॥ सुभाषितानि सङ्ग्रह ॥

अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये । विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ॥ १॥ अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् । चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ॥ २॥ अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ॥ ३॥ अष्टादशपुराणेषु व्यासस्य वचनद्वयम् । परोपकारः पुण्याय पापाय परपीडनम् ॥ ४॥ अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् । प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ॥ ५॥ अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् । परोपकारे निरताः कथं मेघा न सज्जनाः ॥ ६॥ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ ७॥ अष्टादशपुराणानां सारं व्यासेन कीर्तितम् । परोपकारः पुण्याय पापाय परपीडनम् ॥ ८॥ अधमा धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥ ९॥ अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥ १०॥ अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥ ११॥ अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः । अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ॥ १२॥ अन्नदानं परं दानं विद्यादानमतः परम् । अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥ १३॥ अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः । शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥ १४॥ अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च । विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ॥ १५॥ अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् । मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ॥ १६॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ १७॥ अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥ १८॥ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ॥ १९॥ अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति । ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ २०॥ अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ २१॥ अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ २२॥ अयं निजः परो वेऽति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २३॥ अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता । न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ॥ २४॥ अहो दुर्जनसंसर्गात् मानहानिः पदे पदे । पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥ २५॥ अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ २६॥ अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् । साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ॥ २७॥ अशनं मे वसनं मे जाया मे बन्धुवर्गो मे । इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥ २८॥ अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥ २९॥ अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् । भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥ ३०॥ अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने । एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥ ३१॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ३२॥ अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥ ३३॥ अनाचारेण मालिन्यम् अत्याचारेण मूर्खता । विचाराचारयोर्योगः स सदाचार उच्यते ॥ ३४॥ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ३५॥ अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ३६॥ अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् । संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ ३७॥ असितगिरिसमं स्यात् कज्जल्ं सिन्धु पात्रं सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३८॥ अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥ ३९॥ अधनाधि निवर्तन्ते ज्ञातयः सुहृदो जनाः । अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥ ४०॥ अस्माकं बदरीचक्रं युष्माकं बदरीतरुः । बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥ ४१॥ अहम्पूरुषो भारतीयोऽस्मि नूनं न धैर्यङ्कदाचित्त्यजेयं विपत्सु । स्वकर्तव्यनिष्ठां न वा विस्मरेयं यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥ ४२॥ अहम्भारती स्त्री स्वयं शक्तिरूपा मयि श्रीश्च दुर्गा तथा शारदा च । त्यजेयं कदाचिन्न शीलाभिमानं विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥ ४३॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयं । अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥ ४४॥ अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् । अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥ ४५॥ अनुदिनमनुतापेनास्म्यहं राम तप्तः परमकरुणमोहं छिन्धि मायासमेतम् । इदमतिचपलं मे मानसं दुर्निवारं भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥ ४६॥ अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ ४७॥ अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन किल कोकिल कोमलेन । एते हि दैवहतकास्तदभिन्नवर्णं त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ४८॥ अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् । गौरी जह्नुसुतामसूयति कलानाथं कपालानलः निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥ ४९॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ ५०॥ अम्बा यस्य उमादेवी जनको यस्य शङ्करः । विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥ ५१॥ अस्थिरं जीवितं लोके अस्थिरे धनयौवने । अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥ ५२॥ आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥ १॥ आत्मार्थम् जीवलोके च को न जीवति मानवः । परं परोपकाराय यो जीवति स जीवति ॥ २॥ आचारः परमो धर्मः आचारः परमं तपः । आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥ ३॥ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । नीयते स वृथा येन प्रमादः सुमहानहो ॥ ४॥ आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चराति चरतो भगः ॥ ५॥ आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् । एतान् प्रपश्यसि घटां जलयन्त्रचक्रे रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥ ६॥ आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला । यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ ७॥ आत्मनः परितोषाय कवेः काव्यं तथापि तत् । स्वामिनो देहलीदीपसममन्योपकारकम् ॥ ८॥ आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥ ९॥ आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ १०॥ आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति । विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥ ११॥ आत्मपक्षं परित्यज्य परपक्षेषु यो रतः । स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥ १२॥ आशुशब्दस्य अन्तेन कलायाः प्रथमेन च । विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥ १३॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥ १४॥ आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं पश्चाद्रावण कुम्भकर्णहननं एतधि रामायणम् ॥ १५॥ आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनं मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् । कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनं एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥ १६॥ आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः । बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् । गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥ १७॥ इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् । वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥ १॥ ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा । अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥ २॥ उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ३॥ उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते । न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥ ४॥ उपकारोऽपि नीचानां अपकारो हि जायते । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ५॥ उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् । सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥ ६॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ७॥ उत्तमा आत्मन्ः ख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥ ८॥ उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥ ९॥ एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ । त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥ १०॥ एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् । एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥ ११॥ एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ १२॥ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥ १३॥ एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ॥ १४॥ एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ १५॥ एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः । विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥ १६॥ ऐक्यं बलं समाजस्य तदभावे स दुर्बलः । तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥ १७॥ ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ १८॥ ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः । चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥ १९॥ ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥ २०॥ क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा । क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥ १॥ कार्यार्थी भजते लोकः यावत्कार्यम् न सिध्यति । उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥ २॥ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ ३॥ क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति । प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥ ४॥ कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः । वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥ ५॥ को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ ६॥ काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥ ७॥ क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ ८॥ कमले कमला शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ ९॥ कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि । आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥ १०॥ कविः करोति काव्यानि रसं जानाति पण्डितः । तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥ ११॥ कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न । यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥ १२॥ का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्तिजन्म । को सूर्यपुत्रो विपरीतपृच्छा कुन्ती सुतो रावणकुम्भकर्णः ॥ १३॥ कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् । किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥ १४॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतं । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ १५॥ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ १६॥ के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः । रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥ १७॥ क्वचित् दुष्टः क्वचित् तुष्टः दुष्टस्तुष्टः क्वचित् क्वचित् । अव्यवस्थितचित्तानां प्रसादोऽपि भयङ्करः ॥ १८॥ कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा । के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥ १९॥ क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता । विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥ २०॥ काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला । तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥ २१॥ किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ २२॥ कस्यचित् किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् । श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम् ॥ २३॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥ २४॥ केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः । केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥ २५॥ काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् । विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥ २६॥ कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ २७॥ कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ २८॥ किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा नववीरुधाम् । अयमकारणकारुणिको न चेत् वितरतीह पयांसि पयोधरः ॥ २९॥ कल्पद्रुमः कल्पितमेव सूते सा कामधुक् कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते सतां तु सङ्गः सकलं प्रसूते ॥ ३०॥ करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥ ३१॥ किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥ ३२॥ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ३३॥ काके शौचं द्यूतकारे च सत्यं सर्पे शान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता भूपे सख्यं केन दृष्टं श्रुतं वा ॥ ३४॥ कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते । बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥ ३५॥ कथं गुरूनहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ३६॥ कालो वा कारणं राज्ञः राजा वा कालकारणं । इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥ ३७॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ३८॥ कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः । नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥ ३९॥ करोति शोभामलके स्त्रियाः को दृष्या न कान्ता विधिना च कोक्ता । अङ्गे तु कस्मिन् दहन्ं पुरारेः सिन्दूरबिन्दुः विधवाललाटे ॥ ४०॥ क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशां आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि । मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ ४१॥ किं वाससेति तत्र विचारणीयं वासः प्रधानं खलु योग्यतायै । पीताम्बरं वीक्ष्य ददौ स्वकन्यां दिगम्बरं वीक्ष्य विषं समुद्रः ॥ ४२॥ केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता र्धायते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ ४३॥ कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां । ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥ ४४॥ काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ ४५॥ कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥ ४६॥ खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥ १॥ खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति । अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत् कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥ २॥ खद्योतो द्योतते तावत् यावत् न उद्यते शशिः । उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥ ३॥ गच्छन् गगग्नमार्गेण नित्यं लोकान् प्रकाशयन् । वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥ ४॥ गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ ५॥ गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः । यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥ ६॥ गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् । गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥ ७॥ गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै । प्रासादशिखरस्थोऽपि काको न गरुडायते ॥ ८॥ गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ९॥ गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् । दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥ १०॥ गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥ ११॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥ १२॥ गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥ १३॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ १४॥ गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः । सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥ १५॥ गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् । स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥ १६॥ गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः । लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥ १७॥ गर्वाय परपीडायै दुर्जनस्य धनं बलम् । सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥ १८॥ घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥ १९॥ घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चन्ं कान्तवर्णम् प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ २०॥ चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥ १॥ चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥ २॥ चतुरः सखि मे भर्ता यल्लिखति तद् परो न वाचयति । तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥ ३॥ चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् । अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥ ४॥ चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः । नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥ ५॥ चिन्तनीया हि विपदामादावेव प्रतिक्रिया । न कूपखनन्ं युक्तं प्रदीप्ते वह्निना गृहे ॥ ६॥ चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥ ७॥ चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता । सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥ ८॥ चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या । इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥ ९॥ छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ १०॥ जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः । इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥ ११॥ जनैर्जनहितार्थाय जनानामेव निर्मितं । लोकतन्त्रं भारतस्य वसुधायां विराजते ॥ १२॥ जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः । सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥ १३॥ ज्येष्ठत्त्वं जन्मना नैव गुणैज्र्येष्ठत्त्वमुच्यते । गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥ १४॥ जन्मदाता अन्नदाता विद्यादाता तथैव च । कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥ १५॥ तृणं खादिति केदारे जलं पिबति पल्वले । दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥ १॥ तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ २॥ त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः । त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥ ३॥ तातेन कथितं पुत्र पत्रं लिख ममाज्ञया । नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥ ४॥ ते यान्ति तीर्थेषु बुधाः ये शम्भोर्दूरवर्तिनः । यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥ ५॥ त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥ ६॥ ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् । स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥ ७॥ तृणादपि लघुस्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ ८॥ तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् । अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥ ९॥ तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम् तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् । अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥ १०॥ दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥ १॥ द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता । सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥ २॥ दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रधुनन्दनम् ॥ ३॥ दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् । विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥ ४॥ दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते । कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ५॥ दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् । मधु तिष्ठति जिंव्हाग्रे हृदये तु हलाहलम् ॥ ६॥ दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ७॥ दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः । पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥ ८॥ दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ ९॥ दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः । दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥ १०॥ दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् । अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ ११॥ दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् । इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥ १२॥ दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते । काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥ १३॥ द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ । परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥ १४॥ द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥ १५॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥ १६॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १७॥ दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् । पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥ १८॥ देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च । सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥ १९॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ २०॥ दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा । यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥ २१॥ ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ २२॥ दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं । अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥ २३॥ दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः । एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥ २४॥ धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् । रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥ २५॥ धवलयति समग्रं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि । भवति विदितमेतद् प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥ २६॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २७॥ न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः । न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ १॥ नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ २॥ न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ३॥ नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति । तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥ ४॥ नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ ५॥ न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः । कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥ ६॥ नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी । वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥ ७॥ न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ८॥ न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते । तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥ ९॥ नमस्ते सर्वदेवानां वरदासि हरेः प्रिया । या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥ १०॥ नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः । सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥ ११॥ नमस्ते शारदे देवी वीणा पुस्तकधारिणि । विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥ १२॥ न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ १३॥ न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः । भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥ १४॥ नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः । शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १५॥ नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ १६॥ नमस्ते शारदे देवी काश्मीरपुरवासिनि । त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ १७॥ निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥ १८॥ न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं । विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥ १९॥ नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता । अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥ २०॥ न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥ २१॥ न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ २२॥ न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा । कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥ २३॥ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ २४॥ न भीतो मरणादस्मि केवलं दूषितं यशः । विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥ २५॥ नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि । प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥ २६॥ नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ २७॥ न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ २८॥ न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् । यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥ २९॥ न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥ ३०॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥ ३१॥ नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा । तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम् सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥ ३२॥ नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन । इति महति विरोधे विद्यमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ३३॥ नायं प्रयाति विकृतिं विरसो न यः स्यात् न क्षीयते बहुजनैर्नितरां निपीतः । जाड्यं निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाशितरसोऽन्यरसातिशायी ॥ ३४॥ निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः । विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥ ३५॥ निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति । चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥ ३६॥ न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले । खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥ ३७॥ न तेन स्थविरो भवति येनास्य पलितं शिरः । स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥ ३८॥ निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ ३९॥ नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः । तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ ४०॥ नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया । तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ ४१॥ नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥ ४२॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ ४३॥ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ४४॥ परित्राणाय साधूनां विनाशाय च दुश्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ १॥ परोपकारकरणं नूनं हस्तस्य भूषणम् । पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥ २॥ पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् । नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥ ३॥ पादपानां भयं वातात् पद्मानां शिशिराद्भयम् । पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥ ४॥ प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं । तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥ ५॥ पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति स्वस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ ६॥ परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् । यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥ ७॥ पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् । दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥ ८॥ पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु । लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥ ९॥ परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् । विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥ १०॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं । मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥ ११॥ परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु । दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥ १२॥ पानीयं पातुमिच्छामि त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥ १४॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्राभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥ १४॥ प्रलये पवनाघातैः प्रचलन्ति नगा अपि । कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥ १५॥ पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १६॥ पुस्तकस्था तु या विद्या परहस्तगतं धनं । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ १७॥ परिश्रमो मिताहारः भेषजे सुलभे मम नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् । धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥ १८॥ प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् । दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥ १९॥ पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया । स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥ २०॥ पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम् धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि । श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोसि ॥ २१॥ पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा । परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥ २२॥ प्रारम्भगुर्वी क्षयिणी क्रमेन गुर्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्रिः खलसज्जनानाम् ॥ २३॥ पञ्चैते देवतरवः मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ २४॥ प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च । संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥ २५॥ प्राणां त्यजति देशार्थम् पण्दितानां सहायकः । य आचरति कल्याणं लोके मानं स विन्दति ॥ २६॥ प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम् । ददति जलमनल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥ २७॥ पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम् काले काले व्यजनमिव तं विस्तृतं यः करोति । शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥ २८॥ पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः । सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥ २९॥ पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः । अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥ ३०॥ पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ३१॥ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् । अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥ ३२॥ प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा । दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥ ३३॥ पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही । एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ३४॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥ ३५॥ पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता । पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥ ३६॥ पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः । जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥ ३७॥ फणिनो बहवः सन्ति भेकभक्षणतत्पराः । एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १॥ फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २॥ बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ ३॥ बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ ४॥ बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ ५॥ बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥ ६॥ ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः । वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥ ७॥ भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्यां हि काव्यं मधुरं तस्मादपि सुभाशितम् ॥ ८॥ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् । देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥ ९॥ भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः । कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥ १०॥ भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥ ११॥ भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥ १२॥ भासस्य कालिदासस्य भवभूतेश्च विश्रुता । बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥ १३॥ भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥ १४॥ भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः । निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ॥ १५॥ माता मित्रं पिता चेति स्वभावात् त्रितयं हितं । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ १॥ मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् । मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥ २॥ मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणं । मित्रं विना नास्ति शरीर तोषणं विद्यां विना नास्ति शरीरभूषणं ॥ ३॥ मुखं पद्मदलाकारं वाणी चन्दनशीतला । हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥ ४॥ मयूरो विहगो रम्यः आनन्दयति मानवान् । पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥ ५॥ मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा । क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥ ६॥ मूकं करोति वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ७॥ मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः । पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥ ८॥ मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥ ९॥ मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् । तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥ १०॥ मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः । मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ॥ ११॥ महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥ १२॥ महानुभावसंसर्गः कस्य नोन्नतिकारकः । रत्याम्बु जाह्नवीसंगात् त्रिदशैरपि वन्द्यते ॥ १३॥ मा निशाद प्रतिष्ठां त्वं अगमः शाश्वतीः समाः । यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥ १४॥ मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् । तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥ १५॥ मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च । तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥ १६॥ मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः । तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥ १७॥ मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १८॥ यत्र रामकथागानं तत्रास्ते हनुमान् यथा । संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ २१॥ यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ २२॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ २३॥ योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः । नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥ २४॥ यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या धिक् तां च तं च मदनं च इमां च मां च ॥ २५॥ ययोरैव समं वित्तं ययोरैव समं कुलम् । तयोर्मैत्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥ २६॥ यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥ २७॥ यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः । यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥ २८॥ यदि वा याति गोविन्दो मथुरातः पुनः सखी । राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥ २९॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ३०॥ यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि । यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥ ३१॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥ १॥ राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च । एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥ २॥ रत्नैर्महार्हैस्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥ ३॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पंकजश्रीः । इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ४॥ रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः । केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ५॥ रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः । पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ६॥ रामायणम् महाकाव्यम् महाभारतमेव च । उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ७॥ रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः निरालम्बो मार्गश्चरणविकलः सारथिरपि । रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥ ८॥ रजकश्चर्मकारश्च नटो वरुड एव च । कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥ ९॥ रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय । सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥ १०॥ रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम् प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि । शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥ ११॥ रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः । सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १२॥ लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् । सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥ १३॥ लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ १४॥ लोभमूलानि पापानि संकटानि तथैव च । लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥ १५॥ लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः । अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥ १६॥ लालने बहवो दोषास्ताडने बहवो गुणाः । अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥ १७॥ लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् । दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥ १८॥ लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता । दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ १९॥ लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः । शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥ २०॥ विद्याधिदेवता साक्षात् धन्या देवी सरस्वती । यत्प्रसादेन कुर्वन्ति काव्यानि कवयः खलु ॥ १॥ विषादप्यमृतं ग्राह्यं अमेध्यादपि काङ्चनम् । अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥ २॥ वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानम् समर्थस्य वृथा दीपो दिवापि च ॥ ३॥ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रम् धर्मो मित्रं मृतस्य च ॥ ४॥ वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा । मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥ ५॥ वृक्षाणामधिराजो नु नित्यमाम्रो विराजते । गन्धच्छायापुष्पफलैः यो रञ्जयति दुःखितान् ॥ ६॥ वृश्चिकस्य विषं पृच्छे मक्षिकाया मुखे विषम् । तक्षकस्य विषं दन्ते सर्वाङ्गे दुर्जनस्य तत् ॥ ७॥ वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि । तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥ ८॥ विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने स्नेहम् । विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः ॥ ९॥ विद्या विवादाय धनं मदाय खलस्य शक्तिः परपीडनाय । साधोस्तु सर्वं विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय ॥ १०॥ वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः । सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥ ११॥ वरं भृत्यविहीनस्य जीवनं श्रमपूरितं । मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥ १२॥ वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु । मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥ १३॥ विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः । आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ १४॥ वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः । करणं परोपकरणं येषं केषां न ते वन्द्याः ॥ १५॥ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥ १६॥ वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ १७॥ वाल्मीकिगिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥ १८॥ वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं । पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥ १९॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ २०॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिव्र्यसनं श्रुतौ प्रकृतिसिद्धमियं हि महात्मनाम् ॥ २१॥ वैद्यराज नमस्तुभ्यं यमराजसहोदर । यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च ॥ २२॥ वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके । प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व पयः क्व च चातकः ॥ २३॥ वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २४॥ वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥ २५॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥ २६॥ व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् । आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ॥ २७॥ वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः । आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥ २८॥ वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ २९॥ विलक्षणः शब्दकोषः विद्यते तव भारति । व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥ ३०॥ वेदान्तानां पुराणानां शास्त्रानां च तथैव च । मन्त्राणां तन्त्रसूत्राणामाद्यभाषास्ति संस्कृतम् ॥ ३१॥ वासंसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ ३२॥ वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् । यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥ ३३॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३४॥ वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः । त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥ ३५॥ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ३६॥ व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः । खनितेव हि कूपस्य प्रासादस्येव कारकः ॥ ३७॥ विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकप्रियैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ३८॥ विराटनगरे राजन् कीचकादुपकीचकम् । अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥ ३९॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात् मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ४०॥ सदाचारेण सर्वेषां शुद्धं भवति मानसम् । निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥ १॥ सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः । सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥ २॥ सदयं हृदयं यस्य भाषितं सत्यभूषितम् । देहः परहिते यस्य कलिस्तस्य करोति किम् ॥ ३॥ सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् । न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ ४॥ स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ ५॥ सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः । बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥ ६॥ सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः । न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥ ७॥ सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥ ८॥ स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ ९॥ समुद्रवसने देवि पर्वतावलिभूषिते । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १०॥ सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् । सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥ ११॥ सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् । स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥ १२॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ १३॥ सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् । विद्वान् कुलीनो न करोति गर्वं मुढास्तु जल्पन्ति गुणैर्वीहीनाः ॥ १४॥ सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः । तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥ १५॥ सम्पदो महतामेव महतामेव चापदः । वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥ १६॥ सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥ १७॥ सेवितव्यो महावृक्षः फलच्छायासमान्वितः । यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥ १८॥ सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः । मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥ १९॥ स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ । दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥ २०॥ स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः । तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥ २१॥ सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥ २२॥ सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं । अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥ २३॥ सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेश्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥ २४॥ सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः । तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥ २५॥ स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः । तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद् नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥ २६॥ सुलभाः पुरुषा लोके सततं प्रियवादिनः । अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥ २७॥ सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः । स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥ २८॥ सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् । दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ २९॥ सुभाषितेन गीतेन युवतीनां च लीलया । यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥ ३०॥ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥ ३१॥ साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥ ३२॥ सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् । मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥ ३३॥ सर्पा पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवराः क्षपयन्ति कालां सन्तोष एव पुरुषस्य परं निधानम् ॥ ३४॥ संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् । प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥ ३५॥ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥ ३६॥ स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ३७॥ साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् । सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥ ३८॥ स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः । तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥ ३९॥ सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं । प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥ ४०॥ स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ ४१॥ स्नेहं दयां च सौख्यं च यदि वा जीवनमपि । उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥ ४२॥ सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥ ४३॥ सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ४४॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ४५॥ सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन । घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥ ४६॥ सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥ ४७॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणी । विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करि ॥ ४८॥ सर्पराज नमामि त्वां क्रूरमप्युपकारकम् । क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥ ४९॥ Transliterated by Kedar Naphade
% Text title            : subhaashhita collection by Kedar Naphade
% File name             : subhaashhita-kedar-alpha.itx
% itxtitle              : subhAShita saNgraha
% engtitle              : Subhashita collection - Alphabetical
% Category              : subhAShita, subhaashita
% Location              : doc_z_misc_subhaashita
% Sublocation           : subhaashita
% Author                : Kedar Naphade
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : Kedar Naphade
% Proofread by          : Kedar Naphade
% Source                : Pre 1997 postings by Kedar, sorted alphabetically
% Latest update         : april 03, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP