पूर्वम्: १।१।१५
अनन्तरम्: १।१।१७
 
प्रथमावृत्तिः

सूत्रम्॥ सम्बुद्धौ शाकल्यस्येतावनार्षे॥ १।१।१६

पदच्छेदः॥ सम्बुद्धौ ७।१ ओत् १।१ १५ शाकल्यस्य ६।१ १७ इतौ ७।१ १७ अनार्षे ७।१ १७ प्रगृह्यम् १।१ ११

समासः॥

न आर्षः, अनार्षः, तस्मिन् अनार्षे, नञ्तत्पुरुषसमासः

अर्थः॥

सम्बुद्धि-निमित्तकः यः ओकारः, तस्य प्रगृह्यसंज्ञा भवति, शाकल्यस्य आचार्यस्य मतेन, अनार्षे (अवैदिके) इतौ परतः॥ शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसंज्ञा भविश्यति, अन्येषाम् आचार्याणां मतेन न भविष्यति। तेन शाकल्यग्रहणेन विकल्पः अपि सिध्यति॥

उदाहरणम्॥

(शाकल्यमते) वायो इति, (अन्येषां मते) वायविति। भानो इति, भानविति। अध्वर्यो इति, अध्वर्यविति॥
काशिका-वृत्तिः
सम्बुद्धौ शाकल्यस्यैतावनार्षे १।१।१६

ओतिति वर्तते। सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यसय् मतेन प्नगृह्यसंज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। सम्बुद्धौ इति किम्? गवित्ययमाह। अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषाऽर्थम्। इतौ इति किम्? वायो ऽत्र। अनार्षे इति किम्? एता गा ब्रहमबन्ध इत्यब्रवीत्।
लघु-सिद्धान्त-कौमुदी
सम्बुद्धौ शाकल्यस्येतावनार्षे ५७, १।१।१६

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
न्यासः
सम्बुद्धौ शाकस्येतावनार्षे। , १।१।१६

"सम्बुद्धिनिमित्तः" इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन "सम्बुद्धौ" इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् "हे त्रपो" इत्यत्र न स्यात्, "स्वमोर्नपुंसकात्" ७।१।२३ इति सम्बुद्धेर्लुप्तत्वादिति भावः। "सम्बुद्धौ च" ७।३।१०६ इति वत्र्तमाने "ह्यस्वस्य गुणः" ७।३।१०८ इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। "गवित्ययमाह" इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् "गो" इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- "अत्र" इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्- संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। "शाकल्यग्रहणं विभाषार्थम्" इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥
बाल-मनोरमा
संबुद्धौ शाकल्यस्येतावनार्षे १०६, १।१।१६

संबुद्धौ शाकल्यस्येति। सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति। "प्रगृह्र"मित्यनुवर्तते, स च पुँल्लिङ्गतया विपरिणम्यते। ऋषिः=वेदः। "तदुक्तमृषिणे"त्यादौ तथा दर्शनात्। ऋषौ भवः--आर्षः, न आर्षः-अनार्षः। अवैदिके इतिशब्दे परत इत्यर्थः। शाकल्यग्रहणाद्विकल्पस्तदाह--संबुद्धिनिमित्तक इति। विष्णो इतीति। अत्र ओकारो "ह्यस्वस्य गुण" इति सम्बुद्धिनिमित्तकः। अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम्। "विष्ण"वितीति प्रगृह्रत्वाऽभावे रूपम्।

तत्त्व-बोधिनी
संबुद्धौ शाक्ल्यस्यैतावनार्षे ८६, १।१।१६

संबुद्धौ। ऋषिर्वेदः "तदुक्तमृषिणा" इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति। संबुद्धौ किम्?। अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। न च "ओ"दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् , "अहो ईशा" इत्यादौ तस्य सावकाशत्वात्। इताविति किम्?। पटोऽत्र।