पूर्वम्: १।१।३३
अनन्तरम्: १।१।३५
 
प्रथमावृत्तिः

सूत्रम्॥ स्वमज्ञातिधनाख्यायाम्॥ १।१।३४

पदच्छेदः॥ स्वम् १।१ अज्ञातिधनाख्यायाम् ७।१ विभाषा १।१ ३१ जसि ७।१ ३१ सर्वनामानि १।३ २६

समासः॥

ज्ञातिश्च धनं च ज्ञातिधने, ज्ञातिधनयोः आख्या ज्ञातिधनाख्या, द्वन्द्वगर्भषष्ठीतत्पुरुषः। न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्यां अज्ञातिधनाख्यायाम्, नञ्तत्पुरुषः।

अर्थः॥

अनेकार्थः अयं स्व-शब्दः। ज्ञति-धन-आत्मीयवाची च, तत्र ज्ञातिधनाभिधायकं स्वशब्दं वर्जयित्वा अन्यत्र स्वशब्दस्य जसि विभाषा सर्वनामसंज्ञा भवति।

उदाहरणम्॥

स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वाः गावः। आत्मीयाः इत्यर्थः।
काशिका-वृत्तिः
स्वम् अज्ञातिधनाऽख्यायाम् १।१।३५

अत्र अपि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते। स्वम् इत्येतच्छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति , न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते। स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वा गावः। आत्मीयाः इत्यर्थः। ज्ञातिप्रतिषेधः इति किम्? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः। उल्मुकानि इव मे ऽमी स्वा ज्ञातयो भरतर् षभ। अधनाख्यायाम् इति किम्? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते। प्रभूतानि धनानि इत्यर्थः।
लघु-सिद्धान्त-कौमुदी
स्वमज्ञातिधनाख्यायाम् १५७, १।१।३४

ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः; आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोर्ऽथा वा॥
न्यासः
स्वमज्ञातिधनाख्यायाम्। , १।१।३४

"अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता" इति। गणपाठात्। एवमुत्तरत्रापि वेदतव्यम्। "न चेत्" इत्यादिना ज्ञातिधनाख्याशब्दस्यार्थमाचष्टे। यत्र च शब्दान्तर- निरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे, तत्रासौ संज्ञारूपेण तयोर्वत्र्तते। "आत्मीया इत्यर्थः" इति। कथं पुनरयमर्थः, यावता "स्वे पुत्त्राः" इति ज्ञात्यर्थो गम्यते, "स्वे गावः" इति धनार्थः? नैतदस्ति; पुत्त्रगोशब्दसान्निध्यादतदुभयं गम्यते। स्वशभ्देनात्मीयत्वमात्रं गम्यते- "स्वा ज्ञातयः" इति। प्रभूता स्वा इति चोभयत्र शब्दान्तरमनपेक्ष्य ज्ञातिधने स्वरूपेणैव स्वशब्देनाभिधीयेते। यद्येवम्, ज्ञातय इत्यनुप्रयोगो नोपपद्यते; पर्यायत्वात्, यथा- वृक्षशब्दप्रयोगे सति तरुशब्द- शब्दस्यानुप्रयोगो विरुध्यते, नैष दोषः; पर्यायशब्दस्य हि यत्रानेकार्थो भवति सन्दिग्धार्थो वा, तत्र तदर्थस्यैव व्यक्तीकरणार्थः पर्यायान्तरस्यानुप्रयोगो न विरुध्यते; यथा- मेघाद्यनेकार्थवृत्तेर्वराहकशब्दस्य प्रयोगे शूकरशब्दस्य प्रयोगः। तथा सन्दिग्धार्थस्य पिकशब्दस्य प्रयोगे कोकिलशब्दस्य ! स्वशब्दश्चायमनेकार्थः, तत्रासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्तः- इति सन्देह स्यात्।
बाल-मनोरमा
स्वमज्ञातिधनाख्यायाम् २१७, १।१।३४

स्वमज्ञाति। अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते। ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम्--अज्ञातिधनाख्यायाम्। "स्व"मिति शब्दस्वरूपापेक्षया नपुंसकत्वम्। तदाह--ज्ञातिधनान्येति। स्वेस्वा इति। सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः। आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः। "स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने" इत्यमरः। अत्र "स्वो ज्ञातावात्मनी"त्येकं वाक्यम्। ज्ञातावात्मनि च स्वशब्दः पुँल्लिङ्ग इत्यर्थः। "स्वं त्रिष्वात्मीये"इति द्वितीयं वाक्यम्। आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः। "स्वोऽस्त्रियां धने" इति तृतीयं वाक्यम्। धने स्वशब्दः पुंनपुंसक इत्यर्थः। "स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये।ञस्त्रियां धने" इति मेदनीकोशः। तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे--आत्मीया इत्यर्थः। आत्मान इति वेति। ज्ञातिधनपर्युदासस्य प्रयोजनमाह--ज्ञातिधनवाचिनस्त्विति। ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि "स्वाः" इत्येव रूपमित्यर्थः। नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः।