पूर्वम्: १।१।४२
अनन्तरम्: १।१।४४
 
प्रथमावृत्तिः

सूत्रम्॥ न वेति विभाषा॥ १।१।४३

पदच्छेदः॥ वा इति विभाषा १।१

अर्थः॥

न इति निषेधार्थः, वा इति विकल्पार्थः, अनयोः निषेध-विकल्पार्थयोः विभाषा-संज्ञा भवति।

उदाहरणम्॥

शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। दक्षिणपूर्वस्यै, दक्षिणपूर्वायै।
काशिका-वृत्तिः
न वाइति विभाषा १।१।४४

न इति प्रतिषेधः, वा इति विकल्पः। तयोः प्रतिषेधविकल्पयोः विभाषा इति संज्ञा भवति। इतिकरणो ऽर्थनिर्देशार्थः। विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते। तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते। उभयत्रविभाषाः प्रयोजयन्ति। विभाषा श्वेः ६।१।३० शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। विभाषाप्रदेशाः विभाषा श्वेः ६।१।३० इत्येवम् आदयः।
न्यासः
न वेति विभाषा। , १।१।४३

नवेति शब्दोऽयमेको निपातोऽप्यस्ति प्रतिषेधवाची, यथा-"नवा वक्तव्यं भुक्तार्थत्वात्" इत्यादौ भाष्यवाक्ये। तस्येह यदि ग्रहणं स्यात् "विभाषा दिक्समासे बहुव्रीहौ" १।१।२७ इत्युक्त्वा "न बहुव्रीहौ" १।१।२८ इत्यत्र तु पुनः प्रति- षेधोपादानमनर्थकं स्यात्। तस्मान्न निपातसमुदायोऽयमिति दर्शयन्नाह- "नेति प्रतिषे- धः" इत्यादि। ननु चान्यत्र संज्ञासंज्ञिसम्बन्धप्रक्रियाया हि शास्त्रे शब्दस्यैव ग्रहणं प्रसिद्धम्, यथा तरप्तमपौ घः" १।१।२१ "दाधा घ्वदाप्" १।१।१९ इति, तथेहापि नवाशब्दयोरेव ग्रहणं युक्तम्। तत् कथं तदर्थयोः संज्ञा लभ्यत इत्याह-"इतिकरणः" इत्यादि। क्रियत इति करणः, इतश्चासौ करणश्चेतीतिकरणः, सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः। इतिशब्दो हि विपर्यासकृत्। यथा गवित्यर्थमाहेति गोशब्दात् परतः प्रयुज्यमान इतशब्दस्तमर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति, तथा "नवा" शब्दाभ्यां परः इति शब्दः प्रयुज्यमानः, तौ स्वरूपपदार्थक- त्वात्प्रच्याव्यार्थपदार्थकत्वे व्यवस्थापयति। तस्मादर्थनिर्देशार्थ एवेतिशब्दः कृत इति नवेति यावर्थौ प्रतीयेते प्रतिषेधविकल्पौ, तयोरेवेयं संज्ञा भवति; न नवाशब्द- योः। "तत्र प्रतिषेधेन" इत्यादिना प्रतिषेधविकल्पयोः प्रवृत्तिक्रमं व्यापारबेदं च दर्शयति। "समीकृते" इति। तुल्यतामापादिते। "विकल्पः प्रवत्र्तते" इति। पक्षे कार्यसम्पादनाय। ननु च वाशब्द एव विकल्पार्थत्वेन लोके प्रसिद्धः, प्रदेशेष्वयमुपादीयमानो विकल्पेन कार्यं सम्पादयिषयति। तथा हि प्राप्ते वा कार्ये विकल्पः क्रियताम्? यदि प्राप्ते? तत्र प्राप्तिरस्त्येवेति प्रतिषेध एव पक्षे कत्र्तव्यः। अथाप्राप्ते? तत्र प्राप्तिपूर्वकत्वात् प्रतिषेधस्य तामन्तरेण स न युज्यत इति विधिरेव पक्षे कत्र्तव्यः, न प्रतिषेधः। एतच्चोभयं वाशब्द एव शक्तः प्रयुज्यमानः सम्पादयितुम्। तत् किमर्थमियं संज्ञा क्रियत इत्याह- "उभयत्र विभाषाः प्रयोजन्ति" इति। प्रकृतत्वात् संज्ञामिति गम्यते। "विभाषा श्वेः" (६।१।३०) इत्यत्र प्रतिषेधमुखेन वाशब्दस्य प्रवृत्तिः स्यात्? विधिमुखेन वा? तत्र यदि प्रतिषेधमुखेन वा न भवतीत्येवं प्रवृत्तिः? प्राप्तिपूर्वकत्वात् प्रतिषेधस्य यत्र स एव तस्य विषय इति कित्स्वेव विकल्पेन प्रतिषेधायेदं प्रवत्र्तते। तत्र "वचिस्वपि" ६।१।१५ इत्यादिना ()आयतेः सम्प्रसारणस्य विहितत्वात्, न पित्सु; तत्र तस्य न केनचिद्विहितत्वात्। एकत्वच्चा- स्य वाक्यस्य कित्सु च प्रतिषेधसम्पादन एव चरितार्थत्वात् नोपपद्यते पुनर्विधिमुखेन प्रवृत्तिः। अथ विधिमुखेन वा भवतीत्येवं प्रवृत्तिः स्यात्? यत्र प्राप्तिर्ना- स्ति स एव विधिविषय इति पित्स्वेव विकल्पेन विध्यर्थः प्रवत्र्तते;तत्र चरितार्थ- त्वात् न कित्सु। संज्ञाविधाने तु न दोषः; तस्यां हि सत्यां प्रतिषेधः प्रवत्र्त- मानो योऽसौ सम्प्रसारणनिमित्तानिमित्तभेदाद्विषय आसीत् तं समीकरोति। सर्वस्याः सम्प्रसारणनिमित्ततया तुल्यतामापादयति।तस्मिन् समीकृते किति च पिति च विकल्पः प्रव- त्र्तमानो विधिमुकेन सर्वत्र पाक्षिकं कार्यं सम्पादयति, सम्प्रसारणं पक्षे भवतीति। अप्राप्तिस्तु पक्षे स्थितैवेति सर्वमिष्टं सिध्यति। तस्मादुभयत्र प्राप्तावप्रा- प्तौ विभाषार्थमियं संज्ञा विधीयते। शुशावेति। "टुओ()इआगतिवृद्ध्योः" (धा।पा।१०१०), लिट्(), णल्, संप्रसारणे कृते वृद्ध्यावादेशौ। "शुशुवतुः,शि()इआयतुः" इति। "अचि श्नुधातु" ६।४।७७ इत्यादिना इयङुवङौ॥
बाल-मनोरमा
न वेति विभाषा २६, १।१।४३

न वेति विभाषा। "मेध्यः पशुरनड्वान्विभाषितः" इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः। इह तु शास्त्रे निषेधो विकल्पश्चेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुमिदमारभ्यते। इतिशब्दाभावे, स्वं रूपं शब्दस्येति नवाशब्दयो स्वरूपपरत्वान्नवाशब्दयोर्विभाषासंज्ञेत्यर्थः स्यात्। ततश्च "विभाषा ()ओ" रित्यादौ नवाशब्दा४वादेशौ स्याताम्। इतिकरणे तु नायं दोषः। इतिर्हि प्रत्येकं संबध्यते। ततश्च "न" इति शब्देन योऽर्थो गम्यते निषेधः, "वा" इति शब्देन योऽर्थो गम्यते विकल्पस्तदुभयस्य मिलितस्य विभाषासंज्ञा स्यादित्यर्थः फलति। एवंच नवाशब्दार्थयोरेव संज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः। तदाह-निषेधविकल्पयोरित्यादि। उभयत्रविभाषार्थमिदं सूत्रम्। तथाहि--(प्राप्तविभाषा अप्राप्तविभाषा उभयत्रविभाषेति) त्रिविधा विभाषा। प्राप्तविभाषा यथा-विभाषा जसीति। वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र हि द्वन्द्वे चेति नित्यतया सर्वनामसंज्ञानिषेधे प्राप्ते विभाषेयम्। अप्राप्तविभाषा यथा--तीयस्य ङित्सु विभाषेति। द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाऽभावादप्राप्ताया#ं सर्वनामसंज्ञायां विभाषेयम्। उभयत्रविभाषा यथा--विभाषा ()ओरिति। ()आयतेर्लिटि यङि च संप्रसारणविभाषेयम्। तत्र लिटि शुशाव, शि()आआय, शुशुवतुःशि()आयतुरित्याद्युदाहरणम्। यङि तु शोशूयते इति। अत्र यङंशेऽप्राप्तविभाषैवेयम्। लिटि तु द्विवचनबहुवचनेष्वपित्सु "वचिस्वपियजादीनां किति" इति नित्यतया सम्प्रसारणं प्राप्तम्, पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव। "असंयोगाल्लिट् कित्" इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः। एवं च प्राप्तेऽप्राप्ते चारम्भात् "विभाषा ()ओ"रित्युभयत्रविभाषेति स्तितिः। तत्र यदि "नवेति विभाषा" इति सूत्रं नारभ्येत, तर्हि "अनड्वान्विभाषितः" इत्यादियाज्ञिकप्रयोग इव विभाषा ()ओरित्यत्रापि केवलविकल्पः प्रतीयेत। भावोऽभावश्चेति द्वयं तावद्विकल्पः। ततश्च विभाषाश्रुतौ प्रवृत्तिस्दभावश्चेति द्वयमपि विधेयमिति लभ्यते। तत्र यदि "विभाषा श्वेः"इति विकल्पो विधिमुखः--"लिटि ()आयतेः सम्प्रसारणं भवति न भवती-ति तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात्। तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भवनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधयम्। कित्सु तु प्रवृत्तिर्न स्यात्। तेषु हि वचिस्व पियजादीनां कितीति प्राप्तत्वात् प्रथमं भवनांशो न विधेयः। न भवतीत्यंश एव विधेयः। एवं च उभयांशविधेयत्वाऽलाभात्तत्र विकल्पविधिरयं न प्रवर्तेत, तत्र नित्यमेव सम्प्रसारणं स्यात्। यदि तु विकल्पो निषेधमुखः --लिटि ()आयतेः सम्प्रसारणं न भवति भवती"ति, तर्हि कित्स्वेव प्रवृत्तिः स्यात्। तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम्। अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम्। पित्सु तु प्रवृत्तिर्न स्यात्। तत्र सम्प्रसारणस्याऽप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनर्हत्वात्। न च पित्सु विधिमुखः कित्सु निषेधमुख इत्युभयथापि प्रवृत्तिरिति वाच्यम्। सकृच्छ()तस्य विभाषाशब्दस्य क्वचिद्विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामथ्र्यात्। आवृत्त्या तद्बोधने तु स एव दोषः। "नवेति विभाषे"त्यारम्भे तु श्रुतक्रमानुरोधेन बोधान्नेत्यंशेन कित्सु पूर्वं निषेधः प्रवर्तते। ततः किदकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते। तदेवमुभयत्रविभाषार्थमिदं सूत्रम्। प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात्। अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात्। नचैवमपि "उणादयो बहुलं""ह्मकोरन्यतरस्याम्""छन्दस्युभयथा" "अनुपसर्गाद्वा" इत्यादिविधिषु विभाषाशब्दाऽभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारमिति वाच्यम्, विभाषाशब्दस्याऽत्र सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवं च लोके ये विकल्पपर्यायाः शब्दास्ते सर्वेऽस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम्। भाष्ये तु विभाषादिशब्दानां लोकवदेव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्तेरेतत्सूत्रं प्रत्याख्यातमित्यलं बहुना।

तत्त्व-बोधिनी
न वेति विभाषा २३, १।१।४३

न वेति विभाषा। "ने"ति प्रतिषेधो "वे"ति विकल्पस्तदाह-निषेधविकल्पयोरिति। "विभाषाश्वेः" इत्यादिषु प्रतिषेधविकल्पावुपतिष्ठेते, तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते। शुशाव शि()आआयेत्यत्राऽप्राप्तौ विकल्पः, शुशुवतुः शि()इआयतुरित्यादौ तु "वचिस्वपी"ति नित्यप्राप्ताविति विवेकः। अत्रेदं बोध्यम्-"इति" शब्दः काकाक्षिन्यायेनेभाभ्यां सम्बध्यते। स च पदार्थविपर्यासकृत्। तेन निषेधो विकल्पश्च नवाशब्दार्थः संज्ञी। विभाषाशब्दार्थो विकल्पः संज्ञा। उभयत्रविभाषार्थं चेदं सूत्रम्। प्राप्तविभाषायामप्राप्तविभाषायां च नास्योपयोगः। प्राप्तविभाषायां भावांऽशस्य सिद्धत्वेन विभाषाश्रुत्या "पक्षे भवती"ति भावांषमनूद्य "पक्षे न भवती"त्यभावांशमनूद्य "पक्षे भवती"ति भावांशमात्रकरणात्। "विभाषा श्वेः" इत्युभयत्रविभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव सम्प्रसारणविकल्पः स्यात् , कित्सु तु यजादित्वात् "वचिस्वपि-" इति नित्यमेव स्यात्। अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव प्रवृत्तिः-स्यान्न तु पित्सु। नच पित्सु विधिमुखेन कित्सु तु निषेधमुखेनेत्युभयथापि प्रवृत्तिरस्त्विति वाच्यम्, वैरूप्यलक्षणवाक्यबेदप्रसङ्गात्। संज्ञाकरणे तु श्रुतक्रमानुरोधेन "ने"ति प्रतिषेधः प्रथमं कित्सु प्रवत्र्तते, ततः किदकिद्रूप सर्वस्मिल्लिटि एकरूपं प्रापिते सति "पक्षे भवती"त्यकरूपेण विधिमुखेनैव प्रवर्तते। इतीति किम्? घुसंज्ञावत् "स्वं रूप"मिति वचनाच्छब्दस्य संज्ञा मा भूत्। तथाहि सति "विभाषा श्वेः" इत्यस्य नवाशब्दः ()आयतेरादेश इत्यर्थः स्यात्। इतिशब्दे तु सति अर्थः संज्ञीति लभ्यते। तथाहि-लोके ह्रर्थप्रधानः शब्दः। "गौरित्ययमाहे"त्यादौ तु शब्दस्वरूपपरः संपद्यते। व्याकरणे तु "स्वं रूप"मिति परिभाषाणात्स्वरूपपरत्वमौत्सर्गिकम्। इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः। इदमेवोतिशब्दस्य पदार्थविपर्यासकत्वं नाम। संज्ञात्वमर्थस्यैव नतु विभाषाशब्दस्येति व्याख्यानस्य "ह्मक्रोरन्यतरस्या"-मित्यादौ वैरूप्योद्धारः फलम्। उभयत्रविभांषा हि तत्सूत्रम्, अभ्यवपूर्वस्य हरतेर्भक्षणार्थत्वाद्विकारार्थस्य करोतेरकर्मकत्वाच्च "गतिबुद्धी"त्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते अर्थान्तरे चाऽप्राप्ते तदारम्भात्। उदाह्मतं च भाष्ये-"प्राप्ते तावत्-अभ्यवहारयति सैन्धवान्, अभ्यवहारयति सैन्धवैः। विकारयत#इ सैन्धवान्, विकारयति सैन्धवैः। अप्राप्ते तु-हरति भारं देवदत्तः, हारयति भारं देवदत्तम्, हारयति भारं देवदत्तेन। करोति कटं देवदत्तः, कारयति कटं देवदत्तम् , कारयति कटं देवदत्तेने"ति दिक्।