९५।य्१०द् दृष्ट्यापि मात्रां च त्रिकोणगो वा ॥ ॥ ९५।य्११अ शुभग्रहः तु ऊर्जितवीर्यभागी ९५।य्११ब् स्थानांशतुल्याक्षरदः स चोक्तः । ९५।य्११य् पश्यन् स्थितः केन्द्रत्रिकोणयोः वा ९५।य्११द् स्वौच्चेऽपि वर्णद्वयमात्मभागे ॥ ॥ ९५।य्१२अ क्षेत्रेश्वरे क्षीणबलेऽंशके च ९५।य्१२ब् मात्राक्षरं नाशमुपैति तज्जम् । ९५।य्१२य् असंभवेऽपि उद्भवमेति तस्मिन् ९५।य्१२द् वर्गाद्यमुच्चांशयुजीशदृष्टे ॥ ॥ ९५।य्१३अ केन्द्रे यथास्थानबलप्रकर्षं ९५।य्१३ब् क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा । ९५।य्१३य् कार्योऽक्षराणामनुपूर्वयोगो ९५।य्१३द् मात्रादिसंयोगविकल्पना च ॥ ॥ ९५।य्१४अ तत्रादिराश्यादिचतुर्विलग्नम् ९५।य्१४ब् आद्यंशकादिक्रमपर्यायेण । ९५।य्१४य् ग्रहांशकेभ्यः स्वगणाक्षराणाम् ९५।य्१४द् अन्वर्थने प्राप्तिः इयं विधार्या ॥ ॥ ९५।य्१५अ मेष ककारो हिबुके यकारः ९५।य्१५ब् तुले चकारो मकरे पकारः । ९५।य्१५य् मेषे छकारो हिबुकेऽपि अकारः ९५।य्१५द् तुले खकारो मकरे फकारः ॥ ॥ ९५।य्१६अ मेषे टकारो हिबुके ठकारः ९५।य्१६ब् तुले तकारो मकरे थकारः । ९५।य्१६य् मेषे तु रेफा हिबुके जकारः ९५।य्१६द् तुले बकारो मकरे गकारः ॥ ॥ ९५।य्१७अ आकारमाद्येऽंबुगते घकारम् ९५।य्१७ब् अस्ते भकारं मकरे झकारम् । ९५।य्१७य् लग्ने डकारं हिबुके दकारम् ९५।य्१७द् अस्ते धकारं मकरे ढकारम् ॥ ॥ ९५।य्१८अ लग्ने ञकारो हिबुके मकारः ९५।य्१८ब् तुले ग़कारो मकरे लकारः । ९५।य्१८य् लग्ने ककारो हिबुके पकारः ९५।य्१८द् तुले चकारो मकरे इकारः ॥ ॥ ९५।य्१९अ लग्ने नकारो हिबुके तकारः ९५।य्१९ब् तुले णकारो मकरे टकारः । ९५।य्१९य् इत्येतदुक्तं चरसंज्ञकस्य वक्ष्ये ९५।य्१९द् स्थिराख्यस्य चतुष्टयस्य ॥ ॥ ९५।य्२०अ वृषे फकारो हिबुके खकारः ९५।य्२०ब् कीटे वकारो नृघटे छकारः । ९५।य्२०य् आद्यांशकेभ्यो मतिमान् विदध्याद् ९५।य्२०द् अनुक्रमेण स्थिरसंज्ञकेषु ॥ ॥ ९५।य्२१अ लग्ने बकारो हिबुके जकार ९५।य्२१ब् ईकारमस्तेऽंबरगे गकारः । ९५।य्२१य् वृषे थकारो हिबुके टकारः ९५।य्२१द् कीटे डकारो नृघटे दकारः ॥ ॥ ९५।य्२२अ वृषे घकारो हिबुके शकारः ९५।य्२२ब् कीटे झकारो नृघटे भकारः । ९५।य्२२य् लग्ने जकारो हिबुके उकारः ९५।य्२२द् कीटे ग़कारो नृघटे मकारः ॥ ॥ ९५।य्२३अ लग्ने ढकारोऽथ जले णकारश् ९५।य्२३ब् चास्ते धकारोऽंबरगे नकारः । ९५।य्२३य् वृषे षकारो हिबुके चकारः ९५।य्२३द् कीटे पकारो नृघटे ककारः ॥ ॥ ९५।य्२४अ ऊकारमाहुः वृषभे जले खम् ९५।य्२४ब् अस्ते फकारो नृघटे छकारः । ९५।य्२४य् अन्त्ये वृषे टम् तमुशन्ति सिंहे ९५।य्२४द् थं सप्तगे ठं प्रवदन्ति कुंभे ॥ ॥ ९५।य्२५अ द्विमूर्तिसंज्ञे मिथुने जकाराः ९५।य्२५ब् षष्ठे बकारः प्रथमांशके स्यात् । ९५।य्२५य् धनुर्धरेऽस्तोपगते गकारो ९५।य्२५द् मीनद्वये चांबरगे सकारः ॥ ॥ ९५।य्२६अ लग्ने घकारो हिबुके भकारश् ९५।य्२६ब् चास्ते झकारोऽंबरमध्यगे ई । ९५।य्२६य् लग्ने दकारो हिबुके धकारम् ९५।य्२६द् अस्ते डकारं विदुः अंबरे ढम् ॥ ॥ ९५।य्२७अ लग्ने मकारो हिबुके ग़कारश् ९५।य्२७ब् अस्ते हकारोऽंबरगे ञकारः । ९५।य्२७य् लग्ने पकारो जलगे चकार ९५।य्२७द् ऐकारमस्तेऽंबरगे ककारः ॥ ॥ ९५।य्२८अ प्राग्लग्ने नं जलगे णमाहुः ९५।य्२८ब् अस्तं गते टं नभसि स्थिते तम् । ९५।य्२८य् प्राग्लग्नगे खं जलगे यमाहुः ९५।य्२८द् अस्तं गते छं नभसि स्थिते फम् ॥ ॥ ९५।य्२९अ लग्ने जमोकारमथांबुसंस्थे ९५।य्२९ब् गमस्तसंस्थे विदुः अंबरे बम् । ९५।य्२९य् ठं लग्नगेऽन्त्ये हिबुकाश्रिते डं ९५।य्२९द् थमस्तगे दं नभसि स्थिते वै ॥ ॥ ९५।य्३०अ एवं विकल्पोऽक्षरसंग्रहोऽयं ९५।य्३०ब् नाम्नां निरुद्दिष्टविधान उक्तः । ९५।य्३०य् सर्वेषु लग्नेषु च केचिदेवम् ९५।य्३०द् इच्छन्ति पूर्वोक्तविधानवत् तु ॥ ॥ ९५।य्३१अ केन्द्राणि वा केन्द्रगतांशकैः स्वैः ९५।य्३१ब् पृथक् पृथक् संगुणितानि कृत्वा । ९५।य्३१य् त्रिकृद्विभक्तं विरुदक्षरं तत् ९५।य्३१द् क्षेत्रेश्वरस्यांशपरिक्रमस्वम् ॥ ॥ ९५।य्३२अ संचिन्तितप्रार्थितनिर्गतेषु ९५।य्३२ब् नष्टक्षतस्त्रीः अतिभोजनेषु ९५।य्३२य् स्वप्नर्क्षचिन्तापुरुषादिवर्गेष्व् ९५।य्३२द् एतेषु नामानि उपलक्षयेत ९५।१४अ द्व्यक्षरं चरगृहांशकोदये ९५।१४ब् नाम चास्य चतुरक्षरं स्थिरे । ९५।१४य् नामयुग्ममपि च द्विमूर्तिषु ९५।१४द् त्र्यक्षरं भवति चास्य पंचभिः ॥ ॥ ९५।१५अ काद्याः तु वर्गाः कुजशुक्रसौम्य- ९५।१५ब् जीवार्कजानां क्रमशः प्रदिष्टाः । ९५।१५य् वर्णाष्टकं यादि च शीतरश्मे ९५।१५द् रवेः अकारात् क्रमशः स्वराः स्युः ॥ ॥ ९५।१६अ नामानि चाग्न्यंबुकुमारविष्णु- ९५।१६ब् शक्रेन्द्रपत्नीचतुराननानाम् । ९५।१६य् तुल्यानि सूर्यात् क्रमशो विचिन्त्य ९५।१६द् द्वित्र्यादिवर्णैः घटयेत् स्वबुद्ध्या ॥ ॥ ९५।१७अ वयांसि तेषाम् स्तनपानबाल्य- ९५।१७ब् व्रतस्थिता यौवनमध्यवृद्धाः । ९५।१७य् अतीववृद्धा इति चन्द्रभौम- ९५।१७द् ज्ञशुक्रजीवार्कशनैश्चराणाम् ॥ ॥ sएपरते अध्याय ९६ पाकाध्यायः ९६।१अब्/ पक्षाद् भानोः सोमस्य मासिको अंगारकस्य वक्त्रोक्तः । ९६।१य्द्/ आदर्शनाग पाको बुधस्य जीवस्य वर्षेण ॥ ॥ ९६।२अब्/ षड्भिः सितस्य मासैः अब्देन शनेः सुरद्विषोऽब्दार्धात् । ९६।२य्द्/ वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः ॥ ॥ ९६।३अब्/ त्रिभिः एव धूमकेतोः मासैः श्वेतस्य सप्तरात्रान्ते । ९६।३य्द्/ सप्ताहात् परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम् ॥ ॥ ९६।४अब्/ शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः । ९६।४य्द्/ स्थिरचरयोः अन्यत्वं प्रसूतिविकृतिश्च षण्मासात् ॥ ॥ ९६।५अब्/ अक्रियमाणककरणं भूकंपोऽनुत्सवो दुरिष्टं च । ९६।५य्द्/ शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धात् ॥ ॥ ९६।६अब्/ स्तंभकुसूलार्चानां जल्पितरुदितप्रकंपितस्वेदाः । ९६।६य्द्/ मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ॥ ॥ ९६।७अब्/ कीटाखुमक्षिकोरगबाहुल्यं मृगविहंगविरुतं च । ९६।७य्द्/ लोष्टस्य चाप्सु तरणं त्रिभिः एव विपच्यते मासैः ॥ ॥ ९६।८अब्/ प्रसवः शुनामरण्ये वन्यानां ग्रामसम्प्रवेशश्च । ९६।८य्द्/ मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात् समधिकाद् वा ॥ ॥ ९६।९अब्/ गोमायुगृध्रसंघा दशाहिकाः सद्य एव तूर्यरवः । ९६।९य्द्/ आक्रुष्टं पक्षफलं वल्मीको विदरणं च भुवः ॥ ॥ ९६।१०अब्/ अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि । ९६।१०य्द्/ सद्यः परिपच्यन्ते मासेऽध्यर्धे च जनवादः ॥ ॥ ९६।११अब्/ छत्रचितियूपहुतवहबीजानां सप्तभिः भवति पक्षैः । ९६।११य्द्/ छत्रस्य तोरणस्य च केचिन् मासात् फलं प्राहुः ॥ ॥ ९६।१२अब्/ अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् । ९६।१२य्द्/ मार्जारनकुलयोः मूषकेण संगश्च मासेन ॥ ॥ ९६।१३अब्/ गन्धर्वपुरं मासद् रसवैकृत्यं हिरण्यविकृतिश्च । ९६।१३य्द्/ ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः ॥ ॥ ९६।१४अब्/ नवकैकाष्टदशकैकषट्त्रिकत्रिकसंख्यमासपाकानि । ९६।१४य्द्/ नक्षत्राणि अश्विनिपूर्वकाणि सद्यः फलाश्लेषा ॥ ॥ ९६।१५अब्/ पित्र्यान् मासः षट् सट्त्रयोऽर्धमष्टौ च त्रिषडेकैकाः । ९६।१५य्द्/ मासचतुष्केऽषाढे सद्यः पाकाभिजित्तारा ॥ ॥ ९६।१६अब्/ सप्ताष्टावध्यर्धं त्रयः त्रयः पंच चैव मासाः स्युः । ९६।१६य्द्/ श्रवणादीनां पाको नक्षत्राणां यथासंख्यम् ॥ ॥ ९६।१७अ निगदितसमये न दृश्यते चेद् ९६।१७ब् अधिकतरं द्विगुणे प्रपच्यते तत् । ९६।१७य् यदि न कनकरत्नगोप्रदानैः ९६।१७द् उपशमितं विधिवद् द्विजैश्च शान्त्या ॥ ॥ sएपरते अध्याय ९७ नक्षत्रकर्मगुणाध्यायः ९७।१अब्/ शिखिगुणरसेन्द्रियानलशशिविषयगुणऋतुपंचवसुपक्षाः । ९७।१य्द्/ विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ॥ ॥ ९७।२अब्/ भूतशतपक्षवसवो द्वात्रिंशगेति तारकामानम् । ९७।२य्द्/ क्रमशोऽश्विन्यादीनां कालः ताराप्रमाणेन ॥ ॥ ९७।३अब्/ नक्षत्रजमुद्वाहे फलमब्दैः तारकामितैः सदसत् । ९७।३य्द्/ दिवसैः ज्वरस्य नाशो व्याधेः अन्यस्य वा वाच्यः ॥ ॥ (नक्षत्रदेवता) ९७।४अब्/ अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः । ९७।४य्द्/ योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च ॥ ॥ ९७।५अब्/ शक्रो निरृतिः तोयं विश्वे ब्रह्मा हरिः वसुः वरुणः । ९७।५य्द्/ अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥ ॥ ९७।६अब्/ त्रीणि उत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् । ९७।६य्द्/ अभिषेकशान्तितरुनगरधर्मबीजध्रुवारंभान् ॥ ॥ ९७।७अब्/ मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति । ९७।७य्द्/ अभिघातमन्त्रवेतालबन्धवधभेदसंबन्धाः ॥ ॥ ९७।८अब्/ उग्राणि पूर्वभरणीपित्र्याणि उत्सादनाशशाठ्येषु । ९७।८य्द्/ योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥ ॥ ९७।९अब्/ लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । ९७।९य्द्/ शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥ ॥ ९७।१०अब्/ मृदुवर्गो (मृदुवर्गः त्व्) ऽनूराधाचित्रापौष्णेन्दवानि मित्रार्थे । ९७।१०य्द्/ सुरतविधिवस्त्रभूषणमंगलगीतेषु च हितानि ॥ ॥ ९७।११अब्/ हौतभुजं सविशाखं मृदुतीक्ष्णम् तद्विमिश्रफलकारि । ९७।११य्द्/ श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ ॥ ९७।१२अ हस्तत्रयं मृगशिरः श्रवणत्रयं (श्रवनात्त्रयं) च ९७।१२ब् पूषाश्विशक्रगुरुभानि पुनर्वसुश्च । ९७।१२य् क्षौरे तु कर्मणि हितानि उदये क्षणे वा ९७।१२द् युक्तानि चौडुपतिना शुभतारया च ॥ ॥ ९७।१३अ न स्नातमात्रगमनौन्मुख (उत्सुक) भूषितानाम् ९७।१३ब् अभ्यक्तभुक्तरणकालनिरासनानाम् । ९७।१३य् सन्ध्य्निशाशनिकुजार्कतिथौ (निशोः कुजयमार्कदिने) च रिक्ते ९७।१३द् क्षौरं हितं न नवमेऽह्नि न चापि विष्ट्याम् ॥ ॥ ९७।१४अब्/ नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च । ९७।१४य्द्/ बद्धस्य मोक्षे क्रतुदीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु ॥ ॥ % ओने वेर्से इन्सेर्तेद् ९८।१५अब्/ हस्तो मूलं श्रवणा पुनर्वसुः मृगशिरः तथा पुष्यः । ९८।१५य्द्/ पुंसञ्ज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि ॥ ॥ ९७।१५अब्/ सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चौडुगणाधिपऋक्षे । ९७।१५य्द्/ संस्कारदीक्षाव्रतमेखलादि कुर्याद् गुरौ शुक्रबुधेन्दुयुक्ते ॥ ॥ % ओने वेर्से इन्सेर्तेद् ९८।१७अब्/ लाभे तृतीये च शुभैः समेते पापैः विहीने शुभराशिलग्ने । ९८।१७य्द्/ वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु ॥ ॥ ९७।१६अ शुद्धैः द्वादशकेन्द्रनैधनगृहैः पापैः त्रिषष्ठायगैः । ९७।१६ब् लग्ने केन्द्रगतेऽथवा सुरगुरौ दैत्येन्द्रपूज्येऽपि वा ॥ ॥ ९७।१६य् सर्वारंभफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे ९७।१६द् सग्राम्यस्थिरभोदये च भवनं कार्यं प्रवेशोऽपि वा ॥ ॥ sएपरते अध्याय ९८ तिथिकर्मगुणाध्यायः ९८।१अब्/ कमलजविधातृहरियमशशांकषड्वक्त्रशक्रवसुभुजगाः । ९८।१य्द्/ धर्मेशसवितृमन्मथकलयो विश्वे च तिथिपतयः ॥ ॥ ९८।२अब्/ पितरोऽमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः । ९८।२य्द्/ नन्दा भद्रा विजया रिक्ता पूर्णा च ताः त्रिविधाः ॥ ॥ ९८।३अब्/ यत् कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत् कार्यम् । ९८।३य्द्/ करणमुहूर्तेष्वपि तत् सिद्धिकरं देवतासदृशम् ॥ ॥ sएपरते अध्याय ९९ करणगुणाध्यायः ९९।१अब्/ वववालवकौलव (बवबालवकौलब) तैतिलाख्यगरवणिजविष्टिसंज्ञानाम् । ९९।१य्द्/ पतयः स्युः इन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ॥ ॥ ९९।२अब्/ कृष्णचतुर्दश्यर्धाद् धुवाणि शकुनिश्चतुष्पदं नागम् । ९९।२य्द्/ किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥ ॥ ९९।३अ कुर्याद् ववे (बवे) शुभचरस्थिरपौष्टिकानि ९९।३ब् धर्मक्रियाद्विजहितानि च वालव (बालव) आख्ये । ९९।३य् सम्प्रीतिमित्रवरणानि च कौलवे (कौलबे) स्युः ९९।३द् सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥ ॥ ९९।४अ कृषिबीजगृहाश्रयजानि गरे ९९।४ब् वणिजि धुवकार्यवणिग्युतयः । ९९।४य् न हि विष्टिकृतं विदधाति शुभं ९९।४द् परघातविषादिषु सिद्धिकरम् ॥ ॥ ९९।५अ कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्राः तथा । ९९।५ब् गोकार्याणि चतुष्पदे द्विजपितृन् उद्दिश्य राज्यानि च ९९।५य् नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माण्यतः ९९।५द् किंस्तुघ्ने शुभमिष्टि (इष्ट) पुष्टिकरणं मंगल्यसिद्धिक्रियाः ॥ ॥ ९९।६अब्/ लाभे तॄतीये च शुभैः समेते पापैः विहीने शुभराशिलग्ने । ९९।६य्द्/ वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुचित्राहरिपौष्णभेषु ॥ ॥ ९९।७अ रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा- ९९।७ब् हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः । ९९।७य् सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे ९९।७द् क्रूरैः त्र्यायषडष्टगैः न तु भृगौ षष्ठे कुजे चाष्टमे ॥ ॥ ९९।८अ दंपत्योः द्विनवाष्टराशिरहिते चारानुकुले रवौ ९९।८ब् चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः । ९९।८य् त्यक्त्वा च व्यतिपातवैधृति (वैधृत) दिनं विष्टिं च रिक्तां तिथिं ९९।८द् क्रूराहायनपौषचैत्र (चैत्रपौष) विरहे लग्नांशके मानुषे ॥ ॥ sएपरते अध्याय १०० नक्षत्रजातकाध्यायः १००।१अब्/ प्रियभूषणः स्वरूपः (सुरूपः) सुभगो दक्षोऽश्विनीषु मतिमांश्च । १००।१य्द्/ कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ॥ ॥ १००।२अब्/ बहुभुक् परदाररतः तेजस्वी कृत्तिकासु विख्यातः । १००।२य्द्/ रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरः स्वरूपश्च (स्थिरसुरूपश्च) ॥ ॥ १००।३अब्/ चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी । १००।३य्द्/ शठगर्वितचण्डकृतघनहिंस्रपापश्च रौद्रर्क्षे ॥ ॥ १००।४अब्/ दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश्च । १००।४य्द्/ अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥ ॥ १००।५अब्/ शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये । १००।५य्द्/ शठसर्वभक्षक्ष्य (भक्ष) (भक्ष्य) पापः कृतघ्नधूर्तश्च भौजंगे ॥ ॥ १००।६अब्/ बहुभृत्यधनी भोगी सुरपितृभक्तो महोद्यमः पित्र्ये । १००।६य्द्/ प्रियवाग् दाता द्युतिमान् अटनो नृपसेवको भाग्ये ॥ ॥ १००।७अब्/ सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीयफल्गुन्याम् । १००।७य्द्/ उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते ॥ ॥ १००।८अब्/ चित्रांबरमाल्यधरः सुलोचनांगश्च चित्रायां (भवति चित्रायां) । १००।८य्द्/ दन्तो वणिक् तृषालुः (कृपालुः) प्रियवाग् धर्माश्रितः स्वातौ ॥ ॥ १००।९अब्/ ईर्षुः (इर्ष्युः) लुब्धो द्युतिमान् वचनपटुः कलहकृद् विशाखासु ॥ ॥ १००।९य्द्/ आढ्यो विदेशवासी क्षुधालुः अटनोऽनुराधासु ॥ ॥ १००।१०अब्/ ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः । १००।१०य्द्/ मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥ ॥ १००।११अब्/ इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे । १००।११य्द्/ वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ॥ ॥ १००।१२अब्/ श्रीमान् श्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः । १००।१२य्द्/ दाताऽऽढ्यशूरगीतिप्रियो धनिष्ठासु धनलुब्धः ॥ ॥ १००।१३अब्/ स्फुटवाग् व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्र्आह्यः । १००।१३य्द्/ भद्रपदासूद्विग्नः स्त्रीजितधनपटुः अदाता च ॥ ॥ १००।१४अब्/ वक्ता सुखी प्रजावान् जितशत्रुः धार्मिको द्वितीयासु ॥ ॥ १००।१४य्द्/ सम्पूर्णांगः सुभगः शूरः शुचिः अर्थवान् पौष्णे ॥ ॥ sएपरते अध्याय १०१ राशिविभागाध्यायः १०१।१अब्/ अश्विन्योऽथ भरण्यो बहुलापादश्च कीर्त्यते मेषः । १०१।१य्द्/ वृषभो बहुलाशेषं रोहिण्योऽर्धम् च मृगशिरसः ॥ ॥ १०१।२अब्/ मृगशिरो ऽर्धं रौद्रं पुनर्वसोः (पुनर्वसोः च) अंशकत्रयं मिथुनः (मिथुनं) । १०१।२य्द्/ पादश्च पुनर्वसुतः तिष्यः श्लेषा (पुनर्वसोः सतिष्योऽश्लेषा) च कर्कटकः ॥ ॥ १०१।३अब्/ सिंहोऽथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश्च । १०१।३य्द्/ तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः ॥ ॥ १०१।४अब्/ तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः । १०१।४य्द्/ अलिनि विशाखापादः तथानुराधान्विता ज्येष्ठा ॥ ॥ १०१।५अब्/ मूलमषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी । १०१।५य्द्/ मकरः तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम् ॥ ॥ १०१।६अब्/ कुंभोऽन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः । १०१।६य्द्/ भद्रपदायाः शेषं तथोत्तरा रेवती च झषः ॥ ॥ १०१।७अब्/ अश्विनीपित्र्यमूलाद्या मेषसिंहहयादयः । १०१।७य्द्/ विषमऋक्षान् निवर्तन्ते पादवृद्ध्या यथोत्तरम् ॥ ॥ sएपरते अध्याय १०२ विवाहपटलाध्यायः १०२।१अ मूर्तौ करोति दिनकृद् विधवां कुजश्च १०२।१ब् राहुः विपन्नतनयां रविजो दरिद्राम् । १०२।१य् शुक्रः शशांकतनयश्च गुरुश्च साध्वीम् १०२।१द् आयुःक्षयं प्रकुरुतेऽथ विभावरीशः ॥ ॥ १०२।२अ कुर्वन्ति भास्करशनैश्चरराहुभौमा १०२।२ब् दारिद्र्यदुःखमतुलं नियतं द्वितीये । १०२।२य् वित्तेश्वरीमविधवां गुरुशुक्रसौम्या १०२।२द् नारीं प्रभूततनयां कुरुते शशांकः ॥ ॥ १०२।३अ सूर्येन्दुभौमगुरुशुक्रबुधाः तृतीये १०२।३ब् कुर्युः सदा बहुसुतां धनभागिनीं च । १०२।३य् व्यक्तां (व्यक्तं) दिवाकरसुतः सुभगां करोति १०२।३द् मृत्युं ददाति नियमात् खलु सैंहिकेयः ॥ ॥ १०२।४अ स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे १०२।४ब् दौर्भाग्यमुष्णकिरणः कुरुते शशी च । १०२।४य् राहुः सपत्ननं (सपत्न्यं) अपि च क्षितिजोऽल्पवित्तं (अल्पवित्तां) १०२।४द् दद्याद् भृगुः सुरगुरुश्च बुधश्च सौख्यम् ॥ ॥ १०२।५अ नष्टात्मजां रविकुजौ खलु पंचमस्थे (पंचमस्थौ) १०२।५ब् चन्द्रात्मजो बहुसुता गुरुभार्गवौ च । १०२।५य् राहुः ददाति मरणं शनिरुग्ररोगं १०२।५द् कन्याविनाशं (प्रसूतिं) अचिरात् कुरुते शशांकः ॥ ॥ १०२।६अ षष्ठाश्रिताः शनिदिवाकरराहुजीवाः १०२।६ब् कुर्युः कुजश्च सुभगां श्वशुरेषु भक्ताम् । १०२।६य् चन्द्रः करोति विधवामुशना दरिद्राम् १०२।६द् ऋद्धां शशांकतनयः कलहप्रियां च ॥ ॥ १०२।७अ सौरारजीवबुधराहुरवीन्दुशुक्राः १०२।७ब् कुर्युः प्रसह्य खलु सप्तमराशिसंस्थाः । १०२।७य् वैधव्यबन्धनवधक्षयमर्थनाश- १०२।७द् व्याधिप्रवासमरणानि यथाक्रमेण ॥ ॥ १०२।८अ स्थानेऽष्टमे गुरुबुधौ नियतं वियोगं १०२।८ब् मृत्युं शशी भृगुसुतश्च तथैव राहुः । १०२।८य् सूर्यः करोत्यविधवां सरुजां (सरुजं) महीजः १०२।८द् सूर्यात्मजो धनवतीं पितवल्लभां च ॥ ॥ १०२।९अ धर्मे स्थिता भृगुदिवाकरभूमिपुत्रा १०२।९ब् जीवश्च धर्मनिरतां शशिजः त्वरोगाम् । १०२।९य् राहुश्च सूर्यतनयश्च करोति बन्ध्यां (वन्ध्यां) १०२।९द् कन्याप्रसूतिमटनां (अटनं) कुरुते शशांकः ॥ ॥ १०२।१०अ राहुः नभःस्थलगतो (नभस्थलगतो) विधवां करोति १०२।१०ब् पापे रतां दिनकरश्च शनैश्चरश्च । १०२।१०य् मृत्युं कुजोऽर्थरहितां कुलटां च चन्द्रः १०२।१०द् शेषा ग्रहा धनवतीं सुभगां च कुर्युः ॥ ॥ १०२।११अ आये रविः बहुसुतां सधनां (धनिनीं) शशांकः १०२।११ब् पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम् । १०२।११य् आयुष्मतीं सुरगुरुः शशिजः समृद्धां १०२।११द् राहुः करोत्यविधवां भृगुः अर्थयुक्ताम् ॥ ॥ १०२।१२अ अन्ते गुरुः धनवतीं दिनकृद् दरिद्रां १०२।१२ब् चन्द्रोधनव्ययकरीं कुलटां च राहुः । १०२।१२य् साध्वीं भृगुः शशिसुतो बहुपुत्रपौत्रां १०२।१२द् पानप्रसक्तहृदयाम् रविजः कुजश्च ॥ ॥ १०२।१३अ गोपैः यष्ट्याहतानां खुरपुटदलिता या तु धूलिः दिनान्ते १०२।१३ब् सोद्वाहे सुन्दरीणां विपुलधनसुतारोग्यसौभाग्यकर्त्री । १०२।१३य् तस्मिन् काले न चऋक्षं न च तिथिकरणं नैव लग्नं न योगः १०२।१३द् ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजः तु ॥ ॥ sएपरते अध्याय १०३ ग्रहगोचराध्यायः १०३।१अब्/ प्रायेण सूत्रेण विनाकृतानि प्रकाशरन्ध्राणि चिरन्तनानि । १०३।१य्द्/ रत्नानि शास्त्राणि च योजितानि नवैः गुणैः भूषयितुं क्षमाणि ॥ ॥ १०३।२अब्/ प्रायेण गोचरो व्यवहार्योऽतः तत्फलानि वक्ष्यामि । १०३।२य्द्/ नानावृत्तैः आर्या (तन्नो) मुखचपलत्वं क्षमध्वं नःक्षमन्त्वार्याः) ॥ ॥ १०३।३अब्/ माण्डव्यगिरं श्रुत्वा न मदीया रोचतेऽथवा नैवम् । १०३।३य्द्/ साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला ॥ ॥ १०३।४अ सूर्यः षट्त्रिदशस्थितः त्रिदशषट्सप्ताद्यगश्चन्द्रमा १०३।४ब् जीवः सप्तनवद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ । १०३।४य् सौम्यः षड्द्विचतुर्दशाष्टमगतः सूर्ये (सर्वे) ऽपि उपान्ते शुभाः १०३।४द् शुक्रः सप्तमषड्दशऋक्षसहितः शार्दूलवत् त्रासकृत् ॥ ॥ १०३।५अ जन्मनि आयासदोऽर्कः क्षपयति विभवान् कोष्ठरोगाध्वदाता १०३।५ब् वित्तभ्रंशं द्वितीये दिशति च न सुखं वंचनां दृग्रुजं च । १०३।५य् स्थानप्राप्तिं तृतीये धननिचयमुदा कल्यकृच्चारिहर्ता (हन्ता) १०३।५द् रोगान् दत्ते (धत्ते) चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ ॥ १०३।६अ पीडाः स्युः पंचमस्थे सवितरि बहुशो रोगारिजनिताः १०३।६ब् षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपून् शोकांश्च नुदति । १०३।६य् अध्वानं सप्तमस्थो जठरगदभयं दैन्यं च कुरुते । १०३।६द् रुक्त्रासौ (रुक्कासौ) चाष्टमस्थे भवति सुवदना न स्वापि वनिता ॥ ॥ १०३।७अ रवावापद्दैन्यं रुग् इति नवमे वित्त (चित्त) चेष्टाविरोधो १०३।७ब् जयं प्राप्नोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण । १०३।७य् जयस्थानं (जयं स्थानं) मानं विभवमपि चैकादशे रोगनाशं १०३।७द् सुवृत्तानां चेष्टा भवति सफला द्वादशे नैतरेषाम् ॥ ॥ १०३।८अ शशी जन्मनि अन्नप्रवरशयनाच्छादनकरो १०३।८ब् द्वितीये मानार्थान् (मानार्थौ) ग्लपयति सविघ्नश्च भवति । १०३।८य् तृतीये वस्त्रस्त्रीधनविजय (निचय) सौख्यानि लभते १०३।८द् चतुर्थेऽविश्वासः शिखरिणि भुजंगेन सदृशः ॥ ॥ १०३।९अ दैन्यं व्याधिं शुचमपि शशी पंचमे मार्गविघ्नं १०३।९ब् षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च । १०३।९य् यानं मानं शयनमशनं सप्तमे वित्तलाभं १०३।९द् मन्द आक्रान्ते फणिनि हिमगौ च अष्टमे भीः न कस्य ॥ ॥ १०३।१०अ नवमगृहगो बन्धौद्वेगश्रमौदररोगकृद् १०३।१०ब् दशमभवने च आज्ञाकर्मप्रसिद्धिकरः शशी । १०३।१०य् उपचयसुहृत्संयोगार्थप्रमोदमुपान्त्यगो १०३।१०द् वृषभचरितान् दोषान् अन्त्ये (अन्ते) करोति च (हि) सव्ययान् ॥ ॥ १०३।११अब्/ कुजेऽभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः । १०३।११य्द्/ भृशं च पित्तानलचौररोगैः (रोगचौरैः) उपेन्द्रवज्रप्रतिमोऽपि यः स्यात् ॥ ॥ १०३।१२अ तृतीयगश्चौरकुमारकेभ्यो १०३।१२ब् भौमः सकाशात् फलमादधाति । १०३।१२य् प्रदीप्तिमाज्ञां धनमौर्णिकानि १०३।१२द् धात्वाकर आख्यानि किल अपराणि ॥ ॥ १०३।१३अब्/ भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुद्भवः । १०३।१३य्द्/ कुपुरुषजनिताग संगमात् प्रसभमपि करोति च अशुभम् ॥ ॥ १०३।१४अ रिपुगदकोपभयानि पंचमे १०३।१४ब् तनयकृताश्च शुचो महीसुते । १०३।१४य् द्युतिः अपि न अस्य चिरं भवेत् स्थिरा १०३।१४द् शिरसि कपेः इव मालती यथा (कृता) ॥ ॥ १०३।१५अब्/ रिपुभयकलहैः विवर्जितः सकनकविद्रुमताम्रकामगः (कागमः) । १०३।१५य्द्/ रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षते ॥ ॥ १०३।१६अ कलत्रकलहाक्षिरुग्जठररोगकृत् सप्तमे १०३।१६ब् क्षरत्क्षतजरूक्षितः क्षपित (क्षयित) वित्तमानोऽष्टमे । १०३।१६य् कुजे नवमसंस्थिते परिभवार्थनाश आदिभिः १०३।१६द् विलंबितगतिः भवत्यबलदेहधातुक्लमैः ॥ ॥ १०३।१७अ दशमगृहगते समं महीजे १०३।१७ब् विविधधन आप्तिरुपान्त्यगे जयश्च । १०३।१७य् जनपदमुपरि स्थितश्च भुंक्ते १०३।१७द् वनमिव षट्चरणः सुपुष्पिताग्रम् ॥ ॥ १०३।१८अ नानाव्ययैः द्वादशगे महीसुते १०३।१८ब् सन्ताप्यतेऽनर्थशतैश्च मानवः । १०३।१८य् स्त्रीकोपपित्तैश्च सनेत्रवेदनैः १०३।१८द् योऽपि इन्द्रवंशाभिजनेन गर्वितः ॥ ॥ १०३।१९अब्/ दुष्टवाक्यपिशुनाहितभेदैः बन्धनैः सकलहैश्च हृतस्वः । १०३।१९य्द्/ जन्मगे शशिसुते पथि गच्छन् स्वागतेऽपि कुशलं न श‍ृणोति ॥ ॥ १०३।२०अब्/ परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदय आप्तिः (सुहृदाप्तिः) । १०३।२०य्द्/ नृपतिशत्रुभयशंकितचितो (चित्तो) द्रुतपदं व्रजति दुश्चरितैः स्वैः ॥ ॥ १०३।२१अ चतुर्थगे स्वजनकुटुंबवृद्धयो १०३।२१ब् धनागमो भवति च शीतरश्मिजे । १०३।२१य् सुतस्थिते तनयकलत्रविग्रहो १०३।२१द् निषेवते न च रुचिरामपि स्त्रियम् ॥ ॥ १०३।२२अ सौभाग्यं विजयमथ उन्नतिं च षष्ठे १०३।२२ब् वैवर्ण्यं कलहमतीव सप्तमे ज्ञः । १०३।२२य् मृत्युस्थे जयसुत (सुतजय) वस्त्रवित्तलाभा १०३।२२द् नैपुण्यं भवति मतिप्रहर्षणीयम् ॥ ॥ १०३।२३अब्/ विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च । १०३।२३य्द्/ सप्रमदं शयनं च विधत्ते तद्गृहदो ऽथ कथां स्तरणं च (कथास्तरणं) ॥ ॥ १०३।२४अ धनसुतसुख (सुखसुत) योषिन्मित्रवाह (वाह्य) आप्तितुष्टिः १०३।२४ब् तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः । १०३।२४य् रिपुपरिभवरोगैः पीडितो द्वादशस्थे १०३।२४द् न सहति परिभोक्तुं मालिनीयोगसौख्यम् ॥ ॥ १०३।२५अ जीवे जन्मनि अपगतधनधीः १०३।२५ब् स्थानभ्रष्टो बहुकलहयुतः । १०३।२५य् प्राप्य अर्थेऽर्थान् व्यरिः अपि कुरुते १०३।२५द् कान्ताऽऽस्याब्जे भ्रमरविलसितम् ॥ ॥ १०३।२६अ स्थानभ्रंशात् कार्यविघाताग तृतीये १०३।२६ब् अनेकैः (नैकैः) क्लेशैः बन्धुजनोत्थैश्च चतुर्थे । १०३।२६य् जीवे शान्तिं पीडितचित्तश्च स विन्देद् (विन्देन्) १०३।२६द् नैव ग्रामे नापि वने मत्तमयूरे ॥ ॥ १०३।२७अ जनयति च तनयभवनमुपगतः १०३।२७ब् परिजनशुभसुतकरितुरगवृषान् । १०३।२७य् सकनकपुरगृहयुवतिवसनकृन् १०३।२७द् मणिगुणनिकरकृदपि विबुधगुरुः ॥ ॥ १०३।२८अ न सखीवदनं तिलकोज्ज्वलं १०३।२८ब् न च वनं (भवनं) शिखिकोकिलनादितम् । १०३।२८य् हरिणप्लुतशावविचित्रितं १०३।२८द् रिपुगते मनसः सुखदं गुरौ ॥ ॥ १०३।२९अ त्रिदशगुरुः शयनं रतिभोगं १०३।२९ब् धनमशनं कुसुमानि उपवाह्यम् । १०३।२९य् जनयति सप्तमराशिमुपेतो १०३।२९द् ललितपदां च गिरं धिषणां च ॥ ॥ १०३।३०अ बन्धं व्याधिम् चाष्टमे शोकमुग्रं १०३।३०ब् मार्गक्लेशं) क्लेशान् मृत्युतुल्यांश्च रोगान् । १०३।३०य् नैपुण्याऽऽज्ञापुत्रकर्मार्थसिद्धिं १०३।३०द् धर्मे जीवः शालिनीनां च लाभम् ॥ ॥ १०३।३१अ स्थानकल्यधनहा दशऋक्षगः १०३।३१ब् तत्प्रदो भवति लाभगो गुरुः । १०३।३१य् द्वादशेऽध्वनि विलोमदुःखभाग् १०३।३१द् याति यद्यपि नरो रथोद्धतः ॥ ॥ १०३।३२अ प्रथमगृहौपगो भृगुसुतः स्मरौपकरणैः १०३।३२ब् सुरभिमनोज्ञगन्धकुसुमांबरैरुपचयम् । १०३।३२य् शयनगृहासनाशनयुतस्य च अनुकुरुते १०३।३२द् समदविलासिनीमुखसरोजषट्चरणताम् ॥ ॥ १०३।३३अ शुक्रे द्वितीयगृहगे प्रसवार्थधान्य- १०३।३३ब् भूपालसन्नत (सन्नति) कुटुंबहितानि अवाप्य । १०३।३३य् संसेवते कुसुमरत्नविभूषितश्च १०३।३३द् कामं वसन्ततिलकद्युतिमूर्धजोऽपि ॥ ॥ १०३।३४अब्/ आज्ञा अर्थमानास्पदभूतिवस्त्रशत्रुक्षयान् दैत्यगुरुः तृतीये । १०३।३४य्द्/ दत्ते (धत्ते) चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रप्रतिमां च शक्तिम् ॥ ॥ १०३।३५अब्/ जनयति शुक्रः पंचमसंस्थो गुरुपरितोषं बन्धुजनाप्तिम् । १०३।३५य्द्/ सुतधनलब्धिं मित्रसहायान् अनवसितत्वं च अरिबलेषु ॥ ॥ १०३।३६अ षष्ठो भृगुः परिभवरोगतापदः १०३।३६ब् स्त्रीहेतुकं जनयति सप्तमोऽशुभम् । १०३।३६य् यातोऽष्टमं भवनपरिच्छदप्रदो १०३।३६द् लक्ष्मीवतीमुपनयति स्त्रियं च सः ॥ ॥ १०३।३७अ नवमे तु धर्मवनितासुखभाग् १०३।३७ब् भृगुजेऽर्थवस्त्रनिचयश्च भवेत् । १०३।३७य् दशमेऽवमानकलहान् नियमात् १०३।३७द् प्रमिताक्षराणि अपि वदन् लभते ॥ ॥ १०३।३८अब्/ उपान्त्यगो भृगो सुतः सुहृद्धनान्नगन्धदः । १०३।३८य्द्/ धनांबर आगमोऽन्त्यगः स्थिरः तु नांबर आगमः ॥ ॥ १०३।३९अब्/ प्रथमे रविजे विषवह्निहतः स्वजनैः वियुतः कृतबन्धुवधः । १०३।३९य्द्/ परदेशमुपैत्यसुहृद्भवनो विमुखार्थसुतोऽटकदीनमुखः ॥ ॥ १०३।४०अ चारवशाद् द्वितीयगृहगे दिनकरतनये १०३।४०ब् रूपसुखापवर्जिततनुः विगतमदबलः । १०३।४०य् अन्यगुणैः कृतं वसुचयम् तदपि खलु भवत्य्- १०३।४०द् अंब्विव वंशपत्रपतितं न बहु न च चिरम् ॥ ॥ १०३।४१अ सूर्यसुते तृतीयगृहगे धनानि लभते १०३।४१ब् दासपरिच्छदौष्ट्रमहिषा अश्वकुञ्जरखरान् । १०३।४१य् सद्मविभूतिसौख्यममितं गदव्युपरमं १०३।४१द् भीरुः अपि प्रशास्त्यधिरिपूंश्च वीरललितैः ॥ ॥ १०३।४२अ चतुर्थं गृहं सूर्यपुत्रेऽभ्युपेते १०३।४२ब् सुहृद्वित्तभार्य आदिभिः विप्रयुक्तः । १०३।४२य् भवत्यस्य सर्वत्र चासाधु दुष्टं १०३।४२द् भुजंगप्रयातानुकारं च चित्तम् ॥ ॥ १०३।४३अ सुतधनपरिहीणः पंचमस्थे १०३।४३ब् प्रचुरकलहयुक्तश्च अर्कपुत्रे । १०३।४३य् विनिहतरिपुरोगः षष्ठयाते १०३।४३द् पिबति च वनिताऽऽस्यं श्रीपुटोष्ठम् ॥ ॥ १०३।४४अ गच्छत्यध्वानं सप्तमे च अष्टमे च १०३।४४ब् हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः । १०३।४४य् तद्वद् धर्मस्थे वैरहृद्रोगबन्धैः १०३।४४द् धर्मोऽपि उच्छिद्येद् वैश्वदेवीक्रियाद्यः ॥ ॥ १०३।४५अ कर्मप्राप्तिः दशमेऽर्थक्षयश्च १०३।४५ब् विद्याकीर्त्योः परिहानिश्च सौरे । १०३।४५य् तैक्ष्ण्यं लाभे परयोषार्थलाभः (लाभा) १०३।४५द् च अन्त्ये (अन्ते) प्राप्नोत्यपि शोक ऊर्मिमालाम् ॥ ॥ १०३।४६अब्/ अपि कालमपेक्ष्य च पात्रं शुभकृद् विदधात्यनुरूपम् । १०३।४६य्द्/ न मधौ बहु कं कुडवे वा (च) विसृजत्यपि मेघवितानः ॥ ॥ १०३।४७अ रक्तैः पुष्पैः गन्धैः ताम्रैः कनकवृषबकुलकुसुमैः दिवाकरभूसुतौ १०३।४७ब् भक्त्या पूज्याविन्दुः धेन्वा सितकुसुमरजतमधुरैः सितश्च मदप्रदैः । १०३।४७य् कृष्णद्रव्यैः सौरिः सौम्यो मणिरजततिलककुसुमैः गुरुः परिपीतकैः १०३।४७द् प्रीतैः पीडा न स्यादुच्चाद् यदि पतति विशति यदि वा भुजंगविजृंभितम् ॥ ॥ १०३।४८अब्/ शमयौद्गतामशुभदृष्टिमपि विबुधविप्रपूजया । १०३।४८य्द्/ शान्तिजपनियमदानदमैः सुजनाभिभाषणसमागमैः तथा ॥ ॥ १०३।४९अब्/ रविभौमौ पूर्वार्धे शशिसौरौ कथयतोऽन्त्यगौ राशेः । १०३।४९य्द्/ सदसल्लक्षणमार्यगीत्युपगीत्योः यथासंख्यम् ॥ ॥ १०३।५०अब्/ आदौ यादृक् सौम्यः पश्चादपि तादृशो भवति । १०३।५०य्द्/ उपगीतेः मात्राणां गणवत् सत्सम्प्रयोगो वा ॥ ॥ १०३।५१अब्/ आर्याणामपि कुरुते विनाशमन्तर्गुरुः विषमसंस्थः । १०३।५१य्द्/ गण इव षष्ठे दृष्टः स (च) सर्वलघुतां जनं (गतो) नयति ॥ ॥ १०३।५२अ अशुभनिरीक्षितः शुभफलो बलिना बलवान् १०३।५२ब् अशुभफलप्रदश्च शुभदृग्विषयोपगतः । १०३।५२य् अशुभशुभावपि स्वफलयोः व्रजतः समताम् १०३।५२द् इदमपि गीतकं च खलु नर्कुटकं च यथा ॥ ॥ १०३।५३अब्/ नीचेऽरिभेऽस्ते च अरिदृष्टस्य (अरि) सर्वं वृथा यत् (यथा) परिकीर्तितम् । १०३।५३य्द्/ पुरतोऽन्धस्य इव कामिन्याः सविलासकटाक्षनिरीक्षणम् ॥ ॥ १०३।५४अ सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश् १०३।५४ब् छन्दतः समनुयाति यथा । १०३।५४य् स्कन्धकमार्यगीतिः वैतालीयं च १०३।५४द् मागधी गाथाऽऽर्याम् ॥ ॥ १०३।५५अब्/ सौरोऽर्करश्मियोगात् (रागात्) सविकारो लब्धवृद्धिः अधिकतरम् । १०३।५५य्द्/ पित्तवदाचरति नृणां पथ्यकृतां न तु तथाऽऽर्याणाम् ॥ ॥ १०३।५६अब्/ यादृशेन ग्रहेणेन्दुः युक्तः तादृग् भवेत् सोऽपि । १०३।५६य्द्/ मनोवृत्तिसमायोगाद् विकार इव वक्त्रस्य ॥ ॥ १०३।५७अब्/ पंचमं लघु सर्वेषु (सर्वपादेषु) सप्तमं द्विचतुर्थयोः । १०३।५७य्द्/ यद्वत्श्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः ॥ ॥ १०३।५८अब्/ प्रकृत्य अपि लघुः यश्च वृत्तबाह्ये व्यवस्थितः । १०३।५८य्द्/ स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः ॥ ॥ १०३।५९अब्/ प्रारब्धमसुस्थितैः ग्रहैः यत् कर्म आत्मविवृद्धये बुधैः (ऽबुधैः) । १०३।५९य्द्/ विनिहन्ति तदेव कर्म तान् वैतालीयमिव अयथाकृतम् ॥ ॥ १०३।६०अब्/ सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा । १०३।६०य्द्/ अणुना अपि स पौरुषेण वृत्त्यौ (वृत्तस्यौ) पच्छन्दसिकस्य याति पारम् ॥ ॥ १०३।६१ (१) उपचयभवनौपयातस्य भानोः दिने कारयेद् - धेमताम्राश्वकाष्ठास्थिचर्माउर्णिकाद्रिद्रुमत्वग्नखव्यालचौर - आयुधीयाटवीक्रूरराजोपसेवाभिषेकाउषधक्षौमपण्यादि- गोपालकान्तारवैद्याश्मकूटावदाताभिविख्यातशूर आहवश्लाघ्ययाय्य - (याज्या) अग्निकर्माणि (कार्याणि) सिद्ध्यन्ति लग्नस्थिते वा रवौ । १०३।६१ (२) शिशिरकिरणवासरे तस्य व अपि उद्गमे केन्द्रसंस्थेऽथवा - भूषणं शंखमुक्ता अब्जरूप्यांबुयज्ञैक्षुभोज्यांगनाक्षीर- सुस्निग्धवृक्षक्षुपानूपधान्यद्रवद्रव्यविप्राध्वगीत - (विप्राश्वशीत) क्रियाश‍ृंगिकृष्यादिसेनाधिप - आक्रन्दभूपालसौभाग्यनक्तंचरश्लैष्मिकद्रव्यमातुल्य (मातुंग) - पुष्पांबरारंभसिद्धिः भवेत् ॥ ॥ १०३।६१ (३) क्षितितनयदिने प्रसिद्ध्यन्ति (प्रसिध्यन्ति) धात्वाकरादीनि - सर्वाणि कार्याणि चामीकराग्निप्रवाल आयुधक्रौर्यचौर्याभिघाताट- वीदुर्गसेनाधिकाराः - तथा रक्तपुष्पद्रुमा रक्तमन्यग तिक्तं कटुद्रव्यकूटाहिपाशार्जितस्वाः - कुमारा भिषक्षाक्यभिक्षुक्षपावृत्तिकोशेश (कौशेय) शाठ्यानि - सिद्ध्यन्ति (सिध्यन्ति) दंभाः तथा ॥ ॥ १०३।६१ (४) हरति (हरित, हरित) मणिमहीसुगन्धीनि वस्त्राणि साधारणं - नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो - मन्त्रधातुक्रियावादनैपुण्यपुण्यव्रतायोगदूताः तथाऽऽयुष्यमायानृतस्नानह्रस्वाणि - दीर्घाणि मध्यानि च छन्दतः (च्छन्दनः) चण्डवृष्टिप्रयातानुकारीणि - कार्याणि सिद्ध्यन्ति (सिध्यन्ति) सौम्यस्य लग्नेऽह्नि वा ॥ ॥ १०३।६२अ सुरगुरुदिवसे कनकं रजतं तुरगाः करिणो वृषभा - भिषगौषधयः (ओषधयः) । १०३।६२ब् द्विजपितृसुरकार्यपुरःस्थितघर्म (धर्म) निवारणचामरभूषणभूपतयः । १०३।६२य् विबुधभवनधर्मसमाश्रयमंगलशास्त्रमनोज्ञबलप्रदसत्यगिरः । १०३।६२द् व्रतहवनधनानि च सिद्धिकराणि तथा रुचिराणि च वर्णकदण्डकवत् ॥ ॥ १०३।६३अ भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्यकामिनीविलासहासयौवनौपभोगरम्यभूमयः । १०३।६३ब् स्फटिकरजतमन्मथौपचारवाहनैक्षुशारद- प्रकारगोवणिक्कृषीवलौषधांबुजानि च । १०३।६३य् सवितृसुतदिने च कारयेन् - महिष्यजौष्ट्रकृष्णलोहदासवृद्धनीचकर्मपक्षिचौरपाशिकान् । १०३।६३द् च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि च - अन्यथा न साधयेत् समुद्रगोऽपि अपां कणम् ॥ ॥ १०३।६४अब्/ विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत् । १०३।६४य्द्/ श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरोऽतः ॥ ॥ sएपरते अध्याय १०४ रूपसत्राध्यायः १०४।१अब्/ पादौ मूलं जंघे च रोहिणी जानुनी तथाश्विन्यः । १०४।१य्द्/ ऊरू च आषाढद्वयमथ गुह्यं फल्गुनीद्वितयं (युग्मं) ॥ ॥ १०४।२अब्/ कटिः अपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः । १०४।२य्द्/ कुक्षिस्था रेवत्यो विज्ञेयमुरोऽनुराधा च ॥ ॥ १०४।३अब्/ पृष्ठं विद्धि धनिष्ठां (धनिष्ठा) भुजौ विशाखा (विशाखां) स्मृतौ करौ हस्तः ॥ ॥ १०४।३य्द्/ अंगुल्यश्च पुनर्वसुः आश्लेषासंज्ञिताश्च नखाः ॥ ॥ १०४।४अब्/ ग्रीवा ज्येष्ठा श्रवणं श्रवणौ (श्रवणौ श्रवनः) पुष्यो मुखं द्विजाः स्वातिः । १०४।४य्द्/ हसितं शतभिषग् अथ नासिका मघा मृगशिरो नेत्रे ॥ ॥ १०४।५अब्/ चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश्चार्द्रा । १०४।५य्द्/ नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः ॥ ॥ १०४।६अब्/ चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे । १०४।६य्द्/ ह्युपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ॥ ॥ १०४।७अब्/ दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम् । १०४।७य्द्/ विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ॥ ॥ १०४।८अ अन्नैः क्षीरघृतौत्कटैः सह गुडैः विप्रान् समभ्यर्चयेद् १०४।८ब् दद्यात् तेषु सुवर्ण (तथैव) वस्त्ररजतं लावण्यमिच्छन् नरः । १०४।८य् पादऋक्षात् प्रभृति क्रमादुपवसन्न् अंगऋक्षनामस्वपि १०४।८द् कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥ ॥ १०४।९अब्/ प्रलंबबाहुः पृथुपीनवक्षाः क्षपाकरास्यः सितचारुदन्तः । १०४।९य्द्/ गजेन्द्रगामी कमलायताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्तिः ॥ ॥ १०४।१०अब्/ शरदमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा । १०४।१०य्द्/ रुचिरदशना सुकर्णा भ्रमरौदरसन्निभैः केशैः ॥ ॥ १०४।११अब्/ पुंस्कोकिलसमवाणी ताम्रोष्टी (ताम्रोष्ठी) पद्मपत्रकरचरणा । १०४।११य्द्/ स्तनभारानतमध्या प्रदक्षिणावर्तया नाभ्या ॥ ॥ १०४।१२अब्/ कदलीकाण्डनिभ ऊरुः (ऊरूः) सुश्रोणी वरकुकुन्दरा सुभगा । १०४।१२य्द्/ सुश्लिष्टांगुलिपादा भवति प्रमदा मनुष्यश्च (मनुष्यो वा) ॥ ॥ १०४।१३अ यावन् नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा १०४।१३ब् तावन् नक्षत्रभूतो विचरति सह तैः ब्रह्मणोऽह्नोऽवशेषम् । १०४।१३य् कल्पादौ चक्रवर्ती भवति हि मतिमां तत्क्षयागापि भूयः १०४।१३द् संसारे जायमानो भवति नरपतिः ब्राह्मणो वा धनाढ्यः ॥ ॥ १०४।१४अब्/ मृगशीर्षाद्याः केशवनारायणमाधवाः सगोविन्दाः । १०४।१४य्द्/ विष्णुमधुसूदनाख्यौ त्रिविक्रमो वामनश्चैव ॥ ॥ १०४।१५अब्/ श्रीधरनामा तस्मात् सहृषीकेशश्च पद्मनाभश्च । १०४।१५य्द्/ दामोदर इत्येते मासाः प्रोक्ता यथासंख्यं ॥ ॥ १०४।१६अब्/ मासनामसमुपोषितो नरो द्वादशीषु विधिवत् प्रकीर्तयन् । १०४।१६य्द्/ केशवम् समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम् ॥ ॥ sएपरते अध्याय १०५ उपसंहाराध्यायः १०५।१अब्/ ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणाऽथ मया । १०५।१य्द्/ लोकस्य आलोककरः शास्त्रशशांकः समुत्क्षिप्तः ॥ ॥ १०५।२अब्/ पूर्वाचार्यग्रन्था नौत्सृष्टाः कुर्वता मया शास्त्रम् । १०५।२य्द्/ तान् अवलोक्यैदं च प्रयतध्वं कामतः सुजनाः ॥ ॥ १०५।३अब्/ अथवा कृशं (भृशं) अपि सुजनः प्रथयति दोषार्णवाद् गुणं दृष्ट्वा । १०५।३य्द्/ नीचः तद्विपरीतः प्रकृतिः इयं साध्वसाधूनाम् ॥ ॥ १०५।४अब्/ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति । १०५।४य्द्/ श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन ॥ ॥ १०५।५अ ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति १०५।५ब् लेख्याद् बहुश्रुतमुखाधिगमक्रमेण । १०५।५य् यद्वा मया कुकृतमल्पमिहाकृतं वा १०५।५द् कार्यं तदत्र विदुषा परिहृत्य रागम् ॥ ॥ १०५।६अब्/ दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना इदम् । १०५।६य्द्/ शास्त्रमुपसंगृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥ ॥ sएपरते अध्याय १०६ शास्त्रानुक्रमणी १०६।१अब्/ शास्त्रौपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च । १०६।१य्द्/ शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ॥ ॥ १०६।२अब्/ चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च । १०६।२य्द्/ नक्षत्राणां व्यूहो ग्रहभक्तिः ग्रहविमर्दश्च ॥ ॥ १०६।३अब्/ ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च । १०६।३य्द्/ श‍ृंगाटसंस्थितानां मेघानां गर्भलक्षणं चैव ॥ ॥ १०६।४अब्/ धारणवर्षणरोहिणिवायव्याषाढभद्रपद (भाद्रपद) योगाः । १०६।४य्द्/ क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः ॥ ॥ १०६।५अब्/ भूकंपौल्कापरिवेषलक्षणं शक्रचापखपुरं च । १०६।५य्द्/ प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ॥ ॥ १०६।६अब्/ इन्द्रध्वजनीराजनखञ्जनकौत्पातवर्हि (बर्हि) चित्रं च । १०६।६य्द्/ पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ॥ ॥ १०६।७अब्/ उदक् (उदग्) आर्गलमारामिकममरालयलक्षणं कुलिशलेपः । १०६।७य्द्/ प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ॥ ॥ १०६।८अब्/ चिह्नं गवामथ शुनाम् कुक्कुटकूर्माजपुरुषचिह्नं च । १०६।८य्द्/ पंचमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ॥ ॥ १०६।९अब्/ चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च । १०६।९य्द्/ कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः ॥ ॥ १०६।१०अब्/ वज्रपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः । १०६।१०य्द्/ दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ॥ ॥ १०६।११अब्/ अन्तरचक्रं विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च ॥ ॥ १०६।११य्द्/ चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ॥ ॥ १०६।१२अब्/ पाको नक्षत्रगुणाः तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः । १०६।१२य्द्/ गोचरमथ (गोचरः तथा) ग्रहाणां कथितो नक्षत्रपुरुषश्च ॥ ॥ १०६।१३अब्/ शतमिदमध्यायानामनुपरिपाटिक्रमादनुक्रान्तम् । १०६।१३य्द्/ अत्र श्लोकसहस्राणि आबद्धानि ऊनचत्वारि ॥ ॥ १०६।१४अब्/ अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम् । १०६।१४य्द्/ बह्वाश्चर्यं जातकमुक्तं करणं च बहुचोद्यम् ॥ ॥ ॥ इति बृहत्संहिता॥
The accompanying file is a plain ASCII transcription of the BRhatsaMhitA of VarAhamihira, a classical Sanskrit text on astrological divination and omens. The file has the following header: VarAhamihira's BRhatsaMhitA (Version 3, June 5, 1992) digitalized by Michio YAno proofread by Mizue Sugita based on the edition of A.V.TripAThI (SarasvatI Bhavan GranthamAlA Edition) with reference to H.Kern's text [variants marked by K.] and his translation [ Text was input by Kyoto-Harvard System, that is, Capitals for long vowels, linguals, anusvAra, visarga, and nazals, and z for palatal sibilants. Members of sandhi are not medskipd. avagraha is romanized by +a, external vowel sandhi is decomposed with the mark hat sign.] DW 11 June 1992 Converted to ITRANS on April 20, 1994. Last update July 7, 1995. The itrans conversion accounts for trailing word letters such as m, s, t, d etc. Reference to K. is eliminated since it is available in the original file. Sanskrit sandhIs are accounted. The adhyayas are medskipd by a horizontal line. Encoded by Michio YAno in Kyoto system Proofread by : Mizue Sugita
% Text title            : varAhamihirarachitA bRihatsaMhitA
% File name             : varbrhs.itx
% itxtitle              : bRihatsaMhitA (varAhamihira)
% engtitle              : VarAhamihira's BRhatsaMhitA
% Category              : sociology_astrology, varAhamihira, jyotisha
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Texttype              : pramukha
% Author                : varAhamihirara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Michio YAno
% Proofread by          : Mizue Sugita
% Description-comments  : edition of A.V.TripAThI (SarasvatI Bhavan GranthamAlA Edition)
% Indexextra            : (Older version)
% Latest update         : June 5, 1992, July 7, 1995, November 1, 2010
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org