पूर्वम्: १।१।९
अनन्तरम्: १।१।११
 
प्रथमावृत्तिः

सूत्रम्॥ नाज्झलौ॥ १।१।१०

पदच्छेदः॥ अज्झलौ १।२ तुल्यास्यप्रयत्नम् १।१ सवर्णम् १।१

समासः॥

अच् च हल् च अज्झलौ, इतरेतरद्वन्द्वः

अर्थः॥

तुल्यास्यप्रयत्नौ अपि अच्-हलौ परस्परम् सवर्णसंज्ञकौ न भवतः।

उदाहरणम्॥

दण्डहस्तः, कुमारी शेते। वैपाशो मत्स्यः, आनुडुहं चर्म।
काशिका-वृत्तिः
न अज्झलौ १।१।१०

अच् च हल् च, अज्झलौ। तुल्याऽस्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः। अवर्णहकारौ दण्डहस्तः, इवर्णशकारौदधि शीतम्, सवर्णदीर्घत्वं न भवति। वैपाशो मत्स्यः, आनडुहं चर्म इति यस्यैति च ६।४।१४८ इति लोपो न भवति।
न्यासः
नाज्झलौ। , १।१।१०

"तुल्यास्यप्रयत्नावपि" इति प्रसङ्गे हेतुमाह, प्रसङ्गपूर्वकत्वात् प्रतिषेधस्य। "दण्डहस्त" इत्यत्राकारहकारयोद्र्वयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम्, उभयोर्विवृतकरणत्वात् तुल्यप्रयत्नत्वम्(); "दधि शीतम्" इत्यत्राप्यत एव तुल्युप्रयत्नत्वम्, उभयोस्तालव्यत्वात् तुल्यस्थानत्वम्। "सवर्णदीर्घत्वं न भवति" इति प्रतिषेध- स्य फलं दर्शयति। ननु च अकः सवर्णे दीर्घविधौ ६।१।९७ "अचि"; इति वर्तते, तत्रासत्यपि प्रतिषेधे दीर्घत्वं न भविष्यति, यथा- कुमारी शेते इत्यत्र, तदयुक्तमे-वोदाहरणद्वयम्। स्यादेतत्- "अणुदित् सवर्णस्य चाप्रत्ययः" १।१।६८ इत्यकारेका- राभ्यां सावण्र्येन ग्रहणादच्त्वमस्ति, तथापि हल्षूपदेशाद् हल्त्वमप्यस्तीति न तावद्धकारश्कारवचावेव, अपि तु हलावपीति, सत्यमेतत्। अयं पुनरत्र वृत्तिकारस्याभि प्रायः- अवश्यं तावदन्यार्थं "नाज्झलौ" १।१।१० इत्येतत् कर्तव्यम्, यस्येति लोपा-भावार्थम्। तदन्यार्थं कृतमेतदर्थमपि स्यात्। एवं तह्र्रजनुवृत्तिद्वारेण दीर्घत्वाभावप्रतिपत्तौ साध्यायां यत् प्रतिपत्तिगौरवमापद्यते, तदपास्तं भवतीति। "वैपाशः" इति। विपाशि भव इत्यण्। "यस्येति च" ६।४।१४८ इत्यत्रेवर्ण उपादीयमानः सावण्र्येन शकारमप्युपादत्ते। एवं च तस्य लोपः प्रसज्येत। "आनहुहम्" इति। अनडुहो विकार इति "प्राणिरजतादिभ्योऽञ्" ४।३।१५२,तत्र "यस्येति च" ६।४।१४८ इत्यत्राकारो गृह्रकारो हकारमपि गृह्णीयात्, ततश्च पूर्ववत् तस्य लोपः स्यात्।
बाल-मनोरमा
नाऽ‌ऽज्झलौ १५, १।१।१०

एवं प्राप्ते प्रतिषेधति--नाज्झलौ। आसहितः अच्-आच्। शाकपार्थिवादित्वात्सहितशब्दस्य लोपः। आ च हस्व-आज्झलौ। तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते। तच्च पुँल्लिङ्गाद्विवचनान्ततया विपरिणम्यते। तदाह--अकारसहितोऽजित्यादिना। ननु किमर्थोऽयं प्रतिषेध इत्यत आह--तेनेत्यादि यणादिकं नेत्यन्तम्। तेन=प्रतिषेधेन। आदिना सवर्णदीर्घसङ्ग्रहः। दधीति इकारस्य हकारे षकारे सकारे च परे "इको यणचि" इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः। नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्लृकारसकारयोश्च सावण्र्यं, तथापि "दधि षष्ठ"मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह--अन्यथेत्यादिना। अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः। ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति। गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम्। करणे ल्युट्। स्वार्थे कः। अणुदित्सूत्रादित्यर्थः। यद्यप्यच्छब्द०वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति। ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः। न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः। अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात्। तथा च "अच्त्वं स्या"दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः। किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति।