पूर्वम्: १।१।५८
अनन्तरम्: १।१।६०
 
प्रथमावृत्तिः

सूत्रम्॥ अदर्शनं लोपः॥ १।१।५९

पदच्छेदः॥ अदर्शनम् १।१ ६० लोपः १।१ इति १।१ ४३

समासः॥

न दर्शनम् अदर्शनम्, नञ्-तत्पुरुषः

अर्थः॥

इति इत्येतत् पदं {न वेति विभाषा १।१।४३} इत्यतः मण्डूक-प्लुत-गत्या अनुवर्तते॥
यत् भूत्वा न भवति, तत् अदर्शनम् = अनुपलब्धिः वर्णविनाशः तस्य लोपः इति संज्ञा भवति, अर्थात् प्रसक्तस्य अदर्शनं लोपसंज्ञकं भवति

उदाहरणम्॥

शालीयः। गौधेरः। पचेरन्। जीरदानुः। आस्रेमाणम्॥
काशिका-वृत्तिः
अदर्शनं लोपः १।१।६०

अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम्। एतैः शब्दैर्यो ऽर्थो ऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति। अर्थस्यैयं संज्ञा, न शब्दस्य। प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति। गोधाया ढ्रक् ४।१।१२९ गौधेरः। पचेरन्। जीवे रदानुक् जीरदानुः। स्त्रिवेर्मनिनास्रेमाणम्। यकारवकारयोरदर्शनम् इह उदाहरणम्। अपरस्य अनुबन्धादेः प्रसक्तस्य। लोपप्रदेशाःलोपो व्योर् वलि ६।१।६४ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अदर्शनं लोपः २, १।१।५९

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।
न्यासः
अदर्शनं लोपः , १।१।५९

"अदर्शनम्" इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्रश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत् किमित्येवमाह-- "अनर्थान्तरम्" इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद् विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामथ्र्याद् विशेषे शब्दानुपलब्धावेव वत्र्तेते। इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य "लोपः" इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह-- "एतैः शब्दैः" इत्यादि। कथं पुरेतल्लभ्यते? एवं मन्यते-- "नवेति विभाषा" १।१।४३ इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवत्र्तते। तेन ह्रवधारणं गम्यते, यथा--- "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा-- "तरप्तमपौ घः" १।१।२१ इत्यत्र। तस्मादिति- करणानुवृत्तिसामथ्र्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य। किञ्च "लोपः" महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्, किं तर्हि? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तह्र्रर्थस्यैवैषा संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च "त्रपुजतु" इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एवञ्च सति "प्रत्ययलोपे प्रत्यय- लक्षणम्" १।१।६१ इति ह्यस्वस्य पिति कृति तुक्" ६।१।६९ इति तुक् प्रसज्यत इत्यत आह-- "प्रसक्तस्य" इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा? न किं तर्हि? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण क्विप्प्रसङ्गोऽस्ति, तत्कुतोऽस्तिप्रसङ्गः? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति, नापि तत् कृतम्? एवं मन्यते-- "स्थानिवत्" इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः-- इति पर्याया ह्रेते। तेनायमर्थो लभ्यते-- प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति। "गौधेरः" इति। "गोधाया ढ्रक्" ४।१।१२९ एयादेशः, "लोपो व्योर्वलि" ६।१।७३ इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। "पचेरन" इत्यत्रापि सीयुटः शारुओण। एवम- न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। "जीरदानुः" "आस्त्रेमाणम्" इति। पूर्वपद् वकारस्य लोपः। "स्त्रिवु गतिशोषणयोः" (धा।पा। ११०९) यस्य "सर्वधातुभ्यो मनिन्" इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते "आरुओमाणम्" इति। "अपरस्यानुबन्धादेः" इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।
बाल-मनोरमा
अदर्शनं लोपः ५५, १।१।५९

सुद् ध् य् इत्यत्र यकारस्य संयोगान्तलोपं शङ्कितुं लोपसंज्ञासूत्रमाह--अदर्शनं लोपः। शब्दानुशासनप्रस्तावाच्छब्दविषयकश्रवणंमिह दर्शनं विवक्षितम्। दर्शनस्याभावोऽदर्शनम्। अर्थाभावेऽव्ययीभावः। "स्थानेऽन्तरतमः" इत्यतः स्थां इत्यनुवर्तते। स्थानं प्रसङ्ग इत्युक्तम्। शास्त्रतः शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदश्रवणं तल्लोपसंज्ञं भवतीत्यर्थः।

तत्त्व-बोधिनी
अदर्शनं लोपः ४७, १।१।५९

अदर्शनं लोपः। अत्र दृशिज्र्ञानसामान्यवचनः। दर्शनं ज्ञानं। तदिह शब्दानुशासनप्रस्तावाच्छब्दविषयकं सच्छ्रवणं संपद्यते। तच् श्रोतृव्यापारः, तन्निषेधोऽश्रवणम्। नन्वेवं "लोपो व्योर्वली"त्यादौ वकारयकारौ न श्रोतव्याविति श्रोतृव्यापार एव निषिध्येत, प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात्। अत्राहुः-असति च श्रवणे उच्चारणमनर्थकमवेति सामथ्र्याच्छ्रवणनिषेधे तद्धेतुभूतमुच्चारणमपि निषिद्धं भवतीति। प्रसक्तस्येति। इह "स्थाने" इत्यनुवर्तनादेताल्लभ्यते। प्रसक्तस्येति किम्? दधि मध्वित्यादौ तुगागमो मा भूत्। अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति दिक्।