पूर्वम्: १।१।४८
अनन्तरम्: १।१।५०
 
प्रथमावृत्तिः

सूत्रम्॥ स्थानेऽन्तरतमः॥ १।१।४९

पदच्छेदः॥ स्थाने ७।१ अन्तरतमः १।१ स्थाने ७।१ ४८

अर्थः॥

सर्वे इमे अन्तराः, अयम् एषाम् अतिशयेन अन्तरः = अन्तरतमः, सदृशतमः, {अतिशयने तमबिष्ठनौ (५।४।५५)} इति तमप् प्रत्ययः॥
स्थाने प्राप्यमाणानाम् अन्तरत्मः=सदृशतमः आदेशः भवति॥ आन्तर्यं चतुर्विधं भवति -- स्थानकृतम्, अर्थकृतम्, प्रमाणकृतम्, गुणकृतं चेति॥

उदाहरणम्॥

स्थानकृतम् - दण्डाग्रम्, दधीदम्, भानूदयः॥ अर्थकृतम् - अभवताम्, वातण्ड्ययुवतिः॥ प्रमाणकृतम् - अमुष्मै, अमूभ्याम्॥ गुणकृतम् - भागः, यागः, त्यागः॥
काशिका-वृत्तिः
स्थाने ऽन्तरतमः १।१।५०

स्थाने प्राप्यमाणानाम् अन्तरतम् आदेशो भवति सदृशतमः। कुतश्च शब्दस्य अन्तर्यम्? स्थानार्थगुणप्रमाणतः। स्थानतः अकः सवर्णे दीर्घः ६।१।९७। दण्डाग्रम्। यूपाग्रम्। द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति। अर्थतः वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः। पुंवद्भावेन अन्तरतमः पुंशब्दो ऽतिदिश्यते। गुणतःपाकः। त्यागः। रागः। चजोः कु घिण्यतोः ७।३।५२ इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति। जकारस्य घोषवतो ऽल्पप्राणस्य तादृश एव गकारः। प्रमाणतः अनुष्मै। अमूभ्याम्। अदसो ऽसेर् दादु दो मः ८।२।८० इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः। स्थाने इति वर्तमाने पुनः स्थाने ग्रहणं किम्? यत्र अनेकम् आन्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात्। चेता, स्तोता। प्रमाणतो ऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः। तम्ब्ग्रहणं किम्? वाग् घसति। त्रिष्टुब् भसति। झयो हो ऽन्यतरस्याम् ८।४।६१ इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्तः इति तृतीयाः, तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः।
लघु-सिद्धान्त-कौमुदी
स्थानेऽन्तरतमः १७, १।१।४९

प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥
न्यासः
स्थानेऽन्तरतमः। , १।१।४९

परिभाषेयमादेशनियमार्था।"स्थाने प्राप्यमाणानाम्" इति। एतेन नेदं विधायकं वाक्यम्, किं तर्हि? लक्षणान्तरेण प्राप्तानामनन्तरतमानामितरेषां च योऽन्तरतमः, स एव भवतीति नियमार्थमिति दर्शयति। विधायकत्वे हि "दधि मधु" इतादावपि प्रसज्यते। किं पुनरत्रानिष्टम्? यावतान्तरतम्याद् दधिमधुशब्दयोस्तावेवादेशौ भविष्यतः, तयोरप्यादेशयोरन्यौ दधिमधुशब्दौ यावादेशौ स्याताम्, तयोरप्यन्यावित्येवमपरिसमाप्तादेशपर- म्पराविधानादनवस्था स्यात्। ततश्चार्थप्रत्यायनं प्रति शब्दानां विनियोगो न स्यात्न्वाख्यायकस्य शास्त्रस्य प्रवृत्त्यनुपरमात्। शास्त्रोपरतौ ह्रन्वाख्यातास्ते प्रयुज्यते, नान्यथेत्यनिष्टम्। ननु च सकृत्प्रवृत्तौ लक्षणस्य चरितार्तत्वात् पुनः प्रवृत्तिर्न भविष्यति, नैतदस्तिच यत्र हि प्रयोजनार्था प्रवृत्तिस्तत्रैतदुक्तम्, इह पुनरकस्मादन्तरतमो विधीयत इत्यनुपरतैवास्य प्रवृत्तिः। नियमाकत्वेऽप्यस्य यदीदं विहितानां नियमं कुर्यात् ! अनर्थकमेव वचनं स्यात्। यो हि भुक्तवन्तं ब्राउयात्- "मा भुङ्क्ष्य" इति,किं तस्य तेन कृतं स्यात् ! तस्मात् प्राप्यमाणावस्थायामेव वाक्यान्तरः सह संहत्यानन कार्यं निर्वत्र्यते; तदेकदेशभूत्वादस्य। "सदृशतमः" इति।? अन्तरतमशब्दस्यार्थ कथयति। "अर्थतः" इत्यादि। वतण्डशब्दात् स्त्रियामपत्यार्थे "वतण्डाच्च" ४।१।१०८ इति यञ्,तस्य "लुक् स्त्रियाम्"६।४।१४ इत्यकारलोपः, वतण्डी चासौ युवतिश्चेति "पोटायुवति" २।१।६४ इत्यादिना समासः। तत्रानेन "पुंवत कर्मधारयः" ६।३।४१ इत्यादिना पुंवद्भावे कर्तव्ये सर्वः पुंशब्दः प्रसक्तः। तत्रानेन वतण्डापत्यार्थ- स्य वतण्डी शब्दस्यार्थतोऽन्तरतमो वतण्डापत्यार्थ एव वातण्ड()शब्दो भवति। "पाकः" इत्यादौ भावे घञ्। "चकारस्य" इत्यादि। "वर्गाणां प्रथमा अल्पप्राणाः" (आपि।शि। ४।३।) इति चकारककारावल्पप्राणौ। "वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीय- जिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः ()आआसानुप्रदाना अघोषाः" (आपि।शि।४।२।) इत्यघोषौ। "जकारस्य" इत्यादि। "वर्गाणां तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च द्वितीयचतुर्थौ नासिक्याश्च संवृकण्ठा नादानुप्रदाना घोषवन्तः"महाप्राणाः" इत्यल्पप्राणौ। "अमुष्मै, अमूभ्याम्" इति। अदसश्चतुर्थ्येकवचने भ्यामि च परतस्त्यदाद्यत्वम्,तो गुणे" ६।१।९४ पररूपत्वम्, "सर्वनाम्नः स्मैः" ७।१।४ इति स्मैभावः। भ्यामि "सुपि च" ७।३।१०२ इति दीर्घः, ततो ह्यस्वस्य ह्यस्व उकारो भवति, दीर्घस्य दीर्घः। "स्थाने इति वत्र्तमाने" इति। प्रकृतो हि स्थानशब्दः प्रसङ्गवाची। तदनुवृ- त्तौ स्थाने प्राप्यमाणानामन्तरतमो भवति" इत्येषोऽर्थो लभ्यते। ननु च यत्रानेकमा- न्तर्यं तत्र ताल्वादिस्थानत एवान्तर्यस्य बलीयस्त्वम्, तस्मात् तद् यथा स्यादिति पुनस्ताल्वादिस्थानवाचिनः स्थानशब्दस्योपादानं क्रियते। यद्येवम्,स्थानकृतमेवेहान्तर्यं विशिष्टमुपात्तमिति प्रमाणादिकृतं परित्यक्तं स्यात्? नैष दोषः, वाक्यभेदं हि कृत्वा तत्र सम्बन्धः क्रियते, स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति। "स्थाने च भवति" इति पूर्वत्र वाक्ये प्रसङ्गवाची स्थाशब्दः, उत्तरत्र ताल्वादिस्थानवाची। एवं वाक्यभेदेन सम्बन्धे सति, पूर्वस्मिन् वाक्ये स्थानादिकृतानामान्तर्याणां - परिग्रहः प्रतीयते। द्वितीये तु तेषामेव बलाबलवत्त्वम्। "स्थाने" इति च निमित्तसप्तमी। तेनेदमुक्तं भवति- यत्रानेकमान्तर्यं तत्र स्थानेन निमित्तेन योऽन्तरतमः, स एव भवति। वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम्। सादृश्ये प्रकर्षो हि तेन प्रतिपादयितुमिष्टः। स चानेकस्मिन् सादृश्ये सति सादृश्यान्तरापेक्षया भवति। एकवाक्यतायां च स्थानग्रहणेन सादृश्यान्तरे निरस्ते किमपेक्षया सादृश्यप्रकर्षः स्यात् ! तस्मात् तम- ब्ग्रहणाद् वाक्यभेदोऽनुमीयते, अन्यथा हि तस्य वैयथ्र्यं स्यात्। "चेता" इति। अत्रेकारस्य तालव्यत्वादेकारस्य कष्ठतालव्यत्वात् स्थानत आन्तर्यम्; इकाराकारयोस्तु प्रमाणयोरपि मात्रिकत्वात्। "स्तोता" इति। अत्राप्युकार-स्यौष्ठ()त्वादोकारस्य कण्ठ्यौष्ठ()त्वात् स्थानत आन्तर्यम्। उकाराकायोस्तु प्रमाणतः पूर्ववत्। तत्रासति पुनः स्थानग्रहणे, प्रमाणत आन्तर्यात् कदाचिदकारो गुणः स्यात्, स्थानत आन्तर्यात् कदाचिदेकारौ। पुनः स्थानग्रहणात् तु स्थानकृतस्यान्तर्यस्य बलीयस्त्वादेकारौकारौ एव भवतः, न कदाचिदकारः। "सोष्मणः, सोष्माण इति " इत्यादि। इतिकरणो हेतौ; यस्मात् सोष्माणो द्वितीयस्तस्मात् सोष्मणो हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः। एवं "नादवतो नादवन्तः" इत्यादौ वाक्ये हेत्वर्थो योज्यः। "शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः" इति शिक्षा (आ।शि।१।४। द्वितीयाः" इत्यनेन तु वर्गद्वितीयानां खकारादीनाम्। "हकारेण चतुर्थाः" इत्यनेनापि वर्गचतुर्थानां धकारादीनाम्। समानं स्थानं यस्य स सस्थानः। "सस्थानेन" इति। इत्थ- म्भूतलक्षणे तृतीया। सस्थानेन द्वितीया ऊष्मतया लक्ष्यन्ते। एतदुक्तं भवति- "यथा सस्थान एवेषामूष्मा, एवमेतेऽपि वर्गाणां द्वितीया ऊष्माणः" इति। अथ वा - तुल्यार्थयोग एषा तृतीया, तुल्यशब्दस्त्वध्याहार्यः, तुल्यत्वमूष्मतया वेदितव्यम्। तत्र खकारस्य सस्थानो हकारः, छकारस्य शकारः, ठकारस्य षकारः, थकारस्य सकारः। फकारस्य सस्थान ऊष्मा नास्ति। तस्मात् तस्यापि विशेषेणोष्मत्वं लक्ष्यन्ते, तत्सदृशत्वात्। तेन यथा हकार ऊष्मा एवं तेऽपीत्यर्थः। "नादवतः" इत्यादि। "वर्गाणां तृतीयचतुर्थाः" इत्यादिना पूर्वोक्तेन ग्रन्थेन तृतीयानां हकारस्य नादवत्त्वमुक्तम्। ये सोष्माणो "नादवन्तश्च" इति। सोष्मत्वं हकारस्य "शादय ऊष्माणः" (आ।शि।१।४।८) इत्यनेनाख्यातम्,चतुर्थानां तु "हकारेण चतुर्थाः" (आ।शि। १।४।१) इत्यनेन नादवत्त्वम्, उभयेषां वर्गाणां तृतीयचतुर्था इत्यादिनैव पूर्वोक्तेन।
बाल-मनोरमा
स्थानेऽन्तरतमः ४१, १।१।४९

स्थानेऽन्तरतमः। "स्थानं प्रसङ्ग" इत्युक्तम्। अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरोऽन्तरतमः। तदाह--प्रसङ्गे सतीत्यादिना। एकस्य स्थानिनोऽनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः। अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम्। गुणशब्देन प्रयत्नः। प्रमाणशब्देन एकद्विमात्रादिपरिमाणम्। तत्र स्थानतो यथा--दध्यत्र। तालुस्थानकस्य इकारस्य तालुस्थानको यकारः। अर्थतो यथा--तृज्वत्क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्नर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति। गुणतो यथा--वाग्घरिः। अत्र हकारः स्थानी घोषनादसंवारमहाप्राणप्रयत्नवान्। तस्य गकारसवर्णो भवंश्चतुर्थो घकारो भवति, तस्य हकारेण स्थानिना घोषनादसंवारमहाप्राणप्रयत्नसाम्यात्। ककारस्तु न भवति, तस्य ()आआसाऽघोषविवाराल्पप्राणप्रयत्नकत्वात्। तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि ()आआसाऽघोषविवारप्रयत्नभेदात्। तथा तृतीयो।ञपि गकारो न भवति, तस्य घोषनादसंवारप्रयत्नसाम्येऽपि निना हकारेण ()आआसाऽघोषविवारप्रयत्नबेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्त्वात् , तथा तृतीयो वा गकारः कुतो न स्यात्, तस्य स्थानिना हकारेण अल्पप्राणप्रयत्नभेदेऽपि घोषनादसंवारप्रयत्नसाम्यसत्त्वात्। अत एव ङकारो वा कुतो न स्यादिति चेन्न ,तमब्ग्रहणेन उक्तातिप्रसङ्गनिरासात्। अतिशयितो ह्रन्तरोऽन्तरतमः। अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनादसंवारमहाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्त्वात्। खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसंवारप्रयत्नविरहात्। गङयोः घोषनादसंवारप्रयत्नसाम्येऽपि महाप्राणप्रयत्नविरहात्। प्रमाणतो यथा--"अदसोऽसोर्दादुदोमः" इति। ह्यस्वस्य उकारो दीर्घस्य ऊकारः। नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च सार्वाधातुकार्धधातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह--यत्रेति। तेन इकारस्य एकार उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात्, न त्वकारः, स्थानभेदात्। नच इकारेण एकारस्य, उकारेण ओकारस्य कथं स्थानसाम्यम्। एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्यपरीक्षायां कथञ्चित्स्थानसाम्यस्यैव प्रयोजकत्वात्। अत्र सूत्रे पूर्वसूत्रात्स्थानेग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात्। तृतीयान्तं च विपरिणम्यते। अनुवर्त्त्यमानस्चायं "स्थान"शब्दः पूर्वंसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्तयतमस्थानपरः, शब्दाधिकाराश्रयणात्। "अन्तरतम" इत्यपि तेन संबध्यते। ततश्च "स्थानेनाऽन्तरतम" इति वाक्यान्तरं संपद्यते। सति संभवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः। ततश्च "यत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीय" इति (सिद्धं) भवति।

तत्त्व-बोधिनी
स्थानेऽन्तरतमः ३५, १।१।४९

स्थाने। सदृशतम इति। अर्थात्प्राप्यमाणानां मध्ये एव। अत एव "गङ्गोदक"मित्यत्र त्रिमात्र ओकारो न। इह "स्थाने" इत्यनुवर्तमाने पुनःस्थाने ग्रहणादन्योऽपि वाक्यार्थः संमतः, "ताल्वादिरूपे स्थाने योऽन्तरतमः, तत्प्रयुक्तान्तर्यवानिति यावत्। स तु प्राप्यमाणानां मध्ये स्या"दिति।

तदेतदाह-यत्रानेकविधमिति। स्थानार्थगुणप्रमाणतश्चतुर्विधमित्यर्थः। स्थानतो यथा-दध्यत्र। तालुस्थानस्येकारस्य तालुस्थानो यकारः। अर्थतो यथा-वातण्ड()युवतिः। वतण्डशब्दात् "वतण्डाच्चे"ति गोत्रापत्ये यञ्। तस्य "लुक् स्त्रिया"मिति लुक्। शाङ्र्गरवादित्वान्ङीन्। वतण्डी चासौ युवतिश्चेति विग्रहे "पोटायुवती"त्यादिना समासः। "पुंवत्कर्मधारयेत्यतिदिश्यमानःपुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाचीवातण्ड()शब्दो भवति, न तु वतण्डादिः। गुणतो यथा वाग्घरिः। घोषवतो नादवतो महाप्राणस्य तादृश एव घकारः। प्रमाणतो यथा-अमुम् अमू अमून्। "अदसोऽसे"-रित्यनेन ह्यस्वस्य ह्यस्वो दीर्घस्य दीर्घ उकारः। तमब्ग्रहणं किम्? "वाग्घरि"रित्यत्र "झयो होऽन्यतरस्या"मिति पूर्वसवर्णे क्रियमाणे महाप्राणत्वसाम्येन द्वितीयो, नादवत्त्वसाम्येन तृतीयश्च मा भूत्। किंतु महाप्राणाश्चतुर्थो घ एव यथा स्यादिति। बलीय इति। तेन "चेता" "स्तोते"त्यत्र प्रमाणत आन्तर्यवानकारो नेति भावः।