वराहमिहिर बृहत्संहिता
sएपरते अध्याय १ उपनयनाध्यायः
१।१अब्/ जयति जगतः प्रसूतिः विश्वात्मा सहजभूषणं नभसः ।
१।१य्द्/ द्रुतकनकसदृशदशशतमयूखमालार्चितः सविता ॥ ॥
१।२अब्/ प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्यार्थम् ।
१।२य्द्/ नातिलघुविपुलरचनाभिरुद्यतः स्पष्टमभिधातुम् ॥ ॥
१।३अब्/ मुनिविरचितमिदमिति यगिरन्तनं साधु न मनुजग्रथितम् ।
१।३य्द्/ तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥ ॥
१।४अब्/ क्षितितनयदिवसवारो न शुभकृदिति यदि पितामहप्रोक्ते ।
१।४य्द्/ कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नृदिव्यकृतेः (कृते) ॥ ॥
१।५अब्/ आब्रह्मादिविनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः ।
१।५य्द्/ क्रियमाणकमेव एतत् समासतोऽतो ममौत्साहः ॥ ॥
१।६अब्/ आसीत्तमः किलैदं तत्रापां तैजसेऽभवद् धैमे ।
१।६य्द्/ स्वर्भूशकले ब्रह्मा विश्वकृदण्डेऽर्कशशिनयनः ॥ ॥
१।७अब्/ कपिलः प्रधानमाह द्रव्यादीन् कणकभुग् अस्य विश्वस्य ।
१।७य्द्/ कालं कारणमेके स्वभावमपरे जगुः कर्म ॥ ॥
१।८अब्/ तदलमतिविस्तरेण प्रसंगवादार्थनिर्णयोऽतिमहान् ।
१।८य्द्/ ज्योतिःशास्त्रांगानां वक्तव्यो निर्णयोऽत्र मया ॥ ॥
१।९अ ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं
१।९ब् तत्कार्त्स्न्यौपनयस्य नाम मुनिभिः संकीर्त्यते संहिता ।
१।९य् स्कन्धेऽस्मिन् गणितेन या ग्रहगतिः तन्त्राभिधानः त्वसौ
१।९द् होरा अन्यो अंगविनिश्चयश्च कथितः स्कन्धः तृतीयोऽपरः ॥ ॥
१।१०अब्/ वक्रानुवक्रास्तमयौदयाद्याः ताराग्रहाणां करणे मयोक्ताः ।
१।१०य्द्/ होरागतं विस्तरशश्च जन्मयात्राविवाहैः सह पूर्वमुक्तम् ॥ ॥
१।११अब्/ प्रश्नप्रतिप्रश्नकथाप्रसंगान् स्वल्पौपयोगान् ग्रहसंभवांश्च ।
१।११य्द्/ सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्ये ॥ ॥
sएपरते अध्याय २ अथातः सांवत्सरसूत्रं व्याख्यास्यामः ।
२।(१) तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवाग् -
अनसूयकः समः सुसंहिता उपचितगात्रसन्धिः -
अविकलश्चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रू -
उत्तमांगो वपुष्मान् गंभीरौदात्तघोषः ।
प्रायः शरीर आकारानुवर्त्तिनो (वर्तिनो) हि गुणा दोषाश्च भवन्ति ।
२।(२) तत्र गुणाः-शुचिः दक्षः प्रगल्भो वाग्ग्मी (वाग्मी) प्रतिभानवान् -
देशकालवित् सात्त्विको न पर्षद्भीरुः सहाध्यायिभिः अनभिभवनीयः -
कुशलोऽव्यसनी शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो -
विबुधार्चनव्रतौअपवासनिरतः स्वतन्त्राश्चर्या उत्पादितप्रभावः -
पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिताहोरा-
ग्रन्थार्थवेत्ता इति ।
२।(३) तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु -
पंचस्वेतेषु सिद्धान्तेषु -
युगवर्षायनऋतुमासपक्षाहोरात्रयाममुहूर्तनाडीविणाडीप्राण-
त्रुटित्रुट्याद्यवयव आदिकस्य (आद्यस्य) कालस्य क्षेत्रस्य च वेता ।
२।(४) चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणामधिमा-
सकावमसंभवस्य च कारणाभिज्ञः ।
२।(५) षष्ट्यब्दयुगवर्षमास-
दिनहोरा अधिपतीनां प्रतिपत्ति (वि)च्छेदवित् ।
२।(६) सौरादीनां च मानानामसदृशसदृश (सदृशासदृश) -
योग्यायोग्यत्वप्रतिपादनपटुः ।
२।(७) सिद्धान्तभेदेऽपि अयननिवृत्तौ प्रत्यक्षं -
सममण्डललेखासम्प्रयोगाभ्युदितांशकानां (च) -
छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः ।
२।(८) सूर्यादीनां च ग्रहाणाम् -
शीघ्रमन्दयाम्यौत्तरनीचौच्चगतिकारणाभिज्ञः ।
२।(९) सूर्यचन्द्रमसोश्च ग्रहणे ग्रहण -
आदिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णादेशानां (वर्णदेशानां) -
अनागतग्रहसमागमयुद्धानामादेष्टा ।
२।(१०) प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजन-
परिच्छेदकुशलः (कुशलो) ।
२।(११) भूभगणभ्रमणसंस्थानाद्यक्षावलंबकाहर्व्यासचरदलकालरा-
श्युदयच्छायानाडीकरणप्रभृतिषु क्षेत्रकालकरणेष्वभिज्ञः ।
२।(१२) नानाचोद्यप्रश्नभेदौपलब्धिजनितवाक्सारो-
निकषसन्तापाभिनिवेशैः (विशुद्धस्य) कनकस्यैवाधिकतरममलीकृतस्य -
(शास्त्रस्य) वक्ता तन्त्रज्ञो भवति (उक्तज् च) ।
२।१अब्/ न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः ।
२।१य्द्/ निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ञेयः ॥ ॥
२।२अब्/ ग्रन्थोऽन्यथा अन्यथार्थं (अन्यथार्थः) करणं यश्चान्यथा करोत्यबुधः ।
२।२य्द्/ स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम् ॥ ॥
२।३अब्/ तन्त्रे सुपरिज्ञाते लग्ने छाया अंबुयन्त्रसंविदिते ।
२।३य्द्/ होरार्थे च सुरूढे नादेष्टुः भारती वन्ध्या ॥ ॥
उक्तन् चार्यविष्णुगुप्तेन
२।४अ अपि अर्णवस्य पुरुषः प्रतरन् कदाचिद्
२।४ब् आसादयेदनिलवेगवशेन पारम् ।
२।४य् न त्वस्य कालपुरुष आख्यमहार्णवस्य
२।४द् गच्छेत् कदाचिदनृषिः मनसापि पारम् ॥ ॥
२।(१३) होराशास्त्रेऽपि (च) राशिहोराद्रेष्काणनवांशकद्वादशभा-
गत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिः -
अनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादिपरिग्रहो -
निषेकजन्मकालविस्मापनप्रत्यय आदेशसद्योमरण आयुर्दायदशा अन्तर्दशा -
अष्टकवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसादीनाम् च -
योगानाम् फलानि आश्रयभावावलोकननिर्याणगत्यनूकानि -
तत्काल (कालिक)प्रश्नशुभाशुभनिमित्तानि विवाहादीनाम् च कर्मनां करणम् ।
२।(१४) यात्रायां तु (च) तिथिदिवसकरणनक्षत्रमुहूर्तविलग्नयोग-
देहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्नि-
लिंगहस्त्यश्वैंगितसेना-
प्रवादचेष्टादिग्रहषाड्गुण्यौपायमंगलामंग-
लशकुनसैन्यनिवेशभू-
मयोऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः परदुर्ग (उप) -
लंभोपायश्चेत्युक्तं च आचार्यैः ।
२।५अब्/ जगति प्रसारितमिव आलिखितमिव मतौ निषिक्तमिव हृदये ।
२।५य्द्/ शास्त्रं यस्य सभगणं नादेशा निष्फलाः (निःफलाः) तस्य ॥ ॥
२।(१५) संहितापारगश्च दैवचिन्तको भवति ।
२।(१६) यत्र एते संहितापदार्थाः ।
२।(१७।१) दिनकरादीनाम् ग्रहाणां चाराः तेषु च तेषां -
प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमन-
उदयमार्गमार्गान्तरवक्रा-
नुवक्रऋक्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन -
देशेष्वगस्त्यचारः (अगस्तिचारः)। सप्तर्षिचारः ।ग्रहभक्तयो -
नक्षत्रव्यूहग्रहशृंगाटकग्रहयुद्धग्रहसमागम-
ग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः -
सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनौल्कादिग्दाह-
क्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्य-
जन्मेन्द्रध्वजेन्द्र-
चापवास्तुविद्या अंगविद्यावायसविद्या अन्तरचक्रमृगचक्राश्व-
चक्रवातचक्रप्रासा-
दलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदौदगार्गलनीरा-
जनखञ्जन् (अक्) औत्पातशान्तिमयूरचित्रकघृत-
कंबलखड्गपट्टकृकवाकुकूर्मगोऽजाश्वैभपुरूष -
(पुरुष) स्त्रीलक्षणानि -
२।(१७।२) अन्तःपुरचिन्तापिटकलक्षणौपानच्छेदवस्त्रच्छेदचामरदण्ड-
शयना (शय्या) आसनलक्षणरत्नपरीक्षा दीपलक्षणं -
दन्तकाष्ठाद्याश्रितानि (शुद्धाशुद्धानि) (शुभाशुभानि) -
निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं -
पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि ।
न चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि ।
तस्मात् सुभृतेनैव दैवज्ञेनान्येऽपि तद्विदश्चत्वारः कर्तव्याः (भर्तव्याः) ।
तत्रएकेनेन्द्री च आग्नेयी च दिग् अवलोकयितव्या ।
याम्या नैरृती चान्येनैवं वारुणी वायव्या चौत्तरा च एशानि चेति ।
यस्मादुल्कापातादीनि (निमित्तानि) शीघ्रमप (उप) (अभि) गच्छन्तीति ।
तस्याः (तेषां) च आकारवर्णस्नेहप्रमान आदिग्रहऋक्षौपघातादिभिः फलानि भवन्ति ।
उक्तं च गर्गेण महर्षिणा
२।६अब्/ कृत्स्नांगोपांगकुशलं होरागणितनैष्ठिकम् ।
२।६य्द्/ यो न पूजयते राजा स नाशमुपागच्छति ॥ ॥
२।७अब्/ वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः ।
२।७य्द्/ अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥ ॥
२।८अब्/ अप्रदीपा यथा रात्रिः अनादित्यं यथा नभः ।
२।८य्द्/ तथा असांवत्सरो राजा भ्रम्यत्यन्ध इवाध्वनि ॥ ॥
२।९अब्/ मुहूर्त (मुहूर्तं) तिथिनक्षत्रम् ऋतवश्चायने तथा ।
२।९य्द्/ सर्वाणि एवाकुलानि स्युः न स्यात् सांवत्सरो यदि ॥ ॥
२।१०अब्/ तस्माद् राज्ञाधिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः ।
२।१०य्द्/ जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥ ॥
२।११अब्/ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता ।
२।११य्द्/ चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ ॥
२।१२अब्/ न सांवत्सरपाठी च नरकेषु उपपद्यते ।
२।१२य्द्/ ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ॥ ॥
२।१३अब्/ ग्रन्थतश्चार्थतश्चैतत् कृत्स्नं जानति यो द्विजः ।
२।१३य्द्/ अग्रभुक् स भवेत्श्राद्धे पूजितः पंक्तिपावनः ।
२।१४अब्/ म्लेच्छा हि यवनाः तेषु सम्यक् शास्त्रमिदं स्थितम् ।
२।१४य्द्/ ऋषिवत् तेऽपि पूज्यन्ते किं पुनः दैवविद् द्विजः ॥ ॥
२।१५अब्/ कुहकावेशपिहित (इः) कर्णोपश्रुतिहेतुभिः ।
२।१५य्द्/ कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित् ॥ ॥
२।१६अब्/ अविदित्वैव यत् (यः) शास्त्रं दैवज्ञत्वं प्रपद्यते ।
२।१६य्द्/ स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ ॥
नक्षत्रसूचकोद्दिष्टमुपहासं करोति यः ।
स व्रजत्यन्धतामिस्रं सार्धम् ऋक्षविडंबिना ॥
२।१७अब्/ नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम् ।
२।१७य्द्/ आदेशः तद्वदज्ञानां यः सत्यः स विभाव्यते ॥ ॥
२।१८अब्/ सम्पत्त्या योजितादेशः तद्विच्छिन्नकथाप्रियः ।
२।१८य्द्/ मत्तः शास्त्रएकदेशेन त्याज्यः तादृग्महीक्षिता ॥ ॥
२।१९अब्/ यः तु सम्यग्विजानाति होरागणितसंहिताः ।
२।१९य्द्/ अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयैषणा ॥ ॥
२।२०अब्/ न तत् सहस्रं करिणां वाजिनां च चतुर्गुणम् ।
२।२०य्द्/ करोति देशकालज्ञो यथा एको (यदेको) दैवचिन्तकः ॥ ॥
२।२१अब्/ दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि ।
२।२१य्द्/ क्षिप्रं प्रयान्ति नाशम् शशिनः श्रुत्वा भसंवादम् ॥ ॥
२।२२अब्/ न तथा इच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत् ।
२।२२य्द्/ स्वयशोऽभिविवृद्दये यथा हितमाप्तः सबलस्य दैववित् ॥ ॥
sएपरते अध्याय ३ आदित्यचाराध्यायः
३।१अब्/ आश्लेषार्धाद् दक्षिणमुत्तरमयनं रवेर्धनिष्ठा अद्यम् ।
३।१य्द्/ नूनं कदाचिदासीद् येनोक्तम् पूर्वशास्त्रेषु ॥ ॥
३।२अब्/ सांप्रतमयनं सवितुः कर्कटकाद्यम् मृगादितश्चान्यत् ।
३।२य्द्/ उक्ताभावो विकृतिः प्रत्यक्षपरीक्सणैः व्यक्तिः ॥ ॥
३।३अब्/ दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्रांशोः ।
३।३य्द्/ छायाप्रवेशनिर्गमचिह्नैः वा मण्डले महति ॥ ॥
३।४अब्/ अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापराम् याम्याम् ।
३।४य्द्/ कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां स।एन्द्रीम् ॥ ॥
३।५अब्/ उत्तरमयनमतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः ।
३।५य्द्/ प्रकृतिस्थश्चाप्येवं विकृतगतिः भयकृदुष्णांशुः ॥ ॥
३।६अब्/ सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते ।
३।६य्द्/ स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः ॥ ॥
३।७अब्/ तामसकीलकसंज्ञा राहुसुताः केतवः त्रयः त्रिंशत् ।
३।७य्द्/ वर्णस्थान आकारैः तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥ ॥
३।८अब्/ ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ।
३।८य्द्/ ध्वांक्षकबन्धप्रहरणरूपाः पापाः शशांकेऽपि ॥ ॥
३।९अब्/ तेषामुदये रूपाणि अंभः कलुषं रजोवृतं व्योम ।
३।९य्द्/ नगतरुशिखरामर्दी (शिखरविमर्दी) सशर्करो मारुतश्चण्डः ॥ ॥
३।१०अब्/ ऋतुविपरीताः तरवो दीप्ता मृगपक्षिणो दिशां दाहाः ।
३।१०य्द्/ निर्घातमहीकंपादयो भवन्त्यत्र चोत्पाताः ॥ ॥
३।११अब्/ न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि ।
३।११य्द्/ तदुदयकारणमेषां केतुआदीनाम् फलं ब्रूयात् ॥ ॥
३।१२अब्/ यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिंबस्था ।
३।१२य्द्/ तस्मिं तस्मिन् व्यसनम् महीपतीनाम् परिज्ञेयम् ॥ ॥
३।१३अब्/ क्षुत्प्रम्लानशरीरा मुनयोऽपि उत्सृष्टधर्मसच्चरिताः ।
३।१३य्द्/ निर्मांसबालहस्ताः कृच्छ्रेणऽऽयान्ति परदेशं (परदेशान्) ॥ ॥
३।१४अब्/ तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः ।
३।१४य्द्/ सन्तः सन्नशरीराः शोकौद्भववाष्प (बाष्प) रुद्धदृशः ॥ ॥
३।१५अब्/ क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः ।
३।१५य्द्/ स्वनृपतिचरितं कर्म न (च) पुरा कृतं (पराकृतं, पुराकृतं) प्रब्रुवन्त्यन्ये ॥ ॥
३।१६अब्/ गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ।
३।१६य्द्/ सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते सस्यम् ॥ ॥
३।१७अब्/ दण्डे नरेन्द्रमृत्युः व्याधिभयं स्यात् कबन्धसंस्थाने (कवन्धसंस्थाने) ।
३।१७य्द्/ ध्वांक्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥ ॥
३।१८अब्/ राजौपकरणरूपैश्छत्रध्वजचामरादिभिः विद्धः ।
३।१८य्द्/ राजान्यत्वकृदर्कः स्फुलिंगधूमादिभिः जनहा ॥ ॥
३।१९अब्/ एको दुर्भिक्षकरो द्व्याद्याः स्युः नरपतेः विनाशाय ।
३।१९य्द्/ सितरक्तपीतकृष्णैः तैः विद्धोऽर्कोऽनुवर्णघ्नः ॥ ॥
३।२०अब्/ द्वश्यन्ते (दृश्यन्ते) च यतः ते रविबिंबस्यौत्स्थिता मोहौत्पाताः ।
३।२०य्द्/ आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥ ॥
३।२१अब्/ ऊर्ध्वकरो दिवसकरः ताम्रः सेनापतिं विनाशयति ।
३।२१य्द्/ पीतो नरेन्द्रपुत्रं श्वेतः तु पुरोहितं हन्ति ॥ ॥
३।२२अब्/ चित्रोऽथवापि धूम्रो रविरश्मिर्व्याकुलां (व्याकुलां) करोत्यूर्धं (महीं) ।
३।२२य्द्/ तस्करशस्त्रनिपातैः यदि सलिलं नाशु पातयति ॥ ॥
३।२३अब्/ ताम्रः कपिलो वार्कः शिशिरे हरिकुंकुमच्छविश्च मधौ ।
३।२३य्द्/ आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ॥ ॥
३।२४अब्/ शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः ।
३।२४य्द्/ प्रावृट्काले स्निग्धः सर्वऋतुनिभोऽपि शुभदायी ॥ ॥
३।२५अब्/ रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति ।
३।२५य्द्/ पीतो वैश्यान् कृष्णः ततो अपरान् शुभकरः स्निग्धः ॥ ॥
३।२६अब्/ ग्रीष्मे रक्तो भयकृद् वर्षास्वसितः करोत्यनावृष्टिम् ।
३।२६य्द्/ हेमन्ते पीतोऽर्कः करोति न चिरेण (अचिरेण) रोगभयम् ॥ ॥
३।२७अब्/ सुरचापपाटिततनुः नृपतिविरोधप्रदः सहस्रांशुः ।
३।२७य्द्/ प्रावृट्काले सद्यः करोति विमलद्युतिः वृष्टिम् ॥ ॥
३।२८अब्/ वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः ।
३।२८य्द्/ शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥ ॥
३।२९अब्/ श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् ।
३।२९य्द्/ यस्य ऋक्षे सच्छिद्रः तस्य विनाशः क्षितीशस्य ॥ ॥
३।३०अब्/ शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति संग्रामाः ।
३।३०य्द्/ शशिसदृशे नृपतिबधः (नृपतिवद्धः) क्षिप्रं चान्यो नृपो भवति ॥ ॥
३।३१अब्/ क्षुत्मारकृत् घटनिभः खण्डो जनहा (नृपहा) विदीधितिः भयदः ।
३।३१य्द्/ तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥ ॥
३।३२अब्/ ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च ।
३।३२य्द्/ कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं (नृपं ततः) सचिवः ॥ ॥
३।३३अब्/ दिनकरं (दिवसकरं) उदयास्तसंस्थितमुदयसंस्थितं) उल्काशनिविद्युतो यदा हन्युः ।
३।३३य्द्/ नरपतिमरणं विन्द्यात् तदा अन्यराजप्रतिष्ठा (प्रतिष्ठां) च ॥ ॥
३।३४अब्/ प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोः द्वयोः अथवा ।
३।३४य्द्/ रक्तोऽस्तमेति रक्तोदितश्च भूपं करोत्यन्यम् ॥ ॥
३।३५अब्/ प्रहरणसदृशैः जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी ।
३।३५य्द्/ मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ॥ ॥
३।३६अब्/ दिनकरकराभितापाद् ऋक्षमवाप्नोति सुमहतीम् पीडाम् ।
३।३६य्द्/ भवति तु पश्चात्शुद्धं कनकमिव हुताशपरितापात् ॥ ॥
३।३७अब्/ दिवसकृतः प्रतिसूर्यो जलकृदुदग् दक्षिणे स्थितोऽनिलकृत् ।
३।३७य्द्/ उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥ ॥
३।३८अ रुधिरनिभो वियत्यवनिपान्तरकरो न चिरात् ।
३।३८ब् परुषरजोऽरुणीकृततनुः यदि वा दिनकृत् ॥ ॥
३।३८य् असितविचित्रनीलपरुषो जनघातकरः ।
३।३८द् खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ॥ ॥
३।३९अब्/ अमलवपुः अवक्रमण्डलः स्फुतविपुलामलदीर्घदीधितिः ।
३।३९य्द्/ अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ॥ ॥
sएपरते अध्याय ४ चन्द्रचाराध्यायः ।
४।१अब्/ नित्यमधःस्थस्येन्दोः भाभिः भानोः सितं भवत्यर्धम् ।
४।१य्द्/ स्वच्छायया अन्यदसितं कुंभस्यैव आतपस्थस्य ॥ ॥
४।२अब्/ सलिलमये शशिनि रवेः दीधितयो मूर्छिताः तमो नैशम् ।
४।२य्द्/ क्षपयन्ति दर्पणौदरनिहिता (निहता) इव मन्दिरस्यान्तः ॥ ॥
४।३अब्/ त्यजतोऽर्कतलं शशिनः पश्चादवलंबते यथा शौक्ल्यम् ।
४।३य्द्/ दिनकरवशात् तथा इन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥ ॥
४।४अब्/ प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः ।
४।४य्द्/ भवति शशिनोऽपराह्णे पश्चाद् भागे घटस्यैव
४।५अब्/ एन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य चायातः (वा यातः) ।
४।५य्द्/ याम्येन वीजजलचरकाननहा वह्निभयदश्च ॥ ॥
४।६अब्/ दक्षिणपार्श्वेन गतः शशी विशाखा अनुराधयोः पापः ।
४।६य्द्/ मध्येन तु प्रशस्तः पितृदेव (पित्र्यस्य) विशाखयोश्चापि
४।७अब्/ षड् अनागतानि पौष्णाद् द्वादश रौद्राग मध्ययोगीनि ।
४।७य्द्/ ज्येष्ठाद्यानि नवर्क्षाणि उडुपतिना अतीत्य युज्यन्ते ॥ ॥
४।८अब्/ उन्नतमीषच्छृंगं नौसंस्थाने विशालता चौक्ता ।
४।८य्द्/ नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य ॥ ॥
४।९अब्/ अर्द्धोन्नते च लांगलमिति पीडा तदुपजीविनां तस्मिन् ।
४।९य्द्/ प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ॥ ॥
४।१०अब्/ दक्षिणविषाणमर्धोन्नतं यदा दुष्टलांगलाख्यं तत् ।
४।१०य्द्/ पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानाम् च ॥ ॥
४।११अब्/ समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः ।
४।११य्द्/ दण्डवदुदिते पीडा गवां नृपश्चौग्रदण्डोऽत्र ॥ ॥
४।१२अब्/ कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयः तेषाम् ।
४।१२य्द्/ स्थानं युगमिति याम्योत्तरायतं भूमिकंपाय ॥ ॥
४।१३अब्/ युगमेव याम्यकोट्यां किंचित् तुंगं स पार्श्वशायीइति
४।१३य्द्/ विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥ ॥
४।१४अब्/ अभ्युच्छ्रायादेकं यदि शशिनोऽवान्मुखं भवेत्छृंगम् ।
४।१४य्द्/ आवर्जितमित्यसुभिक्षकारि तद् गोधनस्यापि ॥ ॥
४।१५अब्/ अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम् ।
४।१५य्द्/ अस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥ ॥
४।१६अब्/ प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः ।
४।१६य्द्/ दक्षिणतुंगश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥ ॥
४।१७अब्/ शृंगेणएकेनेन्दुः (इन्दुं) विलीनमथवाप्यवान्मुखं शृंगं (अशृग्गं) ।
४।१७य्द्/ सम्पूर्णं चाभिनवं दृष्ट्वा एको जीविताद् भ्रश्येत् ॥ ॥
४।१८अब्/ संस्थानविधिः कथितो रूपाणि अस्माद् भवन्ति चन्द्रमसः ।
४।१८य्द्/ स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः ॥ ॥
४।१९अब्/ मध्यतनुः वज्राख्यः क्षुद्भयदः संभ्रमाय राज्ञां च ।
४।१९य्द्/ चन्द्रो मृदंगरूपः क्षेमसुभिक्षावहो भवति ॥ ॥
४।२०अब्/ ज्ञेयो विशालमूर्तिः नरपतिलक्ष्मीविवृद्धये चन्द्रः ।
४।२०य्द्/ स्थूलः सुभिक्षकारी प्रियधान्यकरः तु तनुमूर्तिः ॥ ॥
४।२१अ प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः शृंगे कुजेन आहते ।
४।२१ब् शस्त्रक्षुद्भयकृद् यमेन शशिजेनावृष्टिदुर्भिक्षकृत् ।
४।२१य् श्रेष्ठान् हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान् नृपान् ।
४।२१द् शुक्ले याप्यमिदं फलम् ग्रहकृतं कृष्णे यथोक्तागमम् ।
४।२२अ भिन्नः सितेन मगधान् यवनान् पुलिन्दान्
४।२२ब् नेपालभृंगिमरुकच्छ (मरुकुच्च) सुराष्ट्रमद्रान् ।
४।२२य् पांचालकैकयकुलूतकपुरुषादान्
४।२२द् हन्यादुशीनरजनान् अपि सप्त मासान् ॥ ॥
४।२३अब्/ गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान् द्रविदाधिपांश्च ।
४।२३य्द्/ द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद् वाक्पतिना विभिन्नः ॥ ॥
४।२४अ उद्युक्तान् सह वाहनैः नरपतीं त्रैगर्तकान् मालवान्
४।२४ब् कौलिन्दान् गणपुंगवान् अथ शिबीनायोध्यकान् पार्थिवान् ।
४।२४य् हन्यात् कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यान् अपि
४।२४द् प्रालेयांशुरसृग्ग्रहे तनुगते षण्मासमर्यादया ॥ ॥
४।२५अब्/ यौधेयान् सचिवान् सकौरवान् प्रागीशान् अथ चार्जुनायनान् ।
४।२५य्द्/ हन्यादर्कजभिन्नमण्डलः शीतांशुः दशमासपीडया ॥ ॥
४।२६अब्/ मगधान् मथुरां च पीडयेद् वेणायाश्च तटं शशांकजः ।
४।२६य्द्/ अपरत्र कृतं युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः ॥ ॥
४।२७अब्/ क्षेमारोग्यसुभिक्षनिनाशी शीतांशुः शिखिना यदि भिन्नः ।
४।२७य्द्/ कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥ ॥
४।२८अब्/ उल्कया यदा शशी ग्रस्त एव हन्यते ।
४।२८य्द्/ हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥ ॥
४।२९अब्/ भस्मनिभः परुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीणः ।
४।२९य्द्/ श्यावतनुः स्फुटितः स्फुरणो वा क्षुड्डमरा (क्षुड्समरा) मयचौरभयाय ॥ ॥
४।३०अब्/ प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परिमृज्य चन्द्रः ।
४।३०य्द्/ उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय ॥ ॥
४।३१अब्(४।३२अब्)/ शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च ।
४।३१य्द्(४।३२य्द्)/ हीने हानिः तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन ॥ ॥
४।३२अब्(४।३१अब्)/ यदि कुमुदमृणालहारगौरः तिथिनियमात् क्षयमेति वर्द्धते वा ।
४।३२य्द्(४।३१य्द्)/ अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥ ॥
sएपरते अध्याय ५ राहुचाराध्यायः
५।१अब्/ अमृतास्वादविशेषाग्छिन्नमपि शिरः किलासुरस्यैदम् ।
५।१य्द्/ प्राणैः अपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥ ॥
५।२अब्/ इन्दुअर्कमण्डलाकृतिः असितत्वात् किल न दृश्यते गगने ।
५।२य्द्/ अन्यत्र पर्वकालाद् वरप्रदानात् कमलयोनेः ॥ ॥
५।३अब्/ मुखपुच्छविभक्तांगं भुजंगमाकारमुपदिशन्त्यन्ये ।
५।३य्द्/ कथयन्त्यमूर्तमपरे तमोमयं सैंहिकेयाख्याख्यम् ॥ ॥
५।४अब्/ यदि मूर्तो भविचारी शिरोऽथवा भवति मण्डली राहुः ।
५।४य्द्/ भगणार्धेनान्तरितौ (तो) गृह्णाति कथं नियतचारः ॥ ॥
५।५अब्/ अनियतचारः खलु चेदुपलब्धिः संख्यया कथं तस्य ।
५।५य्द्/ पुच्छाननाभिधानोऽन्तरेण कस्मान् न गृह्णाति ॥ ॥
५।६अब्/ अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति ।
५।६य्द्/ मुखपुच्छान्तरसंस्थं स्थगयति कस्मान् न भगणार्धम् ॥ ॥
५।७अब्/ राहुद्वयं यदि स्याद् ग्रस्तेऽस्तमितेऽथवा उदिते चन्द्रे ।
५।७य्द्/ तत्समगतिनान्येन ग्रस्तः सूर्योऽपि दृश्यते ॥ ॥
५।८अब्/ भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः ।
५।८य्द्/ प्रग्रहणमतः पश्चान् नेन्दोः भानोश्च पूर्वार्धात् ॥ ॥
५।९अब्/ वृक्षस्य स्वच्छाया यथा एकपार्श्वे (न) भवति दीर्घचया (दीर्घा च) ।
५।९य्द्/ निशि निशि तद्वद् भूमेः आवरणवशाद् दिनेशस्य ॥ ॥
५।१०अब्/ सूर्यात् सप्तमराशौ यदि चौदग्दक्षिणेन नातिगतः ।
५।१०य्द्/ चन्द्रः पूर्वाभिमुखश्छायामौर्वीम् तदा विशति ॥ ॥
५।११अब्/ चन्द्रोऽधःस्थः स्थगयति रविमंबुदवत् समागतः पश्चात् ।
५।११य्द्/ प्रतिदेशमतश्चित्रं दृष्टिवशाद् भास्करग्रहणम् ॥ ॥
५।१२अब्/ आवरणं महदिन्दोः कुण्ठविषाणः ततोऽर्धसंच्छन्नः ।
५।१२य्द्/ स्वल्पम् रवेः यतोऽतः तीक्ष्णविषाणो रविः भवति ॥ ॥
५।१३अब्/ एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिः आचार्यैः ।
५।१३य्द्/ राहुः अकारणमस्मिन् इत्युक्तः शास्त्रसद्भावः ॥ ॥
५।१४अब्/ योऽसौअसुरो राहुः तस्य वरो ब्रह्मणाऽयमाज्ञप्तः ।
५।१४य्द्/ आप्यायनमुपरागे दत्तहुतांशेन ते भविता ॥ ॥
५।१५अब्/ तस्मिन् काले सान्निध्यमस्य तेनौपचर्यते राहुः ।
५।१५य्द्/ याम्योत्तरा शशिगतिः गणितेऽपि उपचर्यते तेन ॥ ॥
५।१६अब्/ न कथंचिदपि निमित्तैः ग्रहणं विज्ञायते निमित्तानि ।
५।१६य्द्/ अन्यस्मिन् अपि काले भवन्त्यथौत्पातरूपाणि ॥ ॥
५।१७अब्/ पंचग्रहसंयोगान् न किल ग्रहणस्य संभवो भवति ।
५।१७य्द्/ तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥ ॥
५।१८अब्/ अवनत्याऽर्के ग्रासो दिग्ज्ञेया वलनया अवनत्या च ।
५।१८य्द्/ तिथ्यवसानाद् वेला करणे कथितानि तानि मया ॥ ॥
५।१९अब्/ षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः ।
५।१९य्द्/ ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः ॥ ॥
५।२०अब्/ ब्राह्मे द्विजपशुवृद्धिः क्षेमारोग्याणि (द्विजपशुवृद्धिक्षेमारोग्याणि) सस्यसम्पत्च ।
५।२०य्द्/ तद्वत् सौम्ये तस्मिन् पीडा विदुषामवृष्टिश्च ॥ ॥
५।२१अब्/ एन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम् ।
५।२१य्द्/ कौबेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च ॥ ॥
५।२२अब्/ वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम् ।
५।२२य्द्/ आग्नेयं मित्राख्यं सस्यारोग्याभयांबुकरम् ॥ ॥
५।२३अब्/ याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम् ।
५।२३य्द्/ यदतः परं तदस्शुभं क्षुत्मारावृष्टिदं पर्व ॥ ॥
५।२४अब्/ वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च ।
५।२४य्द्/ अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥ ॥
५।२५अब्/ हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात् ।
५।२५य्द्/ स्फुटगणितविदः कालः कथंचिदपि नान्यथा भवति ॥ ॥
५।२६अब्/ यद्येकस्मिन् मासे ग्रहणं रविसोमयोः तदा क्षितिपाः ।
५।२६य्द्/ स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥ ॥
५।२७अब्/ ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ ।
५।२७य्द्/ सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ ॥ ॥
५।२८अब्/ अर्धोदितौपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च ।
५।२८य्द्/ अग्न्युपजीविगुणाधिकविप्राश्रमिणो युगेऽभ्युदितः (अयुगाभ्युदितः) ॥ ॥
५।२९अब्/ कर्षकपाखण्डि (पाषण्डि) वणिक्क्षत्रियबलनायकान् द्वितीयांशे (द्वितीयेऽंशे) ।
५।२९य्द्/ कारुकशूद्रम्लेच्छान् खतृतीयांशे समन्त्रिजनान् ॥ ॥
५।३०अब्/ मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः ।
५।३०य्द्/ तृणभुगमात्यान्तःपुरवैश्यघ्नः पंचमे खांशे ।
५।३१अब्/ स्त्रीशूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहा अस्तमयकाले ।
५।३१य्द्/ यस्मिन् खांशे मोक्षः तत्प्रोक्तानां शिवं भवति ॥ ॥
५।३२अब्/ द्विजनृपतीन् उदगयने विट्शूद्रान् दक्षिणायने हन्ति ।
५।३२य्द्/ राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन् ॥ ॥
५।३३अब्/ म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद् धुताशसक्तांश्च ।
५।३३य्द्/ सलिलचरदन्तिघाती याम्येनौदग् गवामशुभः ॥ ॥
५।३४अब्/ पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः ।
५।३४य्द्/ पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥ ॥
५।३५अब्/ पांचालकलिंगशूरसेनाः कांबोजौड्रकिरातशस्त्रवार्त्ताः ।
५।३५य्द्/ जीवन्ति च ये हुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थे ॥ ॥
५।३६अब्/ गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः ।
५।३६य्द्/ पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽथवा वृषे ॥ ॥
५।३७अब्/ मिथुने प्रवरांगना नृपा नृपमात्रा बलिनः कलाविदः ।
५।३७य्द्/ यमुनातटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः ॥ ॥
५।३८अब्/ आभीरान् शबरान् सपह्लवान् मल्लान् मत्स्यकुरूंछकान् अपि ।
५।३८य्द्/ पांचालान् विकलांश्च पीडयत्यन्नां चापि निहन्ति कर्कटे ॥ ॥
५।३९अब्/ सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान् राजोपमान् नरपतीन् वनगोचरांश्च ।
५।३९य्द्/ षष्ठे तु सस्यकविलेखकगेयसक्तान् हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् ॥ ॥
५।४०अब्/ तुलाधरेऽवन्त्यपरान्त्यसाधून् वणिग्दशार्णान् मरुत (भरुक) कच्छपांश्च ।
५।४०य्द्/ अलिनि अथौदुंबरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥ ॥
५।४१अब्/ धन्विनि अमात्यवरवाजिविदेहमल्लान् पांचालवैद्यवणिजो विषमायुधज्ञान् ।
५।४१य्द्/ हन्यान् मृगे तु झषमन्त्रिकुलानि नीचान् मन्त्रौषधीषु
कुशलान् स्थविरायुधीयान् ॥ ॥
५।४२अब्/ कुंभेऽन्तर्गिरिजान् सपश्चिमजनान् भारोद्वहां तस्करान्
आभीरान् दरद आर्यसिंहपुरकान् हन्यात् तथा बर्बरान् ।
५।४२य्द्/ मीने सागरकूलसागरजलद्रव्याणि वन्यान् (मान्यान्)
जनान् प्राज्ञान् वार्युपजीविनश्च भफलं कूर्मोपदेशाद् वदेत् ॥ ॥
५।४३अब्/ सव्यापसव्यलेहग्रसननिरोधावमर्दनारोहाः ।
५।४३य्द्/ आघ्रातं मध्यतमः तमोऽन्त्य इति ते दश ग्रासाः ॥ ॥
५।४४अब्/ सव्यगते तमसि जगज्जलप्लुतं भवति मुदितमभयं च ।
५।४४य्द्/ अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ॥ ॥
५।४५अब्/ जिह्वोपलेढि (जिह्वेवलेढि) परितः तिमिरनुदो मण्डलं यदि स लेहः ।
५।४५य्द्/ प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही ॥ ॥
५।४६अब्/ ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथवा अपि अर्धम् ।
५।४६य्द्/ स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम् ॥ ॥
५।४७अब्/ पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमः तिष्ठेत् ।
५।४७य्द्/ स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥ ॥
५।४८अब्/ अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् ।
५।४८य्द्/ हन्यात् प्रधानभूपान् प्रधानदेशांश (प्रधानदेशान् प्रधानभूपांश) च तिमिरमयः ॥ ॥
५।४९अब्/ वृत्ते ग्रहे यदि तमः तत्क्षणमावृत्य दृश्यते भूयः ।
५।४९य्द्/ आरोहणमित्यन्योन्यमर्दनैः भयकरं राज्ञाम् ॥ ॥
५।५०अब्/ दर्पण इवएकदेशे सबाष्प (सवाष्प) निःश्वासमारुतोपहतः ।
५।५०य्द्/ दृश्येत आघ्रातं तत् सुवृष्टिवृद्ध्यावहं जगतः ॥ ॥
५।५१अब्/ मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः
५।५१य्द्/ तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ॥ ॥
५।५२अब्/ पर्यन्तेषुअतिबहुलं स्वल्पं मध्ये तमः ततोऽन्त्याख्ये ।
५।५२य्द्/ सस्यानामीतिभयं भयमस्मिं तस्कराणां च ॥ ॥
५।५३अब्/ श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद् राहौ ।
५।५३य्द्/ अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥ ॥
५।५४अब्/ हरिते रोगौल्बणता (उल्वणता) सस्यानामीतिभिश्च विध्वंसः ।
५।५४य्द्/ कपिले शीघ्रगसत्त्वम्लेच्छध्वंशोऽथ दुर्भिक्षम् ॥ ॥
५।५५अब्/ अरुणकिरणानुरूपे दुर्भिक्षावृष्तयो विहगपीडा ।
५।५५य्द्/ आधूम्रे क्षेमसुभिक्षमादिशेत्मन्दवृष्टिं च ॥ ॥
५।५६अब्/ कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् ।
५।५६य्द्/ कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥ ॥
५।५७अब्/ विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय ।
५।५७य्द्/ सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ॥ ॥
५।५८अब्/ दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेत्मरकम् ।
५।५८य्द्/ अशनिभयसम्प्रदायी पाटल (पाटलि) कुसुमोपमो राहुः ॥ ॥
५।५९अब्/ पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च ।
५।५९य्द्/ बालरविकमलसुरचापरूपभृत्शस्त्रकोपाय ॥ ॥
५।६०अब्/ पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्णां च ।
५।६०य्द्/ भौमः समरविमर्दं शिखिकोपं तस्करभयं च ॥ ॥
५।६१अब्/ शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम् ।
५।६१य्द्/ रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ॥ ॥
५।६२अब्/ यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा ।
५।६२य्द्/ सुरपतिगुरुणावलोकिते तत्शममुपयाति जलैः इवाग्निः इद्धः ॥ ॥
५।६३अब्/ ग्रस्ते क्रमान् निमित्तैः पुनः ग्रहो मासषट्कपरिवृद्ध्या ।
५।६३य्द्/ पवनौल्कापातरजः क्षितिकंपतमोऽशनिनिपातैः ॥ ॥
५।६४अब्/ आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः ।
५।६४य्द्/ दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥ ॥
५।६५अब्/ अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् ।
५।६५य्द्/ स्त्रीनृपयोधकुमारान् सह विद्वद्भिः बुधो हन्ति ॥ ॥
५।६६अब्/ ग्रहणौपगते जीवे विद्वन्नृपमन्त्रिगजहयध्वंसः ।
५।६६य्द्/ सिन्धुतटवासिनामपि उदग्दिशं संश्रितानां च ॥ ॥
५।६७अब्/ भृगुतनये राहुगते दाशेरक (दसेरकाः) कैकयाः सयौधेयाः ।
५।६७य्द्/ आर्यावर्ताः शिबयः स्त्रीसचिवगणाश्च पीड्यन्ते ॥ ॥
५।६८अब्/ सौरे मरुभवपुष्करसौराष्ट्रिक (राष्त्रा) धातवोऽर्बुदान्त्यजनाः ।
५।६८य्द्/ गोमन्तपारियात्राश्रिताः (गोमन्तः पारियात्रा) च नाशं व्रजन्त्याशु ॥ ॥
५।६९अ कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान् ।
५।६९ब् कल्माषान् अथ शूरसेनसहितान् काशीश्च सन्तापयेत् ।
५।६९य् हन्याद् (हन्याद् च) आशु कलिंगदेशनृपतिं सामात्यभृत्यं तमो ।
५।६९द् दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ॥ ॥
५।७०अब्/ काश्मीरकान् कौशलकान् सपुण्ड्रान् मृगांश्च हन्यादपरान्तकांश्च ।
५।७०य्द्/ ये सोमपाः तांश्च निहन्ति सौम्ये सुवृष्टिकृत् क्षेमसुभिक्षकृत्च ॥ ॥
५।७१अब्/ पौषे द्विजक्षत्रजनोपरोधः ससेन्धवाख्याः कुकुरा विदेहाः ।
५।७१य्द्/ ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुतम् ॥ ॥
५।७२अ माघे तु मातृपितृभक्तवसिष्ठगोत्रान्
५।७२ब् स्वाध्यायधर्मनिरतान् करिणः तुरंगान् ।
५।७२य् वंगांगकाशिमनुजांश्च दुनोति राहुः
५।७२द् वृष्टिं च कर्षकजनाभिमतां (अनुमतां) करोति ॥ ॥
५।७३अब्/ पीडाकरं फाल्गुनमासि पर्व वंगाश्मकावन्तिक (वन्तक) मेकलानाम् ।
५।७३य्द्/ नृत्य (नृत्त) ज्ञसस्यप्रवरांगनानां धनुष्करक्षत्रतपस्विनां च ॥ ॥
५।७४अ चैत्र्यां (चैत्रे) तु चित्रकरलेखगेयसक्तान् ।
५।७४ब् रूपोपजीविनिगमज्ञहिरण्यपण्यान् ।
५।७४य् पौण्ड्रौड्रकैकयजनान् अथ चाश्मकांश्च
५।७४द् तापः स्पृशत्यमरपोऽत्र विचित्रवर्षी ॥ ॥
५।७५अब्/ वैशाखमासे (मासि) ग्रहणे विनाशमायान्ति कर्पासतिलाः समुद्गाः ।
५।७५य्द्/ इक्ष्वाकुयाउधेयशकाः कलिंगाः सोपप्लवाः (सोपद्रवाः) किन्तु सुभिक्षमस्मिन् ॥ ॥
५।७६अब्/ ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च ।
५।७६य्द्/ प्रध्वंसमायान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसंघाः ॥ ॥
५।७७अब्/ आषाढपर्वणि उदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान् ।
५।७७य्द्/ गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेद् मण्डलवर्षमस्मिन् ॥ ॥
५।७८अ काश्मीरान् सपुलिन्दचीनयवनान् हन्यात् कुरुक्षेत्रजान्
५।७८ब् गान्धारान् अपि मध्यदेशसहितान् वृष्टो ग्रहः श्रावणे ।
५।७८य् कांबोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तान् इमान्
५।७८द् अन्यत्र प्रचुरान्नहृष्टमनुजैः धात्रीं करोत्यावृताम् ॥ ॥
५।७९अ कलिंगवंगान् मगधान् सुराष्ट्रान्
५।७९ब् म्लेच्छान् सुवीरान् दरदाश्मकांश (दरदाज्छकांश) च ।
५।७९य् स्त्रीणां च गर्भान् असुरो निहन्ति
५।७९द् सुभिक्षकृद् भाद्रपदेऽभ्युपेतः ॥ ॥
५।८०अ कांबोजचीनयवनान् सह शल्यहृद्भिः
५।८०ब् बाह्लीक (वाल्हीक) सिन्धुतटवासिजनांश्च हन्यात् ।
५।८०य् आनर्त्त (आनर्त) पौण्ड्रभिषजश्च तथा किरातान्
५।८०द् दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृग ॥ ॥
५।८१अब्/ हनुकुक्षिपायुभेदा द्विः द्विः संछर्दनं च जरणं च ।
५।८१य्द्/ मध्यान्तयोश्च विदरणमिति दश शशिसूर्ययोः मोक्षाः ॥ ॥
५।८२अब्/ आग्नेय्यामपगमनं दक्षिणहनुभेदसंज्ञितं शशिनः ।
५।८२य्द्/ सस्यविमर्दो मुखरुग् नृपपीडा स्यात् सुवृष्टिश्च ॥ ॥
५।८३अब्/ पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी ।
५।८३य्द्/ मुखरोगं शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षं च ॥ ॥
५।८४अब्/ दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन् मोक्षः ।
५।८४य्द्/ पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः ॥ ॥
५।८५अब्/ वामः तु कुक्षिभेदो यद्युत्तरमार्गसंस्थितो राहुः ।
५।८५य्द्/ स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥ ॥
५।८६अब्/ नैरृतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ ।
५।८६य्द्/ गुह्यरुग् अल्पा वृष्तिः द्वयोः तु राज्ञीक्षयो वामे ॥ ॥
५।८७अब्/ पूर्वेण प्रग्रहणं कृत्वा प्राग् एव चापसर्पेत ।
५।८७य्द्/ संछर्दनमिति तत्क्षेमसस्यहार्दिप्रदं जगतः ॥ ॥
५।८८अब्/ प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् ।
५।८८य्द्/ क्षुत्शस्त्रभयौद्विग्ना न (उद्विग्नाः क्व) शरणमुपयान्ति तत्र जनाः ॥ ॥
५।८९अब्/ मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम ।
५।८९य्द्/ अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥ ॥
५।९०अब्/ पर्यन्तेषु विमलता बहुलं मध्ये तमोऽन्ति (अन्त) अदरणाख्यः ।
५।९०य्द्/ मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन् ॥ ॥
५।९१अब्/ एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किन्त्वत्र ।
५।९१य्द्/ पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥ ॥
५।९२अब्/ मुक्ते सप्ताहन्तः पांशुनिपातोऽन्नसंक्षयं कुरुते ।
५।९२य्द्/ नीहारो रोगभयं भूकंपः प्रवरनृपमृत्युम् ॥ ॥
५।९३अब्/ उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम् ।
५।९३य्द्/ स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥ ॥
५।९४अब्/ परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयं ।
५।९४य्द्/ रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥ ॥
५।९५अब्/ निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम् ।
५।९५य्द्/ ग्रहयुद्धे (ग्रहयुद्धं) नृपयुद्धं केतुश्च तदेव सन्दृष्टः ॥ ॥
५।९६अब्/ अविकृतसलिलनिपातैः (निपाते) सप्ताहान्तः सुभिक्षमादेश्यम् ।
५।९६य्द्/ यगाशुभं ग्रहणजं तत् सर्वं नाशन् उपयाति ॥ ॥
५।९७अब्/ सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्य ।
५।९७य्द्/ तत्रानयः प्रजानां दंपत्योः वैरमन्योन्यम् ॥ ॥
५।९८अब्/ अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः ।
५।९८य्द्/ नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥ ॥
sएपरते अध्याय ६ भौमचाराध्यायः
६।१अब्/ यद्युदयर्क्षाद् वक्रं करोति नवमाष्टसप्तमर्क्षेषु ।
६।१य्द्/ तद्वक्त्रां (तद्वक्रं) उष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥ ॥
६।२अब्/ द्वादशदशमैकादशनक्षत्राद् वक्रिते कुजेऽश्रुमुखम् ।
६।२य्द्/ दूषयति रसान् उदये करोति रोगान् अवृष्टिं च ॥ ॥
६।३अब्/ व्यालं त्रयोदशर्क्षागतुर्दशाद् वा विपच्यतेऽस्तमये ।
६।३य्द्/ दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥ ॥
६।४अब्/ रुधिराननमिति वक्त्रं पंचदशात् षोडशाग विनिवृत्ते ।
६।४य्द्/ तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥ ॥
६।५अब्/ असिमुशलं सप्तदशादष्टादशतोऽपि वा तदनुवक्रे ।
६।५य्द्/ दस्युगुणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम् ॥ ॥
६।६अब्/ भाग्यार्यमा उदिते यदि निवर्तते वैश्वदैवते भौमः ।
६।६य्द्/ प्राजापत्येऽस्तमितः त्रीन् अपि लोकान् निपीडयति ॥ ॥
६।७अब्/ श्रवणौदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् ।
६।७य्द्/ यस्मिन् ऋक्षेऽभ्युदितः तद्दिग्व्यूहान् जनान् हन्ति ॥ ॥
६।८अब्/ मध्ये न यदि मघानां गतागतं लोहितः करोति ततः ।
६।८य्द्/ पाण्ड्यो नृपो विनश्यति शस्त्रौद्योगाद् भयमवृष्टिं ॥ ॥
६।९अब्/ भित्त्वा मघा (मघां) विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् ।
६।९य्द्/ मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥ ॥
६।१०अब्/ दक्षिणतो रोहिण्याः चरन् महीजोर्घवृष्टिनिग्रहकृत् ।
६।१०य्द्/ धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥ ॥
६।११अब्/ प्राजापत्ये श्रवणे मूले त्रिषु चौत्तरेषु (तिसृषूत्तरासु) शाक्रे च ।
६।११य्द्/ विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥ ॥
६।१२अब्/ चारोदयाः प्रशस्ताः श्रवणमघादित्यहस्तमूलेषु (मूलहस्तेषु) ।
६।१२य्द्/ एकपदाश्विशाखाप्राजापत्येषु च कुजस्य ॥ ॥
६।१३अ विपुलविमलमूर्तिः किंशुकाशोकवर्णः
६।१३ब् स्फुटरुचिरमयूखः तप्तताम्रप्रभाभः ।
६।१३य् विचरति यदि मार्गं चौत्तरं मेदिनीजः
६।१३द् शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥ ॥
sएपरते अध्याय ७ बुधचाराध्यायः
७।१अब्/ नौत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् ।
७।१य्द्/ जलदहनपवनभयकृद् धान्यार्घक्षयविवृद्धौ वा ॥ ॥
७।२अब्/ विचरन् श्रवणधनिष्ठाप्रजापत्येन्दुवैश्वदेवानि (विश्वदैवानि) ।
७।२य्द्/ मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥ ॥
७।३अब्/ रौद्रादीनि मघान्तानि उपाश्रिते चन्द्रजे प्रजापीडा ।
७।३य्द्/ शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥ ॥
७।४अब्/ हस्तादीनि चरन् (विचरन्) षडृक्षाणि उपपीडयन् गवामशुभः ।
७।४य्द्/ स्नेहरसार्घविवृद्धिं करोति चौर्वीं प्रभूतान्नाम् ॥ ॥
७।५अब्/ आर्यम्णं हौतभुजं भद्रपदामुत्त्ररां यमेशं च ।
७।५य्द्/ चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसंक्षयकृत् ॥ ॥
७।६अब्/ आश्विनवारुणमूलानि उपमृद्नन् रेवतीं च चन्द्रसुतः ।
७।६य्द्/ पण्यभिषग्नौजीविकसलिलजतुरगौपघातकरः ॥ ॥
७।७अब्/ पूर्वाद्य्वृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् ।
७।७य्द्/ क्षुत्शस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥ ॥
७।८अब्/ प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः ।
७।८य्द्/ सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ॥ ॥
७।९अब्/ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।
७।९य्द्/ मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि (दैवानि) ।
७।१०अब्/ संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति ।
७।१०य्द्/ तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥ ॥
७।११अब्/ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः ॥ ॥
७।११य्द्/ घोरा श्रवणः त्वाष्टृअं वसुदैवं (देवं) वारुणं चैव ॥ ॥
७।१२अब्/ पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति ।
७।१२य्द्/ उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥ ॥
७।१३अब्/ चत्वारिंशत् (४०) त्रिंशद् (३०) द्विसमेता विंशति (२२)ः द्विनवकं च ।
७।१३य्द्/ नव मासार्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥ ॥
७।१४अब्/ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् ।
७।१४य्द्/ संक्षिप्तमिश्रयोः मिश्रमेतदन्यासु विपरीतम् ॥ ॥
७।१५अब्/ ऋज्वीअतिवक्रावक्रा विकला च मतेन देवलस्यैताः ।
७।१५य्द्/ पंचचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥ ॥
७।१६अब्/ ऋज्वी हिता प्रजानामतिवक्राऽर्घं गतिः विनाशयति ।
७।१६य्द्/ शस्त्रभयदा च वक्रा विकला भयरोगसंजननी ॥ ॥
७।१७अब्/ पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु ।
७।१७य्द्/ वृष्तो भयाय जगतः शुभफलकृत् प्रोषितः तेषु ॥ ॥
७।१८अब्/ कार्तिके (कार्त्तिके) ऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः ।
७।१८य्द्/ शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति
७।१९अब्/ रुद्धानि सौम्येऽस्त्रगते (अस्तमिते) पुराणि यानि उद्गते तानि उपयान्ति मोक्षम् ।
७।१९य्द्/ अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ञाः ॥ ॥
७।२०अब्/ हेमकान्तिः अथवा शुकवर्णः सस्यकेन मणिना सदृशो वा ।
७।२०य्द्/ स्निग्धमूर्तिः अलघुश्च हिताय व्यत्यये न शुभकृत्शशिपुत्रः ॥ ॥
sएपरते अध्याय ८ बृहस्पतिचाराध्यायः
८।१अब्/ नक्षत्रेण सहौदयमुपगच्छति येन देवपतिमन्त्री ।
८।१य्द्/ तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥ ॥
८।२अब्/ वर्षाणि कार्त्तिकादीनि आग्नेयाद् भद्वयानुयोगीनि ।
८।२य्द्/ क्रमशः त्रिभं तु पंचममुपान्त्यमन्त्यं च यद् वर्षम् ॥ ॥
८।३अब्/ शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च ।
८।३य्द्/ वृद्धिः तु रक्तपीतककुसुमानां कार्त्तिके वर्षे ॥ ॥
८।४अब्/ सौम्येऽब्देऽनावृष्टिः मृगाखुशलभाण्डजैश्च सस्यवधः ।
८।४य्द्/ व्ह्याधिभयं मित्रैः अपि भूपानां जायते वैरम् ॥ ॥
८।५अब्/ शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
८।५य्द्/ द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥ ॥
८।६अब्/ पितृपूजापरिवृद्धिः माघे हार्दिश्च सर्वभूतानाम् ।
८।६य्द्/ आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥ ॥
८।७अब्/ फाल्गुनवर्षे विन्द्यात् क्वचित् क्वचित् क्षेमवृष्टिसस्यानि ।
८।७य्द्/ दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चौग्राः ॥ ॥
८।८अब्/ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः ।
८।८य्द्/ वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥ ॥
८।९अब्/ वैशाखे धर्मरता (धर्मपरा) विगतभयाः प्रमुदिताः प्रजाः सनृपाः ।
८।९य्द्/ यज्ञक्रियाप्रावृत्तिः निष्पत्तिः सर्वसस्यानाम् ॥ ॥
८।१०अब्/ ज्यैष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः ।
८।१०य्द्/ पीड्यन्ते धान्यानि च हित्वा कंगुं शमीजातिम् ॥ ॥
८।११अब्/ आषाढे जायन्ते सस्यानि क्वचिदवृष्टिः अन्यत्र ।
८।११य्द्/ योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥ ॥
८।१२अब्/ श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति ।
८।१२य्द्/ क्षुद्रा ये पाखण्डाः (पाषण्डाः) पीड्यन्ते ये च तद्भक्ताः ॥ ॥
८।१३अब्/ भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च ।
८।१३य्द्/ न भवत्यपरं सस्यं क्वचित् सुभिक्षं क्वचिग भयम् ॥ ॥
८।१४अब्/ आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् ।
८।१४य्द्/ प्राणचयः प्राणभृताम् सर्वेषामन्नबाहुल्यम् ॥ ॥
८।१५अब्/ उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् ।
८।१५य्द्/ याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥ ॥
८।१६अब्/ विचरन् भद्वयमिष्टः तत्सार्धं वत्सरेण मध्यफलः ।
८।१६य्द्/ सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ॥ ॥
८।१७अब्/ अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे ।
८।१७य्द्/ हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥ ॥
८।१८अब्/ धूमाभेऽनावृष्टिः त्रिदशगुरौ नृपवधो दिवा दृष्टे ।
८।१८य्द्/ विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥ ॥
८।१९अ रोहिण्योऽनलभं च वत्सरतनुः नाभिः त्वषाढद्वयं
८।१९ब् सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् ।
८।१९य् देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
८।१९द् पुष्ये मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥ ॥
८।२०अ गतानि वर्षाणि शकेन्द्रकालाद्
८।२०ब् धतानि रुद्रैः गुणयेगतुर्भिः ।
८।२०य् नवाष्टपंचाष्ट (८५८९)युतानि कृत्वा
८।२०द् विभाजयेत् शून्यशरागरामैः (३७५०) ॥ ॥
८।२१अ लब्धेन (फलेन) युक्तं शकभूपालं (भूपकालं)
८।२१ब् संशोध्य षष्ट्या विषयैः विभज्य ।
८।२१य् युगानि नारायणपूर्वकाणि
८।२१द् लब्धानि शेषाः क्रमशः समाः स्युः ॥ ॥
८।२२अब्/ एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेण ।
८।२२य्द्/ हृत्वा चतुर्भिः वसुदेवताद्यानि उडूनि शेषांशकपूर्वमब्दम् ॥ ॥
८।२३अब्/ विष्णुः सुरेज्यो बलभिद् धुताशः त्वष्टौत्तरप्रोष्ठपदाधिपश्च ।
८।२३य्द्/ क्रमाद् युगेशाः पितृविश्वसोम (सोमाः) शक्रानलाख्याश्विभागाः प्रदिष्टाः ॥ ॥
८।२४अब्/ संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली ।
८।२४य्द्/ प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥ ॥
८।२५अब्/ वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये ।
८।२५य्द्/ पश्चाज्जलं मुंचति यगतुर्थं स्वल्पोदकं पंचममब्दमुक्तम् ॥ ॥
८।२६अब्/ चत्वारि मुख्यानि युगानि अथैषां विष्णु इन्द्रजीवानलदैवतानि ।
८।२६य्द्/ चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यानि अधमानि
विन्द्यात् ॥ ॥
८।२७अब्/ आध्यं धनिष्टांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः ।
८।२७य्द्/ षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते (प्रवर्तते) भूतहितः
तदाब्दः ॥ ॥
८।२८अब्/ क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः ।
८।२८य्द्/ संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनः तथापि ॥ ॥
८।२९अब्/ तस्माद् द्वितीयो विभवः प्रदिष्टः शुक्लः तृतीयः परतः प्रमोदः ।
८।२९य्द्/ प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलानि अथैषां (चैषां) ॥ ॥
८।३०अब्/ निष्पन्नशालीक्षुयवादिसस्यां भयैः विमुक्तामुपशान्तवैराम् ॥ ॥
८।३०य्द्/ संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥ ॥
८।३१अब्/ आद्यो अंगिराः श्रीमुखभावसाह्वौ युवा सुधातेति (युवाथ धातेति) युगे द्वितीये ।
८।३१य्द्/ वर्षाणि पंचैव यथाक्रमेण त्रीणि अत्र शस्तानि समे परे द्वे ॥ ॥
८।३२अब्/ त्रिष्वाद्यवर्षेषु (अंगिराद्येषु, आद्यवर्षेषु) निकामवर्षी
देवी निरातंकभयः (भयाः) च लोकः ।
८।३२य्द्/ अब्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश्
च ॥ ॥
८।३३अब्/ शाक्रे युगे पूर्वमथईश्वराख्यं वर्षं द्वितीयं बहुधान्यम्
आहुः ।
८।३३य्द्/ प्रमाथिनं विक्रममपि अथान्यद् (अतोऽन्यद्) वर्षं च विन्द्याद्
गुरुचारयोगात् ॥ ॥
८।३४अब्/ आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
८।३४य्द्/ पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥ ॥
८।३५अब्/ श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यगित्रभानुं कथयन्ति वर्षम् ।
८।३५य्द्/ मध्यं द्वितीयं तु सुभानुसंज्ञं रोगप्रदं मृत्युकरं नतं च (न तग) ॥ ॥
८।३६अब्/ तारणं तदनु भूरिवारिदं सस्यवृद्धिमुदिताति (मुदितं च) पार्थिवम् ।
८।३६य्द्/ पंचमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥ ॥
८।३७अब्/ त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु
सर्वधारी ।
८।३७य्द्/ तस्माद् विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय
शेषाः ॥ ॥
८।३८अब्/ नन्दनोऽथ विजयो जयः तथा मन्मथोऽस्य परतश्च दुर्मुखः ।
८।३८य्द्/ कान्तमत्र युग आदितः त्रयं मन्मथः समफलोऽधमोऽपरः ॥ ॥
८।३९अब्/ हेमलंब इति सप्तमे युगे स्याद् विलंबि परतो विकारि च ।
८।३९य्द्/ शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पंचमः ॥ ॥
८।४०अ ईतिप्राया (इतिप्रायः) प्रचुरपवना वृष्टिः अब्दे तु पूर्वे
८।४०ब् मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये ।
८।४०य् अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो
८।४०द् दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥ ॥
८।४१अब्/ वैश्वे युगे शोकहृद् (शोभकृद्) इत्यथाद्यः संवत्सरोऽतः शुभकृद् द्वितीयः ।
८।४१य्द्/ क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥ ॥
८।४२अब्/ पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः ।
८।४२य्द्/ अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिः द्विजगोभयं च ॥ ॥
८।४३अब्/ आद्यः प्लवंगो नवमे युगेऽब्दः स्यात् कीलकोऽन्यः परतश्च सौम्यः ।
८।४३य्द्/ साधारणो रोधकृर्दित्यथैवं शुभपदौ (अथाब्दः शुभप्रदौ) कीलकसौम्यसंज्ञौ ॥ ॥
८।४४अब्/ कष्टः प्लवंगो बहुशः प्रजानां साधारणेऽल्पं जलमीतयश्च ।
८।४४य्द्/ यः पंचमो रोधकृदित्यथाबश्चित्रम् जलम् तत्र च सस्यसम्पत् ॥ ॥
८।४५अब्/ इन्द्राग्निदैवं दशमं युगं यत्तत्राद्यवर्षं (यत् तराद्यमब्दं) परिधाविसंज्ञम् ।
८।४५य्द्/ प्रमादिनं विक्रममपि अतोऽन्यत् (प्रमाद्यथानन्दमतः परं यत्) ।
स्याद् राक्षसं चानलसंज्ञितम् च ॥ ॥
८।४६अब्/ परिधाविनि मध्यदेशनाशो नृपहानिः जलमल्पमग्निकोपः ।
८।४६य्द्/ अलसः तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ॥ ॥
८।४७अब्/ विक्रमः (तत्परः) सकललोकनन्दनो राक्षसः क्षयकरोऽनलः तथा ।
८।४७य्द्/ ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदो ऽनलः ॥ ॥
८।४८अब्/ एकादशे पिंगलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च ।
८।४८य्द्/ आद्ये तु व्षृटिः महती सचौरा श्वासो हनूकंपयुतश्च कासः ॥ ॥
८।४९अब्/ यत् कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च ।
८।४९य्द्/ रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिः मध्यमवृष्टिकृत् सः ॥ ॥
८।५०अब्/ भाग्ये युगे दुन्दुभिसंज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति ।
८।५०य्द्/ अंगारसंज्ञं (उद्गारिसंज्ञं) तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥ ॥
८।५१अब्/ रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च ।
८।५१य्द्/ क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ॥ ॥
८।५२अ क्षयमिति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं
८।५२ब् जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम् ।
८।५२य् उपचयकरं विट्शूद्राणां परस्वहृतां तथा
८।५२द् कथितमखिलं षष्ट्यब्दे यत् तदत्र समासतः ॥ ॥
८।५३अब्/ अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
८।५३य्द्/ ग्रहहतो न यदि सत्पथवर्ती हितकरो (हतकिरो) ऽमरगुरुः मनुजानाम् ॥ ॥
sएपरते अध्याय ९ शुक्रचाराध्यायः
९।१अब्/ नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः ।
९।१य्द्/ अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद् वीथयः कथिताः ॥ ॥
९।२अब्/ नागा तु पवनयाम्यानलानि पैतामहात् त्रिभाः तिस्रः ।
९।२य्द्/ गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥ ॥
९।३अब्/ जारद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं तु मैत्राद्यम् ।
९।३य्द्/ हस्तविशाखात्वाष्ट्राणि अजैत्यषाढाद्वयं दहना ॥ ॥
९।४अब्/ तिस्रः तिस्रः तासां क्रमादुदन्मध्ययाम्यमार्गस्थाः ।
९।४य्द्/ तासामपि उत्तरमध्यदक्षिणेन स्थितैकैका (दक्षिनावस्तितैकैका) ॥ ॥
९।५अब्/ वीथीमार्गान् अपरे कथयन्ति यथास्थितान् भमार्गस्य ।
९।५य्द्/ नक्षत्राणां तारा याम्योत्तरमध्यमाः तद्वत् ॥ ॥
९।६अब्/ उत्तरमार्गो याम्यादि निगदितो मध्यमः तु भाग्याद्यः ।
९।६य्द्/ दक्षिणमार्गो आषाढादि कैश्चिदेवं कृवा मार्गाः ॥ ॥
९।७अब्/ ज्यौतिषं (ज्योतिसं) आगमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् ।
९।७य्द्/ स्वयमेवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ॥ ॥
९।८अब्/ उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद् गतोऽस्तमुदयम् च (वा) ।
९।८य्द्/ मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥ ॥
९।९अब्/ अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् ।
९।९य्द्/ कष्टतरं (तमं) सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥ ॥
९।१०अब्/ भरणीपूर्वं मण्डलम् ऋक्षचतुष्कं सुभिक्षकरमाद्यम् ।
९।१०य्द्/ वंगांगमहिषबाह्लिक (वाह्लिक) कलिंगदेशेषु भयजननम् ॥ ॥
९।११अब्/ अत्रो उदितमारोहेद् ग्रहोऽपरो यदि सितं ततो हन्यात् ।
९।११य्द्/ भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥ ॥
९।१२अब्/ भचतुष्टयमार्द्राद्यं द्वितीयममितांबुसस्यसम्पत्त्यै ।
९।१२य्द्/ विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥ ॥
९।१३अब्/ अन्येनात्राक्रान्ते म्लेच्छाटविकश्व (काश्व) जीविगोमन्तान् ।
९।१३य्द्/ गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति ॥ ॥
९।१४अब्/ विचरन् मघादिपंचकमुदितः सस्यप्रणाशकृत्शुक्रः ।
९।१४य्द्/ क्षुत्तस्करभयजननो नीचोन्नतिसंकरकरश्च ॥ ॥
९।१५अब्/ पित्र्याद्येऽवष्टंभो हन्त्यन्येनाविकान् शबरशूद्रान् ।
९।१५य्द्/ पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ॥ ॥
९।१६अब्/ स्वात्याद्यं भत्रितयं मण्डलमेतगतुर्थमभयकरम् ।
९।१६य्द्/ ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥ ॥
९।१७अब्/ अत्राक्रान्ते मृत्युः किरातभर्तुःपिनष्टि चैक्षुवाकून् ।
९।१७य्द्/ प्रत्यन्तावन्तिपुलिन्दतंगणान् शूरसेनांश्च ॥ ॥
९।१८अब्/ ज्येष्ठाद्यं पंचर्क्षं क्षुत्तस्कररोगदम् प्रबाधयते ।
९।१८य्द्/ काश्मीराश्मकमत्स्यान् सचारुदेवीन् अवन्तींश्च ॥ ॥
९।१९अब्/ अत्रारोहेद् द्रविडाभीरांबष्ठ (आरोहेऽत्राभीरान् द्रविडांबष्ठ) त्रिगर्तसौराष्ट्रान् ।
९।१९य्द्/ नाशयन्ति सिन्धुसौवीरकांश्च काशीश्वरस्य वधः ॥ ॥
९।२०अब्/ षष्ठं षण्नक्षत्रं शुभमेतन् मण्डलं धनिष्ठाद्यम् ।
९।२०य्द्/ भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् ॥ ॥
९।२१अब्/ अत्रारोहेच् (आरोहे) शूलिकगान्धारावन्तयः प्रपीड्यन्ते ।
९।२१य्द्/ वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥ ॥
९।२२अब्/ अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम् ।
९।२२य्द्/ पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥ ॥
९।२३अब्/ दृष्तोऽनस्तमिते (ऽनस्तगतेऽर्के) भयकृत् क्षुद्रोगकृत् समस्तमहः ।
९।२३य्द्/ अर्धदिवसे (दिवसं) च सेन्दुः नृपबलपुरभेदकृत्शुक्रः ॥ ॥
९।२४अब्/ भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः ।
९।२४य्द्/ अव्यक्ततुंगनिम्ना समा सरिद्भिः भवति धात्री ॥ ॥
९।२५अब्/ प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा ।
९।२५य्द्/ केशास्थिशकलशबला कापालमिव व्रतं धत्ते ॥ ॥
९।२६अब्/ सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः ।
९।२६य्द्/ आर्द्रागतः तु कोशलकलिंगहा सलिलनिकरकरः ॥ ॥
९।२७अब्/ अश्मकवैदर्भाणां पुनः वसुस्थे सिते महाननयः ।
९।२७य्द्/ पुष्ये पुष्टा वृष्टिः विद्याधरगणविमर्दश्च ॥ ॥
९।२८अब्/ आश्लेषासु भुजंगमदारुणपीडावहश्चरन् शुक्रः ।
९।२८य्द्/ भिन्दन् मघां महामात्रदोषकृद् भूरिवृष्टिकरः ॥ ॥
९।२९अब्/ भाग्ये शबरपुलिन्दप्रध्वंसकरोऽंबुनिवहमोक्षाय ।
९।२९य्द्/ आर्यम्णे कुरुजांगलपांचालघ्नः सलिलदायी ॥ ॥
९।३०अब्/ कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः ।
९।३०य्द्/ कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥ ॥
९।३१अब्/ स्वातौ प्रभूतवृष्टिः दूतवणिग्नाविकान् स्पृशत्यनयः ।
९।३१य्द्/ एन्द्राग्नेऽपि सुवृष्टिः वणिजां च भयं विजानीयात् ॥ ॥
९।३२अब्/ मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः ।
९।३२य्द्/ मौलिकभिषजाम् मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥ ॥
९।३३अब्/ आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति ।
९।३३य्द्/ श्रवणे श्रवणव्याधिः पाखण्डि (पाषण्डि) भयं धनिष्ठासु ॥ ॥
९।३४अब्/ शतभिषजि शौण्डिकानामजैकभे (अजैकपे) द्यूतजीविनां पीडां (पीडा) ।
९।३४य्द्/ कुरुपांचालानामपि करोति चास्मिन् सितः सलिलम् ॥ ॥
९।३५अब्/ आहिर्बुधिने फलमूलतापकृद् यायिनाम् च रेवत्याम् ।
९।३५य्द्/ अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥ ॥
९।३६अब्/ चतुर्दशीं पंचदशीं (चतुर्दशे पंचदशे तथाष्टमे)-
तमिस्रपक्षस्य तिथिं (तिथौ) भृगोः सुतः ।
९।३६य्द्/ यदा व्रजेद् दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते ॥ ॥
९।३७अब्/ गुरुः भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
९।३७य्द्/ तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम् ॥ ॥
९।३८अब्/ यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्तिनः ।
९।३८य्द्/ नृनागविद्याधरसंगराः तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ॥ ॥
९।३९अब्/ न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग् न रता द्विजातयः ।
९।३९य्द्/ न चाल्पमपि अंबु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम् ॥ ॥
९।४०अब्/ शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशूकराः ।
९।४०य्द्/ पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिमरुद्गदौद्भवैः ॥ ॥
९।४१अब्/ निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजां (प्रजा) हुताशशस्त्रक्षुदवृष्टितस्करैः ।
९।४१य्द्/ चराचरं व्यक्तमथौत्तरापथं दिशोऽग्निविद्युद्रजसा च पीड्येत् ॥ ॥
९।४२अब्/ बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान् ।
९।४२य्द्/ दिशं च पूर्वां करकासृजोऽंबुदा गले गदा भूरि भवेग शारदम् ॥ ॥
९।४३अ सौम्योऽस्तोदयोः पुरो भृगुसुतस्यावस्थितः तोयकृद्
९।४३ब् रोगान् पित्तजकामलांश (कामलां कामलांशोः कामलाः) च कुरुते पुष्णाति च ग्रैष्मिकान् (ग्रैष्मिकं) ।
९।४३य् हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रंगोपजीव्यान् हयान्
९।४३द् वैश्यान् गाः सह वाहनैः नरपतीन् पीतानि पश्चाद् दिशम् ॥ ॥
९।४४अ शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
९।४४ब् कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
९।४४य् हरितकपिलरूपे श्वासकासप्रकोपः
९।४४द् पतति न सलिलं खाद् भस्मरूक्षासिताभे ॥ ॥
९।४५अब्/ दधिकुमुदशशांकान्तिभृत् स्फुटविकसत्किरणो बृहत्तनुः ।
९।४५य्द्/ सुगतिः अविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥ ॥
sएपरते अध्याय १० शनैश्चरचाराध्यायः
१०।१अब्/ श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य ।
१०।१य्द्/ प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥ ॥
१०।२अब्/ अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन् न चाति जलम् ।
१०।२य्द्/ क्षुत्शस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥ ॥
१०।३अब्/ तुरगतुरगोपचारककविवैद्यामात्यहार्कजोऽश्विगतः ।
१०।३य्द्/ याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान् ॥ ॥
१०।४अब्/ बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजीविनश्चमूपाश्च ।
१०।४य्द्/ रोहिण्यां कोशलमद्रकाशिपंचालशाकटिकाः ॥ ॥
१०।५अब्/ मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाः च ।
१०।५य्द्/ रौद्रस्थे पारतरमठास्तैलिकरजक (पारतरातैलिकरजक) चौराश्च ॥ ॥
१०।६अब्/ आदित्ये पांचनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः ।
१०।६य्द्/ पुष्ये घाण्ठिकघौषिकयवनवणिक्कितवकुसुमानि ॥ ॥
१०।७अब्/ सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः ।
१०।७य्द्/ शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ॥ ॥
१०।८अब्/ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः ।
१०।८य्द्/ आर्यम्णे नृपगुडलवणभिक्षुकांबूनि तक्षशिला ॥ ॥
१०।९अब्/ हस्ते नापितचाक्रिकचौरभिषक्सूचिका द्विपग्राहाः ।
१०।९य्द्/ बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥ ॥
१०।१०अब्/ चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि ।
१०।१०य्द्/ स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥ ॥
१०।११अब्/ एन्द्राग्नाख्ये त्रैगर्तचीनकौलूतकुंकुमं लाक्षा ।
१०।११य्द्/ सस्यानि अथ माञ्जिष्ठं कौसुंभं च क्षयं याति ॥ ॥
१०।१२अब्/ मैत्रे कुलूततंगणखसकाश्मीराः समन्त्रिचक्रचराः ।
१०।१२य्द्/ उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥ ॥
१०।१३अब्/ ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः ।
१०।१३य्द्/ मूले तु काशिकोशलपांचालफलौषधीयोधाः ॥ ॥
१०।१४अब्/ आप्ये अंगवंगकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च ।
१०।१४य्द्/ उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ॥ ॥
१०।१५अब्/ विश्वेश्वरेऽर्कपुत्रश्चरन् दशार्णान् निहन्ति यवनांश्च ।
१०।१५य्द्/ उज्जयिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश्च ॥ ॥
१०।१६अब्/ श्रवणे राजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिंगान् ।
१०।१६य्द्/ वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ॥ ॥
१०।१७अब्/ साजे शतभिषजि भिषक्कविशौण्डिकपण्यनीतिवृत्तीनां (वार्त्तानां) ।
१०।१७य्द्/ आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च ॥ ॥
१०।१८अब्/ रेवत्यां राजभृताः क्रौंचद्वीपाश्रिताः शरत्सस्यम् ।
१०।१८य्द्/ शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥ ॥
१०।१९अब्/ यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोः दहनर्क्षयातः ।
१०।१९य्द्/ तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोः भमेकम् ॥ ॥
१०।२०अब्/ अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद् यदि पीतमयूखः ।
१०।२०य्द्/ शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥ ॥
१०।२१अ वैदूर्यकान्तिविमलः शुभकृत् प्रजानां
१०।२१ब् बाणातसीकुसुमवर्णनिभश्च शस्तः ।
१०।२१य् यं चापि (पंचापि) वर्णमुपगच्छति तत्सवर्णान्
१०।२१द् सूर्यात्मजः क्षयतीति मुनिप्रवादः ॥ ॥
sएपरते अध्याय ११ केतुचाराध्यायः
११।१अब्/ गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च ।
११।१य्द्/ अन्यांश्च बहून् दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥ ॥
११।२अब्/ दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम् ।
११।२य्द्/ दिव्यान्तरिक्षभौमाः त्रिविधाः स्युः केतवो यस्मात् ॥ ॥
११।३अब्/ अहुताशेऽनलरूपं यस्मिं तत्केतुरूपमेवोक्तम् ।
११।३य्द्/ खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥ ॥
११।४अब्/ ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षाः ते ।
११।४य्द्/ दिव्या नक्षत्रस्था भौमाः स्युः अतोऽन्यथा शिखिनः ॥ ॥
११।५अब्/ शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् ।
११।५य्द्/ बहुरूपमेकमेव प्राह मुनिः नारदः केतुम् ॥ ॥
११।६अब्/ यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् ।
११।६य्द्/ उदयास्तमयैः स्थानैः स्पर्शैः अधूमनैः वर्णैः ।
११।७अब्/ यावन्त्यहानि दृश्यो मासाः तावन्त एव फलपाकः ।
११।७य्द्/ मासैः अब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः ॥ ॥
११।८अब्/ ह्रस्वः तनुः प्रसन्नः स्निग्धः त्वृजुः अचिरसंस्थितः शुक्लः ।
११।८य्द्/ उदितोऽथवाभिवृष्टः (वाप्यभिदृष्टः) सुभिक्षसौख्यावहः केतुः ॥ ॥
११।९अब्/ उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
११।९य्द्/ इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥ ॥
११।१०अब्/ हारमणिहेमरूपाः किरणाख्याः पंचविंशतिः सशिखाः ।
११।१०य्द्/ प्रागपरदिशोः दृश्या नृपतिविरोधावहा रविजाः ॥ ॥
११।११अब्/ शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ।
११।११य्द्/ आग्नेय्यां दृश्यन्ते तावन्तः तेऽपि शिखिभयदाः ॥ ॥
११।१२अब्/ वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः ।
११।१२य्द्/ दृश्यन्ते याम्यायां जनमरकावेदिनः ते च ॥ ॥
११।१३अब्/ दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः ।
११।१३य्द्/ क्षुद्भयदा द्वाविंशतिः ऐशान्यामंबुतैलनिभाः ॥ ॥
११।१४अब्/ शशिकिरणरजतहिमकुदकुमुन्दकुसुमोपमाः सुताः शशिनः ।
११।१४य्द्/ उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥ ॥
११।१५अब्/ ब्रह्मसुत एक एव त्रिशिखो वर्णैः त्रिभिः युगान्तकरः ।
११।१५य्द्/ अनियतदिक्सम्प्रभवो विज्ञेयो ब्रह्मदण्डाख्यः ॥ ॥
११।१६अब्/ शतमभिहितमेकसमेतमेतदेकेन विरहितानि अस्मात् ।
११।१६य्द्/ कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥ ॥
११।१७अब्/ सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
११।१७य्द्/ विपुलसिततारकाः ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥ ॥
११।१८अब्/ स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चरांगरुहाः ।
११।१८य्द्/ अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥ ॥
११।१९अब्/ विकचा नाम गुरुसुताः सितएकताराः शिखापरित्यक्ताः ।
११।१९य्द्/ षष्टिः पंचभिः अधिका स्निग्धा याम्याश्रिताः पापाः ॥ ॥
११।२०अब्/ नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः ।
११।२०य्द्/ बुधजाः तस्करसंज्ञाः पापफलाः त्वेकपंचाशत् ॥ ॥
११।२१अब्/ क्षतजानलानुरूपाः त्रिचूलताराः कुजात्मजाः षष्टिः ।
११।२१य्द्/ नाम्ना च कौंकुमाः ते सौम्याशासंस्थिताः पापाः ॥ ॥
११।२२अब्/ त्रिंशत्यधिका राहोः ते तामसकीलका इति ख्याताः ।
११।२२य्द्/ रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥ ॥
११।२३अब्/ विंशत्यधिकमन्यत्शतमग्नेः विश्वरूपसंज्ञानाम् ।
११।२३य्द्/ तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥ ॥
११।२४अब्/ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः ।
११।२४य्द्/ अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ॥ ॥
११।२५अब्/ तारापुञ्जनिकाशा गणका नाम प्रजापतेः अष्टौ ।
११।२५य्द्/ द्वे च शते चतुरधिके चतुरस्रा (चतुरश्रा) ब्रह्मसन्तानाः ॥ ॥
११।२६अब्/ कंका नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः ।
११।२६य्द्/ शशिवत्प्रभासमेताः तीव्रफलाः केतवः प्रोक्ताः ॥ ॥
११।२७अब्/ षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
११।२७य्द्/ पुण्ड्रा (चण्डा) भयप्रदाः स्युः विरूपताराश्च ते शिखिनः ॥ ॥
११।२८अब्/ शुक्रविपुलएकतारा नव विदिशां केतवः समुत्पन्नाः ।
११।२८य्द्/ एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥ ॥
११।२९अब्/ उदगायतो महान् स्निग्धमूर्तिः अपरोदयी वसाकेतुः ।
११।२९य्द्/ सद्यः करोति मरकं सुभिक्षमपि उत्तमं कुरुते ॥ ॥
११।३०अब्/ तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः ।
११।३०य्द्/ स्निग्धः तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥ ॥
११।३१अब्/ दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः ।
११।३१य्द्/ प्रान्नभसोऽर्धविचारी क्षुत्मरकावृष्टिरोगकरः ॥ ॥
११।३२अब्/ प्राग् वैश्वानर (वश्वानर, वैस्वानर) मार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः ।
११।३२य्द्/ नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥ ॥
११।३३अब्/ अपरस्यां चलकेतुः शिखया याम्याग्रयांगुलौच्छ्रितया ।
११।३३य्द्/ गच्छेद् यथा यथोदक् तथा तथा दैर्घ्यमायाति ॥ ॥
११।३४अब्/ सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
११।३४य्द्/ नभसोऽर्धमात्रमित्वा याम्येनास्तम् समुपयाति ॥ ॥
११।३५अब्/ हन्यात् प्रयागकूलाद् यावदवन्तीं च पुष्करारण्यं (पुष्कराण्यं) ।
११।३५य्द्/ उदग् अपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ॥ ॥
११।३६अब्/ अन्यान् अपि स देशान् क्वचित् क्वचिद् धन्ति रोगदुर्भिक्षैः ।
११।३६य्द्/ दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः ॥ ॥
११।३७अब्/ प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुः अन्यश्च ।
११।३७य्द्/ क इति युगाकृतिः अपरे युगपत्तौ सप्तदिनदृश्यौ ॥ ॥
११।३८अब्/ स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः ।
११।३८य्द्/ दश वर्षाणि उपतापं जनयति शस्त्रप्रकोपकृतम् ॥ ॥
११।३९अब्/ श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः ।
११।३९य्द्/ विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥ ॥
११।४०अब्/ आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
११।४०य्द्/ ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥ ॥
११।४१अब्/ ध्रुवकेतुः अनियतगतिप्रमाणवर्णाकृतिः भवति विष्वक् ।
११।४१य्द्/ दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥ ॥
११।४२अब्/ सेनांगेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।
११।४२य्द्/ गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥ ॥
११।४३अब्/ कुमुद इति कुमुदकान्तिः वारुण्यां प्राक्षिखो निशामेकाम् ।
११।४३य्द्/ दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥ ॥
११।४४अब्/ सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ।
११।४४य्द्/ ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ॥ ॥
११।४५अब्/ उदयन्न् एव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
११।४५य्द्/ प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥ ॥
११।४६अब्/ जलकेतुः अपि च पश्चात् स्निग्धः शिखयापरेण चौन्नतया ।
११।४६य्द्/ नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य ॥ ॥
११।४७अब्/ भवकेतुः एकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
११।४७य्द्/ हरिलांगुलौपमया प्रदक्षिणावर्तया शिखया ॥ ॥
११।४८अब्/ यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेत्मासान् ।
११।४८य्द्/ तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान् ॥ ॥
११।४९अब्/ अपरेण पद्मकेतुः मृणालगौरो भवेन् निशामेकाम् ।
११।४९य्द्/ सप्त करोति सुभिक्षं वर्षाणि अतिहर्षयुक्तानि ॥ ॥
११।५०अब्/ आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
११।५०य्द्/ यावत् क्षणान् स दृश्यः तावन् मासान् सुभिक्षकरः ॥ ॥
११।५१अब्/ पश्चात् सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः ।
११।५१य्द्/ आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ॥ ॥
११।५२अब्/ यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति ।
११।५२य्द्/ भूपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥ ॥
११।५३अब्/ ये शस्ताः तान् हित्वा केतुभिः आधूपिते (आधूमिते) ऽथवा स्पृष्टे ।
११।५३य्द्/ नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥ ॥
११।५४अब्/ अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् ।
११।५४य्द्/ बहुलासु कलिंगेशं रोहिण्यां शूरसेनपतिम् ॥ ॥
११।५५अब्/ औशीनरमपि सौम्ये जलजाजीवाधिपं तथार्द्रासु ।
११।५५य्द्/ आदित्येऽश्मकनाथान् (नाथं) पुष्ये मघधाधिपं हन्ति ॥ ॥
११।५६अब्/ असिकेशं भौजंगे पित्र्ये अंगं पाण्ड्यनाथमपि भाग्ये ।
११।५६य्द्/ औज्जयिनिक (औज्जयनिक) मार्यम्णे सावित्रे दण्डकाधिपतिम् ॥ ॥
११।५७अब्/ चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ञः ।
११।५७य्द्/ काश्मीरककांबोजौ नृपती प्राभञ्जने न स्तः ॥ ॥
११।५८अब्/ इक्ष्वाकुरलकनाथः ( नाथौ, नाथो) च हन्यते यदि भवेद् विशाखासु ।
११।५८य्द्/ मैत्रे पुण्ड्राधिपतिः ज्येष्ठासु च (ज्येष्ठास्वथ) सार्वभौमवधः ॥ ॥
११।५९अब्/ मूलेऽन्ध्रमद्रकपती जलदेवे काशिपो मरणमेति ।
११।५९य्द्/ यौधेयकार्जुनायनशिविचैद्यान् वैश्वदेवे च ॥ ॥
११।६०अब्/ हन्यात् कैकयनाथं पांचनदं सिंहलाधिपं वांगम् ।
११।६०य्द्/ नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान् क्रमशः ॥ ॥
११।६१अब्/ उल्काभिताडितशिखः शिखी शिवः शिवतरोऽतिदृष्तो (अभिवृष्टो) यः ।
११।६१य्द्/ अशुभः स एव चोलावगाणसितहूणचीनानाम् ॥ ॥
११।६२अ नम्रा यतः शिखिशिखाभिसृता यतो वा
११।६२ब् ऋक्षं च यत् स्पृशति तत् कथितांश्च देशान् ।
११।६२य् दिव्यप्रभावनिहतान् स यथा गरुत्मान्
११।६२द् भुंक्ते गतो नरपतिः परभोगिभोगान् ॥ ॥
sएपरते अध्याय १२ अगस्त्यचाराध्यायः
१२।१अ समुद्रोऽन्तः शैलैः मकरनखरोत्खातशिखरैः
१२।१ब् कृतः तोयोच्छित्त्या सपदि सुतरां येन रुचिरः ।
१२।१य् पतन् मुक्तामिश्रैः प्रवरमणिरत्नांबुनिवहैः
१२।१द् सुरान् प्रत्यादेष्टुं मित (सित) मुकुटरत्नान् इव पुरा ॥ ॥
१२।२अब्/ येन चांबुहरणेऽपि विद्रुमैः भूधरैः समणिरत्नविद्रुमैः ।
१२।२य्द्/ निर्गतैः तदुरगैश्च राजितः सागरोऽधिकतरं विराजितः ॥ ॥
१२।३अब्/ प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः ।
१२।३य्द्/ आपदां पदगतोऽपि यापितो येन पीतसलिलोऽमरश्रियम् ॥ ॥
१२।४अब्/ प्रचलत्तिमिशुक्तिजशंखचितः सलिलेऽपहृतेऽपि पतिः सरिताम् ।
१२।४य्द्/ सतरंगसितोत्पलहंसभृतः सरसः शरदीव विभर्ति रुचिं (रुचं) ॥ ॥
१२।५अब्/ तिमिसितांबुधरं मणितारकं स्फटिकचन्द्रमनंबुशरद्द्युतिः ।
१२।५य्द्/ फणिफणोपलरश्मिशिखिग्रहं कुटिलगेशवियग चकार यः ॥ ॥
१२।६अ दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच्
चलत्शृंगमुद्भ्रान्तविद्याधरांसावसक्तप्रियाव्यग्रदत्तांकदेहावलंबांबरात्य्-
(राभि) उच्छ्रितोद्धूयमानध्वजैः शोभितम् ।
१२।६ब् करिकटमदमिश्ररक्तावलेहानुवासानुसारिद्विरेफावलीनोत्तमांगैः
कृतान् बाणपुष्पैः इवोत्तंसकान् धारयद्भिः मृगेन्द्रैः
सनाथीकृतान्तर्दरीनिर्झरम् ।
१२।६य् गगनतलमिवोल्लिखन्तं प्रवृद्धैः
गजाकृष्टफुल्लद्रुमत्रासविभ्रान्तमत्तद्विरेफावलीहृष्ट (गीत) मन्द्रस्वनैः
शैलकूटैः तरक्षर्क्षशार्दूलशाखामृगाध्यासितैः ।
१२।६द् रहसि मदनसक्तया रेवया कान्तयेवोपगूढं सुराध्यासितोद्यानम्
अंभोऽशनानन्नमूलानिलाहारविप्रान्वितं विन्ध्यमस्तंभयद् यश्च
तस्योदयः श्रूयताम् ॥ ॥
१२।७अब्/ उदये च मुनेः अगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि ।
१२।७य्द्/ हृदयानि सतामिव स्वभावात् पुनः अंबूनि भवन्ति निर्मलानि ॥ ॥
१२।८अब्/ पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णती सस्वनहंसपंक्तिम् ।
१२।८य्द्/ तांबूलरक्तोत्कषिताग्रदन्ती विभाति योषा इव शरत् (सरित्) सहासा ॥ ॥
१२।९अब्/ इन्दीवरासन्नसितोत्पलान्विता शरद् (सरित्) भ्रमत्षट्पदपंक्तिभूषिता ।
१२।९य्द्/ सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषा इव विभाति
सस्मरा ॥ ॥
१२।१०अ इन्दोः पयोदविगमोपहितां विभूतिं
१२।१०ब् द्रष्टुं तरंगवलया कुमुदं निशासु ।
१२।१०य् उन्मीलयत्यलिनिलीनदलं सुपक्ष्म
१२।१०द् वापी विलोचनमिवासिततारकान्तम् ॥ ॥
१२।११अब्/ नानाविचित्रांबुजहंसकोककारण्डवापूर्णतडागहस्ता ।
१२।११य्द्/ रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घमगस्त्यनाम्ने ॥ ॥
१२।१२अब्/ सलिलममरपाज्ञया उज्झितं यद् धनपरिवेष्टितमूर्तिभिः भुजंगैः ।
१२।१२य्द्/ फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ॥ ॥
१२।१३अब्/ स्मरणादपि पापमपाकुरुते किमुत स्तुतिभिः वरुणांगरुहः ।
१२।१३य्द्/ मुनिभिः कथितोऽस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥ ॥
१२।१४अब्/ संख्याविधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ञः ।
१२।१४य्द्/ तगौज्जयिन्यां (उज्जयन्यां) अगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य ॥ ॥
१२।१५अब्/ ईषत्प्रभिन्नेऽरुणरश्मिजालैः नैशेऽन्धकारे दिशि दक्षिणस्याम् ।
१२।१५य्द्/ सांवत्सरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत् ॥ ॥
१२।१६अ कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च
१२।१६ब् रत्नैश्च सागरभवैः कनकांबरैश्च ।
१२।१६य् धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैः
१२।१६द् दध्यक्षतैः सुरभिधूपविलेपनैश्च ॥ ॥
१२।१७अ नरपतिः इममर्घं श्रद्दधानो दधानः
१२।१७ब् प्रविगतगददोषो निर्जितारातिपक्षः ।
१२।१७य् भवति यदि च दद्यात् सप्त वर्षाणि सम्यग्
१२।१७द् जलनिधिरशनायाः (रसनायाः) स्वामितां याति भूमेः ॥ ॥
१२।१८अब्/ द्विजो यथालाभमुपाहृतार्घः प्राप्नोति वेदान् प्रमदाश्च पुत्रान् ।
१२।१८य्द्/ वैश्यश्च गां भूरि धनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ॥ ॥
१२।१९अ रोगान् करोति परुषः कपिलः त्ववृष्टिं
१२।१९ब् धूम्रो गवामशुभकृत् स्फुरणो भयाय
१२।१९य् माञ्जिष्ठरागसदृशः क्षुधमाहवांश्च
१२।१९द् कुर्यादणुश्च पुररोधमगस्त्यनामा ॥ ॥
१२।२०अब्/ शातकुंभसदृशः स्फटिकाभः तर्पयन्न् इव महीं किरणाग्रैः (किरणौघैः) ।
१२।२०य्द्/ दृश्यते यदि तदा (ततः) प्रचुरान्ना भूः भवत्यभयरोगजनाढ्या ॥ ॥
१२।२१अब्/ उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते (धत्ते) ।
१२।२१य्द्/ दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥ ॥
sएपरते अध्याय १३ सप्तर्षिचाराध्यायः
१३।१अब्/ सैकावलीव राजति ससितोत्पलमालिनी सहासेव ।
१३।१य्द्/ नाथवतीव च दिग् यैः कौवेरी सप्तभिः मुनिभिः ॥ ॥
१३।२अब्/ ध्रुवनायकोपदेशान् नरिनर्ती (नर्त्ती) वोत्तरा भ्रमद्भिश्च ।
१३।२य्द्/ यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ ॥
१३।३अब्/ आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
१३।३य्द्/ षड्द्विकपंचद्वियुतः शककालः तस्य राज्ञश्च ॥ ॥
१३।४अब्/ एकैकस्मिन् ऋक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
१३।४य्द्/ प्रागुदयतोऽपि अविवराद् र्जून् नयति तत्र संयुक्ताः
(प्रागुत्तरतश्च एते सदा उदयन्ते ससाध्वीकाः) ॥ ॥
१३।५अब्/ पूर्वे भागे भगवान् मरीचिः अपरे स्थितो वसिष्ठोऽस्मात् ।
१३।५य्द्/ तस्यांगिराः ततोऽत्रिः तस्यासन्नः पुलस्त्यश्च ॥ ॥
१३।६अब्/ पुलहः क्रतुः इति भगान् आसन्ना अनुक्रमेण पूर्वाद्यात् (पूर्वाद्याः) ।
१३।६य्द्/ तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥ ॥
१३।७अब्/ उल्काशनिधूमाद्यैः हता विवर्णा विरश्मयो ह्रस्वाः ।
१३।७य्द्/ हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥ ॥
१३।८अब्/ गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागानाम् ।
१३।८य्द्/ पीडाकारो मरीचिः ज्ञेयो विद्याधराणां च ॥ ॥
१३।९अब्/ शकयवनदरदपारतकांबोजां तापसान् वनोपेतान् ।
१३।९य्द्/ हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥ ॥
१३।१०अब्/ अंगिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।
१३।१०य्द्/ अत्रेः कान्तारभवा जलजानि अंभोनिधिः सरितः ॥ ॥
१३।११अब्/ रक्षःपिशाचदानवदैत्यभुजंगाः स्मृताः पुलस्त्यस्य ।
१३।११य्द्/ पुलहस्य तु मूलफलं क्रतोः तु यज्ञाः सयज्ञभृतः ॥ ॥
sएपरते अध्याय १४ नक्षत्रकूर्माध्यायः
१४।१अब्/ नक्षत्रत्रयवर्गैः आग्नेयाद्यैः व्यवस्थितैः नवधा ।
१४।१य्द्/ भारतवर्षे मध्य (मध्यात्) प्रागादिविभाजिता देशाः ॥ ॥
१४।२अब्/ भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसंख्याताः ।
१४।२य्द्/ मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥ ॥
१४।३अब्/ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च ।
१४।३य्द्/ गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपांचालाः ॥ ॥
१४।४अब्/ साकेतकंककुरुकालकोटिकुकुराश्च पारियात्रनगः ।
१४।४य्द्/ औदुंबरकापिष्टलगजाह्वयाश्चेति मध्यमिदम् ॥ ॥
१४।५अब्/ अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः ।
१४।५य्द्/ व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च ॥ ॥
१४।६अब्/ खसमगधशिबिरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः ।
१४।६य्द्/ प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः ॥ ॥
१४।७अब्/ उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलांबष्ठाः ।
१४।७य्द्/ एकपदताम्रलिप्त (तामलिपित) ककोशलका वर्धमानाश्च ॥ ॥
१४।८अब्/ आग्नेय्यां दिशि कोशलकलिंगवंगोपवंगजठरांगाः ।
१४।८य्द्/ शौलिकविदर्भवत्सान्ध्रचेदिकाश्च ऊर्ध्वकण्ठाश्च ॥ ॥
१४।९अब्/ वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनः त्रिपुरी ।
१४।९य्द्/ श्मश्रुधरहेमकुड्य (कूट्य) व्यालग्रीवा महाग्रीवाः ॥ ॥
१४।१०अब्/ किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः ।
१४।१०य्द्/ सह नग्नपर्णशबरैः आश्लेषाद्ये त्रिके देशाः ॥ ॥
१४।११अब्/ अथ दक्षिणेन लंकाकालाजिनसौरिकीर्णतालिकटाः ।
१४।११य्द्/ गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः ॥ ॥
१४।१२अब्/ कंकटकंकण (टंकण) वनवासिशिबिकफणिकारकोंकणाभीराः ।
१४।१२य्द्/ आकरवेणावर्तक (वन्तक) दशपुरगोनर्दकेरलकाः ॥ ॥
१४।१३अब्/ कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः ।
१४।१३य्द्/ क्रौंचद्वीपजटाधरकावेर्यो रिष्यमूकश्च ॥ ॥
१४।१४अब्/ वैदूर्यशंखमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।
१४।१४य्द्/ गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ॥ ॥
१४।१५अब्/ तुंबवनकार्मणय (मणेय) कयाम्योदधितापसाश्रमा ऋषिकाः ।
१४।१५य्द्/ कांचीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः ॥ ॥
१४।१६अब्/ बलदेवपट्टनं दण्डकावनतिमिंगिलाशना भद्राः ।
१४।१६य्द्/ कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः ॥ ॥
१४।१७अब्/ नैरृत्यां दिशि देशाः पह्लवकांबोजसिन्धुसौवीराः ।
१४।१७य्द्/ वडवामुखारवांबष्ठकपिलनारीमुखानर्ताः ॥ ॥
१४।१८अब्/ फेणगिरियवनमार्गर (माकर) कर्णप्रावेयपारशवशूद्राः ।
१४।१८य्द्/ बर्बरकिरातखण्डक्रव्यादा (क्रव्याश्या) भीरचंचूकाः ॥ ॥
१४।१९अब्/ हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रबादरद्रविडाः ।
१४।१९य्द्/ स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवोऽत्रैव ॥ ॥
१४।२०अब्/ अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः ।
१४।२०य्द्/ अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ॥ ॥
१४।२१अब्/ पंचनदरमठपारततारक्षितिजृंगवैश्यकनकशकाः ।
१४।२१य्द्/ निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थिताः ते च ॥ ॥
१४।२२अब्/ दिशि पश्चिमोत्तरस्यां माण्डव्यतुषार (तुखार) तालहलमद्राः ।
१४।२२य्द्/ अश्मककुलूतहलडाः (हडः) स्त्रीराज्यनृसिंहवनखस्थाः ॥ ॥
१४।२३अब्/ वेणुमती फल्गुलुका गुलुहा मरुकुच्चचर्मरंगाख्याः ।
१४।२३य्द्/ एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥ ॥
१४।२४अब्/ उत्तरतः कैलासो हिमवान् वसुमान् गिरिः धनुष्मांश्च ।
१४।२४य्द्/ क्रौंचो मेरुः कुरवः तथोत्तराः क्षुद्रमीनाश्च ॥ ॥
१४।२५अब्/ कैकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः ।
१४।२५य्द्/ आदर्शान्तः (आदर्शान्त) द्वीपित्रिगर्ततुरग आननाः श्वमुखाः (आननाश्वमुखाः) ॥ ॥
१४।२६अब्/ केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
१४।२६य्द्/ तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च ॥ ॥
१४।२७अब्/ अंबरमद्रकमालवपौरवकच्छारदण्डपिंगलकाः ।
१४।२७य्द्/ माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥ ॥
१४।२८अब्/ गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च ।
१४।२८य्द्/ यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च ॥ ॥
१४।२९अब्/ ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
१४।२९य्द्/ अभिसारदरदतंगणकुलूतसैरिन्ध्र (इन्ध) वनराष्ट्राः ॥ ॥
१४।३०अब्/ ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः ।
१४।३०य्द्/ भल्लाः पटोल (भल्लापलोल) जटासुरकुनटखस (कुनठखष) घोषकुचिकाख्याः ॥ ॥
१४।३१अब्/ एकचरणानुविद्धाः (अनुविश्वाः) सुवर्णभूर्वसुधनं (वनं) दिविष्ठाश्च ।
१४।३१य्द्/ पौरवचीरनिवासि (निवासन) त्रिनेत्रमुञ्जाद्रिगान्धर्वाः (गन्धर्वाः) ॥ ॥
१४।३२अब्/ वर्गैः आग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
१४।३२य्द्/ पांचालो मागधिकः कालिंगश्च क्षयं यान्ति ॥ ॥
१४।३३अब्/ आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः ।
१४।३३य्द्/ राजा च हारहौरो मद्रेशोऽन्यश्च कौणिन्दः ॥ ॥
sएपरते अध्याय १५ नक्षत्रव्यूहाध्यायः
१५।१अब्/ आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
१५।१य्द्/ आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः ॥ ॥
१५।२अब्/ रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
१५।२य्द्/ गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसम्पन्नाः ॥ ॥
१५।३अब्/ मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहंगाः ।
१५।३य्द्/ मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥ ॥
१५।४अब्/ रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
१५।४य्द्/ तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥ ॥
१५।५अब्/ आदित्ये सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः ।
१५।५य्द्/ उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥ ॥
१५।६अब्/ पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः ।
१५।६य्द्/ सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥ ॥
१५।७अब्/ अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
१५।७य्द्/ परधनहरणाभिरताः तुषधान्यं सर्वभिषजश्च ॥ ॥
१५।८अब्/ पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः ।
१५।८य्द्/ पितृभक्तवणिक्षूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥ ॥
१५।९अब्/ प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि ।
१५।९य्द्/ कर्पासलवणमक्षिक (माक्षिक) तैलानि कुमारकाश्चापि ॥ ॥
१५।१०अब्/ आर्यम्णे मार्दवशौचविनयपाखण्डि (पाषण्डि) दानशास्त्ररताः ।
१५।१०य्द्/ शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥ ॥
१५।११अब्/ हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि ।
१५।११य्द्/ तुषधान्यं श्रुतयुक्ता वणिजः तेजोयुताश्चात्र ॥ ॥
१५।१२अब्/ त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
१५।१२य्द्/ गणितपटुतन्तुवायाः शालाक्या राजधान्यानि ॥ ॥
१५।१३अब्/ स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
१५।१३य्द्/ अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ॥ ॥
१५।१४अब्/ इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
१५।१४य्द्/ कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥ ॥
१५।१५अब्/ मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
१५।१५य्द्/ ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥ ॥
१५।१६अब्/ पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
१५।१६य्द्/ विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥ ॥
१५।१७अब्/ मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः (वार्त्ताः) ।
१५।१७य्द्/ बीजानि अतिधनयुक्ताः फलमूलैः ये च वर्तन्ते ॥ ॥
१५।१८अब्/ आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
१५।१८य्द्/ सेतुकरवारिजीवकफलकुसुमानि अंबुजातानि ॥ ॥
१५।१९अब्/ विश्वेश्वरे महामात्रमल्लकरितुरगदेवतासक्ताः (भक्ताः) ।
१५।१९य्द्/ स्थावरयोधा भोगान्विताश्च ये तेजसा (चौजसा) युक्ताः ॥ ॥
१५।२०अब्/ श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
१५।२०य्द्/ उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥ ॥
१५।२१अब्/ वसुभे मानोन्मुक्ताः क्लीबा (क्लीबाः) चलसौहृदाः स्त्रियां द्वेष्याः (द्वष्याः, द्वेष्याः) ।
१५।२१य्द्/ दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥ ॥
१५।२२अब्/ वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ।
१५।२२य्द्/ सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥ ॥
१५।२३अब्/ आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः ।
१५।२३य्द्/ धर्मव्रतैः विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥ ॥
१५।२४अब्/ आहिर्बुध्न्ये (आहिर्बुध्न्यु) विप्राः क्रतुदानतपोयुता महाविभवाः ।
१५।२४य्द्/ आश्रमिणः पाखण्डा (पाषण्डा) नरेश्वराः सारधान्यं च ॥ ॥
१५।२५अब्/ पौष्णे सलिलजफलकुसुमलवणमणिशंखमौक्तिकाब्जानि ।
१५।२५य्द्/ सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥ ॥
१५।२६अब्/ अश्विन्यामश्वहराः सेनापतिवैद्यसेवकाः तुरगाः ।
१५।२६य्द्/ तुरगारोहा वणिजो (तुरगारोहाश्च वनिग्) रूपोपेताः तुरगरक्षाः ॥ ॥
१५।२७अब्/ याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
१५।२७य्द्/ तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥ ॥
१५।२८अब्/ पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
१५।२८य्द्/ सपौष्णमैत्रं पितृदैवतं च प्रजापतेः भं च कृषीवलानाम् ॥ ॥
१५।२९अब्/ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति तानि (भानि) ।
१५।२९य्द्/ मूलत्रिनेत्रानिलवारुणानि भानि उग्रजातेः प्रभविष्णुतायाः (तायां) ॥ ॥
१५।३०अब्/ सौम्येन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ।
१५।३०य्द्/ सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेः अभिनिर्दिशन्ति (इति निर्दशन्ति) ॥ ॥
१५।३१अब्/ रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम् ।
१५।३१य्द्/ ग्रहणगतमथौल्कया हतं नियतमुषाकरपीडितं च यत् ॥ ॥
१५।३२अब्/ तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा ।
१५।३२य्द्/ निगदितपरिवर्गदूषणं कथितविपर्ययगं समुऋद्धये ॥ ॥
sएपरते अध्याय १६ ग्रहभक्तियोगाध्यायः
१६।१अब्/ प्रान् नर्मदार्धशोणौड्रवंगसुह्माः कलिंगबाह्लीकाः ।
१६।१य्द्/ शकयवनमाधशबरप्राग्ज्योतिषचीनकांबोजाः ॥ ॥
१६।२अब्/ मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च ।
१६।२य्द्/ द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः ॥ ॥
१६।३अब्/ चंपौदुंबरकौशांबिचेदिविन्ध्याटवीकलिंगाश्च ।
१६।३य्द्/ पुण्ड्रा गोलांगूलश्रीपर्वतवर्धमानानि (मानाश्च) ॥ ॥
१६।४अब्/ इक्षुमतीत्यथ तस्करपारतकान्तारगोबीजानाम् ।
१६।४य्द्/ तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥ ॥
१६।५अब्/ भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् ।
१६।५य्द्/ व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी ॥ ॥
१६।६अब्/ गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः (खाराः) ।
१६।६य्द्/ वनवासितंगणहलस्त्रीराज्यमहार्णवद्वीपाः ॥ ॥
१६।७अब्/ मधुररसकुसुमफलसलिललवणमणिशंखमौक्तिकाब्जानाम् ।
१६।७य्द्/ शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥ ॥
१६।८अब्/ सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् ।
१६।८य्द्/ शृंगिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥ ॥
१६।९अब्/ शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
१६।९य्द्/ निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥ ॥
१६।१०अब्/ मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
१६।१०य्द्/ उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥ ॥
१६।११अब्/ द्रविडविदेहान्ध्राश्मकभासापर (पुर) कौंकणाः समन्त्रिषिकाः ।
१६।११य्द्/ कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसंकरिणः (संकरजाः) ॥ ॥
( नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः ।
ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥)
१६।१२अब्/ नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानां (वार्त्तानां) ।
१६।१२य्द्/ आटविकदुर्गकर्वटवधिक (वधक) नृशंसावलिप्तानाम् ॥ ॥
१६।१३अब्/ नरपतिकुमारकुञ्जरदांभिकडिंभाभिघातपशुपानाम् ।
१६।१३य्द्/ रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥ ॥
१६।१४अब्/ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
१६।१४य्द्/ शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥ ॥
१६।१५अब्/ लोहित्यः सिन्धुनदः सरयूर्गांभीरिका रथाख्या च ।
१६।१५य्द्/ गंगाकौशिक्याद्याः सरितो वैदेहकांबोजाः ॥ ॥
१६।१६अब्/ मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
१६।१६य्द्/ सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥ ॥
१६।१७अब्/ उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
१६।१७य्द्/ आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥ ॥
१६।१८अब्/ चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
१६।१८य्द्/ दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजाजज्ञाः ॥ ॥
१६।१९अब्/ आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ।
१६।१९य्द्/ व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥ ॥
१६।२०अब्/ सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः ।
१६।२०य्द्/ स्रुघ्नौदीच्य (नोदीच्य) विपाशासरित्शतद्रू रमठशाल्वाः (साल्वाः) ॥ ॥
१६।२१अब्/ त्रैगर्तपौरवांब (बांब) ष्ठपारता वाटधानयौधेयाः ।
१६।२१य्द्/ सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥ ॥
१६।२२अब्/ हस्त्यश्वपुरोहितभूपमन्त्रिमांगल्यपौष्टिकासक्ताः ।
१६।२२य्द्/ कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥ ॥
१६।२३अब्/ पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः ।
१६।२३य्द्/ मनुजेश्वरोपकरणम् छत्रध्वजचामराद्यं च ॥ ॥
१६।२४अब्/ शैलेयकु (क) ष्ठमांसीतगरसरसेन्धवानि वल्लीजम् ।
१६।२४य्द्/ मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥ ॥
१६।२५अब्/ तक्षशिलमर्तिकावत (मार्तिकावत) बहुगिरिगान्धारपुष्कलावतकाः ।
१६।२५य्द्/ प्रस्थलमालवकैकयदाशार्णौशीनराः शिबयः ॥ ॥
१६।२६अब्/ ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च ।
१६।२६य्द्/ रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥ ॥
१६।२७अब्/ सुरभिकुसुमानुलेपनमणिवज्रविभूषणांबुरुहशय्याः ।
१६।२७य्द्/ वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥ ॥
१६।२८अब्/ उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः ।
१६।२८य्द्/ विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजाः त्रिफलाः ॥ ॥
१६।२९अब्/ कौशेयपट्टकंबलपत्रौर्णिकरोध्रपत्रचोचानि ।
१६।२९य्द्/ जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥ ॥
१६।३०अब्/ आनर्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः ।
१६।३०य्द्/ नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ।
१६।३१अब्/ कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः ।
१६।३१य्द्/ खलमलिननीचतैलिकविहीनसत्त्वौपहतपुंस्त्वाः ॥ ॥
१६।३२अब्/ बान्धन (बन्धन) शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः ।
१६।३२य्द्/ गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ।
१६।३३अब्/ कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ।
१६।३३य्द्/ खरकरभचणकवातल (वातुल) निष्पावाश्चार्कपुत्रस्य ॥ ॥
१६।३४अब्/ गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः ।
१६।३४य्द्/ गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलांगाः ।
१६।३५अब्/ कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ।
१६।३५य्द्/ खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया (भाशया) नीचाः ॥ ॥
१६।३६अब्/ उपहतदांभिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे ।
१६।३६य्द्/ धर्मेण च संत्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥ ॥
१६।३७अब्/ गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः ।
१६।३७य्द्/ प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ॥ ॥
१६।३८अब्/ परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः ।
१६।३८य्द्/ मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥ ॥
१६।३९अ उदयसमये यः स्निग्धांशुः महान् प्रकृतिस्थितो
१६।३९ब् यदि च न हतो निर्घातौल्कारजोग्रहमर्दनैः ।
१६।३९य् स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः ।
१६।३९द् स भवति शिवः तेषां येषां प्रभुः परिकीर्तितः ॥ ॥
१६।४०अब्/ अभिहितविपरीतलक्षणे (लक्षनैः) क्षयमुपगच्छति तत्परिग्रहः ।
१६।४०य्द्/ डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥ ॥
१६।४१अब्/ यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा ।
१६।४१य्द्/ भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥ ॥
sएपरते अध्याय १७ ग्रहयुद्धाध्यायः ।
१७।१अब्/ युद्धं यथा यदा वा भविष्यं (भविष्यद्) आदिश्यते त्रिकालज्ञैः ।
१७।१य्द्/ तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्ते (सिद्धान्तात्) ॥ ॥
१७।२अब्/ वियति चरतां ग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम् ।
१७।२य्द्/ अतिदूराद् दृग्विषये समतामिव सम्प्रयातानाम् ॥ ॥
१७।३अब्/ आसन्नक्रमयोगाद् भेदौल्लेखांशुमर्दनासव्यैः (सव्यः) ।
१७।३य्द्/ युद्धं चतुष्प्रकारं पराशराद्यैः मुनिभिरुक्तम् ॥ ॥
१७।४अब्/ भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
१७।४य्द्/ उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥ ॥
१७।५अब्/ अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।
१७।५य्द्/ युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥ ॥
१७।६अब्/ रविः आक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी ।
१७।६य्द्/ पौरा बुधगुरुरविजा नित्यं शीतांशुः आक्रन्दः (आक्रन्द्रः) ॥ ॥
१७।७अब्/ केतुकुजराहुशुक्रा यायिन एते हता घ्नन्ति (ग्रहा हन्युः) ।
१७।७य्द्/ आक्रन्दयायिपौरान् जयिनो जयदाः (जयदा) स्ववर्गस्य ॥ ॥
१७।८अब्/ पौरे पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति ।
१७।८य्द्/ एवं याय्याक्रन्दा (याय्याक्रन्दौ) नागरयायिग्रहाश्चैव ॥ ॥
१७।९अब्/ दक्षिणदिक्स्थः परुषो वेपथुः अप्राप्य सन्निवृत्तोऽणुः ।
१७।९य्द्/ अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥ ॥
१७।१०अब्/ उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्देश्यः (विनिर्दिष्टः) ।
१७।१०य्द्/ विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥ ॥
१७।११अब्/ द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ।
१७।११य्द्/ तत्र अन्योन्यं प्रीतिः (अन्योन्यप्रीतिः) विपरीतावात्मपक्षघ्नौ ॥ ॥
१७।१२अब्/ युद्धं समागमो वा यद्यव्यक्तौ स्वलक्षणैः (तु लक्षणैः) भवतः ।
१७।१२य्द्/ भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥ ॥
१७।१३अब्/ गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च (अग्निवार्त्ताश्च) ।
१७।१३य्द्/ शशिजेन शूरसेनाः कलिंगशाल्वाः (साल्वाः) च पीड्यन्ते ॥ ॥
१७।१४अब्/ सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
१७।१४य्द्/ कोष्ठागार (कोष्ठागार) म्लेच्छक्षत्रियतापश्च शुक्रजिते ॥ ॥
१७।१५अब्/ भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
१७।१५य्द्/ उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति ॥ ॥
१७।१६अब्/ गुरुणा जिते बुधे (बुधे जिते) म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः ।
१७।१६य्द्/ त्रैगर्तपार्वतीयाः पीड्यन्ते कंपते च मही ॥ ॥
१७।१७अब्/ रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
१७।१७य्द्/ भृगुणा जितेऽग्निकोपः सस्यांबुदयायिविध्वंसः ॥ ॥
१७।१८अब्/ जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः ।
१७।१८य्द्/ शाल्वा (साल्वा) वत्सा वंगा गावः सस्यानि पीड्यन्ते (नश्यन्ति) ॥ ॥
१७।१९अब्/ भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः ।
१७।१९य्द्/ सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ॥ ॥
१७।२०अब्/ शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः ।
१७।२०य्द्/ उपयान्ति मध्यदेशश्च संक्षयं यग भक्तिफलम् ॥ ॥
१७।२१अब्/ शुक्रे बृहस्पतिजिते (हते) यायी श्रेष्ठो विनाशमुपयाति ।
१७।२१य्द्/ ब्रह्मक्षत्रविरोधः सलिलं च न वासवः त्यजति ॥ ॥
१७।२२अब्/ कोशलकलिंगवंगा वत्सा मत्स्याश्च मध्यदेशयुताः ।
१७।२२य्द्/ महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥ ॥
१७।२३अब्/ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।
१७।२३य्द्/ सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥ ॥
१७।२४अब्/ रविजेन सिते विजिते गुणमुख्याः (गणमुख्याः) शस्त्रजीविनः क्षत्रम् ।
१७।२४य्द्/ जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥ ॥
१७।२५अब्/ असिते सितेन निहतेऽर्घवृद्धिः अहिविहगमानिनां पीडा ।
१७।२५य्द्/ क्षितिजेन तंगणान्ध्रौड्रकाशिबाह्लीकदेशानाम् ॥ ॥
१७।२६अब्/ सौम्येन पराभूते मन्दे अंगवणिग्विहंगपशुनागाः ।
१७।२६य्द्/ सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ॥ ॥
१७।२७अब्/ अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
१७।२७य्द्/ फलं तु वाच्यं ग्रहभक्तितो ऽन्यद् यथा तथा घ्नन्ति हताः स्वभक्तीः ॥ ॥
sएपरते अध्याय १८ शशिग्रहसमागमाध्यायः
१८।१अब्/ भानां यथासंभवमुत्तरेण यातो ग्रहाणां यदि वा शशांकः ।
१८।१य्द्/ प्रदक्षिणं तत्शुभदं नृपाणां (शुभकृन्नराणां) याम्येन यातो न शिवः शशांकः ॥ ॥
१८।२अब्/ चन्द्रमा यदि कुजस्य यात्युदक् पार्वतीयबलशालिनां जयः ।
१८।२य्द्/ क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥ ॥
१८।३अब्/ उत्तरतः स्वसुतस्य शशंकः पौरजयाय सुभिक्षकरश्च ।
१८।३य्द्/ सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ॥ ॥
१८।४अब्/ बृहस्पतेरुत्तरगे शशांके पौरद्विजक्षत्रियपण्डितानाम् ।
१८।४य्द्/ धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥ ॥
१८।५अब्/ भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः ।
१८।५य्द्/ यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा ॥ ॥
१८।६अब्/ रविजस्य शशी प्रदक्षिणं कुर्यागेत् पुरभूभृतां जयः ।
१८।६य्द्/ शकबाह्लिकसिन्धुपह्लवा मुदभाजो (मुद्भाजो) यवनैः समन्विताः ॥ ॥
१८।७अब्/ येषामुदग्गच्च्छति भग्रहाणां प्रालेयरश्मिः निरुपद्रवश्च ।
१८।७य्द्/ तद्द्रव्यपौरैतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ॥ ॥
१८।८अ शशिनि फलमुदक्स्थे (उदकस्थे) यद् ग्रहस्यौपदिष्टं
१८।८ब् भवति तदपसव्ये सर्वमेव प्रतीपम् ।
१८।८य् इति शशिसमवायाः कीर्तिता (कीर्त्तिता) भग्रहाणां
१८।८द् न खलु भवति युद्धं साकमिन्दोः ग्रहर्क्षैः ॥ ॥
sएपरते अध्याय १९ ग्रहवर्षफलाध्यायः
१९।१अ सर्वत्र भूः विरलसस्ययुता वनानि
१९।१ब् दैवाद् बिभक्षयिषुदंष्ट्रिसमावृतानि ।
१९।१य् नद्यः (स्यन्दन्ति) च नैव हि (च) पयः प्रचुरं स्रवन्ति (स्रवन्त्यो)
१९।१द् रुग्भेषजानि न तथातिबलान्वितानि ॥ ॥
१९।२अ तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
१९।२ब् नात्यंबुदा जलमुचोऽचलसन्निकाशाः ।
१९।२य् नष्टप्रभऋक्षगणशीतकरं नभश्च
१९।२द् सीदन्ति तापसकुलानि सगोकुलानि ॥ ॥
१९।३अ हस्त्यश्वपत्तिमदसह्यबलैरुपेता
१९।३ब् बाणासनासिमुशलातिशयाश्चरन्ति ।
१९।३य् घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
१९।३द् संवत्सरे दिनकरस्य दिनेऽथ मासे ॥ ॥
१९।४अ व्याप्तं नभः प्रचलिताचलसन्निकाशैः
१९।४ब् व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
१९।४य् गां पूरयद्भिः अखिलाममलाभिः अद्भिः
१९।४द् उत्कण्ठितेन (उत्कण्ठकेन) गुरुणा ध्वनितेन चाशाः ॥ ॥
१९।५अ तोयानि पद्मकुमुदौत्पलवन्त्यतीव
१९।५ब् फुल्लद्रुमाणि उपवनानि अलिनादितानि ।
१९।५य् गावः प्रभूतपयसो नयनाभिरामा
१९।५द् रामा रतैः अविरतं रमयन्ति रामान् ॥ ॥
१९।६अ गोधूमशालियवधान्यवरैक्षुवाटा
१९।६ब् भूः पाल्यते नृपतिभिः नगराकराड्या ।
१९।६य् चित्यंकिता क्रतुवरेष्टिविघुष्टनादा
१९।६द् संवत्सरे शिशिरगोरभिसम्प्रवृत्ते ॥ ॥
१९।७अ वातोद्धतश्चरति वह्निरतिप्रचण्डो
१९।७ब् ग्रामान् वनानि नगराणि च सन्दिधक्षुः ।
१९।७य् हाहा इति दस्युगणपातहता रटन्ति
१९।७द् निःस्वीकृता विपशवो भुवि मर्त्यसंघाः ॥ ॥
१९।८अ अभ्युन्नता वियति संहतमूर्तयोऽपि
१९।८ब् मुंचन्ति कुत्रचिद् (न क्वचिद्) अपः प्रचुरं पयोदाः ।
१९।८य् सीम्नि प्रजातमपि शोषमुपैति सस्यं
१९।८द् निष्पन्नमपि अविनयादपरे हरन्ति ॥ ॥
१९।९अ भूपा न सम्यगभिपालनसक्तचित्ताः
१९।९ब् पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः ।
१९।९य् एवंविधैरुपहृता (उपहता) भवति प्रजा इयं
१९।९द् संवत्सरेऽवनिसुतस्य विपन्नसस्या ॥ ॥
१९।१०अ माया इन्द्रजालकुहकाकरनागराणां
१९।१०ब् गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः ।
१९।१०य् पिप्रीषया नृपतयोऽद्भुतदर्शनानि
१९।१०द् दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥ ॥
१९।११अ वार्ता (वार्त्ता) जगत्यवितथा विकला त्रयी च
१९।११ब् सम्यक् चरत्यपि मनोः इव दण्डनीतिः ।
१९।११य् अध्यक्षर (अध्यक्षरं) स्वभिनिविष्टधियोऽपि (अत्र) केचिद्
१९।११द् आन्वीक्षिकीषु च परं पदमीहमानाः ॥ ॥
१९।१२अ हास्यज्ञदूतकविबालनपुंसकानां
१९।१२ब् युक्तिज्ञसेतुजलपर्वतवासिनां च ।
१९।१२य् हार्दिं करोति मृगलांछनजः स्वकेऽब्दे
१९।१२द् मासेऽथवा प्रचुरता (प्रचुरतां) भुवि चाउषधीनाम् ॥ ॥
१९।१३अ ध्वनिरुच्चरितोऽध्वरे द्युगामी
१९।१३ब् विपुलो यज्ञमुषां मनांसि भिन्दन् ।
१९।१३य् विचरत्यनिशं द्विजोत्तमानां
१९।१३द् हृदयानन्दकरोऽध्वरांशभाजाम् ॥ ॥
१९।१४अब्/ क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
१९।१४य्द्/ क्षितिपैः अभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति ॥ ॥
१९।१५अब्/ विविधैः वियदुन्नतैः पयोदैः वृतमुर्वीं पयसाभितर्पयद्भिः ।
१९।१५य्द्/ सुरराजगुरोः शुभे तु (अत्र) वर्षे बहुसस्या क्षितिरुत्तमऋद्धियुक्ता ॥ ॥
१९।१६अ शालीक्षुमत्यपि धरा धरणीधराभ
१९।१६ब् धाराधरौज्झितपयःपरिपूर्णवप्रा ।
१९।१६य् श्रीमत्सरोरुहततांबुतडागकीर्णा
१९।१६द् योषा इव भात्यभिनवाभरणौज्ज्वलांगी ।
१९।१७अ क्षत्रं क्षितौ क्षपितभूरिबलारिपक्षम्
१९।१७ब् उद्घुष्टनैकजयशब्दविराविताशम् ।
१९।१७य् संहृष्टशिष्टजनदुष्टविनष्टवर्गां
१९।१७द् गां पालयन्त्यवनिपा नगराकराढ्याम् ॥ ॥
१९।१८अ पेपीयते मधु मधौ सह कामिनीभिः
१९।१८ब् जेगीयते श्रवणहारि सवेणुवीणम् ।
१९।१८य् बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्नम्
१९।१८द् अब्दे सितस्य मदनस्य जयावघोषह् ॥ ॥
१९।१९अ उद्वृत्तदस्युगणभूरिरणाकुलानि
१९।१९ब् राष्ट्राणि अनेकपशुवित्तविनाकृतानि ।
१९।१९य् रोरूयमाणहतबन्धुजनैः जनैश्च
१९।१९द् रोगौत्तमाकुलकुलानि बुभुक्षया च ॥ ॥
१९।२०अ वातोद्धतांबुधरवर्जितमन्तरिक्षम्
१९।२०ब् आरुग्णनैकविटपं च धरातलं द्यौः ।
१९।२०य् नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा
१९।२०द् तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥ ॥
१९।२१अ जातानि कुत्रचिदतोयतया विनाशम्
१९।२१ब् ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि ।
१९।२१य् सस्यानि मन्दमभिवर्षति वृत्रशत्रुः (शत्रौ)
१९।२१द् वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥ ॥
१९।२२अ अणुः अपटुमयूखो नीचगोऽन्यैः जितो वा
१९।२२ब् न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः ।
१९।२२य् यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
१९।२२द् शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥ ॥
sएपरते अध्याय २० ग्रहशृंगाटकाध्यायः
२०।१अब्/ यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे ।
२०।१य्द्/ भवति भयं दिशि तस्यामायुधकोपक्षुधातंकैः ॥ ॥
२०।२अब्/ चक्रधनुःशृंगाटकदण्डपुरप्रासवज्रसंस्थानाः ।
२०।२य्द्/ क्षुद् (क्षुद) वृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥ ॥
२०।३अब्/ यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते ।
२०।३य्द्/ तत्रऽन्यो भवति नृपः परचक्रौपद्रवश्च महान् ॥ ॥
२०।४अब्/ तस्मिन् (यस्मिन्) ऋक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः ।
२०।४य्द्/ अविभेदिनः (अविभेदनाः) परस्परममलमयूखाः शिवाः तेषाम् ॥ ॥
२०।५अब्/ ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
२०।५य्द्/ कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलं ॥ ॥
२०।६अब्/ एकर्क्षे चत्वारः सह पौरैः यायिनोऽथवा पंच ।
२०।६य्द्/ संवर्तो नाम भवेत्शिखिराहुयुतः स सम्मोहः ॥ ॥
२०।७अब्/ पौरः पौरसमेतो यायी सह यायिना समाजाख्यः ।
२०।७य्द्/ यमजीवसंगमेऽन्यो यद्यागच्छेत् तदा कोशः ॥ ॥
२०।८अब्/ उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ।
२०।८य्द्/ अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥ ॥
२०।९अब्/ समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
२०।९य्द्/ समाजसंज्ञो सुसमा प्रदिष्टा (समाज्ञः सुसमः प्रदिष्टो) वैरप्रकोपः खलु सन्निपाते ॥ ॥
sएपरते अध्याय २१ गर्भलक्षणाध्यायः
२१।१अब्/ अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम् ।
२१।१य्द्/ यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥ ॥
२१।२अब्/ तल्लक्षणानि मुनिभिः यानि निबद्धानि तानि दृष्ट्वा इदम् ।
२१।२य्द्/ क्रियते गर्गपराशरकाश्यपवज्रादि (वात्स्यादि) रचितानि ॥ ॥
२१।३अब्/ दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति ।
२१।३य्द्/ तस्य मुनेः इव वाणी न भवति मिथ्यांबुनिर्देशे ॥ ॥
२१।४अब्/ किं वातः परमन्यत्शास्त्रज्यायो (शास्त्रं ज्यायो) ऽस्ति यद् विदित्वा एव ।
२१।४य्द्/ प्रध्वंसिनि अपि काले त्रिकालदर्शी कलौ भवति ॥ ॥
२१।५अब्/ केचिद् वदन्ति कार्तिक (कार्त्तिक) शुक्लान्तमतीत्य गर्भदिवसाः स्युः ।
२१।५य्द्/ न च (तु) तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥ ॥
२१।६अब्/ मार्गशिरःसित (मार्गशिरशुक्ल) पक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् ।
२१।६य्द्/ पूर्वां वा समुपगते गर्भाणां लक्षणम् ज्ञेयम् ॥ ॥
२१।७अब्/ यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
२१।७य्द्/ पंचनवते दिनशते तत्रैव प्रसवमायाति ॥ ॥
२१।८अब्/ सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसंभवा रात्रौ ।
२१।८य्द्/ नक्तंप्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥ ॥
२१।९अब्/ मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।
२१।९य्द्/ पौषस्य कृष्णपक्षेण निर्दिशेत्श्रावणस्य सितम् ॥ ॥
२१।१०अब्/ माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ।
२१।१०य्द्/ माघस्य कृष्णपक्षेण निर्दिशेद् भाद्रपदशुक्लम् ॥ ॥
२१।११अब्/ फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः ।
२१।११य्द्/ तस्यैव कृष्णपक्षोद्भवाः तु ये तेऽश्वयुक्षुक्ले ॥ ॥
२१।१२अब्/ चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः ।
२१।१२य्द्/ चैत्रासितसंभूताः कार्तिकशुक्ले (कार्त्तिकशुक्ले) ऽभिवर्षन्ति ॥ ॥
२१।१३अब्/ पूर्वोद्भूताः पश्चादपरोत्थाः प्राग् भवन्ति जीमूताः ।
२१।१३य्द्/ शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥ ॥
२१।१४अब्/ ह्लादिमृदूदक्षिवशक्रदिग्भवो मारुतो वियद्विमलम् ।
२१।१४य्द्/ स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयखार्कौ (मयूखार्कौ) ॥ ॥
२१।१५अब्/ पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् ।
२१।१५य्द्/ काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥ ॥
२१।१६अब्/ सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका (सूर्यकाः) शुभा सन्ध्या ।
२१।१६य्द्/ शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसंघाः ॥ ॥
२१।१७अब्/ विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
२१।१७य्द्/ तरवश्च निरुपसृष्टांकुरा नरचतुष्पदा हृष्टाः ॥ ॥
२१।१८अब्/ गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
२१।१८य्द्/ स्वर्तुस्वभावजनितो गर्भविवृद्ध्यै (विवृद्धौ) तमभिधास्ये ॥ ॥
२१।१९अब्/ पौषे समार्गशीर्षे सन्ध्यारागोऽंबुदाः सपरिवेषाः ।
२१।१९य्द्/ नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥ ॥
२१।२०अब्/ माघे प्रबलो वायुः तुषारकलुषद्युती रविशशांकौ ।
२१।२०य्द्/ अतिशीतं सघनस्य च भानोः अस्तोदयौ धन्यौ ॥ ॥
२१।२१अब्/ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः ।
२१।२१य्द्/ परिवेषाश्चासकलाः कपिलः ताम्रो रविश्च शुभः ॥ ॥
२१।२२अब्/ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
२१।२२य्द्/ घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥ ॥
२१।२३अब्/ मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः ।
२१।२३य्द्/ जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः ॥ ॥
२१।२४अब्/ तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
२१।२४य्द्/ रुषिता इव धाराभिः विसृजन्त्यंभः प्रस्वकाले ॥ ॥
२१।२५अब्/ गर्भौपघातलिंगानि उल्काशनिपांशुपातदिग्दाहः ।
२१।२५य्द्/ क्षितिकंपखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥ ॥
२१।२६अब्/ रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः ।
२१।२६य्द्/ इत्युत्पातैः एतैः त्रिविधैश्चान्यैः हतो गर्भः ॥ ॥
२१।२७अब्/ स्वर्तुस्वभावजनितैः सामान्यैः यैश्च लक्षणैः वृद्धिः ।
२१।२७य्द्/ गर्भाणाम् विपरीतैः तैः एव विपर्ययो भवति ॥ ॥
२१।२८अब्/ भद्रपदाद्वयविश्वांबुदेव (दैव) पैतामहेष्वथ ऋक्षेषु ।
२१।२८य्द्/ सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ॥ ॥
२१।२९अब्/ शतभिषगाश्लेषार्द्रास्वातिमघासंयुतः शुभो गर्भः ।
२१।२९य्द्/ पुष्णाति बहून् दिवसान् हन्त्युत्पातैः हतः त्रिविधैः ॥ ॥
२१।३०अब्/ मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता ।
२१।३०य्द्/ विंशतिः अथ दिवसत्रयमेकतमऋक्षेण पंचभ्यः ॥ ॥
२१।३१अब्(२१।३५अब्)/ पंचनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
२१।३१य्द्(२१।३५य्द्)/ वर्षति पंचनिमित्ताद् (पंचसमन्ताद्) रूपेणैकेन यो गर्भः ॥ ॥
२१।३२अब्(२१।३६अब्)/ द्रोणः पंचनिमित्ते गर्भे त्रीणि आढकानि पवनेन ।
२१।३२य्द्(२१।३६य्द्)/ षड् विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे ॥ ॥
२१।३३अब्/ क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः ।
२१।३३य्द्/ शशिनि रवौ वा शुभसंयुतईक्षिते भूरिवृष्टिकराः ॥ ॥
२१।३४अब्/ ग्रभसमयेऽतिवृष्टिः गर्भाभावाय निर्निमित्तकृता ।
२१।३४य्द्/ द्रोणाष्टांशेऽभ्यधिके वृष्टे गर्भः स्रुतो भवति ॥ ॥
२१।३५अब्/ गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिः यदि न वृष्टः ।
२१।३५य्द्/ आत्मीयगर्भसमये करकामिश्रं ददात्यंभः ॥ ॥
२१।३६अब्/ काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः ।
२१।३६य्द्/ कालातीतं तद्वत् सलिलं काठिन्यमुपयाति ॥ ॥
२१।३७अ पवनसलिलविद्युद्गर्जिता अभ्रान्वितो यः
२१।३७ब् स भवति बहुतोयः पंचरूपाभ्युपेतः ।
२१।३७य् विसृजति यदि तोयं गर्भकालेऽतिभूरि
२१।३७द् प्रसवसमयमित्वा शीकरांभः करोति ॥ ॥
sएपरते अध्याय २२ गर्भधारणाध्यायः
२२।१अब्/ ज्यैष्ठसितेऽष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः ।
२२।१य्द्/ मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥ ॥
२२।२अब्/ तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्मासाः ।
२२।२य्द्/ श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणाः ताः स्युः ।
२२।३अब्/ यदि ता स्युः एकरूपाः शुभाः ततः सान्तराः तु न शिवाय ।
२२।३य्द्/ तस्करभयदाश्चौक्ताः (प्रोक्ताः) श्लोकाश्चाप्यत्र वासिष्ठाः ॥ ॥
२२।४अब्/ सविद्युतः सपृषतः सपांशूत्करमारुताः ।
२२।४य्द्/ सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥ ॥
२२।५अब्/ यदा तु विद्युतः श्रेष्ठाः शुभाशाः (शुभाशा) प्रत्युपस्थिताः ।
२२।५य्द्/ तदापि सर्वसस्यानां वृद्धिं ब्रूयाद् विचक्षणः ॥ ॥
२२।६अब्/ सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि ।
२२।६य्द्/ पक्षिणाम् सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥ ॥
२२।७अब्/ रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
२२।७य्द्/ वृष्टिः तदापि विज्ञेया सर्वसस्यार्थसाधिका (अभिवृद्धये) ॥ ॥
२२।८अब्/ मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
२२।८य्द्/ तदा स्यान् महती वृष्टिः सर्वसस्याभिवृद्धये (अर्थसाधिका) ॥ ॥
sएपरते अध्याय २३ प्रवर्षणाध्यायः
२३।१अब्/ ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन ।
२३।१य्द्/ शुभमशुभं वा वाच्यं परिमाणं चांभसः तज्ञैः ॥ ॥
२३।२अब्/ हस्तविशालं कुण्डकमधिकृत्यांबुप्रमाणनिर्देशः ।
२३।२य्द्/ पंचाशत् पलमाढकमनेन मिनुयाज्जलं पतितम् ॥ ॥
२३।३अब्/ येन धरित्री मुद्रा जनिता वा बिन्दवः त्र्णाग्रेषु ।
२३।३य्द्/ वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥ ॥
२३।४अब्/ केचिद् यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये ।
२३।४य्द्/ गर्गवसिष्ठपराशरमतमेतद् द्वादशान् न परम् ॥ ॥
२३।५अब्/ येषु च भेष्वभिवृष्टं भूयः तेष्वेव वर्षति प्रायः ।
२३।५य्द्/ यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥ ॥
२३।६अब्/ हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
२३।६य्द्/ शतभिषगेन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥ ॥
२३।७अब्/ श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
२३।७य्द्/ फल्गुन्यां पंचकृतिः पुनर्वसौ विंशतिः द्रोणाः ॥ ॥
२३।८अब्/ एन्द्राग्न्याख्ये (एन्द्राग्नाख्ये) वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः ।
२३।८य्द्/ आहिर्बुध्न्यार्यम्णप्रजापत्येषु पंचकृतिः ।
२३।९अब्/ पंचदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च ।
२३।९य्द्/ रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते (एषु) ॥ ॥
२३।१०अब्/ रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद् भूताहते च ।
२३।१०य्द्/ भवति च (हि) न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥ ॥
sएपरते अध्याय २४ रोहिणीयोगाध्यायः
२४।१अब्/ कनकशिलाचयविवरजतरुकुसुमासंगिमधुकरानुरुते ।
२४।१य्द्/ बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनोपवने ॥ ॥
२४।२अब्/ सुरनिलयशिखरिशिखरे बृहस्पतिः नारदाय यान् आह ।
२४।२य्द्/ गर्गपराशरकाश्यपमयाश्च यान् शिष्यसंघेभ्यः ॥ ॥
२४।३अब्/ तान् अवलोक्य यथावत् प्राजापत्येन्दुसम्प्रयोगार्थान् ।
२४।३य्द्/ अल्प (स्वल्प) ग्रन्थेनाहं तान् एवाभ्युद्यतो वक्तुम् ॥ ॥
२४।४अब्/ प्राजेशमाषाढतमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य ।
२४।४य्द्/ वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन ॥ ॥
२४।५अब्/ योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः ।
२४।५य्द्/ चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं निगद्यं (निगाद्यं) ॥ ॥
२४।६अ पुरादुदग् यत् (यत्) पुरतोऽपि वा स्थलं
२४।६ब् त्र्यहोषितः तत्र हुताशतत्परः ।
२४।६य् ग्रहान् सनक्षत्रगणान् समालिखेत्
२४।६द् सधूपपुष्पैः बलिभिश्च पूजयेत् ॥ ॥
२४।७अ सरत्नतोयौषधिभिश्चतुर्दिशं
२४।७ब् तरुप्रवालापिहितैः सुपूजितैः ।
२४।७य् अकालमूलैः कलशैः अलंकृतं
२४।७द् कुशास्तृतं स्थण्डिलमावसेद् द्विजः ॥ ॥
२४।८अ आलभ्य मन्त्रेण महाव्रतेन
२४।८ब् बीजानि सर्वाणि निधाय कुंभे ।
२४।८य् प्लाव्यानि चामीकरदर्भतोयैः
२४।८द् होमो मरुद्वारुणसोम (सोम्य) मन्त्रैः ॥ ॥
२४।९अ श्लक्ष्णां पताकामसितां विदध्याद्
२४।९ब् दण्डप्रमाणां त्रिगुणोच्छ्रितां च ।
२४।९य् आदौ कृते दिग्ग्रहणे नभस्वान्
२४।९द् ग्राह्यः तया योगगते शशांके ॥ ॥
२४।१०अ तत्रार्धमासाः प्रहरैः विकल्प्या
२४।१०ब् वर्षानिमित्तं दिवसाः तदंशैः ।
२४।१०य् सव्येन गच्छन् शुभदः सदैव
२४।१०द् यस्मिन् प्रतिष्ठा बलवान् स वायुः ॥ ॥
२४।११अ वृत्ते तु योगे अंकुरितानि यानि
२४।११ब् सन्तीह बीजानि धृतानि कुंभे ।
२४।११य् येषां तु योऽंशो अंकुरितः तदंशः
२४।११द् तेषां विवृद्धिं समुपैति नान्यः ॥ ॥
२४।१२अब्/ शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितोऽनिलः ।
२४।१२य्द्/ शस्यते शशिनि रोहिणीगते (रोहिणीयते) मेघमारुतफलानि वच्म्यतः ॥ ॥
२४।१३अ क्वचिदसितसितैः सितैः क्वचिग
२४।१३ब् क्वचिदसितैः भुजगैः इवांबुवाहैः ।
२४।१३य् वलितजठरपृष्ठमात्रदृश्यैः
२४।१३द् स्फुरिततडिद्रसनैर्वृतं विशालैः ॥ ॥
२४।१४अ विकसितकमलौदरावदातैः
२४।१४ब् अरुणकरद्युतिरञ्जितौपकण्ठैः ।
२४।१४य् छुरितमिव वियद्घनैः विचित्रैः
२४।१४द् मधुकरकुंकुमकिंशुकावदातैः ॥ ॥
२४।१५अ असितघननिरुद्धमेव वा
२४।१५ब् चलिततडित्सुरचापचित्रितम् ।
२४।१५य् द्विपमहिषकुलाकुलीकृतं
२४।१५द् वनमिव दावपरीतमंबरम् ॥ ॥
२४।१६अब्/ अथवाञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम् ।
२४।१६य्द्/ हिममौक्तिकशंखशशांककरद्युतिहारिभिः अंबुधरैः अथवा ॥ ॥
२४।१७अ तडिद्धैमकक्ष्यैः बलाकाग्रदन्तैः
२४।१७ब् स्रवद्वारिदानैश्चलत्प्रान्तहस्तैः ।
२४।१७य् विचित्रेन्द्रचापध्वजौच्छ्रायशोभैः
२४।१७द् तमालालिनीलैः वृतं चाब्दनागैः ॥ ॥
२४।१८अ सन्ध्यानुरक्ते नभसि स्थितानाम्
२४।१८ब् इन्दीवरश्यामरुचां घनानाम् ।
२४।१८य् वृन्दानि पीतांबरवेष्टितस्य
२४।१८द् कान्तिं हरेश्चोरयतां यदा वा ॥ ॥
२४।१९अ सशिखिचातकदर्दुरनिःस्वनैः
२४।१९ब् यदि विमिश्रितमन्द्रपटुस्वनाः ।
२४।१९य् खमवतत्य दिगन्तविलंबिनः ।
२४।१९द् सलिलदाः सलिलौघमुचः क्षितौ ॥ ॥
२४।२०अ निगदितरूपैः जलधरजालैः
२४।२०ब् त्र्यहमवरुद्धं द्व्यहमथवाहः ।
२४।२०य् यदि वियदेवं भवति सुभिक्षं
२४।२०द् मुदितजना च प्रचुरजला भूः ॥ ॥
२४।२१अ रूक्षैः अल्पैः मारुताक्षिप्तदेहैः
२४।२१ब् उष्ट्रध्वांक्षप्रेतशाखामृगाभैः ।
२४।२१य् अन्येषां वा निन्दितानां स्वरूपैः (सरूपैः)
२४।२१द् मूकैश्चाब्दैः नो शिवं नापि वृष्टिः ॥ ॥
२४।२२अ विगतघने वा वियति विवस्वान्
२४।२२ब् अमृदुमयूखः सलिलकृदेवम् ।
२४।२२य् सर इव फुल्लं निशि कुमुदाढ्यं
२४।२२द् खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥ ॥
२४।२३अ पूर्वोद्भूतैः सस्यनिष्पत्तिः अब्दैः
२४।२३ब् आग्नेयाशासंभवैः अग्निकोपः ।
२४।२३य् याम्ये सस्यं क्षीयते नैरृतेऽर्धं ( अर्घं अर्धं)
२४।२३द् पश्चाज्जातैः शोभना वृष्टिः अब्दैः ॥ ॥
२४।२४अ वायव्योत्थैः वातवृष्टिः क्वचिग
२४।२४ब् पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
२४।२४य् श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैः
२४।२४द् वायुश्चैवं दिक्षु धत्ते फलानि ॥ ॥
२४।२५अ उल्कानिपाताः तडितोऽशनिश्च
२४।२५ब् दिग्दाहनिर्घातमहीप्रकंपाः ।
२४।२५य् नादा मृगाणां सपतत्रिणां च
२४।२५द् ग्राह्या यथैव अंबुधराः तथैव ॥ ॥
२४।२६अ नामांकितैः तैरुदगादिकुंभैः
२४।२६ब् प्रदक्षिणं श्रावणमासपूर्वैः
२४।२६य् पूर्णैः स मासः सलिलस्य दाता
२४।२६द् स्रुतैः (स्रुतः) अवृष्टिः परिकल्प्यमूनैः ॥ ॥
२४।२७अ अन्यैश्च कुंभैः नृपनामचिह्नैः
२४।२७ब् देशांकितैश्चाप्यपरैः तथैव
२४।२७य् भग्नैः स्रुतैः न्यूनजलैः सुपूर्णैः
२४।२७द् भाग्यानि वाच्यानि यथानुरूपम् ॥ ॥
२४।२८अ दूरगो निकटगोऽथवा शशी
२४।२८ब् दक्षिणे पथि यथा तथा स्थितः ।
२४।२८य् रोहिणीं यदि युनक्ति सर्वथा
२४।२८द् कष्टमेव जगतो विनिर्दिशेत् ॥ ॥
२४।२९अ स्पृशन्न् उदग् याति यदा शशांकः
२४।२९ब् तदा सुवृष्टिः बहुलौपसर्गा ।
२४।२९य् असंस्पृशन् योगमुदक्समेतः
२४।२९द् करोति वृष्टिं विपुलां शिवं च ॥ ॥
२४।३०अ रोहिणीशकटमध्यसंस्थिते
२४।३०ब् चन्द्रमस्यशरणीकृता जनाः ।
२४।३०य् क्वापि यान्ति शिशुयाचिताशनाः
२४।३०द् सूर्यतप्तपिठरांबुपायिनः ॥ ॥
२४।३१अ उदितं यदि शीतदीधितिं
२४।३१ब् प्रथमं पृष्ठत एति रोहिणी ।
२४।३१य् शुभमेव तदा स्मरातुराः
२४।३१द् प्रमदाः कामवशेन (कामिवशे च) संस्थिताः ॥ ॥
२४।३२अ अनुगच्छति पृष्टतः शशी
२४।३२ब् यदि कामी वनितामिव प्रियाम् ।
२४।३२य् मकरध्वजबाणखेदिताः
२४।३२द् प्रमदानां वशगाः तदा नराः ॥ ॥
२४।३३अ आग्नेय्यां दिशि चन्द्रमा यदि भवेत् तत्रौपसर्गो महान्
२४।३३ब् नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः ।
२४।३३य् प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्चयो
२४।३३द् याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घवृष्ट्यादयः (वृद्ध्यादयः) ॥ ॥
२४।३४अब्/ ताडयेद् यदि च योगतारकामावृणोति वपुषा यदापि वा ।
२४।३४य्द्/ ताडने भयमुशन्ति दारुणं छादने नृपबधो (नृपवधो) अंगनाकृतः ॥ ॥
२४।३५अब्/ गोप्रवेशसमयेग्रतो वृषो याति कृष्णपशुः एव वा पुरः ।
२४।३५य्द्/ भूरि वारि शबले तु मध्यमं नो सितेऽंबुपरिकल्पनापरैः ॥ ॥
२४।३६अब्/ दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृते ।
२४।३६य्द्/ रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता ॥ ॥
sएपरते अध्याय २५ स्वातियोगाध्यायः
२५।१अब्/ यद् रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
२५।१य्द्/ आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशेषः तमहं प्रवक्ष्ये ॥ ॥
२५।२अ स्वातौ निशांशे प्रथमेऽभिवृष्टे
२५।२ब् सस्यानि सर्वाणि उपयान्ति वृद्धिम् ।
२५।२य् भागे द्वितीये तिलमुद्गमाषा
२५।२द् ग्रैष्मं तृतीयेऽस्ति न शारदानि ॥ ॥
२५।३अब्/ वृष्टेऽह्निभागे प्रथमे सुवृष्टिः तद्वद् द्वितीये तु सकीटसर्पा ।
२५।३य्द्/ वृष्टिः तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिः द्युनिशं प्रवृष्टे ॥ ॥
२५।४अब्/ सममुत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः ।
२५।४य्द्/ तस्यासन्ने चन्द्रे स्वातेः योगः शिवो भवति ॥ ॥
२५।५अ सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे
२५।५ब् वायुः वा चण्डवेगः सजलजलधरो वापि गर्जत्यजस्रम् ।
२५।५य् विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
२५।५द् विज्ञेया प्रावृड् एषा मुदितजनपदा सर्वसस्यैरुपेता ॥ ॥
२५।६अब्/ तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा ।
२५।६य्द्/ स्वातियोगं विजानीयादाषाढे च विशेषतः ॥ ॥
sएपरते अध्याय २६ आषाढीयोगाध्यायः
२६।१अ आषाढ्यां समतुलिताधिवासितानाम्
२६।१ब् अन्येद्युः यदधिकतामुपैति बीजम् ।
२६।१य् तद्वृद्धिः भवति न जायते यदूनं
२६।१द् मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय ॥ ॥
(मन्त्र)
२६।२अब्/ स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती ।
२६।२य्द्/ दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि ॥ ॥
२६।३अब्/ येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणाः तथा ।
२६।३य्द्/ उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ॥ ॥
२६।४अब्/ यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु ।
२६।४य्द्/ यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम् ॥ ॥
२६।५अब्/ ब्रह्मणो दुहितासि त्वमादित्यैति प्रकीर्तिता ।
२६।५य्द्/ काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला ॥ ॥
२६।६अ क्षौमं चतुःसूत्रकसन्निबद्धं
२६।६ब् षडंगुलं शिक्यकवस्त्रमस्याः ।
२६।६य् सूत्रप्रमाणम् च दशांगुलानि
२६।६द् षड् एव कक्ष्यो (कक्षो) भयशिक्यमध्ये ॥ ॥
२६।७अ याम्ये शिक्ये कांचनं सन्निवेश्यं
२६।७ब् शेषद्रव्याणि उत्तरेऽंबूनि चैव (चैवं) ।
२६।७य् तोयैः कौप्यैः सेन्धवैः (स्यन्दिभिः) सारसैश्च
२६।७द् वृष्टिः (वर्।वृद्धिः) हीना मध्यमा चोत्तमा च ॥ ॥
२६।८अ दन्तैः नागा गोहयाद्याश्च लोम्ना
२६।८ब् हेम्ना भूपाः शिक्थकेन द्विजाद्याः ।
२६।८य् तद्वद् देशा वर्षमासा दिशश्च
२६।८द् शेषद्रव्याणि आत्मरूपस्थितानि ॥ ॥
२६।९अब्/ हैमी प्रधाना रजतेन मध्या तयोः अलाभे खदिरेण कार्या ।
२६।९य्द्/ विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद् वितस्तिः ॥ ॥
२६।१०अब्/ हीनस्य नाशोऽभ्यधिकस्य वृद्धिः तुल्येन तुल्यं तुलितं तुलायाम् ।
२६।१०य्द्/ एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥ ॥
२६।११अ स्वातावषाढास्वथ रोहिणीषु
२६।११ब् पापग्रहा योगगता न शस्ताः ।
२६।११य् ग्राह्यं तु योगद्वयमपि उपोष्य
२६।११द् यदाधिमासो द्विगुणीकरोति ॥ ॥
२६।१२अ त्रयोऽपि योगाः सदृशाः फलेन
२६।१२ब् यदा तदा वाच्यमसंशयेन ।
२६।१२य् विपर्यये यत्त्विह रोहिणीजं
२६।१२द् फलं तदेवाभ्यधिकं निगद्यम् ॥ ॥
२६।१३अब्/ निष्पत्तिः अग्निकोपो वृष्टिः मन्दाथ मध्यमा श्रेष्ठा ।
२६।१३य्द्/ बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ॥ ॥
२६।१४अब्/ वृत्तायामाषाढ्याम् कृष्णचतुर्थ्यामजैकपादर्क्षे ।
२६।१४य्द्/ यदि वर्षति पर्जन्यः प्रावृट् शस्ता न चेन् न ततः ॥ ॥
२६।१५अब्/ आषाढ्याम् पौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् ।
२६।१५य्द्/ अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा ॥ ॥
sएपरते अध्याय २७ वातचक्राध्यायः
२७।१अब्/ आषाढपौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् ।
२७।१य्द्/ अस्तं गच्छति तीक्ष्णांशौ सस्य सम्पत्तिरुत्तमा ॥ ॥
२७।२अ पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्
२७।२ब् चन्द्रार्कांशुसटाकलापकलितो (सटाभिघातकलितो) वायुः यदाकाशतः ।
२७।२य् नैकान्तस्थितनीलमेघपटला (पटलां) शारद्यसंवर्धिता (संवर्धितां)
२७।२द् वासन्तौत्कटसस्यमण्डिततला सर्वा मही शोभते (तलां विद्यात् तदा मेदिनीं) ॥ ॥
२७।३अ यदा वह्नौ (अग्नेयो) वायुः वहति गगने खण्डिततनुः (मलयशिखरास्फालनपटुः)
२७।३ब् प्लवत्यस्मिन् योगे भगवति पतंगे प्रवसति ।
२७।३य् तदा नित्योद्दीप्ता ज्वलनशिखरालिंगिततला
२७।३द् स्वगात्रौच्छ्वासैः (उष्मोच्छासैः) वमति वसुधा भस्मनिकरम् ॥ ॥
२७।४अ तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन्
२७।४ब् योगेऽस्मिन् प्लवति ध्वनिः सपरुषो (ध्वनन्सुपरुषो) वायुः यदा दक्षिणः ।
२७।४य् तद्वद् योगसमुत्थितः तु (सर्वोद्योगसमुन्नताश्च) गजवत्तालांकुशैः घट्टिताः
२७।४द् कीनाशा इव मन्दवारिकणिका (कणिकान्) मुंचन्ति मेघाः तदा ॥ ॥
२७।५अ सूक्ष्मैलालवलीलवंगनिचयान् व्याघूर्णयन् सागरे
२७।५ब् भानोः अस्तमये प्लवत्यविरतो वायुः यदा नैरृतः
२७।५य् क्षुत्तृष्णावृत (तृष्णामृत) मानुषास्थिशकलप्रस्तारभारच्छदा
२७।५द् मत्ता प्रेतवधूरिवोग्रचपला भूमिः तदा लक्ष्यते ॥ ॥
२७।६अ यदा रेणूत्पातैः प्रविचलसटाटोपचपलः (प्रविकटसटाटोपचपलः)
२७।६ब् प्रवातः पश्चागेद् (पश्चार्धे) दिनकरकरापातसमये ।
२७।६य् तदा सस्योपेता प्रवरनिकराबद्धसमरा (प्रवरनृव्राबद्धसमरा)
२७।६द् क्षितिः स्थानस्थानेष्व (धरा स्थाने स्थानेष्व्) अविरतवसामांसरुधिरा ॥ ॥
२७।७अ आषाढीपर्वकाले यदि किरणपतेः अस्तकालोपपत्तौ
२७।७ब् वायव्यो वृद्धवेगः पवनघनवपुः पन्नगार्द्धानुकारि (प्लवति धनरिपुः पन्नगादानुकारी) ।
२७।७य् जानीयाद् वारिधाराप्रमुदितमुदितामुक्त (मुदितां मुक्त) मण्डूककण्ठां
२७।७द् सस्यौद्भासएकचिह्नां सुखबहुलतया भाग्यसेनामिवौर्वीम् ॥ ॥
२७।८अ मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ
२७।८ब् वात्यामोदिकदंबगन्धसुरभिः वायुः यदा चोत्तरः ।
२७।८य् विद्युद्भ्रान्तिसमस्तकान्तिकलना मत्ताः तदा तोयदा
२७।८द् उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यंबुभिः ॥ ॥
२७।९अब्/ वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादर्क्षे
(ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत्) ।
२७।९य्द्/ यदि वर्षति पर्जन्यः प्रावृत् शस्ता न चेन् न तदा
(पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः ॥ ॥
२७।१०अब्/ नष्टचन्द्रार्ककिरनं नष्टतारं न चेन् नभः (आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला) ।
२७।१०य्द्/ न तां भद्रपदां मन्ये यत्र देवो न वर्षति
(धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णां तदा) ॥ ॥
sएपरते अध्याय २८ सद्योवर्षणाध्यायः
२८।१अ वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो
२८।१ब् लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे ।
२८।१य् सौम्यैः दृष्टः प्रचुरमुदकं पापदृष्टोऽल्पमंभः
२८।१द् प्रावृट्काले सृजति न चिरात्चन्द्रवद् भार्गवोऽपि ॥ ॥
२८।२अ आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा
२८।२ब् तोयासन्नो भवति यदि वा तोयकार्यौन्मुखो वा ।
२८।२य् प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन
२८।२द् पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः ॥ ॥
२८।३अ उदयशिखरिसंस्थो दुर्निरीक्ष्योऽतिदीप्त्या
२८।३ब् द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः ।
२८।३य् तदहनि कुरुतेऽंभः तोयकाले विवस्वान्
२८।३द् प्रतपति यदि चौच्चैः खं गतोऽतीव तीक्ष्णम् ॥ ॥
२८।४अ विरसमुदकं गोनेत्राभं वियद्विमला दिशो
२८।४ब् लवणविकृतिः काकाण्डाभं यदा च भवेत्नभः ।
२८।४य् पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो
२८।४द् रसनमसकृत्मण्डूकानां जलागमहेतवः ॥ ॥
२८।५अ मार्जारो भृशमवनिं नखैः लिक्खन्तो (लिखन्ते)
२८।५ब् लोहानां मलनिचयः सविस्रगन्धः ।
२८।५य् रथ्यायां शिशुरचिताः (शिशुनिचिताः) च सेतुबन्धाः ।
२८।५द् सम्प्राप्तं जलमचिरात्निवेदयन्ति ॥ ॥
२८।६अब्/ गिरयोऽञ्जनचूर्णसन्निभा (अञ्जनपुञ्जसन्निभा) यदि वा बाष्पनिरुद्धकन्दराः ।
२८।६य्द्/ कृकवाकुविलोचनौपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥ ॥
२८।७अ विना उपघातेन पिपीलिकानाम्
२८।७ब् अण्डौपसंक्रान्तिः अहिव्यवायः ।
२८।७य् द्रुमावरोहः (द्रुमाधिरोहः) च भुजंगमानां
२८।७द् वृष्टेः निमित्तानि गवां प्लुतं च ॥ ॥
२८।८अ तरुशिखरओपगताः कृकलासा
२८।८ब् गगनतलस्थितदृष्टिनिपाताः ।
२८।८य् यदि च गवां रविवीक्षणमूर्ध्वं
२८।८द् निपतति वारि तदा न चिरेण ॥ ॥
२८।९अब्/ नैच्छन्ति विनिर्गमं गृहाद् धुन्वन्ति श्रवणान् खुरान् अपि ।
२८।९य्द्/ पशवः पशुवग कुक्कुरा (कुर्कुरा) यद्यंभः पततीति निर्दिशेत् ॥ ॥
२८।१०अ यदा स्थिता गृहपटलेषु कुक्कुरा (कुर्कुरा)
२८।१०ब् रुदन्ति (भवन्ति) वा यदि विततं वियत्मुखाः (दिवोन्मुखाः) ।
२८।१०य् दिवा तडिद् यदि च पिनाकिदिग्भवा
२८।१०द् तदा क्षमा भवति समैव वारिणा (स आतोवारोंआ) ॥ ॥
२८।११अ शुककपोतविलोचनसन्निभो
२८।११ब् मधुनिभश्च यदा हिमदीधितिः ।
२८।११य् प्रतिशशी च यदा दिवि राजते
२८।११द् पतति वारि तदा न चिरेण च (चिराद् दिवः) ॥ ॥
२८।१२अ स्तनितं निशि विद्युतो दिवा
२८।१२ब् रुधिरनिभा यदि दण्डवत्स्थिताः ।
२८।१२य् पवनः पुरतश्च शीतलो
२८।१२द् यदि सलिलस्य तदाऽऽगमो भवेत् ॥ ॥
२८।१३अ वल्लीनां गगनतलौन्मुखाः प्रवालाः
२८।१३ब् स्नायन्ते यदि जलपांशुभिः विहंगाः ।
२८।१३य् सेवन्ते यदि च सरीसृपाः तृणाग्राण्य्-
२८।१३द् आसन्नो भवति तदा जलस्य पातः ।
२८।१४अ मयूरशुकचाषचातकसमानवर्णा यदा
२८।१४ब् जपाकुसुमपंकजद्युतिमुषश्च सन्ध्याघनाः ।
२८।१४य् जलोर्मिनगनक्रकच्छपवराहमीनोपमाः
२८।१४द् प्रभूतपुटसंचया न तु चिरेण यच्छन्त्यपः ॥ ॥
२८।१५अ पर्यन्तेषु सुधाशशांकधवला मध्येऽञ्जनालित्विषः
२८।१५ब् स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः ।
२८।१५य् माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग् वा अंबुपाशौद्भवा
२८।१५द् ये ते वारिमुचः त्यजन्ति न चिरादंभः प्रभूतं भुवि ॥ ॥
२८।१६अब्/ शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः ।
२८।१६य्द्/ उद्गमास्तमये यदि भानोः आदिशेत् प्रचुरमंबु तदाशु ॥ ॥
२८।१७अ यदि तित्तिरपत्रनिभं गगनं
२८।१७ब् मुदिताः प्रवदन्ति च पक्षिगणाः ।
२८।१७य् उदयास्तमये सवितुः द्युनिशं
२८।१७द् विसृजन्ति घना न चिरेण जलम् ॥ ॥
२८।१८अ यद्यमोघकिरणाः सहस्रगोः
२८।१८ब् अस्तभूधरकरा इवौच्छ्रिताः ।
२८।१८य् भूमं च रसते यदांबुदः
२८।१८द् तन्महद् भवति वृष्टिलक्षणं ॥ ॥
२८।१९अब्/ प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः ।
२८।१९य्द्/ सूर्यसुतान् नवपंचमगो वा सप्तमगश्च जलाऽऽगमनाय ॥ ॥
२८।२०अब्/ प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च ।
२८।२०य्द्/ पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिः गतेऽर्के नियमेन चार्द्राम् ॥ ॥
२८।२१अब्/ समागमे पतति जलं ज्ञशुक्रयोः ज्ञजीवयोः गुरुसितयोश्च संगमे ।
२८।२१य्द्/ यमारयोः पवनहुताशजं भयं ह्यदृष्टयोः असहितयोश्च सद्ग्रहैः ॥ ॥
२८।२२अब्/ अग्रतः पृष्ठतो वापि ग्रहाः सूर्यावलंबिनः ।
२८।२२य्द्/ यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव ॥ ॥
२८।२३अब्/ प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु ।
२८।२३य्द्/ केदारपूरमधिकं वर्षति देवः तदा न चिरात् ॥ ॥
२८।२४अब्/ वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम् ।
२८।२४य्द्/ सप्ताहं दुर्दिनमपि तदा पयो नात्र सन्देहः ॥ ॥
sएपरते अध्याय २९ कुसुमलताध्यायः
२९।१अब्/ फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
२९।१य्द्/ सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥ ॥
२९।२अब्/ शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च ।
२९।२य्द्/ पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥ ॥
२९।३अब्/ न्यग्रोधेन तु यवकः तिन्दुकवृद्ध्या च षष्टिको भवति ।
२९।३य्द्/ अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ॥ ॥
२९।४अब्/ जंबूभिः तिलमाषाः शिरीषवृद्ध्या च कंगुनिष्पत्तिः ।
२९।४य्द्/ गोधूमाश्च मधूकैः यववृद्धिः सप्तपर्णेन ॥ ॥
२९।५अब्/ अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदशनैः ।
२९।५य्द्/ बदरीभिश्च कुलत्थांश्चिरविल्वेन (चिरबिल्वेन) आदिशेत्मुद्गान् ॥ ॥
२९।६अब्/ अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
२९।६य्द्/ तिलकेन शंखमौक्तिकरजतानि अथ चैंगुदेन शणाः (शणः) ॥ ॥
२९।७अब्/ किरणश्च हस्तिकर्णैः आदेश्या वाजिनोऽश्वकर्णेन ।
२९।७य्द्/ गावश्च पाटलाभिः कदलीभिः अजाविकं भवति ॥ ॥
२९।८अब्/ चंपककुसुमैः कनकं विद्रुमसम्पग बन्धुजीवेन ।
२९।८य्द्/ कुरवक (कुरुवक) वृद्ध्या वज्रं वैदूर्यं निन्दिकावर्तैः ॥ ॥
२९।९अब्/ विन्द्याग सिन्धुवारेण मौक्तिकं कारुकाः (कुंकुमं) कुसुंभेन ।
२९।९य्द्/ रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥ ॥
२९।१०अब्/ श्रेष्ठी सुवर्णपुष्पात् (पुष्पैः) पद्मैः विप्राः पुरोहिताः कुमुदैः ।
२९।१०य्द्/ सौगन्धिकेन बलपतिः अर्केण हिरण्यपरिवृद्धिः ॥ ॥
२९।११अब्/ आम्रैः क्षेमं भल्लातकैः भयं पीलुभिः तथारोग्यम् ।
२९।११य्द्/ खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥ ॥
२९।१२अब्/ पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।
२९।१२य्द्/ निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥ ॥
२९।१३अब्/ दूर्वाकुशकुसुमाभ्यामिक्षुः वह्निश्च कोविदारेण ।
२९।१३य्द्/ श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥ ॥
२९।१४अ यस्मिन् काले (देशे) स्निग्धनिश्छिद्रपत्राः
२९।१४ब् संदृश्यन्ते वृक्षगुल्मा लताश्च ।
२९।१४य् तस्मिन् वृष्टिः शोभना सप्रदिष्टा
२९।१४द् रूक्षैश्छिद्रैः अल्पमंभः प्रदिष्टम् ॥ ॥
sएपरते अध्याय ३० सन्ध्यालक्षणाध्यायः
३०।१अब्/ अर्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो यावत् ।
३०।१य्द्/ तावत् सन्ध्याकालश्चिह्नैः एतैः फलं चास्मिन् ॥ ॥
३०।२अब्/ मृगशकुनि (शकुन) पवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः ।
३०।२य्द्/ गन्धर्वनगररविकरदण्डरजः स्नेहवर्णैश्च ॥ ॥
३०।३अब्/ भैरवमुच्चैः विरुवन् मृगोऽसकृद् ग्रामघातमाचष्टे ।
३०।३य्द्/ रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥ ॥
३०।४अब्/ अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते ।
३०।४य्द्/ मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥ ॥
३०।५अब्/ दीप्तमृगाण्डजविरुता प्राक् सन्ध्या देशनाशमाख्याति ।
३०।५य्द्/ दक्षिणदिक्स्थैः विरुता ग्रहणाय पुरस्य दीप्तास्यैः ॥ ॥
३०।६अब्/ गृहतरुतोरणमथने सपांशुलोष्टौत्करेऽनिले प्रबले ।
३०।६य्द्/ भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥ ॥
३०।७अब्/ मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा ।
३०।७य्द्/ मधुरस्वरशान्तविहंगमृगरुता पूजिता सन्ध्या ॥ ॥
३०।८अब्/ सन्ध्याकाले स्निग्धा दण्डतडित्मत्स्यपरिधिपरिवेषाः ।
३०।८य्द्/ सुरपतिचापैरावतरविकिरणाश्चाशु वृष्टिकरः ॥ ॥
३०।९अब्/ विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः ।
३०।९य्द्/ तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः ॥ ॥
३०।१०अब्/ उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः ।
३०।१०य्द्/ किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥ ॥
३०।११अब्/ शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः ।
३०।११य्द्/ अव्युच्छिन्ना ऋजवो वृष्टिकराः ते त्व (हि) अमोघाख्याः ॥ ॥
३०।१२अब्/ कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः ।
३०।१२य्द्/ त्रिदिवानुबन्धिनोऽवृष्टयेऽल्पभयदाः तु सप्ताहात् ॥ ॥
३०।१३अब्/ ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च तद् व्यसनम् ।
३०।१३य्द्/ हरिताः पशुसस्यबधं धूमसवर्णा गवां नाशम् ॥ ॥
३०।१४अब्/ माञ्जिष्टाभाः शस्त्राग्निसंभ्रमं बभ्रवः पवनवृष्टिम् ।
३०।१४य्द्/ भस्मसदृशाः त्ववृष्टिं तनुभावं शबलकल्माषाः ॥ ॥
३०।१५अ बन्धूकपुष्पाञ्जनचूर्णसन्निभं
३०।१५ब् सान्ध्यं रजोऽभ्येति यदा दिवाकरम् ।
३०।१५य् लोकाः तदा रोगशतैः निपीड्यते
३०।१५द् शुक्लं रजो लोकविवृद्धिशान्तये ॥ ॥
३०।१६अब्/ रविकिरणजलदमरुतां संघातो दण्डवत् स्थितो दण्डः ।
३०।१६य्द्/ स विदिक्स्थितो नृपाणामशुभो दिक्षु द्विजादीनाम्(द्विजातीनां) ॥ ॥
३०।१७अब्/ शस्त्रभयातंककरो दृष्टः प्रान्मध्यसन्धिषु दिनस्य ।
३०।१७य्द्/ शुक्लाद्यो विप्रादीन् यदभिमुखः तां निहन्ति दिशम् ॥ ॥
३०।१८अब्/ दधिसदृशाग्रो नीलो भानुच्छादी खमध्यगोभ्रतरुः ।
३०।१८य्द्/ पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ॥ ॥
३०।१९अब्/ अनुलोमगेऽभ्रवृक्षे शमं गते यायिनो नृपस्य बधः ।
३०।१९य्द्/ बालतरुप्रतिरूपिणि युवराजामात्ययोः मृत्युः ॥ ॥
३०।२०अब्/ कुवलयवैदूर्यांबुजकिञ्जल्काभा प्रभञ्जनौन्मुक्ता ।
३०।२०य्द्/ सन्ध्या करोति वृष्टिं रविकिरणौद्भासिता सद्यः ॥ ॥
३०।२१अब्/ अशुभाकृतिघनगन्धर्वनगरनीहारधूमपांशुयुता (पांशुधूमयुता) ।
३०।२१य्द्/ प्रावृषि करोत्यवग्रहमन्यतौ शस्त्रकोपकरी ॥ ॥
३०।२२अब्/ शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः ।
३०।२२य्द्/ प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिः अन्या ॥ ॥
३०।२३अब्/ आयुधभृन् नररूपं छिन्नाभ्रं परभयाय रविगामि ।
३०।२३य्द्/ सितखपुरेऽर्काक्रान्ते पुरलाभो भेदने नाशः ॥ ॥
३०।२४अ सितसितान्तघनावरणं रवेः
३०।२४ब् भवति वृष्टिकरं यदि सव्यतः ।
३०।२४य् यदि च वीरणगुल्मनिभैः घनैः
३०।२४द् दिवसभर्तुः अदीप्तदिगुद्भवैः ॥ ॥
३०।२५अब्/ नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुः बलकोपकृत् ।
३०।२५य्द्/ कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥ ॥
३०।२६अ उभयपार्श्वगतौ परिधी रवेः
३०।२६ब् प्रचुरतोयकरौ (कृतौ) वपुषान्वितौ ।
३०।२६य् अथ स मस्तककुप्परिचारिणः
३०।२६द् परिधयोऽस्ति कणोऽपि न वारिणः ॥ ॥
३०।२७अब्/ ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः ।
३०।२७य्द्/ जयाय सन्ध्ययोः घना रणाय रक्तसन्निभाः ॥ ॥
३०।२८अब्/ पलालधूमसंचयस्थितौपमा बलाहकाः ।
३०।२८य्द्/ बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ॥ ॥
३०।२९अब्/ विलंबिनो द्रुमौपमाः खरारुणप्रकाशिनः ।
३०।२९य्द्/ घनाः शिवाय सन्ध्ययोः पुरौपमाः शुभावहाः ॥ ॥
३०।३०अब्/ दीप्तविहंगशिवामृगघुष्टा दण्डरजःपरिघादियुता च ।
३०।३०य्द्/ प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षबधाय ॥ ॥
३०।३१अ प्राची तत्क्षणमेव नक्तमपरा सन्ध्या त्र्यहाद् वा फलं
३०।३१ब् सप्ताहात् परिवेषरेणुपरिघाः कुर्वन्ति सद्यो न चेत् ।
३०।३१य् तद्वत् सूर्यकरेन्द्रकार्मुकतडित्प्रत्यर्कमेघानिलाः
३०।३१द् तस्मिन् एव दिनेऽष्टमेऽथ विहगाः सप्ताहपाका मृगाः ॥ ॥
३०।३२अ एकं दीप्त्या योजनं भाति सन्ध्या
३०।३२ब् विद्युद्भासा षट् प्रकाशीकरोति ।
३०।३२य् पंचाब्दानां गर्जितं याति शब्दो
३०।३२द् नास्तीयत्ता केचिद् (काचिद्) उल्कानिपाते ॥ ॥
३०।३३अ प्रत्यर्कसंज्ञः परिधिः तु तस्य
३०।३३ब् त्रियोजनाभः (त्रियोजना भा) परिघस्य पंच ।
३०।३३य् षट्पंचदृश्यं परिवेषचक्रं
३०।३३द् दशामरेशस्य धनुः विभाति ॥ ॥
sएपरते अध्याय ३१ दिग्दाहलक्षणाध्यायः
३१।१अब्/ दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः ।
३१।१य्द्/ यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ॥ ॥
३१।२अ योऽतीव दीप्त्या कुरुते प्रकाशं
३१।२ब् छायामपि व्यञ्जयतेऽर्कवद् यः ।
३१।२य् राज्ञो महद् वेदयते भयं स
३१।२द् शस्त्रप्रकोपं क्षतजानुरूपः ॥ ॥
३१।३अ प्राक् क्षत्रियाणां सनरेश्वराणां
३१।३ब् प्राग् दक्षिणे शिल्पिकुमारपीडा ।
३१।३य् याम्ये सहोग्रैः पुरुषैः तु वैश्या
३१।३द् दूताः पुनः भूप्रमदाश्च कोणे ॥ ॥
३१।४अ पश्चात् तु शूद्राः कृषिजीविनश्च
३१।४ब् चौराः तुरंगैः सह वायुदिक्स्थे
३१।४य् पीडां व्रजन्त्युत्तरतश्च विप्राः
३१।४द् पाखण्डिनो (पाषण्डिनो) वाणिजकाश्च शार्व्याम् ॥ ॥
३१।५अ नभः प्रसन्नं विमलानि भानि
३१।५ब् प्रदक्षिणं वाति सदागतिश्च ।
३१।५य् दिशां च दाहः कनकावदातो
३१।५द् हिताय लोकस्य सपार्थिवस्य ॥ ॥
sएपरते अध्याय ३२ भूकंपलक्षणाध्यायः
३२।१अब्/ क्षितिकंपमाहुः एके बृहदन्तर्जलनिवासिसत्त्वकृतम् ।
३२।१य्द्/ भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये ॥ ॥
३२।२अब्/ अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्यन्ये (एके) ।
३२।२य्द्/ केचित् त्वदृष्टकारितमिदमन्ये प्राहुः आचार्याः ॥ ॥
३२।३अब्/ गिरिभिः पुरा सपक्षैः वसुधा प्रपतद्भिरुत्पद्भिश्च ।
३२।३य्द्/ आकंपिता पितामहमाहामरसदसि सव्रीडम् ॥ ॥
३२।४अब्/ भगवन् नाम ममएतत्त्वया कृतं यदचलैति तन् न तथा ।
३२।४य्द्/ क्रियतेऽचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ॥ ॥
३२।५अब्/ तस्याः सगद्गदगिरं (सगड्गदगिरं) किंचित् स्फुरिताधरं विनतमीषत् ।
३२।५य्द्/ साश्रुविलोचनमाननमालोक्य पितामहः प्राह ॥ ॥
३२।६अब्/ मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभंगाय ।
३२।६य्द्/ शक्रः कृतमित्युक्त्वा मा भैः इति वसुमतीमाह ॥ ॥
३२।७अब्/ किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् ।
३२।७य्द्/ प्राग् द्वित्रिचतुर्भागेषु दिननिशोः कंपयिष्यन्ति ॥ ॥
३२।८अब्/ चत्वार्यार्यम्णाद्यानि आदित्यं मृगशिरोऽश्वयुक् चेति ।
३२।८य्द्/ मण्डलमेतद् वायव्यमस्य रूपाणि सप्ताहात् ॥ ॥
३२।९अब्/ धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम् ।
३२।९य्द्/ विरुजन् द्रुमांश्च विचरति रविः अपटुकरावभासी च ॥ ॥
३२।१०अब्/ वायव्ये भूकंपे सस्यांबुवनौषधीक्षयोऽभिहितः ।
३२।१०य्द्/ श्वयथुश्वासौन्मादज्वरकासभवो (भवा) वणिक्पीडा ॥ ॥
३२।११अब्/ रूपायुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः ।
३२।११य्द्/ पीड्यन्ते सौराष्ट्रककुरुमघदशार्णमत्स्याश्च ॥ ॥
३२।१२अब्/ पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि ।
३२।१२य्द्/ वर्गो हौतभुजोऽयं करोति रूपाणि अथैतानि ॥ ॥
३२।१३अब्/ तारा उल्कापातावृतमादीप्तमिवांबरं सदिग्दाहम् ।
३२।१३य्द्/ विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ॥ ॥
३२।१४अब्/ आग्नेयेऽंबुदनाशः सलिलाशयसंक्षयो नृपतिवैरम् ।
३२।१४य्द्/ दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च ॥ ॥
३२।१५अब्/ दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकांगबाह्लीकाः ।
३२।१५य्द्/ तंगणकलिंगवंगद्रविडाः शबरा अनेकविधाः (शबराश्च नैकविधाः) ॥ ॥
३२।१६अब्/ अभिजित्श्रवणधनिष्ठाप्राजापत्येन्द्रवैश्वमैत्राणि ।
३२।१६य्द्/ सुरपतिमण्डलमेतद् भवन्ति चाप्यस्य रूपाणि (च अस्य स्वरूपाणि) ॥ ॥
३२।१७अब्/ चलिताचलवर्ष्माणो गंभीरविराविणः तडिद्वन्तः (तडित्वन्तः) ।
३२।१७य्द्/ गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥ ॥
३२।१८अब्/ एन्द्रं स्तुत (श्रुति) कुलजातिख्यातावनिपालगणपविध्वंसि ।
३२।१८य्द्/ अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥ ॥
३२।१९अब्/ काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
३२।१९य्द्/ अर्बुदसुराष्ट्र (सुवास्तु) मालवपीडाकरमिष्टवृष्टिकरम् ॥ ॥
३२।२०अब्/ पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदेवानि ।
३२।२०य्द्/ मण्डलमेतद् वारुणमस्यापि भवन्ति रूपाणि ॥ ॥
३२।२१अब्/ नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
३२।२१य्द्/ तडिदुद्भासितदेहा धारांकुर (कुश) वर्षिणो जलदाः ॥ ॥
३२।२२अब्/ वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
३२।२२य्द्/ गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥ ॥
३२।२३अब्/ षड्भिः मासैः कंपो द्वाभ्यां पाकं च याति निर्घातः ।
३२।२३य्द्/ अन्यान् अपि उत्पातान् जगुः अन्ये मण्डलैः एतैः ॥ ॥
% ३वेर्सेस् इन्सेर्तेद्
३२।२४अब्/ उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकंपककुप्प्रदाहाः ।
३२।२४य्द्/ वातोऽतिचण्डो ग्रहणं रवीन्द्वोः नक्षत्रतारागणवैकृतानि ॥ ॥
३२।२५अब्/ व्यभ्रे वृष्टिः वैकृतं वातवृष्टिः धूमोऽनग्नेः विस्फुलिग्गार्चिषो वा ।
३२।२५य्द्/ वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावेन्द्रं कार्मुकं दृश्यते वा ॥ ॥
३२।२६अब्/ सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादाः ।
३२।२६अब्/ अन्यग यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैः एव फलं निगाद्यम् ॥ ॥
३२।२४अब्/ हन्त्येन्द्रो वायव्यं वायुश्चाप्येन्द्रमेवमन्योन्यम् ।
३२।२४य्द्/ वारुणहौतभुजावपि वेलानक्षत्रजाः कंपाः ॥ ॥
३२।२५अब्/ प्रथितनरेश्वरमरणव्यसनानि आग्नेयवायुमण्डलयोः ।
३२।२५य्द्/ क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्च अपि ॥ ॥
३२।२६अब्/ वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके ।
३२।२६य्द्/ गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः ॥ ॥
३२।२७अब्/ पक्षैश्चतुर्भिः अनिलः त्रिभिः अग्निः देवराट् च सप्ताहात् ।
३२।२७य्द्/ सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥ ॥
३२।२८अब्/ चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् ।
३२।२८य्द्/ सलिलपतिः अशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टितः (षष्टिकं) ॥ ॥
३२।२९अब्/ त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे चे ।
३२।२९य्द्/ यदि भवति भूमिकंपः प्रधाननृपनाशनो भवति ॥ ॥
sएपरते अध्याय ३३ उल्कालक्षणाध्यायः
३३।१अब्/ दिवि भुक्तशुभफलानां पततां रूपाणि यानि तानि उल्काः ।
३३।१य्द्/ धिष्ण्यौल्काशनिविद्युत्तारा इति पंचधा भिन्नाः ॥ ॥
३३।२अब्/ उल्का पक्षेण फलं तद्वद् धिष्ण्याशनिः त्रिभिः पक्षैः ।
३३।२य्द्/ विद्युदहोभिः षड्भिः तद्वत् तारा विपाचयति ॥ ॥
३३।३अब्/ तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या ।
३३।३य्द्/ तिस्रः सम्पूर्णफला विद्युदथौल्काशनिश्चेति ॥ ॥
३३।४अब्/ अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
३३।४य्द्/ निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥ ॥
३३।५अब्/ विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
३३।५य्द्/ कुतिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥ ॥
३३।६अब्/ धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम् ।
३३।६य्द्/ ज्वलितांगारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥ ॥
३३।७अब्/ तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा ।
३३।७य्द्/ तिर्यगधश्च ऊर्ध्वं वा याति वियत्युह्यमाना इव ॥ ॥
३३।८अब्/ उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा ॥ ॥
३३।८य्द्/ दीर्घा च भवति (भवति च) पुरुषं भेदा बहवो भवत्यस्याः ॥ ॥
३३।९अब्/ प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलांगलमृगाभाः ।
३३।९य्द्/ गोधाहिधूमरूपाः पापा या चौभयशिरस्का ॥ ॥
३३।१०अब्/ ध्वजझषगिरिकरि (करिगिरि) कमलेन्दुतुरगसन्तप्तरजतहंसाभाः ।
३३।१०य्द्/ श्रीवृक्ष (वत्स, श्रीवृक्ष) वज्रशंखस्वस्तिकरूपाः शिवसुभिक्षाः ॥ ॥
३३।११अब्/ अंबरमध्याद् बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय ।
३३।११य्द्/ बंभ्रमती गगनोपरि विभ्रममाख्याति लोकस्य ॥ ॥
३३।१२अब्/ संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकंपा च ।
३३।१२य्द्/ परचक्रागमनृपवधदुर्भिक्षावृष्टिभयजननी ॥ ॥
३३।१३अब्/ पौरैतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांशवोः ।
३३।१३य्द्/ उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥ ॥
३३।१४अब्/ शुक्ला रक्ता पीता कृष्णा चौल्का द्विजादिवर्णघ्नी ।
३३।१४य्द्/ क्रमशश्चैतान् हन्युः मूर्धौरःपार्श्वपुच्छस्थाः ॥ ॥
३३।१५अब्/ उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा ।
३३।१५य्द्/ ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्वृद्ध्यै ॥ ॥
३३।१६अब्/ श्यावारुण (श्यामा वारुण) नीलासृग्दहनासितभस्मसन्निभा रूक्षा ।
३३।१६य्द्/ सन्ध्यादिनजा वक्रा दलिता च परागमभयाय ॥ ॥
३३।१७अब्/ नक्षत्रग्रहघातैः (घाते) तद्भक्तीनां क्षयाय निर्दिष्टा ।
३३।१७य्द्/ उदये घ्नती रवीन्दू पौरैतरमृत्यवेऽस्ते वा ॥ ॥
३३।१८अब्/ भाग्यादित्यधनिष्टामूलेषूल्काहतेषु युवतीनाम् ।
३३।१८य्द्/ विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ॥ ॥
३३।१९अब्/ ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम् ।
३३।१९य्द्/ क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥ ॥
३३।२०अब्/ कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम् ।
३३।२०य्द्/ शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥ ॥
३३।२१अब्/ आशाग्रहौपघाते तद्देश्यानां खले कृषिरतानाम् ।
३३।२१य्द्/ चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ॥ ॥
३३।२२अब्/ द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः ।
३३।२२य्द्/ ब्रह्मायतने विप्रान् विनिहन्याद् गोमिनो गोष्ठे ॥ ॥
३३।२३अब्/ क्ष्वेडास्फोटितवादितगीतौत्कुष्टस्वना भवन्ति यदा ।
३३।२३य्द्/ उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ॥ ॥
३३।२४अ यस्याश्चिरं तिष्ठति खेऽनुषंगो
३३।२४ब् दण्डाकृतिः सा नृपतेः भयाय ।
३३।२४य् या चौह्यते तन्तुधृता इव खस्था
३३।२४द् या वा महेन्द्रध्वजतुल्यरूपा ॥ ॥
३३।२५अब्/ श्रेष्ठिनः प्रतीपगा तिर्यगा नृपांगनानां (नृपांगनाः) ।
३३।२५य्द्/ हन्त्यधोमुखी नृपान् ब्राह्मणान् अथ ऊर्ध्वगा ॥ ॥
३३।२६अब्/ बर्हि (वर्हि) पुच्छरूपिणी लोकसंक्षयावहा ।
३३।२६य्द्/ सर्पवत् प्रसर्पती (प्रसर्पिणी) योषितामनिष्टदा ॥ ॥
३३।२७अब्/ हन्ति मण्डला पुरं छत्रवत् पुरोहितम् ।
३३।२७य्द्/ वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥ ॥
३३।२८अब्/ व्यालसूकरौपमा विस्फुलिंगमालिनी ।
३३।२८य्द्/ खण्डशोऽथवा गता सस्वना च पापदा ॥ ॥
३३।२९अब्/ सुरपितचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति ।
३३।२९य्द्/ पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥ ॥
३३।३०अब्/ अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य ।
३३।३०य्द्/ निपतति च यया दिशा प्रदीप्ता जयति रिपून् अचिरात् तया प्रयातः ॥ ॥
sएपरते अध्याय ३४ परिवेषलक्षणाध्यायः
३४।१अब्/ सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
३४।१य्द्/ नानावर्णाकृतयः तन्वभ्रे व्योम्नि परिवेषाः ॥ ॥
३४।२अब्/ ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरित (हरि) शुक्लाः ।
३४।२य्द्/ इन्द्रयमवरुणनिरृतिश्वसनेशपितामहांबु (अग्नि) कृताः ॥ ॥
३४।३अब्/ धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।
३४।३य्द्/ प्रविलीयते मुहुर्मुहुः अल्पफलः सोऽपि वायुकृतः ॥ ॥
३४।४अब्/ चाषशिखिरजततैलक्षीरजलाभः स्वकालसंभूतः ।
३४।४य्द्/ अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥ ॥
३४।५अब्/ सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
३४।५य्द्/ असकलशकटशरासनशृंगाटकवत् स्थितः पापः ॥ ॥
३४।६अब्/ शिखिगलसमेऽतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे ।
३४।६य्द्/ हरिचापनिभे युद्धानि अशोककुसुमप्रभे चापि ॥ ॥
३४।७अब्/ वर्णेनएकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः ।
३४।७य्द्/ स्वऋतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥ ॥
३४।८अब्/ दीप्तमृगविहंग (विहंगमृग) रुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् ।
३४।८य्द्/ भयकृत् तडिदुल्काद्यैः हतो नृपं हन्ति शस्त्रेण ॥ ॥
३४।९अब्/ प्रतिदिनमर्कहिमांश्वोः अहर्निशं रक्तयोः नरेन्द्रवधः ।
३४।९य्द्/ परिविष्टयोः अभीक्षणं लग्नास्तमय (अस्तनभः) स्थयोः तद्वत् ॥ ॥
३४।१०अब्/ सेनापतेः भयकरो द्विमण्डलो नातिशस्त्रकोपकरः ।
३४।१०य्द्/ त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ॥ ॥
३४।११अब्/ वृष्टिः त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे ।
३४।११य्द्/ होराजन्माधिपयोः जन्मर्क्षे वांशुभो (वाशुभो) राज्ञः ॥ ॥
३४।१२अब्/ परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
३४।१२य्द्/ जनयति च वातवृष्टिं स्थावरकृषिकृन् निहन्ता च ॥ ॥
३४।१३अब्/ भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् ।
३४।१३य्द्/ जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥ ॥
३४।१४अब्/ मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ।
३४।१४य्द्/ शुक्रे यायिक्षत्रियराज्ञी (राज्ञां) पीडा प्रियं चान्नम् ॥ ॥
३४।१५अब्/ क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।
३४।१५य्द्/ परिविष्टे गर्भभयं राहौ व्याधिः नृपभयं च ॥ ॥
३४।१६अब्/ युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोः ग्रहयोः ।
३४।१६य्द्/ दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम् ॥ ॥
३४।१७अब्/ याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः ।
३४।१७य्द्/ प्रलयमिव विद्धि जगतः पंचादिषु मण्डलस्थेषु ॥ ॥
३४।१८अब्/ ताराग्रहस्य कुर्यात् पृथग् एव समुत्थितो नरेन्द्रवधम् ।
३४।१८य्द्/ नक्षत्राणामथवा यदि केतोः नौदयो भवति ॥ ॥
३४।१९अब्/ विप्रक्षत्रियविट्शूद्रहा भवेत् प्रतिपदादिषु क्रमशः ।
३४।१९य्द्/ श्रेणीपुरकोशानां पंचम्यादिष्वशुभकारी ॥ ॥
३४।२०अब्/ युवराजस्याष्टम्यां परतः त्रिषु पार्थिवस्य दोषकरः ॥ ॥
३४।२०य्द्/ पुररोधो द्वादश्यां सैन्यक्षोभः त्रयोदश्याम् ॥ ॥
३४।२१अब्/ नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् ।
३४।२१य्द्/ कुर्यात् तु पंचदश्यां पीडां मनुजाधिपस्यएव ॥ ॥
३४।२२अब्/ नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था ।
३४।२२य्द्/ परिवेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम् ॥ ॥
३४।२३अब्/ रक्तः श्यामो रूक्षश्च भवति येषां पराजयः तेषाम् ।
३४।२३य्द्/ स्निग्धः श्वेतो द्युतिमान् येषां भागो जयः तेषाम् ॥ ॥
sएपरते अध्याय ३५ इन्द्रायुद्धलक्षणाध्यायः
३५।१अब्/ सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
३५।१य्द्/ वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ ॥
३५।२अब्/ केचिदनन्तकुलौरगनिःश्वासौद्भूतमाहुः आचार्याः ।
३५।२य्द्/ तद् यायिनां नृपाणामभिमुखमजयावहं भवति ॥ ॥
३५।३अब्/ अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् ।
३५।३य्द्/ द्विरुदितमनुलोमं च प्रशस्तमंभः प्रयच्छति च ॥ ॥
३५।४अब्/ विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि ।
३५।४य्द्/ पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥ ॥
३५।५अब्/ जलमध्येऽनावृष्टिः भुवि सस्यवधः तरौ शिते व्याधिः ।
३५।५य्द्/ वाल्मीके (वल्मीके) शस्त्रभयं निशि सचिववधाय धनुः एन्द्रम् ॥ ॥
३५।६अब्/ वृष्टिं करोत्यवृष्त्यां वृष्टिं वृष्ट्यां निवारयत्येन्द्र्याम् ।
३५।६य्द्/ पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥ ॥
३५।७अ चापं मघोनः कुरुते निशायाम्
३५।७ब् आखण्डलायां दिशि भूपपीडाम् ।
३५।७य् याम्यापरोदक्प्रभवं निहन्यात्
३५।७द् सेनापतिं नायकमन्त्रिणौ च ॥ ॥
३५।८अब्/ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
३५।८य्द्/ भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं नचिराद् धन्यात् ॥ ॥
sएपरते अध्याय ३६ गन्धर्वनगरलक्षणाध्यायः
३६।१अब्/ उदगादिपुरोहितनृपबलपतियुवराजदोषदं खपुरम् ।
३६।१य्द्/ सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥ ॥
३६।२अब्/ नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्णनाशाय ।
३६।२य्द्/ शान्ताशायां दृष्टं सतोरणं नृपतिविजयाय ॥ ॥
३६।३अब्/ सर्वदिगुत्थं सततोथितं च भयदं नरेन्द्रराष्ट्राणाम् ।
३६।३य्द्/ चौराटविकान् हन्याद् धूमानलशक्रचापाभम् ॥ ॥
३६।४अब्/ गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम् ।
३६।४य्द्/ दीप्ते नरेन्द्रमृत्युः वामेऽरिभयं जयः सव्ये ॥ ॥
३६।५अब्/ अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् ।
३६।५य्द्/ यदा तदा नागमनुष्यवाजिनां पिबत्यसृग् भूरि रणे वदुन्धरा ॥ ॥
sएपरते अध्याय ३७ प्रतिसूर्यलक्षणाध्यायः
३७।१अब्/ प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः ।
३७।१य्द्/ वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ॥ ॥
३७।२अब्/ पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
३७।२य्द्/ प्रतिसूर्याणां माला दस्युभयातंकनृपहन्त्री ॥ ॥
३७।३अब्/ दिवसकृतः प्रतिसूर्यो जलकृदुरग्दक्षिणे स्थितोऽनिलकृट् ।
३७।३य्द्/ उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥ ॥
sएपरते अध्याय ३८-१ रजोलक्षणं
३८।१अब्/ कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन ।
३८।१य्द्/ अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः ॥ ॥
३८।२अब्/ यस्याम् दिशि धूमचयः प्राक् प्रभवति नाशमेति वा यस्याम् ।
३८।२य्द्/ आगच्छति सप्ताहात् तत्र एव भयं न सन्देहः ॥ ॥
३८।३अब्/ श्वेते रजोघनौघे पीडा स्यान् मन्त्रिजनपदानां च ।
३८।३य्द्/ नचिरात् प्रकोपमुपयाति शस्त्रमतिसग़्कुला सिद्धिः ॥ ॥
३८।४अब्/ अर्कोदये विजृंभति यदि दिनमेकं दिनद्वयं वापि ।
३८।४य्द्/ स्थगयन्न् इव गगनतलं भयमत्युग्रं निवेदयति ॥ ॥
३८।५अब्/ अनवरतसञ्चयवहं रजनीमेकां प्रधाननृपहन्तृ ।
३८।५य्द्/ क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम् ॥ ॥
३८।६अब्/ रजनीद्वयं विसर्पति यस्मिन् राष्ट्रे रजोघनं बहुलम् ।
३८।६य्द्/ परचक्रस्य आगमनं तस्मिन् अपि सन्निबोद्धव्यम् ॥ ॥
३८।७अब्/ निपतति रजनीत्रितयं चतुष्कमपि अन्नरसविनाशाय ।
३८।७य्द्/ राज्ञां सैन्यक्षोभो रजसि भवेत् पञ्चरात्रभवे ॥ ॥
३८।८अब्/ केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि ।
३८।८य्द्/ शिशिरादन्यत्रर्तौ फलमविकलमाहु आचार्याः ॥ ॥
sएपरते अध्याय ३८-२ निर्घातलक्षणाध्यायः
३८।१अब्/ पवनः पवनाभिहतो गगनादवनौ यदा समापतति ।
३८।१य्द्/ भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥ ॥
३८।२अब्/ अर्कोदयेऽधिकरणिकनृपधनियोधांगनावणिग्वेश्याः ।
३८।२य्द्/ आप्रहरांशेऽजाविकमुपहन्यात्शूद्रपौरांश्च ॥ ॥
३८।३अब्/ आमध्याह्नाद् राजोपसेविनो ब्राह्मणांश्च पीडयति ।
३८।३य्द्/ वैश्यजलदां तृतीये चौरान् प्रहरे चतुर्थे तु ॥ ॥
३८।४अब्/ अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि ।
३८।४य्द्/ रात्रौ द्वितीययामे पिशाचसंघान् निपीडयति ॥ ॥
३८।५अब्/ तुरगकरिणः तृतीये विनिहन्याद् यायिनश्चतुर्थे च ।
३८।५य्द्/ भैरवजर्जरशब्दो याति यतः तां दिशं हन्ति ॥ ॥
sएपरते अध्याय ३९ सस्यजातकाध्यायः
३९।१अब्/ वृश्चिकवृषप्रवेशे भानोः ये बादरायणेनोक्ताः ।
३९।१य्द्/ ग्रीष्मशरत्सस्यानां सदसद्योगाः कृताः त इमे ॥ ॥
३९।२अब्/ भानोः अलिप्रवेशे केन्द्रैः तस्मात्शुभग्रहाक्रान्तैः ।
३९।२य्द्/ बलवद्भिः सौम्यैः वा निरीक्षिते (निरीक्षितैः) ग्रैष्मिकविवृद्धिः ॥ ॥
३९।३अब्/ अष्टमराशिगतेऽर्के गुरुशशिनोः कुंभसिंहसंस्थितयोः (स्थितयोः) ।
३९।३य्द्/ सिंहघटसंस्थयोः वा निष्पत्तिः ग्रीष्मसस्यस्य ॥ ॥
३९।४अब्/ अर्कात् सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः ।
३९।४य्द्/ व्ययगतयोः अपि तद्वन् निष्पत्तिः अतीव गुरुदृष्ट्या ॥ ॥
३९।५अब्/ शुभमध्येऽलिनि सूर्याद् गुरुशशिनोः सप्तमे परा सम्पत् ।
३९।५य्द्/ अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥ ॥
३९।६अब्/ लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
३९।६य्द्/ सस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ॥ ॥
३९।७अब्/ कुंभे गुरुः गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे ।
३९।७य्द्/ निष्पत्तिः अस्ति महती पश्चात् परचक्रभयरोगम् ॥ ॥
३९।८अब्/ मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः ।
३९।८य्द्/ पापः सप्तमराशौ जातं जातं विनाशयति ॥ ॥
३९।९अब्/ अर्थस्थाने क्रूरः सौम्यैः अनिरीक्षितः प्रथमजातम् ।
३९।९य्द्/ सस्यं निहन्ति पश्चादुप्तं निष्पादयेद् व्यक्तम् ॥ ॥
३९।१०अब्/ जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य ।
३९।१०य्द्/ सस्यविपत्तिं कुरुतः सौम्यैः दृष्टौ न सर्वत्र ॥ ॥
३९।११अब्/ वृश्चिकसंस्थादर्कात् सप्तमषष्ठौपगौ यदा क्रूरौ ।
३९।११य्द्/ भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥ ॥
३९।१२अब्/ विधिनानेनैव रविः वृषप्रवेशे शरत्समुत्थानाम् ।
३९।१२य्द्/ विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ञैः ॥ ॥
३९।१३अब्/ त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
३९।१३य्द्/ ग्रैष्मिक (ग्रष्मिक) धान्यं कुरुते समर्घं (समर्थं) अभयौपयोग्यं च ॥ ॥
३९।१४अब्/ कार्मुकमृगघटसंस्थः शारदसस्यस्य (शारदस्य) तद्वदेव रविः ।
३९।१४य्द्/ संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् (यागात्) ॥ ॥
sएपरते अध्याय ४० द्रव्यनिश्चयाध्यायः
४०।१अब्/ ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः ।
४०।१य्द्/ मुनिभिः शुभाशुभार्थं तान् आगमतः प्रवक्ष्यामि ॥ ॥
४०।२अब्/ वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
४०।२य्द्/ स्थलसंभवौषधीनां कनकस्य च कीर्तितो मेषः ॥ ॥
४०।३अब्/ गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।
४०।३य्द्/ मिथुनेऽपि धान्यशारदवल्लीशालूककर्पासाः ॥ ॥
४०।४अब्/ कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।
४०।४य्द्/ सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ॥ ॥
४०।५अब्/ षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः ।
४०।५य्द्/ सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव (गोधूमाः सर्षपाः सयवाः) ॥ ॥
४०।६अब्/ अष्टमराशाविक्षुः सैक्यं लोहानि अजाविकं चापि ।
४०।६य्द्/ नवमे तु तुरगलवणांबरास्त्रतिलधान्यमूलानि ॥ ॥
४०।७अब्/ मकरे तरुगुल्माद्यं सैक्यैक्षुसुवर्णकृष्णलोहानि ।
४०।७य्द्/ कुंभे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥ ॥
४०।८अब्/ मीने कपालसंभवरत्नानि अंबूद्भवानि वज्राणि ।
४०।८य्द्/ स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥ ॥
४०।९अब्/ राशेश्चतुर्दशार्थायसप्तनवपंचमस्थितो जीवः ।
४०।९य्द्/ द्व्येकादशदशपंचाष्टमेषु शशिजश्च वृद्धिकरः ॥ ॥
४०।१०अब्/ षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
४०।१०य्द्/ उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥ ॥
४०।११अब्/ राशेः यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
४०।११य्द्/ तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥ ॥
४०।१२अब्/ इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् ।
४०।१२य्द्/ तद्द्रव्याणां वृद्धिः सामर्घ्यं वल्लभत्वं च (सामर्थयमदुर्लभत्वं च) ॥ ॥
४०।१३अब्/ गोचरपीडायामपि राशिः बलिभिः शुभग्रहैः दृष्टः ।
४०।१३य्द्/ पीडां न करोति तथा क्रूरैः एवं विपर्यासः ॥ ॥
sएपरते अध्याय ४१ अर्घकाण्डाध्यायः
४१।१अब्/ अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च ।
४१।१य्द्/ दृष्ट्वा अमावास्यायामुत्पातान् पौणमास्यां (पूर्णमास्यां) च ॥ ॥
४१।२अब्/ ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये ।
४१।२य्द्/ अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ॥ ॥
४१।३अब्/ मेषौपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं कृत्वा (कुर्यात्) ।
४१।३य्द्/ वनमूलफलस्य वृषे चतुर्थमासे तयोः लाभः ॥ ॥
४१।४अब्/ मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय ।
४१।४य्द्/ षष्ठे मासे विपुलं विक्रेता (विक्रीणन्) प्राप्नुयाल्लाभम् ॥ ॥
४१।५अब्/ कर्किणि अर्के मधुगन्धतैलघृतफाणितानि विनिधाय ।
४१।५य्द्/ द्विगुणा द्वितीयमासे लब्धिः हीनाधिके छेदः ॥ ॥
४१।६अब्/ सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम् ।
४१।६य्द्/ पंचममासे लब्धिः विक्रेतुः अतोऽन्यथा छेदः ॥ ॥
४१।७अब्/ कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता ।
४१।७य्द्/ षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥ ॥
४१।८अब्/ तौलिनि तान्तवभाण्डं मणिकंबलकाचपीतकुसुमानि ।
४१।८य्द्/ आदद्याद् धान्यानि च वर्षार्धाद् (षण्मासाद्) द्विगुणिता वृद्धिः ॥ ॥
४१।९अब्/ वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि ।
४१।९य्द्/ वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥ ॥
४१।१०अब्/ चापगते गृह्णीयात् कुंकुम (कुंकम) शंखप्रवालकाचानि ।
४१।१०य्द्/ मुक्ताफलानि चा ततो वर्षार्धाद् द्विगुणतां यान्ति ॥ ॥
४१।११अब्/ मृगघटसंस्थे सवितरि गृह्णीयाल् (मृगधटगे गृह्णीयाद् दिवाकरे) लोहभाण्डधान्यानि ।
४१।११य्द्/ स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥ ॥
४१।१२अब्/ सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि ।
४१।१२य्द्/ संस्थाप्य वत्सरार्धं लाभकमिष्टं समाप्नोति ॥ ॥
४१।१३अब्/ राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा ।
४१।१३य्द्/ युक्तोऽधिमित्रदृष्टः तत्रायं लाभको दिष्टः ॥ ॥
४१।१४अ सवितृसहितः सम्पूर्णो वा शुभैः युतवीक्षितः
४१।१४ब् शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः ।
४१।१४य् अशुभसहितः सन्दृष्टो वा हिनस्त्यथवा रविः
४१।१४द् प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम् ॥ ॥
sएपरते अध्याय ४२ इन्द्रध्वजसम्पद्ः
४२।१अब्/ ब्रह्माणमूचुः अमरा भगवन् शक्ताः स्म नासुरान् समरे ।
४२।१य्द्/ प्रतियोधयितुमतः त्वां शरण्यशरणं समुपयाताः ॥ ॥
४२।२अब्/ देवान् उवाच भगवान् क्षीरोदे केशवः स वः केतुम् ।
४२।२य्द्/ यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः ॥ ॥
४२।३अब्/ लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः ।
४२।३य्द्/ श्रीवत्सांकं कौस्तुभमणिकिरनौद्भासितौरस्कम् ॥ ॥
४२।४अब्/ श्रीपतिमचिन्त्यमसमं समं ततः (समन्ततः) सर्वदेहिनां सूक्ष्मम् ।
४२।४य्द्/ परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् ॥ ॥
४२।५अब्/ तैः संस्तुतः स देवः तुतोष नारायणो ददौ चैषाम् ।
४२।५य्द्/ ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ॥ ॥
४२।६अब्/ तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे ।
४२।६य्द्/ देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः ॥ ॥
४२।७अब्/ स किंकिणीजालपरिष्कृतेन (परिस्कृतेन) स्रक्छत्रघण्टापिटकान्वितेन ।
४२।७य्द्/ समुच्छ्रितेनामरराड्ध्वजेन निन्ये विनाशं समरेऽरिसैन्यम् ॥ ॥
४२।८अब्/ उपरिचरस्यामरपो वसोः ददौ चेदिपस्य वेणुमयीम् ।
४२।८य्द्/ यष्टिं तां स नरेन्द्रो विधिवत् सम्पूजयामास ॥ ॥
४२।९अब्/ प्रीतो महेन मघवा (मघवान्) प्राहएवं ये नृपाः करिष्यन्ति ।
४२।९य्द्/ वसुवद्वसुमन्तः ते भुवि सिद्धाज्ञा भविष्यन्ति ॥ ॥
४२।१०अब्/ मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः ।
४२।१०य्द्/ ध्वजएव चाभिधास्यति जगति निमित्तैः फलं सदसत् ॥ ॥
४२।११अब्/ पूजा तस्य नरेन्द्रैः बलवृद्धिजयार्थिभिः यथा पूर्वम् ।
४२।११य्द्/ शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि ॥ ॥
४२।१२अब्/ तस्य विधानं शुभकरणदिवसनक्षत्रमंगलमुहूर्तैः ।
४२।१२य्द्/ प्रास्थानिकैः वनमियाद् दैवज्ञः सूत्रधारश्च ॥ ॥
४२।१३अब्/ उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः ।
४२।१३य्द्/ कुब्ज ऊर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ॥ ॥
४२।१४अब्/ बहुविहगालयकोटरपवनानलपीडिताश्च ये तरवः ।
४२।१४य्द्/ ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे ॥ ॥
४२।१५अब्/ श्रेष्ठोऽर्जुनोऽजकर्णः (अश्वकमः) प्रियकधवौदुंबराश्च पंचैते ।
४२।१५य्द्/ एतेषामेकतमं (अन्यतमं) प्रशस्तमथवापरं वृक्षम् ॥ ॥
४२।१६अब्/ गौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्वम् ।
४२।१६य्द्/ विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ॥ ॥
४२।१७अब्/ यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ।
४२।१७य्द्/ उपहारं गृहीत्वा इमं क्रियतां वासपर्ययः ॥ ॥
४२।१८अब्/ पार्थिवः त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम ।
४२।१८य्द्/ ध्वजार्थं देवराजस्य पूजा इयं प्रतिगृह्यताम् ॥ ॥
४२।१९अब्/ छिन्द्यात् प्रभातसमये वृक्षमुदक् प्रान् मुखोऽपि वा भूत्वा ।
४२।१९य्द्/ परशोः जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥ ॥
४२।२०अब्/ नृपजयदमविध्वस्तं पतनमनाकुंचितं च पूर्वोदक् ।
४२।२०य्द्/ अविलग्नं चान्यतरौ विपरीतमतः त्यजेत् पतितम् ॥ ॥
४२।२१अब्/ छित्त्वाग्रे चतुरंगुलमष्टौ मूले जले क्षिपेद् यष्टिम् ।
४२।२१य्द्/ उद्धृत्य पुरद्वारं शकटेन नयेन् मनुष्यैः वा ॥ ॥
४२।२२अब्/ अरभंगे बलभेदो नेम्या नाशो बलस्य विज्ञेयः ।
४२।२२य्द्/ अर्थक्षयोऽक्षयभंगे तथाणिभंगे च वर्द्धकिनः ॥ ॥
४२।२३अब्/ भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैः वृतो राजा ।
४२।२३य्द्/ दैवज्ञसचिवकंचुकिविप्रप्रमुखैः सुवेषधरैः ॥ ॥
४२।२४अब्/ अहतांबरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः ।
४२।२४य्द्/ स्रग्गन्धधूपयुक्तां प्रवेशयेत्शंखतूर्यरवैः ॥ ॥
४२।२५अब्/ रुचिरपताकातोरणवनमालालंकृतं प्रहृष्टजनम् ।
४२।२५य्द्/ सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥ ॥
४२।२६अब्/ अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् ।
४२।२६य्द्/ नटनर्तकगेयज्ञैः आकीर्णचतुष्पथं नगरम् ॥ ॥
४२।२७अब्/ तत्र पताकाः श्वेता भवन्ति विजयाय (विजयाय भवन्ति) रोगदाः पीताः ।
४२।२७य्द्/ जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ॥ ॥
४२।२८अब्/ यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः ।
४२।२८य्द्/ बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा ॥ ॥
४२।२९अब्/ सन्तक्ष्य पुनः तक्षा विधिवद् यष्टिं प्ररोपयेद् यन्त्रे ।
४२।२९य्द्/ जागरमेकादश्यां नरेश्वरः कारयेगास्याम् ॥ ॥
४२।३०अब्/ सितवस्त्रौष्णीषधरः पुरोहितः शाक्रवैष्णवैः मन्त्रैः ।
४२।३०य्द्/ जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ॥ ॥
४२।३१अब्/ इष्टद्रव्याकारः सुरभिः स्निग्धो घनोऽनलोऽर्चिष्मान् ।
४२।३१य्द्/ शुभकृदतोऽन्योऽनिष्टो (नेष्टो) यात्रायां विस्तरोऽभिहितः ॥ ॥
४२।३२अ स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
४२।३२ब् स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य ।
४२।३२य् गंगादिवाकरसुताजलचारुहारां
४२।३२द् धात्रीं समुद्ररशनां (समुद्ररसनां) वशगां करोति ॥ ॥
४२।३३अ चामीकराशोककुरण्टकाब्ज
४२।३३ब् वैदूर्यनीलोत्पलसन्निभेऽग्नौ ।
४२।३३य् न ध्वान्तमन्तर्भवनेऽवकाशं
४२।३३द् करोति रत्नांशुहतं नृपस्य ॥ ॥
४२।३४अ येषां रथौघार्णवमेघदन्तिनां
४२।३४ब् समस्वनोऽग्निः यदि वापि दुन्दुभेः ।
४२।३४य् तेषां मदान्धैभघटावघट्टिता
४२।३४द् भवन्ति याने तिमिरोपमा दिशः ॥ ॥
४२।३५अब्/ ध्वजकुंभहयैभभूभृतामनुरूपे वशमेति भूभृताम् ।
४२।३५य्द्/ उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥ ॥
४२।३६अब्/ द्विरदमदमहीसरोजलाजा (जलाजैः) घृतमधुना च हुताशने सगन्धे ।
४२।३६य्द्/ प्रणतनृपशिरोमणिप्रभाभिः भवति पुरस्छुरितेव भूः नृपस्य ॥ ॥
४२।३७अब्/ उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः ।
४२।३७य्द्/ तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ॥ ॥
४२।३८अब्/ गुडपूपपायसाद्यैः विप्रान् अभ्यर्च्य दक्षिणाभिश्च ।
४२।३८य्द्/ श्रवणेन द्वादश्यामुत्थाप्योऽन्यत्र वा श्रवणात् ॥ ॥
४२।३९अब्/ शक्रकुमार्यः कार्याः प्राह मनुः सप्त पंच वा तज्ञैः ।
४२।३९य्द्/ नन्दौपनन्दसंज्ञे पादोनार्धे ध्वजोच्छ्रायात् (पादेनार्धेन चोच्छ्रायात्) ॥ ॥
४२।४०अब्/ षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये ।
४२।४०य्द्/ अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम् ॥ ॥
४२।४१अब्/ प्रीतैः कृतानि विबुधैः यानि पुरा भूषणानि सुरकेतोः ।
४२।४१य्द्/ तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि ॥ ॥
४२।४२अब्/ रक्ताशोकनिकाशं चतुरस्रं (चतुरश्रं) विश्वकर्मणा प्रथमम् ।
४२।४२य्द्/ रशना (रसना) स्वयंभुवा शंकरेण चानेकवर्णगा दत्ता (चानेकवर्णधरी) ॥ ॥
४२।४३अब्/ अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् ।
४२।४३य्द्/ असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् ॥ ॥
४२।४४अब्/ मञ्जिष्ठाभं वरुणः षडश्रि तत्पंचमं जलोर्मिनिभम् ।
४२।४४य्द्/ मयूरं केयूरं षष्ठं वायुः जलदनीलम् ॥ ॥
४२।४५अब्/ स्कन्धः स्वं केयूरं सप्तममददद् ध्वजाय बहुचित्रम् ।
४२।४५य्द्/ अष्टममनलज्वालासंकाशं हव्यभुग्वृत्तं (दत्तं) ॥ ॥
४२।४६अब्/ वैदूर्यसदृशमिन्द्रो (इन्दुः) नवमं ग्रैवेयकं ददावन्यत् ।
४२।४६य्द्/ रथचक्राभं दशमं सूर्यः त्वष्टा प्रभायुक्तम् ॥ ॥
४२।४७अब्/ एकादशमुद्वंशं विश्वेदेवाः सरोजसंकाशम् ।
४२।४७य्द्/ द्वादशमपि च निवेशम् ऋषयो (निवंशं मुनयो) नीलोत्पलाभासम् ॥ ॥
४२।४८अब्/ किंचिदधऊर्ध्वनिर्मितं (निर्नतं) उपरि विशालं त्रयोदशं केतोः ।
४२।४८य्द्/ शिरसि बृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः ॥ ॥
४२।४९अब्/ यदि यद् येन विभूषणं (विनिर्मितं) अमरेण विनिर्मितंविभूषणं) ध्वजस्यार्थे ।
४२।४९य्द्/ तत्तत् तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः ॥ ॥
४२।५०अब्/ ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य ।
४२।५०य्द्/ परतः प्रथमात् प्रथमादष्टांशाष्टांशहीनानि ॥ ॥
४२।५१अब्/ कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः ।
४२।५१य्द्/ मनुना चागमगीतान् मन्त्रान् एतान् पठेन् नियतः ॥ ॥
४२।५२अब्/ हरार्कवैवस्वतशक्रसोमैः धनेशवैश्वानरपाशभृद्भिः ।
४२।५२य्द्/ महर्षिसंघैः सदिगप्सरोभिः शुक्रांगिरःस्कन्दमरुद्गणैश्च ॥ ॥
४२।५३अब्/ यथा त्वमूर्जस्करणैकरूपैः समर्चितः त्वाभरणैरुदारैः ।
४२।५३य्द्/ तथेह तानि आभरणानि यागे (देव) शुभानि सम्प्रीतमना गृहाण ॥ ॥
४२।५४अब्/ अजोऽव्ययः शाश्वत एकरूपो विष्णुः वराहः पुरुषः पुराणः ।
४२।५४य्द्/ त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षः (शीर्शा) शतमन्युः ईड्यः ॥ ॥
४२।५५अब्/ कविं सप्तजिह्वं त्रातारमिन्द्रं स्ववितारं (अवितारं) सुरेशम् ।
४२।५५य्द्/ ह्वयामि शक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरा (उत्तरे) भवन्तु ॥ ॥
४२।५६अब्/ प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे ।
४२।५६य्द्/ पठेदिमान् नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः ॥ ॥
४२।५७अब्/ क्षत्रध्वजादर्शफलार्धचन्द्रैः विचित्रमालाकदलीक्षुदण्डैः ।
४२।५७य्द्/ सव्यालसिंहैः पिटकैः गवाक्षैः अलंकृतं दिक्षु च लोकपालैः ॥ ॥
४२।५८अ अच्छिन्नरज्जुं दृढकाष्ठमातृकं
४२।५८ब् सुश्लिष्टयन्त्रार्गलपादतोरणम् ।
४२।५८य् उत्थापयेल्लक्ष्म सहस्रचक्षुषः
४२।५८द् सारद्रुमाभग्नकुमारिकान्वितम् ॥ ॥
४२।५९अ अविरतजनरावं मंगलाशीःप्रणामैः ।
४२।५९ब् पटुपटहमृदंगैः शंखभेर्यादिभिश्च ।
४२।५९य् श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैः
४२।५९द् अशुभविहत (रहित) शब्दं केतुमुत्थापयेच् (उत्थापयीत) च ॥ ॥
४२।६०अ फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः
४२।६०ब् प्रणिपतितशिरोभिः तुष्ट (तुष्टु) वद्भिश्च पौरैः ।
४२।६०य् वृत (धृत) मनिमिषभर्तुः केतुमीशः प्रजानाम्
४२।६०द् मरिनगरनताग्रं कारयेद् द्विड्बधाय (वधाय) ॥ ॥
४२।६१अ नातिद्रुतं न च विलंबितमप्रकंपम्
४२।६१ब् अध्वस्तमाल्यपिटकादिविभूषणम् च ।
४२।६१य् उत्थानमिष्टमशुभं यदतोऽन्यथा स्यात्
४२।६१द् तच्छान्तिभिः नरपतेः शमयेत् पुरोधाः ॥ ॥
४२।६२अ क्रव्यादकौशिककपोतककाककंकैः
४२।६२ब् केतुस्थितैः महदुशन्ति भयं नृपस्य ।
४२।६२य् चाषेण चापि युवराजभयं वदन्ति
४२।६२द् श्येनो विलोचनभयं निपतन् करोति ॥ ॥
४२।६३अ छत्रभंगपतने नृपमृत्युः
४२।६३ब् तस्करान् मधु करोति निलीनम् ।
४२।६३य् हन्ति चाप्यथ पुरोहितमुल्का
४२।६३द् पार्थिवस्य महिषीमशनिश्च ॥ ॥
४२।६४अ राज्ञीविनाशं पतिता पताका
४२।६४ब् करोत्यवृष्टिं पिटकस्य पातः ।
४२।६४य् मध्याग्रमूलेषु च केतुभंगो
४२।६४द् निहन्ति मन्त्रिक्षितिपालपौरान् ॥ ॥
४२।६५अ धूमावृते शिखिभयं तमसा च मोहो
४२।६५ब् व्यालैश्च भग्नपतितैः न भवत्यमात्याः ।
४२।६५य् ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्यान् (द्विजाद्या)
४२।६५द् भंगे तु बन्धकिबधः (वधः) कथितः कुमार्याः ॥ ॥
४२।६६अ रज्जूत्संगच्छेदने बालपीडा
४२।६६ब् राज्ञो मातुः पीडनं मातृकायाः ।
४२।६६य् यद्यत् कुर्युश्चारणा बालका (बालकाश्चारणा) वा
४२।६६द् तत्तत् तादृग् भावि पापं शुभं वा ॥ ॥
४२।६७अ दिनचतुष्टयमुत्थितमर्चितं
४२।६७ब् समभिपूज्य नृपोऽहनि पंचमे ।
४२।६७य् प्रकृतिभिः सह लक्ष्म विसर्जयेद्
४२।६७द् बलभिदः स्वबलाभिविवृद्धये ॥ ॥
४२।६८अब्/ उपरिचरवसुप्रवर्तितं नृपतिभिः अपि अनुसन्ततं कृतम् ।
४२।६८य्द्/ विधिमिममनुमन्य पार्थिवो न रिपुकृतं भयमाप्नुयादिति ॥ ॥
sएपरते अध्याय ४३ नीराजनाध्यायः
४३।१अब्/ भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे ।
४३।१य्द्/ उन्मीलयति तुरंग (तुरंगन) करिनरनीराजनं कुर्यात् ॥ ॥
४३।२अब्/ द्वादश्यामष्टम्यां कार्तिक (कार्त्तिक) शुक्लस्य पंचदश्यां वा ।
४३।२य्द्/ आश्वयुजे वा कुर्यान् नीराजनसंज्ञितां शान्तिम् ॥ ॥
४३।३अब्/ नगरोत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम् ।
४३।३य्द्/ षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्यम् ॥ ॥
४३।४अब्/ सर्जौदुंबरककुभशाखामय (शाखाककुभमयं) शान्तिसद्म कुशबहुलम् ।
४३।४य्द्/ वंशविनिर्मितमत्स्यध्वजचक्रालंकृतद्वारम् ॥ ॥
४३।५अब्/ प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान् ।
४३।५य्द्/ कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगाणाम् ॥ ॥
४३।६अब्/ रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैः मन्त्रैः ।
४३।६य्द्/ सप्ताहं शान्तिगृहे कुर्यात्शान्तिं तुरंगाणाम् ॥ ॥
४३।७अब्/ अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयाः ते ।
४३।७य्द्/ पुण्याहशंखतूर्यध्वनिगीतरवैः विमुक्तभयाः ॥ ॥
४३।८अब्/ प्राप्ते अष्टमेऽह्नि कुर्यादुदन्मुखं तोरणस्य दक्षिणतः ।
४३।८य्द्/ कुशचीरावृतमाश्रममग्निं पुरतोऽस्य वेद्यां च ॥ ॥
४३।९अब्/ चन्दनकुष्ठसमंगाहरितालमनःशिलाप्रियंगुवचाः ।
४३।९य्द्/ दन्त्यमृताञ्जनरजनीसुवर्णपुष्प्यग्निपुष्पाग्नि) मन्थाश्च ॥ ॥
४३।१०अब्/ श्वेतां सपूर्णकोशां कटंभरात्रायमाणसहदेवीः ।
४३।१०य्द्/ नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च ॥ ॥
४३।११अब्/ कलशेष्वेताः (एतान्) कृत्वा संभारान् उपहरेद् वलिं (बलिं) सम्यक् ॥ ॥
४३।११य्द्/ भक्ष्यैः नानाकारैः मधुपायसयावकप्रचुरैः ॥ ॥
४३।१२अब्/ खदिरपलाशौदुंबरकाश्मर्यश्वत्थनिर्मिताः समिधः ।
४३।१२य्द्/ स्रुक् कनकाद् रजताद् वा कर्तव्या भूतिकामेन ॥ ॥
४३।१३अब्/ पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा ।
४३।१३य्द्/ तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ॥ ॥
४३।१४अब्/ यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च ।
४३।१४य्द्/ वेदीपुरोहितानललक्षणमस्मिं तदवधार्यम् ॥ ॥
४३।१५अब्/ लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम् ।
४३।१५य्द्/ अहतसितांबरगन्धस्रग्धूम (धूपा)अभ्यर्चितं कृत्वा ।
४३।१६अब्/ आश्रमतोरणमूलं समुपनयेत् सान्त्वयन् शनैः वाचा ।
४३।१६य्द्/ वादित्रशंखपुण्याहनिःस्वनापूरितदिगन्तम् ॥ ॥
४३।१७अब्/ यद्यानीतः तिष्ठेद् दक्षिणचरणं हयः समुत्क्षिप्य ।
४३।१७य्द्/ स जयति तदा नरेन्द्रः शत्रून् नचिराद् (अचिराद्) विना यत्नात् ॥ ॥
४३।१८अब्/ त्रस्यन् नैष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम् ।
४३।१८य्द्/ यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति ॥ ॥
४३।१९अब्/ पिण्डमभिमन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत् ।
४३।१९य्द्/ अश्नीयाद् वा जयकृद् विपरीतोऽतोऽन्यथाभिहितः ॥ ॥
४३।२०अब्/ कलशौदकेषु शाखामाप्लाव्यौदुंबरीं स्पृशेत् तुरगान् ।
४३।२०य्द्/ शान्तिकपौष्टिकमन्त्रैः एवं सेनां सनृपनागाम् ॥ ॥
४३।२१अब्/ शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयोऽभिचारकैः मन्त्रैः ।
४३।२१य्द्/ मृत्मयमरिं विभिन्द्यात्शूलेनोरःस्थले विप्रः ॥ ॥
४३।२२अब्/ खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितः ततो राजा ।
४३।२२य्द्/ आरुह्यौदक्पूर्वां यायान् नीराजितः सबलः ॥ ॥
४३।२३अब्/ मृदंगशंखध्वनिहृष्टकुञ्जरस्रवन्मदामोदसुगन्धमारुतः ।
४३।२३य्द्/ शिरोमणिप्रान्त (व्रात) चलत् प्रभाचयैः ज्वलन् विविस्वान् इव तोयदात्यये ॥ ॥
४३।२४अब्/ हंसपंक्तिभिः इतः ततोऽद्रिराट् सम्पतद्भिः इव शुक्लचामरैः ॥ ॥
४३।२४य्द्/ मृष्टगन्धपवनानुवाहिभिः धूयमानरुचिरस्रगंबरः ।
४३।२५अब्/ नैकवर्णमणिवज्रभूषितैः भूषितो मुकुटकुण्डलांगदैः ।
४३।२५य्द्/ भूरिरत्नकिरणानुरञ्जितः शक्रकार्मुकरुचिं (रुचं) समुद्वहन् ॥ ॥
४३।२६अब्/ उत्पतद्भिः इव खं तुरंगमैः दारयद्भिः इव दन्तिभिः धराम् ।
४३।२६य्द्/ निर्जितारिभिः इवामरैः नरैः शक्रवत् परिवृतो व्रजेन् नृपः ॥ ॥
४३।२७अब्/ सवज्रमुक्ताफलभूषणोऽथवा सितस्रगुष्णीषविलेपनांबरः ।
४३।२७य्द्/ धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः ॥ ॥
४३।२८अब्/ सम्प्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् ।
४३।२८य्द्/ निर्विकारमरिपक्षभीषणं यस्य सैन्यमचिरात् स गां जयेत् ॥ ॥
sएपरते अध्याय ४४ खञ्जनकलक्षणाध्यायः
४४।१अब्/ खञ्जनको नामायं यो विहगः तस्य दर्शने प्रथमे ।
४४।१य्द्/ प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥ ॥
४४।२अब्/ स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः ।
४४।२य्द्/ आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥ ॥
४४।३अब्/ कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद् रिक्तः ।
४४।३य्द्/ पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥ ॥
४४।४अब्/ अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु ।
४४।४य्द्/ करितुरगभुजगमूर्ध्नि प्रासादौद्यानहर्म्येषु ॥ ॥
४४।५अब्/ गोगोष्ठसत्समागमयज्ञौत्सवपार्थिवद्विजसमीपे ।
४४।५य्द्/ हस्तितुरंगमशालाघत्रध्वजचामराद्येषु ॥ ॥
४४।६अब्/ हेमसमीपसितांबरकमलोत्पलपूजितौपलिप्तेषु ।
४४।६य्द्/ दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥ ॥
४४।७अब्/ पंके स्वाद्वन्नाप्तिः गोरससम्पग गोमयोपगते ।
४४।७य्द्/ शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥ ॥
४४।८अब्/ गृहपटलेऽर्थभ्रंशो बध्रे (वध्रे) बन्धोऽशुचौ भवति रोगः ।
४४।८य्द्/ पृष्ठे त्वजाविकानां प्रियसंगममावहत्याशु ॥ ॥
४४।९अब्/ महिषौष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्ट (अद्रि) स्थः ।
४४।९य्द्/ प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥ ॥
४४।१०अब्/ पक्षौ धुन्वन् न शुभः शुभः पिबन् वारि निम्नगासंस्थः ।
४४।१०य्द्/ सूर्योदये प्रशस्तो (ऽथ शस्तो) नैष्टफलः खञ्जनोऽस्तमये ॥ ॥
४४।११अब्/ नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् ।
४४।११य्द्/ पश्येत् तया गतस्य क्षिप्रमरातिः वशमुपैति ॥ ॥
४४।१२अ तस्मिन् निधिः भवति मैथुनमेति यस्मिन्
४४।१२ब् यस्मिं तु छर्दयति तत्र तलेऽस्ति काचम् ।
४४।१२य् अंगारमपि उपदिशन्ति पुरीषणेऽस्य
४४।१२द् तत्कौतुकापनयनाय खनेद् धरित्रीम् ॥ ॥
४४।१३अब्/ मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।
४४।१३य्द्/ धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ॥ ॥
४४।१४अब्/ नृपतिः अपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् ।
४४।१४य्द्/ सुरभिकुसुमधूपयुक्तमर्घं शुभमभिनन्दिं (अभिनन्दितं) एवमेति वृद्धिम् ॥ ॥
४४।१५अब्/ अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः ।
४४।१५य्द्/ न नृपतिः अशुभं समाप्नुयात् (समाप्नुयान्) न यदि दिनानि च सप्त मांसभुक् ॥ ॥
४४।१६अब्/ आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषात् (दिनशेषे) ।
४४।१६य्द्/ दिक्स्थानमूर्तिलग्नऋक्षशान्तदीप्तादिभिश्चौह्यम् ॥ ॥
sएपरते अध्याय ४५ उत्पाताध्यायः
४५।१अब्/ यान् अत्रेः (अत्रि) उत्पातान् गर्गः प्रोवाच तान् अहं वक्ष्ये ।
४५।१य्द्/ तेषां संक्षेपोऽयं प्रकृतेः अन्यत्वमुत्पातः ॥ ॥
४५।२अब्/ अपचारेण नराणामुपसर्गः पापसंचयाद् भवति ।
४५।२य्द्/ संसूचयन्ति दिव्यान्तरिक्षभौमाः त उत्पाताः (तदुत्पाताः) ॥ ॥
४५।३अब्/ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् ।
४५।३य्द्/ तत्प्रतिघाताय नृपः शांस्तिं राष्ट्रे प्रयुञ्जीत ॥ ॥
४५।४अब्/ दिव्यं ग्रहऋक्षवैकृतमुल्कानिर्घातपवनपरिवेषाः ।
४५।४य्द्/ गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥ ॥
४५।५अब्/ भौमं चरस्थिरभवं तत्शान्तिभिः आहतं शममुपैति ।
४५।५य्द्/ नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ॥ ॥
४५।६अब्/ दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः ।
४५।६य्द्/ रुद्रायतने भूमौ गोदोहात् कोटिहोमाग ॥ ॥
४५।७अब्/ आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च (लोकेषु) ।
४५।७य्द्/ पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥ ॥
४५।८अब्/ अनिमित्तभंगचलनस्वेदाश्रुनिपातजल्पनाद्यानि ।
४५।८य्द्/ लिंगार्चायतनानां नाशाय नरेशदेशानाम् ॥ ॥
४५।९अब्/ दैवतयात्राशकटाक्षचक्रयुगकेतुभंगपतनानि ।
४५।९य्द्/ सम्पर्यासनसादनसंगः (संगाः) च न देशनृपशुभदाः ॥ ॥
४५।१०अब्/ ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।
४५।१०य्द्/ यद् रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥ ॥
४५।११अब्/ गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् ।
४५।११य्द्/ स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ॥ ॥
४५।१२अब्/ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे ।
४५।१२य्द्/ धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥ ॥
४५।१३अब्/ देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् ।
४५।१३य्द्/ तन् नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥ ॥
४५।१४अब्/ रक्षः पिशाचगृह्यकनागानामेवं (एतद्) एव निर्दिष्टं (निर्देश्यं) ।
४५।१४य्द्/ मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥ ॥
४५।१५अब्/ बुद्ध्वा देवविकारं शुचिः पुरोधाः त्र्यहौषितः स्नातः ।
४५।१५य्द्/ स्नानकुसुमानुलेपनवस्त्रैः अभ्यर्चयेत् प्रतिमाम् ॥ ॥
४५।१६अब्/ मधुपर्केण पुरोधा भक्ष्यैः (बक्षैः) बलिभिश्च विधिवदुपतिष्ठेत् ।
४५।१६य्द्/ स्थालीपाकं जुहुयाद् विधिवन् मन्त्रैश्च तल्लिंगैः ॥ ॥
४५।१७अ इति विबुधविकारे शान्तयः सप्तरात्रं
४५।१७ब् द्विजविबुधगणार्चा गीतनृत्यौत्सवाश्च ।
४५।१७य् विधिवदवनिपालैः यैः प्रयुक्ता न तेषां
४५।१७द् भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥ ॥
४५।१८अब्/ राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् ।
४५।१८य्द्/ मनुजेश्वरस्य पीडा तस्य च राष्ट्रस्य विज्ञेया ॥ ॥
४५।१९अब्/ जलमांसार्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः ।
४५।१९य्द्/ सैन्यग्रामपुरेषु च नाशो वह्नेः भयं कुरुते ॥ ॥
४५।२०अब्/ प्रासादभवनतोरणकेत्वादिष्वननलेन दिग्धेषु ।
४५।२०य्द्/ तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥ ॥
४५।२१अब्/ धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम् ।
४५।२१य्द्/ व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम् ॥ ॥
४५।२२अब्/ नगरचतुष्पादण्ड (दाण्ड) जमनुजानां भयकरं ज्वलनमाहुः ।
४५।२२य्द्/ धूमाग्निविस्फुलिंगैः शय्यांबरकेशगैः मृत्युः ॥ ॥
४५।२३अब्/ आयुधज्वलनसर्पणस्वनाः क्षनिर्गमनवेपनानि वा ।
४५।२३य्द्/ वैकृतानि यदि वायुधेऽपराणि आशु रौद्ररणसंकुलं वदेत् ॥ ॥
४५।२४अ मन्त्रैः आग्नेयैः (वाह्नैः) क्षीरवृक्षात् समिद्भिः
४५।२४ब् होतव्योऽग्निः सर्षपैः सर्पिषा च ।
४५।२४य् अग्न्यादीनां वैकृते शान्तिः एवं
४५।२४द् देयं चास्मिन् कांचनं ब्राह्मणेभ्यः ॥ ॥
४५।२५अब्/ शाखाभंगेऽकस्माद् वृक्षाणां निर्दिशेद् रणोद्योगम् ।
४५।२५य्द्/ हसन देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥ ॥
४५।२६अब्/ राष्ट्रविभेदः त्वनृतौ बालवधोऽतीव कुसुमिते बाले ।
४५।२६य्द्/ वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ॥ ॥
४५।२७अब्/ मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः ।
४५।२७य्द्/ स्नेहे दुर्भिक्षभयं महद्भयं निःस्रुते (निःसृते) सलिले ॥ ॥
४५।२८अब्/ शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् ।
४५।२८य्द्/ पतितानामुत्थाने स्वयं भयं दैवजनितं च ॥ ॥
४५।२९अब्/ पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम् ।
४५।२९य्द्/ धूमः तस्मिन् ज्वालाऽथवा भवेन् नृपवधायैव ॥ ॥
४५।३०अब्/ सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः ।
४५।३०य्द्/ वृक्षाणां वैकृत्ये दशभिः मासैः फलविपाकः ॥ ॥
४५।३१अब्/ स्रग्गन्धधूपांबरपूजितस्य छत्रं विधायोपरि पादपस्य ।
४५।३१य्द्/ कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षड् एव होमाः (षडंगहोमः) ॥ ॥
४५।३२अब्/ पायसेन मधुनापि (मधुना च) भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः ।
४५।३२य्द्/ मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते हितार्थिभिः ॥ ॥
४५।३३अब्/ नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसंभवो मरणम् ।
४५।३३य्द्/ कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥ ॥
४५।३४अब्/ अतिवृद्धिः सस्यानां नानाफलकुसुमसंभवो (भवो) वृक्षे ।
४५।३४य्द्/ भवति हि यद्येकस्मिन् परचक्रस्यागम्मो नियमात् ॥ ॥
४५।३५अब्/ अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् ।
४५।३५य्द्/ अन्नस्य च वैरस्यं तदा तु विन्द्याद् भयं सुमहत् ॥ ॥
४५।३६अब्/ विकृतकुसुमं फलम् वा ग्रामादथवा पुराद् वहिः कार्यम् ।
४५।३६य्द्/ सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥ ॥
४५।३७अ सस्ये च दृष्ट्वा विकृतिं प्रदेयं
४५।३७ब् तत्क्षेत्रमेव प्रथमं द्विजेभ्यः ।
४५।३७य् तस्यैव मध्ये चरुमत्र भौमं
४५।३७द् कृवा न दोषं समुपैति तज्जं (तज्जान्) ॥ ॥
४५।३८अब्/ दुर्भिक्षमनावृष्टावतिवृष्टौ (अनावृष्ट्यामतिवृष्ट्यां)
क्षुद्भयं परभयं च (सपरचक्रं) ।
४५।३८य्द्/ रोगो ह्यनृतुभवायां नृपतिवधो (नृपवधो) ऽनभ्रजातायाम् ॥ ॥
४५।३९अब्/ शीतोष्णविपर्यासो (विपर्यासे) नो सम्यगृतुषु च सम्प्रवृत्तेषु ।
४५।३९य्द्/ षण्मासाद् राष्ट्रभयं रोगभयं दैवजनितं च ॥ ॥
४५।४०अब्/ अन्यऋतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् ।
४५।४०य्द्/ रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिः मरकः ॥ ॥
४५।४१अब्/ धान्यहिरण्यत्वक्फलकुसुमाद्यैः वर्षितैः भयं विन्द्यात् ।
४५।४१य्द्/ अंगारपांशुवर्षे विनाशमायाति तन्नगरम् ॥ ॥
४५।४२अब्/ उपला विना जलधरैः विकृता वा प्राणिनो यदा वृष्टाः ।
४५।४२य्द्/ छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसंजननम् ॥ ॥
% ओने वेर्से इन्सेर्तेद्
४६।४३अब्/ क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां (वारिणो) वर्षे ।
४६।४३य्द्/ देशविनाशो ज्ञेयोऽसृग्वर्षे च अपि नृपयुद्धम् ॥ ॥
४५।४३अब्/ यद्यमलेऽर्के छाया न दृश्यते प्रतीपा वा ।
४५।४३य्द्/ देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम् ॥ ॥
४५।४४अब्/ व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ ।
४५।४४य्द्/ प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भ्यं सुमहत् ॥ ॥
४५।४५अब्/ सूर्येन्दुपर्जन्यसमीरणानां यागः (योगः) स्मृतो वृष्टिविकारकाले ।
४५।४५य्द्/ धान्यान्नगोकांचनदक्षिणाश्च देयाः ततः शान्तिमुपैति पापम् ॥ ॥
४५।४६अब्/ अपसर्पणं नदीनाम् नगरादचिरेण शून्यतां कुरुते ।
४५।४६य्द्/ शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम् ॥ ॥
४५।४७अब्/ स्नेहासृग्मांसवहाः संकुलकलुषाः प्रतीपगाश्चापि ।
४५।४७य्द्/ परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ॥
४५।४८अब्/ ज्वालाधूमक्वाथारुदितौत्क्रुष्टानि चैव कूपानाम् ।
४५।४८य्द्/ गीतप्रजल्पितानि च जनमरकायौपदिष्टानि (प्रदिष्टानि) ॥ ॥
४५।४९अब्/ सलिल (तोय) उत्पत्तिः अखाते गन्धरसविपर्यये च तोयानाम् ।
४५।४९य्द्/ सलिलाशयविकृतौ वा महद्भयं तत्र शन्तिमिमां (इयं) ॥ ॥
४५।५०अब्/ सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैः मन्त्रैः ।
४५।५०य्द्/ तैः एव च जपहोमं शममेवं पापमुपयाति ॥ ॥
४५।५१अब्/ प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा ।
४५।५१य्द्/ हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥ ॥
४५।५२अब्/ वडवा उष्ट्रमहिषगोहस्तिनीषु यमलौद्भवे रणमरणं (मरणं) एषाम् ।
४५।५२य्द्/ षण्मासात् सूतिफलं शान्तौ श्लोकौ च गर्गौक्तौ ॥ ॥
४५।५३अब्/ नार्यः परस्य विषये त्यक्तव्याः ता हितार्थिना ।
४५।५३य्द्/ तर्पयेग द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥ ॥
४५।५४अब्/ चतुष्पादाः स्वयूथेभ्यः त्यक्तव्याः परभूमिषु ।
४५।५४य्द्/ नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥ ॥
४५।५५अब्/ परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम् ।
४५।५५य्द्/ उक्षाणो वान्योन्यं पिबति श्वा वा सुरभिपुत्रम् ॥ ॥
४५।५६अब्/ मासत्रयेण विन्द्यात् तस्मिन् निःसंशयं परागमनम् ।
४५।५६य्द्/ तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥ ॥
४५।५७अब्/ त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् ।
४५।५७य्द्/ तर्पयेद् ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥ ॥
४५।५८अब्/ स्थालीपाकेन धातारं पशुना च पुरोहितः ।
४५।५८य्द्/ प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणम् ॥ ॥
४५।५९अब्/ यानं वाहवियुक्तं यदि गच्छेन् न व्रजेग वाहयुतम् ।
४५।५९य्द्/ राष्ट्रभयं भवति तदा चक्राणां सादभंगे च ॥ ॥
४५।६०अब्(४६।६१अब्)/ गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम् ।
४५।६०य्द्(४६।६१य्द्)/ मृत्युः तदा गदा वा विस्वतूर्ये (विस्वरतार्ये) पराभिभवः ॥ ॥
४५।६१अब्(४६।६२अब्)/ अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
४५।६१य्द्(४६।६२ऐ)/ व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा ॥ ॥
४५।६२अब्/ गोलांगलयोः संगे दर्वीशूर्पाद्युपस्करविकारे ।
४५।६२य्द्/ क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥ ॥
४५।६३अब्/ वायव्येष्वेषु न्र्पतिः वायुं शक्तुभिः अर्चयेत् ।
४५।६३य्द्/ आवायोः इति पंचर्चो जप्तव्याः (जाप्याश्च) प्रयतैः द्विजैः ॥ ॥
४५।६४अब्/ ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।
४५।६४य्द्/ बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥ ॥
४५।६५अब्/ पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् ।
४५।६५य्द्/ नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ॥ ॥
४५।६६अब्/ सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहंगा वा ।
४५।६६य्द्/ दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः ॥ ॥
४५।६७अब्/ श्येनाः (श्वानः) प्ररुदन्त इव द्वारे क्रोशन्ति जंबुका दीप्ताः ।
४५।६७य्द्/ प्रविशेन् नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥ ॥
४५।६८अब्/ कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः ।
४५।६८य्द्/ प्रतिलोममण्डलचराः श्येनाद्याश्चांबरे भयदाः ॥ ॥
४५।६९अब्/ गृहचैत्यतोरणेषु द्वारेषु च पक्षिसंघसम्पातः (सम्पाताः) ।
४५।६९य्द्/ मधुवल्मीकांभोरुहसमुद्भवः (समुद्भवाः) चापि नाशाय ॥ ॥
४५।७०अब्/ श्वभिः अस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय ।
४५।७०य्द्/ पशुशस्त्रव्याहारे नृपमृत्युः मुनिवचश्चेदम् ॥ ॥
४५।७१अब्/ मृगपक्षिविकारेषु कुर्याद् धीमान् (धोमान्) सदक्षिणान् ।
४५।७१य्द्/ देवाः कपोत इति च जप्तव्याः पंचभिः द्विजैः ॥ ॥
४५।७२अब्/ सुदेवा इति चैकेन देया गावः सदक्षिणाः (च दक्षिणा) ।
४५।७२य्द्/ जपेत्शाकुनसूक्तं वा मनो वेदशिरांशि च ॥ ॥
४५।७३अब्/ शक्रध्वजेन्द्रकीलस्तंभद्वारप्रपातभंगेषु ।
४५।७३य्द्/ तद्वत् कपाटतोरणकेतूनां नरपतेः मरणम् ॥ ॥
४५।७४अब्/ सन्ध्याद्वयस्य दीप्तिः धूमौत्पत्तिश्च काननेऽनग्नौ ।
४५।७४य्द्/ छिद्राभावे भूमेः दरणं कंपश्च भयकारी ॥ ॥
४५।७५अ पाखण्डाणां (पाषण्डाणां) नास्तिकानां च भक्तः
४५।७५ब् साध्वाचारप्रोज्झितः क्रोधशीलः ।
४५।७५य् ईर्ष्युः क्रूरो विग्रहासक्तचेता
४५।७५द् यस्मिन् राजा तस्य देशस्य नाशः ॥ ॥
४५।७६अब्/ प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः ।
४५।७६य्द्/ निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु ॥ ॥
४५।७७अब्/ अंगारगैरिकाद्यैः विकृतप्रेताभिलेखनं यस्मिन् ।
४५।७७य्द्/ नायकचित्रितमथवा क्षये क्षयं याति न चिरेण ॥ ॥
४५।७८अब्/ लूतापटांगशबलं न सन्ध्ययोः पूजितं कलहयुक्तम् ।
४५।७८य्द्/ नित्यौच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति ॥ ॥
४५।७९अब्/ दृष्टेषु यातुधानेषु निर्दिशेन् मरकमाशु सम्प्राप्तम् ।
४५।७९य्द्/ प्रतिघातायैतेषां गर्गः शान्तिं चकारैमाम् ॥ ॥
४५।८०अब्/ महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च ।
४५।८०य्द्/ कारयेत महेन्द्रं च माहेन्द्रीं (महेन्द्रीभिः) च समर्चयेत् ॥ ॥
४५।८१अब्/ नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः ।
४५।८१य्द्/ उत्पातानां प्रभवः स्वऋतुभवश्चाप्यदोषाय ॥ ॥
४५।८२अब्/ ये च न दोषान् जनयन्त्युत्पाताः तान् ऋतुस्वभावकृतान् ।
४५।८२य्द्/ ऋषिपुत्रकृतैः श्लोकैः विद्यादेतैः समासौक्तैः ॥ ॥
४५।८३अब्/ वज्राशनिमहीकंपसन्ध्यानिर्घातनिःस्वनाः ।
४५।८३य्द्/ परिवेषरजोधूमरक्तार्कास्तमय (अस्तमन) उदयाः ॥ ॥
४५।८४अब्/ द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलौद्गमाः ।
४५।८४य्द्/ गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ॥
४५।८५अब्/ तारा उल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
४५।८५य्द्/ अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥ ॥
४५।८६अब्/ रक्तपद्मारुणा (अरुणं) सन्ध्या (सन्ध्यं) नभः क्षुब्धार्णवौपमम् ।
४५।८६य्द्/ सरितां चांबुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ॥
४५।८७अब्/ शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् ।
४५।८७य्द्/ कंपौद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ॥
४५।८८अब्/ सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः ।
४५।८८य्द्/ सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ॥
४५।८९अब्/ दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।
४५।८९य्द्/ ग्रहनक्षत्रताराणां दर्शनं च दिवाऽंबरे ॥ ॥
४५।९०अब्/ गीतवादित्रनिर्घोषा वनपर्वतसानुषु ।
४५।९०य्द्/ सस्यवृद्धिः अपां हानिः अपापाः शरदि स्मृताः ॥ ॥
४५।९१अब्/ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
४५।९१य्द्/ रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमनुषी ॥ ॥
४५।९२अब्/ दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
४५।९२य्द्/ उच्छैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ॥
४५।९३अब्/ हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् ।
४५।९३य्द्/ कृष्णाञ्जनाभमाकाशं तारा उल्कापातपिञ्जरम् ॥ ॥
४५।९४अब्/ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु ।
४५।९४य्द्/ पत्रांकुरलतानां च विकाराः शिशिरे शुभाः ॥ ॥
४५।९५अब्/ ऋतुस्वभावजा ह्येते दृष्टाः स्वऋतौ शुभप्रदाः ।
४५।९५य्द्/ ऋतोः अन्यत्र चौत्पाता दृष्टाः ते चातिदारुणाः (बृशदारुनाः) ॥ ॥
४५।९६अब्/ उन्मत्तानां च या गाथाः शिशूनां यग भाषितं (भाषितं च यत्) ।
४५।९६य्द्/ स्त्रियो यग प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ॥
४५।९७अब्/ पूर्वं चरति देवेषु पश्चागरति (गच्छति) मानुषान् ।
४५।९७य्द्/ नाचोदिता वाग् वदति सत्या ह्येषा सरस्वती ॥ ॥
४५।९८अ उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा
४५।९८ब् विख्यातो भवति नरेन्द्रवल्लभश्च ।
४५।९८य् एतत् तन्मुनिवचनं रहस्यमुक्तं
४५।९८द् यज्ञात्वा भवति नरः त्रिकालदर्शी ॥ ॥
sएपरते अध्याय ४६ मयूरचित्रकाध्यायः
४६।१अब्/ दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च ।
४६।१य्द्/ प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण ॥ ॥
४६।२अ भूयो वराहमिहिरस्य न युक्तमेतत्
४६।२ब् कर्तुं समासकृदसविति तस्य दोषः ।
४६।२य् तज्ञैः न वाच्यमिदमुक्तफलानुगीति
४६।२द् यद् बर्हि (वर्हि) चित्रकमिति प्रथितं वरांगम् ॥ ॥
४६।३अब्/ स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम् ।
४६।३य्द्/ ब्रवीम्यहं न चेदिदं तथाऽपि मेऽत्र वाच्यता ॥ ॥
४६।४अब्/ उत्तरवीथिगता द्युतिमन्तः क्षेमशुभिक्षशिवाय समस्ताः ।
४६।४य्द्/ दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकराः ते ॥ ॥
४६।५अब्/ कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम् प्रभविष्णौ ।
४६।५य्द्/ निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः ॥ ॥
४६।६अब्/ पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवमेन्द्रमेव वा ।
४६।६य्द्/ प्रोज्झ्य सूर्यमपरे ग्रहाः तदा पश्चिमा दिग् अनयेन पीड्यते ॥ ॥
४६।७अ प्राच्यां चेद् ध्वजवदवस्थिता दिनान्ते
४६।७ब् प्राच्यानां भवति हि विग्रहो नृपाणाम् ।
४६।७य् मध्ये चेद् भवति हि मध्यदेशपीठा (पीडा)
४६।७द् रूक्षैः तैः न तु रुचिमन् (रुचिरैः) मयूखवद्भिः ॥ ॥
४६।८अब्/ दक्षिणां ककुभमाश्रितः (आश्रितैः) तु तैः दक्षिणापथपयोमुचां क्षयः ।
४६।८य्द्/ हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ॥ ॥
४६।९अब्/ उत्तरमार्गे स्पष्टमयूखाः शान्तिकराः ते तन् नृपतीनाम् ।
४६।९य्द्/ ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युः देशनृपाणाम् ॥ ॥
४६।१०अ नक्षत्राणां तारकाः सग्रहाणाम्
४६।१०ब् धूमज्वालाविस्फुलिंगान्विताश्चेत् ।
४६।१०य् आलोकं वा निर्निमित्तं न यान्ति
४६।१०द् याति ध्वंसं सर्वलोकः सभूपः ॥ ॥
४६।११अ दिवि भाति यदा तुहिनांशुयुगं
४६।११ब् द्विजवृद्धिः अतीव तदाशु शुभा ।
४६।११य् तदनन्तरवर्णरणोऽर्कयुगे
४६।११द् जगतः प्रलयः त्रिचतुष्प्रभृति ॥ ॥
४६।१२अ मुनीन् अभिजितं ध्रुवं मघवतश्च भं संस्पृशन्
४६।१२ब् शिखी घनविनाशकृत् कुशलकर्महा शोकदः ।
४६।१२य् भुजंगं (भुजंगभं) अथ संस्पृशेद् भवति वृष्टिनाशो ध्रुवं
४६।१२द् क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ॥ ॥
४६।१३अब्/ प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम् ।
४६।१३य्द्/ दुर्भिक्षं कुरुते महदुग्रं (भयमुग्रं) मित्राणां च विरोधमवृष्टिम् ॥ ॥
४६।१४अब्/ रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा शिखी ।
४६।१४य्द्/ किं वदामि यदनिष्टसागरे जगदशेषमुअपयाति संक्षयम् ॥ ॥
४६।१५अब्/ उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा ।
४६।१५य्द्/ अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥ ॥
४६।१६अ धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
४६।१६ब् बलोद्योगं चन्द्रः (चेन्दुः) कथयति जयं ज्याऽस्य च यतः ।
४६।१६य् गवां(अवाक्) शृंगो गोघ्नो निधनमपि सस्यस्य कुरुते
४६।१६द् ज्वलन् धूमायन् वा नृपतिमरणायैव भवति ॥ ॥
४६।१७अब्/ स्निग्धः स्थूलः समशृंगो विशालः तुंगश्चौदग्विचरन् नागवीथ्याम् ।
४६।१७य्द्/ दृष्टः सौम्यैः अशुभैः विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ॥ ॥
४६।१८अब्/ पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशांकः ।
४६।१८य्द्/ दक्षिणेन न शुभः शुभकृत् (शुभो हितकृत्) स्याद् यद्युदक् चरति मध्यगतो वा ॥ ॥
४६।१९अब्/ परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा ।
४६।१९य्द्/ परिधिः तु प्रतिसूर्यो दण्डः त्वृजुः इन्द्रचापनिभः ॥ ॥
४६।२०अब्/ उदयेऽस्ते वा भानोः ये दीर्घा रश्मयः त्वमोघाः ते ।
४६।२०य्द्/ सुरचापखण्डम् ऋजु यद्रोहितमैरावतं दीर्घम् ॥ ॥
४६।२१अब्/ अर्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् ।
४६।२१य्द्/ तेजःपरिहानिमुखाद् भानोः अर्धोदयो यावत् ॥ ॥
४६।२२अब्/ तस्मिन् सन्ध्याकाले चिह्नैः एतैः शुभाशुभं वाच्यम् ।
४६।२२य्द्/ सर्वैः एतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ॥ ॥
४६।२३अ अच्छिन्नः परिघो वियग विमलं श्यामा मयूखा रवेः
४६।२३ब् स्निग्धा दीधितयः मितं (सितं) सुरधनुर्विद्युग पूर्वोत्तरा ।
४६।२३य् स्निग्धो मेघतरुः दिवाकरकरैः आलिंगितो वा यदा
४६।२३द् वृष्टिः स्याद् यदि वाऽर्कमस्तसमये मेघो महान् छादयेत् ॥ ॥
४६।२४अब्/ खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैः वा चिह्नैः विद्धः ।
४६।२४य्द्/ यस्मिन् देशे रूक्षश्चार्कः तत्राभावः प्रायो राज्ञः ॥ ॥
४६।२५अब्/ वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः ।
४६।२५य्द्/ यस्य तस्य बलविद्रवो महान् अग्रैः तु विजयो विहंगमैः ॥ ॥
४६।२६अब्/ भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी ।
४६।२६य्द्/ विंबं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥ ॥
४६।२७अब्/ शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च ।
४६।२७य्द्/ पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥ ॥
४६।२८अ यद्विस्तरेण कथितं मुनिभिः तदस्मिन्
४६।२८ब् सर्वं मया निगदितं पुनरुक्तवर्जम् ।
४६।२८य् श्रुत्वाऽपि कोकिलरुतं बलिभुग्विरौति
४६।२८द् यत्तत् स्वभावकृतमस्य पिकं न जेतुम् ॥ ॥
sएपरते अध्याय ४७ पुष्यस्नानाध्यायः
४७।१अब्/ मूलं मनुजाधिपतिः प्रजातरोः तदुपघातसंस्कारात् ।
४७।१य्द्/ अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥ ॥
४७।२अब्/ या व्याख्याता शान्तिः स्वयंभुवा सुरगुरोः महेन्द्रार्थे ।
४७।२य्द्/ तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ॥ ॥
४७।३अब्/ पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम् ।
४७।३य्द्/ नातः परं पवित्रं सर्वौत्पातान्तकरमस्ति ॥ ॥
४७।४अब्/ श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने ।
४७।४य्द्/ कौशिकगृध्रप्रभृतिभिः अनिष्टविहगैः परित्यक्ते ॥ ॥
४७।५अब्/ तरुणतरुगुल्मवल्लीलताप्रतानान्विते (वृते) वनोद्देशे ।
४७।५य्द्/ निरुपहतपत्रपल्ल्वमनोज्ञमधुरद्रुमप्राये ॥ ॥
४७।६अब्/ कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः ।
४७।६य्द्/ क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥ ॥
४७।७अब्/ कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः ।
४७।७य्द्/ विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ॥ ॥
४७।८अब्/ हृदिनी (ह्रदिनी) विलासिनीनां जलखगनखविक्षतेषु रम्येषु ।
४७।८य्द्/ पुलिनजघनेषु कुर्याद् दृक्मनसोः प्रीतिजननेषु ॥ ॥
४७।९अब्/ प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसोद्गीते ।
४७।९य्द्/ फुल्लेन्दीवरनयने सरसि सहस्राक्षकान्तिधरे ॥ ॥
४७।१०अब्/ प्रोत्फुल्लकमलवदनाः कलहंसकल (अद्द्।स्वन) प्रभाषिण्यः ।
४७।१०य्द्/ प्रोत्तुंगकुड्मलकुचा यस्मिन् नलिनीविलासिन्यः ॥ ॥
४७।११अब्/ कुर्याद् गोरोमन्थजफेनलवशकृत्खुरक्षतौपचिते ।
४७।११य्द्/ अचिरप्रसूतहुंकृतवल्गितवत्सौत्सवे गोष्ठे ॥ ॥
४७।१२अब्/ अथवा समुद्रतीरे कुशलागतरत्नपोत (पोतरत्न) संबाधे ।
४७।१२य्द्/ घननिचुललीनजलचरसितखगशबलीकृतोपान्ते ॥ ॥
४७।१३अब्/ क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते येषु (यत्र) ।
४७।१३य्द्/ दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथवा ॥ ॥
४७।१४अब्/ कांचीकलापनूपुरगुरुजघनौद्वहनविघ्नितपदाभिः ।
४७।१४य्द्/ श्रीमति मृगेक्षणाभिः गृहेऽन्यब्भृतवल्गुवचनाभिः ॥ ॥
४७।१५अब्/ पुण्येष्वायतनेषु च तीर्थेषूद्यानरम्यदेशेषु ।
४७।१५य्द्/ पूर्वोदक्प्लवभूमौ प्रदक्षिणांभोवहायां च ॥ ॥
४७।१६अब्/ भस्मांगारास्थ्यूषरतुषकेशश्वभ्रकर्कटावासैः ।
४७।१६य्द्/ श्वाविध (श्वाविन्) मूषकविवरैः वल्मीकैः या च सन्त्यक्ता ॥ ॥
४७।१७अब्/ धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय ।
४७।१७य्द्/ सेनावासेऽपि एवं योजयितव्या यथायोगम् ॥ ॥
४७।१८अब्/ निष्क्रम्य पुरान् नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् ।
४७।१८य्द्/ कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ॥ ॥
४७।१९अब्/ लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् ।
४७।१९य्द्/ आवाहनमथ मन्त्रः तस्मिन् मुनिभिः समुद्दिष्टः ॥ ॥
(मन्त्र ४७।२०-२१)
४७।२०अब्/ आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः ।
४७।२०य्द्/ दिशो नागा द्विजाश्चैव ये चाप्यन्ये (चानेयपि) ऽंशभागिनः ॥ ॥
४७।२१अब्/ आवाह्यएवम् ततः सर्वान् एवं ब्रूयात् पुरोहितः ।
४७।२१य्द्/ श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः ॥ ॥
४७।२२अब्/ आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुः ते ।
४७।२२य्द्/ सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ॥ ॥
४७।२३अब्/ अपरेऽहनि प्रभाते संभारान् उपहरेद् यथोक्तगुणान् ।
४७।२३य्द्/ गत्वाऽवनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः ॥ ॥
४७।२४अब्/ तस्मिन् मण्डलमालिख्य कल्पयेत् तत्र मेदिनीम् ।
४७।२४य्द्/ नानारत्नाकरवतीं स्थानानि विविधानि च ॥ ॥
४७।२५अब्/ पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितुन् ।
४७।२५य्द्/ गन्धर्वाप्सरसश्चैव मुनीन् सिद्धांश्च विन्यसेत् ॥ ॥
४७।२६अब्/ ग्रहांश्च सर्व (सह) नक्षत्रै रुद्रांश्च सह मातृभिः ।
४७।२६य्द्/ स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः ॥ ॥
४७।२७अब्/ वर्णकैः विविधैः कृत्वा हृद्यैः गन्धगुणान्वितैः ।
४७।२७य्द्/ यथास्वं पूजयेद् विद्वान् गन्धमाल्यानुलेपनैः ॥ ॥
४७।२८अब्/ भक्ष्यैः अन्नैश्च विविधैः फलमूलामिषैः तथा ।
४७।२८य्द्/ पानैश्च (पानकैः) विविधैः हृद्यैः सुराक्षीरासवादिभिः ॥ ॥
४७।२९अब्/ कथयाम्यतः परमहं पूजामस्मिन् यथाभिलिखितानाम् ।
४७।२९य्द्/ ग्रहयज्ञे यः प्रोक्तो विधिः ग्रहाणां स कर्तव्यः ॥ ॥
४७।३०अब्/ मांसओदनमद्यैः पिशाचदितितनयदानवाः पूज्याः ।
४७।३०य्द्/ अभ्यञ्जनाञ्जनतिलैः पितरो मांसओदनैश्चापि ॥ ॥
४७।३१अब्/ सामयजुर्भिः मुनयः त्वृग्भिः गन्धैश्च धूपमाल्ययुतैः ।
४७।३१य्द्/ अश्लेषकवर्णैः त्रिमधुरेण चाभ्यर्चयेद् नागान् ॥ ॥
४७।३२अब्/ धूपूज्याहुतिमाल्यैः विबुधान् रत्नः (रत्नैः) स्तुतिप्रणामैश्च ।
४७।३२य्द्/ गन्धर्वान् अप्सरसो गन्धैः माल्यैश्च सुसुगन्धैः ॥ ॥
४७।३३अब्/ शेषां तु सार्ववर्णिकबलिभिः पूजां न्यसेग सर्वेषाम् ।
४७।३३य्द्/ प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि ॥ ॥
४७।३४अब्/ मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणेऽथवा वेद्याम् ।
४७।३४य्द्/ आदद्यात् संभारान् दर्भान् दीर्घान् अगर्भांश्च ॥ ॥
४७।३५अब्/ लाजाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो धूपः (धुपान्) ।
४७।३५य्द्/ गोरोचनाञ्जनतिलाः (तिलान्) स्वर्तुजमधुराणि च फलानि ॥ ॥
४७।३६अब्/ सघृतस्य पायसस्य च तत्र शरावाणि तैश्च संभारैः ।
४७।३६य्द्/ पश्चिमवेद्यां पूजां कुर्यात् स्नानस्य सा वेदी ॥ ॥
४७।३७अब्/ तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान् ।
४७।३७य्द्/ सक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य ॥ ॥
४७।३८अब्/ पुष्यस्नानविमिश्रेणापूर्णान् अंभसा सरत्नांश्च ।
४७।३८य्द्/ पुष्यस्नानद्रव्याणि आदद्याद् गर्गगीतानि ॥ ॥
४७।३९अब्/ ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ।
४७।३९य्द्/ जीवां विश्वेश्वरीं पाठां समंगां विजयां तथा ॥ ॥
४७।४०अब्/ सहां च सहदेवीं च पूर्णकोशां श्तावरीम् ।
४७।४०य्द्/ अरिष्टिकां शिवां भद्रां तेषु कुंभेषु विन्यसेत् ॥ ॥
४७।४१अब्/ ब्राह्मीं क्षेमामजां चैव सर्वबीजानि कांचनीं (कांचनं) ।
४७।४१य्द्/ मंगल्यानि यथालाभं सर्वौषध्यो रसाः (रसां) तथा ॥ ॥
४७।४२अब्/ रत्नानि सर्वगन्धाः (सर्वगन्धांश) च बिल्वं च सविकंकतम् ।
४७।४२य्द्/ प्रशस्तनाम्न्यश्चौषध्यो हिरण्यं मंगलानि च ॥ ॥
४७।४३अब्/ आदावनडुहश्चर्म जरया संहृतायुषः ।
४७।४३य्द्/ प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥ ॥
४७।४४अब्/ ततो वृषस्य योधस्य चर्म रोहितमक्षतम् ।
४७।४४य्द्/ सिंहस्याथ तृतीयं स्याद् व्याघ्रस्य च ततः परम् ॥ ॥
४७।४५अब्/ चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् ।
४७।४५य्द्/ शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकरे ॥ ॥
४७।४६अब्/ भद्रासनमेकतमेन कारितं कनकरजतताम्राणाम् ।
४७।४६य्द्/ क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणामुपरि ॥ ॥
४७।४७अब्/ त्रिविधः तस्यौच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च ।
४७।४७य्द्/ माण्डलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः ॥ ॥
४७।४८अब्/ अन्तर्धाय हिरण्यं तत्रौपविशेन् नरेश्वरः सुमनाः ।
४७।४८य्द्/ सचिवाप्तपुरोहितदैवपौरकल्याणनामवृतः ॥ ॥
४७।४९अब्/ वन्दिजनपौरविप्रैः प्रघुष्ट (विप्रप्रघुष्ट) पुण्याहवेदनिर्घोषैः ।
४७।४९य्द्/ समृदंगशंखतूर्यैः मंगलशब्दैः हतानिष्टः ॥ ॥
४७।५०अब्/ अहतक्षौमनिवसनं पुरोहितः कंबलेन संछाद्य ।
४७।५०य्द्/ कृतबलिपूजं कलशैः अभिषिंचेत् सर्पिषा पूर्णैः ॥ ॥
४७।५१अब्/ अष्टावष्टाविंशतिः अष्टशतं वापि कलशपरिमाणम् ।
४७।५१य्द्/ अधिकेऽधिके गुणोत्तरमयं च मन्त्रोऽत्र मुनिगीतः ॥ ॥
(मन्त्र)
४७।५२अब्/ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् ।
४७।५२य्द्/ आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥ ॥
४७।५३अब्/ भौमान्तरिक्षं दिव्यं वा यत् ते कल्मषं (कल्विषं) आगतम् ।
४७।५३य्द्/ सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥ ॥
४७।५४अब्/ कंबलमपनीय ततः पुष्यस्नानांबुभिः सफलपुष्पैः ।
४७।५४य्द्/ अभिषिंचेन् मनुजेन्द्रं पुरोहितोऽनेन मन्त्रेण ॥ ॥
(मन्त्र)
४७।५५अब्/ सुराः त्वामभिषिंचन्तु ये च सिद्धाः पुरातनाः ।
४७।५५य्द्/ ब्रह्मा विष्णुश्च रुद्रः (शंभुः) च साध्याश्च समरुद्गणाः ॥ ॥
४७।५६अब्/ आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ ।
४७।५६य्द्/ अदितिः देवमाता च स्वाहा सिद्धिः सरस्वती ॥ ॥
४७।५७अब्/ कीर्तिः लक्ष्मीः धृतिः श्रीश्च सिनीवाली कुहूः तथा ।
४७।५७य्द्/ दनुश्च सुरसा चैव विनता कद्रुः एव च ॥ ॥
४७।५८अब्/ देवपत्न्यश्च या नोक्ता देवमातर एव च ।
४७।५८य्द्/ सर्वाः त्वामभिषिंचन्तु दिव्याश्चाप्सरसां गणाः ॥ ॥
४७।५९अब्/ नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः ।
४७।५९य्द्/ संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवा ।
४७।६०अब्(४८।६९य्द्)/ सर्वे त्वामभिषिंचन्तु कालस्यावयवाः शुभाः ।
४७।६०य्द्(४८।७०अब्)/ एते चान्ये च मुनयो वेदव्रतपरायणाः ॥ ॥
४७।६१अब्/ सशिष्याः तेऽभिषिंचन्तु सदाराश्च तपोधनाः ।
४७।६१य्द्/ वैमानिकाः सुरगणा मनवः सागरैः सह ॥ ॥
४७।६२अब्/ सरितश्च महाभागा नागाः किंपुरुषाश्तथा ।
४७।६२य्द्/ वैखानसा महाभागा द्विजा वैहायसाश्च ये ॥ ॥
४७।६३अब्/ सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च ।
४७।६३य्द्/ मरीचिः अत्रिः पुलहः पुलस्त्यः क्रतुः अंगिराः ॥ ॥
४७।६४अब्/ भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः ।
४७।६४य्द्/ सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ॥ ॥
४७।६५अब्/ एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ ।
४७।६५य्द्/ दुर्वासा दुर्विनीतश्च कण्वः कात्यायनः तथा ॥ ॥
४७।६६अब्/ मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः ।
४७।६६य्द्/ ऊर्ध्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ॥ ॥
४७।६७अब्/ द्वैपायनो यवक्रीतो देवराजः सहानुजः ।
४७।६७य्द्/ पर्वताः तरवो वल्ल्यः पुण्यानि आयतनानि च ॥ ॥
४७।६८अब्/ प्रजापतिः दितिश्चैव गावो विश्वस्य मातरः ।
४७।६८य्द्/ वाहनानि च दिव्यानि सर्वलोकाश्चराचराः ॥ ॥
४७।६९अब्/ अग्नयः पितरः तारा जीमूताः खं दिशो जलम् ।
४७।६९य्द्/ एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभैः (शुभाः) ॥ ॥
४७।७०अब्/ तोयैः त्वामभिषिंचन्तु सर्वोत्पातनिबर्हणैः ।
४७।७०य्द्/ यथाभिषिक्तो मघवान् एतैः मुदितमनसैः (कल्याणम् ते प्रकुर्वन्तु आयुरारोग्यमेव्व च) ॥ ॥
४७।७१अब्/ इत्येतैश्चान्यैश्चाप्यथर्वकल्प आहितैः (विहितैः) सरुद्रगणैः ।
४७।७१य्द्/ कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च ॥ ॥
४७।७२अब्/ आपोहिष्ठातिसृभिः हिरण्यवर्णा इति चतसृभिः जप्तम् ।
४७।७२य्द्/ कार्पासिकवस्त्रयुगं बिभृयात् स्नातो नराधिपतिः ॥ ॥
४७।७३अब्/ पुण्याहशंखशब्दैः आचान्तोऽभ्यर्च्य देवगुरुविप्रान् ।
४७।७३य्द्/ छत्रध्वजायुधानि च ततः स्वपूजां प्रयुञ्जीत ॥ ॥
४७।७४अब्/ आयुष्यं वर्चस्यं रायस्पोषाभिः ऋग्भिः एताभिः ।
४७।७४य्द्/ परिजप्तं वैजयिकं नवं विदध्यादलंकारम् ॥ ॥
४७।७५अब्/ गत्वा द्वितीयवेदीं समुपविशेगर्मणां उपरि राजा ।
४७।७५य्द्/ देयानि चैव चर्माणि उपर्युपर्येवमेतानि ॥ ॥
४७।७६अब्/ वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च ।
४७।७६य्द्/ तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ॥
४७।७७अब्/ मुख्यस्थाने जुहुयात् पुरोहितोऽग्निं समित्तिलघृताद्यैः ।
४७।७७य्द्/ त्रिनयनशक्रबृहस्पतिनारायणनित्यगतिऋग्भिः ॥ ॥
४७।७८अब्/ इन्द्रध्वजनिर्दिष्टानि अग्निनिमित्तानि दैवविद् ब्रूयात् ।
४७।७८य्द्/ कृत्वाऽशेषसमाप्तिं पुरोहितः प्राञ्जलिः ब्रूयात् ॥ ॥
४७।७९अब्/ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात् ।
४७।७९य्द्/ सिद्धिं दत्त्वा तु विपुलांसुविपुलां) पुनः आगमनाय च (वै) ॥ ॥
४७।८०अब्/ नृपतिः अतो दैवज्ञं पुरोहितं चार्चयेद् धनैः बहुभिः ।
४७।८०य्द्/ अन्यांश्च दक्षिणीयान् यथोचितं (यथार्हतः) श्रोत्रियप्रभृतीन् ॥ ॥
४७।८१अब्/ दत्त्वाऽभयं प्रजानामाघातस्थानगान् विसृज्य पशून् ।
४७।८१य्द्/ बधनमोक्षं कुर्यादभ्यनन्तरदोषकृद्वर्जम् ॥ ॥
४७।८२अब्/ एतत् प्रयुज्यमानं प्रतिपुष्यं सुखयशोऽर्थवृद्धिकरम् ।
४७।८२य्द्/ पुष्याद् (पुष्यं) विनार्धफलदा पौषी शान्तिः परा (पुरा) प्रोक्ता ॥ ॥
४७।८३अब्/ राष्ट्रौत्पातौपसर्गेषु राहोः केतोश्च दर्शने ।
४७।८३य्द्/ ग्रहावमर्दने चैव पुष्यस्नानं समाचरेत् ॥ ॥
४७।८४अब्/ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ।
४७।८४य्द्/ मंगलं चापरं नास्ति यदस्मादतिरिच्यते ॥ ॥
४७।८५अब्/ अधिराज्यार्थिनो राज्ञः पुत्रजन्म च कांक्षतः ।
४७।८५य्द्/ तत्पूर्वमभिषेके च विधिः एष प्रशस्यते ॥ ॥
४७।८६अब्/ महेन्द्रार्थमुवाचैदम् बृहत्कीर्तिः बृहस्पतिः ।
४७।८६य्द्/ स्नानमायुष्प्रजावृद्धिसौभाग्यकरणं परम् ॥ ॥
४७।८७अब्/ अनेनैव विधानेन हस्त्यश्वं स्नापयेत् ततः (स्नापयीत यः) ।
४७।८७य्द्/ तस्यामयविनिर्मुक्तं परां सिद्धिमवाप्नुयात् ॥ ॥
sएपरते अध्याय ४८ पट्टलक्षणाध्यायः
४८।१अब्/ विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यदाचार्यैः ।
४८।१य्द्/ तत् संक्षेपः क्रियते मयाऽत्र सकलार्थसम्पन्नः ॥ ॥
४८।२अब्/ पट्टः शुभदो राज्णां मध्येऽष्टावंगुलानि विस्तीर्णः ।
४८।२य्द्/ सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥ ॥
४८।३अब्/ चतुरंगुलविस्तारः पट्टः सेनापतेः भवति मध्ये ।
४८।३य्द्/ द्वे च प्रसादपट्टः पंचैते कीर्तिताः पट्टाः ॥ ॥
४८।४अब्/ सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः ।
४८।४य्द्/ सर्वे च शुद्धकांचनविनिर्मिताः श्रेयसो वृद्ध्यै ॥ ॥
४८।५अब्/ पंचशिखो भूमिपतेः त्रिशिखो युवराजपार्थिवमहिष्योः ।
४८।५य्द्/ एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ ॥
४८।६अब्/ क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य ।
४८।६य्द्/ वृद्धिजयौ भूमिपतेः तथा प्रजानां च सुखसम्पत् ॥ ॥
४८।७अब्/ जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः ।
४८।७य्द्/ मध्ये स्फुटितः त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥ ॥
४८।८अब्/ अशुभनिमित्तौत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद् राज्ञः ।
४८।८य्द्/ शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ॥ ॥
sएपरते अध्याय ४९ खड्गलक्षणाध्यायः
४९।१अब्/ अंगुलशतार्धमुत्तम ऊनः स्यात् पंचविंशतिः (पञ्चविंशतिं) खड्गः ।
४९।१य्द्/ अंगुलमानाज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ ॥
४९।२अब्/ श्रीवृक्षवर्धमानातपत्रशिवलिंगकुण्डलाब्जानाम् ।
४९।२य्द्/ सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥ ॥
४९।३अब्/ कृकलासकाककंकक्रव्यादकबन्धवृश्चिकाकृतयः ।
४९।३य्द्/ खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च ॥ ॥
४९।४अब्/ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्मनोऽनुगतः ।
४९।४य्द्/ अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ॥ ॥
४९।५अब्/ क्वणितं मरणायौक्तं पराजयाय प्रवर्तनं कोशात् ।
४९।५य्द्/ स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥ ॥
४९।६अ नाकारणं विवृणुयान् न विघट्टयेग
४९।६ब् पश्येन् न तत्र वदनं न वदेग मूल्यम् ।
४९।६य् देशं न चास्य कथयेत् प्रतिमान् आनयेन् न
४९।६द् नैव स्पृशेन् नृपतिः अप्रयतोऽसियष्टिम् ॥ ॥
४९।७अब्/ गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च ।
४९।७य्द्/ करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ॥ ॥
४९।८अब्/ निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः ।
४९।८य्द्/ मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥ ॥
४९।९अब्/ यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वदेव खड्गस्य ।
४९।९य्द्/ वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ ॥
४९।१०अब्/ अथवा स्पृशति यदंगं प्रष्टा निस्त्रिंशभृत् तदवधार्य ।
४९।१०य्द्/ कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम् ॥ ॥
४९।११अब्/ शिरसि स्पृष्टे प्रथमे अंगुले द्वितीये ललाटसंस्पर्शे ।
४९।११य्द्/ भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च ॥ ॥
४९।१२अब्/ नासौष्ठ (नासोष्ठ) कपोलहनुश्रवणग्रीवांसके च (अंसकेषु) पंचाद्याः ।
४९।१२य्द्/ उरसि द्वादशसंस्थः त्रयोदशे कक्षयोः ज्ञेयः ॥ ॥
४९।१३अब्/ स्तनहृदयोदरकुक्षिनाभौ (कुक्षिनाभीषु) तु चतुर्दशादयो ज्ञेयाः ।
४९।१३य्द्/ नाभिमूले कठ्यां गुह्ये चैकोनविंशतितः ॥ ॥
४९।१४अब्/ ऊर्वोः द्वाविंशे स्यादूर्वोः मध्ये व्रणः त्रयोविंशे ।
४९।१४य्द्/ जानुनि च चतुर्विंशे जंघायां पंचविंशे च ॥ ॥
४९।१५अब्/ जंघामध्ये गुल्फे पार्ष्ण्यां पादे तदंगुलीष्वपि च ।
४९।१५य्द्/ षड्विंशतिकाद् यावत् त्रिंशदिति मतेन गर्गस्य ॥ ॥
४९।१६अब्/ पुत्रमरणं धनाप्तिः धनहानिः सम्पदश्च बन्धश्च ।
४९।१६य्द्/ एकाद्यंगुलसंस्थैः व्रणैः फलं निर्दिशेत् क्रमशः ॥ ॥
४९।१७अब्/ सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ ।
४९।१७य्द्/ क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ ॥
४९।१८अब्/ लब्धिः हानिः स्त्रीलब्धयो (हानिस्त्रीलब्धयो) बधो वृद्धिमरणपरितोषाः ।
४९।१८य्द्/ ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ ॥
४९।१९अब्/ वित्ताप्तिः अनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् ।
४९।१९य्द्/ ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशदिति यावत् ॥ ॥
४९।२०अब्/ परतो न विशेषफलं विषमसमस्थाः तु पापशुभफलदाः ।
४९।२०य्द्/ कैश्चिदफलाः प्रदिष्टाः त्रिंशत्परतोऽग्रमिति यावत् ॥ ॥
४९।२१अब्/ करवीरौत्पलगजमदघृतकुंकुमकुन्दचंपकसगन्धः ।
४९।२१य्द्/ शुभदोऽनिष्टो गोमूत्रपंकमेदःसदृशगन्धः ॥ ॥
४९।२२अब्/ कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः ।
४९।२२य्द्/ वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥ ॥
४९।२३अ इदमौशनसं च शस्त्रपानं
४९।२३ब् रुधिरेण श्रियमिच्छतः प्रदीप्ताम् ।
४९।२३य् हविषा गुणवत्सुताभिलिप्सोः
४९।२३द् सलिलेनाक्षयमिच्छतश्च वित्तम् ॥ ॥
४९।२४अ वडवौष्ट्रकरेणुदुग्धपानं
४९।२४ब् यदि पापेन समीहतेऽर्थसिद्धिम् ।
४९।२४य् झषपित्तमृगाश्वबस्तदुग्धैः
४९।२४द् करिहस्तच्छिदये सतालगर्भैः ॥ ॥
४९।२५अ आर्कं पयो हुडुविषाणमषीसमेतं
४९।२५ब् पारावताखुशकृता च युतः (युतं) प्रलेपः ।
४९।२५य् शस्त्रस्य तैलमथितस्य ततोऽस्य पानं
४९।२५द् पश्चात्शितस्य न शिलासु भवेद् विघातः ॥ ॥
४९।२६अ क्षारे कदल्या मथितेन युक्ते
४९।२६ब् दिनौषिते पायितमायसं यत् ।
४९।२६य् सम्यक् शितं चाश्मनि नैति भंगं
४९।२६द् न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥ ॥
sएपरते अध्याय ५० अंगविद्याध्याय
५९।१अ दैवज्ञेन शुभाशुभं दिगुदितस्थानहृतानीक्षता
५०।१ब् वाच्यं प्रष्टृनिजापरांगघटनां चालोक्य कालं धिया ।
५०।१य् सर्वज्ञो हि चराचरात्मकतया असौ सर्वदर्शो विभुश्
५०।१द् चेष्टाव्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम् ॥ ॥
५०।२अ स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छद्
५०।२ब् सत्पक्षिच्युतशस्तसंज्ञिततरुच्छायौपगूढं समम् ।
५०।२य् देवऋषिद्विजसाधुसिद्धनिलयं सत्पुष्पसस्यौक्षितम्
५०।२द् सत्स्वादूदकनिर्मलत्वजनिताह्लादं च सच्छाद्वलं (सच्छाड्वलं) ॥ ॥
५०।३अब्/ छिन्नभिन्नकृमिखातकण्टकिप्लुष्टरूक्षकुटिलैः न सत् कुजैः ।
५०।३य्द्/ क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः (वर्मभिः) ॥ ॥
५०।४अ श्मशानशून्यायतनं चतुष्पथं
५०।४ब् तथा अमनोज्ञं विषमं सदोषरम् ।
५०।४य् अवस्करांगारकपालभस्मभिश्
५०।४द् चितं तुषैः शुष्कतृणैः नशोभनम् ॥ ॥
५०।५अब्/ प्रव्रजितनग्ननापितरिपुबन्धनसौनिकैः (सूनिकैः) तथा श्वपचैः ।
५०।५य्द्/ कितवयतिपीडितैः युतमायुधमाध्वीकविक्रयैः न शुभम् ॥ ॥
(दिक्काललक्षण)
५०।६अ प्रागुत्तरेशाश्च दिशः प्रशस्ताः
५०।६ब् प्रष्टुः न वाय्वंबुयमाग्निरक्षः ।
५०।६य् पूर्वाह्नकालेऽस्ति शुभं न रात्रौ
५०।६द् सन्ध्याद्वये प्रश्नकृतोऽपराह्णे ॥ ॥
५०।७अ यात्राविधाने हि शुभाशुभं यत्
५०।७ब् प्रोक्तं निमित्तं तदिहापि वाच्यम् ।
५०।७य् दृष्ट्वा पुरो वा जनताहृतं वा
५०।७द् प्रष्टुः स्थितं पाणितलेऽथ वस्त्रे ॥ ॥
(पुंसंज्ञकानि)
५०।८अ अथांगानि ऊरू ओष्ठस्तनवृषणपादं च दशना
५०।८ब् भुजौ हस्तौ गण्डौ कचगलनखांगुष्ठमपि यत् ।
५०।८य् सशंखं कक्षांसं श्रवण (लल्षा सश्रवंअ) गुदसन्धीति पुरुषे
(स्त्रीसंज्ञकानि)
५०।८द् स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखांगुलिचयम् ॥ ॥
५०।९अ जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं
५०।९ब् जंघे नाभिः कर्णपाली कृकाटी ।
(नपुंसक)
५०।९य् वक्त्रं पृष्ठं जत्रुजानुअस्थिपार्श्वं
५०।९द् हृत्तालुअक्षी मेहनौरस्त्रिकं च ॥ ॥
५०।१०अब्/ नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैः अपरैश्चिरेण ।
५०।१०य्द्/ सिद्धिः भवेज्जातु नपुंसकैः नो रूक्षक्षतैः भग्नकृशैश्च पूर्वैः ॥ ॥
५०।११अब्/ स्पृष्टे वा चालिते वापि पादांगुष्ठेऽक्षिरुग् भवेत् ।
५०।११य्द्/ अंगुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम् ॥ ॥
५०।१२अब्/ विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिः अनर्थदा भवेत् ।
५०।१२य्द्/ स्यात् प्रियाप्तिः अभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः ॥ ॥
५०।१३अब्/ पादांगुष्ठेन विलिखेद् भूमिं क्षेत्रौत्थचिन्तया ।
५०।१३य्द्/ हस्तेन पादौ कण्डूयेत् तस्य दासीमयी (दासीमया) च सा ॥ ॥
५०।१४अब्/ तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत् कचतुषास्थिभस्मगम् ।
५०।१४य्द्/ व्याधिः आश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम् ॥ ॥
५०।१५अब्/ पिप्पलीमरिचशुण्ठिवारिदै रोध्रकुष्ठवसनांबुजीरकैः ।
५०।१५य्द्/ गन्धमांसिशतपुष्पया वदेत् पृच्छतः तगरकेण चिन्तयेत् (चिन्तनं) ॥ ॥
५०।१६अब्/ स्त्रीपुरुषदोषपीडितसर्वार्थ (अध्व) सुतार्थधान्न्यतनयानाम् ।
५०।१६य्द्/ द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैः दृष्टैः ॥ ॥
५०।१७अब्/ न्यग्रोधमधुकतिन्दुकजंबूप्लक्षाम्रबदर (बदरि) जातिफलैः ।
५०।१७य्द्/ धनकनकपुरुषलोहांशुकरूप्याउदुंबराप्तिः (उदुंबराप्तिः) अपि करगैः ॥ ॥
५०।१८अब्/ धान्यपरिपूर्णपात्रं कुंभः पूर्णः कुटुंबवृद्धिकरौ ।
५०।१८य्द्/ गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् ॥ ॥
५०।१९अब्/ पशुहस्तिमहिषपंकजरजतव्याघ्रैः लभेत दन्दृष्टैः ।
५०।१९य्द्/ अविधननिवसनमलयजकौशेयाभरणसंघातम् ॥ ॥
५०।२०अब्/ पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिः विहिता ।
५०।२०य्द्/ मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता ॥ ॥
५०।२१अब्/ शाक्यौपाध्यायार्हत् (आर्हत) निर्ग्र्अन्थि (निर्(ग्र्)अन्थ) निमित्तनिगमकैवर्तैः ।
५०।२१य्द्/ चौरचमूपतिवणिजां दासीयोधापणस्थवध्यानाम् ॥ ॥
५०।२२अब्/ तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम् ।
५०।२२य्द्/ हृद्गतं प्रच्छकस्य (पृच्छकस्य) स्यादुंछवृटौ विपन्नता ॥ ॥
५०।२३अब्/ इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते ॥ ॥
५०।२३य्द्/ संयोगकुटुंबौत्था लाभैश्वर्यौद्गता चिन्ता ॥ ॥
५०।२४अ निर्दिशेति गदिते जयाध्वजा (जयाध्वगा)
५०।२४ब् प्रत्यवेक्ष्य मम चिन्तितं वद ।
५०।२४य् आशु सर्वजनमध्यगं त्वया
५०।२४द् दृश्यतामिति च बन्धुचौरजा ॥ ॥
(चौरविज्ञान)
५०।२५अ अन्तःस्थे अंगे स्वजन उदितो बाह्यजे बाह्य एव (एवं)
५०।२५ब् पादांगुष्ठांगुलिकलनया दासदासीजनः स्यात् ।
५०।२५य् जंघे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या
५०।२५द् पाण्यंगुष्ठांगुलिचयकृतस्पर्शने पुत्रकन्ये ॥ ॥
५०।२६अब्/ मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ ।
५०।२६य्द्/ बाहू भ्राता अथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥ ॥
(अपहृतस्य लाभ)
५०।२७अब्/ अन्तरंगमवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः ।
५०।२७य्द्/ श्लेष्ममूत्रशकृतः त्यजन्त्यथो (त्यजन्नधः) पातयेत् करतलस्थवस्तु चेत् ॥ ॥
५०।२८अ भृशमवनामितांगपरिमोटनतोऽपि अथवा
५०।२८ब् जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् ।
५०।२८य् हृतपतितक्षतास्मृतविनष्टभग्नगत
५०।२८द् उन्मुषितमृताद्यनिष्टरवतो लभते न हृतम् ॥ ॥
(पीडार्तानां मरण)
५०।२९अ निगदितमिदं यत्तत् सर्वं तुषास्थिविषादिकैः
५०।२९ब् सह मृतिकरं पीडार्तानां समं रुदितक्षतैः (क्षुतैः) ।
(भोजनज्ञान)
५०।२९य् अवयवमपि स्पृष्ट्वा अन्तःस्थं दृढं मरुदाहरेद्
५०।२९द् अतिबहु तदा भुक्त्वा अन्नं संस्थितः सुहितो वदेत् ॥ ॥
५०।३०अब्/ ललाटस्पर्शनात्शूकदर्शनात्शालिजौदनम् ।
५०।३०य्द्/ उरःस्पर्शात् षष्टिक आख्यं (अन्नं) ग्रीवास्पर्शे च यावकम् ॥ ॥
५०।३१अब्/ कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः ।
५०।३१य्द्/ आस्वादयते (आस्वादयतः) चओष्ठौ लिहते मधुरं रसं ज्ञेयम् ॥ ॥
५०।३२अब्/ विसृक्के (विस्पृक्के) स्फोटयेज्जिह्वामाम्ले वक्त्रं विकूणयेत् ।
५०।३२य्द्/ कटुकेऽथ कषायेऽथ (कटुतिक्तकषायोष्णैः) हिक्केत् ष्ठीवेग सेन्धवे ॥ ॥
५०।३३अ श्लेष्मत्यागे शुष्कतिक्तं तदल्पं
५०।३३ब् श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम् ।
५०।३३य् भ्रूगण्डओष्ठस्पर्शने शाकुनं तद्
५०।३३द् भुक्तं तेनेत्युक्तमेतन् निमित्तम् ॥ ॥
५०।३४अब्/ मूर्धगलकेशहनुशंखकर्णजंघं वस्तिं च स्पृष्ट्वा ।
५०।३४य्द्/ गजमहिषमेषशूकरगोशशमृगमहिष मांसयुग् भुक्तम् ॥ ॥
५०।३५अब्/ द्षृटे श्रुतेऽपु अशकुने गोधामत्स्यामिषं वदेद् भुक्तम् ।
५०।३५य्द्/ गर्भिण्या गर्भस्य च निपतनमेवं प्रकल्पयेत् प्रश्ने ॥ ॥
(गर्भिण्या जन्म)
५०।३६अब्/ पुंस्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे ।
५०।३६य्द्/ तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् ॥ ॥
५०।३७अ अंगुष्ठेन भ्रूदरं वांगुलिं वा
५०।३७ब् स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् ।
५०।३७य् मध आज्याद्यैः हेमरत्नप्रवालैः
५०।३७द् अग्रस्थैः वा मातृधात्र्यात्मजैश्च ॥ ॥
५०।३८अ गर्भयुता जठरे करगे स्याद्
५०।३८ब् दुष्टनिमित्तवशात् तदुदासः ।
५०।३८य् कर्षति तज्जठरं यदि पीठ
५०।३८द् उत्पीडनतं करगे च करेऽपि ॥ ॥
५०।३९अब्/ घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत् ।
५०।३९य्द्/ वामेऽब्दौ (द्वौ) कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने ॥ ॥
५०।४०अ वेणीमूले त्रीन् सुतान् कन्यके द्वे
५०।४०ब् कर्णे पुत्रान् पंच हस्ते त्रयं च ।
५०।४०य् अंगुष्ठान्ते पंचकं चानुपूर्व्या
५०।४०द् पादांगुष्ठे पार्ष्णियुग्मेऽपि कन्याम् ॥ ॥
५०।४१अब्/ सव्यासव्य ऊरुसंस्पर्शे सूते कन्यासुतद्वयम् ।
५०।४१य्द्/ स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ॥ ॥
५०।४२अब्/ शिरोललाटभ्रूकर्णगण्डं हनुरदा गलम्
५०।४२य्द्/ सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ॥ ॥
(गर्भिण्याः कस्मिन् नक्षत्रे जन्तुः जन्म)
५०।४३अ उरः कुचं दक्षिणमपि असव्यं
५०।४३ब् हृत्पार्श्वमेवं जठरं कटिश्च ।
५०।४३य् स्फिक्पायुसन्धि ऊरुयुगं च जानू
५०।४३द् जंघेऽथ पादाविति कृत्तिकादौ ॥ ॥
५०।४४अ इति निगदितमेतद् गात्रसंस्पर्शलक्ष्म
५०।४४ब् प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् ।
५०।४४य् विपुलमतिरुदारो वेत्ति यः सर्वमेतन्
५०।४४द् नरपतिजनताभिः पूज्यतेऽसौ सदैव ॥ ॥
sएपरते अध्याय ५१ पिटकलक्षणाध्यायः
५१।१अब्/ सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये ।
५१।१य्द्/ ते क्रमशः प्रोक्तफाला वर्णानां नाग्रजातानां (अग्रजादीनां) ॥ ॥
५१।२अ सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद्
५१।२ब् दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां च ।
५१।२य् तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोः इष्टदृष्टिं
५१।२द् प्रव्रज्यां शंखदेशेऽश्रुजलनिपतनस्थानगा रान्ति चिन्तां (स्थानगाश्च अतिचिन्तां) ॥ ॥
५१।३अ घ्राणागण्डे वसनसुतदाश्चओष्ठयोः अन्नलाभं
५१।३ब् कुर्युः तद्वगिबुकतलगा भूरि वित्तं ललाटे ।
५१।३य् हन्वोः एवं गलकृअपदा भूषणानि अन्नपाने
५१।३द् श्रोत्रे षड्भूतण (षड्भूषण) गणमपि ज्ञानमात्मस्वरूपम् ॥ ॥
५१।४अ शिरःसन्धिग्रीवाहृदयकुचपार्श्वौरसि गता
५१।४ब् अयोघातं घातं सुततनयलाभं शुचमपि ।
५१।४य् प्रियप्राप्तिं स्कन्धेऽपि अटनमथ भिक्षार्थमसकृद्
५१।४द् विनाशं कक्षोत्था विदधति धनानां बहुमुखं (बहुसुखं) ॥ ॥
५१।५अब्/ दुःखशत्रुनिचयस्य विनाशं (विघातं) पृष्ठबाहुयुगजा रचयन्ति ।
५१।५य्द्/ संयमं च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः ॥ ॥
५१।६अ धनाप्तिं सौभाग्यं शुचमपि करांगुल्युदरगाः
५१।६ब् सुपानान्नं नाभौ तदध इह चौरैः धनहृतिम् ।
५१।६य् धनं धान्यं बस्तौ युवतिमथ मेढ्रे सुतनयान्
५१।६द् धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥ ॥
५१।७अब्/ ऊर्वोः यानानांगनालाभं जान्वोः शत्रुजनात् क्षतिम् ।
५१।७य्द्/ शस्त्रेण जंघयोः गुल्फेऽध्वबन्धक्लेशदायिनः ॥ ॥
५१।८अब्/ स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् ॥ ॥
५१।८य्द्/ बन्धनमग्गुलिनिचयेऽग्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥ ॥
५१।९अब्/ उत्पातगण्डपिटका दक्षिणतो वामतः त्वभीघाताः ।
५१।९य्द्/ धन्या भवन्ति पुंसां तद्विपरीताश्च (तु) नारीणाम् ॥ ॥
५१।१०अ इति पिटकविभागः प्रोक्त आमूर्धतोऽयं
५१।१०ब् व्रणतिलकविभागोऽपि एवमेव प्रकल्प्यः ।
५१।१०य् भवति मशकलक्ष्मावर्तजन्मापि तद्वन्
५१।१०द् निगदितफलकारि प्राणिनां देहसंस्थम् ॥ ॥
sएपरते अध्याय ५२ वास्तुविद्या
५२।१अब्/ वास्तुज्ञानमथातः कमलभवान् मुनिपरंपरायातम् ।
५२।१य्द्/ क्रियतेऽधुना मया इदम् विदग्धसांवत्सरप्रीत्यै ॥ ॥
५२।२अब्/ किमपि किल भूतमभवद् रुन्धानं रोदसी शरीरेण ।
५२।२य्द्/ तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् ॥ ॥
५२।३अब्/ यत्र च येन गृहीतं विबुधेनाधिष्ठितः स तत्रैव ।
५२।३य्द्/ तदमरमयं विधाता वास्तुनरं कल्पयामास ॥ ॥
५२।४अब्/ उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन ।
५२।४य्द्/ अष्टाष्तोनानि एवं पंच सपादानि दैर्घ्येण ॥ ॥
५२।५अब्/ षड्भिः षड्भिः हीना सेनापतिसद्मनां चतुःषष्टिः ।
५२।५य्द्/ एवं पंच गृहाणि (पंच एवं विस्तारात्) षड्भागसमन्विता दैर्घ्यम् ॥ ॥
५२।६अब्/ षष्टिश्चतुर्भिः हीना (चतुर्विहीना) वेश्मानि पंच सचिवस्य ।
५२।६य्द्/ स्वाष्टांशयुतो दैर्घ्यं तदर्धतो राजमहिषीणाम् ॥ ॥
५२।७अब्/ षड्भिः षड्भिश्चैवं युवराजस्यापवर्जिता अशीतिः ।
५२।७य्द्/ त्र्यंशान्विता च दैर्घ्यं पंच तदर्धैः तदनुजनानाम् ॥ ॥
५२।८अब्/ नृपसचिवान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम् ।
५२।८य्द्/ नृपयुवराजविशेषः कंचुकिवेश्याकलाज्ञानाम् ॥ ॥
५२।९अब्/ अध्यक्षाधिकृतानां सर्वेषां (सर्वेषामेव) कोशरतितुल्यम् ।
५२।९य्द्/ युवराजमन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम् ॥ ॥
५२।१०अब्/ चत्वारिंशद्धीना चतुश्चतुर्भिः तु पंच यावदिति ।
५२।१०य्द्/ षड्भागयुता दैर्घ्यं दैवज्ञपुरोधसोः भिषजः ॥ ॥
५२।११अब्/ वास्तुनि यो विस्तारः स एव चौच्छ्रायनिश्चयः शुभदः ।
५२।११य्द्/ शालैकेषु गृहेष्वपि विस्ताराद् द्विगुणितं दैर्घ्यम् ॥ ॥
५२।१२अब्/ चातुर्वर्ण्यव्यासो द्वात्रिंशत् सा (स्यात्) चतुश्चतुर्हीना ।
५२।१२य्द्/ आडोडशादिति परं न्यूनतरमतीव हीनानाम् ॥ ॥
५२।१३अब्/ सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम् ।
५२।१३य्द्/ षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम् ॥ ॥
५२।१४अब्/ नृपसेनापतिगृहयोः अन्तरमानेन कोशरतिभवने ।
५२।१४य्द्/ सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ॥ ॥
५२।१५अब्/ अथ पारश (पारस) वादीनां स्वमानसंयोगदलसमं भवनम् ।
५२।१५य्द्/ हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ॥ ॥
५२।१६अब्/ पश्वाश्रमिणाममितं धान्यायुधवह्निरतिगृहाणां च ।
५२।१६य्द्/ नैच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः ॥ ॥
५२।१७अब्/ सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यासे ।
५२।१७य्द्/ शाला चतुर्दशहृते पंचत्रिंशद्धृतेऽलिन्दः ॥ ॥
५२।१८अब्/ हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः ।
५२।१८य्द्/ सप्तदशत्रितयतिथित्रयोदशकृतांगुलाभ्यधिकाः ॥ ॥
५२।१९अब्/ त्रित्रिद्विद्विद्विसमाः क्षयक्रमादंगुलानि चैतेषाम् ।
५२।१९य्द्/ व्येका विंशतिः अष्टौ विंशतिः अष्टादश त्रितयम् ॥ ॥
५२।२०अब्/ शालात्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात् ।
५२।२०य्द्/ यद्यग्रतो भवति सा सोष्णीषं नाम तद्वास्तु ॥ ॥
५२।२१अब्/ सायाश्रयमिति पश्चात् सावष्टंभं तु पार्श्वसंस्थितया ।
५२।२१य्द्/ सुस्थितमिति च समन्तात्शास्त्रज्ञैः पूजिताः सर्वाः ॥ ॥
५२।२२अब्/ विस्तारषोडशांशः सचतुर्हस्तो भवेद् गृहौच्छ्रायः ।
५२।२२य्द्/ द्वादशभागेनोनो भूमौ भूमौ समस्तानाम् ॥ ॥
५२।२३अब्/ व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः ।
५२।२३य्द्/ पक्वैष्टकाकृतानां दारुकृतानां तु न विकल्पः (सविकल्पः, न विकल्पः) ॥ ॥
५२।२४अब्/ एकादशभागयुतः ससप्ततिः नृपबलेशयोः व्यासः ।
५२।२४य्द्/ उच्छ्रायो अंगुलतुल्यो द्वारस्यार्धेन विष्कंभः ॥ ॥
५२।२५अब्/ विप्रादीनां व्यासात् पंचांशोऽष्टादशांगुलसमेतः ।
५२।२५य्द्/ साष्टांशो विष्कंभो द्वारस्य त्रिगुण उच्छ्रायः ॥ ॥
५२।२६अब्/ उच्छ्रायहस्तसंख्यापरिमाणानि अंगुलानि बाहुल्यम् ।
५२।२६य्द्/ शाखाद्वयेऽपि कार्यं सार्धं तत् स्यादुदुंबरयोः ॥ ॥
५२।२७अब्/ उच्छ्रायात् सप्तगुणादशीतिभागः पृथुत्वमेतेषाम् ।
५२।२७य्द्/ नवगुणितेऽशीत्यंशः स्तंभस्य दशांशहीनोऽग्रे ॥ ॥
५२।२८अब्/ समचतुरस्रो (समचतुरश्रो) रुचको वज्रोऽष्टास्रिः (अष्टाश्रिः) द्विवज्रको द्विगुणः ।
५२।२८य्द्/ द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः ॥ ॥
५२।२९अब्/ स्तंभं विभज्य नवधा वहनं भागो घटोऽस्य भागोऽन्यः ।
५२।२९य्द्/ पद्मं तथा उत्तरोष्ठं कुर्याद् भागेन भागेन ॥ ॥
५२।३०अब्/ स्तंभसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम् ।
५२।३०य्द्/ भवति तुला उपतुलानामूनं पादेन पादेन ॥ ॥
५२।३१अब्/ अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् ।
५२।३१य्द्/ नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिः अपि ॥ ॥
५२।३२अब्/ नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः ।
५२।३२य्द्/ द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥ ॥
५२।३३अब्/ द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभः ततश्चान्यः ।
५२।३३य्द्/ तस्मिंश (तद्वद्) च वर्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ ॥
५२।३४अब्/ अपरोऽन्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ ।
५२।३४य्द्/ तदवधिविधृतः (विवृतः) चान्यः प्राग्द्वारं स्वस्तिके शुभदं (ऽशुभदं) ॥ ॥
५२।३५अब्/ प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ ।
५२।३५य्द्/ रुचके द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥ ॥
५२।३६अब्/ श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमानसंज्ञं च ।
५२।३६य्द्/ स्वस्तिकरुचके मध्ये शेषं शुभदं नृपादीनाम् ॥ ॥
५२।३७अब्/ उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम् ।
५२।३७य्द्/ प्राक्षालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ॥ ॥
५२।३८अब्/ याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमेतत् ।
५२।३८य्द्/ पक्षघ्नमपरया वर्जितं सुतध्वंसवैरकरम् ॥ ॥
५२।३९अब्/ सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले ।
५२।३९य्द्/ दण्डाख्यमुदक्पूर्वे वाताख्यं प्राग्युता याम्या ॥ ॥
५२।४०अब्/ पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् ।
५२।४०य्द्/ सिद्धार्थेऽर्थावाप्तिः यमसूर्ये गृहपतेः मृत्युः ॥ ॥
५२।४१अब्/ दण्डवधो दण्डाख्ये कलहौद्वेगः सदैव वाताख्ये ।
५२।४१य्द्/ वित्तविनाशश्चुल्ल्यां ज्ञातिविरोधः स्मृतः काचे ॥ ॥
५२।४२अब्/ एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः ।
५२।४२य्द्/ अन्तः त्रयोदश सुरा द्वात्रिंशद्बाह्यकोष्ठस्थाः ॥ ॥
५२।४३अब्/ शिखिपर्जन्यजयन्तेन्द्रसूर्यसत्या भृशोऽन्तरिक्षश्च ।
५२।४३य्द्/ ऐशान्यादि (ऐशान्याद्याः) क्रमशो दक्षिणपूर्वेऽनिलः कोणे ॥ ॥
५२।४४अब्/ पूषा वितथबृहत्क्षतयमगन्धर्वाख्यभृंगराजमृगाः ।
५२।४४य्द्/ पितृदौवारिकसुग्रीवकुसुमदन्तांबुपत्यसुराः ॥ ॥
५२।४५अब्/ शोषोऽथ पापयक्ष्मा रोगः कोणे ततोऽहिमुख्यौ च ।
५२।४५य्द्/ भल्लाटसोमभुजगाः ततोऽदितिः दितिः इति क्रमशः ॥ ॥
५२।४६अब्/ मध्ये ब्रह्मा नवकोष्ठकाधिपोऽस्यार्यमा स्थितः प्राच्याम् ।
५२।४६य्द्/ एकान्तरात् प्रदक्षिणमस्मात् सविता विवस्वांश्च ॥ ॥
५२।४७अब्/ विबुधाधिपतिः तस्मान् मित्रोऽन्यो राजयक्ष्मनामा च ।
५२।४७य्द्/ पृथिवी (पृथ्वी) धरापवत्सावित्येते ब्रह्मणह् परिधौ ॥ ॥
५२।४८अब्/ आपो नामैशाने कोणे हौताशने च सावित्रः ।
५२।४८य्द्/ जय इति च नैरृते रुद्र आनिलेऽभ्यन्तरपदेषु ॥ ॥
५२।४९अब्/ आपः तथापवत्सः पर्जन्योऽग्निः दितिश्च वर्गोऽयम् ।
५२।४९य्द्/ एवं कोणे कोणे पदिकाः स्युः पंच पंच सुराः ॥ ॥
५२।५०अब्/ बाह्या द्विपदाः शेषाः ते विबुधा विंशति समाख्याताः ।
५२।५०य्द्/ शेषाश्चत्वारोऽन्ये त्रिपदा दिक्ष्वर्यमाद्याः ते ॥ ॥
५२।५१अब्/ पूर्वोत्तरदिग्मूर्धा पुरुषोऽयमवान्मुखोऽस्य शिरसि शिखी ।
५२।५१य्द्/ आपो मुखे स्तनेऽस्यार्यमा ह्युरस्यापवत्सश्च ॥ ॥
५२।५२अब्/ पर्जन्याद्या बाह्या दृक्ष्रवणौरःस्थलांसगा देवाः ।
५२।५२य्द्/ सत्याद्याः पंच भुजे हस्ते सविता च सावित्रः (ससावित्रः) ॥ ॥
५२।५३अब्/ वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च ।
५२।५३य्द्/ ऊरू जानु च जंघे स्फिग् इति यमाद्यैः परिगृहीताः ॥ ॥
५२।५४अब्/ एते दक्षिणपार्श्वे स्थानेष्वेवं च वामपार्श्वस्थाः ।
५२।५४य्द्/ मेढ्रे शक्रजयन्तौ हृदये ब्रह्मा पिता अंघ्रिगतः (अंग्रिगतः) ॥ ॥
५२।५५अब्/ अष्टाष्टकपदमथवा कृत्वा रेखाश्च कोणगाः तिर्यक् ।
५२।५५य्द्/ ब्रह्मा चतुष्पदोऽस्मिन् अर्धपदा ब्रह्मकोणस्थाः ॥ ॥
५२।५६अब्/ अष्तौ च बहिष्कोणेष्वर्धपदाः तदुभयस्थिताः सार्धाः ।
५२।५६य्द्/ उक्तेभ्यो ये शेषाः ते द्विपदा विंशतिः ते हि (च) ॥ ॥
५२।५७अब्/ सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् ।
५२।५७य्द्/ मर्माणि तानि विन्द्यान् न तानि परिपीडयेत् (विन्द्यान्न् अपरिपीडयेत्) प्राज्णः ॥ ॥
५२।५८अब्/ तानि अशुचिभाण्डकीलस्तंभाद्यैः पीडितानि शल्यैश्च ।
५२।५८य्द्/ गृहभर्तुः तत्तुल्ये पीडामंगे प्रयच्छन्ति ॥ ॥
५२।५९अब्/ कण्डूयते यदंगं गृहभर्तुः (गृहपतिना) यत्र वा अमराहुत्याम् ।
५२।५९य्द्/ अशुभं भवेन् निमित्तं विकृतेः वा अग्नेः सशल्यं तत् ॥ ॥
५२।६०अब्/ धनहानिः दारुमये पशुपीडा रुग्भयानि चास्थिकृते ।
% ट्वो वेर्से इन्सेर्तेद्
५३।६०य्द्/ लोहमये शस्त्रभयं कपालकेशेषु मृत्युः स्यात् ॥ ॥
५३।६१अब्/ अग्गारे स्तेनभयं भस्मनि च विनिर्दिशेत् सदाग्निभयम् ।
५३।६१य्द्/ शल्यं हि मर्मसंस्थं सुवर्णरजतादृतेऽत्यशुभम् ॥ ॥
५३।६२अब्/ मर्मण्यमर्मगो वा रुणद्ध्यर्थागमं तुषसमूहः) ।
५२।६०य्द्/ अपि नागदन्तको मर्मसंस्थितो दोषकृद् भवति ॥ ॥
५२।६१अब्/ रोगाद् वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात् ।
५२।६१य्द्/ मुख्याद् भृशं जयन्ताग भृंगमदितेश्च सुग्रीवम् ॥ ॥
५२।६२अब्/ तत्सम्पाता नव ये तानि अतिमर्माणि सम्प्रदिष्टानि ।
५२।६२य्द्/ यश्च पदस्याष्टांशः तत् प्रोक्तं मर्मपरिमाणम् ॥ ॥
५२।६३अब्/ पदहस्तसंख्यया सम्मितानि वंशो अंगुलानि विस्तीर्णः ।
५२।६३य्द्/ वंशव्यासोऽध्यर्धः शिराप्रमाणं विनिर्दिष्टम् ॥ ॥
५२।६४अब्/ सुखमिच्छन् ब्रह्माणं यत्नाद् रक्षेद् गृही गृहान्तःस्थं (गृतान्तस्थं) ।
५२।६४य्द्/ उच्छिष्टाद्युपघाताद् गृहपतिरुपतप्यते तस्मिन् ॥ ॥
५२।६५अब्/ दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयो अंगनादादोषाः (अंगनादोषाः) ।
५२।६५य्द्/ वामेऽर्थधान्यहानिः शिरसि गुणैः हीयते सर्वैः ॥ ॥
५२।६६अब्/ स्त्रीदोषाः सुतमरणं प्रेष्यत्वं चापि चरणवैकल्ये ।
५२।६६य्द्/ अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि ॥ ॥
५२।६७अब्/ गृहनगरग्रामेषु च सर्वत्रैवं प्रतिष्ठिता देवाः ।
५२।६७य्द्/ तेषु च यथानुरूपं वर्णा विप्रादयो वास्याः ।
५२।६८अब्/ वासगृहाणि च विन्द्याद् विप्रादीनामुदग्दिगाद्यानि ।
५२।६८य्द्/ विशतां च यथा भवनं भवन्ति तानि एव दक्षिणतः ॥ ॥
५२।६९अब्/ नवगुणसूत्रविभक्तानि अष्टगुणेनाथवा चतुःषष्टेः ।
५२।६९य्द्/ द्वाराणि यानि तेषामनलादीनां फलोपनयः ॥ ॥
५२।७०अब्/ अनिलभयं स्त्रीजननं (स्त्रीजन्म) प्रभूतघनता नरेन्द्रवाल्लभ्यम् ।
५२।७०य्द्/ क्रोधपरतानृतत्वं क्रौर्यं चौर्यं च पूर्वेण ॥ ॥
५२।७१अब्/ अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतविऋद्धिः ।
५२।७१य्द्/ रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन ॥ ॥
५२।७२अब्/ सुतपीडा रिपुवृद्धिः न सुतधनाप्तिः (धनस्ताप्तिः) सुतार्थफलसम्पत् ।
५२।७२य्द्/ धनसम्पन् नृपतिभयं धनक्षयो रोग इत्यपरे ॥ ॥
५२।७३अब्/ वधबन्धो रिपुवृद्धिः सुतधनलाभः (धनसुतलाभः) समस्तगुणसम्पत् ।
५२।७३य्द्/ पुत्रधनाप्तिः वैरं सुतेन दोषाः स्त्रिया नैःस्वम् ॥ ॥
५२।७४अब्/ मार्गतरुकोणकूपस्तंभभ्रमविद्धमशुब्भदं द्वारम् ।
५२।७४य्द्/ उच्छ्रायाद् द्विगुणमितां त्यक्त्वा भूमिं न दोषाय ॥ ॥
५२।७५अब्/ रथ्याविद्धं द्वारं नाशाय कुमारदोषदं तरुणा ।
५२।७५य्द्/ पंकद्वारे शोको व्ययोऽंबुनिःस्राविणि (अंबुनि श्राविणि) प्रोक्तः ॥ ॥
५२।७६अब्/ कूपेनापस्मारो भवति विनाशश्च देवताविद्धे ।
५२।७६य्द्/ स्तंभेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे (ब्राह्मणोऽभिमुखे) ॥ ॥
५२।७७अब्/ उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः ।
५२।७७य्द्/ मानाधिके नृपभयं दस्युभयं व्यसनमेव नीचे च (व्यसनदं नीचं) ॥ ॥
५२।७८अब्/ द्वारं द्वारस्यौपरि यत्तन् न शिवाय संकटं यच्च ।
५२।७८य्द्/ आव्यात्तं क्षुद्भयदं कुब्जं कुलनाशनं भवति ॥ ॥
५२।७९अब्/ पीडाकरमतिपीडितमन्तर्विनतं भवेदभावाय ।
५२।७९य्द्/ बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा ॥ ॥
५२।८०अब्/ मूलद्वारं नान्यैः द्वारैः अभिसन्दधीत रूपऋद्ध्या ।
५२।८०य्द्/ घटफलपत्रप्रमथादिभिश्च तन्मंगलैश्चिनुयात् ॥ ॥
५२।८१अब्/ ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः ।
५२।८१य्द्/ चरकी विदारिनामा अथ पूतना राक्षसी चेति ॥ ॥
५२।८२अब्/ पुरभवनग्रामाणां ये कोणाः तेषु निवसतां दोषाः ।
५२।८२य्द्/ श्वपचादयोऽन्त्यजात्याः तेष्वेव विवृद्धिमायान्ति ॥ ॥
५२।८३अब्/ याम्यादिष्वशुभफला जाताः तरवः प्रदक्षिणेनैते ।
५२।८३य्द्/ उदगादिषु प्रशस्ताः प्लक्षवटौदुंबराश्वत्था (उदुंबराक्ष्वत्थाः) ॥ ॥
५२।८४अब्/ आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय ।
५२।८४य्द्/ फलिनः प्रजाक्षयकरा दारूणि अपि वर्जयेदेषाम् ॥ ॥
५२।८५अब्/ छिन्द्याद् यदि न तरूंश्तान् तदन्तरे पूजितान् वपेदन्यत् (अन्यान्) ।
५२।८५य्द्/ पुन्नागाशोकारिष्टबकुलपनसान् शमीशालौ ॥ ॥
५२।८६अ शस्तौषधिद्रुमलता मधुरा सुगन्धा
५२।८६ब् स्निग्धा समा न सुषिरा च मही नराणाम् ।
५२।८६य् अप्यध्वनि श्रमविनोदमुपागतानां
५२।८६द् धत्ते श्रियं किमुत शाश्वतमन्दिरेषु ॥ ॥
५२।८७अब्/ सचिवालयेऽर्थनाशो धूर्तगृहे सुतवधः समीपस्थे ।
५२।८७य्द्/ उद्वेगो देवकुले चतुष्पदे (चतुष्पथे) भवति चाकीर्तिः ॥ ॥
५२।८८अब्/ चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसंकुले विपदः ।
५२।८८य्द्/ गर्तायां तु पिपासा कूर्माकारे धनविनाशः ॥ ॥
५२।८९अब्/ उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव ।
५२।८९य्द्/ विप्रः सर्वत्र वसेदनुवर्णमथैष्टमन्येषाम् ॥ ॥
५२।९०अब्/ गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् ।
५२।९०य्द्/ यद्यूनमनिष्टं तत् समे समं धन्यमधिकं यत् ॥ ॥
५२।९१अब्/ श्वभ्रमथवा अंबुपूर्णं पदशतमित्वागतस्य यदि नोनम् ।
५२।९१य्द्/ तद्धन्यं यच्च भवेत् पलानि अपामाढकं चतुःषष्टिः ॥ ॥
५२।९२अब्/ आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिः अभ्यधिकम् ।
५२।९२य्द्/ ज्वलति दिशि यस्य शस्ता सा भूमिः तस्य वर्णस्य ॥ ॥
५२।९३अब्/ श्वभ्रोषितं न कुसुमं यस्य (यस्मिन्) प्रम्लायतेऽनुवर्णसमम् ।
५२।९३य्द्/ तत्तस्य भवति शुभदं यस्य च यस्मिन् मनो रमते ॥ ॥
५२।९४अब्/ सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः ।
५२।९४य्द्/ गन्धश्च भवति यस्यां (यस्या) घृतरुधिरान्नाद्यमद्यसमः ॥ ॥
५२।९५अब्/ कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रेमेण मही ।
५२।९५य्द्/ ह्यनुवर्णं (अनुवर्णं) वृद्धिकरी मधुरकषायाम्लकटुका च ॥ ॥
५२।९६अब्/ कृष्टां प्ररूढबीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च ।
५२।९६य्द्/ गत्वा महीं गृहपतिः काले सांवत्सरोद्दिष्टे ॥ ॥
५२।९७अब्/ भक्ष्यैः नानाकारैः दध्यक्षतसुरभिकुसुमधूपैश्च ।
५२।९७य्द्/ दैवतपूजां कृत्वा स्थपतीन् अभ्यर्च्य विप्रांश्च ॥ ॥
५२।९८अब्/ विप्रः स्पृष्ट्वा शीर्षं वक्षश्च क्षत्रियो विशाश्च ऊरू ।
५२।९८य्द्/ शूद्रः पादौ स्पृष्ट्वा कुर्याद् रेखां गृहारंभे ॥ ॥
५२।९९अब्/ अंगुष्ठकेन कुर्यान् मध्यांगुल्याऽथवा प्रदेशिन्या ।
५२।९९य्द्/ कनकमणिरजतमुक्तादधिकफलकुसुमाक्षतैश्च शुभम् ॥ ॥
५२।१००अब्/ शस्त्रेण शस्त्रमृत्युः बन्धो लोहेन भस्मनाग्निभयम् ।
५२।१००य्द्/ तस्करभयं तृणेन च काष्ठौल्लिखिता च राजभयम् ॥ ॥
५२।१०१अब्/ वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च ।
५२।१०१य्द्/ चर्मांगारास्थिकृता दन्तेन च भर्तुः (कर्तुः) अशिवाय ॥ ॥
५२।१०२अब्/ वैरमपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः ।
५२।१०२य्द्/ वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम् ॥ ॥
५२।१०३अब्/ अर्धनिचितं कृतं वा प्रविशन् स्थपतिः गृहे निमित्तानि ।
५२।१०३य्द्/ अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति किं चांगम् ॥ ॥
५२।१०४अब्/ रविदीप्ते यदि शकुनिः तस्मिन् काले विरौति परुषरवं (परुषरवः) ।
५२।१०४य्द्/ संस्पृष्टांगसमानं तस्मिन् देशेऽस्थि निर्देश्यम् ॥ ॥
५२।१०५अब्/ शकुनसमयेऽथ्वाऽन्ये हस्त्यश्वश्वादयोऽनुवाशन्ते ।
५२।१०५य्द्/ तत्प्रभवमस्थि तस्मिं तदंगसंभूतमेवैति ॥ ॥
५२।१०६अब्/ सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे ।
५२।१०६य्द्/ श्वशृगाललंघिते वा सूत्रे शल्यं विनिर्देश्यम् ॥ ॥
५२।१०७अब्/ दिशि शान्तायां शकुनिः (शकुनो) मधुरविरावी यदा तदा वाच्यः ।
५२।१०७य्द्/ अर्थः तस्मिन् स्थाने गृहेश्वराधिष्ठिते अंगे वा ॥ ॥
५२।१०८अब्/ सूत्रच्छेदे मृत्युः कीले चावान्मुखे महगः (महान् रोगः) ।
५२।१०८य्द्/ गृहनाथस्थपतीनां स्मृतिलोपे मृत्युः आदेश्यः ॥ ॥
५२।१०९अब्/ स्कन्धाग्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुंभे ।
५२।१०९य्द्/ भग्नेऽपि च कर्मिवधश्च्युते कराद् गृहपतेः मृत्युः ॥ ॥
५२।११०अब्/ दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत् प्रथमं (प्रथमां) ।
५२।११०य्द्/ शेषाः प्रदक्षिणेन स्तंभाश्चैवं समुत्थाप्य (समुत्थाप्याः) ॥ ॥
५२।१११अब्/ छत्रस्रगंबरयुतः कृतधूपविलेपनः समुत्थाप्यः ।
५२।१११य्द्/ स्तंभः तथैव कार्यो द्वारोच्छ्रायः प्रयत्नेन ॥ ॥
५२।११२अब्/ विहगादिभिः अवलीनैः आकंपितपतितदुःस्थितैश्च तथा (फलं) ।
५२।११२य्द्/ शक्रध्वजसदृशफलं तदेव तस्मिन् (सदृशं तस्मिंश्च शुभं) विनिर्दिष्टम् ॥ ॥
५२।११३अब्/ प्रागुत्तरौन्नते धनसुतक्षयः सुतवधश्च दुर्गन्धे ।
५२।११३य्द्/ वक्रे ब्न्धुविनाशो न सन्ति गर्भाश्च दिन्मूढे ॥ ॥
५२।११४अब्/ इच्छेद् यदि गृहवृद्धिं ततः समन्ताद् विवर्धयेत् तुल्यम् ।
५२।११४य्द्/ एकौद्देशे दोषः प्राग् अथवाऽपि उत्तरे कुर्यात् ॥ ॥
५२।११५अब्/ प्राग् भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः ।
५२।११५य्द्/ अर्थविनाशः पश्चादुदग्विवृद्धिः (उदग्विवृद्धौ) मनस्तापः ॥ ॥
५२।११६अब्/ ऐशान्यां देवहृहं महानसं यदि चापि कार्यमाग्नेय्याम् ।
५२।११६य्द्/ नैरृत्यां भाण्डौपस्करोऽर्थधान्यानि मारुत्याम् ॥ ॥
५२।११७अब्/ प्राच्यादिस्थे सलिले सुतहानिः शिखिभयं रिपुभयं च ।
५२।११७य्द्/ स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं वित्तात्मजविवृद्धिः ॥ ॥
५२।११८अब्/ खगनिलयभग्नसंशुष्कदग्धदेवालयश्मशानस्थान् ।
५२।११८य्द्/ क्षीरतरुधवविभीतकनिंबारणिवर्जितान् छिन्द्यात् (वर्जितांश्च्छिन्द्यात्) ॥ ॥
५२।११९अब्/ रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद् दिवा वृक्षम् ।
५२।११९य्द्/ धन्यमुदक्प्राक्पततं न ग्राह्योऽतोऽन्यथा पतितः ॥ ॥
५२।१२०अब्/ छेदो यद्यविकारी ततः शुभं दारु तद्गृहौपयिकम् ।
५२।१२०य्द्/ पीते तु मण्डले निर्दिशेत् तरोः मध्यगां गोधाम् ॥ ॥
५२।१२१अब्/ मञ्जिष्ठाभे भेको नीले सर्पः तथाऽरुणे सरटः ।
५२।१२१य्द्/ मुद्गाभेऽश्मा कपिले तु मूषकोऽंभश्च खड्गाभे ॥ ॥
५२।१२२अब्/ धान्यगोगुरुहुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम् ।
५२।१२२य्द्/ नौत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन् ॥ ॥
५२।१२३अब्/ भूरिपुष्पविकरं (निकरं) सतोरणं तोयपूर्णकलशौपशोभितम् ।
५२।१२३य्द्/ धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेद् गृहम् ॥ ॥
sएपरते अध्याय ५३ दकार्गलाध्यायः
५३।१अब्/ धर्म्यं यशस्यं च वदाम्यतोऽहं दकार्गलं (दगार्गलं) येन जलोपलब्धिः ।
५३।१य्द्/ पुंसां यथांगेषु शिराः तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः ॥ ॥
५३।२अब्/ एकेन वर्णेन रसेन चांभश्च्युतं नभस्तो वसुधाविशेषात् ।
५३।२य्द्/ नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यमेव ॥ ॥
५३।३अब्/ पुरुहूतानलयमनिरृतिवरुणपवनेन्दुशंकरा देवाः ।
५३।३य्द्/ विज्ञातव्याः क्रमशः प्राच्याद्यानां दिशां पतयः ॥ ॥
५३।४अब्/ दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी ।
५३।४य्द्/ एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥ ॥
५३।५अब्/ पातालादूर्ध्वशिरा शुभा (ऊर्ध्वशिराः शुभाः) चतुर्दिक्षु संस्थिता याश्च ।
५३।५य्द्/ कोणदिगुत्था न शुभाः शिरानिमित्तानि अतो वक्ष्ये ॥ ॥
५३।६अब्/ यदि वेतसोऽंबुरहिते देशे हस्तैः त्रिभिः ततः पश्चात् ।
५३।६य्द्/ सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥ ॥
५३।७अब्/ चिह्नमपि चार्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता ।
५३।७य्द्/ पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥ ॥
५३।८अब्/ जंब्वाश्चौदग् धस्तैः त्रिभिः शिराधो नरद्वये पूर्वा ।
५३।८य्द्/ मृल्लोहगन्धिका पाण्डुरा च (अथ) पुरुषेऽत्र मण्डूकः ॥ ॥
५३।९अब्/ जंबूवृक्षस्य प्राग् वल्मीको यदि भवेत् समीपस्थः ।
५३।९य्द्/ तस्माद् दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ॥ ॥
५३।१०अब्/ अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः ।
५३।१०य्द्/ मृद् भवति चात्र नीला दीर्घं कालं च बहु तोयम् ॥ ॥
५३।११अब्/ पश्चादुदुंबरस्य त्रिभिः एव करैः नरद्वये सार्धे ।
५३।११य्द्/ पुरुषे सितोऽहिरश्माञ्जनौपंप्ऽधः शिरा सुजला ॥ ॥
५३।१२अब्/ उदग् अर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद् धस्तैः ।
५३।१२य्द्/ त्रिभिः अंबु भवति पुरुषैः त्रिभिः अर्धसमन्वितैः पश्चात् ॥ ॥
५३।१३अब्/ श्वेता गोधार्धनरे पुरुषे मृद् धूसरा ततः कृष्णा ।
५३।१३य्द्/ पीता सिता ससिकता ततो जलं निर्दिशेदमितम् ॥ ॥
५३।१४अब्/ वल्मीकौपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः ।
५३।१४य्द्/ पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम् ॥ ॥
५३।१५अब्/ रोहितमत्स्योऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः ।
५३।१५य्द्/ सिकता सशर्कराऽथ क्रमेण परतो भवत्यंभः ॥ ॥
५३।१६अब्/ पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् ।
५३।१६य्द्/ पुरुषैः त्रिभिः आदेश्यं श्वेता गृहगोधिकार्धनरे ॥ ॥
५३।१७अब्/ सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति ।
५३।१७य्द्/ पुरुषत्रये सपादे पुरुषेऽत्र च दुण्डुभः (दुण्डुभिः) चिह्नम् ॥ ॥
५३।१८अब्/ विल्व (बिल्व) उदुंबरयोगे विहाय हस्तत्रयं तु याम्येन ।
५३।१८य्द्/ पुरुषैः त्रिभिः अंबु भवेत् कृष्णोऽर्धनरे च मण्डूकः ॥ ॥
५३।१९अब्/ काकौदुंबरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
५३।१९य्द्/ पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ॥ ॥
५३।२०अब्/ आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः ।
५३।२०य्द्/ पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ ॥
५३।२१अब्/ जलपरिहीने देशे वृक्षः कंपिल्लको यदा दृश्यः ।
५३।२१य्द्/ प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ॥ ॥
५३।२२अब्/ मृन्नीलोत्पलवर्णा कापोता दृश्यते ततः (चैव दृश्यते) तस्मिन् ।
५३।२२य्द्/ हस्ते ऽजगन्धको मत्स्यकः (ऽजगन्धिमत्स्यो भवति) पयोऽल्पं च सक्षारम् ॥ ॥
५३।२३अब्/ शोणाकतरोः अपरोत्तरे शिरा द्वौ करावतिक्रम्य ।
५३।२३य्द्/ कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ॥ ॥
५३।२४अब्/ आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि ।
५३।२४य्द्/ अध्यर्धे भवति (तस्य) शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ ॥
५३।२५अब्/ तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद् धस्ते ।
५३।२५य्द्/ तत्रौदग् भवति शिरा चतुर्भिः अर्धाधिकैः पुरुषैः ॥ ॥
५३।२६अब्/ श्वेतो विश्वंभरकः प्रथमे पुरुषे तु कुंकुमाभोऽश्मा ।
५३।२६य्द्/ अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥ ॥
५३।२७अब्/ सकुशः सित (सकुशासित) ऐशान्यां वल्मीको यत्र कोविदारस्य ।
५३।२७य्द्/ मध्ये तयोः नरैः अर्धपंचमैः तोयमक्षोभ्यम् ॥ ॥
५३।२८अब्/ प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता ।
५३।२८य्द्/ कुरुविन्दः पाषाणश्चिह्नानि एतानि वाच्यानि ॥ ॥
५३।२९अब्/ यदि भवति सप्तपर्णो वल्मीकवृतः तदुत्तरे तोयम् ।
५३।२९य्द्/ वाच्यं पुरुषैः पंचभिः अत्रापि भवन्ति चिह्नानि ॥ ॥
५३।३०अब्/ पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च ।
५३।३०य्द्/ पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभांबुवहा ॥ ॥
५३।३१अब्/ सर्वेषां वृक्षाणामधः स्थितो दर्दुरो यदा दृश्यः ।
५३।३१य्द्/ तस्माद् धस्ते तोयं चतुर्भिः अर्धाधिकैः पुरुषैः ॥ ॥
५३।३२अब्/ पुरुषे तु भवति नकुलो नीलो मृत्पीतिका ततः श्वेता ।
५३।३२य्द्/ दर्दुरसमानरूपः पाषाणो दृश्यते चात्र ॥ ॥
५३।३३अब्/ यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य ।
५३।३३य्द्/ हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे ॥ ॥
५३।३४अब्/ कच्छपकः पुरुषार्धे प्रथमं चौद्भिद्यते शिरा पूर्वा ।
५३।३४य्द्/ उदग् अन्या स्वादुजला हरितोऽश्माधः ततः तोयम् ॥ ॥
५३।३५अब्/ उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोः तोयम् ।
५३।३५य्द्/ परिहृत्य पंच हस्तान् अर्धाष्टमपौरुषान् (पौरुषे) प्रथमम् ॥ ॥
५३।३६अब्/ अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलुत्थ (कुलत्त) वर्णोऽश्मा ।
५३।३६य्द्/ माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम् ॥ ॥
५३।३७अब्/ वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत् ।
५३।३७य्द्/ पुरुषैः पंचभिः अंभो दिशि वारुण्यां शिरा पूर्वा ॥ ॥
५३।३८अब्/ सर्पावासः पश्चाद् यदा कदंबस्य दक्षिणेन जलम् ।
५३।३८य्द्/ परतो हस्तत्रितयात् षड्भिः पुरुषैः तुरीयोनैः ॥ ॥
५३।३९अब्/ कौबेरी चात्र शिरा वहति जलं लोहगन्धि चाक्षोभ्यम् ।
५३।३९य्द्/ कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ॥ ॥
५३।४०अब्/ वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा ।
५३।४०य्द्/ पश्चात् षड्भिः हस्तैः नरैश्चतुर्भिः शिरा याम्या ॥ ॥
५३।४१अब्/ याम्येन कपित्थस्याहिसंश्रयश्चेदुदग् जलं वाच्यम् ।
५३।४१य्द्/ सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पंच ॥ ॥
५३।४२अब्/ कर्बुरकोऽहिः पुरुषे कृष्णा मृत् पुटभिदपि च पाषाणः ।
५३।४२य्द्/ श्वेता मृत् पश्चिमतः शिरा ततश्चौत्तरा भवति ॥ ॥
५३।४३अब्/ अश्मन्तकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा ।
५३।४३य्द्/ षड्भिरुदक् तस्य करैः सार्धे पुरुषत्रये तोयम् ।
५३।४४अब्/ कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् ।
५३।४४य्द्/ आदौ च शिरा (शिरा च) याम्या पूर्वोत्तरतो द्वितीया च ॥ ॥
५३।४५अब्/ वामेन हरिद्रतरोः वल्मीकश्चेज्जलं भवति पूर्वे (चेत् ततो जलं) ।
५३।४५य्द्/ हस्तत्रितये सत्र्यंशैः पुंभिः (पुरुषैः सत्र्यंशैः) पंचभिः भवति ॥ ॥
५३।४६अब्/ नीलो भुजगः पुरुषे मृत् पीता मरकतौपमश्चाश्मा ।
५३।४६य्द्/ कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ॥ ॥
५३।४७अब्/ जलपरिहीने देशे दृश्यन्तेऽनूपजानि चेन् निमितानि (चिह्नानि) ।
५३।४७य्द्/ वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ॥ ॥
५३।४८अब्/ भार्ंगी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा चैव ।
५३।४८य्द्/ नवमालिका च हस्तद्वयेऽंबु याम्ये त्रिभिः पुरुषैः ॥ ॥
५३।४९अब्/ स्निग्धाः प्रलंबशाखा वामनविकट (विट) द्रुमाः समीपजलाः ।
५३।४९य्द्/ सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ॥ ॥
५३।५०अब्/ तिलकाम्रातकवरुणकभल्लातकविल्व (बिल्व) तिन्दुकांकोलाः (अग़्कोल्लाः) ।
५३।५०य्द्/ पिण्डारशिरीषाञ्जनपरूषका वञ्जुलोऽतिबला (वञ्जुरातिबला) ॥ ॥
५३।५१अब्/ एते यदि सुस्निग्धा वल्मीकैः परिवृताः ततः तोयम् ।
५३।५१य्द्/ हस्तैः त्रिभिरुत्तरतश्चतुर्भिः अर्धेन च नरेण (नरस्य) ॥ ॥
५३।५२अब्/ अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र ।
५३।५२य्द्/ तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन् ॥ ॥
५३।५३अब्/ कण्टक्यकण्टकानां व्यत्यासेऽंभः त्रिभिः करैः पश्चात् ।
५३।५३य्द्/ खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ॥
५३।५४अब्/ नदति मही गंभीरं यस्मिंश्चरणाहता जलं तस्मिन् ।
५३।५४य्द्/ सार्धैः त्रिभिः मनुष्यैः कौबेरी तत्र च शिरा स्यात् ॥ ॥
५३।५५अब्/ वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।
५३।५५य्द्/ विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥ ॥
५३।५६अब्/ फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिः हस्तैः ।
५३।५६य्द्/ भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ॥ ॥
५३।५७अब्/ यदि कण्टकारिका कण्टकैः विना दृश्यते सितैः कुसुमैः ।
५३।५७य्द्/ तस्याः तलेऽंबु वाच्यं त्रिभिः नरैः अर्धपुरुषे च ॥ ॥
५३।५८अब्/ खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।
५३।५८य्द्/ तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैः (त्रिपुरुषे) वारि ॥ ॥
५३।५९अब्/ यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा ।
५३।५९य्द्/ सव्येन तत्र हस्तद्वयेऽंबु पुरुषद्वये (पुरुषत्रये) भवति ॥ ॥
५३।६०अब्/ यस्याम् ऊष्मा (ऊष्मा यस्यां) धात्र्यां धूमो वा तत्र वारि नरयुगले (नरयुग्मे) ।
५३।६०य्द्/ निर्देष्टव्या च शिरा महता तोयप्रवाहेण ॥ ॥
५३।६१अब्/ यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति ।
५३।६१य्द्/ स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥ ॥
५३।६२अब्/ मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि ।
५३।६२य्द्/ ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ॥ ॥
५३।६३अब्/ पूर्वोत्तरेण पीलोः यदि वल्मीको जलं भवति पश्चात् ।
५३।६३य्द्/ उत्तरगमना च शिरा विज्ञेया पंचभिः पुरुषैः ॥ ॥
५३।६४अब्/ चिह्नं दर्दुर आदौ मृत् कपिला तत्परं (मृत्कपिलातः परं) भवेद् धरिता ।
५३।६४य्द्/ भवति च पुरुषे अधौ ऽश्मा तस्य तले ऽंभो विनिर्देष्यं (वारि निर्देच्यं) ॥ ॥
५३।६५अब्/ पीलोः एव प्राच्यां वल्मीकोऽतोऽर्धपंचमैः हस्तैः ।
५३।६५य्द्/ दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥ ॥
५३।६६अब्/ प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च ।
५३।६६य्द्/ दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ॥ ॥
५३।६७अब्/ उत्तरतश्च करीरस्याहिगृहं (करीरादहिनिलये) दक्षिणे जलं स्वादु ।
५३।६७य्द्/ दशभिः पुरुषैः ज्ञेयम् पुर्षे पीतोऽत्र मण्डूकः ॥ ॥
५३।६८अब्/ रोहीतकस्य पश्चादहिवासश्चेत् त्रिभिः करैः याम्ये ।
५३।६८य्द्/ द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥ ॥
५३।६९अब्/ इन्द्रतरोः वल्मीकः प्राग् दृश्यः पश्चिमे शिरा हस्ते ।
५३।६९य्द्/ खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे ॥ ॥
५३।७०अब्/ यदि वा सुवर्णनाम्नः तरोः भवेद् वामतो भुजंगगृहम् ।
५३।७०य्द्/ हस्तद्वये तु याम्ये पंचदशनरावसानेऽंबु ॥ ॥
५३।७१अब्/ क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा ।
५३।७१य्द्/ रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ॥ ॥
५३।७२अब्/ बदरीरोहितवृक्षौ सम्पृक्तौ चेद् विनापि वल्मीकम् ।
५३।७२य्द्/ हस्तत्रयेऽंबु पश्चात् षोडशभिः मानवैः भवति ॥ ॥
५३।७३अब्/ सुरसं जलमादौ दक्षिणा शिरा वहति चौत्तनेणान्या ।
५३।७३य्द्/ पिष्टनिभः पाषाणो मृत् श्वेता वृश्चिकोऽर्धनरे ॥ ॥
५३।७४अब्/ सकरीरा चेद् वदरी त्रिभिः करैः पश्चिमेन तत्रांभः ।
५३।७४य्द्/ अष्टादशभिः पुरुषैः अशानी बहुजला च शिरा ॥ ॥
५३।७५अब्/ पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ॥ ॥
५३।७५य्द्/ विंशत्या पुरुषाणामशोष्यमंभोऽत्र सक्षारम् ॥ ॥
५३।७६अब्/ ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ (बिल्बौ) वा ।
५३।७६य्द्/ हस्तद्वयेऽंबु पश्चान् नरैः भवेत् पंचविंशत्या ॥ ॥
५३।७७अब्/ वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति ।
५३।७७य्द्/ कूपो मध्ये देयो जलमत्र नरैकविंशत्या ॥ ॥
५३।७८अब्/ भूमिः कदंबकयुता (भूमी कदंबकयुता, भूमीकदंबकयुता) वल्मीके यत्र दृश्यते दूर्वा ।
५३।७८य्द्/ हस्तद्वयेन (हस्तत्रयेन) याम्ये नरैः जलं पंचविंशत्या ॥ ॥
५३।७९अब्/ वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति ।
५३।७९य्द्/ नानावृक्षैः सहितः त्रिभिः जलं तत्र वक्तव्यम् ॥ ॥
५३।८०अब्/ हस्तचतुष्के मध्यात् षोडशभिश्चांगुलैरुदग् वारि ।
५३।८०य्द्/ चत्वारिंशत् पुरुषान् खात्वा ऽश्माऽधः (अश्मातः) शिरा भवति ॥ ॥
५३।८१अब्/ ग्रन्थिप्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः ।
५३।८१य्द्/ पश्चात् पंचकरान्ते शतार्धसंख्यैः नरैः सलिलम् ॥ ॥
५३।८२अब्/ एकस्थाः पंच यदा वल्मीका मध्यमो भवेत्श्वेतः ।
५३।८२य्द्/ तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पंचवर्जितया ॥ ॥
५३।८३अब्/ सपलाशा यत्र शमी पश्चिमभागेऽंबु मानवैः षष्ट्या ।
५३।८३य्द्/ अर्धनरेऽहिः प्रथमं सवालुका पीतमृत् परतः ॥ ॥
५३।८४अब्/ वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद् यस्मिन् ।
५३।८४य्द्/ पूर्वेण हस्तमात्रे सप्तत्या मानवैः अंबु ॥ ॥
५३।८५अब्/ श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः ।
५३।८५य्द्/ नरपंचकसंयुतया सप्तत्याहिः नरार्धे च ॥ ॥
५३।८६अब्/ मरुदेशे यच्चिह्नं न जांगले तैः जलं विनिर्देश्यम् ।
५३।८६य्द्/ जंबूवेतसपूर्वैः (पूर्वे) ये पुरुषाः ते मरौ द्विगुणाः ॥ ॥
५३।८७अब्/ जंबूः त्रिवृता मौर्वी (मूर्वा) शिशुमारी सारिवा शिवा श्यामा ।
५३।८७य्द्/ वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च (च गरुडवेगा) ॥ ॥
५३।८८अब्/ सूकरिकमाषपर्णीव्याघ्रपदाश्चैति यद्यहेः निलये ।
५३।८८य्द्/ वल्मीकादुत्तरतः त्रिभिः करैः त्रिपुरुषे तोयम् ॥ ॥
५३।८९अब्/ एतदनूपे वाच्यं जांगलभूमौ तु पंचभिः पुरुषैः ।
५३।८९य्द्/ एतैः एव निमित्तैः मरुदेशे सप्तभिः कथयेत् ॥ ॥
५३।९०अब्/ एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
५३।९०य्द्/ तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ ॥
५३।९१अब्/ यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् ।
५३।९१य्द्/ तत्र अर्धपंचकैः (अर्धपंचमैः) वारि मानवैः पंचभिः यदि वा ॥ ॥
५३।९२अब्/ स्निग्धतरूणां याम्ये नरैश्चतुर्भिः जलं प्रभूतं च ।
५३।९२य्द्/ तरुगहनेऽपि हि विकृतो यः तस्मात् तद्वदेव वदेत् ॥ ॥
५३।९३अब्/ नमते यत्र धरित्री सार्धे पुरुषेऽंबु जांगलानूपे ।
५३।९३य्द्/ कीटा वा यत्र विनालयेन बहवोऽंबु तत्रापि ॥ ॥
५३।९४अब्/ उष्णा शीता च मही शीतोष्णांभः त्रिभिः नरैः सार्धैः ।
५३।९४य्द्/ इन्द्रधनुः मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ॥
५३।९५अब्/ वल्मीकानां पंक्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः ।
५३।९५य्द्/ शुष्यति न रोहते वा सस्यं यस्यां च तत्रांभः ॥ ॥
५३।९६अब्/ न्यग्रोधपलाशौदुंबरैः समेतैः त्रिभिः जलं तदधः ।
५३।९६य्द्/ वटपिप्पलसमवाये तद्वद् वाच्यं शिरा चौदक् ॥ ॥
५३।९७अब्/ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् (भवति) कूपः ।
५३।९७य्द्/ नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ ॥
५३।९८अब्/ नैरृतकोणे बालक्षयं च वनिताभयं (वनिताभयं) च वायव्ये ।
५३।९८य्द्/ दिक्त्रयमेतत् त्यक्त्वा शेषासु शुभावहाः कूपाः ॥ ॥
५३।९९अब्/ सारस्वतेन मुनिना दकार्गकं (दगारगलं) यत् क्र्तं तदवलोक्य ।
५३।९९य्द्/ आर्याभिः कृतमेतद् वृत्तैः अपि मानवं वक्ष्ये ॥ ॥
५३।१००अ स्निग्धा यतः पादपगुल्मवल्ल्यो
५३।१००ब् निश्छिद्रपत्राश्च ततः शिरास्ति ।
५३।१००य् पद्मक्षुरौशीरकुलाः सगुण्ड्राः
५३।१००द् काशाः कुशा वा नलिका नलो वा ॥ ॥
५३।१०१अ खर्जूरजंबू अर्जुनवेतसाः स्युः
५३।१०१ब् क्षीरान्विता वा द्रुमगुल्मवल्ल्यः ।
५३।१०१य् छत्रैभनगाः शतपत्रनीपाः
५३।१०१द् स्युः नक्तमालाश्च ससिन्दुवाराः ॥ ॥
५३।१०२अ विभीतको वा मदयन्तिका वा
५३।१०२ब् यत्रास्ति तस्मिन् पुरुषत्रयेऽंभः ।
५३।१०२य् स्यात् पर्वतस्यौपरि पर्वतोऽन्यः
५३।१०२द् तत्रापि मूले पुरुषत्रयेऽंभः ॥ ॥
५३।१०३अ या मौञ्जिकैः (मौञ्जकैः) काशकुशैश्च युक्ता
५३।१०३ब् नीला च मृद्यत्र सशर्करा च ।
५३।१०३य् तस्यां प्रभूतं सुरसं च तोयं
५३।१०३द् कृष्णाथवा यत्र च रक्तमृद् वा ॥ ॥
५३।१०४अ सशर्करा ताम्रमही कषायं
५३।१०४ब् क्षारं धरित्री कपिला करोति ।
५३।१०४य् आपाण्डुरायां लवणं प्रदिष्टं
५३।१०४द् मृष्टं (मिष्टं) पयो नीलवसुन्धरायाम् ॥ ॥
५३।१०५अ शाकाश्वकर्णार्जुनविल्व (बिल्व) सर्जाः
५३।१०५ब् श्रीपर्ण्यरिष्टाधवशिंशपाश्च ।
५३।१०५य् छिद्रैश्च पत्रैः (पर्णैः) द्रुमगुल्मवल्ल्यो
५३।१०५द् रूक्षाश्च दूरेऽंबु निवेदयन्ति ॥ ॥
५३।१०६अ सूर्याग्निभस्मौष्ट्रखरानुवर्णा
५३।१०६ब् या निर्जला सा वसुधा प्रदिष्टा ।
५३।१०६य् रक्तांकुराः क्षीरयुताः करीरा
५३।१०६द् रक्ता धरा चेज्जलमश्मनोऽधः ॥ ॥
५३।१०७अ वैदूर्यमुद्ग (वैडूर्यमुड्ग)अंबुदमेचकाभा
५३।१०७ब् पाकौन्मुखौदुंबरसन्निभा वा ।
५३।१०७य् भंग (भृग्ग)अञ्जनाभा कपिलाथवा या
५३।१०७द् ज्ञेया शिला भूरिसमीपतोया ॥ ॥
५३।१०८अ पारावत (परावत) क्षौद्रघृतौपमा या (वा)
५३।१०८ब् क्षौमस्य वस्त्रस्य च तुल्यवर्णा ।
५३।१०८य् या सोमवल्ल्याश्च समानरूपा
५३।१०८द् साप्याशु तोयं कुरुतेऽक्षयं च ॥ ॥
५३।१०९अ ताम्रैः समेता पृषतैः विचित्रैः
५३।१०९ब् आपाण्डुभस्मौष्ट्रखरानुरूपा ।
५३।१०९य् भृंगौपमांगुष्ठिकपुष्पिका वा
५३।१०९द् सूर्याग्निवर्णा च शिला वितोया ॥ ॥
५३।११०अ चन्द्रातपस्फटिकमौक्तिकहेमरूपा
५३।११०ब् याश्चेन्द्रनीलमणिहिंगुलुकाञ्जनाभाः ।
५३।११०य् सूर्योदयांशुहरितालनिभाश्च याः स्युः
५३।११०द् ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ॥ ॥
५३।१११अ एता ह्यभेद्याश्च शिलाः शिवाश्च
५३।१११ब् यक्षैश्च नागैश्च सदाभिजुष्टाः ।
५३।१११य् येषां च राष्ट्रेषु भवन्ति राज्णां
५३।१११द् तेषामवृष्टिः न भवेत् कदाचित् ॥ ॥
५३।११२अ भेदं यदा नैति शिला तदानीं
५३।११२ब् पलाशकाष्ठैः सह तिन्दुकानाम् ।
५३।११२य् प्रज्वालयित्वानलमग्निवर्णा
५३।११२द् सुधांबुसिक्ता प्रविदारमेति ॥ ॥
५३।११३अ तोयं श्रितं (शृतं) मोक्षकभस्मना वा
५३।११३ब् यत् सप्तकृत्वः परिषेचनं तत् ।
५३।११३य् कार्यं शरक्षारयुतं शिलायाः
५३।११३द् प्रस्फोटनं वह्निवितापितायाः ॥ ॥
५३।११४अ तक्रकाञ्जिकसुराः सकुलत्था
५३।११४ब् योजितानि बदराणि च तस्मिन् ।
५३।११४य् सप्तरात्रमुषितानि अभितप्तां
५३।११४द् दारयन्ति हि शिलां परिषेकैः ॥ ॥
५३।११५अ नैंबं पत्रं त्वक् च नालं तिलानां
५३।११५ब् सापामार्गं तिन्दुकं स्याद् गुडूची ।
५३।११५य् गोमूत्रेण स्रावितः क्षार एषां
५३।११५द् षट्कृत्वोऽतः तापितो भिद्यतेऽश्मा ॥ ॥
५३।११६अ आर्कं पयो हुडुविषाणमषीसमेतं
५३।११६ब् पारावताखुशकृता च युतः प्रलेपः ।
५३।११६य् टंकस्य तैलमथितस्य ततोऽस्य पानं
५३।११६द् पश्चात्शितस्य न शिलासु भवेद् विघातः ॥ ॥
५३।११७अ क्षारे कदल्या मथितेन युक्ते (यक्ते)
५३।११७ब् दिनोषिते पायितमायसं यत् ।
५३।११७य् सम्यक् शितं (छितं) चाश्मनि नैति भंगं
५३।११७द् न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥ ॥
५३।११८अ पाली प्रागपरायतांबु सुचिरं धत्ते न याम्योत्तरा
५३।११८ब् कल्लोलैः अवदारमेति मरुता सा प्रायशः प्रेरितैः ।
५३।११८य् तां चेदिच्छति सारदारुभिः अपां सम्पातमावारयेत् ।
५३।११८द् पाषाणादिभिः एव वा प्रतिचयं क्षुण्णं (क्षुन्नं) द्विपाश्वादिभिः ॥ ॥
५३।११९अब्/ ककुभवटाम्रप्लक्षकदंबैः सनिचुलजंबूवेतसनीपैः ।
५३।११९य्द्/ कुरबक (कुरवाक) तालाशोकमधूकैः बकुलविमिश्रैश्चावृएततीराम् ॥ ॥
५३।१२०अ द्वारं च नैर्वाहिकमेकदेशे
५३।१२०ब् कार्यं शिलासंचितवारिमार्गम् ।
५३।१२०य् कोशस्थितं निर्विवरं कपाटं
५३।१२०द् कृत्वा ततः पांशुभिः आवपेत् तम् ॥ ॥
५३।१२१अब्/ अञ्जनमुस्तौशीरैः सराजकोशातकामलकचूर्णैः ।
५३।१२१य्द्/ कतकफलसमायुक्तैः योगः कूपे प्रदातव्यः ॥ ॥
५३।१२२अ कलुषं कटकं (कतुकं) लवणं विरसं
५३।१२२ब् सलिलं यदि वा शुभगन्धि भवेत् ।
५३।१२२य् तदनेन भवत्यमलं सुरसं
५३।१२२द् सुसुगन्धि गुणैः अपरैश्च युतम् ॥ ॥
५३।१२३अब्/ हस्तो मघानुराधापुष्यधनिष्ठौत्तराणि रोहिण्यः ।
५३।१२३य्द्/ शतभिषग् इत्यारंभे कूपानां शस्यते भगणः ॥ ॥
५३।१२४अब्/ कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने ।
५३।१२४य्द्/ कुसुमैः गन्धैः धूपैः सम्पूज्य निधापयेत् प्रथमम् ॥ ॥
/Eण्(५४।१२५अब्/ मेघोद्भवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा ।
५४।१२५य्द्/ भौमं दगार्गलमिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात् ॥ ॥)
sएपरते अध्याय ५४ वृक्षायुर्वेदाध्यायः
५४।१अब्/ प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।
५४।१य्द्/ यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥ ॥
५४।२अब्/ मृद्वी भूः सर्ववृक्षाणां हिता तस्याम् तिलान् वपेत् ।
५४।२य्द्/ पुष्पितां तांश्च मृद्नीयात् (गृह्णीयात्) कर्मएतत् प्रथमं भुवः (भुवि) ॥ ॥
५४।३अब्/ अरिष्टाशोकपुन्नागशिरीषाः सप्रियंगवः ।
५४।३य्द्/ मंगल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥ ॥
५४।४अब्/ पनसाशोककदलीजंबूलकुचदाडिमाः ।
५४।४य्द्/ द्राक्षापालीवताश्चएव बीजपूरातिमुक्तकाः ॥ ॥
५४।५अब्/ एते द्रुमाः काण्डरोप्या (काण्डारोप्या) गोमयेन प्रलेपिताः ।
५४।५य्द्/ मूलोच्छेदेऽथवा स्कन्धे रोपणीयाः परं ततः (प्रयत्नतः) ॥ ॥
५४।६अब्/ अजातशाखान् शिशिरे जातशाखान् हिमागमे ।
५४।६य्द्/ वर्षागमे च सुस्कन्धान् यथादिक्स्थान् प्ररोपयेत् (यथादिक् प्रतिरोपयेत्) ॥ ॥
५४।७अब्/ घृतौशीरतिलक्षौद्रविडंगक्षीरगोमयैः ।
५४।७य्द्/ आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ॥ ॥
५४।८अब्/ शुचिः भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः ।
५४।८य्द्/ रोपयेद् रोपितश्चैव पत्रैः तैः एव जायते ॥ ॥
५४।९अब्/ सायं प्रातश्च घर्मऋतौ (घर्मान्ते) शीतकाले दिनान्तरे ।
५४।९य्द्/ वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ॥
५४।१०अब्/ जंबूवेतसवानीरकदंबौदुंबरार्जुनाः ।
५४।१०य्द्/ बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥ ॥
५४।११अब्/ वञ्जुलो नक्तमालश्च तिलकः पनसः तथा ।
५४।११य्द्/ तिमिरोऽम्रातकश्चैति (चैव) षोडशानूपजाः स्मृताः ॥ ॥
५४।१२अब्/ उत्तमं विंशतिः हस्ता मध्यमं षोडशान्तरम् ।
५४।१२य्द्/ स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥ ॥
५४।१३अब्/ अभ्यासजाताः तरवः संस्पृशन्तः परस्परम् ।
५४।१३य्द्/ मिश्रैः मूलैश्च न फलं सम्यग् यच्छन्ति पीडिताः ॥ ॥
५४।१४अब्/ शीतवातातपै रोगो जायते पाण्डुपत्रता ।
५४।१४य्द्/ अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ॥ ॥
५४।१५अब्/ चिकित्सितमथएतेषां शस्त्रेणादौ विशोधनम् ।
५४।१५य्द्/ विडंगघृतपंकातान् सेचयेत् क्षीरवारिणा ॥ ॥
५४।१६अब्/ फलनाशे कुलत्थैश्च माषैः मुद्गैः तिलैः यवैः ।
५४।१६य्द्/ शृतशीतपयःसेकः फलपुष्पसमृद्धये (अभिवृद्धये) ॥ ॥
५४।१७अब्/ अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम् ।
५४।१७य्द्/ सक्तुप्रस्थो जलद्रोणो गोमांसतुलया सह ॥ ॥
५४।१८अब्/ सप्तरात्रौषितैः एतैः सेकः कार्यो वनस्पतेः ।
५४।१८य्द्/ वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा ॥ ॥
५४।१९अ वासराणि दश दुग्धभावितं
५४।१९ब् बीजमाज्ययुतहस्तयोजितम् ।
५४।१९य् गोमयेन बहुशो विरूक्षितं
५४।१९द् क्रौडमार्गपिशितैश्च धूपितम् ॥ ॥
५४।२०अब्/ मांस (मत्स्य) सूकरवसासमन्वितं रोपितं च परिकर्मितावनौ ।
५४।२०य्द्/ क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तमेव तत् ॥ ॥
५४।२१अब्/ तिन्तिडीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः ।
५४।२१य्द्/ पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ॥ ॥
५४।२२अ कपित्थवल्लीकरणाय मूलान्य्-
५४।२२ब् आस्फोतधात्रीधववासिकानाम् ।
५४।२२य् पलाशिनी वेतससूर्यबल्ली (वल्ली)
५४।२२द् श्यामातिमुक्तैः सहिताष्टमूली ॥ ॥
५४।२३अ क्षारे शृते चाप्यनया सुशीते
५४।२३ब् ताला (नाला) शतं स्थाप्य कपित्थबीजम् ।
५४।२३य् दिने दिने शोषितमर्कपादैः
५४।२३द् मासं विधिः त्वेष ततोऽधिरोप्यम् ॥ ॥
५४।२४अ हस्तायतं तद्द्विगुणं गभीरं
५४।२४ब् खात्वावटं प्रोक्तजलावपूर्णम् ।
५४।२४य् शुष्कं प्रदग्धं मधुसर्पिषा तत्
५४।२४द् प्रलेपयेद् भस्मसमन्वितन (समन्वितेन) ॥ ॥
५४।२५अ चूर्णीकृतैः माषतिलैः यवैश्च
५४।२५ब् प्रपूरयेद् मृत्तिकयान्तरस्थैः ।
५४।२५य् मत्स्यामिषांभः (अंभः) सहितं च हन्याद्
५४।२५द् यावद् घनत्वं समुपागतं तत् ॥ ॥
५४।२६अ उप्तं च बीजं चतुरंगुलाधो
५४।२६ब् मत्स्यांभसा मांसजलैश्च सिक्तम् ।
५४।२६य् वल्ली भवत्याशु शुभप्रवाला
५४।२६द् विस्मापनी मण्डपमावृणोति ॥ ॥
५४।२७अब्/ शतशो अंकोल (अग़्कोल्ल) संभूतफलकल्केन भावितम् ।
५४।२७य्द्/ एतत् तैलेन वा बीजं श्लैष्मातक (श्लेष्मातक) फेन वा ॥ ॥
५४।२८अब्/ वापितं करकौन्मिश्रमृदि तत्क्षणजन्मकम् ।
५४।२८य्द्/ फलभारान्विता शाखा भवतीति किमद्भुतम् ॥ ॥
५४।२९अब्/ श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः ।
५४।२९य्द्/ अंकोल (अग़्कोल्ल) विज्जलाद्भिश्छायायां सप्तकृत्वा (सप्तकृत्व्)एवम् ॥ ॥
५४।३०अब्/ माहिषगोमयघृष्टानि अस्य करीषे च तानि निक्षिप्य ।
५४।३०य्द्/ करकाजलमृद्योगे न्युप्तानि अह्ना फलकराणि ॥ ॥
५४।३१अब्/ ध्रुवमृदुमूलविशाखा गुरुभं श्रवणः तथाश्विनी हस्तः (हस्तं) ।
५४।३१य्द्/ उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥ ॥
sएपरते अध्याय ५५ प्रासादलक्षणाध्यायः
५५।१अब्/ कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च ।
५५।१य्द्/ देवतायतनं कुर्याद् यशोधर्माभिवृद्धये ॥ ॥
५५।२अब्/ इष्टापूर्तेन लभ्यन्ते ये लोकाः तान् बुभूषता ।
५५।२य्द्/ देवानामालयः कार्यो द्वयमपि अत्र दृश्यते ॥ ॥
५५।३अब्/ सलिलौद्यानयुक्तेषु कृतेष्वकृतेषु च ।
५५।३य्द्/ स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः ॥ ॥
५५।४अब्/ सरःसु नलिनीछत्रनिरस्तरविरश्मिषु ।
५५।४य्द्/ हंसांसाक्षिप्तकह्लारवीथी (वीची, वीथी) विमलवारिषु ॥ ॥
५५।५अब्/ हंसकारण्डवक्रौंचचक्रवाकविराविषु ।
५५।५य्द्/ पर्यन्तनिचुलच्छायाविश्रान्तजलचारिषु ॥ ॥
५५।६अब्/ क्रौंचकांचीकलापाश्च कलहंसकलस्वराः (स्वनाः) ।
५५।६य्द्/ नद्यः तोयांशुका यत्र शफरीकृतमेखलाः ॥ ॥
५५।७अब्/ फुल्लतीरद्रुमौत्तंसाः संगमश्रोणिमण्डलाः ।
५५।७य्द्/ पुलिनाभ्युन्नतौरस्या हंसवासाः (हंसहासाः) च निम्नगाः ॥ ॥
५५।८अब्/ वनौपान्तनदीशैलनिर्झरौपान्तभूमिषु ।
५५।८य्द्/ रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च ॥ ॥
५५।९अब्/ भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि ।
५५।९य्द्/ ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥ ॥
५५।१०अब्/ चतुःषष्टिपदं कार्यं देवतायतनं सदा ।
५५।१०य्द्/ द्वारं च मध्यमं तस्मिन् (तत्र) समदिक्स्थं प्रशस्यते ॥ ॥
५५।११अब्/ यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः ।
५५।११य्द्/ उच्छ्रायाद् यः तृतीयांशः तेन तुल्या कटिः स्मृता (कटिः भवेत्) ॥ ॥
५५।१२अब्/ विस्तारार्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः ।
५५।१२य्द्/ गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ ॥
५५।१३अब्/ उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुंबरः ।
५५।१३य्द्/ विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ॥ ॥
५५।१४अब्/ त्रिपंचसप्तनवभिः शाखाभिः तत् प्रशस्यते ।
५५।१४य्द्/ अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ॥ ॥
५५।१५अब्/ शेषं मंगल्यविहगैः श्रीवृक्षैः स्वस्तिकैः (श्रीवृक्षस्वस्तिकैः) घटैः ।
५५।१५य्द्/ मिथुनैः पत्रवल्लीभिः प्रमथैश्चौपशोभयेत् ॥ ॥
५५।१६अब्/ द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका ।
५५।१६य्द्/ द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ ॥
५५।१७अब्/ मेरुमन्दरकैलासविमानच्छन्दनन्दनाः ।
५५।१७य्द्/ समुद्गपद्मगरुडनन्दिवर्धनकुञ्जराः ॥ ॥
५५।१८अब्/ गुहराजो वृषो हंसः सर्वतोभद्रको घटः ।
५५।१८य्द्/ सिंहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयः तथा ॥ ॥
५५।१९अब्/ इत्येते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया ।
५५।१९य्द्/ यथोक्तानुक्रमेणैव लक्षणानि वदाम्यतः ॥ ॥
५५।२०अब्/ तत्र षडश्रिः मेरुः द्वादशभौमो विचित्रकुहरश्च ।
५५।२०य्द्/ द्वारैः युतश्चतुर्भिः द्वात्रिंशद्धस्तविस्तीर्णः ॥ ॥
५५।२१अब्/ त्रिंशद्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः ।
५५।२१य्द्/ कैलासोऽपि शिखरवान् अष्टाविंशोऽष्टभौमश्च ॥ ॥
५५।२२अब्/ जालगवाक्षकयुक्तो विमानसंज्ञः त्रिसप्तकायामः ।
५५।२२य्द्/ नन्दन इति षड्भौमो द्वात्रिंशः षोडशाण्डयुक्तः ॥ ॥
५५।२३अब्/ वृत्तः समुद्गनामा पद्मः पद्माकृतिः शया अष्टौ (शयानाष्टौ) ।
५५।२३य्द्/ शृंगेणैकेन भवेदेकैव च भूमिका तस्य ॥ ॥
५५।२४अब्/ गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः ।
५५।२४य्द्/ कार्यः तु (च) सप्तभौमो विभूषितोऽण्डैः तु (च) विंशत्या ॥ ॥
५५।२५अब्/ कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् ।
५५।२५य्द्/ गुहराजः षोडशकः त्रिचन्द्रशाला भवेद् वलभी ॥ ॥
५५।२६अब्/ वृष एकभूमिशृंगो द्वादशहस्तः समन्ततो वृत्तः ।
५५।२६य्द्/ हंसो हंसाकारो घटोऽष्टहस्तः कलशरूपः ॥ ॥
५५।२७अब्/ द्वारैः युतश्चतुर्भिः बहुशिखरो भवति सर्वतोभद्रः ।
५५।२७य्द्/ बहुरुचिरचन्द्रशालः षड्विंशः पंचभौमश्च ॥ ॥
५५।२८अब्/ सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः ।
५५।२८य्द्/ चत्वारोऽञ्जनरूपाः पंचाण्डयुतः तु चतुरस्रः (चतुरश्रः) ॥ ॥
५५।२९अब्/ भूमिकांगुलमानेन मयस्याष्टोत्तरं शतम् ।
५५।२९य्द्/ सार्धं हस्तत्रयं चैव कथितं विश्वकर्मणा ॥ ॥
५५।३०अब्/ प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः ।
५५।३०य्द्/ कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम् ॥ ॥
५५।३१अ प्रासादलक्षणमिदम् कथितं समासाद्
५५।३१ब् गर्गेण यद् विरचितं तदिहास्ति सर्वम् ।
५५।३१य् मनुआदिभिः विरचितानि पृथूनि यानि
५५।३१द् तत्संस्पृशन् (तत्सस्मृतिं) प्रति मयात्र कृतोऽधिकारः ॥ ॥
sएपरते अध्याय ५६ वज्रलेपलक्षणाध्यायः
५६।१अब्/ आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः ।
५६।१य्द्/ बीजानि शल्लकीनां धन्वनवल्को वचा चैति ॥ ॥
५६।२अब्/ एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च ।
५६।२य्द्/ अवतार्योऽस्य च कल्को द्रव्यैः एतैः समनुयोज्यः ॥ ॥
५६।३अब्/ श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः ।
५६।३य्द्/ अतसीबिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥ ॥
५६।४अब्/ प्रासादहर्म्यवलभीलिंगप्रतिमासु कुड्यकूपेषु ।
५६।४य्द्/ सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥ ॥
५६।५अब्/ लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि ।
५६।५य्द्/ नागफलनिंब (बलाफल) तिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥ ॥
५६।६अब्/ सर्जरसरसामलकानि चैति कल्कः कृतो द्वितीयोऽयम् ।
५६।६य्द्/ वज्राख्यः प्रथमगुणैः अयमपि तेष्वेव कार्येषु ॥ ॥
५६।७अब्/ गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च ।
५६।७य्द्/ निंबकपित्थरसैः सह वज्रतलो (वज्रतरो) नाम कल्कोऽन्यः ॥ ॥
५६।८अब्/ अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः ।
५६।८य्द्/ मयकथितो योगोऽयं विज्ञेयो वज्रसंघातः ॥ ॥
sएपरते अध्याय ५७ प्रतिमालक्षणाध्यायः ।
५७।१अब्/ जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति ।
५७।१य्द्/ तद् विन्द्यात् परमाणुं प्रथमं तद्धि प्रमाणानाम् ॥ ॥
५७।२अब्/ परमाणुरजो बालाग्र (वालाग्र) लिक्षयूकं (यूका) यवो अंगुलं चैति ।
५७।२य्द्/ अष्टगुणानि यथोत्तरमंगुलमेकं भवति संख्या (मात्रा) ॥ ॥
५७।३अब्/ देवागारद्वारस्याष्टांशोनस्य यः तृतीयोऽंशः ।
५७।३य्द्/ तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥ ॥
५७।४अब्/ स्वैः अंगुलप्रमाणैः द्वादश वीस्तीर्णं (विस्तीर्णं) आयतं च मुखम् ।
५७।४य्द्/ नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ॥ ॥
५७।५अब्/ नासाललाटचिबुकग्रीवाश्चतुरांगुलाः तथा कर्णौ ।
५७।५य्द्/ द्वे अंगुले च हनुनी (हनुके) चिबुकं च द्व्यंगुलं विततं (विस्तृतं) ॥ ॥
५७।६अब्/ अष्टांगुलं ललाटं विस्ताराद् द्व्यंगुलात् परे शंखौ ।
५७।६य्द्/ चतुरंगुलौ तु शंखौ कर्णौ तु द्व्यंगुलौ (द्व्यग्गुलं) पृथुलौ ॥ ॥
५७।७अब्/ कर्णोपान्तः कार्योऽर्धपंचमे भ्रूसमेन सूत्रेण ।
५७।७य्द्/ कर्णस्रोतः सुकुमारकम् च नेत्र (नयन) प्रबन्धसमम् ॥ ॥
५७।८अब्/ चतुरंगुलं वसिष्ठः कथयति नेत्रान्तकर्णयोः विवरम् ।
५७।८य्द्/ अधरो अंगुलप्रमाणः तस्यार्धेनोत्त्रोष्ठश्च ॥ ॥
५७।९अब्/ अर्धांगुला तु गोच्छा वक्त्रं चतुरंगुलायतं कार्यम् ।
५७।९य्द्/ विपुलं तु सार्धमंगुलम् अव्यात्तं त्र्यंगुलं (अध्यात्तत्त्र्यग्गुलं) व्यात्तम् ॥ ॥
५७।१०अब्/ द्व्यंगुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया ।
५७।१०य्द्/ स्याद् द्व्यंगुलमुच्छ्रायश्चतुरंगुलमन्तरं चाक्ष्णोः ॥ ॥
५७।११अब्/ द्व्यंगुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा ।
५७।११य्द्/ दृक्तारा पंचांशो नेत्रविकाशो अंगुलं भवति ॥ ॥
५७।१२अब्/ पर्यन्तात् पर्यन्तं दश भ्रुवोऽर्धांगुलं भ्रुवोः लेखा ।
५७।१२य्द्/ भ्रूमध्यं द्व्यंगुलकं भूः धैर्घ्येणांगुलचतुष्कम् ॥ ॥
५७।१३अब्/ कार्या तु केशरेखा भ्रूबन्धसमांगुलार्धविस्तीर्णा ।
५७।१३य्द्/ नेत्रान्ते करवीरकमुपन्यसेदनुगुलप्रमितम् ॥ ॥
५७।१४अब्/ द्वात्रिंशत् परिणाहागतुर्दशायामतो अंगुलानि शिरः ।
५७।१४य्द्/ द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिः अदृश्याः ॥ ॥
५७।१५अब्/ आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्निजित् (नग्नजित्) प्रोक्तम् ।
५७।१५य्द्/ ग्रीवा दश विस्तीर्णा परिणाहाद् विंशतिः सैका ॥ ॥
५७।१६अब्/ कण्ठाद् द्वादश हृदयं हृदयान् नाभी (नाभिः) च तत्प्रमाणेन ।
५७।१६य्द्/ नाभीमध्याद् मेढ्रान्तरं च तत्तुल्यमेवोक्तम् ॥ ॥
५७।१७अब्/ ऊरू चांगुलमानैश्चतुर्युता विंशतिः तथा जंघे ।
५७।१७य्द्/ जानुकपिच्छे चतुरंगुले च पादौ च तत्तुल्यौ ॥ ॥
५७।१८अब्/ द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायतांगुष्ठौ ।
५७।१८य्द्/ पंचांगुलपरिणाहौ प्रदेशिनी त्र्यंगुलं दीर्घा ॥ ॥
५७।१९अब्/ अष्टान्ंशांशोनाः शेषांगुल्यः (शेषाग्गुलयः) क्रमेण कर्तव्याः ।
५७।१९य्द्/ सचतुर्थभागमंगुलमुत्सेधो अंगुष्ठकस्यौक्तः ॥ ॥
५७।२०अब्/ अंगुष्ठनखः कथितः चतुर्थभागोनमंगुलं तज्ञैः ।
५७।२०य्द्/ शेषनखानामर्धांगुलं क्रमात् किंचिदूनं वा ॥ ॥
५७।२१अब्/ जंघाग्रे परिणाहश्चतुर्दशोक्तः तु विस्तरात् (विस्तरः) पंच ।
५७।२१य्द्/ मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त ॥ ॥
५७।२२अब्/ अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः ।
५७।२२य्द्/ विपुलौ चतुर्दश ऊरू मध्ये द्विगुणश्च तत्परिधिः ॥ ॥
५७।२३अब्/ कटिः अष्टादश विपुला चत्वारिंशगतुर्युता परिधौ ।
५७।२३य्द्/ अंगुलमेकं नाभी (नाभिः) वेधेन तथा प्रमाणेन ॥ ॥
५७।२४अब्/ चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः ।
५७।२४य्द्/ स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये (कक्षे) षडंगुलिके ॥ ॥
५७।२५अब्/ अष्टावंसौ द्वादश बाहू कार्यौ (कार्यावष्टावंसौ द्वादश बाहू) तथा प्रबाहू च ।
५७।२५य्द्/ बाहू षड्विस्तीर्णौ (षड्विस्तिर्णौ) प्रतिबाहू त्वंगुलचतुष्कम् ॥ ॥
५७।२६अब्/ षोडश बाहू मूले परिणाहाद् द्वादशाग्रहस्ते च ।
५७।२६य्द्/ विस्तारेण करतलं षडंगुलं सप्त दैर्घ्येण ॥ ॥
५७।२७अब्/ पंचांगुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना ।
५७।२७य्द्/ अनया तुल्या चानामिका कनिष्ठा तु पर्वोना ॥ ॥
५७।२८अब्/ पर्वद्वयमंगुष्ठः शेषांगुल्यः (शेषाग्गुलयः) त्रिभिः त्रिभिः कार्याः ।
५७।२८य्द्/ नखपरिमाणं कार्यं सर्वासाम् पर्वणोऽर्धेन ॥ ॥
५७।२९अब्/ देशानुरूपभूषणवेषालंकारमूर्तिभिः कार्या ।
५७।२९य्द्/ प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥ ॥
५७।३०अब्/ दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् ।
५७।३०य्द्/ द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥ ॥
(विष्णु)
५७।३१अब्/ कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः ।
५७।३१य्द्/ श्रीवत्सांकितवक्षाः कौस्तुभमणिभूषितोरस्कः ॥ ॥
५७।३२अब्/ अतसीकुसुमश्यामः पीतांबरनिवसनः प्रसन्नमुखः ।
५७।३२य्द्/ कुण्डलकिरीटधारी पीनगलौरःस्थलांसभुजः ॥ ॥
५७।३३अब्/ खड्गगदाशरपाणिः दक्षिणतः शान्तिदश्चतुर्थकरः ।
५७।३३य्द्/ वामकरेषु च कार्मुकखेटकचक्राणि शंखश्च ॥ ॥
५७।३४अब्/ अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः ।
५७।३४य्द्/ दक्षिणपार्श्वे त्व (हि) एवं वामे शंखश्च चक्रं च ॥ ॥
५७।३५अब्/ द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शंखधरः ।
५७।३५य्द्/ एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः ॥ ॥
(हलधर)
५७।३६अब्/ बलदेवो हलपाणिः मदविभ्रमलोचनश्च कर्तव्यः ।
५७।३६य्द्/ विभ्रत् (बिभ्रत्) कुण्डकमेकं शंखेन्दुमृणालगौरतनुः (वपुः) ॥ ॥
५७।३७अब्/ एकानंशा कार्या देवी बलदेवकृष्णयोः मध्ये ।
५७।३७य्द्/ कटिसंस्थितवामकरा सरोजमितरेण चौद्वहती ॥ ॥
५७।३८अब्/ कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम् ।
५७।३८य्द्/ द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥ ॥
५७।३९अब्/ वामो ऽथवाष्टभुजायाः (वामेष्वष्टभुजायाः) कमण्डलुश्चापमंबुजं शास्त्रम् ।
५७।३९य्द्/ वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥ ॥
५७।४०अब्/ शांबश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च ।
५७।४०य्द्/ अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ ॥ ॥
(ब्रह्मा अन्द् कुमार)
५७।४१अब्/ ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च ।
५७।४१य्द्/ स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ॥ ॥
(इन्द्र)
५७।४२अब्/ शुक्लचतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् ।
५७।४२य्द्/ तिर्यग् ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ॥ ॥
(महेश्वर)
५७।४३अब्/ शंभोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमपि च ऊर्ध्वम् ।
५७।४३य्द्/ शूलं धनुः पिनाकं वामार्धे वा गिरिसुतार्धम् ॥ ॥
(बुध)
५७।४४अब्/ पद्मांकितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च ।
५७।४४य्द्/ पद्मासनौपविष्टः पिता इव जगतो भवति (भवेत्) बुद्धः ॥ ॥
(अर्हत्)
५७।४५अब्/ आजानुलंबबाहुः श्रीवत्सांकः प्रशान्तमूर्तिश्च ।
५७।४५य्द्/ दिग्वासाः तरुणो रूपवांश्च कार्योऽर्हतां देवः ॥ ॥
(भास्कर)
५७।४६अब्/ नासाललाटजंघ ऊरुगण्डवक्षांसि चौन्नतानि रवेः ।
५७।४६य्द्/ कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥ ॥
५७।४७अब्/ बिभ्राणः स्वकररुहे बाहुभ्यां (पाणिभ्यां) पंकजे मुकुटधारी ।
५७।४७य्द्/ कुण्डलभूषितवदनः प्रलंबहारो वियद्ग (वियग्ग) वृतः ॥ ॥
५७।४८य्द्/ कमलौदरद्युतिमुखः कंचुकगुप्तः स्मितप्रसन्नमुखः ।
५७।४८य्द्/ रत्नौज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ॥ ॥
५७।४९अब्/ सौम्या तु हस्तमात्रा वदुदा हस्तद्वयोच्छ्रिता प्रतिमा ।
५७।४९य्द्/ क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणा या ॥ ॥
५७।५०अब्/ नृपभयमत्यंगायां हीनांगायामकल्यता कर्तुः ।
५७।५०य्द्/ शातौदार्यां क्षुद्भयमर्थविनाशः कृशांगुलायां (कृशायां च) ॥ ॥
५७।५१अब्/ मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः ।
५७।५१य्द्/ वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ॥ ॥
५७।५२अब्/ अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः ।
५७।५२य्द्/ सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तसमम् ॥ ॥
५७।५३अब्/ लिंगस्य वृत्तपरधिं दैर्घ्येणासूत्र्य तत् त्रिधा विभजेत् ।
५७।५३य्द्/ मूले तगतुरस्रं (चतुरश्रं) मध्ये त्वष्टाश्रिं वृत्तमतः ॥ ॥
५७।५४अब्/ चतुरस्रं (चतुरश्रं) अवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे ।
५७।५४य्द्/ दृश्यौच्छ्रायेण समा समन्ततः पिण्डिका (पिण्डका) श्वभ्रात् ॥ ॥
५७।५५अब्/ कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशय ।
५७।५५य्द्/ यस्य क्षतं भवेद् मस्तके विनाशाय तल्लिंगम् ॥ ॥
५७।५६अब्/ मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः ।
५७।५६य्द्/ रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः ॥ ॥
(यम, वरुण, कुबेर)
५७।५७अब्/ दण्डी यमो महिषगो हंसारूढश्च पाशभृद् वरुनः ।
५७।५७य्द्/ नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ॥ ॥
(५८।५८अब्/ प्रमथाधिपो गजमुखः प्रलंबजठरः कुठारधारी स्यात् ।
५८।५८य्द्/ एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ॥ ॥)
sएपरते अध्याय ५८ वनसम्प्रवेशाध्यायः
५८।१अब्/ कर्तुः अनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते ।
५८।१य्द्/ मंगलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥ ॥
५८।२अब्/ पितृवनमार्गसुरालयवल्मीकौद्यानतापसाश्रमजाः ।
५८।२य्द्/ चैत्यसरित्संगमसंभवाश्च घटतोयसिक्ताश्च ॥ ॥
५८।३अब्/ कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः ।
५८।३य्द्/ स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥ ॥
५८।४अब्/ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः ।
५८।४य्द्/ अभिमतवृक्षं गत्वा कुर्यात् पूजां सबलिपुष्पाम् ॥ ॥
५८।५अब्/ सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम् ।
५८।५य्द्/ क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥ ॥
५८।६अब्/ वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाः (स्पन्दनाः) च शुभफलदाः ।
५८।६य्द्/ तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम् ॥ ॥
५८।७अब्/ लिंगं वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिशं यस्मात् ।
५८।७य्द्/ तस्मागिह्नयितव्या दिशो द्रुमस्य ऊर्ध्वमथवाधः ।
५८।८अब्/ परमान्नमोदकौदनदधिपललौल्लोपिकादिभिः भक्ष्यैः ।
५८।८य्द्/ मद्यैः कुसुमैः धूपरि गन्धैश्च तरुं समभ्यर्च्य ॥ ॥
५८।९अब्/ सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् ।
५८।९य्द्/ कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥ ॥
(मन्त्र)
५८।१०अब्/ अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः ।
५८।१०य्द्/ नमः ते वृक्ष पूजेयं विधिवत् सम्प्रगृह्यताम् ॥ ॥
५८।११अ यानीह भूतानि वसन्ति तानि
५८।११ब् बलिं गृहीत्वा विधिवत् प्रयुक्तम् ।
५८।११य् अन्यत्र वासं परिकल्प्यन्तु
५८।११द् क्षमन्तु तानि अद्य नमोऽस्तु तेभ्यः ॥ ॥
५८।१२अ वृक्षं प्रभाते सलिलेन सिक्त्वा
५८।१२ब् पूर्वोत्तरस्यां दिशि सन्निकृत्य ।
५८।१२य् मध्वाज्यदिग्धेन (लिप्तेन) कुठारकेण
५८।१२द् प्रदक्षिणं शेषमतो निहन्यात् (ऽभिहन्यात्) ॥ ॥
५८।१३अ पूर्वेण पूर्वोत्तरतोऽथवा उदक्
५८।१३ब् पतेद् यदा वृद्धिकरः तदा स्यात् ।
५८।१३य् आग्नेयकोणात् क्रमशोऽग्निदाह-
५८।१३द् रुग्राग (क्षुद्रोग) रोगाः तुरगक्षयश्च ॥ ॥
५८।१४अ यन् नौक्तमस्मिन् वनसम्प्रवेशे
५८।१४ब् निपातविच्छेदनवृक्षगर्भाः ।
५८।१४य् इन्द्रध्वजे वास्तुनि च प्रदिष्टाः
५८।१४द् पूर्वं मया तेऽत्र तथैव योज्याः ॥ ॥
sएपरते अध्याय ५९ प्रतिमाप्रतिष्ठापनाध्यायः
५९।१अब्/ दिशि याम्यायां (सौम्यायां) कुर्यादधिवासनमण्डपं बुधः प्राग् वा ।
५९।१य्द्/ तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ॥ ॥
५९।२अब्/ पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्यौक्ताः ।
५९।२य्द्/ आग्नेय्यांदिशि रक्ताः कृष्णाः स्युः याम्यनैरृत्योः (नैरृतयोः) ॥ ॥
५९।३अब्/ श्वेता दिश्यपरस्याम् वायव्यायां तु पाण्डुरा एव ।
५९।३य्द्/ चित्राश्चौत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः (कोणे) ॥ ॥
५९।४अब्/ आयुःश्रीबलजयदा दारुमयी मृण्मयी (मृन्मयी) तथा प्रतिमा ।
५९।४य्द्/ लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥ ॥
५९।५अब्/ रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी ।
५९।५य्द्/ भूलाभं तु महान्तं शैली प्रतिमाथवा लिंगम् ॥ ॥
५९।६अब्/ शंखूपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति ।
५९।६य्द्/ श्वभ्रोपहता रोगान् उपद्रवांश्च क्षयं (अक्षयान्) कुरुते ॥ ॥
५९।७अब्/ मण्डपमध्ये स्थण्डिलमुपलिप्यास्तीर्य सिकतयाथ कुशैः ।
५९।७य्द्/ भद्रासनकृतशीर्षौपधानपादां न्यसेत् प्रतिमाम् ॥ ॥
५९।८अब्/ प्लक्षाश्वत्थौदुंबरशिरीषवटसंभवैः कषायजलैः ।
५९।८य्द्/ मंगल्यसंज्ञिताभिः सर्वौषधिभिः कुशाद्याभिः ॥ ॥
५९।९अब्/ द्विपवृषभौद्धत (उद्धृत) पर्वतवल्मीकसरित्समागमतटेषु ।
५९।९य्द्/ पद्मसरःसु च मृद्भिः सपंचगव्यैश्च तीर्थजलैः ॥ ॥
५९।१०अब्/ पूर्वशिरस्कां स्नातां सुवर्णरत्नांबुभिश्च ससुगन्धैः ।
५९।१०य्द्/ नानातूर्यनिनादैः पुण्याहैः वेदनिर्घोषैः ॥ ॥
५९।११अब्/ एन्द्र्यां दिशीन्द्रलिंगा मन्त्राः प्राग्दक्षिणेऽग्निलिंगाश्च ।
५९।११य्द्/ वक्तव्या (जप्तव्या) द्विजमुख्यैः पूज्याः ते दक्षिणाभिश्च ॥ ॥
५९।१२अब्/ यो देवः संस्थाप्यः तन्मन्त्रैश्चानलं द्विजो जुहुयात् ।
५९।१२य्द्/ अग्निनिमित्तानि मया प्रोक्तानीन्द्रध्वजौत्थाने (उच्छ्राये) ॥ ॥
५९।१३अब्/ धूमाकुलोऽपसव्यो मुहुर्मुहुः विफुलिंगकृन् न शुभः ।
५९।१३य्द्/ होतुः स्मृतिलोपो वा प्रसर्पणं चाशुभं प्रोक्तम् ॥ ॥
५९।१४अब्/ स्नातामभुक्तवस्त्रां स्वलंकृतां पूजिताम् कुसुमगन्धैः ।
५९।१४य्द्/ प्रतिमां स्वास्तीर्णायाम् शय्यायाम् स्थापकः कुर्यात् ॥ ॥
५९।१५अब्/ सुप्तां सगीतनृत्यैः जागरणैः (सुनृत्यगीतैः जागरकैः) सम्यग् एवमधिवास्य ।
५९।१५य्द्/ दैवज्ञसम्प्रदिष्टे काले संस्थापनं कुर्यात् ॥ ॥
५९।१६अब्/ अभ्यर्च्य कुसुमवस्त्रानुलेपनैः शंखतूर्यनिर्घोषैः ।
५९।१६य्द्/ प्रादक्षिण्येन नयेदायतनस्य प्रयतनेन ॥ ॥
५९।१७अब्/ कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश्च सभ्यांश्च ।
५९।१७य्द्/ दत्त्वा हिरण्यशकलं विनिक्षिपेत् पिण्डिकाश्वभ्रे ।
५९।१८अब्/ स्थापकदैवज्ञद्विजसभ्यस्थपतीन् विशेषतोऽभ्यर्च्य ।
५९।१८य्द्/ कल्याणानां भागी भवतीह परत्र च स्वर्गी ॥ ॥
५९।१९अ विष्णोः भागवतान् मगांश्च सवितुः शंभोः सभस्मद्विजान्
५९।१९ब् मातीणामपि मण्डलक्रमविदो (मातृमण्डलविदो) विप्रान् विदुः ब्रह्मणः ।
५९।१९य् शाक्यान् सर्वहितस्य शान्तमनसो नग्नान् जिनानां विदुः
५९।१९द् ये यं देवमुपाश्रिताः स्वविधिना तैः तस्य कार्या क्रिया ॥ ॥
५९।२०अब्/ उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे ।
५९।२०य्द्/ लग्ने स्थिरे स्थिरांशे सौम्यैः धीधर्मकेन्द्रगतैः ॥ ॥
५९।२१अब्/ पापैरुपचयसंस्थैः ध्रुवमृदुहरितिष्यवायुदेवेषु ।
५९।२१य्द्/ विकुजे दिनेऽनुकूले देवानां स्थापनं शस्तम् ॥ ॥
५९।२२अब्/ सामान्यमिदं समासतो लोकानां हितदं मया कृतम् ।
५९।२२य्द्/ अधिवासनसन्निवेशने सावित्रे पृथग् एव विस्तरात् ॥ ॥
sएपरते अध्याय ६० गोलक्षणाध्यायः
६०।१अ पराशरः प्राह बृहद्रथाय
६०।१ब् गोलक्षणं यत् क्रियते ततोऽयम् ।
६०।१य् मया समासः शुभलक्षणाः ताः
६०।१द् सर्वाः तथाऽपि आगमतोऽभिधास्ये ॥ ॥
६०।२अब्/ सास्र आविलरूक्षाक्ष्यो मूषकनयनाश्न शुभदा गावः ।
६०।२य्द्/ प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः (वर्नाः) च ॥ ॥
६०।३अब्/ दशसप्तचतुर्दन्त्यः प्रलंबमुण्डानना विनतपृष्ठ्यः (पृष्ठाः) ।
६०।३य्द्/ ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥ ॥
६०।४अब्/ श्यावातिदीर्घजिह्वा गुल्फैः अतितनुभिः अतिबृहद्भिः वा ।
६०।४य्द्/ अतिककुदाः कृशदेहा नैष्टा हीनाधिकांग्यश्च ॥ ॥
६०।५अब्/ वृषभोऽपि एवं स्थूलातिलंबवृषणः शिराततक्रोडः ।
६०।५य्द्/ स्थूलशिराचितगण्डः त्रिस्थानं मेहते यश्च ॥ ॥
६०।६अब्/ मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्यैव (द्विजस्येष्टः) ।
६०।६य्द्/ कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ॥ ॥
६०।७अब्/ स्थूलशकृन्मणिशृंगः सितोदरः कृष्णसारवर्णश्च ।
६०।७य्द्/ गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥ ॥
६०।८अब्/ श्यामकपुष्पचितांगो भस्मारुणसन्निभो बिडालाक्षः ।
६०।८य्द्/ विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥ ॥
६०।९अब्/ ये चौद्धरन्ति पादान् पंकादिव योजिताः कृशग्रीवाः ।
६०।९य्द्/ कातरनयना हीनाश्च पृष्ठतः ते न भारसहाः ॥ ॥
६०।१०अब्/ मृदुसंहतताम्रोष्ठाः तनुस्फिजः ताम्रतालुजिह्वाश्च ।
६०।१०य्द्/ ह्रस्वतनु (तनुह्रस्वो) उच्चश्रवणाः सुकुक्षयः स्पृष्ट (स्पष्ट) जंघाश्च ॥ ॥
६०।११अब्/ आताम्रसंहतखुरा व्यूढौरस्का बृहत्ककुदयुक्ताः ।
६०।११य्द्/ स्निग्धश्लक्ष्णतनुत्वग्रोमाणः ताम्रतनुशृंगाः ॥ ॥
६०।१२अब्/ तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः ।
६०।१२य्द्/ सिंहस्कन्धाः तन्वल्पकंबलाः पूजिताः सुगमाः (सुगताः) ॥ ॥
६०।१३अब्/ वामावर्तैः वामे दक्षिणपार्श्वे च दक्षिणावर्तैः ।
६०।१३य्द्/ शुभदा भवन्त्यनडुहो जंघाभिश्चएणकनिभाभिः ॥ ॥
६०।१४अब्/ वैदूर्य (वैडूर्य) मल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्माणः (वर्माणः) ।
६०।१४य्द्/ पार्ष्णिभिः अस्फुटिताभिः शस्ताः सर्वे च (अपि) भारसहाः ॥ ॥
६०।१५अब्/ घ्राणोद्देशे सवलिः मार्जारमुखः सितश्च दक्षिणतः ।
६०।१५य्द्/ कमलोत्पललाक्षाभः सुवालधिः वाजितुल्यजवः ॥ ॥
६०।१६अब्/ लंबैः वृषणैः मेषोदरश्च संक्षिप्तवंक्षण (क्षणा) क्रोडः ।
६०।१६य्द्/ ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥ ॥
६०।१७अब्/ सितवर्णः पिंगाक्षः ताम्रविषाणेक्षणो महावक्त्रः ।
६०।१७य्द्/ हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥ ॥
६०।१८अब्/ भूस्पृग्वालधिः आताम्रविषाणो (वग़्क्षणो) रक्तदृक् ककुद्मांश (ककुद्मी) च ।
६०।१८य्द्/ कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः ॥ ॥
६०।१९अब्/ यो वा सितैकचरणैः (सितैकचरणो) यथेष्टवर्णश्च सोऽपि शुभफलकृत् (शस्तफलः) ।
६०।१९य्द्/ मिश्रफलोऽपि ग्राह्यो यदि नएकान्त प्रशस्तोऽस्ति ॥ ॥
sएपरते अध्याय ६१ श्वलक्षणाध्यायः
६१।१अ पादाः पंचनखाः त्रयोऽग्रचरणः षड्भिः नखैः दक्षिणः
६१।१ब् ताम्रओष्ठाग्रनसो मृगेश्वरगतिः जिघ्रन् भुवं याति च ।
६१।१य् लांगूलं ससटं दृगृक्षसदृशी कर्णौ च लंबौ मृदू
६१।१द् यस्य स्यात् स करोति पोष्टुरचिरात् पुष्टां श्रियं श्वा गृहे ॥ ॥
६१।२अ पादे पादे पंच पंचाग्रपादे
६१।२ब् वामे यस्याः षण्नखा मल्लिकाक्ष्याः ।
६१।२य् वक्रं पुच्छं पिंगलालंबकर्णा
६१।२द् या सा राष्ट्रं कुक्कुरी पाति पुष्टा (पोष्टुः) ॥ ॥
sएपरते अध्याय ६२ कुक्कुटलक्षणाध्यायः
६२।१अब्/ कुक्कुटः त्वृजुतनूरुहांगुलिः ताम्रवक्त्रनखचूलिकः सितः ।
६२।१य्द्/ रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम् ॥ ॥
६२।२अ यवग्रीवो यो वा बदरसदृशो वापि विहगो
६२।२ब् बृहन्मूर्धा वर्णैः भवति बहुभिश्च रुचिरः ।
६२।२य् स शस्तः संग्रामे मधुमधुपवर्णश्च जयकृद्
६२।२द् न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः ॥ ॥
६२।३अब्/ कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेषणा ।
६२।३य्द्/ सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः ॥ ॥
sएपरते अध्याय ६३ कूर्मलक्षणाध्यायः
६३।१अ स्फुटिकरजतवर्णो नीलराजीविचित्रः
६३।१ब् कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः ।
६३।१य् अरुणसमवपुः वा सर्षपाकारचित्रः
६३।१द् सकलनृपमहत्त्वं मन्दिरस्थः करोति ॥ ॥
६३।२अब्/ अञ्जनभृंगश्यामतनुः वा बिन्दुविचित्रोऽव्यंगशरीरः ।
६३।२य्द्/ सर्पशिरा वा स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै ॥ ॥
६३।३अ वैडूर्यत्विट् स्थूलकण्ठः त्रिकोणो
६३।३ब् गूढच्छिद्रश्च ऊरु (चारु) वंशश्च शस्तः ।
६३।३य् क्रीडावाप्यां तोयपूर्णे मणौ वा
६३।३द् कार्यः कूर्मो मंगलार्थं नरेन्द्रैः ॥ ॥
sएपरते अध्याय ६४ छागलक्षणाध्यायः
६४।१अब्/ छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्ताः ते ।
६४।१य्द्/ धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ॥ ॥
६४।२अब्/ दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति ।
६४।२य्द्/ ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमति (अपि) शुभदम् ॥ ॥
६४।३अब्/ स्तनवदवलंबते यः कण्ठेऽजानां मणिः स विज्ञेयः ।
६४।३य्द्/ एकमणिः शुभफलकृद्धन्यतमा द्वित्रमणयो (द्वित्रिमणयो) ये ॥ ॥
६४।४अब्/ मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च ।
६४।४य्द्/ अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ॥ ॥
६४।५अब्/ विचरति यूथस्याग्रे प्रथमं चांभोऽवगाहते योऽजः ।
६४।५य्द्/ स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका (टिक्किका) यस्य ॥ ॥
६४।६अब्/ सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः ।
६४।६य्द्/ कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः ॥ ॥
६४।७अब्/ यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन ।
६४।७य्द्/ यो वा चरति सशब्दं मन्दं च स शोभनच्छागः ॥ ॥
६४।८अब्/ ऋष्यशिरोरुहपादो यो वा प्राक् पाण्डुरोऽपरे नीलः ।
६४।८य्द्/ स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गौक्तः ॥ ॥
६४।९अब्/ कुट्टकः कुटिलश्चैव जटिलो वामनः तथा ।
६४।९य्द्/ ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ॥ ॥
६४।१०अ अथाप्रशस्ताः खरतुल्यनादाः
६४।१०ब् प्रदीप्तपुच्छाः कुनखा विवर्णाः ।
६४।१०य् निकृत्तकर्णा द्विपमस्तकाश्च
६४।१०द् भवन्ति ये चासिततालुजिह्वाः ॥ ॥
६४।११अ वर्णैः प्रशस्तैः मणिभिः प्रयुक्ता (च युक्ता)
६४।११ब् मुण्डाश्च ये ताम्रविलोचनाश्च ।
६४।११य् ते पूजिता वेश्मनि (वेश्मसु) मानवानां
६४।११द् सौख्यानि कुर्वन्ति यशः श्रियं च ॥ ॥
sएपरते अध्याय ६५ अश्वालक्षणाध्यायः
६५।१अ दीर्घग्रीवाक्षिकूटः त्रिकहृदयपृथुः ताम्रतालु ओष्ठजिह्वः
६५।१ब् सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णओष्ठपुच्छः ।
६५।१य् जंघाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो
६५।१द् वाजी सर्वांगशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥ ॥
६५।२अब्/ अश्रुपातहनुगण्डहृद् (हृड्) गलप्रोथशंखकटिबस्तिजानूनि ।
६५।२य्द्/ मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा (चरणेषु च) शुभाः ॥ ॥
६५।३अ ये प्रपाणगलकर्णसंस्थिताः
६५।३ब् पृष्ठमध्यनयनोपरि स्थिताः ।
६५।३य् ओष्ठसक्थिभुजकुक्षिपार्श्वगाः
६५।३द् ते ललाटसहिताः सुशोभनाः ॥ ॥
६५।४अब्/ तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः ।
६५।४य्द्/ रन्ध्रुपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ ॥ ॥
६५।५अ षष्भिः दन्तैः सिताभैः भवति हयशिशुः तैः कशायैः द्विवर्षैः
६५।५ब् सन्दंशैः मध्यमन्त्यैः पति (पतित) समुदितैः त्र्यब्धि (त्र्यब्द) पंचाब्दिकाश्वः ।
६५।५य् सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः
६५।५द् काचा मक्षीक (माक्षीक) शंखावटचलनमतो दन्तपातं च विद्धि ॥ ॥
sएपरते अध्याय ६६ हस्तिलक्षणाध्यायः
६६।१अ मध्वाभदन्ताः सुविभक्तदेहा
६६।१ब् न चौपदिग्धा न (दिग्धाश्च) कृशाः क्षमाश्च ।
६६।१य् गात्रैः समैश्चापसमानवंशा
६६।१द् वराहतुल्यैः जघनैश्च भद्राः ॥ ॥
६६।२अ वक्षोऽथ कक्षावलयः श्लथाश्च
६६।२ब् लंबौदरः त्वग् बृहती गलश्च ।
६६।२य् स्थूला च कुक्षिः सह पेचकेन
६६।२द् सैंही च दृग् मन्दमतंगजस्य ॥ ॥
६६।३अ मृगाः तु ह्रस्वाधरवालमेढ्राः
६६।३ब् तन्वंघ्रि (तन्वंह्रि) कण्ठद्विजहस्तकर्णाः ।
६६।३य् स्थूलेक्षणाश्चेति यथोक्तचिह्नैः
६६।३द् संकीर्णनागा व्यतिमिश्रचिह्नाः ॥ ॥
६६।४अ पंचौन्नतिः सप्त मृगस्य दैर्घ्यम्
६६।४ब् अष्टौ च हस्ताः परिणाहमानम् ।
६६।४य् एकद्विवृद्धावथ मन्दभद्रौ
६६।४द् संकीर्ननागोऽनियतप्रमाणः ॥ ॥
६६।५अ भद्रस्य वर्णो हरितो मदश्च (मद्स्य)
६६।५ब् मन्दस्य हारिद्रकसन्निकाशः ।
६६।५य् कृष्णो मदश्चाभिहितो मृगस्य
६६।५द् संकीर्णनागस्य मदो विमिश्रः ॥ ॥
६६।६अ ताम्रोष्ठतालुवदनाः कलविंकनेत्राः
६६।६ब् स्निग्ध ऊनताग्रदशनाः पृथुलायतास्याः ।
६६।६य् चापौन्नतायतनिगूढनिमग्नवंशाः
६६।६द् तन्वेकरोमचितकूर्मसमानकुंभाः ॥ ॥
६६।७अ विस्तीर्णकर्णहनुनाभिललाटगुह्याः
६६।७ब् कूर्मौन्नतद्विनवविंशतिभिः नखैश्च ।
६६।७य् रेखात्रयौपचितवृत्तकराः सुवाला
६६।७द् धन्याः सुगन्धिमदपुष्करमारुताश्च ॥ ॥
६६।८अब्/ दीर्घांगुलिरक्तपुष्कराः सजलांभोदनिनादबृंहिणः ।
६६।८य्द्/ बृहदायतवृत्तकन्धरा धन्या भूमिपतेः मतंगजाः ॥ ॥
६६।९अ निमर्द (निर्मदा) अभ्यधिकहीननखांगान्
६६।९ब् कुब्जवामनकमेषविषाणान् ।
६६।९य् दृश्यकोशफलपुष्करहीनान्
६६।९द् श्यावनीलशबलासिततालून् ॥ ॥
६६।१०अ स्वल्पवक्त्ररुहमत्कुणषण्ढान्
६६।१०ब् हस्तिनीं च गजलक्षणयुक्ताम्
६६।१०य् गर्भिणी च नृपतिः परदेशं
६६।१०द् प्रापयेदतिविरूपफलाः ते ॥ ॥
sएपरते अध्याय ६७ पुरुषलक्षनाध्यायः
६७।१अ उन्मानमानगतिसंहतिसारवर्ण-
६७।१ब् स्नेहस्वरप्रकृतिसत्त्वमनूकं आदौ ।
६७।१य् क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य
६७।१द् सामुद्रविद् वदति यातमनागतं वा (च) ॥ ॥
६७।२अ अस्वेदनौ मृदुतलौ कमलौदराभौ
६७।२ब् श्लिष्टांगुली रुचिरताम्रनखौ सुपार्ष्णी ।
६७।२य् उष्णौ शिराविरहितौ सुनिगूढगुल्फौ
६७।२द् कूर्मौन्नतौ च चरणौ मनुजेश्वरस्य ॥ ॥
६७।३अ शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ
६७।३ब् संशुष्कौ विरलांगुली च चरणौ दारिद्र्यदुःखप्रदौ ।
६७।३य् मार्गायौत्कटकौ कषायसदृशौ वंशस्य विच्छेददौ (विच्छित्तिदौ)
६७।३द् ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीतावगम्यारतौ (पीतावगम्यरतौ) ॥ ॥
६७।४अ प्रविरलतनुरोमवृत्तजंघा
६७।४ब् द्विरदकरप्रतिमैः वर ऊरुभिश्च ।
६७।४य् उपचितसमजानवश्च भूपा
६७।४द् धनरहिताः श्वशृगालतुल्यजंघाः ॥ ॥
६७।५अ रोमएकैकं कूपके पार्थिवानां
६७।५ब् द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् ।
६७।५य् त्र्याद्यैः निःस्वा मानवा दुःखभाजः
६७।५द् केशाश्चैवं निन्दिताः पूजिताश्च ॥ ॥
६७।६अ निर्मांसजानुः म्रियते प्रवासे
६७।६ब् सौभाग्यमल्पैः विकटैः दरिद्राः ।
६७।६य् स्त्रीनिर्जिताश्चैव (चापि) भवन्ति निम्नै
६७।६द् राज्यं समांशैश्च महद्भिः आयुः ॥ ॥
६७।७अ लिंगेऽल्पे धनवान् अपत्यरहितः स्थूले ऽपि हीनो (विहीनो) धनैः
६७।७ब् मेढ्रे वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान् ।
६७।७य् दारिद्र्यं विनते त्वधोऽल्पतनयो लिंगे शिरासन्तते
६७।७द् स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः ॥ ॥
६७।८अब्/ कोशनिगूढैः भूपा दीर्घैः भग्नैश्च वित्तपरिहीनाः ।
६७।८य्द्/ ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ॥ ॥
६७।९अब्/ जलमृत्युः एकवृषणो विषमैः स्त्रीचंचलः समैः क्षितिपः ।
६७।९य्द्/ ह्रस्वायुश्चौद्बद्धैः प्रलंबवृषणस्य शतमायुः ॥ ॥
६७।१०अब्/ रक्तैः आढ्या मणिभिः निर्द्रव्याः पाण्डुरैश्च मलिनैश्च ।
६७।१०य्द्/ सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ॥ ॥
६७।११अब्/ द्वित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः ।
६७।११य्द्/ पृथिवीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ॥ ॥
६७।१२अब्/ एकैव मूत्रधारा वलिता रूपप्रदा न सुतदात्री (रूपप्रधानसुतदात्री) ।
६७।१२य्द्/ स्निग्धौन्नतसममणयो धनवनितारत्नभोक्तारः ।
६७।१३अब्/ मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति निःस्वाश्च ।
६७।१३य्द्/ बहुपशुभाजो मध्यौन्नतैश्च नात्युल्बणैः धनिनः ॥ ॥
६७।१४अब्/ परिशुष्कबस्तिशीर्षैः धनरहिता दुर्भगाश्च विज्ञेयाः ।
६७।१४य्द्/ कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ॥ ॥
६७।१५अब्/ मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहूनि अपत्यानि ।
६७।१५य्द्/ तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी ॥ ॥
६७।१६अब्/ मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः ।
६७।१६य्द्/ शीघ्रं मैथुनगामी दीर्घायुः अतोऽन्यथा अल्पायुः ॥ ॥
६७।१७अब्/ निःस्वोऽतिस्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति ।
६७।१७य्द्/ व्याघ्रान्तोऽध्यर्धस्फिग् मण्डूकस्फिग् नराधिपतिः ॥ ॥
६७।१८अब्/ सिंहकटिः मनुजेन्द्रः कपिकरभकटिः धनैः परित्यक्तः ।
६७।१८य्द्/ समजठरा भोगयुता घटपिठरनिभौदरा निःस्वाः ॥ ॥
६७।१९अब्/ अविकलपार्श्वा धनिनो निम्नैः वक्रैश्च भोगसन्त्यक्ताः ।
६७।१९य्द्/ समकुक्षा भोगाढ्या निम्नाभिः भोगपरिहीनाः ॥ ॥
६७।२०अब्/ उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युः मानवा विषमकुक्षाः ।
६७।२०य्द्/ सर्पौदरा दरिद्रा भवन्ति बह्वाशिनश्चैव ॥ ॥
६७।२१अब्/ परिमण्डलौन्नताभिः विस्तीर्णाभिश्च नाभिभिः सुखिनः ।
६७।२१य्द्/ अल्पा (स्वल्पा) त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति ॥ ॥
६७।२२अब्/ वलिमध्यगता विषमा शूलाद् बाधां (शूलाबाधं) करोति नैस्वयं (नैःस्व्यं) च ।
६७।२२य्द्/ शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः ॥ ॥
६७।२३अब्/ पार्श्वायता चिरायुषमुपरिष्टागईश्वरं गवाढ्यमधः ।
६७।२३य्द्/ शतपत्रकर्णिकाभा नाभिः मनुजेश्वरं कुरुते ॥ ॥
६७।२४अब्/ शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासंख्यम् ।
६७।२४य्द्/ एकद्वित्रिचतुर्भिः वलिभिः विन्द्याद् नृपं त्ववलिम् ॥ ॥
६७।२५अब्/ विषमवलयो मनुष्या भवन्त्यगम्या अभिगामिनः पापाः ।
६७।२५य्द्/ ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव ॥ ॥
६७।२६अब्/ मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिः भूपाः ।
६७।२६य्द्/ विपरीतैः निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः ॥ ॥
६७।२७अब्/ सुभगा भवन्त्यनुद्वद्ध (अनुबद्ध) चूचुका निर्धना विषमदीर्घैः ।
६७।२७य्द्/ पीनौपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः ॥ ॥
६७।२८अब्/ हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम् ।
६७।२८य्द्/ अधनानां विपरीतं खररोमचितं शिरालं च ॥ ॥
६७।२९अब्/ समवक्षसोऽर्थवन्तः पीनैः शूरा हि (शूराः त्व्) अकिंचनाः तनुभिः ।
६७।२९य्द्/ विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ॥ ॥
६७।३०अब्/ विषमैः विषमो जत्रुभिः अर्थविहीनोऽस्थिसन्धिपरिणद्धैः ।
६७।३०य्द्/ उन्नतजत्रुः भोगी (भागी) निम्नैः निःस्वोऽर्थवान् पीनैः ॥ ॥
६७।३१अब्/ चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा ।
६७।३१य्द्/ महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ॥ ॥
६७।३२अब्/ कंबुग्रीवो राजा प्रलंबकण्ठः प्रभक्षणो भवति ।
६७।३२य्द्/ पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ॥ ॥
६७।३३अब्/ अस्वेदनपीनौन्नतसुगन्ध (सुगन्धि) समरोमसंकुलाः कक्षाः ।
६७।३३य्द्/ विज्ञातव्या धनिनामतोऽन्यथार्थैः विहीनानाम् ॥ ॥
६७।३४अब्/ निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ ।
६७।३४य्द्/ विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ॥ ॥
६७।३५अब्/ करिकरसदृशौ वृत्तावाजान्ववलंबिनौ समौ पीनौ ।
६७।३५य्द्/ बाहू पृथिवीशानामधनानां (अधमानां) रोमशौ ह्रस्वौ ॥ ॥
६७।३६अब्/ हस्तांगुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम् ।
६७।३६य्द्/ मेधाविनाम् च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ॥ ॥
६७।३७अब्/ स्थूलाभिः धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः ।
६७।३७य्द्/ कपिसदृशकरा धनिनो व्याघ्रौपमपाणयः पापाः ॥ ॥
६७।३८अब्/ मणिबन्धनैः निगूढैः दृढैश्च सुश्लिष्टसन्धिभिः भूपाः ।
६७।३८य्द्/ हीनैः हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥ ॥
६७।३९अब्/ पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः ।
६७।३९य्द्/ संवृतनिम्नैः धनिनः प्रोत्तानकराश्च दातारः ॥ ॥
६७।४०अब्/ विषमैः विषमा निःस्वाश्च करतलैः ईश्वराः (ईश्वराः) तु लाक्षाभैः ।
६७।४०य्द्/ पीतैः अगम्यवनिताभिगामिनो निर्धना रूक्षैः ॥ ॥
६७।४१अब्/ तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः ।
६७।४१य्द्/ कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ॥ ॥
६७।४२अब्/ अंगुष्ठयवैः आढ्याः सुतवन्तो अंगुष्ठमूलजैश्च यवैः (मूलगैश्च यवः) ।
६७।४२य्द्/ दीर्घांगुलिपर्वाणः सुभगा दीर्घायुषश्चैव ॥ ॥
६७।४३अब्/ स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम् ।
६७।४३य्द्/ विरलांगुलयो निःस्वा धनसंचयिनो घनांगुलयः ॥ ॥
६७।४४अब्/ तिस्रो रेखा मणिबन्धनोत्थिताः करतलौपगा नृपतेः ।
६७।४४य्द्/ मीनयुगांकितपाणिः नित्यं सत्रप्रदो भवति ॥ ॥
६७।४५अब्/ वज्राकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः ।
६७।४५य्द्/ शंख आतपत्रशिविकागजाश्वपद्मौपमा नृपतेः ॥ ॥
६७।४६अब्/ कलशमृणालपता अकांकुशौपमाभिः भवन्ति निधिपालाः ।
६७।४६य्द्/ दामनिभाभिश्च आढ्याः स्वस्तिकरूपाभिः ऐश्वर्यम् ॥ ॥
६७।४७अब्/ चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः ।
६७।४७य्द्/ कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥ ॥
६७।४८अब्/ मकरध्वजकोष्ठागारसन्निभाभिः महाधनोपेताः ।
६७।४८य्द्/ वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥ ॥
६७।४९अब्/ वापीदेवकुलाद्यैः धर्मं कुरुवन्ति च त्रिकोणाभिः ।
६७।४९य्द्/ अंगुष्ठमूलरेखाः पुत्राः स्युः दारिकाः सूक्ष्माः ॥ ॥
६७।५०अब्/ रेखाः प्रदेशिनिगताः (गाः) शतायुषं कल्पनीयमूनाभिः ।
६७।५०य्द्/ छिन्नाभिः द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥ ॥
६७।५१अब्/ अतिकृशदीर्घैश्चिबुकैः निर्द्रव्या मांसलैः धनोपेताः ।
६७।५१य्द्/ विंब (बिंब) उपमैः अवक्रैः अधरैः भूपाः तनुभिः अस्वाः ॥ ॥
६७।५२अब्/ ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
६७।५२य्द्/ स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ॥ ॥
६७।५३अब्/ जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो (भोगिनां) ज्ञेया ।
६७।५३य्द्/ श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ॥ ॥
६७।५४अब्/ वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम् ।
६७।५४य्द्/ विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ॥ ॥
६७।५५अब्/ स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम् ।
६७।५५य्द्/ दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ॥ ॥
६७।५६अब्/ चतुरस्रं (चतुरश्रं) धूर्तानां निम्नं वक्रं (वक्त्रं) च तनयरहितानाम् ।
६७।५६य्द्/ कृपणानामतिह्रस्वं सम्पूर्णं भोगिनां कान्तम् ॥ ॥
६७।५७अब्/ अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव ।
६७।५७य्द्/ रक्तैः परुषैश्चौराः श्मश्रुभिः अल्पैश्च विज्ञेयाः ॥ ॥
६७।५८अब्/ निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः ।
६७।५८य्द्/ कृपणाश्च ह्रस्वकर्णाः शंकुश्रवणाश्चमूपतयः (च भूपतयः) ॥ ॥
६७।५९अब्/ रोमशकर्णा दीर्घायुषश्च (तु) धनभागिनो विपुलकर्णाः ।
६७।५९य्द्/ क्रूराः शिरावनद्धैः व्यालंबैः मांसलैः सुखिनः ॥ ॥
६७।६०अब्/ भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः ।
६७।६०य्द्/ सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च ॥ ॥
६७।६१अब्/ छिन्नानुरूपया अगम्यगामिनो दीर्घया तु सौभाग्यम् ।
६७।६१य्द्/ आकुंचितया चौरः स्त्रीमृत्युः स्यागिपिटनासः ॥ ॥
६७।६२अब्/ धनिनोऽग्रवक्रनासा दक्षिणविनताः (वक्राः) प्रभक्षणाः क्रूराः ।
६७।६२य्द्/ ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम् ॥ ॥
६७।६३अब्/ धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्लादि सानुनादं च ।
६७।६३य्द्/ दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव ॥ ॥
६७।६४अब्/ पद्मदलाभैः धनिनो रक्तान्तविलोचनाः (विलोचनाः) श्रियः भाजः ।
६७।६४य्द्/ मधुपिंगलैः महार्था मार्जारविलोचनैः पापाः ॥ ॥
६७।६५अब्/ हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः ।
६७।६५य्द्/ क्रूराः केकरनेत्रा गजसदृशविलोचनाश्चमूपतयः (दृशश्च भूपतयः) ॥ ॥
६७।६६अब्/ ऐश्वर्यम् गंभीरैः नीलोत्पलकान्तिभिश्च विद्वांसः ।
६७।६६य्द्/ अतिकृष्णतारकाणामक्ष्नामुत्पाटनं भवति ॥ ॥
६७।६७अब्/ मन्त्रित्वं स्थूलदृशां श्यावाक्षाणां भवति सौभाग्यम् ।
६७।६७य्द्/ दीना दृग् निःस्वानां स्निग्धा विपुलार्थभोगवताम् ॥ ॥
६७।६८अब्/ अभ्युन्नताभिः अल्पायुषो विशालौन्नताभिः अतिसुखिनः ।
६७।६८य्द्/ विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः ॥ ॥
६७।६९अब्/ दीर्घा असंसक्ताभिः धनिनः खण्डाभिः अर्थपरिहीनाः ।
६७।६९य्द्/ मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥ ॥
६७।७०अब्/ उन्नतविपुलैः शंखैः धनिनो (धन्या) निम्नैः सुतार्थसन्त्यक्ताः ।
६७।७०य्द्/ विषमललाटा विधना धनवन्तोऽर्धेन्दुसदृशेन ॥ ॥
६७।७१अब्/ शुक्तिविशालैः आचार्यता शिरासन्ततैः अधर्मरताः ।
६७।७१य्द्/ उन्नतशिराभिः आढ्याः स्वस्तिकवत् संस्थिताभिश्च ॥ ॥
६७।७२अब्/ निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च ।
६७।७२य्द्/ अभ्युन्नतैश्चमूपाः (भूपाः) कृपणाः स्युः संवृत (सग़्कट) ललाटाः ॥ ॥
६७।७३अब्/ रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम् ।
६७।७३य्द्/ रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ॥ ॥
६७।७४अब्/ हसितं शुभदमकंपं सनिमीलितलोचनं तु पापस्य ।
६७।७४य्द्/ दुष्टस्य (हृष्टस्य) हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥ ॥
६७।७५अब्/ तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता यदि ताः ।
६७।७५य्द्/ चतसृभिः अवनीशत्वं नवतिश्चायुः सपंचाब्दा ॥ ॥
६७।७६अब्/ विच्छिन्नाभिश्चागम्यगामिनो नवतिः अपि अरेखेण ।
६७।७६य्द्/ केशान्तोपगताभी रेखाभिः अशीतिवर्षायुः ॥ ॥
६७।७७अब्/ पंचभिः आयुः सप्ततिः एकाग्रावस्थिताभिः अपि षष्टिः ।
६७।७७य्द्/ बहुरेखेण शतार्धं चत्वारिंशग वक्राभिः ॥ ॥
६७।७८अब्/ भ्रूलग्नाभिः त्रिंशद् (त्रिंशभ्रूलग्नाभिः) विंशतिकश्चैव वामवक्राभिः ।
६७।७८य्द्/ क्षुद्राभिः स्वल्पायुः न्यूनाभिश्चान्तरे कल्प्यम् ॥ ॥
६७।७९अब्/ परिमण्डलैः गवाढ्याश्छत्राकारैः शिरोभिः अवनीशाः ।
६७।७९य्द्/ चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान् मृत्युः ॥ ॥
६७।८०अब्/ घटमूर्धा अध्वानरुचिः द्विमस्तकः पापकृद् धनैः त्यक्तः ।
६७।८०य्द्/ निम्नं तु शिरो महतां बहुनिम्नमनर्थदं भवति ॥ ॥
६७।८१अब्/ एकैकभवैः स्निग्धैः कृष्णैः आकुंचितैः अभिन्नाग्रैः ।
६७।८१य्द्/ मृदुभिः न चातिबहुभिः केशैः सुखभाग् नरेन्द्रो वा ॥ ॥
६७।८२अब्/ बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च ।
६७।८२य्द्/ अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीनानाम् ॥ ॥
६७।८३अब्/ यद्यद् गात्रं रूक्षं मांसविहीनं शिरावनद्धं च ।
६७।८३य्द्/ तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम् ॥ ॥
६७।८४अब्/ त्रिषु विपुलो गंभीरः त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः ।
६७।८४य्द्/ सप्तसु रक्तो राजा पंचसु दीर्घश्च सूक्ष्मश्च ॥ ॥
६७।८५अ नाभी (नाभिः) स्वरः सत्त्वमिति प्रशस्तं (प्रदिष्टं)
६७।८५ब् गंभीरमेतत् त्रितयं नराणाम् ।
६७।८५य् उरो ललाटं वदनं च पुंसां
६७।८५द् विस्तीर्णमेतत् त्रितयं प्रशस्तम् ॥ ॥
६७।८६अ वक्षोऽथ कक्षा नखनासिकास्यं
६७।८६ब् कृकाटिका चेति षडुन्नतानि ।
६७।८६य् ह्रस्वानि चत्वारि च लिंगपृष्ठं
६७।८६द् ग्रीवा च जंघे च हितप्रदानि ॥ ॥
६७।८७अ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा
६७।८७ब् रक्ता नखाश्च खलु सप्त सुखावहानि ।
६७।८७य् सूक्ष्माणि पंच दशनांगुलिपर्वकेशाः
६७।८७द् साकं त्वचा कररुहा न च (कररुहाश्च न) दुःखितानाम् ॥ ॥
६७।८८अब्/ हनुलोचनबाहुनासिकाः स्तनयोः अन्तरमत्र पंचमम् ।
६७।८८य्द्/ इति दीर्घमिदं तु पंचकं न भवत्येव नृणामभूभृताम् ॥ ॥
६७।८९अ छाया शुभाशुभफलानि निवेदयन्ती
६७।८९ब् लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः ।
६७।८९य् तेजोगुणान् बहिः अपि प्रविकाशयन्ती
६७।८९द् दीपप्रभा स्फटिकरत्नघटस्थितेव ॥ ॥
६७।९०अ स्निग्धद्विजत्वग्नखरोमकेशाः (केश)
६७।९०ब् छाया सुगन्धा च महीसमुत्था ।
६७।९०य् तुष्ट्यर्थलाभाभ्युदयान् करोति
६७।९०द् धर्मस्य चाहन्यहनि प्रवृत्तिम् ॥ ॥
६७।९१अ स्निग्धा सिताच्छहरिता नयनाभिरामा
६७।९१ब् सौभाग्यमार्दवसुखाभ्युदयान् करोति ।
६७।९१य् सर्वार्थसिद्धिजननी जननीव च आप्या
६७।९१द् छाया फलं तनुभृतां शुभमादधाति ॥ ॥
६७।९२अ चण्डा अधृष्या पद्महेमाग्निवर्णा
६७।९२ब् युक्ता तेजोविक्रमैः सप्रतापैः ।
६७।९२य् आग्नेयीति प्राणिनां स्याज्जयाय
६७।९२द् क्षिप्रं सिद्धिं वांछितार्थस्य दत्ते (धत्ते) ॥ ॥
६७।९३अ मलिनपरुषकृष्णा पापगन्धानिलोत्था
६७।९३ब् जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।
६७।९३य् स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा
६७।९३द् निधिः इव गगनोत्था श्रेयसां स्वच्छवर्णा ॥ ॥
६७।९४अ छायाः क्रमेण कुजलाग्न्यनिलांबरोत्थाः
६७।९४ब् केचिद् वदन्ति दश ताश्च यथानुपूर्व्या ।
६७।९४य् सूर्याब्जनाभपुरुहूतयमौडुपानां
६७।९४द् तुल्याः तु लक्षणफलैः इति तत्समासः ॥ ॥
६७।९५अब्/ करिवृषरथौघभेरीमृदंगसिंहाभ्र (अब्द) निःस्वना भूपाः ।
६७।९५य्द्/ गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥ ॥
६७।९६अब्/ सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि ।
६७।९६य्द्/ रुधिरं मांसं चेति प्राणभृतां तत्समासफलम् ॥ ॥
६७।९७अब्/ ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः ।
६७।९७य्द्/ रक्ते (रक्तैः) तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः ॥ ॥
६७।९८अब्/ स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणाः तनुभिः ।
६७।९८य्द्/ मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः (युक्ताः) ॥ ॥
६७।९९अब्/ स्थूलास्थिः अस्थिसारो बलवान् विद्यान्तगः सुरूपश्च ।
६७।९९य्द्/ बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥ ॥
६७।१००अब्/ उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः ।
६७।१००य्द्/ संघाता इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥ ॥
६७।१०१अब्/ स्नेहः पंचसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः ।
६७।१०१य्द्/ सुतधनसौभाग्ययुताः स्निग्धैः तैः निर्धना रूक्षैः ॥ ॥
६७।१०२अब्/ द्युतिमान् वर्णस्निग्धः (वर्णः स्निग्धः) क्षितिपानाम् मध्यमः सुतार्थवताम् ।
६७।१०२य्द्/ रूक्षो धनहीनानां शुद्धः शुभदो न संकीर्णः ॥ ॥
६७।१०३अब्/ साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः ।
६७।१०३य्द्/ अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥ ॥
६७।१०४अब्/ वानरमहिषवराहाजतुल्यवदनाः श्रुतार्थ (सुतार्थ) सुखभाजः ।
६७।१०४य्द्/ गर्दभकरभप्रतिमैः मुखैः शरीरैश्च निःस्वसुखाः ॥ ॥
६७।१०५अब्/ अष्टशतं षण्णवतिः (षणवतिः) परिमाणं चतुरशीतिः इति पुंसाम् ।
६७।१०५य्द्/ उत्तमसमहीनानामंगुलसंख्या स्वमानेन ॥ ॥
६७।१०६अब्/ भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभाग् भवत्यूनः ।
६७।१०६य्द्/ भारोऽतिवाढ्यानामध्यर्धः सर्वधरणीशः ॥ ॥
६७।१०७अब्/ विंशतिवर्षा नारी पुरुषः खलु पंचविंशतिभिः अब्दैः ।
६७।१०७य्द्/ अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥ ॥
६७।१०८अब्/ भूजलशिख्यनिलांबरसुरनररक्षः पिशाचकतिरश्चाम् ।
६७।१०८य्द्/ सत्त्वेन भवति पुरुषो लक्षणमेतद् भवति तेषां (एषां) ॥ ॥
६७।१०९अ महीस्वभावः शुभपुष्पगन्धः
६७।१०९ब् संभोगवान् सुश्वसनः स्थिरश्च ।
६७।१०९य् तोयस्वभावो बहुतोयपायी
६७।१०९द् प्रियाभिभाषी (अभिलाषी) रसभाजनः (भोजनः) च ॥ ॥
६७।११०अ अग्निप्रकृत्या चपलोऽतितीक्ष्णश्
६७।११०ब् चण्डः क्षुधालुः बहुभोजनश्च ।
६७।११०य् वायोः स्वभावेन चलः कृशश्च
६७।११०द् क्षिप्रं च कोपस्य वशं प्रयाति ॥ ॥
६७।१११अ खप्रकृतिः निपुणो विवृतास्यः
६७।१११ब् शब्दगतेः कुशलः सुशिरांगः ।
६७।१११य् त्यागयुतः (त्यागयुतो) पुरुषो मृदुकोपः
६७।१११द् स्नेहरतश्च भवेत् सुरसत्त्वः ॥ ॥
६७।११२अब्/ मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः ।
६७।११२य्द्/ संविभागशीलवान् नित्यमेव मानवः ॥ ॥
६७।११३अ तीक्ष्णप्रकोपः खलचेष्टितश्च
६७।११३ब् पापश्च सत्त्वेन निशाचराणाम् ।
६७।११३य् पिशाचसत्त्वश्चपलो मलाक्तो
६७।११३द् बहुप्रलापी च समुल्बणांगः ॥ ॥
६७।११४अ भीरुः क्षुधालुः बहुभुक् च यः स्याद्
६७।११४ब् ज्ञेयश्च (स) सत्त्वेन नरः तिरश्चाम् ।
६७।११४य् एवं नराणां प्रकृतिः प्रदिष्टा
६७।११४द् यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम् ॥ ॥
६७।११५अ शार्दूलहंससमदद्विपगोपतीनां
६७।११५ब् तुल्या भवन्ति गतिभिः शिखिनां च भूपाः ।
६७।११५य् येषां च शब्दरहितं स्तिमितं च यातं
६७।११५द् तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥ ॥
६७।११६अ श्रान्तस्य यानमशनं च बुभुक्षितस्य
६७।११६ब् पानं तृषापरिगतस्य भयेषु रक्षा ।
६७।११६य् एतानि यस्य पुरुषस्य भवन्ति काले
६७।११६द् धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥ ॥
६८।११७अब्/ पुरुषलक्षणमुक्तमिदं मया मुनिमतानि अवलोक्य समासतः ।
६८।११७य्द्/ इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥ ॥
sएपरते अध्याय ६८ पंचमनुष्यविभागाध्यायः
६८।१अब्/ ताराग्रहैः बलयुतैः स्वक्षेत्रस्वौच्चगैश्चतुष्टयगैः ।
६८।१य्द्/ पंच पुरुषाः प्रशस्ता जायन्ते तान् अहं वक्ष्ये ॥ ॥
६८।२अब्/ जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च ।
६८।२य्द्/ भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ॥ ॥
६८।३अब्/ सत्त्वमहीनं सूर्यात्शारीरं मानसं च चन्द्रबलात् ।
६८।३य्द्/ यद् राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान् ॥ ॥
६८।४अब्/ तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः ।
६८।४य्द्/ अबलरवीन्दुयुतैः तैः संकीर्णा लक्षणैः पुरुषाः ॥ ॥
६८।५अब्/ भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः ।
६८।५य्द्/ वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् ॥ ॥
६८।६अब्/ संकीर्णाः स्युः न नृपा दशासु तेषां भवन्ति सुखभाजः ।
६८।६य्द्/ रिपुगृहनीचौच्चच्युतसत्पापनिरीक्षणैः भेदाः (भेदः) ॥ ॥
६८।७अब्/ षण्णवतिः अंगुलानां व्यायामो दीर्घता च हंसस्य ।
६८।७य्द्/ शशरुचकभद्रमालव्यसंज्ञिताः त्र्यंगुलविवृद्ध्या ॥ ॥
६८।८अ यः सात्त्विकः तस्य दया स्थिरत्वं
६८।८ब् सत्त्वार्जवं ब्राह्मणदेवभक्तिः ।
६८।८य् रजो अधिकः काव्यकलाक्रतुस्त्री-
६८।८द् संसक्तचित्तः पुरुषोऽतिशूरः ॥ ॥
६८।९अ तमोऽधिको वंचयिता परेषां
६८।९ब् मूर्खोऽलसः क्रोधपरोऽतिनिद्रः ।
६८।९य् मिश्रैः गुणैः सत्त्वरजस्तमोभिः
६८।९द् मिश्राः तु ते सप्त सह प्रभेदैः ॥ ॥
६८।१०अ मालव्यो नागनासः समभुज (नागनाससमभुज) युगलो जानुसम्प्राप्तहस्तो
६८।१०ब् मांसैः पूर्णांगसन्धिः समरुचिरतनुः मध्यभागे कृशश्च ।
६८।१०य् पंचाष्टौ च ऊर्ध्वमास्यं श्रुतिविवरमपि त्र्यंगुलोनं च तिर्यग्
६८।१०द् दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ॥ ॥
६८।११अ मालवान् स भरुकच्छसुराष्ट्रान्
६८।११ब् लाटसिन्धुविषयप्रभृतींश्च ।
६८।११य् विक्रमार्जितधनोऽवति राजा
६८।११द् पारियात्रनिलयान् (निलयः) कृतबुद्धिः ॥ ॥
६८।१२अब्/ सप्ततिवर्षो मालव्योऽयं त्यक्ष्यति सम्यक् प्राणां तीर्थे ।
६८।१२य्द्/ लक्षणमेतत् सम्यक् प्रोक्तं शेषनराणां चातो वक्ष्ये ॥ ॥
६८।१३अ उपचितसमवृत्तलंबबाहुः
६८।१३ब् भुजयुगलप्रमितः समुच्छ्रयोऽस्य ।
६८।१३य् मृदुतनुघनरोमनद्धगण्डो
६८।१३द् भवति नरः खलु लक्षणेन भद्रः ॥ ॥
६८।१४अ त्वक्षुक्रसारः पृथुपीनवक्षाः
६८।१४ब् सत्त्वाधिको व्याघ्रमुखः स्थिरश्च ।
६८।१४य् क्षमान्वितो धर्मपरः कृतज्ञो
६८।१४द् गजेन्द्रगामी बहुशास्त्रवेत्ता ॥ ॥
६८।१५अ प्राज्ञो वपुष्मान् सुललाटशंखः
६८।१५ब् कलास्वभिज्ञो धृतिमान् सुकुक्षिः ।
६८।१५य् सरोजगर्भद्युतिपाणिपादो
६८।१५द् योगी सुनासः समसंहतभ्रूः ॥ ॥
६८।१६अ नवांबुसिक्तावनिपत्रकुंकुम-
६८।१६ब् द्विपेन्द्रदानागुरुतुल्यगन्धता ।
६८।१६य् शिरोरुहाश्चएकजकृष्णकुंचिताः
६८।१६द् तुरंगनागोपमगुह्यगूढता (गूढगुह्यता) ॥ ॥
६८।१७अ हलमुशलगदासिशंखचक्र-
६८।१७ब् द्विपमकराब्जरथांकितांघ्रि (अन्ह्रि) हस्तः ।
६८।१७य् विभवमपि जनोऽस्य बोभुजीति
६८।१७द् क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥ ॥
६८।१८अ अंगुलानि नवतिश्च षडूनान्य्-
६८।१८ब् उच्छ्रयेण तुलयापि हि भारः ।
६८।१८य् मध्यदेशनृपतिः यदि पुष्टाश्
६८।१८द् त्र्यादयोऽस्य सकलावनिनाथः ॥ ॥
६८।१९अब्/ भुक्त्वा सम्यग्वसुधां शौर्येणौपार्जितामशीत्यब्दः ।
६८।१९य्द्/ तीर्थे प्राणां त्यक्त्वा भद्रो देवालयं याति ॥ ॥
६८।२०अ ईषद्दन्तुरकः तनुद्विजनखः कोशेक्षणः शीघ्रगो
६८।२०ब् विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः ।
६८।२०य् सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः
६८।२०द् शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ॥ ॥
६८।२१अ दीर्घो अंगुलानां शतमष्टहीनं
६८।२१ब् साशंकचेष्टः पररन्ध्रविग ।
६८।२१य् सारोऽस्य मज्जा निभृतप्रचारः
६८।२१द् शशो ह्यतो (अयं) नातिगुरुः प्रदिष्टः ॥ ॥
६८।२२अ मध्ये कृशः खेटकखंगवीणा
६८।२२ब् पर्यंकमालामुरजानुरूपाः ।
६८।२२य् शूलोपमाश्च ऊर्ध्वगताश्च रेखाः
६८।२२द् शशस्य पादोपगताः करे वा ॥ ॥
६८।२३अ प्रात्यन्तिको माण्डलिकोऽथवा अयं
६८।२३ब् स्फिक्स्रावशूलाभिभवार्तमूर्तिः ।
६८।२३य् एवं शशः सप्ततिहायनोऽयं
६८।२३द् वैवस्वतस्यालयमभ्युपैति ॥ ॥
६८।२४अ रक्तं पीनकपोलमुन्नतनसं वक्त्रं सुवर्णोपमं
६८।२४ब् वृत्तं चास्य शिरोऽक्षिणी मधुनिभे सर्वे च रक्ता नखाः ।
६८।२४य् स्रग्दामांकुशशंखमत्स्ययुगलक्रत्वंगकुंभांबुजैश्
६८।२४द् चिह्नैः हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ॥ ॥
६८।२५अब्/ रतिः अंभसि शुक्रसारता द्विगुणा चाष्टशतैः पलैः मितिः ।
६८।२५य्द्/ परिमाणमथास्य षड्युता नवतिः सम्परिकीर्तिता बुधैः ॥ ॥
६८।२६अब्/ भुनक्ति हंसः खसशूरसेनान् गान्धारगंगायामुनान्तरालम् ।
६८।२६य्द्/ शतं दशोनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् ॥ ॥
६८।२७अब्/ सुभ्रूकेशो रक्तश्यामः कंबुग्रीवो व्यादीर्घास्यः ।
६८।२७य्द्/ शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥ ॥
६८।२८अ यन्मात्रमास्यं रुचकस्य दीर्घं
६८।२८ब् मध्यप्रदेशे चतुरस्रता (चतुरश्रता) सा ।
६८।२८य् तनुच्छविः शोणितमांससारो
६८।२८द् हन्ता द्विषां साहससिद्धकार्यः ॥ ॥
६८।२९अ खट्वांगवीणावृषचापवज्र-
६८।२९ब् शक्तीन्द्रशूलांकितपाणिपादः ।
६८।२९य् भक्तो गुरुब्राह्मणदेवतानां
६८।२९द् शतांगुलः स्यात् तु सहस्रमानः (तुलया सहस्रं) ॥ ॥
६८।३०अ मन्त्राभिचारकुशलः कृशजानुजंघो
६८।३०ब् विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा ।
६८।३०य् सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः
६८।३०द् शस्त्रेण मृत्युमुपयात्यथवाऽनलेन ॥ ॥
६८।३१अ पंचापरे वामनको जघन्यः
६८।३१ब् कुब्जोऽथवा मण्डलकोऽथ साची (समी) ।
६८।३१य् पूर्वोक्तभूपानुचरा भवन्ति
६८।३१द् संकीर्णसंज्ञः (संज्ञाः) शृणु लक्षणैः तान् ॥ ॥
६८।३२अ सम्पूर्णांगो वामनो भग्नपृष्ठः
६८।३२ब् किंचिग ऊरूमध्यकक्ष्य (कक्ष) अन्तरेषु ।
६८।३२य् ख्यातो राज्ञां ह्येष भद्रानुजीवी
६८।३२द् स्फीटो राजा (दाता) वासुदेवस्य भक्तः ॥ ॥
६८।३३अ मालव्यसेवी तु जघन्यनामा
६८।३३ब् खण्डेन्दुतुल्यश्रवणः सुसन्धिः ।
६८।३३य् शुक्रेण सारह् पिशुनः कविश्च
६८।३३द् रूक्षच्छविः स्थूलकरांगुलीकः ॥ ॥
६८।३४अ क्रूरो धनी स्थूलमतिः प्रतीतः
६८।३४ब् ताम्रच्छविः स्यात् परिहासशीलः
६८।३४य् उरो अंघ्रि (अन्ह्रि) हस्तेष्वसिशक्तिपाश-
६८।३४द् परश्वधांकः स (अग़्कश्च) जघन्यनामा ॥ ॥
६८।३५अ कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात्
६८।३५ब् क्षीणः किंचित् पूर्वकाये नतश्च ।
६८।३५य् हंसासेवी नास्तिकोऽर्थैरुपेतो
६८।३५द् विद्वान् शूरः सूचकः स्यात् कृतज्ञः ॥ ॥
६८।३६अ कलास्वभिज्ञः कलहप्रियश्च
६८।३६ब् प्रभूतभृत्यः प्रमदाजितश्च ।
६८।३६य् सम्पूज्य लोकं प्रजहात्यकस्मात्
६८।३६द् कुब्जोऽयमुक्तः सततोद्यतश्च ॥ ॥
६८।३७अब्/ मण्डलकक्षणमतो (कनामधेयो लक्षणमतो) रुचकानुचरोऽभिचारवित् कुशलः ।
६८।३७य्द्/ कृत्यावेताल (वैताल) आदिषु कर्मसु विद्यासु चानुरतः ॥ ॥
६८।३८अब्/ वृद्धाकारः खरपरुषमूर्धजश्रूक्षमूर्धजः) च शत्रुनाशने कुशलः ।
६८।३८य्द्/ द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् ॥ ॥
६८।३९अ साचीइति (सामीति) यः सोऽतिविरूपदेहः
६८।३९ब् शशानुगामी खलु दुर्भगश्च ।
६८।३९य् दाता महारंभसमाप्तकार्यो
६८।३९द् गुणैः शशस्यैव भवेत् समानः ॥ ॥
६८।४०अ पुरुषलक्षणमुक्तमिदम् मया
६८।४०ब् मुनिमतानि निरीक्ष्य समासतः ।
६८।४०य् इदमधीत्य नरो नृपसम्मतो
६८।४०द् भवति सर्वजनस्य च वल्लभः ॥ ॥
sएपरते अध्याय ६९ कन्यालक्षणाध्यायः
६९।१अ स्निग्धौन्नताग्रतनुताम्रनखौ कुमार्याः
६९।१ब् पादौ समौपचितचारुनिगूढगुल्फौ ।
६९।१य् श्लिष्टांगुली कमलकान्तितलौ च यस्याः
६९।१द् तामुद्वहेद् यदि भुवोऽधिपतित्वमिच्छेत् ॥ ॥
६९।२अ मत्स्यांकुशाब्जयववज्रहलासिचिह्न-
६९।२ब् अवस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ ।
६९।२य् जंघे च रोमरहिते विशिरे सुवृत्ते
६९।२द् जानुद्वयं सममनुल्बणसन्धिदेशम् ॥ ॥
६९।३अ ऊरू घनौ करिकरप्रतिमावरोमाव्
६९।३ब् अश्वत्थपत्रसदृशं विपुलं च गुह्यम् ।
६९।३य् श्रोणीललाटमुरुकूर्मसमुन्नतं च
६९।३द् गूढो मणिश्च विपुलां श्रियमादधाति ॥ ॥
६९।४अ विस्तीर्णमांसौपचितो नितंबः
६९।४ब् गुरुश्च धत्ते रशना (रसना) कलापम् ।
६९।४य् नाभिः गभीरा (गंभीरा) विपुलांगानां
६९।४द् प्रदक्षिनावर्तगता च शस्ता (प्रशस्ता) ॥ ॥
६९।५अ मध्यं स्त्रियाः त्रिवलिनाथमरोमशं च
६९।५ब् वृत्तौ घनावविषमौ कठिनावुरस्यौ ।
६९।५य् रोमप्रवर्जितं (अपवर्जितं) उरो मृदु चांगनानां
६९।५द् ग्रीवा च कंबुनिचितार्थसुखानि दत्ते (धत्ते) ॥ ॥
६९।६अ बन्धुजीवकुसुमोपमोऽधरो
६९।६ब् मांसलो रुचिरबिंबरूपभृत् ।
६९।६य् कुन्दकुड्मलनिभाः समा द्विजा
६९।६द् योषितां पतिसुखामितार्थदाः ॥ ॥
६९।७अ दाक्षिण्ययुक्तमशठं परपुष्टहंस-
६९।७ब् वल्गु प्रभाषितमदीनमनल्पसौख्यम् ।
६९।७य् नासा समा समपुटा रुचिरा प्रशस्ता
६९।७द् दृग्नीलनीरजदलद्युतिहारिणी च ॥ ॥
६९।८अब्/ नो संगते नातिपृथू न लंबे शस्ते भ्रुवौ बालशशांकवक्रे ।
६९।८य्द्/ अर्धेन्दुसंस्थानमरोमशं च शस्तं ललाटं न नतं न तुंगम् ॥ ॥
६९।९अब्/ कर्णयुग्ममपि युक्तमांसलं शस्यते म्र्दु समाहितम् समं (समं समाहितं) ।
६९।९य्द्/ स्निग्धनीलमृदुकुंचितैकजा मूर्धजाः सुखकराः समं शिरः ॥ ॥
६९।१०अ भृंगारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभिः
६९।१०ब् मालाकुण्डलचामरांकुशयवैः शैलैः ध्वजैः तोरणैः ।
६९।१०य् मत्स्यस्वस्तिकवेदिकाव्यजनकैः शंखातपत्रांबुजैः
६९।१०द् पादे पाणितलेऽथवा (अपि वा) युवतयो गच्छन्ति राज्ञीपदम् ॥ ॥
६९।११अ निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ
६९।११ब् करौ नृपतियोषितस्योषितां) तनुविकृष्टपर्वांगुली ।
६९।११य् न निम्नमति नौन्नतं करतलं सुरेखान्वितं
६९।११द् करोत्यविधवां चिरं सुतसुखार्थसंभोगिनीम् ॥ ॥
६९।१२अ मध्यांगुलिं या मणिबन्धनोत्था
६९।१२ब् रेखा गता पाणितले अंगनायाः ।
६९।१२य् ऊर्ध्वस्थिता पादतलेऽथवा या
६९।१२द् पुंसोऽथवा राज्यसुखाय सा स्यात् ॥ ॥
६९।१३अ कनिष्ठिकामूलभवा गता या
६९।१३ब् प्रदेशिनीमध्यमिकान्तरालम् ।
६९।१३य् करोति रेखा परमायुषः सा
६९।१३द् प्रमाणमूना तु तदूनमायुः ॥ ॥
६९।१४अ अंगुष्टमूले प्रसवस्य रेखाः
६९।१४ब् पुत्रा बृहत्यः प्रमदाः तु तन्व्यः ।
६९।१४य् अच्छिन्नमध्या (दीर्घा) बृहदायुषः (बृहदायुषां) ताः
६९।१४द् स्वल्पायुषां छिन्नलघुप्रमाणाः ॥ ॥
६९।१५अ इतीदमुक्तं शुभमंगनानाम्
६९।१५ब् अतो विपर्यस्तमनिष्टमुक्तम् ।
६९।१५य् विशेषतोऽनिष्टफलानि यानि
६९।१५द् समासतः तानि अनुकीर्तयामि ॥ ॥
६९।१६अ कनिष्ठिका वा तदनन्तरा वा
६९।१६ब् महीं न यस्याः श्पृशति स्त्रियाः स्यात् ।
६९।१६य् गताथव्ंगुष्ठमतीत्य यस्याः
६९।१६द् प्रदेशिनी सा कुलटाऽतिपापा ॥ ॥
६९।१७अ उद्बद्धाभ्याम् पिण्डिकाभ्याम् शिराले
६९।१७ब् शुष्के जंघे लोमशे (रोमशे) चातिमांसे
६९।१७य् वामावर्तं निम्नमल्पं च गुह्यं
६९।१७द् कुंभाकारं चोदरं दुःखितानाम् ॥ ॥
६९।१८अब्/ ह्रस्वयातिनिःस्वता दीर्घया कुलक्षयः ।
६९।१८य्द्/ ग्रीवया पृथूत्थया योषितः प्रचण्डता ॥ ॥
६९।१९अ नेत्रे यस्याः केकरे पिंगले वा
६९।१९ब् सा दुःशीला श्यावलोलेक्षणा च ।
६९।१९य् कूपौ यस्या गण्डयोश्च स्मितेषु
६९।१९द् निःसन्दिग्धं बन्धकीं तां वदन्ति ॥ ॥
६९।२०अ प्रविलंबिनि देवरं ललाटे
६९।२०ब् श्वशुरं हन्त्युदरे स्फिजोः पतिं च ।
६९।२०य् अतिरोमचयान्वितौत्तरओष्ठी
६९।२०द् न शुभा भर्तुः अतीव या च दीर्घा ॥ ॥
६९।२१अ स्तनौ सरोमौ मलिनौल्बणौ च
६९।२१ब् क्लेशं दधाते विषमौ च कर्णौ ।
६९।२१य् स्थूलाः कराला विषमाश्च दन्ताः
६९।२१द् क्लेशाय चौर्याय च कृष्णमांसाः ॥ ॥
६९।२२अ क्रव्यादरूपैः वृककाककंक-
६९।२२ब् सरीसृपौलूकसमानचिह्नैः
६९।२२य् शुष्कैः शिरालैः विषमैश्च हस्तैः
६९।२२द् भवन्ति नार्यह् सुखवित्तहीनाः ॥ ॥
६९।२३अ या तूत्तरोष्ठेन समुन्नतेन
६९।२३ब् रूक्षाग्रकेशी कलहप्रिया सा ।
६९।२३य् प्रायो विरूपासु भवन्ति दोषा
६९।२३द् यत्राकृतिः तत्र गुणा वसन्ति ॥ ॥
६९।२४अब्/ पादौ सगुल्फौ प्रथमं प्रदिष्टौ जंघे द्वितीयं तु सजानुचक्रे ।
६९।२४य्द्/ मेढ्र ऊरुमुष्कं च ततः तॄतीयं नाभिः कटिश्चैव (च इति) चतुर्थमाहुः ॥ ॥
६९।२५अब्/ उदरं कथयन्ति पंचमं हृदयं षष्ठमतः स्तनान्वितम् ।
६९।२५य्द्/ अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे ॥ ॥
६९।२६अब्/ नवमं नयने च सभ्रुणी सललाटं दशमं शिरः तथा ।
६९।२६य्द्/ अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोभनम् ॥ ॥
sएपरते अध्याय ७० वस्त्रच्छेदलक्षणाध्यायः
७०।१अब्(७१।६अब्)/ प्रभूतवस्त्रदाश्विनी भरणि अथापहारिणी ।
७०।१य्द्(७१।६य्द्)/ प्रदह्यतेऽग्निदैवते प्रजेस्वरेऽर्थसिद्धयः ॥ ॥
७०।२अब्(७१।७अब्)/ मृगे तु मूषकाद् भयं व्यसुत्वमेव शंकरे ।
७०।२य्द्(७१।७य्द्)/ पुनर्वसौ शुभागमः तदग्रभे धनैः युतिः ॥ ॥
७०।३अब्(७१।८अब्)/ भुजंगभे विलुप्यते मघासु मृत्युमादिशेत् ।
७०।३य्द्(७१।८य्द्)/ भगाह्वये नृपाद् भयं धनागमाय चौत्तरा ॥ ॥
७०।४अब्(७१।९अब्)/ करेण कर्मसिद्धयः शुभागमः तु चित्रया ।
७०।४य्द्(७१।९य्द्)/ शुभं च भोज्यमानिले द्विदैवते जनप्रियः ॥ ॥
७०।५अब्(७१।१०अब्)/ सुहूद्युतिः (सुहृद्युतिः) च मित्रभे तदग्रभे (पुरन्दरे) ऽंबरक्षयः ।
७०।५य्द्(७१।१०य्द्)/ जलप्लुतिश्च नैरृते रुजो जलाधिदैवते ॥ ॥
७०।६अब्(७१।११अब्)/ मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता ।
७०।६य्द्(७१।११य्द्)/ धान्यलब्धिः (लब्धिं) अपि (अथ) वासवे (विश्वदैवते)
विदुः वारुणे विषकृतं महद्भयम् ॥ ॥
७०।७अ(७१।१२अ) भद्रपदासु भयं सलिलोत्थं
७०।७ब्(७१।१२ब्) तत्परतश्च भवेत् सुतलब्धिः ।
७०।७य्(७१।१२इ) रत्नयुतिं कथयन्ति च पौष्णे
७०।७द्(७१।१२द्) योऽभिनवांबरमिच्छति भोक्तुम् ॥ ॥
७१।१३अब्/ विप्रमतादथ भूपतिदत्तं यग विवाहविधावभिलब्धम् ।
७१।१३य्द्/ तेषु गुणै रहितेष्वपि भोक्तुं नूतनमंबरमिष्टफलं स्यात् ॥॥
७०।८अब्(७१।१४अब्)/ भोक्तुं नवांबरं शस्तम् ऋक्षेऽपि गुणवर्जिते ।
७०।८य्द्(७१।१४य्द्)/ विवाहे राजसम्माने ब्रह्मणाणां च सम्मते ॥ ॥
७०।९अब्(७१।१अब्)/ वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये ।
७०।९य्द्(७१।१य्द्)/ शेषाः त्रयश्चात्र निशाचरांशाः तथैव शय्यासनपादुकासु ॥ ॥
७०।१०अब्(७१।२अब्)/ लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् ।
७०।१०य्द्(७१।२य्द्)/ पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीये ॥ ॥
७०।११अब्(७१।३अब्)/ रुग्राक्षसांशेस्वथवाऽपि मृत्युः पुञ्जन्मतेजश्च मनुष्यभागे ।
७०।११य्द्(७१।३य्द्)/ भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥ ॥
७०।१२अब्(७१।४अब्)/ कंकप्लवौलूककपोतकाकक्रव्यादगोमायुखरौष्ट्रसर्पैः ।
७०।१२य्द्(७१।४य्द्)/ छेदाकृतिः दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥ ॥
७०।१३अब्(७१।५अब्)/ छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुंभांबुजतोरणाद्यैः ।
७०।१३य्द्(७१।५य्द्)/ छेदाकृतिः नैरृतभागगा अपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥ ॥
sएपरते अध्याय ७१ चामरलक्षणाध्यायः
७१।१अ देवैश्चमर्यः किल वालहेतोः
७१।१ब् सृष्टा हिमक्ष्माधरकन्दरेषु ।
७१।१य् आपीतवर्णाश्च भवन्ति तासां
७१।१द् कृष्णाश्च लांगूलभवाः सिताश्च ॥ ॥
७१।२अ स्नेहो मृदुत्वं बहुव्लता (लता च)
७१।२ब् वैशद्यमल्पास्थिनिबन्धनत्वम् ।
७१।२य् शौक्ल्यं च तासां (तेषां) गुणसम्पदुक्ता
७१।२द् विद्धाल्पलुप्तानि न शोभनानि ॥ ॥
७१।३अ अध्यर्धहस्तप्रमितोऽस्य दण्डो
७१।३ब् हस्तोऽथवा अरत्निसमोऽथवा अन्यः ।
७१।३य् काष्ठात्शुभात् कांचनरूप्यगुप्ताद्
७१।३द् रत्नैश्च सर्वैः (विचित्रैः) च हिताय राज्ञाम् ॥ ॥
७१।४अब्/ यष्ट्यातपत्रांकुशवेत्रचापवितानकुन्तध्वजचामराणाम् ।
७१।४य्द्/ व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥ ॥
७१।५अ मातृभूधनकुलक्षयावहा
७१।५ब् रोगमृत्युजननाश्च पर्वभिः ।
७१।५य् द्व्यादिभिः द्विकविवर्धितैः क्रमात्
७१।५द् द्वादशान्तविरतैः समैः फलम् ॥ ॥
७१।६अ यात्राप्रसिद्धिः द्विषतां विनाशो
७१।६ब् लाभाः प्रभूता (प्रभूतो) वसुध्पमः (गमः) च ।
७१।६य् व्र्द्धिः पशूनामभिवंछिताप्तिः
७१।६द् त्र्याद्येष्वयुग्मेषु तदीश्वराणाम् ॥ ॥
sएपरते अध्याय ७२ छत्रलक्षणाध्यायः
७२।१अब्/ निचितं तु (नु) हंसपक्षैः कृकवाकुमयूरसारसानां वा ।
७२।१य्द्/ दौकूल्येन (दौकूलेन) नवेन तु समन्ततश्छादितं शुक्लम् ॥ ॥
७२।२अब्/ मुक्ताफलैरुपचितं प्रलंबमालाविलं स्फटिकमूलम् ।
७२।२य्द्/ षड्ढस्तशुद्धहैमं नवपर्वनगैकदण्डं तु ॥ ॥
७२।३अब्/ दण्डार्धविस्तृतं तत् समावृतं रत्नभूषितं (रत्नविभूषितम्, रत्नभूषितं) उदग्रम् ।
७२।३य्द्/ नृपतेः तदातपत्रं कल्याणपरं विजयदं च ॥ ॥
७२।४अब्/ युवराजनृपतिपत्न्योः सेनापतिदण्डनायकानां च ।
७२।४य्द्/ दण्डोऽर्धपंचहस्तः समपंचकृतोऽर्ध (कृतार्ध) विस्तारः ॥ ॥
७२।५अब्/ अन्येषामुष्णघ्नं प्रसादपट्टैः विभूषितशिरस्कम् ।
७२।५य्द्/ व्यालंबिरत्नमालं छत्रं कार्यं तु (च) मायूरम् ॥ ॥
७२।६अब्/ अन्येषां तु नराणां शीतातपवारणं तु चतुरस्रं (चतुरश्रं) ।
७२।६य्द्/ समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम् ॥ ॥
sएपरते अध्याय ७३ स्त्रीप्रशंसाध्यायः
७३।१अ जये धरित्र्याः पुरमेव सारं
७३।१ब् पुरे गृहं सद्मनि चएकदेशः ।
७३।१य् तत्रापि शय्या शयने वरा स्त्री
७३।१द् रत्नोज्ज्वला राज्यसुखस्य सारः ॥ ॥
७३।२अब्/ रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या ।
७३।२य्द्/ चेतो विनता हरनि अरत्ना नो रत्नानि विनांगनांगसंगं (संगात्) ॥ ॥
७३।३अ आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां
७३।३ब् तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम् ।
७३।३य् मन्त्रिप्रोक्तनिषेविणां (निसेविणाम्, निषेविनां) क्षितिभुजामाशंकिनां सर्वतो
७३।३द् धुःखांभोनिधिवर्तिनां सुखलवः कान्तासमालिंगनम् ॥ ॥
७३।४अ श्रुतं दृष्टं स्पृष्तं स्मृतमपि नृणां ह्लादजननं
७३।४ब् न रत्नं स्त्रीभ्योऽन्यत् क्वचिदपि कृतं लोकपतिना ।
७३।४य् तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो
७३।४द् गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ॥
७३।५अ येऽपि अंगनानां प्रवदन्ति दोषान्
७३।५ब् वैराग्यमार्गेण गुणान् विहाय ।
७३।५य् ते दुर्जना मे मनसो वितर्कः
७३।५द् सद्भाववाक्यानि न तानि तेषाम् ॥ ॥
७३।६अ प्रब्रूत सत्यं करतो अंगनानां
७३।६ब् दोषोऽस्ति यो नाचरितो मनुष्यैः ।
७३।६य् धार्ष्ट्येन पुंभिः प्रमदा निरस्ता
७३।६द् गुणाधिकाः ता मनुनात्र चोक्तम् ॥ ॥
७३।७अब्/ सोमः तासामदात्शौचं गन्धर्वः (गन्धर्वाः) शिक्षितां गिरम् ।
७३।७य्द्/ अग्निश्च सर्वभक्षित्वं तस्मान् निष्कसमाः स्त्रियः ॥ ॥
७३।८अब्/ ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः ।
७३।८य्द्/ अजाश्वा मुखतो मेध्याः स्त्रियो मेध्याश्तु सर्वतः ॥ ॥
७३।९अब्/ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् ।
७३।९य्द्/ मासि मासि रजो ह्यासां दुष्कृतानि अपकर्षति ॥ ॥
७३।१०अब्/ जामयो यान्ति गेहानि शपन्त्यप्रतिपूजिताः ।
७३।१०य्द्/ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ॥
७३।११अब्/ जाया वा स्याज्जनित्री वा संभवः स्त्रीकृतो नृणाम् ।
७३।११य्द्/ हे कृतघ्नाश्तयोः निन्दां कुर्वतां वः कुतः शुभम् ॥ ॥
७३।१२अब्/ दंपत्योः व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः ।
७३।१२य्द्/ नरा न समवेक्षन्ते तेनात्र वरमंगनाः ॥ ॥
७३।१३अब्/ बहिः लोम्ना तु षण्मासान् वेष्टितः खरचर्मणा ।
७३।१३य्द्/ दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति ॥ ॥
७३।१४अब्/ न शतेनापि वर्षाणामपैति मदनाशयः ।
७३।१४य्द्/ तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः ॥ ॥
७३।१५अब्/ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः ।
७३।१५य्द्/ मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥ ॥
७३।१६अ पुरुषश्चटुलानि कामिनीनां
७३।१६ब् कुरुते यानि रहो न तानि पश्चात् ।
७३।१६य् सुकृतज्ञतया अंगना गतासून्
७३।१६द् अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥ ॥
७३।१७अ स्त्रीरत्नभोगोऽस्ति नरस्य यस्य
७३।१७ब् निःस्वोऽपि सांप्रत्यवनीस्वरो (स्वं प्रत्यवनीस्वरो, मां प्रत्यव) ऽसौ ।
७३।१७य् राज्यस्य सारोऽशनमंगनाश्च
७३।१७द् तृष्णानलोद्दीपनदारु शेषम् ॥ ॥
७३।१८अ कामिनीं प्रथमयौवनान्वितां
७३।१८ब् मन्दवल्गुमृदुपीडितस्वनाम् ।
७३।१८य् उत्स्तनीं समवलंब्य या रतिः
७३।१८द् सा न धातृभवनेऽस्ति मे मतिः ॥ ॥
७३।१९अ तत्र देवमुनिसिद्धचारणैः
७३।१९ब् मान्यमानपितृसेव्यसेवनात् ।
७३।१९य् ब्रूत धातृभवनेऽस्ति किं सुखं
७३।१९द् यद् रहः समवलंब्य न स्त्रियम् ॥ ॥
७३।२०अ आब्रह्मकीटान्तमिदं निबद्धं
७३।२०ब् पुंस्त्रीप्रयोगेण जगत् समस्तम् ।
७३।२०य् व्रीडा अत्र का यत्र चतुर्मुखत्वम्
७३।२०द् ईशोऽपि लोभाद् गमितो युवत्याः ॥ ॥
sएपरते अध्याय ७४ सौभाग्यकरणाध्यायः
७४।१अ जात्यं मनोभवसुखं सुभगस्य सर्वम्
७४।१ब् आभासमात्रमितरस्य मनोवियोगात् ।
७४।१य् चित्तेन भावयति दूरगता अपि यं स्त्री
७४।१द् गर्भं बिभर्ति सदृशं पुरुषस्य तस्य ॥ ॥
७४।२अ भंक्त्वा काण्डं पादपस्यौप्तमुर्व्यां
७४।२ब् बीजं वास्यां नान्यतामेति यद्वत् ।
७४।२य् एवं ह्यात्मा जायते स्त्रीषु भूयः
७४।२द् कश्चित् तस्मिन् क्षेत्रयोगाद् विशेषः ॥ ॥
७४।३अ आत्मा सहैति मनसा मन इन्द्रियेण
७४।३ब् स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः ।
७४।३य् योगोऽयमेव मनसः किमगम्यमस्ति
७४।३द् यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥ ॥
७४।४अ आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो
७४।४ब् ग्राह्योऽचलेन मनसा सतताभियोगात् ।
७४।४य् यो यं विचिन्तयति याति स तन्मयत्वं
७४।४द् यस्मादतः सुभगमेव गता युवत्यः ॥ ॥
७४।५अब्/ दाक्षिण्यमेकं सुभगत्वहेतुः विद्वेषणं तद्विपरीतचेष्टा ।
७४।५य्द्/ मन्त्रौषधाद्यैः कुहकप्रयोगैः भवन्ति दोषा बहवो न शर्म ॥ ॥
७४।६अब्/ वाल्लभ्यमायाति विहाय मानं दौर्भाग्यमापादयतेऽभिमानः ।
७४।६य्द्/ कृच्छ्रेण संसाधयतेऽभिमानी कार्याणि अयत्नेन वदन् प्रियाणि ॥ ॥
७४।७अब्/ तेजो न तद् यत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् ।
७४।७य्द्/ कार्यस्य गत्वान्तमनुद्धता ये तेजस्विनः ते न विकत्थना ये ॥ ॥
७४।८अब्/ यः सार्वजन्यं सुभगत्वमिच्छेद् गुणान् स सर्वस्य वदेत् परोक्षं (परोक्षे) ।
७४।८य्द्/ प्राप्नोति दोषान् असतोऽपि अनेकान् परस्य यो दोषकथां करोति ॥ ॥
७४।९अब्/ सर्वौपकारानुगतस्य लोकः सर्वौपकारानुगतो नरस्य ।
७४।९य्द्/ कृत्वा उपकारं द्विषतां विपत्सुया कीर्तिः अल्प्नेन न सा शुभेन ॥ ॥
७४।१०अब्/ तृणैः इवाग्निः सुतरां विवृद्धिमाछाद्यमानोऽपि गुणोऽभ्युपैति ।
७४।१०य्द्/ स केवलं दुर्जनभावमेति हन्तुं गुणान् वांछति यः परस्य ॥ ॥
sएपरते अध्याय ७५ कान्दर्किकाध्यायः
७५।१अब्/ रक्तेऽधिके स्त्री पुरुषः तु शुक्रे नपुंसकं शोणितशुक्रसाम्ये ।
७५।१य्द्/ यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि ॥ ॥
७५।२अब्/ हर्म्यपृष्ठमुडुनाथरश्मयः सौत्पलं मधु मदालसा प्रिया ।
७५।२य्द्/ वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा ॥ ॥
७५।३अ माक्षीकधातुमधुपारदलोहचूर्ण-
७५।३ब् पथ्याशिल्जतुघृतानि समानि (जतुविडग्गघृतानि) योऽद्यात् ।
७५।३य् सैकानि विंशतिः अहानि जरान्वितोऽपि
७५।३द् सोऽशीतिकोऽपि रमयत्यव्बलां युवा इव ॥ ॥
७५।४अ क्षीरं शृतं यः कपिकच्छुमूलैः
७५।४ब् पिबेत् क्षयं स्त्रीषु न सोऽभ्युपैति ।
७५।४य् माषान् पयःसर्पिषि वा विपक्वान्
७५।४द् षड्ग्रासमात्रांश्च पयोऽनुपानं (अनुपानान्) ॥ ॥
७५।५अब्/ विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुः भावितशोषितं च ।
७५।५य्द्/ शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः ॥ ॥
७५।६अ धात्रीफलानां स्वरसेन चूर्णं
७५।६ब् सुभावितं क्षौद्रसिताज्ययुक्तम् ।
७५।६य् लीढ्वानु पीत्वा च पयोऽग्निशक्त्या
७५।६द् कामं निकामं पुरुषो निषेवेत् ॥ ॥
७५।७अ क्षीरेण बस्ताण्डयुजा शृतेन
७५।७ब् सम्प्लाव्य कामी बहुशस्तिलान् यः ।
७५।७य् सुशोषितान् अत्ति पयः पिबेच् (पिबेत् पयः) च
७५।७द् तस्याग्रतः किं चटकः करोति ॥ ॥
७५।८अब्/ माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः ।
७५।८य्द्/ क्षीरमपि अनु पिबन्ति तासु ते शर्वरीषु मदनेन (मदने न) शेरते ॥ ॥
७५।९अ तिलाश्वगन्धाकपिच्छुमूलैः
७५।९ब् विदारिकाषष्टिकपिष्टयोगः ।
७५।९य् आजेन पिष्टः पयसा घृतेन
७५।९द् पक्वं (पक्त्वा) भवेत्शुष्कलिकातिवृष्या ॥ ॥
७५।१०अ क्षीरेण वा गोक्षुरकौपयोगं
७५।१०ब् विदारिकाकन्दकभक्षणं वा ।
७५।१०य् कुर्वन् न सीदेद् यदि जीर्यतेऽस्य
७५।१०द् मन्दाग्निता चेदिदमत्र चूर्णम् ॥ ॥
७५।११अब्/ साजमोदलवणा हरीतकी शृंगवेरसहिता च पिप्पली ।
७५।११य्द्/ मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥ ॥
७५।१२अ अत्यम्लतिक्तलवणानि कटूनि वाऽत्ति
७५।१२ब् यः क्षारशाकबहुलानि (क्षारशाकबहुलानि) च भोजनानि ।
७५।१२य् दृक्षुक्रवीर्यरहितः स करोत्यनेकान्
७५।१२द् व्याजान् जरन्न् इव युवाऽपि अबलामवाप्य ॥ ॥
sएपरते अध्याय ७६ गन्धयुक्त्य्ः
७६।१अब्/ स्रग्गन्धधूपांबरभूषणाद्यं न शोभते शुक्लशिरोरुहस्य ।
७६।१य्द्/ यस्मादतो मूर्धजरागसेवां कुर्याद् यथैवाञ्जनभूषणानाम् ॥ ॥
७६।२अ लौहे पात्रे तण्डुलान् कोद्रवाणां
७६।२ब् शुक्ले पक्वांल्लोहचूर्णेन साकम् ।
७६।२य् पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे
७६।२द् दत्वा (दत्त्वा) तिष्ठेद् वेष्टयित्वा अर्द्र (अर्क) पत्रैः ॥ ॥
७६।३अ याते द्वितीये प्रहरे विहाय
७६।३ब् दद्यात्शिरस्यामलकप्रलेपम् ।
७६।३य् संछाद्य पत्रैः प्रहरद्वयेन
७६।३द् प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् ॥ ॥
७६।४अ पश्चात्शिरः स्नानसुगन्धतैलैः
७६।४ब् लोहाम्लगन्धं शिरसोऽपनीय ।
७६।४य् हृदयैश्च गन्धैः विविधैश्च धूपैः
७६।४द् अन्तःपुरे राज्यसुखं निषेवेत् ॥ ॥
७६।५अब्/ त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैः तुल्यैः ।
७६।५य्द्/ केसरपत्रविमिश्रैः नरपतियोग्यं शिरःस्नानम् ॥ ॥
७६।६अब्/ मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः ।
७६।६य्द्/ तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चंपकगन्धि तैलम् ॥ ॥
७६।७अ तुल्यैः पत्रतुरुष्कबालतगरैः गन्धः स्मरोद्दीपनः
७६।७ब् सव्यामो बकुलोऽयमेव कटुकाहिंगुप्रधूपान्वितः ।
७६।७य् कुष्ठेनौत्पलगन्धिकः समलयः पूर्वो भवेगंपको
७६।७द् जातीत्वक्सहितोऽतिमुक्तक इति ज्ञेयः सकुस्तुंबुरुः ॥ ॥
७६।८अब्/ शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुष्कौ च ।
७६।८य्द्/ मलयप्रियंगुभागौ गन्धो धूप्यो गुडनखेन ॥ ॥
७६।९अब्/ गुग्गुलुबालक (वालक) लाक्षामुस्तानखशर्कराः क्रमाद् धूपः ।
७६।९य्द्/ अन्यो मांसीबालक (वालक) तुष्कनखचन्दनैः पिण्डः ॥ ॥
७६।१०अ हरीतकीशंखघनद्रवांबुभिः
७६।१०ब् गुडोत्पलैः शैलकमुस्तकान्वितैः ।
७६।१०य् नवान्तपादादिविवर्धितैः क्रमाद्
७६।१०द् भवन्ति धूपा बहवो मनोहराः ॥ ॥
७६।११अ भागैश्चतुर्भिः सितशैलमुस्ताः
७६।११ब् श्रीसर्जभागौ नखगुग्गुलू च ।
७६।११य् कर्पूरबोधो मधुपिण्डितोऽयं
७६।११द् कोपच्छदो नाम नरेन्द्रधूपः ॥ ॥
७६।१२अब्/ त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः ।
७६।१२य्द्/ पुटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥ ॥
७६।१३अब्/ घनबालकशैलेयककर्पूरौशीरनागपुष्पाणि ।
७६।१३य्द्/ व्याघ्रनखस्पृक्कागुरुदमनक (मदनक)नखतगरधान्यानि ॥ ॥
७६।१४अब्/ कर्पूरचोल (चोर) मलयैः स्वेच्छापरिवर्तितैश्चतुर्भिः अतः ।
७६।१४य्द्/ एकद्वित्रिचतुर्भिः भागैः गन्धार्णवो भवति ॥ ॥
७६।१५अब्/ अत्युल्बणगन्धत्वादेकांशो नित्यमेव धान्यानाम् ।
७६।१५य्द्/ कर्पूरस्य तदूनो नैतौ द्वित्रिआदिभिः देयौ ॥ ॥
७६।१६अब्/ श्रीसर्जगुडनखैः ते धूपयितव्याः क्रमान् न पिण्डस्थैः ।
७६।१६य्द्/ बोधः कस्तूरिकया देयः कर्पूरसंयुतया ॥ ॥
७६।१७अब्/ अत्र सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि ।
७६।१७य्द्/ लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम् ॥ ॥
७६।१८अब्/ एकैकमेकभागं द्वित्रिचतुर्भागिकैः युतं द्रव्यैः ।
७६।१८य्द्/ षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकं कुरुते ॥ ॥
७६।१९अब्/ द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिः यथैकस्य ।
७६।१९य्द्/ एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र ॥ ॥
७६।२०अब्/ षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् ।
७६।२०य्द्/ अष्टादश जायन्ते शतानि सहितानि विंशत्या ॥ ॥
७६।२१अब्/ षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतः तस्मात् ।
७६।२१य्द्/ षण्णनवतिगुणः कार्यः सा संख्या भवति गन्धानाम् ॥ ॥
७६।२२अ पूर्वेण पूर्वेण गतेन युक्तं
७६।२२ब् स्थानं विनान्त्यं प्रवदन्ति संख्याम् ।
७६।२२य् इच्छाविकल्पैः क्रमशोऽभिनीय
७६।२२द् नीते निवृत्तिः पुनः अन्यनीतिः ॥ ॥
७६।२३अब्/ द्वित्रीन्द्रियाष्टभागैः अगुरुः पत्रं तुरुष्कशैलेयौ
७६।२३य्द्/ विषयाष्टपक्षदहनाः प्रियंगुमुस्तारसाः केशः ॥ ॥
७६।२४अब्/ स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः ।
७६।२४य्द्/ सप्तऋतुवेदचन्द्रैः मलयनखश्रीककुन्दुरुकाः ॥ ॥
७६।२५अब्/ षोडशके कच्छपुटे यथा तथा मिश्रिते चतुर्द्रव्ये (मिश्रितैश्चतुर्द्रव्यैः) ।
७६।२५य्द्/ येऽत्राष्टादश भागाः तेऽस्मिन् गन्धादयो योगाः ॥ ॥
७६।२६अब्/ नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतौद्बोधाः ।
७६।२६य्द्/ गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ॥ ॥
७६।२७अब्/ जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः ।
७६।२७य्द्/ बहवोऽत्र पारिजाताश्चतुर्भिः इच्छापरिगृहीतैः ॥ ॥
७६।२८अब्/ सर्जरसश्रीवासकसमन्विता येऽत्र सर्वधूपाः (सर्वयोगाः) तैः ।
७६।२८य्द्/ श्रीसर्जरसवियुक्तैः स्नानानि सबालक (सवालक) त्वग्भिः ॥ ॥
७६।२९अब्/ रोध्रौशीरनतागुरुमुस्तापत्र (मुस्ता) प्रियंगुवनपथ्याः ।
७६।२९य्द्/ नवकोष्ठात् कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ॥ ॥
७६।३०अब्/ चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा ।
७६।३०य्द्/ कटुहिंगुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ॥ ॥
७६।३१अब्/ सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा ।
७६।३१य्द्/ गन्धोदके च भूयो विनिक्षिपेद् दन्तकाष्ठानि ॥ ॥
७६।३२अब्/ एलात्वक्पत्राञ्जनमधुमरिचैः नागपुष्पकुष्ठैश्च ।
७६।३२य्द्/ गन्धांभः कर्तव्यं किंचित् कालं स्थितानि अस्मिन् ॥ ॥
७६।३३अब्/ जातीफलपत्रैलाकर्पूरैः कृतयमएकशिखिभागैः ।
७६।३३य्द्/ अवचूर्नितानि भानोः मरीचिभिः शोषणीयानि ॥ ॥
७६।३४अ वर्णप्रसादं वदनस्य कान्तिं
७६।३४ब् वैशद्यमास्यस्य सुगन्धितां च ।
७६।३४य् संसेवितुः श्रोत्रसुखां च वाचं
७६।३४द् कुर्वन्ति काष्ठानि असकृद्भवानाम् ॥ ॥
७६।३५अ कामं प्रदीपयति रूपमभिव्यनक्ति
७६।३५ब् सौभाग्यमावहति वक्त्रसुगन्धितां च ।
७६।३५य् ऊर्जं करोति कफजांश्च निहन्ति रोगां
७६।३५द् तांबूलमेवमपरांश्च गुणान् करोति ॥ ॥
७६।३६अ युक्तेन चूर्णेन करोति रागं
७६।३६ब् रागक्षयं पूगफलातिरिक्तम् ।
७६।३६य् चूर्णाधिकं वक्त्रविगन्धकारि
७६।३६द् पत्राधिकं साधु करोति गन्धम् ॥ ॥
७६।३७अ पत्राधिकं निशि हितंसफलं दिवा च
७६।३७ब् प्रोक्तानि अथाकरणमस्य विडंबनैव
७६।३७य् कक्कोलपूगलवलीफलपारिजातैः
७६।३७द् आमोदितं मदमुदा मुदितं करोति ॥ ॥
sएपरते अध्याय ७७ स्त्रीपुंससमायोगाध्यायः
७७।१अब्/ शस्त्रेन वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान ।
७७।१य्द्/ विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥ ॥
७७।२अ एवं विरक्ता जनयन्ति दोषान्
७७।२ब् प्राणच्छिदोऽन्यैः अनुकीर्तितैः किम् ।
७७।२य् रक्ताविरक्ताः पुरुषैः अतोऽर्थात्
७७।२द् परीक्षितव्याः प्रमदाः प्रयत्नात् ॥ ॥
७७।३अ स्नेहं मनोभवकृतं कथयन्ति भावा
७७।३ब् नाभीभुजस्तनविभूषणदर्शनानि ।
७७।३य् वस्त्राभिसंयमनकेशविमोक्षणानि
७७।३द् भ्रूक्षेपकंपितकटाक्षनिरीक्षणानि ॥ ॥
७७।४अ उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं
७७।४ब् गात्रास्फोटनजृंभणानि सुलभद्रव्याल्पसम्प्रार्थना ।
७७।४य् बालालिंगनचुंबनानि अभिमुखे सख्याः समालोकनं
७७।४द् दृक्पातश्च परान्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥ ॥
७७।५अ इमां च विन्द्यादनुरक्तचेष्टां
७७।५ब् प्रियाणि वक्ति स्वधनं ददाति ।
७७।५य् विलोक्य संहृष्यति वीतरोषा
७७।५द् प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥ ॥
७७।६अ तन्मित्रपूजा तदरिद्विषत्वं
७७।६ब् कृतस्मृतिः प्रोषितदौर्मनस्यम् ।
७७।६य् स्तनौष्ठदानानि उपगूहनं च ।
७७।६द् स्वेदोऽथ चुंबाप्रथमाभियोगः ॥ ॥
७७।७अ विरक्तचेष्टा भ्रुकुटी (भृकुटी) मुखत्वं
७७।७ब् परान्मुखत्वं कृतविस्मृतिश्च ।
७७।७य् असंभ्रमो दुष्परितोषता च
७७।७द् तद्द्विष्टमैत्री परुषं च वाक्यम् ॥ ॥
७७।८अ स्पृष्ट्वा अथवालोक्य धुनोति गात्रं
७७।८ब् करोति गर्वं न रुणद्धि यान्तम् ।
७७।८य् चुंबाविरामे वदनं प्रमार्ष्टि
७७।८द् पश्चात् समुत्तिष्ठति पूर्वसुप्ता ॥ ॥
७७।९अब्/ भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका ।
७७।९य्द्/ मालाकारी दुष्टांगना सखी नापिती दूत्यः ॥ ॥
७७।१०अब्/ कुलजनविनाशहेतुः दूत्यो यस्मादतः प्रयत्नेन ।
७७।१०य्द्/ ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ॥ ॥
७७।११अब्/ रात्रीविहारजागररोगव्यपदेशपरगृहेक्षणिकाः ।
७७।११य्द्/ व्यसनौत्सवाश्च संकेतहेतवः तेषु रक्ष्याश्च ॥ ॥
७७।१२अ आदौ नैच्छति नौज्झति स्मरकथां व्रीडाविमिश्रालसा
७७।१२ब् मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना ।
७७।१२य् भावैः नैकविधैः करोत्यभिनयं भूयश्च या सादरा
७७।१२द् बुद्ध्वा पुंप्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः ॥ ॥
७७।१३अ स्त्रीणां गुणा यौवनरूपवेष-
७७।१३ब् दाक्षिण्यविज्ञानविलासपूर्वाः ।
७७।१३य् स्त्री रत्नसंज्ञा च गुणान्वितासु
७७।१३द् स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः ॥ ॥
७७।१४अ न ग्राम्यवर्णैः मलदिग्धकाया
७७।१४ब् निन्द्यांगसंबन्धिकथां च कुर्यात् ।
७७।१४य् न चान्यकार्यस्मरणं रहःस्था
७७।१४द् मनो हि मूलं हरदग्धमूर्तेः ॥ ॥
७७।१५अब्/ श्वासं मनुष्येण समं त्यजन्ती बाहूपधानस्तनदानदक्षा ।
७७।१५य्द्/ सुगन्धकेशा सुसमीपरागा सुप्तेऽनुसुप्ता प्रथमं विबुद्धा ॥ ॥
७७।१६अब्/ दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः ।
७७।१६य्द्/ यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः ॥ ॥
७७।१७अब्/ या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरक्ता (अतिरिक्ता) ।
७७।१७य्द्/ महाशना स्वेदयुतांगदुष्ठा या ह्रस्वकेशी पलितान्विता वा (च) ॥ ॥
७७।१८अ मांसानि यस्याश्च चलन्ति नार्या
७७।१८ब् महोदरा खिक्खिमिनी च या स्यात् ॥ ॥
७७।१८य् स्त्रीलक्षणे याः कथिताश्च पापाः
७७।१८द् ताभिः न कुर्यात् सह कामधर्मम् ॥ ॥
७७।१९अब्/ शशशोणितसंकाशं लाक्षारससन्निकाशमथवा यत् ।
७७।१९य्द्/ प्रक्षालितं विरज्यति यगासृक् तद्भवेत्शुद्धम् ॥ ॥
७७।२०अब्/ यच्छब्दवेदनावर्जितं त्र्यहात् सन्निवर्तते रक्तम् ।
७७।२०य्द्/ तत्पुरुषसम्प्रयोगादविचारं गर्भतां याति ॥ ॥
७७।२१अब्/ न दिनत्रयं निषेव्यं (निषेवेत्) स्नानं माल्यानुलेपनं स्त्रीभिः (च स्त्री) ।
७७।२१य्द्/ स्नायागतुर्थदिवसे शास्त्रौक्तेनौपदेशेन ॥ ॥
७७।२२अब्/ पुष्यस्नानौषधयो याः कथिताः ताभिः अंबुमिश्राभिः ।
७७।२२य्द्/ स्नायात् तथात्र मन्त्रः स एव यः तत्र निर्दिष्टः ॥ ॥
७७।२३अब्/ युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु ।
७७।२३य्द्/ दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु ॥ ॥
७७।२४अब्/ दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ ॥ ॥
७७।२४य्द्/ यदुदरमध्यौपगतं नपुंसकं तन्निबोद्धव्यम् ॥ ॥
७७।२५अ केन्द्रत्रिकोणेषु शुभस्थितेषु
७७।२५ब् लग्ने शशांके च शुभैः समेते ।
७७।२५य् पापैः त्रिलाभारिगतैश्च यायात्
७७।२५द् पुंजन्मयोगेषु च सम्प्रयोगम् ॥ ॥
७७।२६अ न नखदशनविक्षतानि कुर्याद्
७७।२६ब् ऋतुसमये पुरुषः स्त्रियाः कथंचित् ।
७७।२६य् ऋतुः अपि दश षट् च वासराणि
७७।२६द् प्रथमनिशात्रितयं न तत्र गम्यम् ॥ ॥
sएपरते अध्याय ७८ शय्यासनलक्षणाध्यायः
७८।१अब्/ सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रमिदम् ।
७८।१य्द्/ राज्ञां विशेषतोऽतः शयनासनलक्षणं वक्ष्ये ॥ ॥
७८।२अब्/ असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः ।
७८।२य्द्/ काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः ॥ ॥
७८।३अब्/ अशनिजलानिलहस्तिप्रपातिता मधुविहंगकृतनिलयाः ।
७८।३य्द्/ चैत्यश्मशानपथिज ऊर्ध्वशुष्कवल्लीनिबद्धाश्च ॥ ॥
७८।४अब्/ कण्टकिनो ये च (वा ये) स्युः महानदीसंगमौद्भवा ये च ।
७८।४य्द्/ सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः ॥ ॥
७८।५अब्/ प्रतिषिद्धवृक्षनिर्मितशयनासनसेवनात् कुलविनाशः ।
७८।५य्द्/ व्याधिभयव्ययकलहा भवन्त्यनर्था (अनर्थाश्च) अनेकविधाः ॥ ॥
७८।६अब्/ पूर्वच्छिन्नं यदि वा दारु भवेत् तत्परीक्ष्यमारंभे ।
७८।६य्द्/ यद्यारोहेत् तस्मिन् कुमारकः पुत्रपशुदं तत् ॥ ॥
७८।७अब्/ सितकुसुममत्तवारणदध्यक्षतपूर्णकुंभरत्नानि ।
७८।७य्द्/ मंगल्यानि अन्यानि च दृष्ट्वारंभे शुभं ज्ञेयम् ॥ ॥
७८।८अब्/ कर्मांगुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् ।
७८।८य्द्/ अंगुलशतं नृपाणां महती शय्या जयाय कृता ॥ ॥
७८।९अब्/ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च ।
७८।९य्द्/ नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युः यथासंख्यम् ॥ ॥
७८।१०अब्/ अर्धमतोऽष्टांशोनं विष्कंभो विश्वकर्मणा प्रोक्तः ।
७८।१०य्द्/ आयामत्र्यंशसमः पादौच्छ्रायः सकुक्ष्य (सकुक्षि) शिराः ॥ ॥
७८।११अब्/ यः सर्वः श्रीपर्ण्या पर्यंको निर्मितः स धनदाता ।
७८।११य्द्/ असनकृतो रोगहरः तिन्दुकसारेण वित्तकरः ॥ ॥
७८।१२अब्/ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः ।
७८।१२य्द्/ चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ॥
७८।१३अब्/ यः पद्मकपर्यंकः स दीर्घमायुः श्रियं श्रुतं वित्तम् ।
७८।१३य्द्/ कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥ ॥
७८।१४अब्/ केवलचन्दनरचितं कांचनगुप्तं विचित्ररत्नयुतम् ।
७८।१४य्द्/ अध्यासन् पर्यंकं विबुधैः अपि पूज्यते नृपतिः ॥ ॥
७८।१५अब्/ अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा ।
७८।१५य्द्/ न श्रीपर्णेन (श्रीपर्णी न) च देवदारुवृक्षो न चाप्यसनः ॥ ॥
७८।१६अब्/ शुभदौ तु शालशाकौ (शाकशालौ) परस्परं संयुतौ पृथक् चैव ।
७८।१६य्द्/ तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदंबौ ॥ ॥
७८।१७अब्/ सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति चांबकृतः ।
७८।१७य्द्/ असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ॥ ॥
७८।१८अब्/ अंबस्पन्दनचन्दनवृक्षाणां स्पन्दनात्शुभाः पादाः ।
७८।१८य्द्/ फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥ ॥
७८।१९अब्/ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे ।
७८।१९य्द्/ कार्योऽलंकारविधिः गजदन्तेन प्रशस्तेन ॥ ॥
७८।२०अब्/ दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् ।
७८।२०य्द्/ अधिकमनूपचराणां न्यूनं गिरिचारिणां किंचित् ॥ ॥
७८।२१अब्/ श्रीवृक्ष (वत्स) वर्धमानच्छत्रध्वजचामरानुरूपेषु ।
७८।२१य्द्/ छेदे दृष्टेष्वारोग्य (अरोग्य) विजयधनवृद्धिसौख्यानि ॥ ॥
७८।२२अब्/ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः ।
७८।२२य्द्/ लोष्ठे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ॥ ॥
७८।२३अब्/ स्त्रीरूपे धननाशो (स्वविनाशो) भृंगारेऽभ्युत्थिते सुतौत्पत्तिः ।
७८।२३य्द्/ कुंभेन निधिप्राप्तिः यात्राविघ्नं च दण्डेन ॥ ॥
७८।२४अब्/ कृकलासकपिभुजंगेष्वसुभिक्षव्याधयो रिपुवशित्वं (वशत्वं) ।
७८।२४य्द्/ गृध्रौलूकध्वांक्षश्येनाकारेषु जनमरकः ॥ ॥
७८।२५अब्/ पाशेऽथवा कबन्धे नृपमृत्युः जनविपत् स्रुते रक्ते ।
७८।२५य्द्/ कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥ ॥
७८।२६अब्/ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेघेदः ।
७८।२६य्द्/ अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ॥ ॥
७८।२७अब्/ ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः ।
७८।२७य्द्/ अपसव्यैकदिगग्रे भवति भयं भूतसञ्जनितम् ॥ ॥
७८।२८अब्/ एकेनावाक्षिरसा (एकेनावाक्च्छिरसा) भवति हि पादेन पादवैकल्यम् ।
७८।२८य्द्/ द्वाभ्यां न जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशवधबन्धाः ॥ ॥
७८।२९अब्/ सुषिरेऽथवा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः ।
७८।२९य्द्/ पादे कुंभो यश्च ग्रन्थौ तस्मिन् उदररोगः ॥ ॥
७८।३०अब्/ कुंभाधस्ताज्जंघा तत्र कृतो जंघयोः करोति भयम् ।
७८।३०य्द्/ तस्याश्चाधरोऽधः क्षयकृद् द्रव्यस्य तत्र कृतः ॥ ॥
७८।३१अब्/ खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः ।
७८।३१य्द्/ ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन् न शुभः ॥ ॥
७८।३२अब्/ निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च ।
७८।३२य्द्/ कालकमन्यद् धुन्धुकमिति कथितश्छिद्रसंक्षेपः ॥ ॥
७८।३३अब्/ घटवत् सुशिरं मध्ये संकटमास्ये च निष्कुटं छिद्रम् ।
७८।३३य्द्/ निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ॥ ॥
७८।३४अब्/ सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घम् च ।
७८।३४य्द्/ वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम् ॥ ॥
७८।३५अब्/ कालकसंज्ञं कृष्णं धुन्धुकमिति यद् भवेद् विनिर्भिन्नम् ।
७८।३५य्द्/ दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ॥ ॥
७८।३६अब्/ निष्कुटसण्ज्ञे द्रव्यक्षयः तु कोलेक्षणे कुलध्वंसः ।
७८।३६य्द्/ शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ॥ ॥
७८।३७अब्/ कालकधुन्धुकसंज्ञं कीटैः विद्धं च न शुभदं छिद्रम् ।
७८।३७य्द्/ सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ॥ ॥
७८।३८अब्/ एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् ।
७८।३८य्द्/ त्रिभिः आत्मजवृद्धिकरं चतुर्भिः अर्थं (अर्थो) यशश्चाग्र्यम् ॥ ॥
७८।३९अब्/ पंचवनस्पतिरचिते पंचत्वं याति तत्र यः शेते ।
७८।३९य्द्/ षट्सप्ताष्टतरूणां काष्ठैः घटिते कुलविनाशः ॥ ॥
sएपरते अध्याय ७९ रत्नपरीक्षाध्यायः
७९।१अब्/ रत्नेन शुभेन शुभं भवति नृपाणामनिष्तमशुभेन ।
७९।१य्द्/ यस्मादतः परीक्ष्यं दैवं रत्नाश्रितम् तज्ञैः ॥ ॥
७९।२अब्/ द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति ।
७९।२य्द्/ इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम् ॥ ॥
७९।३अब्/ रत्नानि बलाद् दैत्याद् दधीचितोऽन्ये वदन्ति जातानि ।
७९।३य्द्/ केचिद् भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ॥ ॥
७९।४अब्/ वज्रेन्द्रनीलमरकतकर्केतरपद्मरागरुधिराख्याः ।
७९।४य्द्/ वैदूर्य (वैडूर्य) पुलकविमलकराजमणिस्फतिकशशिकान्ताः ॥ ॥
७९।५अब्/ सौगन्धिकगोमेदकशंखमहानीलपुष्परागाख्याः ।
७९।५य्द्/ ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि ॥ ॥
७९।६अब्/ वेणातटे विशुद्धं शिरीषकुसुमप्रभं (क्।उपमं) च कौशलकम् ।
७९।६य्द्/ सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् ॥ ॥
७९।७अब्/ ईषत्ताम्रं हिमवति मतंगजं वल्लपुष्पसंकाशम् ।
७९।७य्द्/ आपीतं च कलिंगे श्यामं पौण्ड्रेषु संभूतम् ॥ ॥
७९।८अब्/ एन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च ।
७९।८य्द्/ कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् ॥ ॥
७९।९अब्/ वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम् ।
७९।९य्द्/ शृंगाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥ ॥
७९।१०अब्/ वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम् ।
७९।१०य्द्/ स्रोतः खनिः प्रकीर्णकमित्याकरसंभवः त्रिविधः ॥ ॥
७९।११अब्/ रक्तं पीतं च शुभम् राजन्यानाम् सितम् द्विजातीनाम् ।
७९।११य्द्/ शैरीषं वैश्यानां शूद्राणां शस्यतेऽसितनिभम् ॥ ॥
७९।१२अब्/ सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैः तु विंशत्या ।
७९।१२य्द्/ तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ॥ ॥
७९।१३अब्/ पादत्र्यंशार्धोनं त्रिभागपंचांशषोडशांशाश्च ।
७९।१३य्द्/ भागश्च पंचविंशः शतिकः साहस्रिकश्चेति ॥ ॥
७९।१४अब्/ सर्वद्रव्याभेद्यं लघ्वंभसि तरति रश्मिवत् स्निघ्दम् ।
७९।१४य्द्/ तडिदनलशक्रचापोपमं च वज्रं हितायोक्तम् ॥ ॥
७९।१५अब्/ काकपदमक्षिकाकेशधातुयुक्तानि शर्करैः (शर्करा) विद्धम् ।
७९।१५य्द्/ द्विगुणाश्रि दग्ध (दिग्ध) कलुषत्रस्तविशीर्णानि न शुभानि ॥ ॥
७९।१६अब्/ यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि ।
७९।१६य्द्/ सर्वेषां चैतेषां मूल्याद् भागोऽष्टमो हानिः ॥ ॥
७९।१७अ वज्रं न किंचिदपि धारयितव्यमेके
७९।१७ब् पुत्रार्थिनीभिः अबलाभिरुशन्ति तज्ञाः ।
७९।१७य् शृंगाटकत्रिपुटधान्यकवत् स्थितं यच्
७९।१७द् श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ॥ ॥
७९।१८अब्/ स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् ।
७९।१८य्द्/ अशनिविषभयारिनाशनम् शुभमुप (उरु) भोगकरं च भूभृताम् ॥ ॥
sएपरते अध्याय ८० मुक्तालक्षणाध्यायः
८०।१अब्/ द्विपभुजगशुक्तिशंखाभ्रवेणुतिमिसूकरप्रसूतानि ।
८०।१य्द्/ मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥ ॥
८०।२अब्/ सिंहलकपारलौकिकसौराष्ट्रकताम्रपर्णिपारशवाः ।
८०।२य्द्/ कौबेरपाण्ड्यवाटकहैमा इत्याकराः त्व (हि) अष्टौ ॥ ॥
८०।३अब्/ बहुसंस्थानाः स्निग्धाः (स्निग्धा) हंसाभाः सिंहलाकराः स्थूलाः ।
८०।३य्द्/ ईषत्ताम्राः श्वेताः तमोवियुक्ताश्च ताम्राख्याः ॥ ॥
८०।४अब्/ कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः ।
८०।४य्द्/ न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ॥ ॥
८०।५अब्/ ज्योतिष्मत्यः (मन्तः) शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः ।
८०।५य्द्/ लघु जर्जरं दधिनिभं बृहद् द्विसंस्थानं (बृहद्विसंस्थानं) अपि हैमम् ॥ ॥
८०।६अब्/ विषमम् कृष्णश्वेतं (कृष्णम् श्वेतं) लघु कौबेरं प्रमाणतेजोवत् ।
८०।६य्द्/ निंबफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ॥ ॥
८०।७अब्/ अतसीकुसुमश्यामम् वैष्णवमेन्द्रं शशांकसंकाशम् ।
८०।७य्द्/ हरितालनिभं वारुणमसितं यमदैवतं भवति ॥ ॥
८०।८अब्/ परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् ।
८०।८य्द्/ निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥ ॥
८०।९अब्/ माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपंचाशत् ।
८०।९य्द्/ कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥ ॥
८०।१०अब्/ माषकदलहान्यातो द्वात्रिंशद्विंशतिः त्रयोदश च ।
८०।१०य्द्/ अष्टौ च शतानि शतत्रयं त्रिपंचाशता सहितम् ॥ ॥
८०।११अब्/ पंचत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः ।
८०।११य्द्/ सार्धाः तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ॥ ॥
८०।१२अब्/ गुञ्जात्रयस्य मूल्यं पंचाशद् रूपका गुणयुतस्य ।
८०।१२य्द्/ रूपकपंचत्रिंशत्त्रयस्य गुञ्जार्धहीनस्य ॥ ॥
८०।१३अब्/ पलदशभागो धरणं तद् यदि मुक्ताः त्रयोदश सुरूपाः ।
८०।१३य्द्/ त्रिशती सपंचविंशा रूपकसंख्या कृतं मूल्यम् ॥ ॥
८०।१४अब्/ षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता ।
८०।१४य्द्/ यत्पंचविंशतिधृतं तस्य शतं त्रिंशता सहितम् ॥ ॥
८०।१५अब्/ त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं (मूल्या) च ।
८०।१५य्द्/ षष्टिः पंचोना वा धरणम् पंचाष्टकं मूल्यम् ॥ ॥
८०।१६अब्/ मुक्ताशीत्या त्रिंशच्छतस्य सा पंचरूपकविहीना ।
८०।१६य्द्/ द्वित्रिचतुःपंचशता द्वादशषट्पंचकत्रितयम् ॥ ॥
८०।१७अब्/ पिक्कापिच्चार्घार्धा रवकः सिक्थं त्रयोदशाद्यानाम् ।
८०।१७य्द्/ संज्णाः परतो निगराश्चूर्णाश्चाशीतिपूर्वाणाम् ॥ ॥
८०।१८अब्/ एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं (प्रकीतितं) मूल्यम् ।
८०।१८य्द्/ परिकल्प्यमन्तराले हीनगुणाणां क्षयः कार्यः ॥ ॥
८०।१९अब्/ कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम् ।
८०।१९य्द्/ त्र्यंशोनम् विषमकपीतयोश्च षड्भागदलहीनम् ॥ ॥
८०।२०अब्/ ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु ।
८०।२०य्द्/ ये चोत्तरायणभवा ग्रहणेऽर्केन्द्वोश्च भद्रेभाः ॥ ॥
८०।२१अब्/ तेषां किल जायन्ते मुक्ताः कुंभेषु सरदकोशेषु ।
८०।२१य्द्/ बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥ ॥
८०।२२अब्/ नैषामर्घः कार्यो न च वेधोऽतीव ते प्रभायुक्ताः ।
८०।२२य्द्/ सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम् ॥ ॥
८०।२३अब्/ दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम् ।
८०।२३य्द्/ तिमिजं मत्स्याक्षिनिभं बृहत् पवित्रं बहुगुणं च ॥ ॥
८०।२४अब्/ वर्षौपलवज्जातं वायुस्कन्धाग सप्तमाद् भ्रष्टम् ।
८०।२४य्द्/ ह्रियते किल खाद् दिव्यैः तडित्प्रभवं मेघसंभूतम् ॥ ॥
८०।२५अब्/ तक्षकवासुकिकुलजाः कामगमा ये च पन्नगाः तेषाम् ।
८०।२५य्द्/ स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते ॥ ॥
८०।२६अब्/ शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि ।
८०।२६य्द्/ वर्षति देवोऽकस्मात् तज्ञेयं नागसंभूतम् ॥ ॥
८०।२७अब्/ अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति ।
८०।२७य्द्/ भौजंगं नृपतीनां धृतमकृतार्घं विजयदं च ॥ ॥
८०।२८अब्/ कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् ।
८०।२८य्द्/ शंखोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥ ॥
८०।२९अब्/ शंखतिमिवेणुवारणवराहभुजगाभ्रजान्यवैद्यानि (वैध्यानि) ।
८०।२९य्द्/ अमितगुणत्वागैषामर्घः शास्त्रे न निर्दिष्टः ॥ ॥
८०।३०अ एतानि सर्वाणि महागुणानि
८०।३०ब् सुतार्थसौभाग्ययशस्कराणि ।
८०।३०य् रुक्षोकहन्तीणि च पार्थिवानां
८०।३०द् मुक्ताफलानीप्सितकामदानि ॥ ॥
८०।३१अब्/ सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम् ।
८०।३१य्द्/ इन्दुच्छन्दो (इन्द्रच्छन्दो) नाम्ना विजयच्छन्दः तदर्धेन ॥ ॥
८०।३२अब्/ शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिः एकयुता ।
८०।३२य्द्/ अष्टाष्टकोऽर्धहारो रश्मिकलापश्च नवषट्कः ॥ ॥
८०।३३अब्/ द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितोऽर्धगुच्छाख्यः ।
८०।३३य्द्/ षोडशभिः माणवको द्वादशभिश्चार्धमाणवकः ॥ ॥
८०।३४अब्/ मन्दरसंज्ञोऽष्टाभिः पंचलता हारफलकमित्युक्तम् ।
८०।३४य्द्/ सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालेति ॥ ॥
८०।३५अब्/ अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैः वा ।
८०।३५य्द्/ तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति ॥ ॥
८०।३६अ एकावली नाम यथेष्टसंख्या
८०।३६ब् हस्तप्रमाणा मणिविप्रयुक्ता ।
८०।३६य् संयोजिता या मणिना तु मध्ये
८०।३६द् यष्टीति सा भूषणविद्भिरुक्तम् ॥ ॥
sएपरते अध्याय ८१ पद्मरागलक्षणाद्यायः
८१।१अब्/ सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसंभूतिः (पद्मरागो सं) ।
८१।१य्द्/ सौगन्धिकजा भ्रमराञ्जनाब्जजंबूरसद्युतयः ॥ ॥
८१।२अब्/ कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिः विद्धाः ।
८१।२य्द्/ स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥ ॥
८१।३अब्/ स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः ।
८१।३य्द्/ अन्तःप्रभोऽतिरागो (अतिरागा) मणिरत्नगुणाः समस्तानाम् ॥ ॥
८१।४अब्/ कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः ।
८१।४य्द्/ दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥ ॥
८१।५अब्/ भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजंगानाम् ।
८१।५य्द्/ भवति मणिः किक मूर्धनि योऽनर्घेयः स विज्ञेयः ॥ ॥
८१।६अ यः तं बिभर्ति मनुजाधिपतिः न तस्य
८१।६ब् दोषा भवन्ति विषरोगकृताः कदाचित् ।
८१।६य् राष्ट्रे च नित्यमभिवर्षति तस्य देवः
८१।६द् शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥ ॥
८१।७अब्/ षड्विंशतिः सहस्राणि एकस्य मणेः पलप्रमाणस्य ।
८१।७य्द्/ कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥ ॥
८१।८अब्/ अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि ।
८१।८य्द्/ यगाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥ ॥
८१।९अब्/ माषकचतुष्टयं दशशतक्रयं द्वौ तु पंचशतमूल्यौ ।
८१।९य्द्/ परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥ ॥
९१।१०अब्/ वर्णन्यूनस्यार्धं तेजोहीनस्य मूल्यमष्टांशम् ।
८१।१०य्द्/ अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥ ॥
८१।११अब्/ आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद् द्विशतभागम् ।
८१।११य्द्/ इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥ ॥
sएपरते अध्याय ८२ मरकतलक्षणाध्यायः ।
८२।१अब्/ शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् ।
८२।१य्द्/ सुरपितृकार्ये मरकतं (रकतं) अतीव शुभदं नृणां विहितं (विधृतं) ॥ ॥
sएपरते अध्याय ८३ दीपलक्षणाध्यायः
८३।१अ वामावर्तो मलिनकिरणः सस्फुलिंगोऽल्पमूर्तिः
८३।१ब् क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितोऽपि ।
८३।१य् दीपः पापं कथयति फलं शब्दवान् वेपनश्च
८३।१द् व्याकीर्णार्चिः विशलभमरुद्यश्च नाशं प्रयाति ॥ ॥
८३।२अ दीपः संहतमूर्तिः आयततनुः निर्वेपनो दीप्तिमान्
८३।२ब् निःशब्दो रुचिरः प्रदक्षिणगतिः वैदूर्य (वैडूर्य) हेमद्युतिः ।
८३।२य् लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं (रुचिरं, सुचिरं) यश्चौद्यतं दीप्यते
८३।२द् शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः ॥ ॥
sएपरते अध्याय ८४ दन्तकाष्ठलक्षणाध्यायः
८४।१अ वल्लीलतागुल्मतरुप्रभेदैः
८४।१ब् स्युः दन्तकाष्ठानि सहस्रशो यैः ।
८४।१य् फलानि वाच्यानि अथ (अति) तत्प्रसंगो
८४।१द् मा भूदतो वच्म्यथ कामिकानि ॥ ॥
८४।२अ अज्ञातपूर्वाणि न दन्तकाष्ठान्य्-
८४।२ब् अद्यान् न पत्रैश्च समन्वितानि ।
८४।२य् न युग्मपर्वाणि न पाटितानि
८४।२द् न च ऊर्ध्वशुष्काणि विना त्वचा च ॥ ॥
८४।३अ वैकन्तकश्रीफलकाश्मरीषु
८४।३ब् ब्राह्मी द्युतिः क्षेमतरौ सुदाराः ।
८४।३य् वृद्धिः वटेऽर्के प्रचुरं च तेजः
८४।३द् पुत्रा मधूके सगुणाः (ककुभे) प्रियत्वम् ॥ ॥
८४।४अ लक्ष्मीः शिरीषे च तथा करञ्जे
८४।४ब् प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात् ।
८४।४य् मान्यत्वमायाति जनस्य जात्यां
८४।४द् प्राधान्यमश्वत्थतरौ वदन्ति ॥ ॥
८४।५अ आरोग्यमायुः बदरीबृहत्योः
८४।५ब् ऐश्वर्यवृद्धिः खदिरे सबिल्वे ।
८४।५य् द्रव्याणि चैष्टानि अतिमुक्तके स्युः
८४।५द् प्राप्नोति तानि एव पुनः कदंबे ॥ ॥
८४।६अ नीपे (निंबे) ऽर्थाप्तिः करवीरेऽन्नलब्धिः
८४।६ब् भाण्डीरे स्यादन्नमेवं (इदमेव) प्रभूतम् ।
८४।६य् शम्यां शत्रून् अपहन्त्यर्जुने च
८४।६द् श्यामायां च द्विषतामेव नाशः ॥ ॥
८४।७अ शालेऽश्वकर्णे च वदन्ति गौरवं
८४।७ब् सभद्रदारावपि चाटरूषके ।
८४।७य् वाल्लभ्यमायाति जनस्य सर्वतः
८४।७द् प्रियंगुअपामार्गसजंबुदाडिमैः ॥ ॥
८४।८अ उदन्मुखः प्रान्मुख एव वाब्दं
८४।८ब् कामं यथेष्ठं(यथेष्टं) हृदये निवेश्य ।
८४।८य् अद्यादनिन्दन् (अनिन्द्यं) च सुखोपविष्टः
८४।८द् प्रक्षाल्य जह्याग शुचिप्रदेशे ॥ ॥
८४।९अ अभिमुखपतितं प्रशान्तदिक्स्थं
८४।९ब् शुभमतिशोभनमूर्ध्वसंस्थितं यत् ।
८४।९य् अशुभकरमतोऽन्यथा प्रदिष्टं
८४।९द् स्थितपतितं च करोति मृष्टमन्नम् ॥ ॥
sएपरते अध्याय ८५ शाकुनाध्यायः
८५।१अब्/ यत्शक्रशुक्र (शुक्रशक्र) वागीशकपिष्ठलगरुत्मताम् ।
८५।१य्द्/ मतेभ्यः प्राह ऋषभो भागुरेः देवलस्य च ॥ ॥
८५।२अब्/ भारद्वाजमतं दृष्ट्वा यग श्रीद्रव्यवर्धनः ।
८५।२य्द्/ आवन्तिकः प्राह नृपो महाराजाधिराजकः ॥ ॥
८५।३अब्/ सप्तर्षीणां मतं यग संस्कृतं प्राकृतं च यत् ।
८५।३य्द्/ यानि चौक्तानि गर्गाद्यैः यात्राकारैश्च भूरिभिः ॥ ॥
८५।४अब्/ तानि दृष्ट्वा चकारैमं सर्वशाकुनसंग्रहम् ।
८५।४य्द्/ वराहमिहिरः प्रीत्या शिष्याणां ज्ञानमुत्तमम् ॥ ॥
८५।५अब्/ अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् ।
८५।५य्द्/ यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥ ॥
८५।६अब्/ ग्रामारण्यांबुभूव्योमद्युनिशोभयचारिणः ।
८५।६य्द्/ रुतयातेक्षितोक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः (स्त्रीपुन्नपुंसकाः) ॥ ॥
८५।७अब्/ पृथग् जात्यनवस्थानादेषां व्यक्तिः न लक्ष्यते ।
८५।७य्द्/ सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ ॥ ॥
८५।८अब्/ पीनौन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः ।
८५।८य्द्/ स्वल्पगंभीरविरुताः पुंआंसः स्थिरविक्रमाः ॥ ॥
८५।९अब्/ तनूरस्कशिरोग्रीवाः सूक्ष्मास्यपदविक्रमाः ।
८५।९य्द्/ प्रसक्तमृदुभाषिण्यः स्त्रियोऽतोऽन्यन् नपुंसकम् ॥ ॥
८५।१०अब्/ ग्रामारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् ।
८५।१०य्द्/ संचिक्षिप्सुः अहं वच्मि यात्रामात्रप्रयोजनम् ॥ ॥
८५।११अब्/ पथ्यात्मानं नृपं सैन्ये पुरे चौद्दिश्य देवताम् ।
८५।११य्द्/ सार्थे प्रधानं साम्ये (साम्यं) स्याज्जातिविद्यावयोऽधिकम् ॥ ॥
८५।१२अब्/ मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम् ।
८५।१२य्द्/ अंगार (अग्गारि) दीप्तधूमिन्यः ताश्च शान्ताः ततोऽपराः (ऽपरा, अपराः) ॥ ॥
८५।१३अब्/ तत्पंचमदिशां तुल्यं शुभं त्रिकाल्यमादिशेत् ।
८५।१३य्द्/ परिशेष (परिशेषयोः) दिशोः वाच्यं यथासन्नं शुभाशुभम् ॥ ॥
८५।१४अब्/ शीघ्रमासन्ननिम्नस्थैश्चिरादुन्नतदूरगैः ।
८५।१४य्द्/ स्थानवृद्ध्युपघाताग तद्वद् ब्रूयात् फलं पुनः ॥ ॥
८५।१५अब्/ क्षणतिथ्युडुवातार्कैः देवदीप्तो यथोत्तरम् ।
८५।१५य्द्/ क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥ ॥
८५।१६अब्/ दशधैवं प्रशान्तोऽपि सौम्यः तृणफलाशनः ।
८५।१६य्द्/ मांसामेध्याशने रौद्रो विमिश्रोऽन्नाशनः स्मृतः ॥ ॥
८५।१७अब्/ हर्म्यप्रासादमंगल्यमनोज्ञस्थानसंस्थिताः ।
८५।१७य्द्/ श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ॥ ॥
८५।१८अब्/ स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः ।
८५।१८य्द्/ क्लीबस्त्रीपुरुषा ज्ञेया (पुरुशाश्च एषां) बलिनः स्युः यथोत्तरम् ॥ ॥
८५।१९अब्/ जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः ।
८५।१९य्द्/ स्वभूमावनुलोमाश्च तदूनाः स्युः विवर्जिताः ॥ ॥
८५।२०अब्/ कुक्कुटैभपिरिल्यश्च शिखिवञ्जुलछिक्कराः ।
८५।२०य्द्/ बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ॥ ॥
८५।२१अब्/ क्रोष्टुकौलूकहारीतकाककोकऋक्षपिंगलाः ।
८५।२१य्द्/ कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥ ॥
८५।२२अब्/ गोशशक्रौंचलोमाशहंसौत्क्रोशकपिञ्जलाः ।
८५।२२य्द्/ विडालौत्सववादित्रगीतहासाश्च वारुणाः ॥ ॥
८५।२३अब्/ शतपत्रकुरंगाखुमृगएकशफकोकिलाः ।
८५।२३य्द्/ चाषशल्यकपुण्याहघण्टाशंखरवा उदक् ॥ ॥
८५।२४अब्/ न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्राम्यसंस्थितः (ग्रामसंस्थितः) ।
८५।२४य्द्/ दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा ॥ ॥
८५।२५अब्/ द्वन्द्वरोगार्दितत्रस्ताः कलहामिषकांक्षिणः
८५।२५य्द्/ आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥ ॥
८५।२६अब्/ रोहिताश्वाजवालेयाः कुरंग (वालेयकुरंग) उष्ट्रमृगाः शशः ।
८५।२६य्द्/ निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ॥ ॥
८५।२७अब्/ न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः ।
८५।२७य्द्/ शारद्य (शरद्य) अब्जादगोक्रौंचाः श्रावणे हस्तिचातकौ ॥ ॥
८५।२८अब्/ व्याघ्रऋक्षवानरद्वीपिमहिषाः सबिलेशयाः ।
८५।२८य्द्/ हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥ ॥
८५।२९अब्/ एन्द्रानलदिशोः मध्ये त्रिभागेषु व्यवस्थिताः ।
८५।२९य्द्/ कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥ ॥
८५।३०अब्/ शिल्पी भिक्षुः विवस्त्रा स्त्री याम्यानलदिगन्तरे ।
८५।३०य्द्/ परतश्चापि मातंगगोपधर्मसमाश्रयाः ॥ ॥
८५।३१अब्/ नैरृतीवारुणीमध्ये प्रमदासूतितस्कराः ।
८५।३१य्द्/ शौण्डिकः शाकुनी हिंस्रो वायव्या (वायव्य) पश्चिमान्तरे ॥ ॥
८५।३२अब्/ विषघातकगोस्वामिकुहकज्ञाः ततः परम् ।
८५।३२य्द्/ धनवानीक्षणीकश्च मालाकारः परं ततः ॥ ॥
८५।३३अब्/ वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः ।
८५।३३य्द्/ द्वात्रिंशदेवं (एवं द्वात्रिंशतो) भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥ ॥
८५।३४अब्/ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
८५।३४य्द्/ राजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥ ॥
८५।३५अब्/ गच्छतः तिष्ठतो वापि दिशि यस्यां व्यवस्थितः ।
८५।३५य्द्/ विरौति शकुनो वाच्यः तद्दिग्जेन समागमः ॥ ॥
८५।३६अब्/ भिन्नभैरवदीनार्तपरुषक्षामजर्जराः ।
८५।३६य्द्/ स्वना (स्वरा) नैष्टाः शुभाः शान्त (शान्ता) हृष्टप्रकृतिपूरिताः ॥ ॥
८५।३७अब्/ शिवा श्यामा रला छुच्छुः पिंगला गृहगोधिका ।
८५।३७य्द्/ सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥ ॥
८५।३८अब्/ स्त्रीसंज्ञा भासभषककपिश्रीकर्णधिक्कराः (छिक्कराः) ।
८५।३८य्द्/ शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥ ॥
८५।३९अब्/ क्ष्वेडास्फोटितपुण्याहगीतशंखांबुनिःस्वनाः ।
८५।३९य्द्/ सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥ ॥
८५।४०अब्/ ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः ।
८५।४०य्द्/ षड्ज (षड्जा) मध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥ ॥
८५।४१अब्/ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः ।
८५।४१य्द्/ धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥ ॥
८५।४२अब्/ जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् ।
८५।४२य्द्/ रुतं सन्दर्शनं (रतसन्दर्शनं) नैष्टं प्रतीपं वानरऋक्षयोः ॥ ॥
८५।४३अब्/ ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः ।
८५।४३य्द्/ चाषः सनकुलो वामो भृगुः आहापराह्णतः ॥ ॥
८५।४४अब्/ छिक्करः कुटपूरी च पिरिली चाह्नि दक्षिणाः ।
८५।४४य्द्/ अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ॥ ॥
८५।४५अब्/ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे ।
८५।४५य्द्/ कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ॥ ॥
८५।४६अब्/ जालश्वचरणौ नैष्टौ प्राग्याम्यौ शस्त्रघातकौ ।
८५।४६य्द्/ पश्चादासवषण्ढौ च खलासनहलानि उदक् ॥ ॥
८५।४७अब्/ कर्मसंगमयुद्धेषु प्रवेशे नष्टमार्गणे ।
८५।४७य्द्/ यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ॥ ॥
८५।४८अब्/ दिवा प्रस्थानवद् ग्राह्याः कुरंगरुरुवानराः ।
८५।४८य्द्/ अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥ ॥
८५।४९अब्/ पश्चिमे शर्वरीभागे नप्तृकोलूकपिंगलाः ।
८५।४९य्द्/ सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ॥ ॥
८५।५०अब्/ नृपसन्दर्शने ग्राह्यः प्रवेशेऽपि प्रयाणवत् ।
८५।५०य्द्/ गिर्यरण्यप्रवेशेषु (प्रवेशे च) नदीनां चावगाहने ॥ ॥
८५।५१अब्/ वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ ।
८५।५१य्द्/ क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ ॥ ॥
८५।५२अब्/ तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ ।
८५।५२य्द्/ शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये ॥ ॥
८५।५३अब्/ केचित् तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः ।
८५।५३य्द्/ शकुनैः एकजातीयैः शान्तचेष्टाविराविभिः ॥ ॥
८५।५४अब्/ विसर्जयति यद्येक एकश्च प्रतिषेधति ।
८५।५४य्द्/ स विरोधोऽशुभो यातुः ग्राह्यो यो (वा) बलवत्तरः ॥ ॥
८५।५५अब्/ पूर्वं प्राविशिको (प्रावेशेको) भूत्वा पुनः प्रास्थानिको भवेत् ।
८५।५५य्द्/ सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात् (तद्विपर्ययः) ॥ ॥
८५।५६अब्/ विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् ।
८५।५६य्द्/ प्राह यातुः अरेः मृत्युं डमरं रोगमेव वा ॥ ॥
८५।५७अब्/ अपसव्याः तु शकुना दीप्ता भयनिवेदिनः ।
८५।५७य्द्/ आरंभे शकुनो दीप्तो वर्षान्तः तद्भयंकरः ॥ ॥
८५।५८अब्/ तिथिवाय्वर्कभस्थानचेष्टादीप्ता यथाक्रमम् ।
८५।५८य्द्/ धनसैन्यबलांगेष्टकर्मणां स्युः भयंकराः ॥ ॥
८५।५९अब्/ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् ।
८५।५९य्द्/ उभयोः सन्ध्ययोः दीप्ताः शस्त्रोद्भवभयंकराः ॥ ॥
८५।६०अब्/ चितिकेशकपालेषु मृत्युबन्धवधप्रदाः ।
८५।६०य्द्/ कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः ॥ ॥
८५।६१अब्/ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः ।
८५।६१य्द्/ कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलाः तु ते ॥ ॥
८५।६२अब्/ असिद्धिसिद्धिदौ ज्ञेयौ निर्हाराहार (निर्हादाहार) कारिणौ ।
८५।६२य्द्/ स्थानाद् रुवन् व्रजेद् यात्रां शंसते त्वन्यथागमम् ॥ ॥
८५।६३अब्/ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।
८५।६३य्द्/ उच्चमादौ स्वरं कृत्वा नीचं पश्चाग दोषकृत् (मोषकृत्) ॥ ॥
८५।६४अब्/ एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामघातकः (ग्रामघातकृत्) ।
८५।६४य्द्/ पुरदेशनरेन्द्राणामृत्वर्धायनवत्सरात्
८५।६५अब्/ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः (अशनाः) ॥ ॥
८५।६५य्द्/ सर्पमूषकमार्जारपृथुलोम (रोम) विवर्जिताः ॥ ॥
८५।६६अब्/ परयोनिषु गच्छन्तो मैथुनं देशनाशनाः ।
८५।६६य्द्/ अन्यत्र वेसरोत्पत्तेः नृणां चाजातिमैथुनात् ॥ ॥
८५।६७अब्/ बन्धघातभयानि स्युः पाद ऊरूमस्तकान्तिगैः ।
८५।६७य्द्/ शष्पापः (अपशष्प) पिशितान्नादैः दोषवर्षक्षय (वर्षमोषक्षत) ग्रहाः ॥ ॥
८५।६८अब्/ क्रूरौग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।
८५।६८य्द्/ चिरकालेन (चिरकालैश्च) दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥ ॥
८५।६९अब्/ सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् ।
८५।६९य्द्/ द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥ ॥
८५।७०अब्/ विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः ।
८५।७०य्द्/ स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥ ॥
८५।७१अब्/ शान्तः पंचमदीप्तेन विरुतो विजयावहः ।
८५।७१य्द्/ दिग्नरागमकारी वा दोषकृत् तद्विपर्यये ॥ ॥
८५।७२अब्/ वामसव्यगतो (रुतो) मध्यः प्राह स्वपरयोः भयम् ।
८५।७२य्द्/ मरणं कथयन्ति एते सर्वे समविराविणः ॥ ॥
८५।७३अब्/ वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः ।
८५।७३य्द्/ दीर्घाब्जमुषिताग्रेषु नरनौशिबिकागमः ॥ ॥
८५।७४अब्/ शकटेनौन्नतस्थे वा (च) छायास्थे छत्रसंयुते (छत्रसम्युतः) ।
८५।७४य्द्/ एकत्रिपंचसप्ताहात् पूर्वाद्यास्वन्तरासु च ॥ ॥
८५।७५अब्/ सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुसंकराः क्रमशः ।
८५।७५य्द्/ प्राच्याद्यानां पतयो दिशः पुमांसो अंगना विदिशः ॥ ॥
८५।७६अब्/ तरुतालीवदलांबरसलिलजशरचर्मपट्टलेखाः स्युः ।
८५।७६य्द्/ द्वात्रिंशत्परविभक्ते दिक्चक्रे तेषु कार्याणि ॥ ॥
८५।७७अब्/ व्यायामशिखिनिकूजितकलहांभोनिगडमन्त्रगोशब्दाः ।
८५।७७य्द्/ वर्णाः तु (च) रक्तपीतककृष्णसिताः कोणगा मिश्राः ॥ ॥
८५।७८अ चिह्नं ध्वजो दग्धमथ श्मशानं
८५।७८ब् दरी जलं पर्वतयज्ञघोषाः ।
८५।७८य् एतेषु संयोगभयानि विन्द्याद्
८५।७८द् अन्यानि वा स्थानविकल्पितानि ॥ ॥
८५।७९अ स्त्रीणां विकल्पा बृहती कुमारी
८५।७९ब् व्यंगा विगन्धा त्वथ नीलवस्त्रा ।
८५।७९य् कुस्त्री प्रदीर्घा विधवा च ताश्च
८५।७९द् संयोगचिन्ता परिवेदिकाः स्युः ॥ ॥
८५।८०अ पृच्छासु रूप्यकनकातुरभामिनीनां
८५।८०ब् मेषाव्ययानमखगोकुलसंश्रयासु ।
८५।८०य् न्यग्रोधरक्ततरुरोध्रककीचकाख्याश्
८५।८०द् चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च ॥ ॥
sएपरते अध्याय ८६ शाकुनेऽन्तरचक्राध्यायः
८६।१अब्/ एन्द्र्यां दिशि शान्तायां विरुवन् नृपसंश्रितागमं वक्ति ।
८६।१य्द्/ शकुनः (शकुनिः) पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम् ॥ ॥
८६।२अब्/ तदनन्तरदिशि कनकागमो भवेद् वांछितार्थसिद्धिश्च ।
८६।२य्द्/ आयुधधनपूगफलागमः तृये भवेद् भागे ॥ ॥
८६।३अब्/ स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाहिताग्नेश्च ।
८६।३य्द्/ कोणेऽनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः ॥ ॥
८६।४अब्/ याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिः अभिमतस्याप्तिः ।
८६।४य्द्/ परतः स्त्रीधर्माप्तिः सर्षपयवलब्धिः अपि उक्ता ॥ ॥
८६।५अब्/ कोणागतुर्थखण्डे लब्धिः द्रव्यस्य पूर्वनष्टस्य ।
८६।५य्द्/ यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद् याता ॥ ॥
८६।६अब्/ यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च ।
८६।६य्द्/ याम्याद् द्वितीयभागे चारणसंगः शुभं प्रीतिः ॥ ॥
८६।७अब्/ ऊर्ध्वं सिद्धिः कैवर्तसंगमो मीनतित्तिराद्याप्तिः ।
८६।७य्द्/ प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः ॥ ॥
८६।८अब्/ नैरृत्यां स्त्रीलाभः तुरगालंकारदूतलेखाप्तिः ।
८६।८य्द्/ परतोऽस्य चर्मतत्शिल्पिदर्शनं चर्ममयलब्धिः ॥ ॥
८६।९अब्/ वानरभिक्षुश्रवणावलोकनं नैरृतात् तॄतीयांशे ।
८६।९य्द्/ फलकुसुमदन्तघटितागमश्च कोणागतुर्थांशे ॥ ॥
८६।१०अब्/ वारुण्यामर्णवजातरत्नवैदूर्य (वैडूर्य) मणिमयप्राप्तिः ।
८६।१०य्द्/ परतोऽतः शबरव्याधचौरसंगः पिशितलब्धिः ॥ ॥
८६।११अब्/ परतोऽपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः ।
८६।११य्द्/ आयुधपुस्तकलब्धिः तद्वृत्तिसमागमश्च ऊर्ध्वम् ॥ ॥
८६।१२अब्/ वायव्ये फेनकचामर ऊर्णिकाप्तिः समेति कायस्थः ।
८६।१२य्द्/ मृन्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डानाम् ॥ ॥
८६।१३अब्/ वायव्याग तृतीये मित्रेण स्मागमो धनप्राप्तिः ।
८६।१३य्द्/ वस्त्राश्वाप्तिः अतः परमिष्टसुहृत्सम्प्रयोगश्च ॥ ॥
८६।१४अब्/ दधितण्डुललाजानां लब्धिरुदग् दर्शनं च विप्रस्य ।
८६।१४य्द्/ अर्थावाप्तिः अनन्तरमुपगच्छति सार्थवाहश्च ॥ ॥
८६।१५अब्/ वेश्यावटुदाससमागमः परे शुक्ल (शुष्क) पुष्पफललब्धिः ।
८६।१५य्द्/ अत ऊर्ध्वं (अतः परं) चित्रकरस्य दर्शनं चित्रवस्त्राप्तिः (वस्त्रसम्प्राप्तिः) ॥ ॥
८६।१६अब्/ ऐशान्यां देवलकोपसंगमो धान्यरत्नपशुलब्धिः ।
८६।१६य्द्/ प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या ॥ ॥
८६।१७अब्/ रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः ।
८६।१७य्द्/ हस्त्युपजीविसमाजश्चास्माद् धनहस्तिलब्धिश्च ॥ ॥
८६।१८अब्/ द्वात्रिंशत्प्रविभक्तं दिक्चक्रं वास्तुवत् सनेम्युक्तं (वास्तुबन्धने अपि उक्तं) ।
८६।१८य्द्/ अरनाभिस्थैः अन्तः फलानि नवधा विकल्प्यानि ॥ ॥
८६।१९अब्/ नाभिस्थे बन्धुसुहृत्समागमः तुष्टिरुत्तमा भवति ।
८६।१९य्द्/ प्राग्रक्तपट्टवस्त्रागमः त्वरे नृपतिसंयोगः ॥ ॥
८६।२०अब्/ आग्नेये कौलिकतक्षपारिकर्ममाश्वसूतसंयोगः ।
८६।२०य्द्/ लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिः वा ॥ ॥
८६।२१अब्/ नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे योऽरः ।
८६।२१य्द्/ धार्मिकजनसंयोगः तत्र भवेद् धर्मलाभश्च ॥ ॥
८६।२२अब्/ उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः ।
८६।२२य्द्/ वृषभस्य चात्र लब्धिः माषकुलत्थाद्यमशनम् च ॥ ॥
८६।२३अब्/ अपरस्यां दिशि योऽरः तत्रासक्तिः कृषीवलैः भवति ।
८६।२३य्द्/ सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ॥ ॥
८६।२४अब्/ भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थे ।
८६।२४य्द्/ तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य ॥ ॥
८६।२५अब्/ कौबेर्यां दिशि योऽरः तत्रस्थो (शकुनः शान्तायां) वित्तलाभ्माख्याति ।
८६।२५य्द्/ भागवतेन समागमनं (समागमं) आचष्टे पीतवस्त्रैश्च ॥ ॥
८६।२६अब्/ ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति ।
८६।२६य्द्/ लब्धिश्च परिज्ञेया कृष्णायःशस्त्र (कृष्णायोवस्त्र) घण्टानाम् ॥ ॥
८६।२७अब्/ याम्येऽष्टांशे पश्चाद् द्विषट्त्रिसप्ताष्टमेषु मध्यफला ।
८६।२७य्द्/ सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा ॥ ॥
८६।२८अब्/ अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु ।
८६।२८य्द्/ वायव्यानैरृतयोः अरयोः (उभय्योः) क्लेशावहा यात्रा ॥ ॥
८६।२९अब्/ शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि ।
८६।२९य्द्/ एन्द्र्यां भयं नरेन्द्रात् सस्मागमश्चैव शात्रूणाम् ॥ ॥
८६।३०अब्/ तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम् ।
८६।३०य्द्/ अर्थक्षयः तृतीये कलहः शस्त्रप्रकोपश्च ॥ ॥
८६।३१अब्/ अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः ।
८६।३१य्द्/ कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः ॥ ॥
८६।३२अब्/ प्रमदागर्भविनाशः तृतीयभागे भवेगतुर्थे च ।
८६।३२य्द्/ हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च ॥ ॥
८६।३३अब्/ अथ पंचमे नृपभयं मारीमृतदर्शनं च वक्तव्यम् ।
८६।३३य्द्/ षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोंबानाम् ॥ ॥
८६।३४अब्/ धीवरशाकुनिकानां सप्तमभागाद् (भागे) भयं भवति पीप्ते ।
८६।३४य्द्/ भोजनविघात उक्तो निर्(ग्र्)अन्थभयं च तत्परतः ॥ ॥
८६।३५अब्/ कलहो नैरृतभागे रक्तस्रावोऽथ चर्मकारभयं (शस्त्रकोपश्च) ।
८६।३५य्द्/ अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम् ॥ ॥
८६।३६अब्/ तदनन्तरं (तदनन्तरे) परिव्राट्श्रवणभयं तत्परे त्वनशनभयम् ।
८६।३६य्द्/ वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः ॥ ॥
८६।३७अब्/ वायुग्रस्तविनाशः परे परे शस्त्रपुस्तवार्तानां (वार्त्तानां) ।
८६।३७य्द्/ कोणे पुस्तकनाशः परे विषस्तेनवायुभयम् ॥ ॥
८६।३८अब्/ परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः ।
८६।३८य्द्/ तस्यासन्नेऽश्ववधो भयमपि च पुरोधसः प्रोक्तम् ॥ ॥
८६।३९अब्/ गोहरणशस्त्रघातावुदक् परे सार्थघातधननाशौ ।
८६।३९य्द्/ आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम् ॥ ॥
८६।४०अब्/ ऐशानस्यासन्ने चित्रांबरचित्रकृद्भयं प्रोक्तम् ।
८६।४०य्द्/ ऐशाने त्वग्निभयं दूषणमपि उत्तमस्त्रीणाम् ॥ ॥
८६।४१अब्/ प्राक् तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च ।
८६।४१य्द्/ भयमूर्ध्वं रजकानां विज्ञेयं काच्च्छिकानां च ॥ ॥
८६।४२अब्/ हस्त्यारोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ ।
८६।४२य्द्/ अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे ॥ ॥
८६।४३अब्/ शस्त्रानलप्रकोपाग्नेये वाजिमरणशिल्पिभयम् ।
८६।४३य्द्/ याम्ये धर्मविनाशोऽपरे (विनाशः परे) ऽग्न्यवस्कन्दचोक्षवधाः ॥ ॥
८६।४४अब्/ अपरे तु कर्मिणां भयमथ कोणे चानिले खरौष्ट्रवधः ।
८६।४४य्द्/ अत्रैव मनुष्याणां विसूचिका (विक्स्क्षूचिका) विषभयं भवति ॥ ॥
८६।४५अब्/ उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः ।
८६।४५य्द्/ ग्रामीणगोपपीडा च तत्र नाभ्यां तथात्मवधः ॥ ॥
sएपरते अध्याय ८७ विरुताध्याय्ः
८७।१अ श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश्
८७।१ब् चाषाण्डीरकखञ्जरीटकशुकध्वांक्षाः कपोताः त्रयः (त्रयाः) ।
८७।१य् भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः
८७।१द् फेण्टः कुक्कुटपूर्णकूटचटकाः प्रोक्ता (चटकाश्च उक्ता) दिवासंचराः ॥ ॥
८७।२अ लोमाशिका पिंगलच्छिप्पिकाख्यौ
८७।२ब् वल्गुल्युलूकौ शशकश्च रात्रौ ।
८७।२य् सर्वे स्वकालोत्क्रमचारिणः स्युः
८७।२द् देशस्य नाशाय नृपान्तदा वा ॥ ॥
८७।३अ हयनरभुजगौष्ट्रद्वीपिसिंहऋक्षगोधा
८७।३ब् वृकनकुलकुरंगश्वाजगोव्याघ्रहंसाः ।
८७।३य् पृषतमृगशृगालश्वाविदाख्यान्यपुष्टा
८७।३द् द्युनिशमपि बिडालः सारसः सूकरश्च ॥ ॥
८७।४अब्/ भषकूटपूरिकुरबककरायिकाः पूर्णकूटसण्ज्ञाः स्युः ।
८७।४य्द्/ नामानि उलूकचेट्याः पिंगलिका पेचिका हक्का ॥ ॥
८७।५अब्/ कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचंचुः ।
८७।५य्द्/ छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ॥ ॥
८७।६अब्/ स्रोतः तडागभेद्य (भेद्येक) एकपुत्रकः कलहकारिका च रला ।
८७।६य्द्/ भृंगारवग विरुवति (वाशति) निशि भूमौ द्व्यंगुलशरीरा ॥ ॥
८७।७अब्/ दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तोऽसौ ।
८७।७य्द्/ धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ॥ ॥
८७।८अब्/ गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम ।
८७।८य्द्/ गृहगोधिकेति संज्ञा विज्ञेया कुड्यमत्स्यस्य ॥ ॥
८७।९अब्/ दिव्यो धन्वन उक्तः क्रोडः स्यात् सूकरोऽथ गौरुस्रा ।
८७।९य्द्/ श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ॥ ॥
८७।१०अब्/ एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि ॥ ॥
८७।१०य्द्/ शकुनरुतज्ञानार्थं शास्त्रे संचित्य (संचिन्त्य) योज्यानि ॥ ॥
८७।११अब्/ वञ्जुलकरुतं तित्तिड् इति दीप्तमथ किल्किलीति तत्पूर्णम् ।
८७।११य्द्/ श्येनशुकगृध्रकंकाः प्रकृतेः अन्यस्वरा दीप्ताः ॥ ॥
८७।१२अब्/ यानासनशय्यानिलयनं कपोतस्य सद्मविशनं वा ।
८७।१२य्द्/ अशुभप्रदं नराणां जातिविभेदेन कालोऽन्यः ॥ ॥
८७।१३अब्/ आपाण्डुरस्य वर्षागित्रकपोतस्य चैव षण्मासात् ।
८७।१३य्द्/ कुंकुमधूम्रस्य फलं सद्यः पाकं कपोतस्य ॥ ॥
८७।१४अब्/ चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः ।
८७।१४य्द्/ चच्चैति दीप्तः स्यात् स्वप्रियलाभाय (योगाय) चिक्चिग् इति ॥ ॥
८७।१५अब्/ हारीतस्य तु शब्दो गुग्गुः पूर्णोऽपरे प्रदीप्ताः स्युः ।
८७।१५य्द्/ स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम् ॥ ॥
८७।१६अब्/ किष्किषिशब्दः पूर्णः करायिकायाः शुभः कहकहैति ।
८७।१६य्द्/ क्षमाय केवलं करकरैति न त्वर्थसिद्धिकरः ॥ ॥
८७।१७अब्/ कोटुक्लीति क्षेम्यः स्वरः कुटुक्लीति वृष्टये तस्याः ।
८७।१७य्द्/ अफलः कोटिकिलीति च दीप्तः खलु गुं कृतः शब्दः ॥ ॥
८७।१८अ शस्त्रं वामे दर्शनं दिव्यकस्य
८७।१८ब् सिद्धिः ज्ञेया हस्तमात्रौच्छ्रितस्य ।
८७।१८य् तस्मिन् एव प्रोन्नतस्थे शरीराद्
८७।१८द् धात्री वश्यं सागरान्तराभ्युपैति ॥ ॥
८७।१९अ फणितोऽभिमुखागमोऽरिसंगं
८७।१९ब् कथयति बन्धुवधात्ययं च यातुः ।
८७।१९य् अथवा समुपैति सव्यभागात्
८७।१९द् न स सिद्ध्यै कुशलो गमागमे च ॥ ॥
८७।२०अ अब्जेषु मूर्धसु च वाजिगजौरगाणां
८७।२०ब् राज्यप्रदः कुशलकृत्शुचिशाद्वलेषु ।
८७।२०य् भस्मास्थिकाष्ठतुषकेशतृणेषु दुःखं
८७।२०द् दृष्टः करोति खलु खञ्जनकोऽब्दमेकम् ॥ ॥
८७।२१अ किलिकिल्किलि तित्तिरस्वनः
८७।२१ब् शान्तः शस्तफलोऽन्यथापरः ।
८७।२१य् शशको निशि वामपार्श्वगो
८७।२१द् वाशन् शस्तफलो निगद्यते ॥ ॥
८७।२२अ किलिकिलिविरुतं कपेः प्रदीप्तं
८७।२२ब् न शुभफलप्रदमुद्दिशन्ति यातुः ।
८७।२२य् शुभमपि कथयन्ति चुग्लुशब्दं
८७।२२द् कपिसदृशं च कुलालकुक्कुटस्य ॥ ॥
८७।२३अ पूर्णाननः कृमिपतंगपिपीलकाद्यैश्
८७।२३ब् चाषः प्रदक्षिणमुपैति नरस्य यस्य ।
८७।२३य् खे स्वस्तिकं यदि करोत्यथवा यियासोः
८७।२३द् तस्यार्थलाभमचिरात् सुमहत् करोति ॥ ॥
८७।२४अ चाषस्य काकेन विरुध्यतश्चेत्
८७।२४ब् पराजयो दक्षिणभागगस्य ।
८७।२४य् वधः प्रयातस्य तदा नरस्य
८७।२४द् विपर्यये तस्य जयः प्रदिष्टः ॥ ॥
८७।२५अ केकेति पूर्णकुटवद् यदि वामपार्श्वे
८७।२५ब् चाषः करोति विरुतं जयकृत् तदा स्यात् ।
८७।२५य् क्रेक्रेति (क्रक्रेति) तस्य विरुतं न शिवाय दीप्तं
८७।२५द् सन्दर्शनं शुभदमस्य सदैव यातुः ॥ ॥
८७।२६अ अण्डीरकष्टीति रुतेन पूर्णष्-
८७।२६ब् टिट्टिट्टिशब्देन तु दीप्त उक्तः ।
८७।२६य् फेण्टः शुभो दक्षिणभागसंस्थो
८७।२६द् न वाशिते तस्य कृतो विशेषः ॥ ॥
८७।२७अ श्रीकर्णरुतं तु दक्षिणे
८७।२७ब् क्वक्वक्वैति शुभं प्रकीर्तितम् ।
८७।२७य् मध्यं खलु चिक्चिकीति यच्
८७।२७द् शेषं सर्वमुशन्ति निष्फलम् ॥ ॥
८७।२८अ दुर्बलेः अपि चिरिल्विरिल्विति
८७।२८ब् प्रोक्तमिष्टफलदं हि वामतः ।
८७।२८य् वामतश्च यदि दक्षिणं व्रजेत्
८७।२८द् कार्यसिद्धिमचिरेण यच्छति ॥ ॥
८७।२९अ चिक्चिकिवाशितमेव तु कृत्वा
८७।२९ब् दक्षिणभागमुपैति तु वामात् ।
८७।२९य् क्षेमकृदेव न साधयतेऽर्थान्
८७।२९द् व्यत्ययगो वधबन्धभयाय ॥ ॥
८७।३०अब्/ क्रक्रेति च सारिका द्रुतं त्रेत्रे वाप्यभया विरौति या ।
८७।३०य्द्/ सा वक्ति यियासतोऽचिराद् गात्रेभ्यः (गात्रेभ्य) क्षतजस्य विस्रुतिम् ॥ ॥
८७।३१अब्/ फेण्टकस्य वामतश्चिरिल्विरिल्विति स्वनः ।
८७।३१य्द्/ शोभनो निगद्यते प्रदीप्त उच्यतेऽपरः ॥ ॥
८७।३२अ श्रेष्ठं खरं स्थास्नुमुशन्ति वामम्
८७।३२ब् ओंकारशब्देन हितं च यातुः ।
८७।३२य् अतोऽपरं (अतः परं) गर्दभनादितं यत्
८७।३२द् सर्वाश्रयं तत् प्रवदन्ति दीप्तम् ॥ ॥
८७।३३अ आकाररावी समृगः कुरंग
८७।३३ब् ओकाररावी पृषतश्च पूर्णः ।
८७।३३य् येऽन्ये स्वराः ते कथिताः प्रदीप्ताः
८७।३३द् पूर्णाः शुभाः पापफलाः प्रदीप्ताः ॥ ॥
८७।३४अ भीता रुवन्ति कुकुकुक्विति ताम्रचूडाः
८७।३४ब् त्यक्त्वा रुतानि भयदानि अपराणि रात्रौ ।
८७।३४य् स्वस्थैः स्वभावविरुतानि निशावसाने
८७।३४द् ताराणि राष्ट्रपुरपार्थिववृद्धिदानि ॥ ॥
८७।३५अ नानाविधानि विरुतानि हि छिप्पिकायाः
८७।३५ब् तस्याः शुभाः कुलुकुलुः न शुभाः तु शेषाः ।
८७।३५य् यातुः बिडालविरुतं न शुभं सदैव
८७।३५द् गोः तु क्षुतं मरणमेव करोति यातुः ॥ ॥
८७।३६अ हुंहुंगुग्लुग् इति प्रियामभिलषन् क्रोशत्युलूको मुदा
८७।३६ब् पूर्णः स्याद् गुरुलु प्रदीप्तमपि च ज्ञेयं सदा किस्किसि ।
८७।३६य् विज्ञेयः कलहो यदा बलबलं तस्य (तस्याः) असकृद्वाशितं
८७।३६द् दोषायैव टटट्टटैति न शुभाः शेषाः तु दीप्त (दीप्ताः) स्वराः ॥ ॥
८७।३७अब्/ सारसकूजितमिष्टफलं तद् यद् युगपद्विरुतं मिथुनस्य ।
८७।३७य्द्/ एकरुतं न शुभं यदि वा स्यादेकरुते प्रविरौति (प्रतिरौति) चिरेण ॥ ॥
८७।३८अब्/ चिरिल्विरिल्विति स्वरैः शुभं करोति पिंगलाः (पिंगला) ।
८७।३८य्द्/ अतोऽपरे तु ये स्वराः प्रदीप्तसंज्ञिताः तु ते ॥ ॥
८७।३९अ इशिविरुतं गमनप्रतिषेधि
८७।३९ब् कुशुकुशु चेत् कलहं प्रकरोति ।
८७।३९य् अभिमतकार्यगर्तिं च यथा सा
८७।३९द् कथयति तं च विधिं कथयामि ॥ ॥
८७।४०अ दिनान्तसन्ध्यासमये निवासम्
८७।४०ब् आगम्य तस्याः प्रयतश्च वृक्षम् ।
८७।४०य् देवान् समभ्यर्च्य पितामहादीन्
८७।४०द् नवांबरः तं च तरुं सुगन्धैः ॥ ॥
८७।४१अ एको निशीथेऽनलदिक्स्थितश्च
८७।४१ब् दिव्येतरैः तां शपथैः नियोज्य ।
८७।४१य् पृच्छेद् यथाचिन्तितमर्थमेवम्
८७।४१द् अनेन मन्त्रेण यथाशृणोति ॥ ॥
(मन्त्र)
८७।४२अब्/ विद्धिभद्रे मया यत् त्वमिममर्थं प्रचोदिता ।
८७।४२य्द्/ कल्याणि सर्ववचसां वेदित्री त्वं प्रकीर्त्यसे ॥ ॥
८७।४३अब्/ आपृच्छेऽद्य गमिष्यामि वेदितश्च पुनः त्वहम् ।
८७।४३य्द्/ प्रातः आगम्य पृच्छे त्वामाग्नेयीं दिशमाश्रितः ॥ ॥
८७।४४अब्/ प्रचोदयाम्यहं यत् त्वां तन् मे व्याख्यातुमर्हसि ।
८७।४४य्द्/ स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम् ॥ ॥
८७।४५अ इत्येवमुक्ते तरुमूर्धगायाश्
८७।४५ब् चिरिल्विरिल्वीति रुतेऽर्थसिद्धिः ।
८७।४५य् अत्याकुलत्वं दिशिकारशब्दे
८७।४५द् कुचाकुचा इत्येवमुदाहृते वा ॥ ॥
८७।४६अ अवाक्प्रदाने ऽपि हित (विहित) अर्थसिद्धिः
८७।४६ब् पूर्वोक्तदिक्चक्रफलैः अतोऽन्यत् ।
८७।४६य् वाच्यं फलं चोत्तममध्यनीच-
८७।४६द् शाखास्थितायां वरमध्यनीचम् ॥ ॥
८७।४७अ दिन्मन्दलेऽभ्यन्तरबाह्यभागे
८७।४७ब् फलानि विन्द्याद् गृहगोधिकायाः ।
८७।४७य् छुच्छुन्दरी चिच्चिड् इति प्रदीप्ता
८७।४७द् पूर्णा तु सा तित्तिड् इति स्वनेन ॥ ॥
sएपरते अध्याय ८८ श्वचक्राध्यायः
८८।१ (१) नृतुरगकरिकुंभपर्याणसक्षीरवृक्षेष्टकासंचय-
च्छत्रशय्यासनौलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं -
यदा श्वावमूत्र्याग्रतो याति यातुः तदा कार्यसिद्धिः भवेदार्द्रके गोमये -
मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिः एवाथवा ।
८८।१ (२) अथ विषतरुकण्ठकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि -
मूत्र्यावहत्यथवा यायिनोऽग्रे सरोऽनिष्टमाख्याति शय्याकुलालादि भाण्डानि -
अभुक्तानि अभिन्नानि वा मूत्रयन् कन्यकादोषकृद्भुज्यमानानि चेद् द्ष्टतां -
तद्गृहिण्याः तथा स्यादुपानत्फलं गोः तु सम्मूत्रणेऽवर्णजः (वर्णजः) संकरः ।
८८।१ (३) गमनमुखमुपानहं सम्प्रगृह्यौपतिष्ठेद् यदा स्याद् तदा -
सिद्धये मांसपूर्णाननेऽर्थाप्तिः आद्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण -
चास्थ्ना गृहीतेन मृत्युः प्रशान्तौल्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादि -
वक्त्रे भुवोऽभ्यागमो (ह्यागमो) वस्त्रचीरादिभिः व्यापदः के चिदाहुः सवस्त्रे शुभम् ।
८८।१ (४) प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् -
वधः शृंखलाशीर्णवल्लीवरत्रादि वा बन्धनं चौपगृह्यौपतिष्ठेद् यदा -
स्यात् तदा बन्धनं लेढि पादौ विधुन्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय -
यातुः विरोधे विरोधः तथा स्वांगकण्डूयने स्यात् स्वपंश्च ऊर्ध्वपादः सदा दोषकृत् ॥ ॥
८८।२अ सूर्योदयेऽर्काभिमुखो विरौति
८८।२ब् ग्रामस्य मध्ये यदि सारमेयः ।
८८।२य् एको यदा वा बहवः समेताः
८८।२द् शंसन्ति देशाधिपमन्यमाशु ॥ ॥
८८।३अ सूर्योन्मुखः श्वानलदिक्स्थितश्च
८८।३ब् चौरानलत्रासकरोऽचिरेण ।
८८।३य् मध्याह्नकालेऽनलमृत्युशंसी
८८।३द् सशोणितः स्यात् कलहोऽपराह्णे ॥ ॥
८८।४अ रुवन् दिनेशाभिमुखोऽस्तकाले
८८।४ब् कृषीबलानां भयमाशु दत्ते (धत्ते) ।
८८।४य् प्रदोषकालेऽनिलदिन्मुखश्च (तु)
८८।४द् दत्ते (धत्ते) भयं मारुततस्करोत्थम् ॥ ॥
८८।५अ उदन्मुखश्चापि निशार्धकाले
८८।५ब् विप्रव्यथां गोहरणं च शास्ति ।
८८।५य् निशावसाने शिवदिन्मुखश्च
८८।५द् कन्याभिदूषानलगर्भपातान् ॥ ॥
८८।६अ उच्चैः स्वराः स्युः तृणकूटसंस्थाः
८८।६ब् प्रासादवेश्मोत्तमसंस्थिता वा ।
८८।६य् वर्षासु वृष्टिं कथयन्ति तीव्राम्
८८।६द् अन्यत्र मृत्युं दहनं रुजश्च ॥ ॥
८८।७अ प्रावृट्कालेऽवग्रहेऽंभोऽवगाह्य
८८।७ब् प्रत्यावर्तै (प्रत्यावृत्तै) रेचकैश्चाप्यभीक्षणं (अभीक्ष्णं) ।
८८।७य् आधुन्वन्तो वा पिबन्तश्च तोयं
८८।७द् वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥ ॥
८८।८अ द्वारे शिरो न्यस्य बहिः शरीरं
८८।८ब् रोरूयते श्वा गृहिणीं विलोक्य ।
८८।८य् रोगप्रदः स्यादथ मन्दिरान्तर्-
८८।८द् बहिर्मुखो वक्ति च (शंसति) बन्धकीं ताम् ॥ ॥
८८।९अब्/ कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत् तदा ।
८८।९य्द्/ गोष्ठमुत्किरति गोग्रहं वदेद् धान्यलब्धिमपि धान्यभूमिषु ॥ ॥
८८।१०अ एकेनाक्ष्णा साश्रुणा दीनदृष्टिः
८८।१०ब् मन्दाहारो दुःखकृत् तद्गृहस्य ।
८८।१०य् गोभिः साकं (सार्धं) क्रीडमाणः सुभिक्षं
८८।१०द् क्षेमारोग्यं चाभिधत्ते मुदं च ॥ ॥
८८।११अ वामं जिघ्रेज्जानु वित्तागामाय स्त्रीभिः
८८।११ब् साकं विग्रहो दक्षिणं चेत् ।
८८।११य् ऊरुं वामं चेन्द्रियार्थौपभोगः (उपभोगाः)
८८।११द् सव्यं जिघ्रेदिष्टमित्रैः विरोधः ॥ ॥
८८।१२अ पादौ जिघ्रेद् यायिनश्चेदयात्रां
८८।१२ब् प्राहार्थाप्तिं वांछितां निश्चलस्य ।
८८।१२य् स्थानस्थस्यौपानहौ चेद् विजिघ्रेत्
८८।१२द् क्षिप्रं यात्रां सारमेयः करोति ॥ ॥
८८।१३अ उभयोः अपि जिघ्रणे हि बाह्वोः
८८।१३ब् विज्ञेयो रिपुचौरसम्प्रयोगः ।
८८।१३य् अथ भस्मनि गोपयीत भक्षान्
८८।१३द् मांसास्थीनि च (वा च) शीघ्रमग्निकोपः ॥ ॥
८८।१४अ ग्रामे भषित्वा च बहिः श्मशाने
८८।१४ब् भषन्ति चेदुत्तमपुंविनाशः ।
८८।१४य् यियासतश्चाभिमुखो विरौति
८८।१४द् यदा तदा श्वा निरुणद्धि यात्राम् ॥ ॥
८८।१५अ उकारवर्णे विरुते (वर्णेन रुते) ऽर्थसिद्धिः
८८।१५ब् ओकारवर्णेन च वामपार्श्वे ।
८८।१५य् व्याक्षेपमौकाररुतेन विन्द्यान्
८८।१५द् निषेधकृत्सर्वरुतैश्च पश्चात् ॥ ॥
८८।१६अ खंखैति (सग़्खेति) चौच्चैश्च मुहुर्मुहुः ये
८८।१६ब् रुवन्ति दण्डैः इव ताड्यमानाः ।
८८।१६य् श्वानोऽभिधावन्ति च मण्डलेन
८८।१६द् ते शून्यतां मृत्युभयं च कुर्युः ॥ ॥
८८।१७अ प्रकाश्य दन्तान् यदि लेढि सृक्विणी
८८।१७ब् तदाशनं मृष्टं (मिष्टं) उशन्ति तद्विदः ।
८८।१७य् यदाननं लेढि पुनः (च अवलिहेन्) न सृक्विणी
८८।१७द् प्रवृत्तभोज्येऽपि तदान्नविघ्नकृत् ॥ ॥
८८।१८अ ग्रामस्य मध्ये यदि वा पुरस्य
८८।१८ब् भषन्ति संहत्य मुहुर्मुहुः ये ।
८८।१८य् ते क्लेशमाख्यान्ति तदीश्वरस्य
८८।१८द् श्वारण्यसंस्थो मृगवद्विचिन्त्यः ॥ ॥
८८।१९अ वृक्षोपगे क्रोशति तोयपातः
८८।१९ब् स्यादिन्द्रकीले सचिवस्य पीडा ।
८८।१९य् वायोः गृहे सस्यभयं गृहान्तः
८८।१९द् पीडा पुरस्यैव च गोपुरस्थे ॥ ॥
८८।२०अ भयं च शय्यासु तदीश्वराणां
८८।२०ब् याने भषन्तो भयदाश्च पश्चात् ।
८८।२०य् अथापसव्या जनसन्निवेशे
८८।२०द् भयं भषन्तः कथयन्त्यरीणाम् ॥ ॥
sएपरते अध्याय ८९ शिवारुताध्यायः
८९।१अ श्वभिः शेगालाः सदृशाः फलेन
८९।१ब् विशेष एषां शिशिरे मदाप्तिः ।
८९।१य् हूहू रुतान्ते परतश्च टटा
८९।१द् पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥ ॥
८९।२अ लोमाशिकायाः खलु कक्कशब्दः
८९।२ब् पूर्णः स्वभावप्रभवः स तस्याः ।
८९।२य् येऽन्ये स्वराः ते प्रकृतेः अपेताः
८९।२द् सर्वे च दीप्ता इति सम्प्रदिष्टाः ॥ ॥
८९।३अब्/ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।
८९।३य्द्/ धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥ ॥
८९।४अब्/ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
८९।४य्द्/ गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥ ॥
८९।५अब्/ सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्नि अशोभना ।
८९।५य्द्/ पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ॥ ॥
८९।६अब्/ याहीत्यग्निभयं शास्ति टाटैति मृतवेदिका ।
८९।६य्द्/ धिग्धिग् दुष्कृतमाचष्टे सज्वाला देशनाशिनी ॥ ॥
८९।७अब्/ नैव दारुणतामेके सज्वालायाः प्रचक्षते ।
८९।७य्द्/ अर्काद्यनलवत् तस्या वक्त्रं लालास्वभावतः ॥ ॥
८९।८अब्/ अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी ।
८९।८य्द्/ वारुणि अनुरुता सैव शंसते सलिले मृतम् ॥ ॥
८९।९अब्/ अक्षोभः श्रवणं चैष्टं धनप्राप्तिः प्रियागमः ।
८९।९य्द्/ क्षोभः प्रधानभेदश्च वाहनानां च सन्पदः ॥ ॥
८९।१०अब्/ फलमासप्तमादेतदग्राह्यं परतो रुतम् ।
८९।१०य्द्/ याम्यायां तद्विपर्यस्तं फलं षट्पंचमाद् ऋते ॥ ॥
८९।११अब्/ या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम् ।
८९।११य्द्/ रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥ ॥
८९।१२अब्/ मौनं गता प्रतिरुते नरद्विरदवाजिभिः (वाजिनां) ।
८९।१२य्द्/ या शिवा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति ॥ ॥
८९।१३अब्/ भेभा इति शिवा भयंकरी भोभो व्यापदमादिशेग सा ।
८९।१३य्द्/ मृतिबन्धनिवेदिनी फिफे (फिफ) हूहू चात्महिता शिवा स्वरे ॥ ॥
८९।१४अ शान्ता त्ववर्णात् परमारुवन्ती (पवनौ रुवन्ती)
८९।१४ब् टाटामुदीर्णामिति वाश्यमाना ।
८९।१४य् टेटे च पूर्वं परतश्च थेथे
८९।१४द् तस्याः स्वतुष्टिप्रभवं रुतं तत् ॥ ॥
८९।१५अ उच्चैः घोरं वर्णमुच्चार्य पूर्वंपश्चात्
८९।१५ब् क्रोशेत् क्रोष्टुकस्यानुरूपम् ।
८९।१५य् या सा क्षेमं प्राह वित्तस्य चाप्तिं
८९।१५द् संयोगं वा प्रोषितेन प्रियेण ॥ ॥
sएपरते अध्याय ९० मृगचेष्टिताध्यायः
९०।१अ सीमागता वन्यमृगा रुवन्तः
९०।१ब् स्थिता व्रजन्तोऽथ समापतन्तः ।
९०।१य् सम्प्रत्यतीतएष्यभयानि दीप्ताः
९०।१द् कुर्वन्ति शून्यं परितो भ्रमन्तः ॥ ॥
९०।२अ ते ग्राम्यसत्त्वैः अनुवाश्यमाना
९०।२ब् भयाय रोधाय भवन्ति वन्यैः ।
९०।२य् द्वाभ्यामपि प्रत्यनुवाशिताः ते
९०।२द् वन्दिग्रहायै च (ग्रहायैव) मृगा रुवन्ति (भवन्ति) ॥ ॥
९०।३अ वन्ये सत्त्वे द्वारसंस्थे पुरस्य
९०।३ब् रोधो वाच्यः सम्प्रविष्टे विनाशः ।
९०।३य् सूते मृत्युः स्याद् भयं संस्थिते च
९०।३द् गेहं याते बन्धनं सम्प्रदिष्टम् ॥ ॥
sएपरते अध्याय ९१ गवेंगिताध्यायः
९१।१अ गावो दीनाः पार्थिवस्याशिवाय
९१।१ब् पादैः भूमिं कुट्टयन्त्यश्च रोगान् ।
९१।१य् मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः
९१।१द् पत्युः भीताः तस्करान् आरुवन्त्यः ॥ ॥
९१।२अब्/ अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय ।
९१।२य्द्/ भृशं निरुद्धा यदि मक्षिकाभिः तदाशु वृष्टिं सरमात्मजैः वा ॥ ॥
९१।३अ आगच्छन्त्यो वेश्म बंभारवेण
९१।३ब् संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः ।
९१।३य् आर्द्रांग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
९१।३द् धन्या गावः स्युः महिष्योऽपि चैवम् ॥ ॥
sएपरते अध्याय ९२ अश्वेंगिताध्यायः
९२।१अ उत्सर्गान् न शुभदमासनात् परस्थं (आसनापरस्थं)
९२।१ब् वामे च ज्वलनमतोऽपरं प्रशस्तम् ।
९२।१य् सर्वांगज्वलनमवृद्धिदं हयानां
९२।१द् द्वे वर्षे दहनकणाश्च धूपनं वा ॥ ॥
९२।२अ अन्तःपुरं नाशमुपैति मेढ्रे
९२।२ब् कोशः क्षयं यात्युदरे प्रदीप्ते ।
९२।२य् पायौ च पुच्छे च पराजयः स्याद्
९२।२द् वक्त्रौत्तमांगज्वलने जयश्च ॥ ॥
९२।३अ स्कन्धासनांसज्वलनं जयाय
९२।३ब् बन्धाय पादज्वलनं प्रदिष्टम् ।
९२।३य् ललाटवक्षो ऽक्षिभुजे च (अक्षिभुजेषु) धूमः
९२।३द् पराभवाय ज्वलनं जयाय ॥ ॥
९२।४अ नासापुटप्रोथशिरोऽश्रुपात-
९२।४ब् नेत्रे च (नेत्रेषु) रात्रौ ज्वलनं जयाय ।
९२।४य् पलाशताम्रासितकर्बुराणां
९२।४द् नित्यं शुकाभस्य सितस्य चेष्टम् ॥ ॥
९२।५अ प्रद्वेषो यवसांभसां प्रपतनं स्वेदो निमित्ताद् विना
९२।५ब् कंपो वा वदनाग रक्तपतनं धूमस्य वा संभवः ।
९२।५य् अस्वप्नश्च विरोधिनां (विरोधिता) निशि दिवा निद्रालसध्यानता ।
९२।५द् सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ॥ ॥
९२।६अब्/ आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः ।
९२।६य्द्/ उपवाह्यतुरंगमस्य वा कल्पस्यैव विपन्नशोभना ॥ ॥
९२।७अ क्रौंचवद् रिपुवधाय ह्रेषितं (हेषितं)
९२।७ब् ग्रीवया त्वचलया च सौन्मुखम् ।
९२।७य् स्निग्धमुच्चमनुनादि हृष्टवद्-
९२।७द् ग्रासरुद्धवदनैश्च वाजिभिः ॥ ॥
९२।८अ पूर्णपात्रदधिविप्रदेवता
९२।८ब् गन्धपुष्पफलकांचनादि वा ।
९२।८य् द्रव्यमिष्टमथवा परं भवेद्
९२।८द् ध्रेषतां (धेषतां) यदि समीपतो जयः ॥ ॥
९२।९अ भक्ष्यपानखलिनाभिनन्दिनः
९२।९ब् पत्युः औपयिकनन्दिनोऽथवा ।
९२।९य् सव्यपार्श्वगतदृष्टयोऽथवा
९२।९द् वांछितार्थफलदाः तुरंगमाः ॥ ॥
९२।१०अ वामैश्च पादैः अभिताडयन्तो महीं
९२।१०ब् प्रवासाय भवन्ति भर्तुः ।
९२।१०य् सन्ध्यासु दीप्तामवलोकयन्तो
९२।१०द् ह्रेषन्ति (हेषन्ति) चेद् बन्धपराजयाय ॥ ॥
९२।११अ अतीव ह्रेषन्ति (हेषन्ति) ) किरन्ति वालान्
९२।११ब् निद्रारताश्च प्रवदन्ति यात्राम् ।
९२।११य् रोमत्यजो दीनखरस्वराश्च
९२।११द् पांशून् ग्रसन्तश्च भयाय द्षृटाः ॥ ॥
९२।१२अ समुद्गवद् दक्षिणपार्श्वशायिनः
९२।१२ब् पदं समुत्क्षिप्य च सक्षिणं स्थिताः ।
९२।१२य् जयाय शेषेष्वपि वाहनेष्विदं
९२।१२द् फलं यथासंभवमादिशेद् बुधः ॥ ॥
९२।१३अ आरोहति क्षितिपतौ विनयौपपन्नो
९२।१३ब् यात्रानुगोऽन्यतुरगं प्रतिह्रेषते (प्रतिहेषते) च ।
९२।१३य् वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं
९२।१३द् योऽश्वः स भर्तुः अचिरात् प्रचिनोति लक्ष्मीम् ॥ ॥
९२।१४अ मुहुर्मुहुः मूत्रशकृत् करोति
९२।१४ब् न ताड्यमानोऽपि अनुलोमयायी ।
९२।१४य् अकार्यभीतोऽश्रुविलोचनश्च
९२।१४द् शिवं (शुभं) न भर्तुः तुरगोऽभिधत्ते ॥ ॥
९२।१५अब्/ उक्तमिदं हयचेष्टितमत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि ।
९२।१५य्द्/ तेषां तु दन्तकल्पनभंगम्लानादिचेष्टाभिः ॥ ॥
sएपरते अध्याय ९३ हस्तिचेष्टिताध्यायः
९३।१अब्/ दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् ।
९३।१य्द्/ अधिकमनूपचराणां न्यूनं गिरिचारिणां किंचित् ॥ ॥
९३।२अब्/ श्रीवृक्ष (श्रीवत्स) वर्धमानच्छत्रध्वजचामरानुरूपेषु ।
९३।२य्द्/ छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥ ॥
९३।३अब्/ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः ।
९३।३य्द्/ लोष्ठे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ॥ ॥
९३।४अब्/ स्त्रीरूपेऽश्वविनाशो भृंगारेऽभ्युत्थिते सुतौत्पत्तिः ।
९३।४य्द्/ कुंभेन निधिप्राप्तिः यात्राविघ्नं च दण्डेन ॥ ॥
९३।५अब्/ कृकलासकपिभुजंगेष्वसुभिक्षव्याधयो रिपुवशित्वं (रिपुवशत्वं) ।
९३।५य्द्/ गृध्रौलूकध्वांक्षश्येनाकारेषु जनमरकः ॥ ॥
९३।६अब्/ पाशेऽथवा कबन्धे नृपमृत्युः जनविपत् स्रुते रक्ते ।
९३।६य्द्/ कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥ ॥
९३।७अब्/ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेघेदः ।
९३।७य्द्/ गलनम्लानफलानि च दन्तस्य समानि भंगेन ॥ ॥
९३।८अ मूलमध्यदशनाग्रसंस्थिता
९३।८ब् देवदैत्यमनुजाः क्रमात् ततः ।
९३।८य् स्फीतमध्यपरिपेलवं फलं
९३।८द् शीघ्रमध्यचिरकालसंभवम् ॥ ॥
९३।९अब्/ दन्तभंगफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
९३।९य्द्/ वामतः सुतपुरोहिते भयान् (भपान्) हन्ति साटविकदारनायकान् ॥ ॥
९३।१०अब्/ आदिशेदुभयभंगदर्शनात् पार्थिवस्य सकलं कुलक्षयम् ।
९३।१०य्द्/ सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभमतोऽन्यथा
वदेत् (भवेत्) ॥ ॥
९३।११अब्/ क्षीरमृष्ट (क्षीरवृक्ष) फलपुष्पपादपेष्वापगातटविघट्टितेन वा ।
९३।११य्द्/ वाममध्यरदभंगखण्डने (खण्डनं) शत्रुनाशकृदतोऽन्यथा परम् ॥ ॥
९३।१२अ स्खलितगतिः अकस्मात् त्रस्तकर्णोऽतिदीनः
९३।१२ब् श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।
९३।१२य् द्रुतमुक्लितदृष्टिः स्वप्नशीलो विलोमो
९३।१२द् भयकृदहितभक्षी नैकशो ऽसृक्षकृत्कृत् (ऽसृक् छकृत् च) ॥ ॥
९३।१३अ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टिः
९३।१३ब् यायाद् यात्रानुलोमं त्वरितपदगतिः वक्त्रमुन्नाम्य चौच्चैः ।
९३।१३य् कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा
९३।१३द् तत्काले (तत्कालं) वा मदाप्तिः जयकृदथ रदं वेष्टयन् दक्षिणं च ॥ ॥
९३।१४अ प्रवेशनं वारिणि वारणस्य
९३।१४ब् ग्रहणे नाशाय भवेन् नृपस्य ।
९३।१४य् ग्राहं गृहीत्वा उत्तरणं नृपस्य (द्विपस्य)
९३।१४द् तोयात् स्थलं वृद्धिकरं नृभर्तुः ॥ ॥
sएपरते अध्याय ९४ वायसविरुताध्यायः
९४।१अब्/ प्राच्यानां दक्षिणतः शुभदाः (शुभदः) काकाः करायिका वांवामा) ।
९४।१य्द्/ विपरीतमन्यदेशेष्ववधिः लोकप्रसिद्ध्यैव ॥ ॥
९४।२अब्/ वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता ।
९४।२य्द्/ निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥ ॥
९४।३अब्/ नीडे प्राक् शाखायां शरदि भवेत् प्रथमवृष्टिः अपरस्याम् ।
९४।३य्द्/ याम्योत्तरयोः मध्यात् (मध्या) प्रधानवृष्टिः तरोरुपरि ॥ ॥
९४।४अब्/ शिखिदिशि मण्डलवृष्टिः नैरृत्यां शारदस्य निष्पत्तिः ।
९४।४य्द्/ परिशेषयोः सुभिक्षं मूषकसम्पग (मूषकसम्पत् तु) वायव्ये ॥ ॥
९४।५अब्/ शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।
९४।५य्द्/ शून्यो भवति स देशश्चौरानावृष्टिरोगार्तः ॥ ॥
९४।६अब्/ द्वित्रिचतुःशावत्वं सुभिक्षदं पंचभिः नृपान्यत्वम् ।
९४।६य्द्/ अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय ॥ ॥
९४।७अब्/ चौरकवर्णैश्चौराश्चित्रैः मृत्युः सितैः तु वह्निभयम् ।
९४।७य्द्/ विकलैः दुर्भिक्षभयं काकानां निर्दिशेत्शिशुभिः ॥ ॥
९४।८अब्/ अनिमित्तसंहतैः ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः (प्रवाशद्भिः ।
९४।८य्द्/ रोधश्चक्राकारैः अभिघातो वर्गवर्गस्थैः ॥ ॥
९४।९अब्/ अभयाश्च तुण्डपक्षैश्चरणविघातैः जनान् अभिभवन्तः ।
९४।९य्द्/ कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् ॥ ॥
९४।१०अब्/ सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् ।
९४।१०य्द्/ अत्याकुलं भ्रमद्भिः वातौद्भ्रमो भवति काकैः ॥ ॥
९४।११अब्/ ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः ।
९४।११य्द्/ सेनांगस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥ ॥
९४।१२अब्/ भस्मास्थिकेशपत्राणि विन्यसन् पतिवधाय शय्यायाम् ।
९४।१२य्द्/ मणिकुसुमाद्यवहनने (अवहनेन) सुतस्य जन्माप्यथांगनायाश्
(जन्मांगनायाश्च) (जन्मान्यथा) च ॥ ॥
९४।१३अब्/ पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः ।
९४।१३य्द्/ भयदो जनसंवासाद् यदि भाण्डानि अपनयेत् काकः ॥ ॥
९४।१४अब्/ वाहनशस्त्रौपानत्छत्रछायांगकुट्टने मरणम् ।
९४।१४य्द्/ तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः ॥ ॥
९४।१५अब्/ यद्द्रव्यमुपनयेत् तस्य लब्धिः अपहरति चेत् प्रणाशः स्यात् ।
९४।१५य्द्/ पीतद्रव्यैः (पीतद्रव्ये) कनकं वस्त्रं कार्पासिकैः सितैः (कार्पासिके सिते) रूप्यम् ॥ ॥
९४।१६अब्/ सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च ।
९४।१६य्द्/ प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥ ॥
९४।१७अब्/ दारुणनादः तरुकोटरोपगो वायसो महाभयदः ।
९४।१७य्द्/ सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी च ॥ ॥
९४।१८अब्/ दीप्तौद्विग्नो विटपे विकुट्टयन् वह्निकृद् विधुतपक्षः ।
९४।१८य्द्/ रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥ ॥
९४।१९अब्/ एन्द्र्यादिदिग् अवलोकी सूर्याभिमुखो रुवन् गृहे गृहिनः ।
९४।१९य्द्/ राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ॥ ॥
९४।२०अब्/ शान्तामेन्द्रीमवलोकयन् रुयाद् राजपुरुषमित्राप्तिः ।
९४।२०य्द्/ भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥ ॥
९४।२१अब्/ आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च ।
९४।२१य्द्/ याम्ये माषकुलूत्था (कुलत्था) भोज्यं गान्धर्विकैः योगः ॥ ॥
९४।२२अब्/ नैरृत्यां दूताश्वौपकरणदधितैलपललभोज्याप्तिः ।
९४।२२य्द्/ वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः ॥ ॥
९४।२३अब्/ मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च ।
९४।२३य्द्/ सौम्यायां परमान्नाशनं तुरंगांबरप्राप्तिः ॥ ॥
९४।२४अब्/ ऐशान्यां सम्प्राप्तिः घृतपूर्णानां भवेदनडुहश्च ।
९४।२४य्द्/ एवं फलं गृहपतेः गृहपृष्ठसमाश्रिते भवति ॥ ॥
९४।२५अब्/ गमने कर्णसमश्चेत् क्षेमाय न कार्यसिद्धये भवति ॥ ॥
९४।२५य्द्/ अभिमुखमुपैति यातुः विरुवन् विनिवर्तयेद् यात्राम् ॥ ॥
९४।२६अब्/ वामे वाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः ।
९४।२६य्द्/ अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥ ॥
९४।२७अब्/ यदि वाम एव विरुवन् (विरुयात्) मुहुर्मुहुः यायिनोऽनुलोमगतिः ।
९४।२७य्द्/ अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम् ॥ ॥
९४।२८अब्/ वामः प्रतिलोमगतिः विरुवन् (वाशन्) गमनस्य विघ्नकृद् भवति ।
९४।२८य्द्/ तत्रस्थस्यैव फलं कथयति तद्वांछितं गमने ॥ ॥
९४।२९अब्/ दक्षिणविरुतं कृत्वा वामे विरुयाद् यथीप्सितावाप्तिः ।
९४।२९य्द्/ प्रतिवाश्य पुरो यायाद् द्रुतमत्यर्थागमो भवति (अग्रे ऽर्थागमोऽतिमहान्) ॥ ॥
९४।३०अब्/ प्रतिवाश्य पृष्ट्ःअतो दक्षिणेन यायाद् द्रुतं क्षतजकारी (क्षतजकर्ता) ।
९४।३०य्द्/ एकचरणोऽर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ॥ ॥
९४।३१अब्/ दृष्ट्वार्कमेकपादः तुण्डेन लिखेद् यदा स्वपिच्छानि ।
९४।३१य्द्/ पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥ ॥
९४।३२अब्/ सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः ।
९४।३२य्द्/ आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद् यातुः ॥ ॥
९४।३३अब्/ सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु ।
९४।३३य्द्/ सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः (चार्थकरः) ॥ ॥
९४।३४अब्/ निष्पन्नसस्यशाद्व (शाड्व, शाद्व) लभवनप्रासादहर्म्यहरितेषु ।
९४।३४य्द्/ धन्य (धान्य) उच्छ्रयमंगल्येषु चैव विरुवन् धनागमदः ॥ ॥
९४।३५अब्/ गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजंगस्य ।
९४।३५य्द्/ सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ॥ ॥
९४।३६अब्/ कार्यस्य व्याघातः तृणकूटे वामगेऽंबुसंस्थे (अस्थिसंस्थे) वा ।
९४।३६य्द्/ ऊर्ध्वाग्निप्लुष्टेऽशनिहते च काके वधो भवति ॥ ॥
९४।३७अब्/ कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च ।
९४।३७य्द्/ कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः ॥ ॥
९४।३८अब्/ छिन्नाग्रे अंगच्छेदः कलहः शुष्कद्रुमस्थिते ध्वांक्षे ।
९४।३८य्द्/ पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः ॥ ॥
९४।३९अब्/ मृतपुरुषांगावयवस्थितोऽभिविरुवन् (ऽभिवाशन्) करोति मृत्युभयम् ।
९४।३९य्द्/ भञ्जन्न् अस्थि च चंच्वा यदि विरुवति (वाशति) अस्थिभंगाय ॥ ॥
९४।४०अब्/ रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति ।
९४।४०य्द्/ भुजगगददंष्ट्रितस्करशस्त्राग्निभयानि अनुक्रमशः ॥ ॥
९४।४१अब्/ सितकुसुमाशुचिमांसाननेऽर्थसिद्धिः यथेप्सिता यातुः ।
९४।४१य्द्/ पक्षौ धुन्वन्न् (धुन्वन् पक्षाव्) ऊर्ध्वानने च विघ्नं मुहुः क्वणति ॥ ॥
९४।४२अब्/ यदि शृंखलां वरत्रां वल्लीं वा आदाय वाशते बन्धः ।
९४।४२य्द्/ पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च ॥ ॥
९४।४३अब्/ अन्योन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति ।
९४।४३य्द्/ विज्ञेयः स्त्रीलाभो दंपत्योः विरुवतोः (वाशतोः) युगपत् ॥ ॥
९४।४४अब्/ प्रमदाशिरौपगतपूर्णकुंभसंस्थे अंगनार्थसम्प्राप्तिः ।
९४।४४य्द्/ घटकुट्टने सुतविपद्घटोपहदनेऽन्नसम्प्राप्तिः ॥ ॥
९४।४५अब्/ स्कन्धावारादीनां निवेशस्मये रुवंश्चलत्पक्षः ।
९४।४५य्द्/ सूचयतेऽन्यत्स्थानं (ऽन्यस्थानं) निश्चलपक्षः तु भयमात्रम् ॥ ॥
९४।४६अब्/ प्रविशद्भिः सैन्यादीन् सगृध्रकंकैः विनामिषं ध्वांक्षैः ।
९४।४६य्द्/ अविरुद्धैः तैः प्रीतिः द्विषतां युद्धं विरुद्धैश्च ॥ ॥
९४।४७अब्/ बन्धः सूकरसंस्थे पंकाक्ते सूकरे द्विकेऽर्थाप्तिः ।
९४।४७य्द्/ क्षेमं खरोष्ट्रसंस्थे केचित् प्राहुः वधं तु खरे ॥ ॥
९४।४८अब्/ वाहनलाभोऽश्वगते विरुवत्यनुयायिनि क्षतजपातः ।
९४।४८य्द्/ अन्येऽपि अनुव्रजन्तो यातारं काकवद् विहगाः ॥ ॥
९४।४९अब्/ द्वात्रिंशत् प्रविभक्ते दिग्चक्रे यद् यथा समुद्दिष्टम् ।
९४।४९य्द्/ तत्तत् तथा विधेयं गुणदोषफलं यियासूनाम् ॥ ॥
९४।५०अब्/ का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम् ।
९४।५०य्द्/ कव इति चात्मप्रीत्यै कैति रुते स्निग्धमित्राप्तिश्ः ॥ ॥
९४।५१अब्/ करा इति कलहं कुरुकुरु च हर्षमथ कटकटैति दधिभक्तम् ।
९४।५१य्द्/ केके विरुतं कुकु वा धनलाभं यायिनः प्राह ॥ ॥
९४।५२अब्/ खरेखरे पथिकागममाह कखाखैति यायिनो मृत्युम् ।
९४।५२य्द्/ गमनप्रतिषेधिकमा कखला (आखलखल, आ खलखल) सद्योऽभिवर्षाय ॥ ॥
९४।५३अब्/ काका इति विघातः (विघातं) काकटीति चाहारदूषणं प्राह ।
९४।५३य्द्/ प्रीत्यास्पदं कवकवैति बन्धमेवं कगाकुः इति ॥ ॥
९४।५४अब्/ करगौ (करकौ) विरुते वर्षं गुडवत् त्रासाय वडिति वस्त्राप्तिः ।
९४।५४य्द्/ कलयैति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ॥ ॥
९४।५५अ कडिति (फडिति) फलाप्तिः फलदा (फलवा)
९४।५५ब् हिदर्शनं टड्डिति (टडिति) प्रहाराः स्युः ।
९४।५५य् स्त्रीलाभः स्त्रीति रुते
९४।५५ब् गडिति गवां पुडिति पुष्पाणाम् ॥ ॥
९४।५६अब्/ युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः ।
९४।५६य्द्/ टाकुलि चिण्टिचि केकेकैति पुरं चेति दोषाय ॥ ॥
९४।५७अ काकद्वयस्यापि समानमेतत्
९४।५७ब् फलं यदुक्तं रुतचेष्टिताद्यैः ।
९४।५७य् पतत्रिणोऽन्येऽपि यथैव काको
९४।५७द् वन्याः श्ववगौपरिदंष्ट्रिणो ये ॥ ॥
९४।५८अ स्थलसलिलचराणां व्यत्ययो मेघकाले
९४।५८ब् प्रचुरसलिलवृष्ट्यै शेषकाले भयाय ।
९४।५८य् मधु भवननिलीनं तत्करोत्याशु शून्यं
९४।५८द् मरणमपि च नीला (निलीना) मक्षिका मूर्ध्नि लीना ॥ ॥
९४।५९अ विनिक्षिपन्त्यः सलिलेऽण्डकानि
९४।५९ब् पिपीलिका वृष्टिनिरोधमाहुः ।
९४।५९य् तरुं स्थलं (तरुस्थलं, तरुं स्थलं) वापि नयन्ति निम्नाद्
९४।५९द् यदा तदा ताः कथयन्ति वृष्टिम् ॥ ॥
९४।६०अ कार्यं तु मूलशकुनेऽन्तरजे तदह्नि
९४।६०ब् विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः ।
९४।६०य् प्रारंभयानसमयेषु तथा प्रवेशे
९४।६०द् ग्राह्यं क्षुतं न शुभदं क्वचिदपि उशन्ति ॥ ॥
९४।६१अ शुभं दशापाकमविघ्नसिद्धिं
९४।६१ब् मूलाभिरक्षामथवा सहायान् ।
९४।६१य् दुष्टस्य (इष्टस्य) संसिद्धिमनामयत्वं
९४।६१द् वदन्ति ते मानयितुः नृपस्य ॥ ॥
९४।६२अ क्रोशादूर्ध्वं शकुन (शकुनि) विरुतं निष्फलं प्राहुः एके
९४।६२ब् तत्रानिष्टे प्रथमशकुने मानयेत् पंच षट् च ।
९४।६२य् प्राणायामान् नृपतिः अशुभे षोडशैव द्वितीये
९४।६२द् प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टः तृतीयः ॥ ॥
sएपरते अध्याय ९५। शाकुनौत्तराध्यायः
९५।१अब्/ दिग्देशचेष्टास्वरवासरऋक्षमुहूर्तहोराकरणौदयांशान् ।
९५।१य्द्/ चरस्थिः (चिरस्थिर्, चरस्थिः) उन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद् रुतज्णः ॥ ॥
९५।२अ द्विविधं कथयन्ति संस्थितानाम्
९५।२ब् आगामिस्थिरसंज्ञितं च कार्यम् ।
९५।२य् नृपदूतचरान्यदेशजातान्य्-
९५।२द् अभिघातः स्वजनादि चागमाख्यम् ॥ ॥
९५।३अ उद्बद्धसंग्रहणभोजनचौरवह्नि-
९५।३ब् वर्षौत्सवात्मजवधाः कलहो भयं च ।
९५।३य् वर्गः स्थिरोऽयमुदयेन्दुयुते स्थिरऋक्षे
९५।३द् विद्यात् स्थिरं चरगृहे च चरं यदुक्तम् ॥ ॥
९५।४अब्/ स्थिरप्रदेशौपलमन्दिरेषु सुरालये भूजलसन्निधौ च ।
९५।४य्द्/ स्थिराणि कार्याणि चराणि यानि चलप्रदेशादिषु चागमाय ॥ ॥
९५।५अ आप्यौदयऋक्षक्षणदिग्जलेषु
९५।५ब् पक्षावसानेषु च ये प्रदीप्ताः ।
९५।५य् सर्वेऽपि ते वृष्टिकरा रुवन्तः
९५।५द् शान्तोऽपि वृष्टिं कुरुतेऽंबुचारी ॥ ॥
९५।६अ आग्नेयदिग्लग्नमुहूर्तदेशेष्व्
९५।६ब् अर्कप्रदीप्तोऽग्निभयाय रौति ।
९५।६य् विष्ट्यां यमऋक्षोदयकण्टकेषु
९५।६द् निष्पत्रवल्लीषु च दोषकृत् (मोषकृत्) स्यात् ॥ ॥
९५।७अ ग्राम्यः प्रदीप्तः स्वरचेष्टिताभ्याम्
९५।७ब् उग्रो रुवन् कण्टकिनि स्थितश्च ।
९५।७य् भौमऋक्षलग्ने यदि नैरृतीं च
९५।७द् स्थितोऽभितश्चेत् कलहाय दृष्टः ॥ ॥
९५।८अ लग्नेऽथवा इन्दोः भृगुभांशसंस्थे
९५।८ब् विदिक्स्थितोऽधोवदनश्च रौति ।
९५।८य् दीप्तः स चेत् संग्रहणं करोति
९५।८द् योन्या तया या विदिशि प्रदिष्टा ॥ ॥
९५।९अ पुंराशिलग्ने विषमे तिथौ च
९५।९ब् दिक्स्थः प्रदीप्तः शुकुनो रनाख्यः
९६।९य् वाच्यं तदा संग्रहणं नराणां
९५।९द् मिश्रे भवेत् पण्डकसम्प्रयोगः ॥ ॥
९५।१०अ एवं रवेः क्षेत्रनवांशलग्ने
९५।१०ब् लग्ने स्थिते वा स्वयमेव सूर्ये ।
९५।१०य् दीप्तोऽभिधत्ते शकुनो विरौति (विवासं)
९५।१०द् पुंसः प्रधानस्य हि कारणं तत् ॥ ॥
९५।११अब्/ प्रारंभमाणेषु (प्रारभ्यमाणेषु) च सर्वकार्येष्वर्कान्विताद् भाद् गणयेद् विलग्नम् ।
९५।११य्द्/ सम्प्तद् विपगैति यथा क्रमेण सम्पद् विपच्चैति (वापि) तथैव वाच्यं (वाच्या) ॥ ॥
९५।१२अ काणेनाक्ष्णा दक्षिणेनैति सूर्ये
९५।१२ब् चन्द्रे ल्गनाद् द्वादशे चैतरेन ।
९५।१२य् लग्नस्थेऽर्के पापदृष्टेऽन्ध एव
९५।१२द् कुब्जः स्वऋक्षे श्रोत्रहीनो जडो वा ॥ ॥
९५।१३अ क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद्
९५।१३ब् यस्मिन् राशौ तद्गृहाग्गे व्रणोऽस्य (स्यात्)
९५।१३य् एवं प्रोक्तं यन्मया जन्मकाले चिह्नं रूपं तत् तदस्मिन् विचिन्त्यम् ॥ ॥
(यवनेश्वर)
९५।य्१अ अतः परं लोकनिरूपितानि
९५।य्१ब् द्रव्येषु नानाक्षरसंग्रहाणि ।
९५।य्१य् इष्टप्रणीतानि विभाजितानि
९५।य्१द् नामानि केन्द्रक्रमशः प्रवक्ष्ये ॥ ॥
९५।य्२अ लग्नांबुसंस्थास्तनभःस्थितेषु
९५।य्२ब् क्षेत्रेषु ये लग्नगता गृहांशाः ।
९५।य्२य् तेभ्योऽक्षराणि आत्मगृहाश्रयाणि
९५।य्२द् विन्द्याद् ग्रहाणां स्वगणक्रमेण ॥ ॥
९५।य्३अ कवर्गपूर्वान् कुजशुक्रचान्द्रि-
९५।य्३ब् जीवार्कजानां प्रवदन्ति वर्गान् ।
९५।य्३य् यकारपूर्वाः शशिनो निरुक्ता
९५।य्३द् वर्णाः त्वकारप्रभवा रवेः स्युः ॥ ॥
९५।य्४अ द्रेष्काणवृद्ध्या प्रवदन्ति नाम
९५।य्४ब् त्रिपंचसप्ताक्षरमोजराशौ ।
९५।य्४य् युग्मे तु विन्द्याद् द्विचतुष्कषट्कं
९५।य्४द् नामाक्षराणि ग्रहदृष्टिवृद्ध्या ॥ ॥
९५।य्५अ वर्गोत्तमे द्व्यक्षरकं चरांशे
९५।य्५ब् स्थिरऋक्षभागे चतुरक्षरं तत् ।
९५।य्५य् ओजेषु चैभ्यो विषमाक्षराणि
९५।य्५द् स्युः द्विस्वभावेषु तु राशिवग ॥ ॥
९५।य्६अ द्विमूर्तिसंज्ञे तु वदेद् द्विनाम
९५।य्६ब् सौम्यईक्षिते द्विप्रकृतौ च राशौ ।
९५।य्६य् यावान् गणः स्वोदयगोऽंशकानां
९५।य्६द् तावान् ग्रहः संग्रहकेऽक्षराणाम् ॥ ॥
९५।य्७अ संयोगमादौ बहुलेषु विन्द्यात्
९५।य्७ब् कूटेषु संयोगपरं वदन्ति ।
९५।य्७य् स्वौच्चांशके द्विष्कृतम् ऋक्षयोगाद्
९५।य्७द् गुर्वक्षरं तद्भवनांशके स्यात् ॥ ॥
९५।य्८अ मात्रादियुक् स्याद् ग्रहयुक्त्रिकोणे
९५।य्८ब् द्रेष्काणपर्यायवदक्षरेषु ।
९५।य्८य् नभोबलेषूर्ध्वमधोऽंबुजेषु
९५।य्८द् ज्ञेयो विसर्गः तु बलान्वितेषु ॥ ॥
९५।य्९अ शीर्षोदयेषु ऊर्ध्वमुशन्ति मात्राम्
९५।य्९ब् अधश्च पृष्ठोदयशब्दितेषु ।
९५।य्९य् तीर्यक् च विन्द्यादुभयोदये तां
९५।य्९द् दीर्घेषु दीर्घामितरेषु चान्याम् ॥ ॥
९५।य्१०अ प्राग्लग्नतोयास्तनभःस्थितेषु
९५।य्१०ब् भेष्वंशकेभ्योऽक्षरसंग्रहः स्यात् ।
९५।य्१०य् क्रूरोऽक्षरं हन्ति चतुष्टयस्थो
९५।य्१०द् दृष्ट्यापि मात्रां च त्रिकोणगो वा ॥ ॥
९५।य्११अ शुभग्रहः तु ऊर्जितवीर्यभागी
९५।य्११ब् स्थानांशतुल्याक्षरदः स चोक्तः ।
९५।य्११य् पश्यन् स्थितः केन्द्रत्रिकोणयोः वा
९५।य्११द् स्वौच्चेऽपि वर्णद्वयमात्मभागे ॥ ॥
९५।य्१२अ क्षेत्रेश्वरे क्षीणबलेऽंशके च
९५।य्१२ब् मात्राक्षरं नाशमुपैति तज्जम् ।
९५।य्१२य् असंभवेऽपि उद्भवमेति तस्मिन्
९५।य्१२द् वर्गाद्यमुच्चांशयुजीशदृष्टे ॥ ॥
९५।य्१३अ केन्द्रे यथास्थानबलप्रकर्षं
९५।य्१३ब् क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा ।
९५।य्१३य् कार्योऽक्षराणामनुपूर्वयोगो
९५।य्१३द् मात्रादिसंयोगविकल्पना च ॥ ॥
९५।य्१४अ तत्रादिराश्यादिचतुर्विलग्नम्
९५।य्१४ब् आद्यंशकादिक्रमपर्यायेण ।
९५।य्१४य् ग्रहांशकेभ्यः स्वगणाक्षराणाम्
९५।य्१४द् अन्वर्थने प्राप्तिः इयं विधार्या ॥ ॥
९५।य्१५अ मेष ककारो हिबुके यकारः
९५।य्१५ब् तुले चकारो मकरे पकारः ।
९५।य्१५य् मेषे छकारो हिबुकेऽपि अकारः
९५।य्१५द् तुले खकारो मकरे फकारः ॥ ॥
९५।य्१६अ मेषे टकारो हिबुके ठकारः
९५।य्१६ब् तुले तकारो मकरे थकारः ।
९५।य्१६य् मेषे तु रेफा हिबुके जकारः
९५।य्१६द् तुले बकारो मकरे गकारः ॥ ॥
९५।य्१७अ आकारमाद्येऽंबुगते घकारम्
९५।य्१७ब् अस्ते भकारं मकरे झकारम् ।
९५।य्१७य् लग्ने डकारं हिबुके दकारम्
९५।य्१७द् अस्ते धकारं मकरे ढकारम् ॥ ॥
९५।य्१८अ लग्ने ञकारो हिबुके मकारः
९५।य्१८ब् तुले ग़कारो मकरे लकारः ।
९५।य्१८य् लग्ने ककारो हिबुके पकारः
९५।य्१८द् तुले चकारो मकरे इकारः ॥ ॥
९५।य्१९अ लग्ने नकारो हिबुके तकारः
९५।य्१९ब् तुले णकारो मकरे टकारः ।
९५।य्१९य् इत्येतदुक्तं चरसंज्ञकस्य वक्ष्ये
९५।य्१९द् स्थिराख्यस्य चतुष्टयस्य ॥ ॥
९५।य्२०अ वृषे फकारो हिबुके खकारः
९५।य्२०ब् कीटे वकारो नृघटे छकारः ।
९५।य्२०य् आद्यांशकेभ्यो मतिमान् विदध्याद्
९५।य्२०द् अनुक्रमेण स्थिरसंज्ञकेषु ॥ ॥
९५।य्२१अ लग्ने बकारो हिबुके जकार
९५।य्२१ब् ईकारमस्तेऽंबरगे गकारः ।
९५।य्२१य् वृषे थकारो हिबुके टकारः
९५।य्२१द् कीटे डकारो नृघटे दकारः ॥ ॥
९५।य्२२अ वृषे घकारो हिबुके शकारः
९५।य्२२ब् कीटे झकारो नृघटे भकारः ।
९५।य्२२य् लग्ने जकारो हिबुके उकारः
९५।य्२२द् कीटे ग़कारो नृघटे मकारः ॥ ॥
९५।य्२३अ लग्ने ढकारोऽथ जले णकारश्
९५।य्२३ब् चास्ते धकारोऽंबरगे नकारः ।
९५।य्२३य् वृषे षकारो हिबुके चकारः
९५।य्२३द् कीटे पकारो नृघटे ककारः ॥ ॥
९५।य्२४अ ऊकारमाहुः वृषभे जले खम्
९५।य्२४ब् अस्ते फकारो नृघटे छकारः ।
९५।य्२४य् अन्त्ये वृषे टम् तमुशन्ति सिंहे
९५।य्२४द् थं सप्तगे ठं प्रवदन्ति कुंभे ॥ ॥
९५।य्२५अ द्विमूर्तिसंज्ञे मिथुने जकाराः
९५।य्२५ब् षष्ठे बकारः प्रथमांशके स्यात् ।
९५।य्२५य् धनुर्धरेऽस्तोपगते गकारो
९५।य्२५द् मीनद्वये चांबरगे सकारः ॥ ॥
९५।य्२६अ लग्ने घकारो हिबुके भकारश्
९५।य्२६ब् चास्ते झकारोऽंबरमध्यगे ई ।
९५।य्२६य् लग्ने दकारो हिबुके धकारम्
९५।य्२६द् अस्ते डकारं विदुः अंबरे ढम् ॥ ॥
९५।य्२७अ लग्ने मकारो हिबुके ग़कारश्
९५।य्२७ब् अस्ते हकारोऽंबरगे ञकारः ।
९५।य्२७य् लग्ने पकारो जलगे चकार
९५।य्२७द् ऐकारमस्तेऽंबरगे ककारः ॥ ॥
९५।य्२८अ प्राग्लग्ने नं जलगे णमाहुः
९५।य्२८ब् अस्तं गते टं नभसि स्थिते तम् ।
९५।य्२८य् प्राग्लग्नगे खं जलगे यमाहुः
९५।य्२८द् अस्तं गते छं नभसि स्थिते फम् ॥ ॥
९५।य्२९अ लग्ने जमोकारमथांबुसंस्थे
९५।य्२९ब् गमस्तसंस्थे विदुः अंबरे बम् ।
९५।य्२९य् ठं लग्नगेऽन्त्ये हिबुकाश्रिते डं
९५।य्२९द् थमस्तगे दं नभसि स्थिते वै ॥ ॥
९५।य्३०अ एवं विकल्पोऽक्षरसंग्रहोऽयं
९५।य्३०ब् नाम्नां निरुद्दिष्टविधान उक्तः ।
९५।य्३०य् सर्वेषु लग्नेषु च केचिदेवम्
९५।य्३०द् इच्छन्ति पूर्वोक्तविधानवत् तु ॥ ॥
९५।य्३१अ केन्द्राणि वा केन्द्रगतांशकैः स्वैः
९५।य्३१ब् पृथक् पृथक् संगुणितानि कृत्वा ।
९५।य्३१य् त्रिकृद्विभक्तं विरुदक्षरं तत्
९५।य्३१द् क्षेत्रेश्वरस्यांशपरिक्रमस्वम् ॥ ॥
९५।य्३२अ संचिन्तितप्रार्थितनिर्गतेषु
९५।य्३२ब् नष्टक्षतस्त्रीः अतिभोजनेषु
९५।य्३२य् स्वप्नर्क्षचिन्तापुरुषादिवर्गेष्व्
९५।य्३२द् एतेषु नामानि उपलक्षयेत
९५।१४अ द्व्यक्षरं चरगृहांशकोदये
९५।१४ब् नाम चास्य चतुरक्षरं स्थिरे ।
९५।१४य् नामयुग्ममपि च द्विमूर्तिषु
९५।१४द् त्र्यक्षरं भवति चास्य पंचभिः ॥ ॥
९५।१५अ काद्याः तु वर्गाः कुजशुक्रसौम्य-
९५।१५ब् जीवार्कजानां क्रमशः प्रदिष्टाः ।
९५।१५य् वर्णाष्टकं यादि च शीतरश्मे
९५।१५द् रवेः अकारात् क्रमशः स्वराः स्युः ॥ ॥
९५।१६अ नामानि चाग्न्यंबुकुमारविष्णु-
९५।१६ब् शक्रेन्द्रपत्नीचतुराननानाम् ।
९५।१६य् तुल्यानि सूर्यात् क्रमशो विचिन्त्य
९५।१६द् द्वित्र्यादिवर्णैः घटयेत् स्वबुद्ध्या ॥ ॥
९५।१७अ वयांसि तेषाम् स्तनपानबाल्य-
९५।१७ब् व्रतस्थिता यौवनमध्यवृद्धाः ।
९५।१७य् अतीववृद्धा इति चन्द्रभौम-
९५।१७द् ज्ञशुक्रजीवार्कशनैश्चराणाम् ॥ ॥
sएपरते अध्याय ९६ पाकाध्यायः
९६।१अब्/ पक्षाद् भानोः सोमस्य मासिको अंगारकस्य वक्त्रोक्तः ।
९६।१य्द्/ आदर्शनाग पाको बुधस्य जीवस्य वर्षेण ॥ ॥
९६।२अब्/ षड्भिः सितस्य मासैः अब्देन शनेः सुरद्विषोऽब्दार्धात् ।
९६।२य्द्/ वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः ॥ ॥
९६।३अब्/ त्रिभिः एव धूमकेतोः मासैः श्वेतस्य सप्तरात्रान्ते ।
९६।३य्द्/ सप्ताहात् परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम् ॥ ॥
९६।४अब्/ शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः ।
९६।४य्द्/ स्थिरचरयोः अन्यत्वं प्रसूतिविकृतिश्च षण्मासात् ॥ ॥
९६।५अब्/ अक्रियमाणककरणं भूकंपोऽनुत्सवो दुरिष्टं च ।
९६।५य्द्/ शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धात् ॥ ॥
९६।६अब्/ स्तंभकुसूलार्चानां जल्पितरुदितप्रकंपितस्वेदाः ।
९६।६य्द्/ मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ॥ ॥
९६।७अब्/ कीटाखुमक्षिकोरगबाहुल्यं मृगविहंगविरुतं च ।
९६।७य्द्/ लोष्टस्य चाप्सु तरणं त्रिभिः एव विपच्यते मासैः ॥ ॥
९६।८अब्/ प्रसवः शुनामरण्ये वन्यानां ग्रामसम्प्रवेशश्च ।
९६।८य्द्/ मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात् समधिकाद् वा ॥ ॥
९६।९अब्/ गोमायुगृध्रसंघा दशाहिकाः सद्य एव तूर्यरवः ।
९६।९य्द्/ आक्रुष्टं पक्षफलं वल्मीको विदरणं च भुवः ॥ ॥
९६।१०अब्/ अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि ।
९६।१०य्द्/ सद्यः परिपच्यन्ते मासेऽध्यर्धे च जनवादः ॥ ॥
९६।११अब्/ छत्रचितियूपहुतवहबीजानां सप्तभिः भवति पक्षैः ।
९६।११य्द्/ छत्रस्य तोरणस्य च केचिन् मासात् फलं प्राहुः ॥ ॥
९६।१२अब्/ अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् ।
९६।१२य्द्/ मार्जारनकुलयोः मूषकेण संगश्च मासेन ॥ ॥
९६।१३अब्/ गन्धर्वपुरं मासद् रसवैकृत्यं हिरण्यविकृतिश्च ।
९६।१३य्द्/ ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः ॥ ॥
९६।१४अब्/ नवकैकाष्टदशकैकषट्त्रिकत्रिकसंख्यमासपाकानि ।
९६।१४य्द्/ नक्षत्राणि अश्विनिपूर्वकाणि सद्यः फलाश्लेषा ॥ ॥
९६।१५अब्/ पित्र्यान् मासः षट् सट्त्रयोऽर्धमष्टौ च त्रिषडेकैकाः ।
९६।१५य्द्/ मासचतुष्केऽषाढे सद्यः पाकाभिजित्तारा ॥ ॥
९६।१६अब्/ सप्ताष्टावध्यर्धं त्रयः त्रयः पंच चैव मासाः स्युः ।
९६।१६य्द्/ श्रवणादीनां पाको नक्षत्राणां यथासंख्यम् ॥ ॥
९६।१७अ निगदितसमये न दृश्यते चेद्
९६।१७ब् अधिकतरं द्विगुणे प्रपच्यते तत् ।
९६।१७य् यदि न कनकरत्नगोप्रदानैः
९६।१७द् उपशमितं विधिवद् द्विजैश्च शान्त्या ॥ ॥
sएपरते अध्याय ९७ नक्षत्रकर्मगुणाध्यायः
९७।१अब्/ शिखिगुणरसेन्द्रियानलशशिविषयगुणऋतुपंचवसुपक्षाः ।
९७।१य्द्/ विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ॥ ॥
९७।२अब्/ भूतशतपक्षवसवो द्वात्रिंशगेति तारकामानम् ।
९७।२य्द्/ क्रमशोऽश्विन्यादीनां कालः ताराप्रमाणेन ॥ ॥
९७।३अब्/ नक्षत्रजमुद्वाहे फलमब्दैः तारकामितैः सदसत् ।
९७।३य्द्/ दिवसैः ज्वरस्य नाशो व्याधेः अन्यस्य वा वाच्यः ॥ ॥
(नक्षत्रदेवता)
९७।४अब्/ अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः ।
९७।४य्द्/ योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च ॥ ॥
९७।५अब्/ शक्रो निरृतिः तोयं विश्वे ब्रह्मा हरिः वसुः वरुणः ।
९७।५य्द्/ अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥ ॥
९७।६अब्/ त्रीणि उत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
९७।६य्द्/ अभिषेकशान्तितरुनगरधर्मबीजध्रुवारंभान् ॥ ॥
९७।७अब्/ मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
९७।७य्द्/ अभिघातमन्त्रवेतालबन्धवधभेदसंबन्धाः ॥ ॥
९७।८अब्/ उग्राणि पूर्वभरणीपित्र्याणि उत्सादनाशशाठ्येषु ।
९७।८य्द्/ योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥ ॥
९७।९अब्/ लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु ।
९७।९य्द्/ शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥ ॥
९७।१०अब्/ मृदुवर्गो (मृदुवर्गः त्व्) ऽनूराधाचित्रापौष्णेन्दवानि मित्रार्थे ।
९७।१०य्द्/ सुरतविधिवस्त्रभूषणमंगलगीतेषु च हितानि ॥ ॥
९७।११अब्/ हौतभुजं सविशाखं मृदुतीक्ष्णम् तद्विमिश्रफलकारि ।
९७।११य्द्/ श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ ॥
९७।१२अ हस्तत्रयं मृगशिरः श्रवणत्रयं (श्रवनात्त्रयं) च
९७।१२ब् पूषाश्विशक्रगुरुभानि पुनर्वसुश्च ।
९७।१२य् क्षौरे तु कर्मणि हितानि उदये क्षणे वा
९७।१२द् युक्तानि चौडुपतिना शुभतारया च ॥ ॥
९७।१३अ न स्नातमात्रगमनौन्मुख (उत्सुक) भूषितानाम्
९७।१३ब् अभ्यक्तभुक्तरणकालनिरासनानाम् ।
९७।१३य् सन्ध्य्निशाशनिकुजार्कतिथौ (निशोः कुजयमार्कदिने) च रिक्ते
९७।१३द् क्षौरं हितं न नवमेऽह्नि न चापि विष्ट्याम् ॥ ॥
९७।१४अब्/ नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च ।
९७।१४य्द्/ बद्धस्य मोक्षे क्रतुदीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु ॥ ॥
% ओने वेर्से इन्सेर्तेद्
९८।१५अब्/ हस्तो मूलं श्रवणा पुनर्वसुः मृगशिरः तथा पुष्यः ।
९८।१५य्द्/ पुंसञ्ज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि ॥ ॥
९७।१५अब्/ सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चौडुगणाधिपऋक्षे ।
९७।१५य्द्/ संस्कारदीक्षाव्रतमेखलादि कुर्याद् गुरौ शुक्रबुधेन्दुयुक्ते ॥ ॥
% ओने वेर्से इन्सेर्तेद्
९८।१७अब्/ लाभे तृतीये च शुभैः समेते पापैः विहीने शुभराशिलग्ने ।
९८।१७य्द्/ वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु ॥ ॥
९७।१६अ शुद्धैः द्वादशकेन्द्रनैधनगृहैः पापैः त्रिषष्ठायगैः ।
९७।१६ब् लग्ने केन्द्रगतेऽथवा सुरगुरौ दैत्येन्द्रपूज्येऽपि वा ॥ ॥
९७।१६य् सर्वारंभफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे
९७।१६द् सग्राम्यस्थिरभोदये च भवनं कार्यं प्रवेशोऽपि वा ॥ ॥
sएपरते अध्याय ९८ तिथिकर्मगुणाध्यायः
९८।१अब्/ कमलजविधातृहरियमशशांकषड्वक्त्रशक्रवसुभुजगाः ।
९८।१य्द्/ धर्मेशसवितृमन्मथकलयो विश्वे च तिथिपतयः ॥ ॥
९८।२अब्/ पितरोऽमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः ।
९८।२य्द्/ नन्दा भद्रा विजया रिक्ता पूर्णा च ताः त्रिविधाः ॥ ॥
९८।३अब्/ यत् कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत् कार्यम् ।
९८।३य्द्/ करणमुहूर्तेष्वपि तत् सिद्धिकरं देवतासदृशम् ॥ ॥
sएपरते अध्याय ९९ करणगुणाध्यायः
९९।१अब्/ वववालवकौलव (बवबालवकौलब) तैतिलाख्यगरवणिजविष्टिसंज्ञानाम् ।
९९।१य्द्/ पतयः स्युः इन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ॥ ॥
९९।२अब्/ कृष्णचतुर्दश्यर्धाद् धुवाणि शकुनिश्चतुष्पदं नागम् ।
९९।२य्द्/ किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥ ॥
९९।३अ कुर्याद् ववे (बवे) शुभचरस्थिरपौष्टिकानि
९९।३ब् धर्मक्रियाद्विजहितानि च वालव (बालव) आख्ये ।
९९।३य् सम्प्रीतिमित्रवरणानि च कौलवे (कौलबे) स्युः
९९।३द् सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥ ॥
९९।४अ कृषिबीजगृहाश्रयजानि गरे
९९।४ब् वणिजि धुवकार्यवणिग्युतयः ।
९९।४य् न हि विष्टिकृतं विदधाति शुभं
९९।४द् परघातविषादिषु सिद्धिकरम् ॥ ॥
९९।५अ कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्राः तथा ।
९९।५ब् गोकार्याणि चतुष्पदे द्विजपितृन् उद्दिश्य राज्यानि च
९९।५य् नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माण्यतः
९९।५द् किंस्तुघ्ने शुभमिष्टि (इष्ट) पुष्टिकरणं मंगल्यसिद्धिक्रियाः ॥ ॥
९९।६अब्/ लाभे तॄतीये च शुभैः समेते पापैः विहीने शुभराशिलग्ने ।
९९।६य्द्/ वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुचित्राहरिपौष्णभेषु ॥ ॥
९९।७अ रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा-
९९।७ब् हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः ।
९९।७य् सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे
९९।७द् क्रूरैः त्र्यायषडष्टगैः न तु भृगौ षष्ठे कुजे चाष्टमे ॥ ॥
९९।८अ दंपत्योः द्विनवाष्टराशिरहिते चारानुकुले रवौ
९९।८ब् चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः ।
९९।८य् त्यक्त्वा च व्यतिपातवैधृति (वैधृत) दिनं विष्टिं च रिक्तां तिथिं
९९।८द् क्रूराहायनपौषचैत्र (चैत्रपौष) विरहे लग्नांशके मानुषे ॥ ॥
sएपरते अध्याय १०० नक्षत्रजातकाध्यायः
१००।१अब्/ प्रियभूषणः स्वरूपः (सुरूपः) सुभगो दक्षोऽश्विनीषु मतिमांश्च ।
१००।१य्द्/ कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ॥ ॥
१००।२अब्/ बहुभुक् परदाररतः तेजस्वी कृत्तिकासु विख्यातः ।
१००।२य्द्/ रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरः स्वरूपश्च (स्थिरसुरूपश्च) ॥ ॥
१००।३अब्/ चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी ।
१००।३य्द्/ शठगर्वितचण्डकृतघनहिंस्रपापश्च रौद्रर्क्षे ॥ ॥
१००।४अब्/ दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश्च ।
१००।४य्द्/ अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥ ॥
१००।५अब्/ शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये ।
१००।५य्द्/ शठसर्वभक्षक्ष्य (भक्ष) (भक्ष्य) पापः कृतघ्नधूर्तश्च भौजंगे ॥ ॥
१००।६अब्/ बहुभृत्यधनी भोगी सुरपितृभक्तो महोद्यमः पित्र्ये ।
१००।६य्द्/ प्रियवाग् दाता द्युतिमान् अटनो नृपसेवको भाग्ये ॥ ॥
१००।७अब्/ सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीयफल्गुन्याम् ।
१००।७य्द्/ उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते ॥ ॥
१००।८अब्/ चित्रांबरमाल्यधरः सुलोचनांगश्च चित्रायां (भवति चित्रायां) ।
१००।८य्द्/ दन्तो वणिक् तृषालुः (कृपालुः) प्रियवाग् धर्माश्रितः स्वातौ ॥ ॥
१००।९अब्/ ईर्षुः (इर्ष्युः) लुब्धो द्युतिमान् वचनपटुः कलहकृद् विशाखासु ॥ ॥
१००।९य्द्/ आढ्यो विदेशवासी क्षुधालुः अटनोऽनुराधासु ॥ ॥
१००।१०अब्/ ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः ।
१००।१०य्द्/ मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥ ॥
१००।११अब्/ इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे ।
१००।११य्द्/ वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ॥ ॥
१००।१२अब्/ श्रीमान् श्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः ।
१००।१२य्द्/ दाताऽऽढ्यशूरगीतिप्रियो धनिष्ठासु धनलुब्धः ॥ ॥
१००।१३अब्/ स्फुटवाग् व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्र्आह्यः ।
१००।१३य्द्/ भद्रपदासूद्विग्नः स्त्रीजितधनपटुः अदाता च ॥ ॥
१००।१४अब्/ वक्ता सुखी प्रजावान् जितशत्रुः धार्मिको द्वितीयासु ॥ ॥
१००।१४य्द्/ सम्पूर्णांगः सुभगः शूरः शुचिः अर्थवान् पौष्णे ॥ ॥
sएपरते अध्याय १०१ राशिविभागाध्यायः
१०१।१अब्/ अश्विन्योऽथ भरण्यो बहुलापादश्च कीर्त्यते मेषः ।
१०१।१य्द्/ वृषभो बहुलाशेषं रोहिण्योऽर्धम् च मृगशिरसः ॥ ॥
१०१।२अब्/ मृगशिरो ऽर्धं रौद्रं पुनर्वसोः (पुनर्वसोः च) अंशकत्रयं मिथुनः (मिथुनं) ।
१०१।२य्द्/ पादश्च पुनर्वसुतः तिष्यः श्लेषा (पुनर्वसोः सतिष्योऽश्लेषा) च कर्कटकः ॥ ॥
१०१।३अब्/ सिंहोऽथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश्च ।
१०१।३य्द्/ तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः ॥ ॥
१०१।४अब्/ तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः ।
१०१।४य्द्/ अलिनि विशाखापादः तथानुराधान्विता ज्येष्ठा ॥ ॥
१०१।५अब्/ मूलमषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी ।
१०१।५य्द्/ मकरः तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम् ॥ ॥
१०१।६अब्/ कुंभोऽन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः ।
१०१।६य्द्/ भद्रपदायाः शेषं तथोत्तरा रेवती च झषः ॥ ॥
१०१।७अब्/ अश्विनीपित्र्यमूलाद्या मेषसिंहहयादयः ।
१०१।७य्द्/ विषमऋक्षान् निवर्तन्ते पादवृद्ध्या यथोत्तरम् ॥ ॥
sएपरते अध्याय १०२ विवाहपटलाध्यायः
१०२।१अ मूर्तौ करोति दिनकृद् विधवां कुजश्च
१०२।१ब् राहुः विपन्नतनयां रविजो दरिद्राम् ।
१०२।१य् शुक्रः शशांकतनयश्च गुरुश्च साध्वीम्
१०२।१द् आयुःक्षयं प्रकुरुतेऽथ विभावरीशः ॥ ॥
१०२।२अ कुर्वन्ति भास्करशनैश्चरराहुभौमा
१०२।२ब् दारिद्र्यदुःखमतुलं नियतं द्वितीये ।
१०२।२य् वित्तेश्वरीमविधवां गुरुशुक्रसौम्या
१०२।२द् नारीं प्रभूततनयां कुरुते शशांकः ॥ ॥
१०२।३अ सूर्येन्दुभौमगुरुशुक्रबुधाः तृतीये
१०२।३ब् कुर्युः सदा बहुसुतां धनभागिनीं च ।
१०२।३य् व्यक्तां (व्यक्तं) दिवाकरसुतः सुभगां करोति
१०२।३द् मृत्युं ददाति नियमात् खलु सैंहिकेयः ॥ ॥
१०२।४अ स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे
१०२।४ब् दौर्भाग्यमुष्णकिरणः कुरुते शशी च ।
१०२।४य् राहुः सपत्ननं (सपत्न्यं) अपि च क्षितिजोऽल्पवित्तं (अल्पवित्तां)
१०२।४द् दद्याद् भृगुः सुरगुरुश्च बुधश्च सौख्यम् ॥ ॥
१०२।५अ नष्टात्मजां रविकुजौ खलु पंचमस्थे (पंचमस्थौ)
१०२।५ब् चन्द्रात्मजो बहुसुता गुरुभार्गवौ च ।
१०२।५य् राहुः ददाति मरणं शनिरुग्ररोगं
१०२।५द् कन्याविनाशं (प्रसूतिं) अचिरात् कुरुते शशांकः ॥ ॥
१०२।६अ षष्ठाश्रिताः शनिदिवाकरराहुजीवाः
१०२।६ब् कुर्युः कुजश्च सुभगां श्वशुरेषु भक्ताम् ।
१०२।६य् चन्द्रः करोति विधवामुशना दरिद्राम्
१०२।६द् ऋद्धां शशांकतनयः कलहप्रियां च ॥ ॥
१०२।७अ सौरारजीवबुधराहुरवीन्दुशुक्राः
१०२।७ब् कुर्युः प्रसह्य खलु सप्तमराशिसंस्थाः ।
१०२।७य् वैधव्यबन्धनवधक्षयमर्थनाश-
१०२।७द् व्याधिप्रवासमरणानि यथाक्रमेण ॥ ॥
१०२।८अ स्थानेऽष्टमे गुरुबुधौ नियतं वियोगं
१०२।८ब् मृत्युं शशी भृगुसुतश्च तथैव राहुः ।
१०२।८य् सूर्यः करोत्यविधवां सरुजां (सरुजं) महीजः
१०२।८द् सूर्यात्मजो धनवतीं पितवल्लभां च ॥ ॥
१०२।९अ धर्मे स्थिता भृगुदिवाकरभूमिपुत्रा
१०२।९ब् जीवश्च धर्मनिरतां शशिजः त्वरोगाम् ।
१०२।९य् राहुश्च सूर्यतनयश्च करोति बन्ध्यां (वन्ध्यां)
१०२।९द् कन्याप्रसूतिमटनां (अटनं) कुरुते शशांकः ॥ ॥
१०२।१०अ राहुः नभःस्थलगतो (नभस्थलगतो) विधवां करोति
१०२।१०ब् पापे रतां दिनकरश्च शनैश्चरश्च ।
१०२।१०य् मृत्युं कुजोऽर्थरहितां कुलटां च चन्द्रः
१०२।१०द् शेषा ग्रहा धनवतीं सुभगां च कुर्युः ॥ ॥
१०२।११अ आये रविः बहुसुतां सधनां (धनिनीं) शशांकः
१०२।११ब् पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम् ।
१०२।११य् आयुष्मतीं सुरगुरुः शशिजः समृद्धां
१०२।११द् राहुः करोत्यविधवां भृगुः अर्थयुक्ताम् ॥ ॥
१०२।१२अ अन्ते गुरुः धनवतीं दिनकृद् दरिद्रां
१०२।१२ब् चन्द्रोधनव्ययकरीं कुलटां च राहुः ।
१०२।१२य् साध्वीं भृगुः शशिसुतो बहुपुत्रपौत्रां
१०२।१२द् पानप्रसक्तहृदयाम् रविजः कुजश्च ॥ ॥
१०२।१३अ गोपैः यष्ट्याहतानां खुरपुटदलिता या तु धूलिः दिनान्ते
१०२।१३ब् सोद्वाहे सुन्दरीणां विपुलधनसुतारोग्यसौभाग्यकर्त्री ।
१०२।१३य् तस्मिन् काले न चऋक्षं न च तिथिकरणं नैव लग्नं न योगः
१०२।१३द् ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजः तु ॥ ॥
sएपरते अध्याय १०३ ग्रहगोचराध्यायः
१०३।१अब्/ प्रायेण सूत्रेण विनाकृतानि प्रकाशरन्ध्राणि चिरन्तनानि ।
१०३।१य्द्/ रत्नानि शास्त्राणि च योजितानि नवैः गुणैः भूषयितुं क्षमाणि ॥ ॥
१०३।२अब्/ प्रायेण गोचरो व्यवहार्योऽतः तत्फलानि वक्ष्यामि ।
१०३।२य्द्/ नानावृत्तैः आर्या (तन्नो) मुखचपलत्वं क्षमध्वं नःक्षमन्त्वार्याः) ॥ ॥
१०३।३अब्/ माण्डव्यगिरं श्रुत्वा न मदीया रोचतेऽथवा नैवम् ।
१०३।३य्द्/ साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला ॥ ॥
१०३।४अ सूर्यः षट्त्रिदशस्थितः त्रिदशषट्सप्ताद्यगश्चन्द्रमा
१०३।४ब् जीवः सप्तनवद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ ।
१०३।४य् सौम्यः षड्द्विचतुर्दशाष्टमगतः सूर्ये (सर्वे) ऽपि उपान्ते शुभाः
१०३।४द् शुक्रः सप्तमषड्दशऋक्षसहितः शार्दूलवत् त्रासकृत् ॥ ॥
१०३।५अ जन्मनि आयासदोऽर्कः क्षपयति विभवान् कोष्ठरोगाध्वदाता
१०३।५ब् वित्तभ्रंशं द्वितीये दिशति च न सुखं वंचनां दृग्रुजं च ।
१०३।५य् स्थानप्राप्तिं तृतीये धननिचयमुदा कल्यकृच्चारिहर्ता (हन्ता)
१०३।५द् रोगान् दत्ते (धत्ते) चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥ ॥
१०३।६अ पीडाः स्युः पंचमस्थे सवितरि बहुशो रोगारिजनिताः
१०३।६ब् षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपून् शोकांश्च नुदति ।
१०३।६य् अध्वानं सप्तमस्थो जठरगदभयं दैन्यं च कुरुते ।
१०३।६द् रुक्त्रासौ (रुक्कासौ) चाष्टमस्थे भवति सुवदना न स्वापि वनिता ॥ ॥
१०३।७अ रवावापद्दैन्यं रुग् इति नवमे वित्त (चित्त) चेष्टाविरोधो
१०३।७ब् जयं प्राप्नोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण ।
१०३।७य् जयस्थानं (जयं स्थानं) मानं विभवमपि चैकादशे रोगनाशं
१०३।७द् सुवृत्तानां चेष्टा भवति सफला द्वादशे नैतरेषाम् ॥ ॥
१०३।८अ शशी जन्मनि अन्नप्रवरशयनाच्छादनकरो
१०३।८ब् द्वितीये मानार्थान् (मानार्थौ) ग्लपयति सविघ्नश्च भवति ।
१०३।८य् तृतीये वस्त्रस्त्रीधनविजय (निचय) सौख्यानि लभते
१०३।८द् चतुर्थेऽविश्वासः शिखरिणि भुजंगेन सदृशः ॥ ॥
१०३।९अ दैन्यं व्याधिं शुचमपि शशी पंचमे मार्गविघ्नं
१०३।९ब् षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च ।
१०३।९य् यानं मानं शयनमशनं सप्तमे वित्तलाभं
१०३।९द् मन्द आक्रान्ते फणिनि हिमगौ च अष्टमे भीः न कस्य ॥ ॥
१०३।१०अ नवमगृहगो बन्धौद्वेगश्रमौदररोगकृद्
१०३।१०ब् दशमभवने च आज्ञाकर्मप्रसिद्धिकरः शशी ।
१०३।१०य् उपचयसुहृत्संयोगार्थप्रमोदमुपान्त्यगो
१०३।१०द् वृषभचरितान् दोषान् अन्त्ये (अन्ते) करोति च (हि) सव्ययान् ॥ ॥
१०३।११अब्/ कुजेऽभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः ।
१०३।११य्द्/ भृशं च पित्तानलचौररोगैः (रोगचौरैः) उपेन्द्रवज्रप्रतिमोऽपि यः स्यात् ॥ ॥
१०३।१२अ तृतीयगश्चौरकुमारकेभ्यो
१०३।१२ब् भौमः सकाशात् फलमादधाति ।
१०३।१२य् प्रदीप्तिमाज्ञां धनमौर्णिकानि
१०३।१२द् धात्वाकर आख्यानि किल अपराणि ॥ ॥
१०३।१३अब्/ भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुद्भवः ।
१०३।१३य्द्/ कुपुरुषजनिताग संगमात् प्रसभमपि करोति च अशुभम् ॥ ॥
१०३।१४अ रिपुगदकोपभयानि पंचमे
१०३।१४ब् तनयकृताश्च शुचो महीसुते ।
१०३।१४य् द्युतिः अपि न अस्य चिरं भवेत् स्थिरा
१०३।१४द् शिरसि कपेः इव मालती यथा (कृता) ॥ ॥
१०३।१५अब्/ रिपुभयकलहैः विवर्जितः सकनकविद्रुमताम्रकामगः (कागमः) ।
१०३।१५य्द्/ रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षते ॥ ॥
१०३।१६अ कलत्रकलहाक्षिरुग्जठररोगकृत् सप्तमे
१०३।१६ब् क्षरत्क्षतजरूक्षितः क्षपित (क्षयित) वित्तमानोऽष्टमे ।
१०३।१६य् कुजे नवमसंस्थिते परिभवार्थनाश आदिभिः
१०३।१६द् विलंबितगतिः भवत्यबलदेहधातुक्लमैः ॥ ॥
१०३।१७अ दशमगृहगते समं महीजे
१०३।१७ब् विविधधन आप्तिरुपान्त्यगे जयश्च ।
१०३।१७य् जनपदमुपरि स्थितश्च भुंक्ते
१०३।१७द् वनमिव षट्चरणः सुपुष्पिताग्रम् ॥ ॥
१०३।१८अ नानाव्ययैः द्वादशगे महीसुते
१०३।१८ब् सन्ताप्यतेऽनर्थशतैश्च मानवः ।
१०३।१८य् स्त्रीकोपपित्तैश्च सनेत्रवेदनैः
१०३।१८द् योऽपि इन्द्रवंशाभिजनेन गर्वितः ॥ ॥
१०३।१९अब्/ दुष्टवाक्यपिशुनाहितभेदैः बन्धनैः सकलहैश्च हृतस्वः ।
१०३।१९य्द्/ जन्मगे शशिसुते पथि गच्छन् स्वागतेऽपि कुशलं न शृणोति ॥ ॥
१०३।२०अब्/ परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदय आप्तिः (सुहृदाप्तिः) ।
१०३।२०य्द्/ नृपतिशत्रुभयशंकितचितो (चित्तो) द्रुतपदं व्रजति दुश्चरितैः स्वैः ॥ ॥
१०३।२१अ चतुर्थगे स्वजनकुटुंबवृद्धयो
१०३।२१ब् धनागमो भवति च शीतरश्मिजे ।
१०३।२१य् सुतस्थिते तनयकलत्रविग्रहो
१०३।२१द् निषेवते न च रुचिरामपि स्त्रियम् ॥ ॥
१०३।२२अ सौभाग्यं विजयमथ उन्नतिं च षष्ठे
१०३।२२ब् वैवर्ण्यं कलहमतीव सप्तमे ज्ञः ।
१०३।२२य् मृत्युस्थे जयसुत (सुतजय) वस्त्रवित्तलाभा
१०३।२२द् नैपुण्यं भवति मतिप्रहर्षणीयम् ॥ ॥
१०३।२३अब्/ विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च ।
१०३।२३य्द्/ सप्रमदं शयनं च विधत्ते तद्गृहदो ऽथ कथां स्तरणं च (कथास्तरणं) ॥ ॥
१०३।२४अ धनसुतसुख (सुखसुत) योषिन्मित्रवाह (वाह्य) आप्तितुष्टिः
१०३।२४ब् तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः ।
१०३।२४य् रिपुपरिभवरोगैः पीडितो द्वादशस्थे
१०३।२४द् न सहति परिभोक्तुं मालिनीयोगसौख्यम् ॥ ॥
१०३।२५अ जीवे जन्मनि अपगतधनधीः
१०३।२५ब् स्थानभ्रष्टो बहुकलहयुतः ।
१०३।२५य् प्राप्य अर्थेऽर्थान् व्यरिः अपि कुरुते
१०३।२५द् कान्ताऽऽस्याब्जे भ्रमरविलसितम् ॥ ॥
१०३।२६अ स्थानभ्रंशात् कार्यविघाताग तृतीये
१०३।२६ब् अनेकैः (नैकैः) क्लेशैः बन्धुजनोत्थैश्च चतुर्थे ।
१०३।२६य् जीवे शान्तिं पीडितचित्तश्च स विन्देद् (विन्देन्)
१०३।२६द् नैव ग्रामे नापि वने मत्तमयूरे ॥ ॥
१०३।२७अ जनयति च तनयभवनमुपगतः
१०३।२७ब् परिजनशुभसुतकरितुरगवृषान् ।
१०३।२७य् सकनकपुरगृहयुवतिवसनकृन्
१०३।२७द् मणिगुणनिकरकृदपि विबुधगुरुः ॥ ॥
१०३।२८अ न सखीवदनं तिलकोज्ज्वलं
१०३।२८ब् न च वनं (भवनं) शिखिकोकिलनादितम् ।
१०३।२८य् हरिणप्लुतशावविचित्रितं
१०३।२८द् रिपुगते मनसः सुखदं गुरौ ॥ ॥
१०३।२९अ त्रिदशगुरुः शयनं रतिभोगं
१०३।२९ब् धनमशनं कुसुमानि उपवाह्यम् ।
१०३।२९य् जनयति सप्तमराशिमुपेतो
१०३।२९द् ललितपदां च गिरं धिषणां च ॥ ॥
१०३।३०अ बन्धं व्याधिम् चाष्टमे शोकमुग्रं
१०३।३०ब् मार्गक्लेशं) क्लेशान् मृत्युतुल्यांश्च रोगान् ।
१०३।३०य् नैपुण्याऽऽज्ञापुत्रकर्मार्थसिद्धिं
१०३।३०द् धर्मे जीवः शालिनीनां च लाभम् ॥ ॥
१०३।३१अ स्थानकल्यधनहा दशऋक्षगः
१०३।३१ब् तत्प्रदो भवति लाभगो गुरुः ।
१०३।३१य् द्वादशेऽध्वनि विलोमदुःखभाग्
१०३।३१द् याति यद्यपि नरो रथोद्धतः ॥ ॥
१०३।३२अ प्रथमगृहौपगो भृगुसुतः स्मरौपकरणैः
१०३।३२ब् सुरभिमनोज्ञगन्धकुसुमांबरैरुपचयम् ।
१०३।३२य् शयनगृहासनाशनयुतस्य च अनुकुरुते
१०३।३२द् समदविलासिनीमुखसरोजषट्चरणताम् ॥ ॥
१०३।३३अ शुक्रे द्वितीयगृहगे प्रसवार्थधान्य-
१०३।३३ब् भूपालसन्नत (सन्नति) कुटुंबहितानि अवाप्य ।
१०३।३३य् संसेवते कुसुमरत्नविभूषितश्च
१०३।३३द् कामं वसन्ततिलकद्युतिमूर्धजोऽपि ॥ ॥
१०३।३४अब्/ आज्ञा अर्थमानास्पदभूतिवस्त्रशत्रुक्षयान् दैत्यगुरुः तृतीये ।
१०३।३४य्द्/ दत्ते (धत्ते) चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रप्रतिमां च शक्तिम् ॥ ॥
१०३।३५अब्/ जनयति शुक्रः पंचमसंस्थो गुरुपरितोषं बन्धुजनाप्तिम् ।
१०३।३५य्द्/ सुतधनलब्धिं मित्रसहायान् अनवसितत्वं च अरिबलेषु ॥ ॥
१०३।३६अ षष्ठो भृगुः परिभवरोगतापदः
१०३।३६ब् स्त्रीहेतुकं जनयति सप्तमोऽशुभम् ।
१०३।३६य् यातोऽष्टमं भवनपरिच्छदप्रदो
१०३।३६द् लक्ष्मीवतीमुपनयति स्त्रियं च सः ॥ ॥
१०३।३७अ नवमे तु धर्मवनितासुखभाग्
१०३।३७ब् भृगुजेऽर्थवस्त्रनिचयश्च भवेत् ।
१०३।३७य् दशमेऽवमानकलहान् नियमात्
१०३।३७द् प्रमिताक्षराणि अपि वदन् लभते ॥ ॥
१०३।३८अब्/ उपान्त्यगो भृगो सुतः सुहृद्धनान्नगन्धदः ।
१०३।३८य्द्/ धनांबर आगमोऽन्त्यगः स्थिरः तु नांबर आगमः ॥ ॥
१०३।३९अब्/ प्रथमे रविजे विषवह्निहतः स्वजनैः वियुतः कृतबन्धुवधः ।
१०३।३९य्द्/ परदेशमुपैत्यसुहृद्भवनो विमुखार्थसुतोऽटकदीनमुखः ॥ ॥
१०३।४०अ चारवशाद् द्वितीयगृहगे दिनकरतनये
१०३।४०ब् रूपसुखापवर्जिततनुः विगतमदबलः ।
१०३।४०य् अन्यगुणैः कृतं वसुचयम् तदपि खलु भवत्य्-
१०३।४०द् अंब्विव वंशपत्रपतितं न बहु न च चिरम् ॥ ॥
१०३।४१अ सूर्यसुते तृतीयगृहगे धनानि लभते
१०३।४१ब् दासपरिच्छदौष्ट्रमहिषा अश्वकुञ्जरखरान् ।
१०३।४१य् सद्मविभूतिसौख्यममितं गदव्युपरमं
१०३।४१द् भीरुः अपि प्रशास्त्यधिरिपूंश्च वीरललितैः ॥ ॥
१०३।४२अ चतुर्थं गृहं सूर्यपुत्रेऽभ्युपेते
१०३।४२ब् सुहृद्वित्तभार्य आदिभिः विप्रयुक्तः ।
१०३।४२य् भवत्यस्य सर्वत्र चासाधु दुष्टं
१०३।४२द् भुजंगप्रयातानुकारं च चित्तम् ॥ ॥
१०३।४३अ सुतधनपरिहीणः पंचमस्थे
१०३।४३ब् प्रचुरकलहयुक्तश्च अर्कपुत्रे ।
१०३।४३य् विनिहतरिपुरोगः षष्ठयाते
१०३।४३द् पिबति च वनिताऽऽस्यं श्रीपुटोष्ठम् ॥ ॥
१०३।४४अ गच्छत्यध्वानं सप्तमे च अष्टमे च
१०३।४४ब् हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः ।
१०३।४४य् तद्वद् धर्मस्थे वैरहृद्रोगबन्धैः
१०३।४४द् धर्मोऽपि उच्छिद्येद् वैश्वदेवीक्रियाद्यः ॥ ॥
१०३।४५अ कर्मप्राप्तिः दशमेऽर्थक्षयश्च
१०३।४५ब् विद्याकीर्त्योः परिहानिश्च सौरे ।
१०३।४५य् तैक्ष्ण्यं लाभे परयोषार्थलाभः (लाभा)
१०३।४५द् च अन्त्ये (अन्ते) प्राप्नोत्यपि शोक ऊर्मिमालाम् ॥ ॥
१०३।४६अब्/ अपि कालमपेक्ष्य च पात्रं शुभकृद् विदधात्यनुरूपम् ।
१०३।४६य्द्/ न मधौ बहु कं कुडवे वा (च) विसृजत्यपि मेघवितानः ॥ ॥
१०३।४७अ रक्तैः पुष्पैः गन्धैः ताम्रैः कनकवृषबकुलकुसुमैः दिवाकरभूसुतौ
१०३।४७ब् भक्त्या पूज्याविन्दुः धेन्वा सितकुसुमरजतमधुरैः सितश्च मदप्रदैः ।
१०३।४७य् कृष्णद्रव्यैः सौरिः सौम्यो मणिरजततिलककुसुमैः गुरुः परिपीतकैः
१०३।४७द् प्रीतैः पीडा न स्यादुच्चाद् यदि पतति विशति यदि वा भुजंगविजृंभितम् ॥ ॥
१०३।४८अब्/ शमयौद्गतामशुभदृष्टिमपि विबुधविप्रपूजया ।
१०३।४८य्द्/ शान्तिजपनियमदानदमैः सुजनाभिभाषणसमागमैः तथा ॥ ॥
१०३।४९अब्/ रविभौमौ पूर्वार्धे शशिसौरौ कथयतोऽन्त्यगौ राशेः ।
१०३।४९य्द्/ सदसल्लक्षणमार्यगीत्युपगीत्योः यथासंख्यम् ॥ ॥
१०३।५०अब्/ आदौ यादृक् सौम्यः पश्चादपि तादृशो भवति ।
१०३।५०य्द्/ उपगीतेः मात्राणां गणवत् सत्सम्प्रयोगो वा ॥ ॥
१०३।५१अब्/ आर्याणामपि कुरुते विनाशमन्तर्गुरुः विषमसंस्थः ।
१०३।५१य्द्/ गण इव षष्ठे दृष्टः स (च) सर्वलघुतां जनं (गतो) नयति ॥ ॥
१०३।५२अ अशुभनिरीक्षितः शुभफलो बलिना बलवान्
१०३।५२ब् अशुभफलप्रदश्च शुभदृग्विषयोपगतः ।
१०३।५२य् अशुभशुभावपि स्वफलयोः व्रजतः समताम्
१०३।५२द् इदमपि गीतकं च खलु नर्कुटकं च यथा ॥ ॥
१०३।५३अब्/ नीचेऽरिभेऽस्ते च अरिदृष्टस्य (अरि) सर्वं वृथा यत् (यथा) परिकीर्तितम् ।
१०३।५३य्द्/ पुरतोऽन्धस्य इव कामिन्याः सविलासकटाक्षनिरीक्षणम् ॥ ॥
१०३।५४अ सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश्
१०३।५४ब् छन्दतः समनुयाति यथा ।
१०३।५४य् स्कन्धकमार्यगीतिः वैतालीयं च
१०३।५४द् मागधी गाथाऽऽर्याम् ॥ ॥
१०३।५५अब्/ सौरोऽर्करश्मियोगात् (रागात्) सविकारो लब्धवृद्धिः अधिकतरम् ।
१०३।५५य्द्/ पित्तवदाचरति नृणां पथ्यकृतां न तु तथाऽऽर्याणाम् ॥ ॥
१०३।५६अब्/ यादृशेन ग्रहेणेन्दुः युक्तः तादृग् भवेत् सोऽपि ।
१०३।५६य्द्/ मनोवृत्तिसमायोगाद् विकार इव वक्त्रस्य ॥ ॥
१०३।५७अब्/ पंचमं लघु सर्वेषु (सर्वपादेषु) सप्तमं द्विचतुर्थयोः ।
१०३।५७य्द्/ यद्वत्श्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः ॥ ॥
१०३।५८अब्/ प्रकृत्य अपि लघुः यश्च वृत्तबाह्ये व्यवस्थितः ।
१०३।५८य्द्/ स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः ॥ ॥
१०३।५९अब्/ प्रारब्धमसुस्थितैः ग्रहैः यत् कर्म आत्मविवृद्धये बुधैः (ऽबुधैः) ।
१०३।५९य्द्/ विनिहन्ति तदेव कर्म तान् वैतालीयमिव अयथाकृतम् ॥ ॥
१०३।६०अब्/ सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा ।
१०३।६०य्द्/ अणुना अपि स पौरुषेण वृत्त्यौ (वृत्तस्यौ) पच्छन्दसिकस्य याति पारम् ॥ ॥
१०३।६१ (१) उपचयभवनौपयातस्य भानोः दिने कारयेद् -
धेमताम्राश्वकाष्ठास्थिचर्माउर्णिकाद्रिद्रुमत्वग्नखव्यालचौर -
आयुधीयाटवीक्रूरराजोपसेवाभिषेकाउषधक्षौमपण्यादि-
गोपालकान्तारवैद्याश्मकूटावदाताभिविख्यातशूर आहवश्लाघ्ययाय्य -
(याज्या) अग्निकर्माणि (कार्याणि) सिद्ध्यन्ति लग्नस्थिते वा रवौ ।
१०३।६१ (२) शिशिरकिरणवासरे तस्य व अपि उद्गमे केन्द्रसंस्थेऽथवा -
भूषणं शंखमुक्ता अब्जरूप्यांबुयज्ञैक्षुभोज्यांगनाक्षीर-
सुस्निग्धवृक्षक्षुपानूपधान्यद्रवद्रव्यविप्राध्वगीत -
(विप्राश्वशीत) क्रियाशृंगिकृष्यादिसेनाधिप -
आक्रन्दभूपालसौभाग्यनक्तंचरश्लैष्मिकद्रव्यमातुल्य (मातुंग) -
पुष्पांबरारंभसिद्धिः भवेत् ॥ ॥
१०३।६१ (३) क्षितितनयदिने प्रसिद्ध्यन्ति (प्रसिध्यन्ति) धात्वाकरादीनि -
सर्वाणि कार्याणि चामीकराग्निप्रवाल आयुधक्रौर्यचौर्याभिघाताट-
वीदुर्गसेनाधिकाराः -
तथा रक्तपुष्पद्रुमा रक्तमन्यग तिक्तं कटुद्रव्यकूटाहिपाशार्जितस्वाः -
कुमारा भिषक्षाक्यभिक्षुक्षपावृत्तिकोशेश (कौशेय) शाठ्यानि -
सिद्ध्यन्ति (सिध्यन्ति) दंभाः तथा ॥ ॥
१०३।६१ (४) हरति (हरित, हरित) मणिमहीसुगन्धीनि वस्त्राणि साधारणं -
नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो -
मन्त्रधातुक्रियावादनैपुण्यपुण्यव्रतायोगदूताः तथाऽऽयुष्यमायानृतस्नानह्रस्वाणि -
दीर्घाणि मध्यानि च छन्दतः (च्छन्दनः) चण्डवृष्टिप्रयातानुकारीणि -
कार्याणि सिद्ध्यन्ति (सिध्यन्ति) सौम्यस्य लग्नेऽह्नि वा ॥ ॥
१०३।६२अ सुरगुरुदिवसे कनकं रजतं तुरगाः करिणो वृषभा -
भिषगौषधयः (ओषधयः) ।
१०३।६२ब् द्विजपितृसुरकार्यपुरःस्थितघर्म (धर्म) निवारणचामरभूषणभूपतयः ।
१०३।६२य् विबुधभवनधर्मसमाश्रयमंगलशास्त्रमनोज्ञबलप्रदसत्यगिरः ।
१०३।६२द् व्रतहवनधनानि च सिद्धिकराणि तथा रुचिराणि च वर्णकदण्डकवत् ॥ ॥
१०३।६३अ भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्यकामिनीविलासहासयौवनौपभोगरम्यभूमयः ।
१०३।६३ब् स्फटिकरजतमन्मथौपचारवाहनैक्षुशारद-
प्रकारगोवणिक्कृषीवलौषधांबुजानि च ।
१०३।६३य् सवितृसुतदिने च कारयेन् -
महिष्यजौष्ट्रकृष्णलोहदासवृद्धनीचकर्मपक्षिचौरपाशिकान् ।
१०३।६३द् च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि च -
अन्यथा न साधयेत् समुद्रगोऽपि अपां कणम् ॥ ॥
१०३।६४अब्/ विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत् ।
१०३।६४य्द्/ श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरोऽतः ॥ ॥
sएपरते अध्याय १०४ रूपसत्राध्यायः
१०४।१अब्/ पादौ मूलं जंघे च रोहिणी जानुनी तथाश्विन्यः ।
१०४।१य्द्/ ऊरू च आषाढद्वयमथ गुह्यं फल्गुनीद्वितयं (युग्मं) ॥ ॥
१०४।२अब्/ कटिः अपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः ।
१०४।२य्द्/ कुक्षिस्था रेवत्यो विज्ञेयमुरोऽनुराधा च ॥ ॥
१०४।३अब्/ पृष्ठं विद्धि धनिष्ठां (धनिष्ठा) भुजौ विशाखा (विशाखां) स्मृतौ करौ हस्तः ॥ ॥
१०४।३य्द्/ अंगुल्यश्च पुनर्वसुः आश्लेषासंज्ञिताश्च नखाः ॥ ॥
१०४।४अब्/ ग्रीवा ज्येष्ठा श्रवणं श्रवणौ (श्रवणौ श्रवनः) पुष्यो मुखं द्विजाः स्वातिः ।
१०४।४य्द्/ हसितं शतभिषग् अथ नासिका मघा मृगशिरो नेत्रे ॥ ॥
१०४।५अब्/ चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश्चार्द्रा ।
१०४।५य्द्/ नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः ॥ ॥
१०४।६अब्/ चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे ।
१०४।६य्द्/ ह्युपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ॥ ॥
१०४।७अब्/ दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम् ।
१०४।७य्द्/ विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ॥ ॥
१०४।८अ अन्नैः क्षीरघृतौत्कटैः सह गुडैः विप्रान् समभ्यर्चयेद्
१०४।८ब् दद्यात् तेषु सुवर्ण (तथैव) वस्त्ररजतं लावण्यमिच्छन् नरः ।
१०४।८य् पादऋक्षात् प्रभृति क्रमादुपवसन्न् अंगऋक्षनामस्वपि
१०४।८द् कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥ ॥
१०४।९अब्/ प्रलंबबाहुः पृथुपीनवक्षाः क्षपाकरास्यः सितचारुदन्तः ।
१०४।९य्द्/ गजेन्द्रगामी कमलायताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्तिः ॥ ॥
१०४।१०अब्/ शरदमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा ।
१०४।१०य्द्/ रुचिरदशना सुकर्णा भ्रमरौदरसन्निभैः केशैः ॥ ॥
१०४।११अब्/ पुंस्कोकिलसमवाणी ताम्रोष्टी (ताम्रोष्ठी) पद्मपत्रकरचरणा ।
१०४।११य्द्/ स्तनभारानतमध्या प्रदक्षिणावर्तया नाभ्या ॥ ॥
१०४।१२अब्/ कदलीकाण्डनिभ ऊरुः (ऊरूः) सुश्रोणी वरकुकुन्दरा सुभगा ।
१०४।१२य्द्/ सुश्लिष्टांगुलिपादा भवति प्रमदा मनुष्यश्च (मनुष्यो वा) ॥ ॥
१०४।१३अ यावन् नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा
१०४।१३ब् तावन् नक्षत्रभूतो विचरति सह तैः ब्रह्मणोऽह्नोऽवशेषम् ।
१०४।१३य् कल्पादौ चक्रवर्ती भवति हि मतिमां तत्क्षयागापि भूयः
१०४।१३द् संसारे जायमानो भवति नरपतिः ब्राह्मणो वा धनाढ्यः ॥ ॥
१०४।१४अब्/ मृगशीर्षाद्याः केशवनारायणमाधवाः सगोविन्दाः ।
१०४।१४य्द्/ विष्णुमधुसूदनाख्यौ त्रिविक्रमो वामनश्चैव ॥ ॥
१०४।१५अब्/ श्रीधरनामा तस्मात् सहृषीकेशश्च पद्मनाभश्च ।
१०४।१५य्द्/ दामोदर इत्येते मासाः प्रोक्ता यथासंख्यं ॥ ॥
१०४।१६अब्/ मासनामसमुपोषितो नरो द्वादशीषु विधिवत् प्रकीर्तयन् ।
१०४।१६य्द्/ केशवम् समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम् ॥ ॥
sएपरते अध्याय १०५ उपसंहाराध्यायः
१०५।१अब्/ ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणाऽथ मया ।
१०५।१य्द्/ लोकस्य आलोककरः शास्त्रशशांकः समुत्क्षिप्तः ॥ ॥
१०५।२अब्/ पूर्वाचार्यग्रन्था नौत्सृष्टाः कुर्वता मया शास्त्रम् ।
१०५।२य्द्/ तान् अवलोक्यैदं च प्रयतध्वं कामतः सुजनाः ॥ ॥
१०५।३अब्/ अथवा कृशं (भृशं) अपि सुजनः प्रथयति दोषार्णवाद् गुणं दृष्ट्वा ।
१०५।३य्द्/ नीचः तद्विपरीतः प्रकृतिः इयं साध्वसाधूनाम् ॥ ॥
१०५।४अब्/ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति ।
१०५।४य्द्/ श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन ॥ ॥
१०५।५अ ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति
१०५।५ब् लेख्याद् बहुश्रुतमुखाधिगमक्रमेण ।
१०५।५य् यद्वा मया कुकृतमल्पमिहाकृतं वा
१०५।५द् कार्यं तदत्र विदुषा परिहृत्य रागम् ॥ ॥
१०५।६अब्/ दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना इदम् ।
१०५।६य्द्/ शास्त्रमुपसंगृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥ ॥
sएपरते अध्याय १०६ शास्त्रानुक्रमणी
१०६।१अब्/ शास्त्रौपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च ।
१०६।१य्द्/ शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ॥ ॥
१०६।२अब्/ चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च ।
१०६।२य्द्/ नक्षत्राणां व्यूहो ग्रहभक्तिः ग्रहविमर्दश्च ॥ ॥
१०६।३अब्/ ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च ।
१०६।३य्द्/ शृंगाटसंस्थितानां मेघानां गर्भलक्षणं चैव ॥ ॥
१०६।४अब्/ धारणवर्षणरोहिणिवायव्याषाढभद्रपद (भाद्रपद) योगाः ।
१०६।४य्द्/ क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्नं दिशां दाहः ॥ ॥
१०६।५अब्/ भूकंपौल्कापरिवेषलक्षणं शक्रचापखपुरं च ।
१०६।५य्द्/ प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ॥ ॥
१०६।६अब्/ इन्द्रध्वजनीराजनखञ्जनकौत्पातवर्हि (बर्हि) चित्रं च ।
१०६।६य्द्/ पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ॥ ॥
१०६।७अब्/ उदक् (उदग्) आर्गलमारामिकममरालयलक्षणं कुलिशलेपः ।
१०६।७य्द्/ प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ॥ ॥
१०६।८अब्/ चिह्नं गवामथ शुनाम् कुक्कुटकूर्माजपुरुषचिह्नं च ।
१०६।८य्द्/ पंचमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ॥ ॥
१०६।९अब्/ चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च ।
१०६।९य्द्/ कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः ॥ ॥
१०६।१०अब्/ वज्रपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः ।
१०६।१०य्द्/ दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ॥ ॥
१०६।११अब्/ अन्तरचक्रं विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च ॥ ॥
१०६।११य्द्/ चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ॥ ॥
१०६।१२अब्/ पाको नक्षत्रगुणाः तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः ।
१०६।१२य्द्/ गोचरमथ (गोचरः तथा) ग्रहाणां कथितो नक्षत्रपुरुषश्च ॥ ॥
१०६।१३अब्/ शतमिदमध्यायानामनुपरिपाटिक्रमादनुक्रान्तम् ।
१०६।१३य्द्/ अत्र श्लोकसहस्राणि आबद्धानि ऊनचत्वारि ॥ ॥
१०६।१४अब्/ अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम् ।
१०६।१४य्द्/ बह्वाश्चर्यं जातकमुक्तं करणं च बहुचोद्यम् ॥ ॥
॥ इति बृहत्संहिता॥
The accompanying file is a plain ASCII transcription of the
BRhatsaMhitA of VarAhamihira, a classical Sanskrit text on
astrological divination and omens.
The file has the following header:
VarAhamihira's BRhatsaMhitA
(Version 3, June 5, 1992)
digitalized by Michio YAno
proofread by Mizue Sugita
based on the edition of A.V.TripAThI
(SarasvatI Bhavan GranthamAlA Edition)
with reference to H.Kern's text
[variants marked by K.] and his translation
[ Text was input by Kyoto-Harvard System, that is,
Capitals for long vowels, linguals, anusvAra, visarga, and nazals,
and z for palatal sibilants.
Members of sandhi are not medskipd. avagraha is romanized by +a,
external vowel sandhi is decomposed with the mark hat sign.]
DW 11 June 1992
Converted to ITRANS on April 20, 1994. Last update July 7, 1995.
The itrans conversion accounts for trailing word letters such as m, s, t, d etc.
Reference to K. is eliminated since it is available in the original
file.
Sanskrit sandhIs are accounted. The adhyayas are medskipd by a horizontal
line.
Encoded by Michio YAno in Kyoto system
Proofread by : Mizue Sugita