पूर्वम्: १।१।४
अनन्तरम्: १।१।६
 
प्रथमावृत्तिः

सूत्रम्॥ क्क्ङिति च॥ १।१।५

पदच्छेदः॥ क्क्ङिति ७।१ इकः ६।१ गुणवृद्धी १।२

समासः॥

गश्च कश्च ङश्च क्क्ङः, क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् क्क्ङिति, द्वन्द्वगर्भो बहुव्रीहिः।

अर्थः॥

क्क्ङिति इति निमित्तसप्तमी। गित् कित् ङित् निमित्तके इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः।

उदाहरणम्॥

गित् - जिष्णुः भूष्णुः। कित् - चितः चितवान्, स्तुतः स्तुतवान्, कृतः कृतवान्। मृष्टः, मृष्टवान्। ङित् - चिनुतः सुनुतः, चिन्वन्ति सुन्वन्ति, मृजन्ति।
काशिका-वृत्तिः
क्ङिति च १।१।५

निमित्तसप्तम्येषा। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः, ते न भवतः। चितः, चितवान्। स्तुतः, स्तुतवान्। भिन्नः, भिन्नवान्। मृष्टः, मृष्टवान्। ङिति खल्वपि चिनुतः, चिन्वन्ति। मृष्टः, मृजन्ति। गकारो ऽपि अत्र चर्त्वभूतो निर्दिश्यते। ग्लाजिस्थश्च ग्स्तुः ३।२।१३९ जिष्णुः। भूष्णुः। इकः इत्य्म् एव कामयते, लैगवायनः। मृजेरजादौ सङ्त्रमे विभाषा वृद्धिरिष्यते। सङ्क्रमो नाम गुणवृद्धिप्रतिषेधविषयः। परिमृजन्ति,परिमार्जन्ति। परिमृजन्तु, परिमार्जन्तु। लघूपधगुणस्य अप्यत्र प्रतिषेधः। अचिनवम्, असुनवम् इत्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकम् ङिति यत्कार्यं तल्लकारे ङिति न भवति इति।
लघु-सिद्धान्त-कौमुदी
क्ङिति च ४३५, १।१।५

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।
न्यासः
क्ङिति च। , १।१।५

क्ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, "चितः, चितवात्" इत्यादौ व्यवहितस्य "भिन्नो भिन्नवात्" इत्यादौ न स्यात्, "तस्मिन्निति निर्दिष्टे स्पूर्वस्य" १।१।६५ इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात्। निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावा- दिति मन्यमान आह- "निमित्तसप्तम्येषा" इति। निमित्तात् सप्तमी निमित्तसप्तमी। "पञ्चमी भयेन" २।१।३६ इति "पञ्चमी" इति योगविभागात् समासः। सा पुनः सप्तमी "यस्य च भावेन भावलक्षणम्" २।३।३७ इत्यनेन वेदितव्या। क्ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते। अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते? तत्र तस्मिन् १।१।६५ इत्यादिकायाः परिभाषाया अनुपस्थानात्। "क्ङिति च" १।१।७२ इत्यादरावप्यस्या इक्()परिभाषाया उपस्थानात् "शालीयः, मालीयः" इत्यत्र वृद्धरसञ्ज्ञा न स्यात। यता चेयमिक्()परिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा। न चेह गुणवृद्धी विधीयेते, किं तर्हि? विहिते अप्यन्यत्र क्ङितीत्यनेन विशिष्येते। तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्यति। "क्ङिन्निमित्ते ये गुणवृद्धी" इति। क्ङिन्निमित्तं ययोस्ते तथोक्ते। ते पुनर्ये क्ङिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये। एतेन गुण- वृद्धीविशेषणं क्ङिद्()ग्रहणमिति दर्शयति। ननु च विधीयमानतया प्राधान्यात् प्रतिषेध- स्यैवैतद्विशेषणं युक्तम्? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभवति। यथोक्तम्- "गुणः कृतात्मसंस्कारः प्रतिपद्यते। प्रधानस्योपकारे हि तथा भयसि वर्तते॥ इति। इह तु गुणवृद्धयोः क्ङिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः। "भिन्नः" इति। "भिदिर् विदारणे" (धा।पा। १४३९),क्तः, "रदाभ्यां निष्ठातोनः"८।२।४२ इति नत्वम्। "मृष्टः" इति। मृजेः "व्रश्च"८।२।३६ इत्यादिना जकारस्य षत्वम्, "ष्टुना ष्टुः"८।४।४० इति ष्टुत्वम्। चिनुत इत्यादौ तु "सार्वधातुकमपित्"१।२।४ इति क्ङित्त्वम्। "चिन्वन्ति"इति। "हुश्नुवोः सार्वधातुके"६।४।८७ इति यणादेशः। अत्र "चितः, चितवान्, स्तुतः, स्तुतवान्, चिनतः, चिन्वन्ति" इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, "भिन्नः भिन्नवान्" इति लघूपधलक्षणस्य, परिशिष्टेषु "मृजेर्वृद्धिः" ७।२।११४ इति वृद्धेः। "ग्लाजिस्थश्च क्स्नुः" इति। क्स्नुप्रत्ययोऽयं यदि कित् स्यात्, स्थास्नुरित्यत्र घुमास्थादिसूत्रेण ६।४।६६ तिष्ठतेरीत्त्वं स्यात्। अतस्तत्परिहाराय क्स्नोर्गित्त्वं प्रतिज्ञायते। तथा हि तत्र वक्ष्यति-"गिच्चायं प्रत्ययो न कित्। तेन स्थ ईकारो न भवति"(का।२४१) इति। गित्वे च सति "भूष्णुः, जिष्णुः" इत्यत्र"क्ङितिच" १।१।५ इति प्रतिषेध उच्यमानो न प्राप्नोति। अत एतद्दोषपरिहारायाह- "गकारोऽप्यत्र" इत्यादि (का२४१)।चत्त्र्वभूतः चर्त्वं प्राप्त इत्यर्थः। चर्त्वं तु " खरि च"८।४।५४ इति। यदि हि क्स्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र "श्रयुकः किति"(७।२।११) इति किति प्रतिषेध उच्यमानो न स्यात्? नैष दोषः; तत्रापि चत्त्र्वभूतो गकारो निर्दिश्यते। तथा हि -"ग्लाजिस्थश्च क्स्नुः" ३।२।१३९ इत्यत्र जयादित्यवृ- त्तौ ग्रन्थः- ""क्ङिति च" १।१।५ इत्यत्र गकारश्चत्त्र्वभूतो निर्दिश्यते, तेन गुणो न भवति। "श्रयुकः किति" ७।२।११ इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति"(का। २४१) इति। "श्रयुकः किति" ७।२।११ इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- "गकारोऽप्यत्र चत्त्र्वभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात्" इति। वामनस्य त्वेतत् सर्वमनभिमतम्। तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः- केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात्। सौत्रत्वाच्च निर्देशस्य "श्रयुकः किति" ७।२।११ इत्यत्र चत्र्वस्यासिद्धत्वमना- श्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति। "ग्लाजिस्थश्च क्स्नुः" ३।२।१३९ इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत्"(का ८०२) इति। स एवं मन्यते- यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम। गित्त्वे च सति जिष्णुः, भूष्णुः" इत्यत्र यथायोगमिड्()गुणयोर्निरासाय "क्ङिति च"१।१।५ इत्यत्र "श्रयुकः किति" ७।२।११ इत्यत्र च गकारश्चत्र्वभूतो निर्दिश्यमानः शोभेत। न च क्स्नुप्रत्ययो गित्,किं तर्हि? किदेव। तत्किमिड्()गुण्प्रतिषेधार्थेन चत्त्र्वभूतगकारस्य निर्देशेन !न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नोति। तस्मात् " ग्लाजिस्थशाच क्स्नुः" ३।२।१३९ इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्य तिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः। ततश्च तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति। "कामयते" इति। "कमेर्णिङ"३।१।३०। अत्र "अत उपधायाः"७।२।११६ इति वृद्धेः प्रतिषेधो न भवति। "लैगवायनः" इति। लिगुशब्दात् "नडादिभ्यःफक्" ४।१।९९ इति फकि कृते "ओर्गुणः" ६।४।१४६ इति गुणस्य प्रतिषेधो न भवति। ननु चोकारैगेव, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; अत्र हि चकारः क्रियते "इकः" इत्यनुकर्षणार्थः। तत्र चकारेणानुकर्षणसा- मथ्र्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति। अन्यथा हि यदि चकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः। स्वरूपपदार्थके च तस्()मिन्निह सन्नि- हिते सत्ययमर्थो भवति, "इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य ये गुणवृद्धी विधीयेते, ते क्ङिन्निमित्ते न भवतः" इति। न च "लैगवायनः" इत्यत्र इकः" इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात्। यत्र हि साक्षात् स्थानी न निर्दिश्यते तत्रासावुपतिष्ठते। ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न निर्दिष्टः स्यात्, ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति? नैष दोषः। सामथ्र्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते। न ह्रन्यस्येक इतीमं शब्दुमु- च्चार्य गुणवृद्धी विधीयेते। अथ वा " यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहास- त्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते। एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम्। ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते। क्व चासौ व्याप्रियते? यत्र स्थानी साक्षान्न् निर्दिश्यते। इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति प्रत्युदाहरण्। "मृजेः" इत्यादि। कथं पुनरिष्यमाणापि सा लभ्यते? यथा लभ्यते तथा श्रूयताम। "अचो ञ्णिति" श्७।२।११५ इत्यत्र "मृजेर्वृद्धिः" ७।२।११४ इति वर्तते, "जराया जरसन्यतरस्याम्" ७।२।१०१ इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवत्र्तते, सा च व्यवस्थितविभाषा। "अचः" इति योगविभागः क्रियते। मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव। "लघूपधगुणस्याप्यत्र प्रतिषेधः" इति। एतेन संक्रमत्वं दर्शयति। अन्ये तु उत्तरसूत्रे "कणिता ()आः" रणिता ()आः" इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्िह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति। अथ वा- निमित्तसप्त- म्या एवेदं फलं दर्शितमिति मन्तव्यम्। "अचिनवम्, असनुवम्" इत्यत्र लङो ङित्वात् तदादेशस्यापि मिपो ङित्त्वम्। स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति। कस्मान्न भवतीत्याह- "अचिनवम्" इत्यादि। आदिशब्देन "अकरवम्" इत्यादिनां परिग्रहः। "लकारस्य" इति। लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः। सत्यपीत्य- भ्युपगमे "हलः श्नः शानज्झौ" ३।२।८३ इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः। अतो ङित्त्ववचम्" इत्यादि। यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादि- त्यादौ गुणप्रतिषेधस्य सिद्धत्वात् "यासुट् परस्मैपदेषूदात्तो ङिच्च" ३।४।१०३ इति यत् तस्य यासुटो ङ्द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- "ङिति यत् कार्यं तल्लकारे इति न भवति" इति।
बाल-मनोरमा
क्ङिति च ६५, १।१।५

क्ङिति च। ग्? क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात्। ग् क् ङ् च इत् यस्येति विग्रहः। द्वन्द्वान्ते श्रूयमाण इत्यर्थ। इक इत्युचार्य विहिते इति लभ्यते। "न धातुलोप आद्र्धधातुके" इत्यतो नेत्यनुवर्तते। तदाह--गित्किन्ङिन्नमित्ते इत्यादिना। गितीत्यनुक्तौ तु "ग्लाजिस्थश्च ग्स्नु"रिति ग्स्नुप्रत्यये "जिष्णु"रित्यत्र गुणनिषेधो न स्यात्। न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सति "घुमास्थे"ति किति विहितस्य ईत्वस्य प्रसङ्गात्। यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात्। स्थानिभूतस्येको हला व्यवधानात्। न च येन नाव्यवधानन्यायः शङ्क्यः। चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात्। यदि च "इको गुणवृद्धी" इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम्। भूयादिति। इहाद्र्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम्। न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम्। भूयास्तामिति। आशिषि लिङस्तस्तामादेशे आद्र्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च। भूयासुरिति। झेर्जुसि यासुडागमे गुणनिषेधे रूपम्। भूया इति। आशीर्लिङः सिपि इतश्चेतीकारलोपः। यासुटः "स्को"रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ। भूयास्तमिति। थसस्तमादेशे यासुटि गुणनिषेधः। एवं थस्य तादेशेऽपि भूयास्तेति रूपम्। भूयासमिति। मिपोऽमादेशे यासुटि गुणनिषेधः। भूयास्वेति। लिङो वस्। "नित्यं ङित" इति सकारलोपः। यासुट्। गुणनिषेधः। एवं मसि भूयास्मेति रूपम्। इत्याशीर्लिङ्()प्रक्रिया।

तत्त्व-बोधिनी
क्ङिति च ५०, १।१।५

ङिन्निमित्ते इति। "कितिगितिङिति परे इको गुणवृद्धी न स्त" इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्याऽनिषेधप्रसङ्गात्। नचाऽ‌ऽरम्भसामथ्र्यं शङ्क्यं, चितं स्तुतमित्यादाव्वयवहिते किति चरितार्थत्वादिति भावः। अन्ये तु-- क्ङितीति प्रत्ययग्रहणात्प्रत्ययेन संनिधापितस्याऽह्गस्य क्ङिति पर इति व्याख्यानेन तु छिन्नं भिन्नमित्यादि सिध्यत्येव। नचैवं भवावः भवाम प्रश्लिष्यत इत्याशयेन "गित्किन्ङिन्निमित्ते" इत्युक्तम्। गिति किम्?। "ग्लाजिस्थश्च ग्स्नु" जिष्णुः। किति त्वस्मिन्स्थास्नुरित्यत्र "घुमास्थे"तीत्त्वं प्रसज्येत। न ग्स्नोर्गित्त्वे भूष्णुरित्यत्रेण्निषेधो न स्यात्, "ग्लाजिस्थश्चे"ति चकाराद्भुवश्च ग्स्नुर्भवतीति स्वीकारादिति वाच्यम्, "श्र्युकः किती"त्यत्रापि चर्त्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात्। न चैवं चत्र्वस्याऽसिद्धतया "श्र्युकः" इत्यत्र विसर्जनीयो न लभ्यत इति "हशि चे"त्युत्वमेव स्यादिति वाच्यं, सौत्रत्वात्। "न मु ने"त्यत्यत्र नेति योगविभागेनाऽसिद्धत्वाऽभावाद्वेष्टसिद्धेः। वामनस्तु--"ग्लाजिस्थश्चे"ति सूत्रे स्था- आ इति प्रश्लेषात्स्थास्नुरित्यत्र "घुमास्थे"तीत्वं न भविष्यतीति गकारप्रश्लेषाऽभावान्न "श्र्युकः किती"त्यत्र चत्र्वस्याऽसद्धत्वाऽभावसमर्थनक्लेश इत्याह। इग्लक्षण इति। "इक" इत्येवं विहिते इत्यर्थः। इग्लक्षणे किम्?। लैगवायनः। लिगोर्नडादित्वात्फक्। इहादिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः। न चेक इत्युक्तेऽपि "किति चे"त्यारम्भसामथ्र्यादत्र निषेधो न भवेदिति शङ्क्यम्, नाडायनादौ तस्य चरितार्थत्वात्। भूयादिति। इह "स्को"रिति लोपस्याऽसिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनाऽनवकाशेन बाध्यते। नन्वेवमपि संयोगादिलोपस्य "पूर्वत्रासिद्ध"मित्यसिद्धत्वाद्धल्ङ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादितिचेत्, अत्राहुः--- सुड()आसुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावात्, हलन्तायाः प्रकृतेः परत्वाऽभावाच्चोक्तदोषशङ्कैव नास्तीति।