पूर्वम्: १।१।४५
अनन्तरम्: १।१।४७
 
प्रथमावृत्तिः

सूत्रम्॥ मिदचोऽन्त्यात्परः॥ १।१।४६

पदच्छेदः॥ मित् १।१ अचः ६।१ अन्त्यात् ५।१ परः १।१

समासः॥

म् इत् यस्य सः मित्, बहुव्रीहिः
अन्ते भवं अन्त्यम्, तस्मात् अन्त्यात्

अर्थः॥

अचां सन्निविष्टानां यः अन्त्यः अच्, तस्मात् परः मित् भवति।

उदाहरणम्॥

भिनत्ति, छिनत्ति। रुणद्धि। मुञ्चन्ति। वन्दे मातरम्। कूण्डानि, वनानि। यशांसि, पयांसि।
काशिका-वृत्तिः
मिदचो ऽन्त्यात् परः १।१।४७

अचः इति निर्धारणे षष्ठी। जातौ च इदम् एकवचनम्। अचां संनिविष्टानाम् अन्त्यादचः परो मित् भवति। स्थानेयोग प्रत्यय परत्वस्य अयम् अपवादः। विरुणद्धि। मुञ्चति। पयांसि। मित्प्रदेशाः रुदादिभ्यः श्नम् ३।१।७८ इत्येवम् आदयः। मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगाऽदिलोपार्थम्। मग्नः। मग्नवान्। मङ्क्ता। मङ्क्तुम्।
लघु-सिद्धान्त-कौमुदी
मिदचोऽन्त्यात्परः २४१, १।१।४६

अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥
न्यासः
मिदचोऽन्त्यात्परः। , १।१।४६

अत्र यदि "अचः" ४।३।३१ इत्येषा पञ्चमी स्यात्, अन्त्यादित्यनया पञ्चम्या समानाधिकरणत्वं स्यात्। ततः "नपुंसकस्य झलचः" ७।१।५२ इति नुमीहैवा- न्त्यादचः परः स्यात्- "कुण्डानि" इति; अस्ति ह्रत्र नपुंसकस्यान्त्योऽचः; पयांसी- त्यत्र तु न स्यात्, "अलोऽन्त्यस्य " १।१।५१ इति सकारस्यैव तु स्थाने स्यात्। ह्रत्राजन्त्यः, किं तर्हि? सकारः। तस्मान्निर्धारणे षष्ठीयमिति दर्शयन्नाह-"अचाम्ित्यादि। जातौ बहुवचम्। सूत्रेऽप्यच इत्येकवचनं जातावेव। यदि तर्हि निर्धारणषष्ठीयम्, अन्त्यस्याविशेषितत्वादविशेषेण यतः कुतश्चिदन्त्यात् परो मित् स्यात्; न हि द्वीतीयमज्ग्रहणमस्ति, येनान्त्यो दिशेष्यते, नैष दोषः; समानजातीयस्यैव हि लोके निर्धारणप्रतीतिर्भवति। तथा हि "कृष्णा गवां सम्पन्नश्रीरतमा" इत्युक्ते गौरेव प्रतीयते; नाजा, नाप्य()आआ। तसस्मादिहाप्यचां मध्येऽन्त्यादचोऽवधेरित्यन्त्यत्वेन निर्धार्यमाणः समानजातीयोऽजेव। प्रतीयते। तेनाच एवान्त्यात् परो भविष्यति। स्थानेयोगित्वप्रत्ययपरत्वापवादार्थञ्चेदमारब्धम्। तत्र स्थानेयोगित्वापवादार्थम्-"शेमुचादीनाम्" ७।१।५९ नुम् भवति, मुञ्चति। "नपुंकस् झलचः" (७॥७२)पयांसि। प्रत्ययपरत्वापवादार्थम्()- "रुधादिभ्यः श्नम्" ३।१।७८,रुणद्धि। ननु च "पुरस्ताद-पवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् (व्या।प।९) इति स्थानेयोगित्वस्यैवापवादो युज्यते, न तु प्रत्ययपरत्वस्य, नैतदस्ति; एवं हि श्नमो मित्करणमनवकाशत्वादनर्थकं स्यात्। श्रवणार्थत्वान्नानर्थकमिति चेत्? नः; "तृणह इम्"७।३।९२ इति निर्देशात्। श्रवणार्थे ह्रेतस्मिन् "तृणम् ह इम्" इति निर्देशः स्यात्। तस्मात् प्रत्ययपरत्व- स्यापवादो युक्तः। यद्येवं "तन्मध्यपतितस्तद्()ग्रहणेन गृह्रते" (व्या।प।२१) इति प्रकृत्यन्तः पातिनस्तद्()ग्रहणेन ग्रहणादपरत्वाच्च श्नमः प्रत्ययसंज्ञा न स्यात्, तथा च "लशक्वतद्धिते" १।३।८ इति प्रत्ययादेः शकारस्य विधीयमानेत्संज्ञा न स्यात्, नैष दोषः; प्रत्ययाधिकारे विधीयमानत्वात् प्रत्ययसंज्ञा भविष्यति- सत्यप्यपरत्वे, सत्यपि प्रकृत्यन्तः पातित्वे; यथा-बहुजकचोरन्तोदात्तत्वम्। "बहुपटवः, उच्चकैः" इत्यनयोरसति परत्वे सत्यं प्रत्ययसंज्ञायां "चितः" ६।१।१५७ इत्यन्तोदात्तत्वं भवत्येव। "मस्जेः" इत्यादि। नकारस्योपधाया "अनुषङ्गः" इति पूर्वाचार्येः संज्ञा कृता। "टुमस्जो शुद्धौ" (धा।पा।१४१६) इत्यस्य "मस्जिनशोर्झलि" ७।१।६०इति नुमं वक्ष्यति। स च यद्यचोऽन्त्यात् परः स्यात् "स्कोः संयोगाद्योः" ८।२।२९ इति सकार- स्य "अनिदिताम्" ६।४।२४ इति नकारस्य च लोपो न स्यात्; यथाक्रममनादित्वादनु- धत्वाच्च। तस्मादन्त्याज्जकारात् पूर्वो जकारसकारयोर्मध्ये नुम् कत्र्तव्यः। यथा चान्त्यात् पूर्वो लभ्यते,तथा सप्तमे वक्ष्यते। "मग्नः" इति। "ओदितश्च" ८।२।४५इति निष्ठानत्वम्, तस्यासिद्धत्वत् "चोः कुः" ८।२।३० इति कुत्वं जकारस्य गकारः। "मङ्क्ता" इति अत्र पूर्ववद् गकारे कृते तस्य "खरि च" ८।४।५४ इति चर्त्वं ककारः। "नश्चापदान्तस्य झलि" ८।३।२४ इत्यनुस्वारः। "अनुस्वारस्य ययि परसवर्णः" ८।४।५७ ङकारः। पूर्वभक्तश्चायं मिद् वेदितव्यः; अन्यथा "वहाभ्रे लिहः" ३।२।३२ इति लिहः खशि कृते "अरुर्द्विषदजन्तस्य" ६।३।६६ इति मुमि कृते वहंलिह् इत्यत्र "मोऽनुस्वारः" ८।३।२३ इति पदान्तस्य विधीयमानोऽनुस्वारो न स्यात्, अपदान्तत्वात्।
बाल-मनोरमा
मिदचोऽन्त्यात्परः ३९, १।१।४६

मिदचोऽन्त्यात्परः। मकार इत् यस्य स मित् अन्त्यादचः परो भवतीत्यर्थे "शेमुचादीनाम्" इत्यादाविदं न प्रवर्तेत,तत्रान्त्यस्याचोऽभावादत आह--अच इति षष्ठ()न्तमिति। "यतश्च निर्धारणमित्यनेने"ति शेषः। "अच" इत्येकत्वमविवक्षितं, तदाह--अचां मध्य इत्यादिना। अन्तावयव इति। एतच्च आद्यान्तावित्यतोऽन्तग्रहणानुवृत्त्या लभ्यते, आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनाऽनुवृत्तिसंभवात्। आदिग्रहणमनुवत्र्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने सर्वनामस्थाने चासंम्बुद्धौ "इति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत्। अभक्तत्वे तु वहंलिह इत्यत्र "वहाभ्रे लिहः" इति खशि, "अरुर्द्विष"दिति मुमि तस्य "मोऽनुस्वारः" इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात्। वस्तुतस्तु यस्य समुदायस्य मिद्विहितस्तस्याऽचां मध्ये योऽन्त्यस्तस्य समुदायस्याऽन्तावयवय इति व्याख्येयम्। अत एव "समुदायभक्तो मित्" इति भाष्यं सङ्गच्छते। समासाश्रयविधौ मूकारश्च वक्ष्यति--"अङ्गस्य नुम्विधानात्तद्भक्तो हि नु"मिति।

तत्त्व-बोधिनी
मिदचोऽन्त्यात्परः ३३, १।१।४६

मिदचोऽन्त्यात्परः। स्थानेयोगत्वस्य "प्रत्ययः"-परश्चे"ति परत्वस्य चायमपवादः। यशांसि वनानि। "नपुंसकस्य "झलचः" इति नुम्। रुणद्धि। "रुधादिभ्यः श्नम्"। ननु पूर्वयोगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्त्विति चेन्नः, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यते इतीहाभ्युपगमात्, अन्यथा श्नमो मित्करणं व्यर्थं स्यात्। नच श्रवणार्थ एव मकारः स्यादिति वाच्यम्, "तृणह इ"मिति निर्देशात्। अचां मध्य इति। सूत्रे जात्यभिप्रायेण "अचः" इत्येकवचनमिति भावः। अचां मध्य इति किम्?, मुञ्चति लुम्पति। "अन्त्यादचः परो मित्स्या"दिति प्राचो व्याख्यायां नैतत्सिध्येत्। "शे मुचादीना"मित्यत्रान्त्यस्याचोऽसंभवेन मित्परिभाषाया अपनुस्थितिप्रसङ्गात्। अन्ये त्वचोऽन्त्यात्परो मित्स्यादिति व्यत्यासेन योजयित्वा प्राचो व्याख्यानमपि कथंचित्समर्थयन्ते। पूर्वसूत्रादन्त इत्यनुवत्र्तते, एकदेशे स्वरितत्वप्रतिज्ञानात्। अतो व्याचष्टे-अन्तावयव इति। तेन "वारीणी"त्यादावङ्गस्य नान्तत्वेन दीर्घः सिद्धः। परादित्वे स न सिध्येत्। अभक्तत्वे तु "वहंलिह" इत्यत्र "वहाभ्रे लिहः" इति खशि "अरुर्द्विष"दिति मुमि मोऽनुस्वारो न स्यात्, अपदान्तत्वादिति भावः। यत्तु कैश्चिदुक्तमभक्तत्वे "वारिणी"ति दीर्घो न स्यादिति, तत् "तदादिग्रहणं स्यादिनुमर्थ"मित्यङ्गसंज्ञासूत्रस्थवार्तिकेनैव दूषितप्रायम्।