पूर्वम्: १।१।४४
अनन्तरम्: १।१।४६
 
प्रथमावृत्तिः

सूत्रम्॥ आद्यन्तौ टकितौ॥ १।१।४५

पदच्छेदः॥ आद्यन्तौ १।२ टकितौ १।२

समासः॥

आदिश्च अन्तश्च आद्यन्तौ, इतरेतरद्वन्द्वः
टश्च कश्च, टकौ इतौ ययोः इति टकितौ, द्वन्द्वगर्भी बहुवॄहिः

अर्थः॥

षष्ठी-निर्दिष्टस्य {टित्} आगमः आदौ भवति, {कित्} आगमः अन्ते भवति।

उदाहरणम्॥

टित् - पठिता, भविता। कित् - त्रापुषम्, जातुषम्। जटिलः भीषयते, मुन्डो भीषयते।
काशिका-वृत्तिः
आद्यन्तौ टकितौ १।१।४६

आदिः टित् भवति, अन्तः कित् भवति षस्ठीनिर्दिष्टस्य। लविता। मुण्डो भीषयते। टित्प्रदेशाः आर्धधातुकस्य इड् वलादेः ७।२।३५ इत्येवम् आदयः। कित्प्रदेशाः भियो हेतुभये शुक् ७।३।४० इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
आद्यन्तौ टकितौ ८४, १।१।४५

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥
न्यासः
आद्यतन्तौ टकितौ। , १।१।४५

"षष्ठी स्थानेयोगा" १।१।४८ इत्यस्याः परिभाषाया अयमपवादः। तेन तत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते। यदि तह्र्रादिष्टिद् भवत्यन्तः किद्भवति, तदा "चरेष्टः" ३।२।१६ "आतोऽनुपसर्गे कः" ३।२।३ इत्यादयोऽपि प्रत्यया आद्यन्तभूताः स्युओः। न च टितः प्रत्ययस्यादित्वे "टिड्ढाणञ्" ४।१।१५ इति टितो विधीयमानो ङीब् निरवकाश इत्याशङ्कनीयम्। यत्र हि प्रकृतेरेव सिद्धं टित्त्वं न प्रत्ययस्य, नदड् भष()डित्येवमादौ, स तस्यावकाशो भविष्यतीति। टितश्च प्रत्ययस्या- दित्वे सति कुरुचर इत्येवमादिरूपमेव सिध्येत्। कितस्त्वन्त्यत्वे आध्योः, विध्योरि- त्यत्र "उपसर्गे घोः किः" ३।३।९२ इति किप्रत्ययस्य प्रकृत्यन्तः-पातित्वाद्धातु- ग्रहणेन ग्रहणे सति "उदात्तयणो हल्पूर्वात्" ६।१।१६८ इत्येष स्वरो न स्यात्। "नोङ धात्वोः" ६।१।१६९ इति प्रतिषेधादित्यत आह- "षष्ठीग्रहणस्य सिंहावलोकितन्यायेनोप-स्थानात्। नन्वेवमपि "गापोष्टक्" ३।२।८ "व्रीहिशाल्योर्ढक्" ५।२।२ इत्येतावाद्य न्तौ प्राप्नुतः, नैष दोषः, "पुरस्तादपवादा अनन्तरात् विधीन् बाधन्ते नोत्तरान्" (व्या।प।९) इति स्थानेयोगत्वस्यैवायमपवादो भविष्यति, न प्रत्ययपरत्वस्य। अपर आह- आद्यन्तावयवौ, अवयवश्चावयविनमन्तरेण न सम्भवतीत्यवयविनमाक्षिप्य तौ वत्र्तेते। ततश्चावयवावयविसम्बन्धे यलस्यादिरन्तो वावयवो विधीयते, सोऽवयवो षष्ठ()आ निर्देष्ट- व्य इति सामथ्र्यादवयवषष्ठ()आ निर्दिष्टस्येति ज्ञायते। न चैवम्। "गापोष्टक्" ३।२।८ "व्रीहिशाल्योर्ढक्" ५।२।२ इत्येतौ प्रत्ययावाद्यन्तौ प्राप्नुतः, यस्मादिह प्रकृतयोऽवयवषष्ठ()आ निर्दिष्टाः, किं तर्हि? सुपां सुपो भवन्तीति पञ्चम्यर्थे या षष्ठी तयेति। "भीषयते" इति। "ञिभी भये"(धा।पा।१०८४) हेतुमण्णिच्, "भियो हेतुभये षुक्" ७।३।४० "भीस्म्योर्हेतुभये" १।३।६८ इत्यात्मनेपदम्।
बाल-मनोरमा
आद्यन्तौ टकितौ ३८, १।१।४५

आद्यन्तौ टकितौ। आदिश्च अन्तश्च आद्यन्तौ, टश्च कच् टकौ। टकारादकार उच्चारणार्थः। टकौ इतौ ययोस्तौ टकितौ। द्वन्द्वान्त इच्छब्दः प्रत्येकं संबध्यते। टित्कितावाद्यन्तावयवौ स्तः। कस्येत्याकाङ्क्षायां यस्य तौ विहितौ तयोरित्यर्थाल्लभ्यते। तदाह--टित्कितावित्यादिना। क्रमादिति यथासङ्ख्य सूत्रलभ्यम्। टित् आद्यवयवः, किदन्तावयव इत्यर्थः। नचैवं सति मिलितयोरेकत्रान्वयाऽभावात्कथमिह द्वन्द्व इति वाच्यम्, प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासंख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः। "एचोऽयवायावः" इत्यादावप्येषैव गतिः। लोके त्वेवंजातीयकप्रयोगोऽसाधुरेवेति भाष्यादिषु स्पष्टम्। अत्रैव यथासङ्ख्यसूत्रोमन्यासो युक्तः। "आर्धधातुकस्येड्वलादेः" भविता। "ङ्णोः कुक् टुक् शरि", प्राङ्()क्?षष्ट इत्याद्युदाहरणम्। "पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्" इति "षष्ठी स्थानेयोगे"त्यस्यानन्तरस्यैवायमपवादः। "प्रत्ययः" परश्चेत्यनेन तु परत्वादिदं बाध्यते। तेन चरेष्टः गापोष्टगित्यादयः परा एव भवन्ति।

तत्त्व-बोधिनी
आद्यन्तौ टकितौ ३२, १।१।४५

आद्यन्तौ टकिता। भविता,-"आर्धधातुकस्येट्"। पाययाति-"शाच्छासाह्वे"त्यादिनात्युक्। पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः। "प्रत्ययः" "परश्चेट"त्यनेन तु परत्वादयं बाध्यते। तेन "चरेष्टः" "गापोष्टा" गित्यादयः परा एव भवन्ति।