पूर्वम्: १।१।२१
अनन्तरम्: १।१।२३
 
प्रथमावृत्तिः

सूत्रम्॥ बहुगणवतुडति सङ्ख्या॥ १।१।२२

पदच्छेदः॥ बहुगणवतुडति १।१ सङ्ख्या १।१ २४

समासः॥

बहुश्च गणश्च वतुश्च डतिश्च बहुगणवतुडति समाहारद्वन्द्वः

अर्थः॥

बहुगणशब्दौ, वतुडतिप्रत्ययान्तौ च शब्दौ, सङ्ख्यासंज्ञकाः भवन्ति।

उदाहरणम्॥

बहुकृत्वः, बहुधा, बहुकः, बहुशः। गणकृत्वः, गणधा, गणकः, गणशः। तावत्कृत्वः, तावद्धा, तावत्कः, तावच्छः। कतकृत्वः, कतिधा, कतिकः, कतिशः॥
काशिका-वृत्तिः
बहुगणवतुडति सङ्ख्या १।१।२३

बहु गण वतु इत्येत सङ्ख्यासंज्ञा भवन्ति। बहुकृत्वः। बहुधा। बहुकः। बहुशः। गणकृत्वः। गणधा। गणकः। गणशः। तावत्कृत्वः। तावद्धा। तावत्कः। तावच्छः। कतिकृत्वः। कतिधा। कतिकः। कतिशः। बहुगणशब्दयोर् वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव। भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासंज्ञा विधीयते। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम्। अर्धपञ्चमशूर्पः। अर्धं पञ्चमं येशाम् इति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः। तद्धितार्थैति समासः। तत्र दिक्सङ्ख्ये संज्ञायाम् २।१।४९ इत्यनुवृत्तेस् ततः सङ्ख्यापूर्वस्य द्विगुसंज्ञायां शूर्पादञन्यतरस्याम् ५।१।२६ इति अञ् ठञ् च। अध्यर्धपूर्वद्विगोर् लुगसंज्ञायाम् ५।१।२८ इति लुक्। अर्धपञ्चमकः। सङ्ख्याप्रदेशाःसङ्ख्या वंश्येन २।१।१८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
बहुगणवतुडति संख्या १८६, १।१।२२

न्यासः
बहुगणवतुडति संख्या। , १।१।२२

अत्र बहुगणशब्दौ प्रातिपदिके, वतुडती प्रत्ययौ। "बहुकृत्वः" इति- " सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्" ५।४।१७। "बहुधा" इति- "सख्याया विधार्थे धा" ५।३।४२ "बहुकः" इति- "सख्याया अतिशदन्तायाः कन्" ५।१।२२ "तावत्कृत्वः" इत्यादि- तच्छब्दात् "यत्तदेतेभ्यः परिमाणे वतुप्" ५।२।३९ इति वतुपि कृते "आ सर्वनाम्नः" ६।३।९० इत्यात्त्वे कृते "तावत्" इति भवति; किंशब्दात् किमः संख्यापरिमाणे डतौ कृते टिलोपे च "कति" इति भवति; ताभ्यां पूर्ववदेव कृत्वसुजादयः। "बहुगणशब्दयोः" इत्यादि। बहुशब्दोऽयं संख्यावचनोऽप्यस्ति, वैपुल्यवचनोऽ पि; गणशब्दः संख्यावचनोऽप्यस्ति, सङ्घवचनोऽपि; तत्र यौ वैपुल्य्सङ्घवचनौ,तयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव तयोस्त्वेषा सङ्ख्यासंज्ञा विधीयते,तत्कथं संख्ये- त्यन्वर्थसंज्ञेयम्- संख्यायतेऽनया संख्या ! न च यो वैपुल्ये बहुशब्दो वत्र्तते, यश्च सङ्घे गणशब्दः, ताभ्यां संख्यायते। तथा हि- "बहुरोदनः" इत्युक्ते वैपुल्यं गम्यते; तथा "महान् भिक्षौउमां गणः" इत्युक्ते सङ्घः,न तु संख्यानम्। तस्मादन्वर्थसंज्ञाकरणाद् यावेकद्विसंख्याव्यवच्छेदेन संख्याविशेषमाहतुः, तयोरेव ग्रहणम्। यद्येवम्,किमर्थं तयोरियं संज्ञा विधीयते, यावता संख्यावाचिनौ तौ लौकिकसंख्यायामन्तर्भूतौ? लौकिकी च संख्या शास्त्रे गृह्रत एव; अन्यथा "संख्याया अतिशदन्तायाः कन्" ५।१।२२ इत्यत्र "अतिशदन्तायाः" इति प्रतिषेधोऽनर्थकः स्यात्(), शास्त्रीयायाः संख्याया अतिशदन्ताया अभावादित्यत् आह- "भूर्यादीनां निवृत्त्यर्थम्" इति। भूरि- प्रभूतमित्येवमादयस्तज्जातीयाः प्रचुरविशेषवाचिनः सन्ति, तेषां मा भूदित्येवमर्थ बहुगणशब्दयोः संख्यासंज्ञा विधीयते। तदेतेन नियमार्थमेतयोः संज्ञाविधानमेतदिति दर्शयति। तुल्यजातीयापेक्षया हि नियमः। अतस्तुल्यजातीयानां भूर्यादीनामेव नियमेन व्यावृत्तिः क्रियते, नान्येषाम्। "अर्धपूर्वपदश्च" इति। अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस् सोऽर्ध- पूर्वपदः, स च संख्यासंज्ञो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह- "समासकन्विध्यर्थम्" इति। तत्रेदं व्याख्यानम्- "डति च" १।१।२४ इत्यत्र यश्चकारः, स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते। स चानुक्तसमुच्चयार्थः। तेनार्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति। अर्धपञ्चमशूर्पः" इति। अर्धं पञ्चमं येषामिति बहुव्रीहिः। अर्धपञ्चमैः शूर्पैः क्रीतमिति "तद्धितार्थोत्तरपदसमा- हारे च" ५।१।५० इति समासः। "संख्यापूर्वो द्विगुः" २।१।५१ इति द्विगुसंज्ञा। " शूर्पादञन्यतरस्याम्" ५।१।२६ इति विहितस्याञष्ठञो वा "अध्यर्धपूर्वद्विगोर्लुग- संज्ञायाम्" ५।१।२८ इति लुक्। "अर्धपञ्चकः" इति। "संख्याया अतिशदन्तायाः कन्"५।१।२२
बाल-मनोरमा
बहुगणवतुडति सङ्ख्या २५६, १।१।२२

अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण। बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः। एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः। फलितमाह-एते इति। बह्वादय इत्यर्थः। बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते। न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात्। वतुडती प्रत्ययौ। संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात्। वतुरिह "यत्तदेतेभ्यः परिमाणे वतु"विति तद्धितप्रत्ययो गृह्रते, न तु "तेन तुल्यं क्रिया चेद्वति"रिति वतिरपि, उकारानुबन्धात्। डतिरपि "किमः सङ्ख्यापरिमाणे डति च " इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात्। न तु भातेर्डवतुरिति विहितः कृदपि। ननु "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु"जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात्। न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि, "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः" इति न्यायात्। ततश्च "पञ्चकृत्वः" इत्यादि न स्यादिति चेन्न, "सङ्ख्याया अतिशदन्तायाः कनि"त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात्। नहि विंशतितिं()रशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति। नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात्। अत एव भाष्ये "एतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह" इत्युक्तं सङ्गच्छते इत्यस्तां तावत्।

तत्त्व-बोधिनी
बहुगणवतुडति सङ्ख्या २१७, १।१।२२

बहुगणवतु। बहुगणौ प्रतिपादके सङ्ख्यावाचके गृह्रते न तु सङ्घवैपुल्यवाचके अपि, सङ्ख्यायते अन्येत्यान्वर्थसंज्ञाविज्ञानात्। अत एव डतिरपि "किमः सङ्ख्यापरिमाणे डति चे"ति विहितस्तद्धित एव गृह्रते, "वतु"साहचर्याच्च। न तु "पातेर्डतिः"। यद्यपि संज्ञाविधौ प्रत्यग्रहणे तदन्तग्रहणं नास्ति तथापीह वतुडत्योः केवलयोः संज्ञाविधौ फलाऽभावादन्वर्थताबलाच्च तदन्तयोरेव संज्ञा प्रवर्तते। सानुवन्धनिर्देशस्तु "व्राहृणबद्वसति"रित्यदावतिप्रसङ्गशङ्कां निराकर्तुमित्याहुः। न चैवं सङ्ख्याकार्येषु कृत्वसुजादिषु कृत्रिमसङ्ख्याया एव ग्रहणं स्यान्न त्वकृत्रिमाया इति "पञ्चकृत्व"इत्यादि न सिध्येत्, कृत्रिमाऽकत्रिमयोः कृत्रिमे कार्यसंप्रत्ययादिति वाच्यम्; "सङ्ख्याया अतिशदन्तायाः क"न्नित्यत्रातिशदन्तपर्युदासबलेन सङ्ख्याकार्येषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तेः। नन्वेवं भूरिशब्दात्कृत्वसुच्प्रत्ययप्रसङ्ग इति चेदत्राहुः-"अनियतसङ्ख्यावाचिनां चेत्सङ्ख्याकार्यं स्यात्तर्हि वहुगणयोरेवे"त्येवंभूतनियमफलसङ्ख्याविज्ञानान्नास्त्यतिपर्सङ्ग इति।