पूर्वम्: १।१।१०
अनन्तरम्: १।१।१२
 
प्रथमावृत्तिः

सूत्रम्॥ ईदूदेद्द्विवचनं प्रगृह्यम्॥ १।१।११

पदच्छेदः॥ ईदूदेद्-द्विवचनम् १।१ प्रगृह्यम् १।१

समासः॥

ईच्च ऊच्च एच्च ईदूदेतः, द्वन्द्वः। ईदूदेतः अन्ते यस्य यस्य ईदूदेदन्तम्, बहुव्रीहिः। ईदूदेदन्तं च तत् द्विवचनं च ईदूदेद्द्विवचनं, कर्मधारयः तत्पुरुषः।

अर्थः॥

ईदाद्यन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति।

उदाहरणम्॥

अग्नी इति, वायू इति, माले इति। पचेते इति, पचेथे इति। इन्द्राग्नी इमौ, इन्द्रवायू इमे सुताः (ऋ॰ १।२।४)।
काशिका-वृत्तिः
ईदूदेद्द्विवचनं प्रगृह्यम् १।१।११

ईतूतेतित्येवमन्तं द्विवचनं शब्दरूपं प्रग्र्ह्यसंज्ञं भवति। अग्नी इति। वायु इति। माले इति। पचेते इति। ईदूदेतिति किम्? वृक्षावत्र। प्लक्षावत्र। द्विवचनम् इति किम्? कुमार्यत्र। किशोर्यत्र। तपरकरणम् असंदेहार्थम्। प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि नित्यम् ६।१।१२१ इत्येवम् आदयः। ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः। मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम। दम्पतीव। जम्पतीव। रोदसीव।
लघु-सिद्धान्त-कौमुदी
ईदूदेद् द्विवचनं प्रगृह्यम् ५१, १।१।११

ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥
न्यासः
ईदूदेद्?द्विवचनं प्रगृह्रम्। , १।१।११

अत्रेदादि यद्()द्विवचनम्,तत् प्रगृह्रमित्येवं वा विज्ञायते? ईदाद्यन्तं यद् द्विवचनम्, तत् प्रगृह्रमिति वा? तत्राद्ये पक्षे "पचेते" इत्यादौ प्रगृह्रसञ्ज्ञा न प्राप्नोति, न ह्रेकारमात्रमत्र द्विवचनम्; अपि तु आतेशब्द इति। इममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह- "ईदूदेदित्येवमन्तम्ित्यादि। नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्रत्र द्विवचनं न तदन्तम्? "आद्यन्तवदेकस्मिन्" १।१।२० इत्यनेनान्तवद्भावो भवतीत्यदोषः। "अग्नी" इति। " प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घत्वम्। अत्र प्रगृह्रसञ्ज्ञायां सत्याम् "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्रकृतिभावादितिशब्दे परतः "अकः सवर्णे" दीर्घत्वं ६।१।९७ न भवति। "वायु" इत्यत्रापि "इको यणचि" ६।१।७४ इति यणादेशः। शेषेष्वप्युदाहरणेष्वयादेशः। "खट्वे" इति। "औङ आपः" ७।१।१८ इति शीभावः। " आद्()गुणः" ६।१।८४। "पचेते" इति,"यजेते" इति। स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, "आतो ङितः" ७।२।८१ इतीयादेशः "लोपो व्योर्वलि" ६।१।६४ इति यलोपः। "वृक्षावत्र, प्लक्षावत्र" इति। भवत्येतद् द्विवचनम्; न त्वीदूदेदन्तम्। तेन प्रकृतिभावाभावादादेशो भवत्येव। "कुमार्यत्र" इति। "वयसि प्रथमे" ४।१।२० इति ङीपिकृते "कुमारी" इत्येतदीकारान्तम्(), न तु द्विवनचान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः। अथ तपरकरणं किमर्थम्?प्लुतनिवृत्त्यर्थमिति चेत्, न; इष्टत्वात् प्लुतस्य। यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्रसञ्ज्ञा सिध्यति, तथा भाष्ये "असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव"(म।भा।१।६६) इत्यादिना प्रतिपादितम्। गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्,न; "अभेदकत्वाच्छास्त्रे गुणानाम्" (सो।प।८०) इत्यत आह- "तपरकरणमसन्देहार्थम्" इति। असति हि तपरकरण ईकारस्योकारस्य च यणादेशः स्यात्। ततश्च सन्देह एव स्यात्()-किमिदं यकारवकारोयग्र्रहणम्, आहोस्विदिकारोकारयोरिति "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यातम्- वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन , सा च व्यवस्थित- विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव्, रोदसीवेति। मणीवेत्या- दयः शब्दा द्विवचनान्ताः। तत्रासति प्रगृह्रत्वे "अकः सवर्णे दीर्घः" (६।१।९७ एकादेशो भवत्येव।
बाल-मनोरमा
ईदूदेद्द्विचनं प्रगृह्रम् १०१, १।१।११

ईदूदेद्द्विचनम्। ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः। ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः। "द्विवचन"मित्यनेन तु प्रत्ययत्वे।ञपि न तदन्तं गृह्रते, "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती"ति तन्निषेधात्। तदाह--ईदूदेदन्तमित्यादिना। हरी एताविति। अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम्। प्रगृह्रत्वे सति "प्लुतप्रगृह्रा" इति प्रकृतिभावान्न यण्। विष्णू इमावित्यत्राप्येवम्। गङ्गे अमू इत्यत्र त्वयादेशो न भवति। "ईदूदेदन्त"मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति। तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत। एवं सति "पचेते" इत्यत्र "इते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः। "ईदूदेदन्तं यद्द्विचनान्त"मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात्। "ईदूदेदन्तं द्विवचन"मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात्। ननु "मणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे"ति भारतश्लोके "मणी इवे"ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति। "वं प्रचेतसि जानीयादिवार्थे च तदव्यय"मिति मेदिनी। "व वा यथा तथैवैवं साम्ये"इत्यमरः।

तत्त्व-बोधिनी
ईदूदेद्द्विवचनं प्रगृह्रम् ८१, १।१।११

ईदूदेदन्तमिति। अत्र विशेणेन तदन्तविध्याश्रयणं किम्?। "पचेते इमा"-विति यथा स्यात्। "हरी" "विष्णू" इत्यादिष्वेकादेशस्य परादिवद्भावाश्रयेण ईकारादीनां द्विवचनत्वादीदूदेद्रूपं द्विवचनमित्युक्तेऽपि प्रगृह्रत्वं सिध्यतीति बोध्यम्। द्विवचनमिति। "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति", "सुप्तिङन्त"-मित्यन्तग्रहणाज्ज्ञापकात्। तेन कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति सिद्धम्। "द्विवचनान्तं प्रगृह्रं स्या"दिति व्याकुर्वतः प्राचस्तु नेदं सिध्येत्। हरी एताविति। इह ह्यस्वसमुच्चितप्रकृतिभावो न, "प्लुतप्रगृह्राः" इत्यत्र नित्यग्रहणादित्युक्तम्। अत्र वृत्तिकारेण--"मणीवादीनां प्रतिषेधो वक्तव्यः" इति पठित्वा "मणीव" "रोदसीव" "जंपतीवे"त्युदाह्मतम्। तच्च मुनित्रयानुक्तत्वादप्रमाणमिति कैयटादयः। एवं स्थिते "मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममे"ति भारतप्रयोगं समर्थयते--इवार्थे इति। वशब्द इत्यादि। "वं प्रचेतसि जानीयादिवार्थे च तदव्यय"मिति मेदिनी। "व वा यथा तथैवैवं साम्ये" इत्यमरः। कादम्बखण्डितदलानि व पङ्कजानी"त्यादिप्रयोगदर्शनाच्चेति भावः।