पूर्वम्: १।१।१८
अनन्तरम्: १।१।२०
 
प्रथमावृत्तिः

सूत्रम्॥ दाधा घ्वदाप्॥ १।१।१९

पदच्छेदः॥ दाधाः १।३ घु १।१ अदाप् १।१

समासः॥

दाश्च धाश्च इति दाधाः, इतरेतरद्वन्द्वः।
दाप् च दैप् च दाप्, न दाप् अदाप्, नञ्तत्पुरुषः।

अर्थः॥

दारूपाः, धारूपाश्च धातवः घुसंज्ञकाः भवन्ति, दाप्दैपौ वर्जयित्वा। दारूपाः चत्वारः धातवः - डुदाञ् दाने, दाण् दाने, दोऽवखण्डने, देङ् रक्षणे इति। धारूपौ अपि द्वौ धातू - डुधाञ् धारणपोषणयोः, धेट् पाने इति।

उदाहरणम्॥

प्रणिददाति, प्रणिदीयते, प्रणिदाता। प्रणियच्छति। प्रणिद्यति। प्रणिदयते। प्रणिदधाति, प्रणिधीयते, प्रणिधाता। प्रणिधयति। देहि। धेहि।
काशिका-वृत्तिः
दाधा घ्वदाप् १।१।२०

दारूपाश्चत्वारो धातवः, धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति। डुदाञ् प्रणिददाति। दाण् प्रणिदाता। दो प्रणिद्यति। देङ् प्रणिदयते। डुधाञ् प्रणिदधाति। धेट् प्रणिधयति वत्सो मातरम्। अदापिति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातं मुखम्। घुप्रदेशाः घुमास्थागापाजहातिसां हलि ६।४।६६ इत्येवमादयः।
लघु-सिद्धान्त-कौमुदी
दाधा घ्वदाप् ६२६, १।१।१९

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥
न्यासः
दाधा घ्वदाप्। , १।१।१९

"दाधा" इति। दारूपाणां चतुर्णां कृतैकशेषाणां धारूपयोद्र्वयोश्च कृतै कशेषयोद्र्वन्द्वः। ननु च लक्षण प्रततिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, न तु लाक्षणिकस्य" (व्या।प।३), इत्यनया परिभाषया "दो अवखण्डने" (धा।पा।११४८), "देङ रक्षणे" (धा।पा।९६२), "धेट् पाने" (धा।पा।९०२) इत्येतेषां ग्रहणं न स्यात्? नैतदस्ति; तस्या हि परिभाषायाः "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इत्यपवादोऽ स्ति, तेन सत्यपि लाक्षणिकत्वेदोदेङौ तावद् गृह्रेते। धेटोऽपि लिङ्गाद् ग्रहणमनुमीयते। तत् पुनर्लिङं दैपः पकारानुबन्धः,स हि "अदाप्" इति दाप्प्रतिषेधसामान्य- ग्रहणार्थः क्रियते। यदि चास्याः परिभाषाया इह व्यापारः स्यात्, दैपः पकारानुबन्धकरणमनर्थकं स्यात्। लाक्षणिकत्वादेव ह्रस्य ग्रहणं न भविष्यतीति किं प्रतिषेधेऽस्य ग्रहणेन? ननु लाक्षणिकमपि दारूपं धारूपं च धेटो नोपपद्यत एव, सानुबन्धकस्य ह्रनेजन्तत्वादात्त्वानुपपत्तेः? नैष दोषः यदयम् "उदीचां माङो व्यतीहारे" ३।४।१९ इति मेङ सानुबन्धकस्यात्त्वभूतस्य निर्देशं करोति , तज्ज्ञापयति- नानुबन्धकृत- मनेजन्तत्वम्"(शा।प।१५) इति। ननु च "माङ माने" (धा।पा।११४२) इत्यस्याप्यसौ निर्देशः स्यात्, तत् कथं ज्ञापकम्? नैतदस्ति। "मेङ प्रणिदाने" (धा।पा। ९६१) इत्ययमेव व्यतीहारे वर्तते, न "माङ माने" (धा।पा।११४२) इति। तस्मान् मेङ एवायं कृतात्त्वस्य निर्देशो ज्ञापनार्थः। "प्रणिददाति" इति। "नेर्गदनदपतपदघुमास्यतिहन्ति" ८।४।१७ इत्यादिना घुसञ्ज्ञायां सत्यामिह णत्वं भवति। "प्रणिदाता" इति। तृजन्तम्। "प्रणिद्यति" इति। "ओतः श्यनि" ७।३।७१ इत्योकारलोपः। अशिद्विषये दारूपोऽयं भवतीत्यत्र घुसञ्ज्ञा प्रवत्र्तत एव। "दातं बर्हिः" इति। घुसञ्ज्ञाया अभावात् "दो दद्()घोः" ७।४।४६ इति ददादेशो न भवति। "अवदातम्" इति। अत्रापि "निष्ठा" ३।२।१०२ इति क्तप्रत्ययः।अत्र "अच उपसर्गात्तः" ७।४।४७ इति तकारादेशो न भवति।
बाल-मनोरमा
दाधाघ्वदाप् २१०, १।१।१९

आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति-- दाधाघ्वदाप्। "दे"त्यनेन स्वाभाविकाऽ‌ऽकारान्तयोः "डु दाञ् दाने" "दाण् दाने" इत्यनयोः, कृतात्वयोः "दो अवखण्डने" "देङ् रक्षणे" इत्यनयोर्लाक्षणिकयोश्च, "धे" त्यनेन स्वाभाविकाकारान्तस्य "डु धाञ् धारणपोषणयो"रित्यस्य, लाक्षणिकस्य "धेट् पाने" इत्यस्य च ग्रहणम्। "गामादाग्रहणेष्वविशेषः" इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च। अत एव "दो दद्धो"रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः। तदाह--दारूपा धारूपाश्चेति।

तत्त्व-बोधिनी
दाधा घ्वदाप् १८२, १।१।१९

दाधा घ्वदाप्। इह दारूपाश्चत्वारः-- डुदाञ् दाने। दाण् दाने। दो अवखण्()डने। देङ् रक्षणे। धारुपौ तु द्वौ--- डुधाञ् धारणपोषणयोः। धेट् पाने। अनुबन्धानामनेकान्तत्वात् "आदेच उपदेशे" इत्यात्वेदोदेङ्धेटामनुकरणे दादारूपत्वमस्ति। एवं च दाश्च दाश्च दाश्च दाः। धाश्च धाश्च धौ। दाश्च धौ च दाधा इति विग्रहः। दाप्दैपौ विनेति। दाप् लवने। दैप् शोधने-- एतद्भिन्ना इत्यर्थः। दैपः पित्त्वमिह प्रतिषेधार्थं, न त्वनुदात्तार्थम्, "अनुदात्तौ सुप्पितौ" इति प्रत्ययस्यैव पितोऽनुदात्तत्वात्। न च दैपो लाक्षणिकत्वान्नाऽस्य प्रतिषेध इति शङ्क्यं, पित्करणस्यानर्थक्यप्रसङ्गात्। इदमेव च दैपः पित्त्वं "गामादाग्रहणेष्वविशेषः" इति परिभाषाया ज्ञापकमित्याहुः। अदाबिति किम्?। दातं बर्हिः। लूनमित्यर्थः। इह "दो दद्धो"रिति दद्भावो न। अवदातं मुखम्। शुद्धमित्यर्थः। इह तु "अच उपसर्गा" दिति तादेशो न।